०७ आश्विनग्रहः

गायत्री । सोमऋषिः


भास्करोक्त-विनियोगः

1पुनरप्याश्विनग्रहणमन्त्रः - प्रातर्युजाविति गायत्री त्रिपदा । पूर्वेण सहास्य विकल्पः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

+++(आश्विनशस्त्रादिभिः)+++ प्रा॒त॒र्-युजौ॒ वि मु॑च्येथा॒म्
अश्वि॑ना॒व् एह ग॑च्छतम्
अ॒स्य सोम॑स्य पी॒तये॑ ॥

सर्वाष् टीकाः ...{Loading}...

Keith

Ye that yoke early be unloosed
O Aśvins, come ye hither,
To drink this Soma.

मूलम्

प्रा॒त॒र्युजौ॒ वि मु॑च्येथा॒मश्वि॑ना॒वेह ग॑च्छतम् ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥

भट्टभास्कर-टीका

हे अश्विनौ यौ युवां प्रातर्-युजौ प्रातर्-योक्तारौ तौ विमुच्येथाम् यजमानान्तरैर् विमुक्तौ भवतं अन्य-यजमानान् विहाय इहास्मिन्कर्मण्य् आगच्छतम् । किमर्थम् ? - अस्य सोमस्य पीतये पानाय । ‘क्तिच्कौ च संज्ञायाम्’ इति क्तिच्, पानविशेषस्य संज्ञात्वात् ॥


भास्करोक्त-विनियोगः

इत्यनुद्रुत्योपयामगृहीतोस्यश्विभ्यां त्वेति गृह्णाति ॥

उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः

उ॒प॒या॒म-गृ॑हीतो ऽसि।

Keith

Thou art taken with a support/ foundation.

मूलम्

उ॒प॒या॒मगृ॑हीतोऽसि।

भट्टभास्कर-टीका

उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।

ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥


उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।

विश्वास-प्रस्तुतिः

अ॒श्विभ्या॑न्त्वा ।

Keith

to the Aśvins thee!

मूलम्

अ॒श्विभ्या॑न्त्वा ।


भास्करोक्त-विनियोगः

2एष ते योनिरश्विभ्यां त्वेति सादयति ॥

विश्वास-प्रस्तुतिः

ए॒ष ते॒ योनि॑र्, अ॒श्विभ्या॑न् त्वा ॥ [8]

Keith

This is thy birthplace; to the Aśvins thee!

मूलम्

ए॒ष ते॒ योनि॑र॒श्विभ्या॑न्त्वा ॥ [8]

इति चतुर्थे सप्तमोनुवाकः ॥