०३ अन्तर्यामग्रहः

सोमऋषिः


भास्करोक्त-विनियोगः

1उदित आदित्ये ऽन्तर्यामं गृह्णाति अतिधारया पवमानस्य राज्ञः - उपयामगृहीतोसि ॥

उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः

उ॒प॒या॒म-गृ॑हीतो ऽसि।

Keith

Thou art taken with a support/ foundation.

मूलम्

उ॒प॒या॒मगृ॑हीतोऽसि।

भट्टभास्कर-टीका

उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।

ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥


उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।


भास्करोक्त-विनियोगः

2सम्प्रति सोमस्य स्वामिनं प्रार्थयते - ‘अन्तर्यच्छ’ इत्यादिकयाऽष्ट्या षट्पदया । ‘अन्तरुर्वन्तरिक्षम्’ इति चतुर्थः पादः, अन्य एकादशाक्षराः ।

मूलम् (संयुक्तम्)

अ॒न्तर्य॑च्छ मघवन्पा॒हि सोम॑मुरु॒ष्य राय॒स्समिषो॑ यजस्वा॒न्तस्ते॑ दधामि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्षँ स॒जोषा॑ दे॒वैरव॑रै॒ᳶ परै॑श्चान्तर्या॒मे म॑घवन्मादयस्व

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒न्तर् य॑च्छ मघवन् पा॒हि++(=पिब)+++ सोम॑म्
उरु॒ष्य+++(=रक्ष)+++ राय॒स्, सम् इषो॑ यजस्व +++(यजमानं प्रति)+++।

अ॒न्तस् ते॑ दधामि॒ द्यावा॑पृथि॒वी ..
अ॒न्तर् उ॒र्व् अ॑न्तरि॑क्षम् ॥

स॒जोषा॑ दे॒वैर् अव॑रै॒ᳶ परै॑श् च+
+अन्तर्या॒मे +++(ग्रहे)+++ म॑घवन् मादयस्व

सर्वाष् टीकाः ...{Loading}...

Keith

O bounteous one, restrain (it), protect Soma,
guard wealth, win food by sacrifice,
I place within thee sky and earth,
within thee the broad atmosphere;
in unison with the gods, the lower and the higher,
O bounteous one, do thou rejoice in the Antaryama (cup).

मूलम्

अ॒न्तर्य॑च्छ मघवन्पा॒हि सोम॑म् ..
उरु॒ष्य राय॒स्समिषो॑ यजस्व ।
अ॒न्तस्ते॑ दधामि॒ द्यावा॑पृथि॒वी ..
अ॒न्तरु॒र्व॑न्तरि॑क्षम् ॥
स॒जोषा॑ दे॒वैरव॑रै॒ᳶ परै॑श्चान्त॒र्या॒मे म॑घवन् मादयस्व

भट्टभास्कर-टीका

ननु पुरस्ताद् उपयामत्वाद् यजुषानेन भवितव्यम्, यथा ‘पुरस्तादुपयामा यजुषा गृह्यन्ते’ इति । नैवम् ; वृत्तिसंयोगाद् ऋचैवानया भवितव्यम् ।
किञ्च पुरस्तादुपयामाम्नानमेवास्य ऋक्त्वे लिङ्गम् ; तथा हि - ‘ये यजुषा गृह्यन्ते ते पुरस्तादुपयामाः कार्याः’ इति वचनप्राप्तत्वादेव पुरस्ताद् उपयामस्य पाठो ऽनर्थकस् स्यात् । ऋक्त्वे तु ‘ये ऋचा गृह्यन्ते ते उपरिष्तादुपयामाः कार्याः’ इति प्राप्ते तदपवादत्वेन पुरस्तादुपयामस्य पाठो युज्यते ।
एष एव न्यायः ‘उपयामगृहीतोसीन्द्राय त्वा बृहद्वते’ इत्यत्रापि । ‘आ वायो भूष शुचिपाः’ इत्यादय ऋच उपरिष्टादुपयामाः पठ्यन्ते । ऋचामेव हि पुरस्तादुपरिष्टाद्वा उपयामः पठ्यते ; यजूंषि पुनः निरुपयामान्येव पठ्यन्ते ‘सुशर्मासि’ इत्यादीनि । तेषां तु वचनप्राप्तं पुरस्तादुपयामतम् । तत्रापि क्वचिदपवादत्वेन उपरिष्टादुपयामत्वमारभ्यते, ‘मधुश्च माधवश्च’ इत्यादौ ।
अन्ये तु - तान्यपि पुरस्तादुपयामान्येवेत्याहुः यथा - ‘उपयामगृहीतोसि’ इति ‘मधुश्च’ इत्यादि ॥

मन्त्रार्थस् तूच्यते -
हे मघवन् धनवन् इन्द्र, सोमेन धनेनान्नेन वा, इमं गृह्यमाणं सोमं, होमकाले सूर्यात्मना स्थित्वा, पाहि पिब, पीत्वा चान्तर् उदरस्य मध्ये यच्छ स्थापय । पिबतेर्लोटि ‘बहुलं छन्दसि’ इति शपो लुक्, वाक्यादित्वान्न निहन्यते ।

एवम् उरुष्य रक्ष रायः धनानि च यजमानस्य स्वभूतानि । छान्दसः कण्ड्वादियगन्तः उरुष्यतिः । किञ्च, इषः अन्नानि संयजस्व सम्यक् सङ्गमय, देहि वा यजमानाय । यद्वा - इषः प्रजा एषणीयत्वात्, तास्सम्यग्याजय यथा यजनशीला भवन्ति तथा कुरु । अन्तर्भावितण्यर्थोत्र यजिः, णिलुग्वा ‘बहुलं संज्ञाच्छन्दसोः’ इति ।

किञ्च ते तव प्रसादादहं द्यावापृथिवी द्यावापृथिव्यौ उरु चान्तरिक्षं अनेन ग्रहेणान्तर्दधामि अन्तर्हिर्तं करोमि भ्रातृव्याणाम्, यथा भ्रातृव्यैरदृश्यमाना एषु लोकेषु यजेम । यद्वा - भ्रातृव्याणामस्माकं च मध्ये इमान् लोकान्दधामि एभ्यो लोकेभ्यस्स्तानपसारयामीत्यर्थः । यद्वा - द्युप्रभृतिभिश्शब्दैस्तत्स्था भ्रातृव्या उच्यन्ते, तानन्तर्दधामि अन्तरितान्करोमि नाशयामीत्यर्थः । ‘एभिरेव लोकैर्यजमानो भ्रातृव्यानन्तर्धत्ते’ इति ब्राह्मणम् ।
यद्वा - द्युप्रभृतीन् लोकान् मदीयेन तेजसान्तर्दधामि छादयामि यथा हमेवेदं सर्वं स्यां, यथान्तर्यामेण सर्वमन्तर्धाय त्वमेव सर्वमभूः ।

यथा ‘ते देवा अमन्यन्तेन्द्रो वा इदमभूद्यद्वयँस्म इति तेब्रुवन्मघवन्ननु न आ भज’ इति ; इन्द्र एवेदं सवर्मभूत्, यद्वयमपि भवितुमिच्छामः ; तस्मान्मघवन्नस्मानाभज विभक्तान्कुर्विति तेब्रुवन् देवाः ; मघवांस्तानपि ये चैव देवाः परे उपरिस्थिताः उत्तमाः ये चावरे अधस्स्थिता निकृष्टास्तानुभयानन्वाभजत् विभक्तानकरोदिति ।
तदिदमाह – अवरैः परैश्च देवैस्सजोषाः सहप्रीयमाणः सेवमानो वा । ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम् । अन्तर्यामे हूयमाने, मघवन् मादयस्व तर्पयस्व यज्ञात्मना स्थितमात्मानं द्विप्रकारांश्च देवान् न केवलमात्मानमेव । ‘यज्ञादेव यजमानं नान्तरेति’ इति ब्राह्मणम् । ‘देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा उपांशौ यज्ञं सँस्थाप्यमपश्यन्’ इत्यादि ब्राह्मणम् । ‘यदुभावपवित्रौ गृह्येयाताम्’ इत्यादि च ।
केचिदाहुः - हे मघवन् सोममिममन्तर्यच्छ तस्याधोदेशे निधाय तिरोहितं कुरु । तथा च कृत्वा पाहि रक्ष यथा न मे भ्रातृव्याः पश्येयुः । ‘उरुष्य रायः’ इत्यादि पूर्ववत् ॥


भास्करोक्त-विनियोगः

3स्वां कृतोसीति ग्रहमादत्ते ॥

स्वाङ्कृतोऽसि ...{Loading}...
विश्वास-प्रस्तुतिः

स्वाङ्-कृ॑तोऽसि।

Keith

Thou art he who is appropriated;

मूलम्

स्वाङ्कृ॑तोऽसि।

भट्टभास्कर-टीका

स्वीकृतोसीत्यर्थः । अस्वस्स्वो भवतीति स्वाम्, च्विः, ईत्वापवाद आम्भावश्छान्दसः । ‘ऊर्यादिच्विडाचश्च’ इति गतित्वात् ‘गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘प्राणमेव स्वमकृत’ इति ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

‘5ग्रहमवेक्षते - मधुमतीरिति ॥ '

विश्वास-प्रस्तुतिः

मधु॑मतीर् न॒ इष॑स् कृधि ।

Keith

make our food full of sweetness for us;

मूलम्

मधु॑मतीर्न॒ इष॑स्कृधि ।

भट्टभास्कर-टीका

5ग्रहमवेक्षते - मधुमतीरिति ॥ मधुमत्यः मधुररसाः इषः अन्नानि नः अस्माकं कृधि कुरु । मधुमतीः कुर्विति वा । प्राणात्मना ग्रह उच्यते, ‘प्राणो वा एष यदुपांशुः’ इति चाभेदं प्रतिपादयति । ‘सर्वमेवास्मा इदं स्वदयति’ इति ब्राह्मणम् । करोतेर्लोटि ‘बहुलं छन्दसि’ इति शपो लुक् । ’ श्रुश्रुणुपॄकृवृभ्यश्छन्दसि’ इति हेर्धिभावः । ‘कः करत्’ इत्यादिना विसर्जनीयस्य सत्वम् ॥


भास्करोक्त-विनियोगः

6एनम् ऊर्ध्वम् उन्मार्ष्टि - विश्वेभ्य इति ॥

विश्वास-प्रस्तुतिः

विश्वे॑भ्यस् त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्य॒ᳶ पार्थि॑वेभ्यः ।

Keith

to all the powers of sky

and earth thee!

मूलम्

विश्वे॑भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्य॒ᳶ पार्थि॑वेभ्यः ।

भट्टभास्कर-टीका

विश्वेभ्यः इन्द्रियेभ्य इन्द्रेणेश्वरेण सृष्टेभ्यः । ‘इन्द्रियमिन्द्रलिङ्गम्’ इत्यादौ निपात्यते । के पुनस्ते ? देवा मनुष्याश्च । ‘उभयेष्वेव देवमनुष्येषु प्राणान्दधाति’ इति ब्राह्मणम् । तानेवाह – दिव्येभ्यः पार्थिवेभ्य इति । दिवमर्हन्तीति दिव्याः । ‘छन्दसि च’ इति यत्प्रत्ययः । पृथिव्यां भवाः पार्थिवाः । ‘पृथिव्या ञाञौ’ इत्यञ्प्रत्ययः । एतेभ्यस्त्वामुपांशुग्रहं प्राणभूतमुन्मार्ज्मीति शेषः । एतेषां प्राणस्थित्यर्थं, यदाह ‘उभयेष्वेव देवमनुष्येषु प्राणान्दधाति’ इति । यद्वा - इन्द्रियशब्देन चक्षुरादीनामधिपतय आदित्यादय उच्यन्ते । तत्र दिव्यानि ज्ञानेन्द्रियाणि, पार्थिवानि कर्मेन्द्रियाणि, तदर्थं त्वामुन्मार्ज्मीति ॥


भास्करोक्त-विनियोगः

7तम् आदायोत्तिष्ठति - मनस्त्वाष्ट्विति ॥

विश्वास-प्रस्तुतिः

मन॑स् त्वा ऽष्टु+++(←अश्)+++।

Keith

May mind enter thee.

मूलम्

मन॑स्त्वाष्टु।

भट्टभास्कर-टीका

7तम् आदायोत्तिष्ठति - मनस्त्वाष्ट्विति ॥ मननधर्मा प्राणो मन इत्युच्यते । सूर्यार्त्मना हे ग्रह मनस् त्वा त्वाम् अष्टु अश्नुभ्यां व्याप्नोतु ।

अश्नोतेर्व्यत्ययेन परस्मैपदम्, ‘बहुलं छन्दसि’ इति शपो लुक्, व्रश्चादिना षत्वम् । ‘मनस्त्वाष्ट्वित्याह मन एवाश्नुते’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

8आहवनीयं प्रति गच्छति - उर्विति ॥ व्याख्यातम् । ‘अन्तरिक्षदेवत्यो हि प्राणः’ इत्यादि ब्राह्मणम् ॥

उर्वन्तरिक्षम् ...{Loading}...
भास्करोक्त-विनियोगः

16एति - उर्वन्तरिक्षमन्विहीति ॥ व्याख्यातमेव ।

विश्वास-प्रस्तुतिः

उ॒र्व् अ᳙न्तरि॑क्ष॒म् अन्वि॑हि ।
+++(महान् पन्थाः, सुखेन गच्छेति भावः ॥)+++

Keith

Fare along the wide atmosphere.

मूलम्

उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि ।

पद-पाठः

उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ ।

भट्टभास्कर-टीका

18प्रत्यागच्छति - उर्विति गायत्र्यैकपदया ॥ उरु विस्तीर्णमन्तरिक्षं अन्विहि अनुगच्छ । महान् पन्थाः, सुखेन गच्छेति भावः ॥

भट्टभास्कर-टीका

16एति - उर्वन्तरिक्षमन्विहीति ॥ व्याख्यातमेव । हे वपे उत्खेदनविबाधिते अधुना महान्तमन्तरिक्षाख्यं पन्थानं अनुगच्छेति विशेषः । ‘क्रूरमिव वा एतत्करोति यद्वपामुत्खिदति’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

9जुहोति - स्वाहा त्वेति ॥

विश्वास-प्रस्तुतिः

स्वाहा॑ त्वा सुभव॒स्! सूर्या॑य

Keith

Hail! Thee, of kindly nature, to the sun!

मूलम्

स्वाहा॑ त्वा सुभव॒स्सूर्या॑य

भट्टभास्कर-टीका

हे ग्रह उपांशो त्वा त्वां स्वाहा स्वाहुतं करोमीति शेषः । हे सुभवः हे प्राणात्मक, उक्तं हि - ‘प्राणो वा एष यदुपांशुः’ इति । तत्र स्वस्मादात्मनो जाताः स्वभवसः प्राणाः । ‘गतिकारकयोरपि’ इति भवतेरसुन् । ‘प्राणा वै स्वभवसो देवाः’ ` इति च ब्राह्मणम् । तत्र स्वभवसो देवान् सुभव इत्याचष्टे परोक्षत्वाय । ‘तेष्वेव परोक्षं जुहोति’ इत्यादि ब्राह्माणम् । तत्र पूर्वपदस्य सम्प्रसारणं, उत्तरपदस्य विभक्तिव्यत्ययः कृतः । सूर्याय प्राणानामात्मभूताय त्वां स्वाहुतं करोमीति ॥


भास्करोक्त-विनियोगः

10ग्रहलेपं पाणिना मध्यमे परिधौ निमार्ष्टि - देवेभ्यस्त्वेति ॥

विश्वास-प्रस्तुतिः

दे॒वेभ्य॑स् त्वा मरीचि॒पेभ्यः॑।

Keith

To the gods that drink the rays thee

मूलम्

दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्यः॑।

भट्टभास्कर-टीका

मरीचिशब्देन मरीचिमान् सूर्य उच्यते, यस्मै ग्रहः पूर्वं हुतः । ‘लुगकारेकाररेफाश्च’ इति मत्वर्थीयस्य लुक् । साहचर्याद्वोच्यते । मरीचिमत्सूर्यमण्डलं पान्ति रक्षन्तीति मरीचिपाः रश्मयः । ‘आदित्यस्य वै रश्मयो देवा मरीचिपाः’ इति ब्राह्मणम् । यद्वा - आदित्यस्य् मरीचिनैव विश्वं पान्ति तामेव पिबन्तीति वा मरीचिपाः देवविशेषाः । ‘आदित्यस्व वै रश्मयः’ इति च गुणभूतत्वमुच्यते । आदित्यस्य रश्मिस्थानीया इति यावत् । तेभ्यो देवेभ्यस्त्वां ग्रहलेपं निमार्ज्मीति शेषः ॥


भास्करोक्त-विनियोगः

11आग्रयणस्थाल्याः ग्रहस्य संस्रावम् अपनयति - एष ते योनिरिति ॥

विश्वास-प्रस्तुतिः

ए॒ष ते॒ योनिः॑ ।

Keith

This is thy birthplace;

मूलम्

ए॒ष ते॒ योनिः॑ ।

भट्टभास्कर-टीका

हे उपांशुसंस्राव एष आग्रयणस्थाल्याख्यस्ते तव योनिः स्थानम्, यत्र निहितस्त्वं यागसिद्ध्यै सम्पत्स्यसे । अतस्तं प्रविशेति शेषः ॥

विश्वास-प्रस्तुतिः

अ॒पा॒नाय॑ त्वा ॥ [4]

Keith

to inspiration thee!

मूलम्

अ॒पा॒नाय॑ त्वा ॥ [4]

भट्टभास्कर-टीका

11उत्तरत उपांशुसवनेन संस्पृष्टं सादयति - अपानाय त्वेति ॥ व्याख्याता मन्त्राः ॥

इति चतुर्थे तृतीयः ॥