ग्रहग्रहणासादनादिमन्त्राः
सोमऋषिः
भास्करोक्त-विनियोगः
1उपांशुग्रहं गृह्णाति । ‘प्राणो वा एष यदुपांशुः’ इत्यादि ब्राह्मणम् ।
अयं च त्रिर्हस्तेन गृह्यते । ’ ब्रह्मवादिनो वदन्ति कस्मात्सत्यात्त्रयः पशूनां हस्तादानाः’ इत्यादि ब्राह्मणम् ।
तत्र प्रथमम् अष्टकृत्वो ऽभिषुतं प्रथमाभ्याम् अंशुभ्याम् अन्तर्धाय उपांशुं गृह्णाति - वाचस्पतय इति ॥
विश्वास-प्रस्तुतिः
वा॒चस्पत॑ये पवस्व वाजिन् ।
Keith
Be pure for the lord of speech, O strong one;
मूलम्
वा॒चस्पत॑ये पवस्व वाजिन् ।
भट्टभास्कर-टीका
वाचस्पतिः प्राणः, वाचः प्रापकत्वात् । ‘षष्ठ्याः पतिपुत्र’ इति विसर्जनीयस्य सत्वम् । वाचस्पतय इति ‘सावेकाचः’ इति षष्ठ्या उदात्तत्वम् । तदर्थं हे सोम पवस्व आभ्यामंशुभ्यामात्मानं शोधय । हे वाजिन् वेगवन् निस्सरणे । यद्वा - अन्नवन् यागद्वारेण । ‘अरुणो ह स्माहौपवेशः’ इत्यारभ्य ‘प्रातस्सवनमेव तेनाप्नोति’ इति ब्राह्मणम्, ‘ब्रह्मवादिनो वदन्ति पवित्रवन्तोन्ये ग्रहा गृह्यन्ते’ इत्यारभ्य ‘वाचैवैनं पवयति’ इत्यन्तं च, ‘षड्भिरंशुभिः पवयति’ इत्यादि च ॥
भास्करोक्त-विनियोगः
2एकादशकृत्वोभिषुतं मध्यमाभ्याम् अन्तर्धाय द्वितीयं गृह्णाति- वृषा वृष्ण इति ॥
विश्वास-प्रस्तुतिः
वृषा॒ वृष्णो॑ अँ॒शुभ्या॒ङ्+++(=काण्डाभ्यां)+++ गभ॑स्ति+++(=बाहु|किरण)+++-पूतः ।
Keith
male, purified by the arms
with the shoots of the male;
मूलम्
वृषा॒ वृष्णो॑ अँ॒शुभ्या॒ङ्गभ॑स्तिपूतः ।
भट्टभास्कर-टीका
हे सोम वृषा वर्षिता उत्पादकस्त्वमभीष्टानाम् । ‘कनिन्युवृषि’ इत्यादिना कनिन्प्रत्ययः । स एवं वृष्णस् तवैवांशुभ्यां पवस्वात्मानं गभस्तिपूतः गभस्तिभिर् अंशुभिः पूर्वमेव पूतश्शोधितस्सन् इदानीमंशुभ्यां पवस्वेति । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘वृष्णो ह्येतावंशू’ इत्यादि ब्राह्मणम् , ‘एकादशकृत्वो द्वितीयम्’ इत्यादि च ॥
भास्करोक्त-विनियोगः
3द्वादश-कृत्वो ऽभिषुतम् उत्तमाभ्याम् अन्तर्धाय तृतीयं गृह्णाति - देवो देवानामिति ॥
विश्वास-प्रस्तुतिः
दे॒वो दे॒वाना॑म् प॒वित्र॑म् असि;
येषा॑म् भा॒गो ऽसि॒, तेभ्य॑स् त्वा +++(गृण्हामि)+++ ।
Keith
thou art the god purifier of gods; to those thee whose portion thou art!
मूलम्
दे॒वो दे॒वाना॑म्प॒वित्र॑मसि …
येषा॑म्भा॒गोऽसि॒ तेभ्य॑स्त्वा +++(गृण्हामि)+++ ।
भट्टभास्कर-टीका
हे सोम देवो देवनादिगुणयुक्तस्त्वं देवानां पावित्रं पावनकारणमसि । ‘पुवस्संज्ञायां’ इतीत्रप्रत्ययः । त्वं हि देव एव सन् देवानां पवित्रमसीति भावः । केषाम्? येषां त्वं देवानां भागोसि तेषां पवित्रमसि । भज्यत इति भागः, कर्मणि घञ्, ‘कर्षात्त्वतः’ इत्यन्तोदात्तत्वम् । तस्मात्तेभ्यस्त्वां गृह्णामीति शेषः । त्वं चाभ्यामंशुभ्यां पवस्वात्मानमिति सम्बध्यते । ‘देवो ह्येष सन् देवानां पवित्रम्’ इत्यादि ब्राह्मणम् । ‘द्वादशकृत्वस्तृतीयं’ इत्यादि च ॥
भास्करोक्त-विनियोगः
4प्रतिप्रस्थातुर् हस्ताद् ग्रहम् आदत्ते - स्वां कृतोसीति ॥
स्वाङ्कृतोऽसि ...{Loading}...
विश्वास-प्रस्तुतिः
स्वाङ्-कृ॑तोऽसि।
Keith
Thou art he who is appropriated;
मूलम्
स्वाङ्कृ॑तोऽसि।
भट्टभास्कर-टीका
स्वीकृतोसीत्यर्थः । अस्वस्स्वो भवतीति स्वाम्, च्विः, ईत्वापवाद आम्भावश्छान्दसः । ‘ऊर्यादिच्विडाचश्च’ इति गतित्वात् ‘गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘प्राणमेव स्वमकृत’ इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
‘5ग्रहमवेक्षते - मधुमतीरिति ॥ '
विश्वास-प्रस्तुतिः
मधु॑मतीर् न॒ इष॑स् कृधि ।
Keith
make our food full of sweetness for us;
मूलम्
मधु॑मतीर्न॒ इष॑स्कृधि ।
भट्टभास्कर-टीका
5ग्रहमवेक्षते - मधुमतीरिति ॥ मधुमत्यः मधुररसाः इषः अन्नानि नः अस्माकं कृधि कुरु । मधुमतीः कुर्विति वा । प्राणात्मना ग्रह उच्यते, ‘प्राणो वा एष यदुपांशुः’ इति चाभेदं प्रतिपादयति । ‘सर्वमेवास्मा इदं स्वदयति’ इति ब्राह्मणम् । करोतेर्लोटि ‘बहुलं छन्दसि’ इति शपो लुक् । ’ श्रुश्रुणुपॄकृवृभ्यश्छन्दसि’ इति हेर्धिभावः । ‘कः करत्’ इत्यादिना विसर्जनीयस्य सत्वम् ॥
भास्करोक्त-विनियोगः
6एनम् ऊर्ध्वम् उन्मार्ष्टि - विश्वेभ्य इति ॥
विश्वास-प्रस्तुतिः
विश्वे॑भ्यस् त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्य॒ᳶ पार्थि॑वेभ्यः ।
Keith
to all the powers of sky
and earth thee!
मूलम्
विश्वे॑भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्य॒ᳶ पार्थि॑वेभ्यः ।
भट्टभास्कर-टीका
विश्वेभ्यः इन्द्रियेभ्य इन्द्रेणेश्वरेण सृष्टेभ्यः । ‘इन्द्रियमिन्द्रलिङ्गम्’ इत्यादौ निपात्यते । के पुनस्ते ? देवा मनुष्याश्च । ‘उभयेष्वेव देवमनुष्येषु प्राणान्दधाति’ इति ब्राह्मणम् । तानेवाह – दिव्येभ्यः पार्थिवेभ्य इति । दिवमर्हन्तीति दिव्याः । ‘छन्दसि च’ इति यत्प्रत्ययः । पृथिव्यां भवाः पार्थिवाः । ‘पृथिव्या ञाञौ’ इत्यञ्प्रत्ययः । एतेभ्यस्त्वामुपांशुग्रहं प्राणभूतमुन्मार्ज्मीति शेषः । एतेषां प्राणस्थित्यर्थं, यदाह ‘उभयेष्वेव देवमनुष्येषु प्राणान्दधाति’ इति । यद्वा - इन्द्रियशब्देन चक्षुरादीनामधिपतय आदित्यादय उच्यन्ते । तत्र दिव्यानि ज्ञानेन्द्रियाणि, पार्थिवानि कर्मेन्द्रियाणि, तदर्थं त्वामुन्मार्ज्मीति ॥
भास्करोक्त-विनियोगः
7तम् आदायोत्तिष्ठति - मनस्त्वाष्ट्विति ॥
विश्वास-प्रस्तुतिः
मन॑स् त्वा ऽष्टु+++(←अश्)+++।
Keith
May mind enter thee.
मूलम्
मन॑स्त्वाष्टु।
भट्टभास्कर-टीका
7तम् आदायोत्तिष्ठति - मनस्त्वाष्ट्विति ॥ मननधर्मा प्राणो मन इत्युच्यते । सूर्यार्त्मना हे ग्रह मनस् त्वा त्वाम् अष्टु अश्नुभ्यां व्याप्नोतु ।
अश्नोतेर्व्यत्ययेन परस्मैपदम्, ‘बहुलं छन्दसि’ इति शपो लुक्, व्रश्चादिना षत्वम् । ‘मनस्त्वाष्ट्वित्याह मन एवाश्नुते’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
8आहवनीयं प्रति गच्छति - उर्विति ॥ व्याख्यातम् । ‘अन्तरिक्षदेवत्यो हि प्राणः’ इत्यादि ब्राह्मणम् ॥
उर्वन्तरिक्षम् ...{Loading}...
भास्करोक्त-विनियोगः
16एति - उर्वन्तरिक्षमन्विहीति ॥ व्याख्यातमेव ।
विश्वास-प्रस्तुतिः
उ॒र्व् अ᳙न्तरि॑क्ष॒म् अन्वि॑हि ।
+++(महान् पन्थाः, सुखेन गच्छेति भावः ॥)+++
Keith
Fare along the wide atmosphere.
मूलम्
उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि ।
पद-पाठः
उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ ।
भट्टभास्कर-टीका
18प्रत्यागच्छति - उर्विति गायत्र्यैकपदया ॥ उरु विस्तीर्णमन्तरिक्षं अन्विहि अनुगच्छ । महान् पन्थाः, सुखेन गच्छेति भावः ॥
भट्टभास्कर-टीका
16एति - उर्वन्तरिक्षमन्विहीति ॥ व्याख्यातमेव । हे वपे उत्खेदनविबाधिते अधुना महान्तमन्तरिक्षाख्यं पन्थानं अनुगच्छेति विशेषः । ‘क्रूरमिव वा एतत्करोति यद्वपामुत्खिदति’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
9जुहोति - स्वाहा त्वेति ॥
विश्वास-प्रस्तुतिः
स्वाहा॑ त्वा सुभव॒स्! सूर्या॑य
Keith
Hail! Thee, of kindly nature, to the sun!
मूलम्
स्वाहा॑ त्वा सुभव॒स्सूर्या॑य
भट्टभास्कर-टीका
हे ग्रह उपांशो त्वा त्वां स्वाहा स्वाहुतं करोमीति शेषः । हे सुभवः हे प्राणात्मक, उक्तं हि - ‘प्राणो वा एष यदुपांशुः’ इति । तत्र स्वस्मादात्मनो जाताः स्वभवसः प्राणाः । ‘गतिकारकयोरपि’ इति भवतेरसुन् । ‘प्राणा वै स्वभवसो देवाः’ ` इति च ब्राह्मणम् । तत्र स्वभवसो देवान् सुभव इत्याचष्टे परोक्षत्वाय । ‘तेष्वेव परोक्षं जुहोति’ इत्यादि ब्राह्माणम् । तत्र पूर्वपदस्य सम्प्रसारणं, उत्तरपदस्य विभक्तिव्यत्ययः कृतः । सूर्याय प्राणानामात्मभूताय त्वां स्वाहुतं करोमीति ॥
भास्करोक्त-विनियोगः
10ग्रहलेपं पाणिना मध्यमे परिधौ निमार्ष्टि - देवेभ्यस्त्वेति ॥
विश्वास-प्रस्तुतिः
दे॒वेभ्य॑स् त्वा मरीचि॒पेभ्यः॑।
Keith
To the gods that drink the rays thee
मूलम्
दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्यः॑।
भट्टभास्कर-टीका
मरीचिशब्देन मरीचिमान् सूर्य उच्यते, यस्मै ग्रहः पूर्वं हुतः । ‘लुगकारेकाररेफाश्च’ इति मत्वर्थीयस्य लुक् । साहचर्याद्वोच्यते । मरीचिमत्सूर्यमण्डलं पान्ति रक्षन्तीति मरीचिपाः रश्मयः । ‘आदित्यस्य वै रश्मयो देवा मरीचिपाः’ इति ब्राह्मणम् । यद्वा - आदित्यस्य् मरीचिनैव विश्वं पान्ति तामेव पिबन्तीति वा मरीचिपाः देवविशेषाः । ‘आदित्यस्व वै रश्मयः’ इति च गुणभूतत्वमुच्यते । आदित्यस्य रश्मिस्थानीया इति यावत् । तेभ्यो देवेभ्यस्त्वां ग्रहलेपं निमार्ज्मीति शेषः ॥
भास्करोक्त-विनियोगः
11आग्रयणस्थाल्याः ग्रहस्य संस्रावम् अपनयति - एष ते योनिरिति ॥
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनिः॑ ।
Keith
This is thy birthplace;
मूलम्
ए॒ष ते॒ योनिः॑ ।
भट्टभास्कर-टीका
हे उपांशुसंस्राव एष आग्रयणस्थाल्याख्यस्ते तव योनिः स्थानम्, यत्र निहितस्त्वं यागसिद्ध्यै सम्पत्स्यसे । अतस्तं प्रविशेति शेषः ॥
भास्करोक्त-विनियोगः
12उपांशुपात्रं दक्षिणत उपांशुसवनेन संस्पृष्टं सादयति - प्राणायत्वेति ॥
विश्वास-प्रस्तुतिः
प्रा॒णाय॑ त्वा ॥ [3]
Keith
to expiration thee!
मूलम्
प्रा॒णाय॑ त्वा ॥ [3]
भट्टभास्कर-टीका
प्राणार्थं त्वां सादयामीति शेषः । थाथादिस्वरेणान्तोदात्तः प्राणशब्दः । ‘प्राणापानौ वा एतौ यदुपांश्वन्तर्यामौ व्यान उपांशुसवनः’ इत्यादि ब्राह्मणम् , ‘सवर्मायुरेति’ इत्यन्तम् ॥
इति चतुर्थे द्वितीयः ॥