०१ सोमाभिषवः

(पात्रेषु रसग्रहणाय पूर्वम् उपावहृतस्य सोमस्याभिषवः)
सोमऋषिः


भास्करोक्त-विनियोगः

1अतः परं ग्रहकाण्डं सोमार्षेयम् । उपांशुसवनं ग्रावाणमादत्ते - आदद इति ॥

देवस्य त्वा सवितुः ...{Loading}...
विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॒॑+++(=अनुज्ञायां)+++,
+++(देवाध्वर्यू→)+++ ऽश्विनो॑र् बा॒हुभ्या॑म्,
पू॒ष्णो हस्ता॑भ्याम्…

Keith

On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्यां॒…

पद-पाठः

दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता॑भ्याम् ।

भट्टभास्कर-टीका

सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं

‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥


सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥


तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां

विश्वास-प्रस्तुतिः

आ द॑दे ।

Keith

I take thee.

मूलम्

आ द॑दे ।

भट्टभास्कर-टीका

1अतः परं ग्रहकाण्डं सोमार्षेयम् । उपांशुसवनं ग्रावाणमादत्ते - आदद इति ॥ ग्रावाणमिति शेषः । ‘देवस्य त्वा’ इति सावित्रोस्य शेषो व्याख्यात एव । ‘देवस्य त्वा सवितुः प्रसव इति ग्रावाणमा दत्ते प्रसूत्यै’ इत्यादि ब्राह्मणम् । ‘पशवो वै सोमो व्यान उपांशुसवनः’ इत्यादि च ॥


भास्करोक्त-विनियोगः

2तमभिमन्त्रयते - ग्रावासीति त्रिष्टुभा पञ्चपदया ॥ यथोक्तं ‘चतुर्भिरष्टाक्षरैः द्वादशाक्षरेण चैकेन त्रिष्टुप्’ इति ।

मूलम् (संयुक्तम्)

ग्रावा॑स्यध्वर॒कृद्दे॒वेभ्यो॑ गम्भी॒रमि॒मम॑ध्व॒रङ्कृ॑ध्युत्त॒मेन॑ प॒विनेन्द्रा॑य॒ सोमँ॒ सुषु॑त॒म्मधु॑मन्त॒म्पय॑स्वन्तव्ँवृष्टि॒वनिम्

विश्वास-प्रस्तुतिः ...{Loading}...

ग्रावा॑स्य् अध्वर॒कृद् - दे॒वेभ्यो॑
गम्भी॒रम् इ॒मम् अ॑ध्व॒रङ्,
कृ॑ध्य् उत्त॒मेन॑ प॒विना+
+इन्द्रा॑य॒ सोमँ॒ सुषु॑त॒म्
मधु॑मन्त॒म् पय॑स्वन्तव्ँ वृष्टि॒-वनिम्

सर्वाष् टीकाः ...{Loading}...

Keith

Thou art the stone which maketh the sacrifice for the gods;
make this sacrifice deep,
with thy highest edge,
(make) the Soma well pressed for Indra,
rich in sweetness, in milk, bringing rain.

मूलम्

ग्रावा॑स्यध्वर॒कृद्दे॒वेभ्यो॑
गम्भी॒रमि॒मम॑ध्व॒रङ्
कृ॑ध्युत्त॒मेन॑ प॒विने-
न्द्रा॑य॒ सोमँ॒ सुषु॑त॒म्
मधु॑मन्त॒म्पय॑स्वन्तव्ँवृष्टि॒वनिम्

भट्टभास्कर-टीका

2तमभिमन्त्रयते - ग्रावासीति त्रिष्टुभा पञ्चपदया ॥ यथोक्तं ‘चतुर्भिरष्टाक्षरैः द्वादशाक्षरेण चैकेन त्रिष्टुप्’ इति । हे उपांशुसवन अध्वरकृत् अध्वरस्य यज्ञस्य कर्ता आभिषवद्वारेण संपादयिता ग्रावा त्वमसि । एवं नाम प्रशस्तोसि । यद्वा - अध्वरकृत्यात् स्तोतव्यस्त्वमसि । गृणातेः स्तुतिकर्मणः ‘अन्येभ्योपि दृश्यते’ इति क्वनिप्, आडागमः, इत्वाभावश्च दृशिग्रहणात् । गिरतेर्वा, गिरति सोममभिषवकाल इति । स त्वं देवेभ्यो देवार्थम् । षष्ठ्यर्थे वा चतुर्थी । देवानां सम्बन्धिनं गम्भीरं गहनमिमं प्रस्तुतमध्वरं कृधि सम्पादय । करोतेर्लोटि ‘बहुलं छन्दसि’ इति शपो लुक्, ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि’ इति हेर्धिभावः, पादादिरपि व्यत्ययेन निहन्यते । तदर्थं किं क्रियतामित्यत आह - उत्तमेनोत्कृष्टेन पविना पवनेन शोधनेन अभिषवात्मना तत्कर्तृकेण । इन्द्राय इन्द्रार्थं सोमं सुषुतं सुष्ठु अभिमतं कृधीत्यत्रापि सम्बध्यते । ‘गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम्, ‘उपसर्गात्सुनोति’ इति षत्वम् । यद्वा - इन्द्राय इन्द्रस्य यः पविर्वज्रः उत्तमस्तेन सोमं सुषुतं कुरु । तेनैव खल्विदं कृतं भवति, यत्त्वया क्रियत इति भावः । ‘अच इः’ इति पवतेरिप्रत्ययः । उत्तमशब्द उञ्छादिरन्तोदात्तः ।

सोमो विशेष्यते - मधुमन्तं मधुररसवन्तं स्वादुभूतम् पयस्वन्तं क्षीरवन्तम्, ‘पयसा श्रीणाति’ इति श्रवणात् । यद्वा - ‘पयः पिबतेः प्यायतेर्वा’ इति निर्वचनात् सेचनवन्तं वृद्धिमन्तं वा । उभयत्राप्यसुनि पीभावः । वृष्टिवनिं यागसाधनद्वारेण वृष्टेर्दातारं सम्भक्तारं वा । ‘छन्दसि वनसन’ इतीन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥


भास्करोक्त-विनियोगः

3तम् अभिमिमीते राजानम् - इन्द्राय त्वेति ।

विश्वास-प्रस्तुतिः

इन्द्रा॑य त्वा वृत्र॒घ्ने ।

Keith

To Indra, slayer of Vrtra, thee!

मूलम्

इन्द्रा॑य त्वा वृत्र॒घ्ने ।

भट्टभास्कर-टीका

3तम् अभिमिमीते राजानम् - इन्द्राय त्वेति । इन्द्राय त्वा वृत्रघ्ने वृत्रमसुरं हतवते त्वा सोमं मिमे इति शेषः । ‘ब्रह्मभ्रूण’ इति क्विप्, उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥


भास्करोक्त-विनियोगः

4द्वितीयं मिमीते - इन्द्राय त्वा वृत्रतुर इति ॥

विश्वास-प्रस्तुतिः

इन्द्रा॑य त्वा वृ॒त्र॒-तुरे॑+++(←त्वरणे)+++ ।

Keith

To Indra, conqueror of Vrtra, thee!

मूलम्

इन्द्रा॑य त्वा वृ॒त्र॒तुरे॑ ।

भट्टभास्कर-टीका

4द्वितीयं मिमीते - इन्द्राय त्वा वृत्रतुर इति ॥ तुर त्वरणे, वृत्रं बाधितवत इत्यर्थः । ‘बहुलं छन्दसि’ इति क्विप्, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥


भास्करोक्त-विनियोगः

5तृतीयं मिमीते - इन्द्राय त्वाभिमातिघ्न इति ॥

विश्वास-प्रस्तुतिः

इन्द्रा॑य त्वाऽभिमाति॒घ्ने ।

Keith

To Indra, slayer of foes, thee!

मूलम्

इन्द्रा॑य त्वाऽभिमाति॒घ्ने ।

भट्टभास्कर-टीका

5तृतीयं मिमीते - इन्द्राय त्वाभिमातिघ्न इति ॥ अभिमातिः पाप्मा, तस्य हन्त्रे । द्वितीयवत्प्रत्ययः, प्रथमवत्स्वरः ॥


भास्करोक्त-विनियोगः

6चतुर्थं मिमीते - इन्द्राय त्वादित्यवत इति ॥

विश्वास-प्रस्तुतिः

इन्द्रा॑य त्वाऽऽदि॒त्यव॑ते ।

Keith

To Indra with the Adityas, thee!

मूलम्

इन्द्रा॑य त्वाऽऽदि॒त्यव॑ते ।

भट्टभास्कर-टीका

6चतुर्थं मिमीते - इन्द्राय त्वादित्यवत इति ॥ आदित्यैस्तद्वते ॥

Keith

7पञ्चमं मिमीते - इन्द्राय त्वा विश्वदेव्यावते इति ॥

विश्वास-प्रस्तुतिः

इन्द्रा॑य त्वा वि॒श्वदे॑व्यावते ।

Keith

To Indra with the all-gods, thee!

मूलम्

इन्द्रा॑य त्वा वि॒श्वदे॑व्यावते ।

भट्टभास्कर-टीका

7पञ्चमं मिमीते - इन्द्राय त्वा विश्वदेव्यावते इति ॥ विश्वे देवा एव विश्वदेव्याः । स्वार्थिको यत्, ‘मन्त्रे सोमाश्व’ इति दीर्घः, मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । यद्वा - देवार्हं देव्यं, ‘छन्दसि च’ इति यत्प्रत्ययः । देवेषु वा साधु देव्यम्, विश्वं देव्यं येषामिति विश्वदेव्याः देवविशेषाः, तद्वते । ‘बहुव्रीहौ विश्वं संज्ञायाम्’ इति पूर्वपदान्तोदात्तत्वम् । ‘इन्द्राय त्वेन्द्राय त्वेति मिमीते’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

8तं राजानं होतृचमसीयाभिरुपसृजति सोमेव [च] नयति - श्वात्रास्स्थेति ॥

मूलम् (संयुक्तम्)

श्वा॒त्रास्स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्ता अ॒मृत॑स्य॒ पत्नी॒स्ता दे॑वीर्देव॒त्रेमय्ँ य॒ज्ञन्ध॒त्तोप॑हूता॒स्सोम॑स्य पिब॒तोप॑हूतो यु॒ष्माक॑म् [1]सोमᳶ॑ पिबतु

विश्वास-प्रस्तुतिः

श्वा॒त्रास्+++(=आशु-त्राः)+++ स्थ॑,
वृत्र॒-तुरो॒ राधो॑+++(=अन्न)+++-गूर्ता+++(←गुरी उद्यमने)+++ अ॒मृत॑स्य॒ पत्नीः॑।

Keith

Ye are savoury, conquerors of Vrtra, delightful through your gifts, spouses of immortality

मूलम्

श्वा॒त्रास् स्थ॑,
वृत्र॒-तुरो॒ राधो॑-गूर्ता अ॒मृत॑स्य॒ पत्नीः॑।

भट्टभास्कर-टीका

8तं राजानं होतृचमसीयाभिरुपसृजति सोमेव [च] नयति - श्वात्रास्स्थेति ॥

श्वात्रास् स्थ आशु-त्राः स्थ आशु त्रायकाः स्थ, आशु वा अभिमत-सम्पादने वर्तमानाः स्थ । यूयं हे हातृचमसीया आपः । आशुपूर्वात्त्रायतेः ‘आतोनुपसर्गे कः’ । अततेर्वा औणादिकस्रप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् ।

वृत्रतुरः वृत्रमसुरं बाधितवत्यः ।
राधोगूर्ताः - राधो ऽन्नम् सोम-लक्षणम्, तस्मिन् गूर्तम् उद्योगो यासां ता राधोगूर्ताः तत्सम्पादनायोद्युक्ता इत्यर्थः । गुरी उद्यमने, भावे निष्ठा, ‘श्वीदितो निष्ठायाम्’ इतीट्प्रतिषेधः, ‘हलि च’ इति दीर्घः, ‘नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि’ इति नत्वाभावः । अमृतस्य मृतिरहितस्य सोमस्य, अमृतत्वस्य वा पत्न्यः पालयित्र्यः । ‘पत्युर्नो यज्ञसंयोगे’ इति नकारः । ताः पत्नीः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् ।

विश्वास-प्रस्तुतिः

ता दे॑वीः +++( स्थ)+++ ..
दे॒व॒त्रा+++(=देवस्थाने)+++ +इमय्ँ य॒ज्ञन् ध॑त्त ।

Keith

Do ye, O goddesses, place this sacrifice among the gods

मूलम्

ता दे॑वीः +++( स्थ)+++ ..
दे॒व॒त्रेमय्ँ य॒ज्ञन् ध॑त्त ।

भट्टभास्कर-टीका

या यूयमीदृश्यः स्थ, ताः हे देवीः देव्यः देवनादिगुणयुक्ताः । पूर्ववद्दीर्घत्वम् । इमं यज्ञं देवत्रा देवेषु धत्त स्थापयत । ‘देवमनुष्य’ इति त्राप्रत्ययः ।

विश्वास-प्रस्तुतिः

उप॑हूता॒स् सोम॑स्य पिबत ।
उप॑हूतो यु॒ष्माक॑म् सोमᳶ॑ पिबतु ।

Keith

Do ye, invoked, drink the Soma;
Invoked by you [1] let Soma drink.

मूलम्

उप॑हूता॒स्सोम॑स्य पिबत ।
उप॑हूतो यु॒ष्माक॑म् सोमᳶ॑ पिबतु ।

भट्टभास्कर-टीका

किञ्च, उपहूताः उपयामत्वं चापि क्वचिदपवादत्वेनोपदिष्टास्तैः [?] देवैरभ्यनुज्ञाताः यूयं सोमस्य पिबत । क्रियाग्रहणेन सम्प्रदानत्वात् ‘चतुर्थ्यर्थे बहुलं छन्दसि’ इति षष्ठी । सोप्युपहूतो युष्माकं पिबतु युष्मान्पिबतु । ‘गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘एष वा अपां सोमपीथो य एवं वेद नाप्स्वार्तिमार्छति’ इति ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

9सोमं प्रयौति - यत्त इति चतुष्पदया सतोबृहत्या दशाक्षरयुता युक्पादया । सतःपङ्क्त्या वा द्वादशाक्षरयुगयुक्पादया ॥

मूलम् (संयुक्तम्)

यत्ते॑ सोम दि॒वि ज्योति॒र्यत्पृ॑थि॒व्याय्ँ यदु॒राव॒न्तरि॑क्षे । तेना॒स्मै यज॑मानायो॒रु रा॒या कृ॒ध्यधि॑ दा॒त्रे वो॑चः ।

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते॑ सोम दि॒वि ज्योति॒र्
यत् पृ॑थि॒व्याय्ँ, यद् उ॒राव् अ॒न्तरि॑क्षे ।
तेना॒स्मै यज॑मानायो॒रु
रा॒या कृ॒ध्य्, अधि॑ दा॒त्रे वो॑चः+++(←वच्)+++।

सर्वाष् टीकाः ...{Loading}...

Keith

With thy light which is in the sky,
on the earth, in the broad atmosphere,
do thou for this sacrificer spread wealth broadly;
be favourable to the giver.

मूलम्

यत्ते॑ सोम दि॒वि ज्योति॒र्
यत् पृ॑थि॒व्याय्ँ यदु॒राव॒न्तरि॑क्षे ।
तेना॒स्मै यज॑मानायो॒-
रु रा॒या कृ॒ध्यधि॑ दा॒त्रे वो॑चः।

प्रदीपसिंहः

सतोबृहत्यां साधारणत एवम् भवति - ८ + ८ + १२ + ८ ।
अत्र तु ८ + ११/१२ + ८ + १० - “पङ्क्तिर्जागतौ गायत्रौ च ॥३७॥ पूर्वी चेदयुजौ सतः पङ्क्तिः ॥३८॥ विपरीतौ च ॥३६॥” इति पिङ्गललक्षणस्येषद् विकृत्या।

भट्टभास्कर-टीका

9सोमं प्रयौति - यत्त इति चतुष्पदया सतोबृहत्या दशाक्षरयुता युक्पादया । सतःपङ्क्त्या वा द्वादशाक्षरयुगयुक्पादया ॥

हे सोम तव यद् दिवि ज्योतिः, यच्पृथिव्याम्, यच् चोरौ विस्तीर्णे अन्तरिक्षे तेन राया तव धनभूतेन तेजसा ऽस्मै यजमानाय उरु कृधि भूरि देहि ।

यद्वा - इदं कर्म उरु विस्तीर्णं कुरु

यद्वा - इदं कर्म, राया धनेन उरु कुरु कुरुष्वेति भावः । ‘ऊडिदम्’ इति रैद्युभ्यां विभक्तेरुदात्तत्वम् । ‘उदात्तयणः’ इति दातृ पृथिवीभ्याम् ।

किञ्च, दात्रे इन्द्राय इमं यजमानम्, इदं वा कर्म, आधिक्येन वोचः ब्रूहि सर्वयजमानानामधि उपरि यजमानानामयं यजमान इति, सर्वयागानामुपर्ययं याग इति वा, इन्द्राय निवेदय । यद्वा - यजमानायोरु कृधीत्युक्तम्, कस्मात्पुनरेवं क्रि यत इत्याह - दात्रे चरुपुरोडाशदीनि देवेभ्यो ददते धार्मिकाय यजमानाय अधिब्रूहि अधिकं ब्रूहि एतत्पक्षपातेन ब्रूहि । यद्वा - स्वामित्वेन वचन मधिवचनं तत् सर्वदा कुर्वस्मै यजमानाय । ‘बहुलं छन्दस्यमाङ्योगेपि’ इत्यडभावः, ‘छन्दसि लुङ्लङ्लिटः’ इति लुङ् । यद्वा - द्युप्रभृतिषु स्थितं तेज एकत्र सम्भृत्य तेन यजमानस्याभिमतं साधयेति । तत्सर्वथैव मया क्रियत इति यजमानाय ब्रूहि । अध्यागच्छेत्यादिवदधिरनर्थकः । ‘एभ्य एवैनं लोकेभ्यस्सम्भरति’ इति ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

10अधिषवण-फलके ऽभिमृशति - धिषणे इति त्रिपदया विराजा ।

मूलम् (संयुक्तम्)

धिष॑णे वी॒डू स॒ती वी॑डयेथा॒मूर्ज॑न्दधाथा॒मूर्ज॑म्मे धत्त॒म्मा वाँ॑ हिँसिष॒म्मा मा॑ हिँसिष्टम्

विश्वास-प्रस्तुतिः

धिष॑णे+++(=धृष्टे)+++ - वी॒डू+++(=दृढे)+++ स॒ती वी॑डयेथाम् ।

Keith

Ye Dhisanas, that are strong, be strengthened;

मूलम्

धिष॑णे वी॒डू स॒ती वी॑डयेथाम् ।

भट्टभास्कर-टीका

10अधिषवण-फलके ऽभिमृशति - धिषणे इति त्रिपदया विराजा । हे धिषणे सोमं चर्म वा धारयितुं धृष्टे । ‘धृषेर्धिष च संज्ञायाम्’ इति क्युप्रत्ययः, आमन्त्रिताद्युदात्तत्वम् । ईदृश्यौ अधिषवणफलके युवां वीडू विष्टब्धे दृढे अपि सती सत्यौ । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । वीडयेथाम् आत्मानं संस्तम्भयतं दृढं कुरुतं, यथाभिषवकाले अभिघातेन युवयोर्विश्लेषो न भवति तथा कुरुतम् । वीडु-शब्दाद् दृढ-वाचिनः ‘तत्करोति’ इति णिच् ।

विश्वास-प्रस्तुतिः

ऊर्ज॑न् दधाथाम् ।
ऊर्ज॑म्मे धत्तम् ।

Keith

gather strength,
and give me strength;

मूलम्

ऊर्ज॑न्दधाथाम् ।
ऊर्ज॑म्मे धत्तम् ।

भट्टभास्कर-टीका

किञ्च, ऊर्जं रसं सोमलक्षणं दधाथां धारयतम् ।

किञ्च, ऊर्जं बलं मे मह्यं धतं दत्तम्, यजमानस्य यागं साधयितुमविनष्टं कुरुतमित्यर्थः ।

विश्वास-प्रस्तुतिः

मा वाँ॑ हिँसिषम् ।
मा मा॑ हिँसिष्टम् ।

Keith

let me not harm you, harm me not.

मूलम्

मा वाँ॑ हिँसिषम् ।
मा मा॑ हिँसिष्टम् ।

भट्टभास्कर-टीका

किञ्च, मा वां हिंसिषं अभिषवकालेभिघातेन युवयोर्हिंसाम्मा कार्षम् । अत एव मामपि युर्वां मा हिंसिष्टम् ॥


भास्करोक्त-विनियोगः

11होतृ-चमसे ऽंशून् परिप्लावयति - प्रागिति ॥

मूलम् (संयुक्तम्)

प्रागपा॒गुद॑गध॒राक्तास्त्वा॒ दिश॒ आ धा॑व॒न्त्वम्ब॒ नि ष्व॑र ।

विश्वास-प्रस्तुतिः

प्राग्+++(=अग्रे)+++ अपा॒ग्+++(=पृष्ठतः)+++ उद॑ग्+++(=ऊर्ध्वं)+++ अध॒राक्
तास् त्वा॒ दिश॒ आ धा॑व॒न्तु ।

Keith

Forward, backward, upward, downward, let these quarters speed to you;

मूलम्

प्रागपा॒गुद॑गध॒राक्तास्त्वा॒ दिश॒ आ धा॑व॒न्तु ।

भट्टभास्कर-टीका

प्राञ्चतीति प्राक् प्राची दिक् । ऋत्विगादिना क्विन्प्रत्ययः, वस्तुत्वेन विवक्षितत्वान्नपुंसकत्वम्, ‘अनिगन्तोञ्चतावप्रत्यये’ इति पूर्वपदप्रकृतिस्वरत्वम् ।

अपाक् प्रतीची । पूर्ववत्प्रत्ययस्स्वरश्च ।

उदक् उदीची । पूर्ववत्प्रत्ययस्स्वरश्च ।

अधराक् अधोदिक् । पूर्ववत्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम् । प्रदर्शनार्थं चासामुपादानमन्यासामपि ।

एवंप्रकारा या दिशस्तास्सर्वास्त्वामाधावन्तु त्वत्समीपं गच्छन्तु । हे सोम ताभिरागताभिस्तत्स्थास्त्वदीया अंशवः सर्व एव समागता भवन्ती त्यभिप्रायः । ‘सोमो वै राजा दिशोभ्यध्यायत् स दिशोनु प्राविशत्’ इत्यादि ब्राह्मणम् ॥

विश्वास-प्रस्तुतिः

+++(लते!)+++ अम्ब॒ नि ष्व॑र+++(←स्वर्)+++ ।

Keith

O mother, come forth.

मूलम्

अम्ब॒ नि ष्व॑र ।

भट्टभास्कर-टीका

किञ्च, अम्ब हे मातृस्थानीय सोम । ‘अम्बार्थनद्योर्ह्वस्वः’ । लतामन्त्रणं वा । निष्वर अंशुभ्यो रसात्मना निर्गच्छ । सुषामादित्वात् षत्वम् ।

‘अम्ब निष्वरेत्याह - कामुका एनं स्त्रियो भवन्ति य एवं वेद’ इति ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

12राजन्येव षण्णाम् अंशूनां द्वौद्वावंशू अपिसृजति प्रक्षिपति - यत्ते सोमादाभ्यमिति द्विपदया विराजा ॥

विश्वास-प्रस्तुतिः

यत् ते॑ सो॒म +अदा॑भ्य॒न्+++(←दभ हिंसायाम्)+++ नाम॒ +++(←)+++जागृ॑वि॒
तस्मै॑ ते सोम॒, सोमा॑य॒ +++(नाम्ने)+++ स्वाहा॑ ॥ [2]

Keith

Thy unerring, watchful name, O Soma,
to that of thee, O Soma, to Soma, hail!

मूलम्

यत्ते॑ सो॒मादा॑भ्य॒न्नाम॒ जागृ॑वि॒ ..
तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॑ ॥ [2]

भट्टभास्कर-टीका

12राजन्येव षण्णाम् अंशूनां द्वौद्वावंशू अपिसृजति प्रक्षिपति - यत्ते सोमादाभ्यमिति द्विपदया विराजा ॥

हे सोम यत् ते नाम +अभिधानम् । कीदृशं? अदाभ्यमनुपहिंस्यम् । दभिः प्रकृत्य्-अन्तरम् अस्तीत्य् आहुः, ‘दभेश् चेति वक्तव्यम्’ इति ततो ण्यत्, अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।

जागृवि जागरणशीलं पापनिर्हरणादौ । ‘जॄशॄस्तॄजागृभ्यः क्विन्’ इति क्विन्प्रत्ययः । ‘जाग्रोविचिण्णल्ङित्सु’ इति प्रतिप्रसूय गुणः प्रतिषिध्यते । यदीदृशं तस्मै ते तवैवासाधारणाय नाम्ने स्वाहा स्वाहुताव् इमाव् अंशू स्याताम् ।

किं पुनस्तन्नामेत्याह - सोमाय सोमेत्येवंरूपाय । स्वरूपप्रधानोयं शब्दो विशेषणत्वात् । कथमस्यैतन्नामेति यो ब्रूयात्तं प्रति नामत्वाभिव्यक्तये पुनरपि तेनैव राजामन्त्र्यते सोमेति ।
अयं भावः - ‘घ्नन्ति वा एतत्सोमं यदभिषुण्वन्ति’ इत्यभिषुतं राजानं नामैतज्जह्यात् कपालावस्थायां घटमिव घटशब्दः ; ततश्च ‘प्राणा वा अंशवः पशवस्सोमः’ इति सोमे अंशुहीने पशवः प्राणहीनास्स्युः ; तस्मात् ‘अंशूनपगृह्णाति त्रायत एवैनम्’ इति प्राणभूता अंशवः प्रथमं गृह्यन्ते ; तस्यैवा भिषूयमाणस्य सङ्घातस्याप्राणत्वप्रसङ्गात्, तन्मा भूदिति द्वौद्वावंशू अपिसृज्येते । एवं च सत्ययं प्राणवान्भवति सोमशब्दश्चैनं न जहाति, पशवश्च प्राणवन्तो भवन्तीति । प्राणभूताभ्यामंशुभ्यां सहाभिषुतत्वात्, अभिषुतस्यापि सोमशब्दवत्त्वात् अभिषुतमपि सोमशब्दो न जहातीति ।

सोमाय स्वाहेति, ‘नमस्स्वस्तिस्वाहा’ इत्यादिना चतुर्थी । यथाग्न्यादीनां स्वाहाकारेण स्थितिरेवमस्यापि तादर्थ्ये चतुर्थी वा , सोमाय सोमशब्दस्थित्यर्थं एतौ प्रक्षिप्येते इति । ततश्च विभक्तिसंयोगात्स्वाहेत्यागन्तः (?) । द्वाभ्यामेव च प्राणवत्त्वस्य सिद्धेः द्वौद्वावेवांशू प्रक्षिप्येते । तस्माद्द्वावेव पशूनां चक्षुरादयः प्राणाः । अत्रांशूनामवग्रहणप्रदेशे महाभिषवकालभाविनोपिसर्जनमन्त्रस्य प्रासङ्गिकमाम्नानम्, यथोपधानप्रदेशे ‘यानि घर्मे’ इति कपालविमोकमन्त्रस्य ॥

इति चतुर्थे प्रथमः ॥