काण्डानुक्रमणिका

अथ काण्डक्रमः ॥

अथ प्रथमोध्यायः
पुरोडाशीयमध्वरग्रहदक्षिणान्यग्न्याधेयपुनराधेये अग्न्युपस्थानमैष्टिकं याजमानं तद्विधिर्वाजपे- यस्तद्विधी राजसूयः काम्याः पषवश्चेष्टयो दार्श्यं ब्राह्मणमुपानुवाक्यमग्निस्तद्विधिर्द्वे काण्डे पूर्वं द्विचत्वारिंशिकमुत्तरं त्रैंशिकं तदग्न्युपानुवाक्यमित्याचक्षतेऽध्वरादीनां त्रयाणां विधिर्या-
ज्या राजसयविधिस्सत्रायणमश्वमेधस्तस्य क्रमः - aपञ्चादौ सात्रिका दशिन्योनुवाकोनाः ।
bषडनुवाकमाग्निकं महापृष्ठं नाम ।
cद्वे त्रैंशिके दशिन्यौ ।
dत्र्यानुवाकं द्विचत्वारिंशिकं दहरपृष्ठं नाम ।
eत्रैंशिकोत्तमा दशिनी ।
fद्विचत्वारिंशिकावनुवाकौ ।
gदशिन्युत्तमश्च ।
प्रवर्ग्यस्तद्विधिरग्निहोत्रविधिर्होतारस्ताद्विधिरूपहोमाः कौकिलीस्सवास्सूक्तानि नक्षत्रेष्टयः पुरोडाशविधिर्नृमेधपितृमेधौ दार्श्यं हौत्रं पाशुकं चाच्छिद्रकाण्डमश्वमेधविधिरित्येतावन्ति शाखाकाण्डानि॥
उपनिषदो वेदान्तास्तास्त्रय्यसांहित्यो याज्ञिक्यो वारुण्यश्चेत्येतावत्तित्तिरिः प्रोवाच ॥
अथाष्टौ काठकानि सावित्रनाचिकेतचातुर्होत्रवैश्वसृजारुणाः पञ्च चितयो दिवश्श्येनयोपामाश्चेष्टयस्स्वाध्यायब्राह्मणमष्टममथ श्लोकाः ॥

इति प्रथमोऽध्यायः ।

अथ द्वितीयोध्यायः

शाखादिं1 याजमानं8 च होतृन्28 हौत्रं38 च दार्शिकम्15 ।
तद्विधी35-9-29न्पितृमेधं37 च नवाहुः कस्य तद्विदः ॥१ ॥

अध्वरप्रभति2-4 त्रीणि तद्विधि20र्वाजपेयिके10-11 ।
सवा32श्शुक्रियकाण्डे25-26 च नवेन्दोरिति धारणा ॥ २ ॥

त्रिष्वग्न्याधेयपूर्वेषु5-6-7 अग्नौ च सविधिद्वये18-19 ।
विधौ चैवाग्निहोत्रस्य27 सप्तस्वग्निमृषिं विदुः ॥ ३ ॥

अवशिष्टानि यानि स्युः काण्डान्यन्यानि षोडश ।
विश्वान्देवानृषींस्तेषु विदुर्वेदविदो जनाः ॥ ४ ॥

सब्राह्मणो राजसूयः पशुबन्धस्सहेष्टिभिः34 ।
उपानुवाक्यं याज्याश्च अश्वमेधस्सब्राह्मणः ॥ ५ ॥

सत्रायणं23 चोपहोमा30स्सूक्तानि33 च सहेष्टिभिः34 ।
सौत्रामणी31 सहाच्छिद्रैः40 हौत्रं30 मेधश्च33 षोडश ॥ ६ ॥

काण्डनामोपनिषत्सु42-44 काठकाग्निषु45-48 हव्यवाट् ।
तदिष्टिकाण्डयो50-51र्विश्वे ब्रह्माम्नायविधा52वृषिः ॥ ७ ॥

ऐकाग्निको विधिः काण्डं वैश्वदेवमिति स्थित्तिः ।
आरण्यको49 विधिः काण्डमरुणास्तत्रदैवतम् ॥ ८ ॥

काण्डशेषान्यथाकाण्डं विदध्यात्तु विचक्षणः ।
यथा सारस्वते पाठे ज्ञानमात्रमिहोच्यते ॥ ९ ॥

अथ काण्डऋषीनेतानुदकाञ्जलिभिश्शुचिः ।
अव्यग्रस्तर्पयेन्नित्यमन्नैः पर्वाष्टमीषु च ॥ १० ॥

काण्डोपकरणेष्वेतान् पुरस्तात्सदसस्पतेः ।
जुहुयात्काण्डसमाप्तौ च श्रुतिरेषा सनातनी ॥ ११ ॥

इति द्वितीयोध्यायः ॥

अथ तृतीयोध्यायः

होतॄन्28प्रवर्ग्यकाण्डं25 च याश्चोपनिषदो42-44 विदुः ।
अरुणा49म्नायविधि52श्चैव काठके परिकीर्तितौ ॥ १२ ॥

रुद्रा नारायण43श्चैव मेधो यश्चैव पित्रियः37 ।
एतदारण्यकं सर्वं नाव्रती श्रोतुमर्हति ॥ १३ ॥

कारीर्यश्चाथ पित्र्याश्च दिवाकीर्त्येति येषु च ।
रुद्रास्सन्ततिरित्येतावनुवाकौ च सात्रिकौ ॥ १४ ॥

होतृविध्यवसाने चानुवाकचतुष्टयम् ।
सूक्तेषु सूक्तं यत्सौर्यं मेधो यश्चैव पित्रियः37 ॥ १५ ॥

काठकानि45-52 च सर्वाणि सर्वाण्यारण्यकानि25,28,42-44 च ।
दिवाकीर्त्यानि शाखायामेतावन्तीति धारणा ॥ १६ ॥

कल्पे पितृविधिश्चैव प्रवर्ग्यविधिरेव च ।
काठकानां विधिश्चैव करीरीविधिरेव च ॥ १७ ॥

अरुणाम्नायविधिश्चैव शतरुद्रविधिस्तथा ।
कल्पेषु तु या आम्नाता मन्त्रास्तानप्यतन्द्रितः॥ १८ ॥

यथाक्रममुपाकृत्याधीयीतेति चोच्यते ।
अक्षारलवणं भूमौ मुखेन पशुवत्कविः ॥ १९ ॥

चतूरात्रन्तु भुञ्जीत कारीर्यध्ययने व्रतम् ।
कारीरीव्रतवच्चापि कालव्रतमिहोच्यते ॥ २० ॥

न तत्र पशुवद्भुञ्ज्यान्न च भूमाविति स्थितिः ।
कालव्रतं तु यत्प्रोक्तं अग्निकाण्डे तदिष्यते ॥ २१ ॥

सावित्रीभ्यः प्रभृत्यूर्ध्वमौषध्यनुवाकादिति ।
समित्कलापं त्र्यहमाहरन्ति मृगारेष्ट्याम् ॥ २२ ॥

एष्वन्येषु तु यानन्यान्यमानाचक्षते द्विजाः ।
तान्यथोक्तान्यथोक्तैश्चाधीयीतेति च शासनम् ॥ २३ ॥

स्वाध्यायब्राह्मणं काण्डं काठके पठितो विधिः ।
स्वयम्भूश्चात्र दैवत्यं सर्वभूताधिपपतिः ॥ २४ ॥

वैशम्पायनो यास्कायैतां प्राह पैङ्गवे ।
यास्कस्तित्तिरये प्राह उखाय प्राह तित्तिरिः ॥ २५ ॥

उखश्शाखामिमां प्राह आत्रेयाय यशस्विने ।
तेन शाखा प्रणीतेयमात्रेयीति च सोच्यते ॥ २६ ॥

यस्याः पदकृदात्रेयो वृत्तिकारस्तु कुण्डिनः ।
तां विद्वांसो महाभागां भद्रमश्नुवते महत् ॥ २७ ॥

विशीर्षाणं नयात्मानमष्टपुच्छं द्विरंसकम् ।
त्रिंशत्पक्षं समन्विच्छेच्छकुनिं ब्रह्मसम्भवम् ॥ २८ ॥

उपनिषदोस्य42-44 शिरोर्कावंसौ25-26 भुवनपतेर्नव यान्यात्मा सः ।
कठविहितानि विदुः पुच्छेष्टौ42-52 यदपि च शेषमतस्तौ पक्षौ ॥ २९ ॥

मन्त्रामा घर्म25शृङ्गोसावष्टा45-52स्योपनिषत्ककुत् ।
विध्यङ्गऋषभस्स्वर्विच्चतु47र्होतृललामवान् ॥ ३० ॥

शाखाद्यादिं विपाप्मानं विधिमन्त्रमयं शुभम् ।
सामान्यमेतं पन्थानं दिव आहुर्मनीषिणः॥ ३१ ॥

रहस्य42-44मूल ऋक्पर्णो यजुष्पुष्पप्रवालवान् ।
यज्ञकर्मफलश्श्रीमान्विप्रभ्रमरसेवितः ॥ ३२ ॥

छन्दस्स्कन्धश्शाखाशाखो ब्राह्मो वृक्षस्साक्षादेषः ।
यस्तं विद्यात्स ऋषिर्विप्रस्स स्वर्गच्छेदाप्त्वा कीर्तिम् ॥ ३३ ॥

एतानृषीन्यजुर्वेदे यः पठन्वेद वेदवित् ।
ऋषीणामेति सालोक्यं स्वयम्भोश्चैति साम्यताम् स्वयम्भोश्चैति साम्यतामिति ॥ ३४ ॥

इति तृतीयोध्यायः ॥
काण्डानुक्रमणिका सम्पूर्णा ॥