सोमावरोहणम्, +++(अभिषोतव्यस्य सोमस्य शकटादावुपावरोहः)+++ प्रचरणीहोमः, क्रतुकरणहोमः , अपां ग्रहणम्
३ त्रिष्टुप् ७ गायत्री सोमऋषिः
भास्करोक्त-विनियोगः
1-2दक्षिणस्य हविर्-धानस्यान्तरेणेषे राजानम् उपावहरति - अवतारयति हविर्धानात् - हृदे त्वेति ॥
मूलम् (संयुक्तम्)
हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वो॒र्ध्वमि॒मम॑ध्व॒रङ्कृ॑धि ।
विश्वास-प्रस्तुतिः
हृ॒दे त्वा॑ +++(उपावहरामि)+++ ।
मन॑से त्वा +++(उपावहरामि)+++ ।
दि॒वे त्वा॑ +++(उपावहरामि)+++ ।
सूर्या॑य त्वा +++(उपावहरामि)+++ ।
Keith
To the heart thee! To mind thee! To the sky thee! To the sun thee!
मूलम्
हृ॒दे त्वा॑ +++(उपावहरामि)+++ ।
मन॑से त्वा +++(उपावहरामि)+++ ।
दि॒वे त्वा॑ +++(उपावहरामि)+++ ।
सूर्या॑य त्वा +++(उपावहरामि)+++ ।
पद-पाठः
हृ॒दे । त्वा॒ ।
मन॑से । त्वा॒ ।
दि॒वे । त्वा॒ ।
सूर्या॑य । त्वा॒ ।
भट्टभास्कर-टीका
1-2दक्षिणस्य हविर्-धानस्यान्तरेणेषे राजानम् उपावहरति - अवतारयति हविर्धानात् - हृदे त्वेति ॥ हे सोम त्वां हृदे हृदयवद्भ्यो मनुष्येभ्यः उपावहरामीति शेषः । ‘हृदे त्वेत्याह मनुष्येभ्य एवैतेन करोति’ इत्यादि ब्राह्मणम् ।
मनसे मनस्विभ्यः पितृभ्यश्च । ‘पितृभ्य एवैतेन करोति’ इत्यादि ब्राह्मणम् । दिवे दिविष्ठेभ्यो देवेभ्यश्च त्वामुपावहरामि ।
सूर्याय च त्वामुपावहरामि, प्राधान्यात्पुनरुपादानम् । ‘देवेभ्य एवैतेन करोत्येतावतीर्वैदेवतास्ताभ्यः’ इत्यादि ब्राह्मणम् । हृदे दिवे इति ‘ऊडिदम्’ इत्यादिना विभक्तेरुदात्तत्वम् ।
विश्वास-प्रस्तुतिः
+++(सोम)+++ ऊ॒र्ध्वम् इ॒मम् अ॑ध्व॒रङ्कृ॑धि ।
Keith
Raise aloft the sacrifice;
मूलम्
+++(सोम)+++ ऊ॒र्ध्वमि॒मम॑ध्व॒रङ्कृ॑धि ।
पद-पाठः
ऊ॒र्ध्वम् । इ॒मम् । अ॒ध्व॒रम् । कृ॒धि॒ ।
भट्टभास्कर-टीका
हे सोम अवरोप्यमाणश्च त्वमिममध्वरं यज्ञमूर्ध्वं कृधि अविघ्नेन समाप्तं कुरु । ऊर्ध्वं देवाभिमुखं वा कुरु ।
यद्वा - इमं यज्ञमध्वरं बाधकरहितं कुरु । ‘बहुलं छन्दसि’ इति शपो लुक्, ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि’ इति हेर्धिभावः ।
विश्वास-प्रस्तुतिः
दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ ।
Keith
in the sky guide to the gods the prayers.
मूलम्
दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ ।
पद-पाठः
दि॒वि । दे॒वेषु॑ । होत्राः॑ । य॒च्छ॒ ।
भट्टभास्कर-टीका
किञ्च - दिवि दिवि स्थितेषु देवेषु होत्रा अस्मदीया वाचः स्तुतिरूपाः यच्छ अवस्थापय ।
तदर्थं हे सोम राजन् एहि आगच्छ मम हस्तम् ।
मूलम् (संयुक्तम्)
सोम॑ राज॒न्नेह्यव॑ रोह॒ मा भेर्मा सव्ँवि॑क्था॒ मा त्वा॑ हिँसिषम्
विश्वास-प्रस्तुतिः
सोम॑ राज॒न्न् एह्य्, अव॑ रोह ।
Keith
O King Soma, come hither, descend.
मूलम्
सोम॑ राज॒न्नेह्यव॑ रोह ।
पद-पाठः
सोम॑ । रा॒ज॒न् । एति॑ । इ॒हि॒ । अवेति॑ । रो॒ह॒ ।
भट्टभास्कर-टीका
अत्र सोमराजन्नित्यारभ्य मन्त्रान्तरम् । यथाह भगवान् - “हृदे त्वा मनसे त्वा सोम राजन्नेह्यव रोहेति द्वाभ्याम्” इति । ततश् चापदात् परत्वात् सोमशब्दो न निहन्यते । ‘नामन्त्रिते समानाधिकरणे’ इति तस्याविद्यमानवत्त्वनिषेधाद्राजन्निति निहन्यते । आगत्य च मम हस्तं हविर्धानादवरोह ।
विश्वास-प्रस्तुतिः
मा भेर्, मा सव्ँवि॑क्थाः+++(=कम्पिष्ठाः)+++ ।
मा त्वा॑ हिँसिषम् ।
Keith
Fear not, tremble not.
Let me not harm thee.
मूलम्
मा भेर्मा सव्ँवि॑क्थाः ।
मा त्वा॑ हिँसिषम् ।
पद-पाठः
मा । भेः । मा । समिति॑ । वि॒क्थाः॒ ।
मा । त्वा॒ । हिँ॒सि॒ष॒म् ।
भट्टभास्कर-टीका
अवरोहंश्च मा भेः मा च भैषीः मामयं भेत्स्यतीति ।‘बहुळं छन्दसि’ इतीडभावः, व्यत्ययेन सिचिवृद्धिर्न क्रियते ।
मा संविक्थाः मा च कम्पिष्ठाः । कस्मादित्याह - मा खलु त्वामहं हिंसिषम्, यागसाधनत्वापत्त्या उत्तमा गतिस्त्वया प्राप्स्यत इति ।
विश्वास-प्रस्तुतिः
प्र॒जास् त्वम् उ॒पाव॑रोह ।
प्र॒जास् त्वाम् उ॒पाव॑ रोहन्तु ।
Keith
Do thou descend to creatures+++(5)+++;
let creatures descend to thee.
मूलम्
प्र॒जास्त्वमु॒पाव॑रोह ।
प्र॒जास्त्वामु॒पाव॑ रोहन्तु ।
पद-पाठः
प्र॒जा इति॑ प्र-जाः । त्वम् । उ॒पाव॑रो॒हेत्यु॑प-अव॑रोह ।
प्र॒जा इति॑ प्र-जाः । त्वाम् । उ॒पाव॑रोह॒न्त्वित्यु॑प-अव॑रोहन्तु ।
भट्टभास्कर-टीका
का पुनस्सोत्तमा गतिरित्याह - प्रजास्सर्वा दैवीर्मानुषीश्च उपावरोह अनुप्रविश । प्रजाश्च त्वामुपावरोहन्तु अनुप्रविशन्तु । अतस्सर्वासामेव प्रजानामाधिपत्ये वर्तितुमारभसे । स कथं मया हिंस्यसे? अतो मा भैषीरिति ।
अत्र कृधि यच्छेति द्वे तिङ्विभक्ती; तत्र कृधि यच्छेति चार्थस्य गम्यमानत्वात् ‘चादिलोपे विभषा’ इति प्रथमा तिङ्विभक्तिर्निरूप्यते; एवं मा च भेर्मा च सं विक्थाः इत्यत्र तेनैव सूत्रेण प्रथमा तिङ्विभक्तिर्ननिहन्यते; एहि चावरोह च इज्यत्रापि प्रथमायास्तेन निघातः प्रवर्तत एव ।
ननु गत्यर्थलोटा युक्तत्वाद्द्वितीयायास्तिङ्विभक्तेः ‘लोट्च’ इति निघातेन न भवितव्यम् । ‘विभाषितं सोपसर्गमनुत्तमम्’ इति निहन्यत एवेत्यदोषः । उपावरोहेत्यत्र ‘गतिर्गतौ’ इति पूर्वस्यानुदात्तत्वम्; उदात्तवता तिङा’ इति समासः । तथा उपावरोहत्वित्यत्रापि । ‘ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युस्स्याद्यस्सोममुपावहरन्’ इत्यादि ब्राह्मणम् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
शृ॒णोत्व् अ॒ग्निस् स॒मिधा॒ हव॑म् मे
शृ॒ण्वन्त्व् आपो॑ धि॒षणा॑श्+++(=धृष्टा विद्याः)+++ च दे॒वीः ।
शृ॒णोत॑ ग्रावाणो वि॒दुषो॒ नु य॒ज्ञँ
शृ॒णोतु॑ दे॒वस् स॑वि॒ता हव॑म् मे ॥
सर्वाष् टीकाः ...{Loading}...
भास्करोक्त-विनियोगः
3एकधनादिलक्षणा अपो जिघृक्षन् स्रुचि चतुर्गृहीतं गृहीत्वा आहवनीये जुहोति - श्रुणोत्वग्निरिति त्रिष्टुभा चतुष्पदया ॥
Keith
Let Agni (kindled) with the kindling-stick hear my appeal, Let the waters hear, and the divine Dhisanas;
Hearken, ye pressing stones, to the sacrifice of me the wise one, Let the god Savitr hearken to my appeal.
मूलम्
शृ॒णोत्व॒ग्निस्स॒मिधा॒ हव॑म्मे शृ॒ण्वन्त्वापो॑ धि॒षणा॑श्च दे॒वीः ।
शृ॒णोत॑ ग्रावाणो वि॒दुषो॒ नु [22] य॒ज्ञँ शृ॒णोतु॑ दे॒वस्स॑वि॒ता हव॑म्मे ॥
पद-पाठः
शृ॒णोतु॑ । अ॒ग्निः । स॒मिधेति॑ सम्-इधा॑ । हव॑म् । मे॒ । शृ॒ण्वन्तु॑ । आपः॑ । धि॒षणाः॑ । च॒ । दे॒वीः ॥
शृ॒णोत॑ । ग्रा॒वा॒णः॒ । वि॒दुषः॑ । नु । [22]1 । य॒ज्ञम् । शृ॒णोतु॑ । दे॒वः । स॒वि॒ता । हव॑म् । मे॒ ॥
भट्टभास्कर-टीका
समिध्यतेनयाग्निरिति समिधाज्याहुतिरुच्यते । इन्धेः क्विप्, अनुनासिकलोपः, कृदुत्तरपदप्रकृतिस्वरत्वम् । अनया सन्दीप्त्या आज्याहुत्या तृप्तोग्निर्मदीयं हवमाह्वानं शृणोतु । ‘बहुलं छन्दसि’ इति ह्वयतेः प्राक्प्रत्ययोत्पत्तेस्सम्प्रसारणे कृते ‘ऋदोरप्’ इत्यप् । यद्वा - ‘भावेनुपसर्गस्य’ इत्यप्सम्प्रसारणं च ।
किञ्च - याश्चापो मया गृहीष्यन्ते ताश्चानयाहुत्या मम हवं शृण्वन्तु । कीदृश्यः । धिषणाः धृष्टाः याग-सम्पादन-निपुणाः । ‘धृषेर्धिष च संज्ञायाम्’ इति क्युप्रत्ययः । देवीः देव्यः दानादिगुणयुक्ताः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् ।
यद्वा - धिषणाः विद्याः, ‘विद्या वै धिषणा’ इति । दानादिगुणयुक्ताश्च शृण्वन्त्विति । चशब्देन तासां समुच्चयः ।
अधुना प्रत्यक्षवदुच्यते - हे ग्रावाणः । ग्रावाणो ग्रावकल्पा इत्येके । वर्षणशीला मेघा इत्यन्ये । ग्रावाण एवेत्यपरे । यूयमपि शृणोत श्रुणुत । ‘तप्तनप्तनधनाश्च’ इति तप् । किं? विदुषोस्य यजमानस्य यज्ञम् । नु इति वितर्के, ननु विदुषोस्य यज्ञश्श्रोतव्य इति । क्षिप्रं श्रुणुतेति वा । यद्वा - प्रथमाबहुवचनस्य व्यत्ययेन शस्, नुशब्दश्च इवार्थे, विद्वांस इव शृणुत इत्यर्थः ।
किञ्च - देवस्सविता सर्वस्य प्रेरकः मे मदीयं हवं शृणोतु । ‘सवितृप्रसूत एव देवताभ्यो निवेद्यापोच्छैति’ `इति ब्राह्मणम् । अग्न्यादयो मे हवं श्रुत्वा आगच्छन्तु, यज्ञं निर्वर्तयन्त्विति भावः ॥
विश्वास-प्रस्तुतिः ...{Loading}...
देवी॑र् आपो, अपान्नपा॒द्
य ऊ॒र्मि-ह॑वि॒ष्यः॑ ।
इन्द्रि॒यावा॑न्+++(=वीर्यवान्)+++ म॒दिन्त॑म॒स्+++(=मादयितृतमः)+++
तन् दे॒वेभ्यो॑ देव॒त्रा+++(=देवस्थाने)+++ ध॑त्त,
शु॒क्रँ शु॑क्र॒पेभ्यो॒ येषा॑म् भा॒गस् स्थ॥
सर्वाष् टीकाः ...{Loading}...
भास्करोक्त-विनियोगः
4अप्सु बर्हिः प्रास्याभिजुहोति - देवीराप इति यजुरन्तया गायत्र्या ॥ मदिन्तम इत्यन्तं व्याख्यातम् ।
मूलम् (संयुक्तम्)
देवी॑रापो अपान्नपा॒द्य ऊ॒र्मिर्ह॑वि॒ष्य॑ इन्द्रि॒यावा॑न्म॒दिन्त॑मः तन्दे॒वेभ्यो॑ देव॒त्रा ध॑त्त
Keith
Ye divine waters, child of the waters, that wave,
Which is rich in oblation, powerful and sweetest,
Give to the gods among the gods,
Pure to the drinkers of the pure, (to them) whose share ye are;
मूलम्
देवी॑रापो अपान्नपा॒द् य ऊ॒र्मिह॑वि॒ष्यः॑ ।
इ॒न्द्रि॒यावा॑न्म॒दिन्त॑म॒स्तन्दे॒वेभ्यो॑ देव॒त्रा ध॑त्त॥
शु॒क्रँ शु॑क्र॒पेभ्यो॒ येषा॑म् भा॒गस्स्थ ।
पद-पाठः
देवीः॑ । आ॒पः॒ । अ॒पा॒म् । न॒पा॒त् । यः । ऊ॒र्मिः । ह॒वि॒ष्यः॑ ।
इ॒न्द्रि॒यावा॒निती॑न्द्रि॒य-वा॒न् । म॒दिन्त॑मः ।
तम् । दे॒वेभ्यः॑ । दे॒व॒त्रेति॑ देव-त्रा । ध॒त्त॒ ।
शु॒क्रम् । शु॒क्र॒पेभ्य॒ इति॑ शुक्र-पेभ्यः॑ । येषा॑म् । भा॒गः । स्थ ।
भट्टभास्कर-टीका
- [ हे देवीरापः । ‘विभाषितं विशेषवचने बहुवचनम्’ इति पूर्वस्य विद्यमानत्वात् आप इति निहन्यते । हे अपां नपात् - चतुर्थो नप्ता; अपां नप्तः; अग्नेराहुतिः, आहुत्या आदित्यः, आदित्याद्वृष्टिः; अद्भ्य ओषधयः, ओषधीभ्योन्नं, अन्नादग्निः, इत्युभयथापि अपान्नपात् अग्निः । न पातयतीति नपात्, क्विपि णिलोपः, नञ्समासे ‘नभ्राण्नपात्’ इति नलोपाभावः; आपो इत्यस्य संहितायां ‘आपो जुषाणः’ इत्यादिना प्रकृतिभावः, ‘सुबामन्त्रिते पराङ्गवत्सरे’ इत्यपामित्यस्य पराङ्गवद्भावः, तेन षष्ठ्यामन्त्रितसमुदायो निहन्यते । युष्मदीयो य ऊर्मिर्हविष्यः । हविरर्हतीति ‘छन्दसि च’ इति यत्प्रत्ययः । इन्द्रियावान् वीर्यवान् । ‘मन्त्रे सोमाश्वेन्द्रिय’ इति दीर्घः । मदिन्तमः मादयितृतमः । मदी हर्षे, अस्मादन्तर्भावितण्यर्थात् ‘शमित्यष्टाभ्यो घिनुण्’ इति घिनुण्, घटादित्वात् ‘मितां ह्रस्वः’ इति ह्रस्वत्वम्, ‘नाद्घस्य’ इति तमपो नुडागमः ।]
तं यथोक्तगुणविशिष्टमूर्मिं देवत्रा देवेषु धत्त स्थापयत । किमर्थं? देवेभ्यः देवार्थं देवानामेवोपभोगार्थम् । ‘देवमनुष्यपुरुष’ इत्यादिना त्राप्रत्ययः । यद्वा - देवाधीनं धत्त देवानामेवोपभोगार्थम् । ‘देये त्रा च’ इति त्रापत्ययो दधातियोगेपि भवति, देवयागार्थमस्मभ्यं धत्तेति यावत् ।
पुनश्च विशेष्यते - शुक्रं सोमं सोमीभविष्यन्तम् । केभ्यः? शुक्रपेभ्यः देवानां मध्ये ये शुक्रपास्सोमपास्तेभ्यः । पुनश्च देवा विशेष्यन्ते - हे आपः येषां देवानां यूयं भागस्स्थ्य भागभूता भविष्यथ तेभ्यो धत्तेति । भागशब्दः ‘कर्षात्वतः’ इत्यन्तोदात्तः ॥
विश्वास-प्रस्तुतिः
स्वाहा॑ ।
Keith
hail
मूलम्
स्वाहा॑ ।
पद-पाठः
स्वाहा॑ ।
भट्टभास्कर-टीका
स्वाहा स्वाहुतं चेदं युष्मभ्यमाज्यमस्तु ।
‘आहुत्यैवैना निष्क्रीय गृह्णात्य् - अथो हविष्कृतानाम् एवाभिघृतानां गृह्णाति’ इति ब्राह्मणम् ।
भास्करोक्त-विनियोगः
5मैत्रावरुणचमसेनाहुतिं प्लावयाति - कार्षिरसीति ॥
विश्वास-प्रस्तुतिः
+++(आज्य!)+++ कार्षि॑र्+++(=कर्षणीयम्)+++ अ॒स्य्, अप +अ॒पाम् मृ॒ध्रम्+++(←मृध् युद्धे)+++ +++(कर्षामि/ कर्ष)+++।
मूलम्
कार्षि॑र॒स्यपा॒पाम्मृ॒ध्रम् ।
पद-पाठः
कार्षिः॑ । अ॒सि॒ । अपेति॑ । अ॒पाम् । मृ॒ध्रम् ।
भट्टभास्कर-टीका
5मैत्रावरुणचमसेनाहुतिं प्लावयाति - कार्षिरसीति ॥
हे आज्य! अप्सु हुतं कार्षिः कर्षणीयम् अपनेतव्यम् असि । ‘कृषेर्वृद्धिश्छन्दसि’ इति कृषेरिञ्प्रत्ययः । यस्मादेवं तस्मात् त्वाम् अपप्लावयामि अपनयामीत्यर्थः ।
अपेत्य् उपसर्ग-श्रुतेर् योग्यं क्रियापदम् अध्याह्रियते ।
कुतः पुनरिदमवसीयत इत्याह - अपां मृध्रं यस्मात् त्वमपां सम्बन्ध्य् अनिष्ट-रूपं; युद्धाभिधायिना मृध-शब्देनानिष्ट-रूपत्वं लक्ष्यते । तद् अस्यास्तीति मृध्रम् । ‘लुगकारेकाररेफाश्च वक्तव्याः’ इति मत्वर्थीयो रप्रत्ययः । दोषरूपं त्वाम् अपनयामीत्यर्थः ।
यद्वा - कठिनत्वं लक्ष्यते; आज्यं च जलगतं चेत्कठिनं भवति; तस्य दोषरूपत्वादपनयामीति । ‘कार्षिरसीत्याह शमलमेवासामप प्लावयति’ `इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
6बर्हिष्य् अन्तर्धायोन्नयति - समुद्रस्य व इति ॥
विश्वास-प्रस्तुतिः
स॒मु॒द्रस्य॒॑ वो ऽक्षि॑त्या॒ उन्न॑ये ।
Keith
I draw you for the sustenance of the waters.
मूलम्
स॒मु॒द्रस्य॒॑ वोऽक्षि॑त्या॒ उन्न॑ये ।
पद-पाठः
स॒मु॒द्रस्य॑ । वः॒ । अक्षि॑त्यै । उदिति॑ । न॒ये॒ ॥ 4L
भट्टभास्कर-टीका
6बर्हिष्यन्तर्धायोन्नयति - समुद्रस्य व इति ॥ समुद्रस्योदकराशेः पूर्वेद्युर्गृहीतस्य वसतीवरीशब्दवाच्यस्य अक्षित्यै अक्षणाय युष्मानुन्नये मैत्रावरुणचमसेन गृह्णामीति । ‘मित्रावरुणौ वा अपां नेतारौ’ ‘तस्मादद्यमानाः’ इत्यादि ब्राह्मणम् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
यम् अ॑ग्ने पृ॒त्सु+++(=युद्धेषु)+++ मर्त्य॒म्
आवो॒ वाजे॑षु॒+++(←वज्=स्पर्धासु)+++ यञ् जु॒नाः ।
स यन्ता॒ शश्व॑ती॒र् इषः॑ ॥ [23]
सर्वाष् टीकाः ...{Loading}...
भास्करोक्त-विनियोगः
7क्रतुकरणं जुहोति - यमग्न इति त्रिपदया गायत्र्या ॥
Keith
That mortal, O Agni, whom thou hast helped in the battles, Whom thou hast strengthened in the contest for booty, He winneth I abiding strength.
मूलम्
यम॑ग्ने पृ॒त्सु मर्त्य॒मावो॒ वाजे॑षु॒ यञ्जु॒नाः ।
स यन्ता॒ शश्व॑ती॒रिषः॑ ॥ [23]
पद-पाठः
यम् । अ॒ग्ने॒ । पृ॒त्स्विति॑ पृत्-सु । मर्त्य॑म् । आवः॑ । वाजे॑षु । यम् । जु॒नाः ॥ सः । यन्ता॑ । शश्व॑तीः । इषः॑ ॥ [23]
भट्टभास्कर-टीका
‘यद्यग्निष्टोमो जुहोति’ `इति ब्राह्मणम् । हे अग्ने यं मर्त्यं पृत्सु सङ्ग्रामेषु आवः रक्षसि । ‘छन्दसि लुङ्लङ्लिटः’ इत्यवतेर्लङ्, आडागम उदात्तः ॥ ‘मांस्पृत्स्नूनामुपसङ्ख्यानम्’ इति पृतनाशब्दस्य पृद्भावः, ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् । कः पुनरसौ यं पृतनासु रक्षसीत्याह वाजेष्व् अन्नेषु निमित्तभूतेषु । ‘निमित्तात्कर्मसंयोगे’ इति सप्तमी । अन्नार्थं यं जुनाः गच्छसि । जु इति सौत्रो धातुः वेगितायां गतौ वर्तते, तस्मात्पूर्ववल्लुङ्, श्नाप्रत्ययः, ‘बहुलं छन्दस्यमाङ्योगेपि’ इत्यडभावः । हवींषि ग्रहीतुं यस्य सकाशं सदा गच्छसीत्यर्थः । स एव खलु त्वया सङ्ग्रामेषु रक्ष्यत्वेन ग्राह्यते । यश्च त्वयैवं रक्ष्यते स एव खलु त्वयानुगृहीतः यन्ता यमयिता वशीकर्ता ॥ ‘न लुट् इति’ निघातप्रतिषेधः, उदात्तनिवृत्तिस्वरो व्यत्ययेन प्रवर्तते । किं वशीकरिष्यतीत्याह - शश्वतीः नित्याः इषः अन्नादि प्रभूतं धनं प्राप्नोतीत्यर्थः । शश्वच्छब्दात् ‘उगितश्च’ इति ङीप् ॥
इति तृतीये त्रयोदशोनुवाकः ॥