वसतीवरीसंज्ञकानामपां ग्रहणम्
सोमाभिषवसङ्गता मन्त्राः १२-१३ अनुवाकौ
अनुष्टुप्
सोमऋषिः
भास्करोक्त-विनियोगः
1वसतीवरीर्गृह्णाति - हविष्मतीरिति चतुष्पदया ॥
मूलम् (संयुक्तम्)
ह॒विष्म॑तीरि॒मा आपो॑ ह॒विष्मा॑न्दे॒वो अ॑ध्व॒रो ह॒विष्माँ॒ आ वि॑वासति ह॒विष्माँ॑ अस्तु॒ सूर्यः॑ ॥
विश्वास-प्रस्तुतिः ...{Loading}...
ह॒विष्म॑तीर् इ॒मा +++(वसतीवरीसंज्ञा)+++ आपो॑
ह॒विष्मा॑न् दे॒वो अ॑ध्व॒रः ।
ह॒विष्माँ॒ आ वि॑वासति +++(←वा गतिगन्धनयोः)+++
ह॒विष्माँ॑ अस्तु॒ सूर्यः॑ ॥
सर्वाष् टीकाः ...{Loading}...
भास्करोक्त-विनियोगः
1वसतीवरीर्गृह्णाति - हविष्मतीरिति चतुष्पदया ॥ ‘अनुष्टुभा गृह्णाति’ इत्यादि ब्राह्मणम् ।
Keith
These waters are rich in oblation,
Rich in oblation is the divine sacrifice,
Rich in oblation he seeks to win (the gods?),
Rich in oblation be the sun.
मूलम्
ह॒विष्म॑तीरि॒मा आपो॑ ह॒विष्मा॑न्दे॒वो अ॑ध्व॒रः ।
ह॒विष्माँ॒ आ वि॑वासति ह॒विष्माँ॑ अस्तु॒ सूर्यः॑ ॥
पद-पाठः
ह॒विष्म॑तीः । इ॒माः । आपः॑ । ह॒विष्मा॑न् । दे॒वः । अ॒ध्व॒रः ।
ह॒विष्मा॑न् । एति॑ । वि॒वा॒स॒ति॒ । ह॒विष्मा॑न् । अ॒स्तु॒ । सूर्यः॑ ॥ 2B ।
भट्टभास्कर-टीका
इमा वसतीवरीसंज्ञा आप हविष्मतीः हविष्मत्यः हविषा सोमेन संस्कार्येण तद्वत्यः सोमसंस्कारकारका इत्यर्थः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्धत्वम् । एताभिश्च सोमम् अनुप्रविश्य स्वयम् अपि हविष्ट्वम् आपन्नाभिर् हविष्मान् अस्तु । देवो देवनादिगुणो ऽध्वरो यागः, हिंसक-रहितत्वात् । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - यागेनाराध्यो देवस्सर्वविजयी हविष्मानस्तु । ‘अनुदात्ते च कुधपरे’ इति संहितायां देवो इति प्रकृत्या भवति ।
ततश् चानेनैव प्रकारेण यजमानोपि हविष्मान् सन् आविवासति आविवासतु परिचरतु देवान् । ‘आतोऽटि नित्यम्’ इति संहितायां नकारस्य रुत्वम्, ‘अत्रानुनासिकः पूर्वस्य तु वा’, ‘अनुनासिकात्परोनुस्वारः’ ।
तदर्थम् एताभिर्गृह्यमाणाभिः हविष्मान्भगवान् सूर्योस्तु । एतासां हविष्ट्वसम्पादनाय यावद्ग्रहणमस्तं नेयादित्यर्थः । ‘यस्यागृहीता अभि निम्रोचेत्’ इत्यादि ब्राह्मणम् । पूर्ववत्संहितायां रुत्वम् । ‘देवा वै यज्ञमाग्नीध्रे व्यभजन्त ततो यदत्यशिष्यत’ इत्यादि ब्राह्मणं समस्तोनुवाकः ॥
भास्करोक्त-विनियोगः
2ता जघनेन शालामुखीयं वेद्यां संसृष्टास् सादयति - अग्नेर्व इति ॥
मूलम् (संयुक्तम्)
अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामि सु॒म्नाय॑ सुम्निनीस्सु॒म्ने मा॑ धत्त
विश्वास-प्रस्तुतिः
अ॒ग्नेर् वो ऽप॑न्न-गृहस्य॒ सद॑सि सादयामि सु॒म्नाय॑+++(=सुखाय)+++।
सुम्निनीस् सु॒म्ने मा॑ धत्त ।
Keith
In the seat of Agni whose home is abiding I set you down, kindly for kindness, accord to me kindness.
मूलम्
अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामि सु॒म्नाय॑।
सुम्निनीस्सु॒म्ने मा॑ धत्त ।
पद-पाठः
अ॒ग्नेः । वः॒ । अप॑न्नगृह॒स्येत्यप॑न्न-गृ॒ह॒स्य॒ । सद॑सि । सा॒द॒या॒मि॒ । सु॒म्नाय॑ ।
सु॒म्नि॒नीः॒ । सु॒म्ने । मा॒ । ध॒त्त॒ ।
भट्टभास्कर-टीका
2ता जघनेन शालामुखीयं वेद्यां संसृष्टास्सादयति - अग्नेर्व इति ॥
अपन्नगृहस्य अविपन्नगृहस्य नित्यगृहस्य च सदसि तदधिष्ठिते तत्-समीप-स्थाने युष्मान् सुम्नाय सुखार्थं सादयामि यजमानस्य सुखं स्यादिति ।
हे सुम्निनीः सुम्निन्यः सर्वदा सुख-हेतु-भूताः । पूर्ववत् पूर्वसवर्णदीर्घत्वम् +++(‘वा छन्दसि [जसि इचि]’ (पा.सू. 6.1.106))+++ । माम् अध्वर्युम् अपि सुम्ने धत्त स्थापयत ।
‘अस्मै वै लोकाय गार्हपत्य अधीयते’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
3ता आदाय दक्षिणया द्वारोपनिर्हृत्य सव्ये ऽंसे निधाय दक्षिणेन परीत्य दक्षिणतो यूपेन संस्पृष्टास् सादयति - इन्द्राग्नियोरिति ॥
विश्वास-प्रस्तुतिः
इ॒न्द्रा॒ग्नि॒योर् भा॑ग॒धेयीः॑ स्थ ।
Keith
Ye are the share of Indra and Agni;
मूलम्
इ॒न्द्रा॒ग्नि॒योर्भा॑ग॒धेयीः॑ स्थ ।
पद-पाठः
इ॒न्द्रा॒ग्नि॒योरिती॑न्द्र-अ॒ग्नि॒योः । भा॒ग॒धेयी॒रिति॑ भाग-धेयीः॑ । स्थ॒ ।
भट्टभास्कर-टीका
3ता आदाय दक्षिणया द्वारोपनिर्हृत्य सव्ये ऽंसे निधाय दक्षिणेन परीत्य दक्षिणतो यूपेन संस्पृष्टास् सादयति - इन्द्राग्नियोरिति ॥
इन्द्राग्न्योर्भागधेयीः भागभूता यूयं स्थ । ‘भागरूपनामभ्यो धेयः’ इति स्वार्थे धेयप्रत्ययः । ‘केवलमामकभागधेय’ इत्यादिना ङीप् । इन्द्राग्निशब्दस्य ‘देवताद्वन्द्वे च’ इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वे ‘नोत्तरपदेनुदात्तादौ’ इति प्रतिषिद्धे समासान्तोदात्तत्वमेव, तत्र ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वम् । ‘सर्वतः परिहरति रक्षसामपहत्यै’ `इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
4दक्षिणेंसे निधाय एतेनैव यथोक्तमेत्य जघनेन गार्हपत्यं पूर्ववत्सादयति - मित्रावरुणयोर्भागधेयीस्स्थेति ॥
विश्वास-प्रस्तुतिः
मि॒त्रावरु॑णयोर् भाग॒धेयीः॑ स्थ ।
Keith
ye are the share of Mitra and Varuna;
मूलम्
मि॒त्रावरु॑णयोर्भाग॒धेयीः॑ स्थ ।
पद-पाठः
मि॒त्रावरु॑णयो॒रिति॑ मि॒त्रा-वरु॑णयोः । भा॒ग॒धेयी॒रिति॑ भाग-धेयीः॑ । स्थ॒ ।
भट्टभास्कर-टीका
4दक्षिणेंसे निधाय एतेनैव यथोक्तमेत्य जघनेन गार्हपत्यं पूर्ववत्सादयति - मित्रावरुणयोर्भागधेयीस्स्थेति ॥ सुबोधम् । ‘मित्रावरुणौ वा अपां नेतारौ’ `इति ब्राह्मणम् ।‘देयताद्वन्द्वे च’ इति पूवोत्तरपदयोः प्रकृतिस्वरत्वम् ॥
भास्करोक्त-विनियोगः
5पूर्वया द्वारोपनिर्हृत्य दक्षिणे अंसे निधायोत्तरतः परीत्य
उत्तरतो यूपेन संसृष्टास्सादयति - विश्वेशां देवानां भागधेयीस्स्थेति ॥
विश्वास-प्रस्तुतिः
विश्वे॑षान्दे॒वाना॑म्भाग॒धेयीः॑ स्थ ।
Keith
ye are the share of the all-gods.
मूलम्
विश्वे॑षान्दे॒वाना॑म्भाग॒धेयीः॑ स्थ ।
पद-पाठः
विश्वे॑षाम् । दे॒वाना॑म् । भा॒ग॒धेयी॒रिति॑ भाग-धेयीः॑ । स्थ॒ ।
भट्टभास्कर-टीका
5पूर्वया द्वारोपनिर्हृत्य दक्षिणे अंसे निधायोत्तरतः परीत्य
उत्तरतो यूपेन संसृष्टास्सादयति - विश्वेशां देवानां भागधेयीस्स्थेति ॥ गतम् ॥
भास्करोक्त-विनियोगः
6सव्येंसे निधायैतेनैव यथेतम् एत्य
जघनेनैवाग्नीध्रियं धिष्ण्यं संसृष्टास् सादयति - यज्ञे जागृतेति ॥
विश्वास-प्रस्तुतिः
य॒ज्ञे जा॑गृत ॥ [21]
Keith
Be watchful over the sacrifice.
मूलम्
य॒ज्ञे जा॑गृत ॥ [21]
पद-पाठः
य॒ज्ञे । जा॒गृ॒त॒ ॥ [21]
भट्टभास्कर-टीका
6सव्येंसे निधायैतेनैव यथेतम् एत्य
जघनेनैवाग्नीध्रियं धिष्ण्यं संसृष्टास् सादयति - यज्ञे जागृतेति ॥
हे वसतीवर्यः, यज्ञेस्मिन्जागृत यज्ञार्थमप्रमत्ता भवत । ‘आग्नीध्र उपवासयत्येतद्वै यज्ञस्यापराजितम्’ इत्यादि ब्राह्मणम् ‘आ तृतीयसवनात्परि शेरे यज्ञस्य सन्तत्यै’ इत्यन्तम् ॥
इति तृतीये द्वादशोनुवाकः ॥