गुदकाण्डकरणक-उपयट्संज्ञका होमाः
सोमऋषिः
भास्करोक्त-विनियोगः
1उपयष्टोपयनति +++(आन्त्रनालखण्डम् सुशोधितस्य)+++ गुदस्य प्रच्छेदात् - समुद्रं गच्छ स्वाहेत्येकादशभिर्मन्त्रैः ॥
विश्वास-प्रस्तुतिः
स॒मु॒द्रङ्ग॑च्छ॒ स्वाहा॑ ।
Keith
Go to the ocean, hail!
मूलम्
स॒मु॒द्रङ्ग॑च्छ॒ स्वाहा॑ ।
पद-पाठः
स॒मु॒द्रम् । ग॒च्छ॒ । स्वाहा॑ ।
भट्टभास्कर-टीका
1उपयष्टोपयनति गुदस्य प्रच्छेदात् - समुद्रं गच्छ स्वाहेत्येकादशभिर्मन्त्रैः ॥ समुद्रादिशब्दवाच्याश्च देवताः प्रसिद्धाः । गुदावदानं चेह गच्छेत्युच्यते । समुद्रवाच्यां देवतां गच्छ, स्वाहा करोमीति शेषः, समुद्राय त्वा स्वाहुतं करोमीति । एवमन्तरिक्षादिष्वपि योज्यम् । ‘समुद्रं गच्छ स्वाहेत्याह रेत एव तद्दधाति’ `इति ब्राह्मणम् । प्रजावृद्धिहेतुत्वादुपयजामेवमुक्तम् । ‘यज्ञेन वै प्रजापतिः प्रजा असृजत ता उपयड्भिरेव’ इत्यादि ब्राह्मणम् ॥
विश्वास-प्रस्तुतिः
अ॒न्तरि॑क्षङ्गच्छ॒ स्वाहा॑ ।
Keith
Go to the atmosphere, hail!
मूलम्
अ॒न्तरि॑क्षङ्गच्छ॒ स्वाहा॑ ।
पद-पाठः
अ॒न्तरि॑क्षम् । ग॒च्छ॒ । स्वाहा॑ ।
भट्टभास्कर-टीका
2अन्तरिक्षं प्रजानां प्रजननं, ‘अन्तरिक्षं ह्यनु प्रजाः प्र जायन्ते’ ॥
विश्वास-प्रस्तुतिः
दे॒वँ स॑वि॒तार॑ङ्गच्छ॒ स्वाहा॑ ।
Keith
Go to god Savitr, hail!
मूलम्
दे॒वँ स॑वि॒तार॑ङ्गच्छ॒ स्वाहा॑ ।
पद-पाठः
दे॒वम् । स॒वि॒तार॑म् । ग॒च्छ॒ । स्वाहा॑ ।
भट्टभास्कर-टीका
3सविता देवस्सर्वस्य प्रेरकः, तेन सवित्रा प्रसूत एवास्मै प्रजाः प्रजनयति ॥
विश्वास-प्रस्तुतिः
अ॒हो॒रा॒त्रे ग॑च्छ स्वाहा॑ ।
Keith
Go to day and night, hail!
मूलम्
अ॒हो॒रा॒त्रे ग॑च्छ स्वाहा॑ ।
पद-पाठः
अ॒हो॒रा॒त्रे इत्य॑हः-रा॒त्रे । ग॒च्छ॒ । स्वाहा॑ ।
भट्टभास्कर-टीका
4अहोरात्रे प्रजानामाधारत्वेन जन्महेतू, ‘अहोरात्रे ह्यनु प्रजाः प्र जायन्ते’ । ‘अहस्सर्वैकदेश’ इत्यच्समासान्तः, ‘हेमन्तशिशिरावहोरात्रे’ इति निपात्यते ॥
विश्वास-प्रस्तुतिः
मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॑ ।
Keith
Go to Mitra and Varuna, hail!
मूलम्
मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॑ ।
पद-पाठः
मि॒त्रावरु॑णा॒विति॑ मि॒त्रा-वरु॑णौ । ग॒च्छ॒ । स्वाहा॑ ।
भट्टभास्कर-टीका
5प्रजानां प्राणापानौ मित्रावरुणौ । तेन ‘प्रजास्वेव प्रजातासु प्राणापानौ दधाति’ । ‘देवताद्वन्द्वे च’ इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
विश्वास-प्रस्तुतिः
सोम॑ङ्गच्छ॒ स्वाहा॑ ।
Keith
Go to Soma, hail!
मूलम्
सोम॑ङ्गच्छ॒ स्वाहा॑ ।
पद-पाठः
सोम॑म् । ग॒च्छ॒ । स्वाहा॑ ।
भट्टभास्कर-टीका
6सोमः प्रजानां देवता, ‘सौम्या हि देवतया प्रजाः’ इति ॥
विश्वास-प्रस्तुतिः
य॒ज्ञङ्ग॑च्छ॒ स्वाहा॑ ।
Keith
Go to the sacrifice, hail!
मूलम्
य॒ज्ञङ्ग॑च्छ॒ स्वाहा॑ ।
पद-पाठः
य॒ज्ञम् । ग॒च्छ॒ । स्वाहा॑ ।
भट्टभास्कर-टीका
7यज्ञः प्रजानामभ्युदयकारी । तेन ‘प्रजा एव यज्ञियाः करोति’ इति ॥
विश्वास-प्रस्तुतिः
छन्दाँ॑सि गच्छ॒ स्वाहा॑ ।
Keith
Go to the meters, hail!
मूलम्
छन्दाँ॑सि गच्छ॒ स्वाहा॑ ।
पद-पाठः
छन्दाँ॑सि । ग॒च्छ॒ । स्वाहा॑ ।
भट्टभास्कर-टीका
8छन्दांसि स्वयं पशवः, तेन पशूनेवावरुन्धे यजमानः प्रजानामेव पुष्ट्यर्थम् ॥
विश्वास-प्रस्तुतिः
द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॑ ।
Keith
Go to the sky and the earth, hail!
मूलम्
द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॑ ।
पद-पाठः
द्यावा॑पृथि॒वी इति॒ द्यावा॑-पृ॒थि॒वी । ग॒च्छ॒ । स्वाहा॑ ।
भट्टभास्कर-टीका
9द्यावापृथिव्यौ प्रजानां वृद्धिहेतू, तेन ‘प्रजा एव प्रजाता द्यावापृथिवीभ्यामुभयतः परि गृह्णाति’ इति । ‘दिवो द्यावा’ इति द्यावादेशः, पूर्ववदुभयपदप्रकृतिस्वरत्वम् ॥
विश्वास-प्रस्तुतिः
नभो॑ दि॒व्यङ्ग॑च्छ॒ स्वाहा॑ ।
Keith
Go to the clouds of the sky, hail!
मूलम्
नभो॑ दि॒व्यङ्ग॑च्छ॒ स्वाहा॑ ।
पद-पाठः
नभः॑ । दि॒व्यम् । ग॒च्छ॒ । स्वाहा॑ ।
भट्टभास्कर-टीका
10नभस्सलिलम् । दिवे हितं दिव्यं देवेभ्यो हितं सस्याद्युत्पत्तिहेतुत्वेन यागहेतुत्वात् वर्षजलमुच्यते, ‘प्रजाभ्य एव प्रजाताभ्योवृष्टिं नि यच्छति’ इति । समुर्द्रे निषेकः । तस्य दिव्येव रक्षा ‘भवे छन्दसि’ इति यप्रत्ययः ॥
विश्वास-प्रस्तुतिः
अ॒ग्निव्ँ वै॑श्वान॒रङ्ग॑च्छ॒ स्वाहा॑ ।
Keith
Go to Agni Vaiśvanara, hail!
मूलम्
अ॒ग्निव्ँ वै॑श्वान॒रङ्ग॑च्छ॒ स्वाहा॑ ।
पद-पाठः
अ॒ग्निम् । वै॒श्वा॒न॒रम् । ग॒च्छ॒ । स्वाहा॑ ।
भट्टभास्कर-टीका
11विश्वेषां नराणाम् सम्बन्धी अग्निर्वैश्वानरो जाठर उच्यते । तेन ‘प्रजा एव प्रजाता अस्यां प्रतिष्ठापयति’ इति । आयुष्मतीः करोति । ‘नरे संज्ञायाम्’ इति पूर्वपदस्य दीर्घत्वम् ॥
भास्करोक्त-विनियोगः
12बर्हिषि हस्तौ निमार्ष्टि - अद्भ्यस्त्वेति ॥
मूलम् (संयुक्तम्)
अद्भ्यस्त्वौष॑धीभ्यो॒ मनो॑ मे॒ हार्दि॑ यच्छ
विश्वास-प्रस्तुतिः
+++(गुदावदानलेप!)+++ अ॒द्भ्यस् त्वौष॑धीभ्यः +++(निमार्ज्मि)+++।
मनो॑ मे॒ हार्दि॑ यच्छ ।
Keith
To the waters thee! To the plants thee!
Give me mind and heart!
मूलम्
अ॒द्भ्यस्त्वौष॑धीभ्यः।
मनो॑ मे॒ हार्दि॑ यच्छ ।
पद-पाठः
अ॒द्भ्य इत्य॑त्-भ्यः । त्वा॒ । ओष॑धीभ्य॒ इत्योष॑धि-भ्यः॒ ।
मनः॑ । मे॒ । हार्दि॑ । य॒च्छ॒ ।
भट्टभास्कर-टीका
12बर्हिषि हस्तौ निमार्ष्टि - अद्भ्यस्त्वेति ॥ हस्तगतो गुदावदानलेपः उच्यते । अपामोषधीनां च सिद्धिर् यजमानस्य स्यादिति त्वां निमार्ज्मीति शेषः । बार्हिष्युदकेन शोधयामीत्यर्थः । उक्तस्वरौ चैतौ ।
स त्वं मे हार्दि हर्षवन् मनो यच्छ देहि मदीयं मनो हृष्टं कुर्व्विति यावत् । हृदि भवो हार्दः हृदयविकारः प्रार्थनीयः, स च हर्षः प्रसादो वा, सोस्यास्तीति हार्दि । ‘हृदयस्य हृल्लेखयदणलासेषु’ इति हृद्भावः, वृषादित्वादाद्युदात्तत्वं द्रष्टव्यम् । ‘प्राणानां वा एषोऽवद्यति योऽवद्यति गुदस्य मनो मे’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
13धूमम् अन्वीक्षते - तनूमिति ॥
मूलम् (संयुक्तम्)
त॒नून्त्वच॑म्पु॒त्त्रन्नप्ता॑रमशीय।
विश्वास-प्रस्तुतिः
त॒नून् त्वच॑म् पु॒त्त्रन् नप्ता॑रम् अशीय।
Keith
May I acquire body, skin, son, and grandson.
मूलम्
त॒नून्त्वच॑म्पु॒त्त्रन्नप्ता॑रमशीय।
पद-पाठः
त॒नूम् । त्वच॑म् । पु॒त्रम् । नप्ता॑रम् । अ॒शी॒य॒ ।
भट्टभास्कर-टीका
13धूमम् अन्वीक्षते - तनूमिति ॥ शोभनतन्वादीनामाशासनस्य युक्तस्वात् शोभनास्तन्वादयो गृह्यन्ते । तन्वादीनि शौभनान्यशीय प्राप्नुयाम् । अश्नोतेर्लिङि ‘बहुलं छन्दसि’ इति शपो लुक्, सीयुडादि । ‘कृषिचमितनि’ इत्यादिना तनोतेरूप्रत्ययः ॥
भास्करोक्त-विनियोगः
14हृदय-शूलम् उद्वासयति - शुगसीति ॥
मूलम् (संयुक्तम्)
शुग॑सि॒ तम॒भि शो॑च॒ यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मः।
विश्वास-प्रस्तुतिः
शुग॑सि ।
तम् अ॒भि शो॑च॒ यो॑ऽस्मान् द्वेष्टि॒
यञ् च॑ व॒यन् द्वि॒ष्मः।
Keith
Thou art pain;
pain him who hateth us and whom we hate.
मूलम्
शुग॑सि ।
तम॒भि शो॑च॒ यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मः।
पद-पाठः
शुक् । अ॒सि॒ ।
तम् । अ॒भीति॑ । शो॒च॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः ।
भट्टभास्कर-टीका
14हृदय-शूलम् उद्वासयति - शुगसीति ॥ हे हृदयशूल शुक् शोकस्त्वमसि, तस्माद्योस्मान्द्वेष्टि, यं च वयं द्विष्मस्तमभिशोच आभिमुख्येन शोचय । ‘पशोर्वा आलब्धस्य हृदयं शुगृच्छति - सा हृदयशूलमभि समेति’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
15सर्व एवाद्भिर् मार्जयन्ते - धाम्नोधाम्न इति ॥
मूलम् (संयुक्तम्)
धाम्नो॑धाम्नो राजन्नि॒तो व॑रुण नो मुञ्च॒ यदापो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ॥ [20]
विश्वास-प्रस्तुतिः ...{Loading}...
धाम्नो॑धाम्नो+++(=शृङ्खलाभ्यो)+++ राजन्न्
इ॒तो व॑रुण नो मुञ्च ।
यद् “+++(श्रुणुत)+++ आपो॒ अघ्नि॑या॒ +++(→गावः)+++ वरु॒णे"ति॒ शपा॑महे॒
ततो॑ वरुण नो मुञ्च ॥
सर्वाष् टीकाः ...{Loading}...
विश्वास-प्रस्तुतिः ...{Loading}...
धाम्नो॑धाम्नो+++(=शृङ्खलाभ्यो)+++ राजन्न्
इ॒तो व॑रुण नो मुञ्च ।
यद् “+++(श्रुणुत)+++ आपो॒ अघ्नि॑या॒ +++(→गावः)+++ वरु॒णे"ति॒ शपा॑महे॒
ततो॑ वरुण नो मुञ्च ॥
Keith
From every rule of thine, O King Varuna, set us free;
From whatever oath by the waters, by the kine, by Varuna, we have sworn, From that, O Varuna, set us free.
मूलम्
धाम्नो॑धाम्नो राजन्नि॒तो व॑रुण नो मुञ्च ।
यदापो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ॥
पद-पाठः
धाम्नो॑धाम्न॒ इति॒ धाम्नः॑-धा॒म्नः॒ । रा॒ज॒न् । इ॒तः । व॒रु॒ण॒ । नः॒ । मु॒ञ्च॒ ।
यत् । आपः॑ । अघ्नि॑याः । वरु॑ण । इति॑ । शपा॑महे । ततः॑ । व॒रु॒ण॒ । नः॒ । मु॒ञ्च॒ ॥ [20]
भट्टभास्कर-टीका
15सर्व एवाद्भिर् मार्जयन्ते - धाम्नोधाम्न इति ॥ धाम्नोधाम्नः स्थानात्स्थानात् । कस्य? शुगसीति प्रकृतत्वाच्छोकस्य । शोकस्थानं च द्वेष्टा द्वेष्यश्च ‘योस्मान्द्वेष्टि यं च वयं द्विष्मः’ इति यौ प्रकृतौ । अयमर्थः - इतः प्रकृताच्छोकस्थ स्थानात् द्वेष्टृलक्षणाद्द्वेष्यलक्षणाच्च, हे राजन् वरुण अस्मान्मुञ्च द्वेष्ट्रादिलक्षणात्सर्वस्माच्छोकस्थानादस्मान्मुञ्चेति । वीप्सायां द्विर्वचनम्, आम्रेडितस्य चानुदात्तत्वम् ।
किञ्च - हे वरुण ततोभिशापादस्मान्मुञ्च । कुतः? शोकाभितप्ता वयं हे आपः हे अघ्नियाः हे वरुण इति यच्छपामहे यच्छापेनास्माभिः पापमुपार्जितं तस्मादपीत्यर्थः । शापो हि प्रशस्तदेवतानामसङ्कीर्तनेन परेषामनर्थाशंसनम् । यथा - कश्चिच्छोकाभितप्त आह - हे आपः यूयमेवेह जाल्मं द्रष्टुमर्हथ; ‘आपोवै सर्वा देवताः’ इति मन्यामह इति । एवं गवादिष्वपि द्रष्टव्यम् ।
निदर्शनं चैतत् प्रशस्तदेवतानामन्यासामपि । यथा - हे इर्श्वर, हे तपन, हे विधातरिति । तत्र लौकिकानां कृताद्युदात्तानामामन्त्रणपदानामिदमनुकरणम् । ततश्च सत्यपि पदात्परत्वे आमन्त्रितनिघातो न प्रवर्तते । न ह्यत्र मार्जयमाना अबादीनामन्त्रयन्ते । शप आक्रोशे स्वरितेत्त्वादात्मनेपदम् । यद्वा - ‘शप उपालम्भने’ इत्यात्मनेपदम् । वाचा शरीरस्पर्शनमुपालम्भः । अतोयमर्थः - हे आपः युष्मभ्यं शपामहे नेदमस्माभिर्ज्ञातमिति । एवं यच्छपामहे सत्यमिति वा विषये शोकावेगेन ततोपि पापादस्मान्मुञ्चेति । अघ्नियाशब्दो यत्प्रत्ययान्तोन्तोदात्तः । यथा ‘पतिरघ्नियानाम्’ इति । तस्य षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । वरुणेत्यप्यघ्नियाशब्दानन्तरमामन्त्रितानुकरणत्वान्न निहन्यते, अन्यस्तु निहन्यत एव ॥
इति तृतीये एकादशोनुवाकः ॥