१० वसाहोमः

सोमऋषिः


भास्करोक्त-विनियोगः

1पृषदाज्येन हृदयम् अभिघारयति - सन्ते मनसेति ॥

मूलम् (संयुक्तम्)

सन्ते॒ मन॑सा॒ मन॒स्सम्प्रा॒णेन॑ प्रा॒णो जुष्ट॑न्दे॒वेभ्यो॑ ह॒व्यङ्घृ॒तव॒त् स्वाहा॑

विश्वास-प्रस्तुतिः

सन् ते॒ मन॑सा॒ मन॒स्
सम्प्रा॒णेन॑ प्रा॒णो
जुष्ट॑न् दे॒वेभ्यो॑
ह॒व्यङ् घृ॒तव॒त् -
स्वाहा॑

Keith

Let thy mind with the mind,
let thy breath with the breath (of the gods be united)
Be this offering rich in ghee pleasing to the gods;
hail!

मूलम्

सन्ते॒ मन॑सा॒ मन॒स्सम्प्रा॒णेन॑ प्रा॒णो जुष्ट॑न्दे॒वेभ्यो॑ ह॒व्यङ्घृ॒तव॒त् स्वाहा॑

पद-पाठः

समिति॑ । ते॒ । मन॑सा । मनः॑ । समिति॑ । प्रा॒णेनेति॑ प्र-अ॒नेन॑ । प्रा॒ण इति॑ प्र-अ॒नः । जुष्ट॑म् । दे॒वेभ्यः॑ । ह॒व्यम् । घृ॒तव॒दिति॑ घृ॒त-व॒त् । स्वाहा॑ ।

भट्टभास्कर-टीका

1पृषदाज्येन हृदयम् अभिघारयति - सन्ते मनसेति ॥ हे हृदय ते तव मनसा मनस्स्थानीयेन मननीयेन वानेन पृषदाज्येन देवानां मनस्सङ्गतमस्तु, तथा देवानामिदं स्पृहणीयमस्तु यथा तेषां मनो न जहातीति । समित्युपसर्गश्रुतेर्योग्यं क्रियापदमध्याह्रियते ।

किञ्च - त्वदीयेन प्राणेन प्राणस्थानीयेन प्राणसाधनेन वानेन पृषदाज्येन देवानां प्राणस्सङ्गतोस्तु । प्राणशब्दस्थाथादिस्वरेणान्तोदात्तः । एतादृशेन देवानां प्रियतमेन पृषदाज्येन त्वामभिघारयामीति भावः ।

त्वं च तादृशेनानेनाभिघारितं देवानां जुष्टं प्रियतमं भविष्यसि । ‘षष्ठ्यर्थे चतुर्थी वक्तव्या’ इति चतुर्थी । ‘नित्यं मन्त्रे’ इति जुष्टशब्द आद्युदात्तः ।

किञ्च - हव्यं घृतवत् अनेन पृषदाज्येन तवत्कृतं हवनार्हं च भविष्यसि । ‘छन्दसि च’ इति हवशब्दाद्यः । यद्वा - ‘अचो यत्’ इति यत्, तदा उञ्छादिर्द्रष्टव्यः ।

स्वाहा इत्थं त्वामभिघारयामीति स्वैव प्रजापतेर्वागाह । यद्वा - इर्दृशं त्वं स्वाहाकार्यं च भविष्यसीति । ‘प्राणापानौ वा एतौ पशूनां यत्पृषदाज्यं पशोः खलु वा आलब्धस्य हृदयमात्माभिसमेति’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

2पशोर् अवदानानि सम्मृशति - ऐन्द्रः प्राण इत्यनुष्टुभा षट्पदया ॥

मूलम् (संयुक्तम्)

ऐ॒न्द्रᳶप्रा॒णो अङ्गे॑अङ्गे॒ नि दे॑ध्यदै॒न्द्रो॑ऽपा॒नो अङ्गे॑अङ्गे॒ वि बो॑भुव॒द्देव॑ त्वष्ट॒र्भूरि॑ ते॒ सँस॑मेतु॒ विषु॑रूपा॒ यत् सल॑क्ष्माणो॒ भव॑थ देव॒त्रा यन्त॒मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु॒

विश्वास-प्रस्तुतिः ...{Loading}...

ऐ॒न्द्रᳶ प्रा॒णो अङ्गे॑अङ्गे॒ नि दे॑ध्यत्+++(←धीङ् आधारे)+++ ।
एै॒न्द्रो॑ऽपा॒नो अङ्गे॑अङ्गे॒ वि बो॑भुवत् ।
देव॑ त्वष्ट॒र् +++(पशोर्)+++ भूरि॑ ते॒ सँस॑मेतु ।

सर्वाष् टीकाः ...{Loading}...

भास्करोक्त-विनियोगः

2पशोर् अवदानानि सम्मृशति - ऐन्द्रः प्राण इत्यनुष्टुभा षट्पदया ॥

Keith

May Indra’s expiration be set in every limb;
May Indra’s inspiration be in every limb. O god Tvastr, let mind be united for thee,

मूलम्

ऐ॒न्द्रᳶ प्रा॒णो अङ्गे॑अङ्गे॒ नि दे॑ध्यत् ।
एै॒न्द्रो॑ऽपा॒नो अङ्गे॑अङ्गे॒ वि बो॑भुवत् ।
देव॑ त्वष्ट॒र् भूरि॑ ते॒ सँस॑मेतु +++(एकीकरणाय)+++ ।

पद-पाठः

ऐ॒न्द्रः । प्रा॒ण इति॑ प्र-अ॒नः । अङ्गे॑अङ्ग॒ इत्यङ्गे॑-अ॒ङ्गे॒ । नीति॑ । दे॒ध्य॒त् ।

ऐ॒न्द्रः । अ॒पा॒न इत्य॑प-अ॒नः । अङ्गे॑अङ्ग॒ इत्यङ्गे॑-अ॒ङ्गे॒ । वीति॑ । बो॒भु॒व॒त् ।

देव॑ । त्व॒ष्टः॒ । भूरि॑ । ते॒ । सँस॒मिति॒ सम्-स॒म् । ए॒तु॒ ।

भट्टभास्कर-टीका

2पशोरवदानानि सम्मृशति - ऐन्द्रः प्राण इत्यनुष्टुभा षट्पदया ॥
इन्द्र इश्वरः शारीर आत्मा तस्यायम् ऐन्द्रः प्राणः । ‘ऐन्द्रः खलु वै देवतया’ इति ब्राह्मणम् । सः अस्य पशोरङ्गेअङ्गे सर्वेष्ववयवेषु निदेध्यत् नियमेनात्यर्थं ध्रियतां तिष्ठत्वित्यर्थः, ऐन्द्रत्वादेव । धीङ् आधारे, यङ्लुगान्ताल्लेट्, ‘लेटोऽडाटौ’ इत्यडागमः, ‘नाभ्यस्तस्याचि पिति सार्वधातुके’ इति गुणाभावः अलघूपधस्यापि बहुळवचनात् । यद्वा - लटश्शत्रादेशः । आस्त्विति शेषः । यद्वा - विकरणव्यत्ययेन शः, ऐरनेकाचः’ इति यणादेशः, ‘इतश्च लोपः’ । प्राणशब्द उक्तस्वरः । अङ्ग इत्यादौ च’ इति सांहितायां प्रकृतिभावः, आम्रेडितस्य ‘अनुदात्तं च’ इत्यनुदात्तत्वम् । ‘घ्नन्ति वा एतत्पशुं यत्संज्ञपयन्ति’ इत्यादि ब्राह्मणम् ।

अपानः अधोवृत्तिर्वायुः । सोप्यैन्द्रः; ‘ऐन्द्रोऽपानः’ इति च ब्राह्मणम् । सः अङ्गेअङ्गे अस्य पशोर्विबोभुवत् अत्यर्थं विभवतु तिष्ठत्विति यावत् । भवतेर्यङ्लुगन्ताल्लेडादि सर्वं पूर्ववत्, ‘भूसुवोस्तिङि’ इति हि [तीह?] यङ्लुगन्ते नास्ति [प्यस्ति?] । पूर्ववदपानशब्दोपि थाथादिस्वरेणान्तोदात्तः ।
एवं प्राणापानवत्त्वं पशोस्संपाद्यते । तेन सर्वेपि पशवः प्राणापानवन्तः कृता भवन्ति । ‘प्राणापानावेव पशुषु दधाति’ इति ब्राह्मणम् ।

हे देव त्वष्टः । पादादित्वात्प्रथमं न निहन्यते । ‘नामन्त्रिते समानाधिकरणे’ इति तस्याविद्यमानत्वनिषेधाद्द्वितीयं निहन्यत एव । भूरि सर्वं संसमेतु सङ्गच्छताम् । ते त्वत्तः त्वत्-प्रसादाद् इति यावत् ।

‘त्वाष्ट्रा हि देवतया पशवः’ इति ब्राह्मणम् ।
एतद् उक्तं भवति, यद् विकर्तने पश्वङ्गं विच्छिन्नम् अवशिष्टं तत्सर्वं त्वया आर्द्रतया एकीकार्यम् इति । एवं हि कृत्स्नेन पशुना यागः कृतो भवति । ‘प्रसमुपोदः पादपूरणे’ इति समो द्विर्वचनम् । ‘अनुदात्तं च’ इति द्वितीयस्यानुदात्तत्वम् ।


विश्वास-प्रस्तुतिः ...{Loading}...

+++(शरीर-खण्डानि!)+++ विषु॑रूपा॒ यत् सल॑क्ष्माणो॒+++(=सलक्षणा [हवीरूपेण])+++ भव॑थ,
दे॒व॒त्रा+++(=देवस्थानं)+++ यन्त॒म्, अव॑से॒, +++(तस्य पशोः)+++ सखा॑यः
अनु॑ त्वा मा॒ता-पि॒तरो॑ मदन्तु

सर्वाष् टीकाः ...{Loading}...

Keith

When ye that are various become of one form;
Over thee as thou goest among the gods for help let thy comrades
And thy father and mother rejoice.

विश्वास-प्रस्तुतिः ...{Loading}...

+++(शरीर-खण्डानि!)+++ विषु॑रूपा॒ यत् सल॑क्ष्माणो॒+++(=सलक्षणा [हवीरूपेण])+++ भव॑थ,
दे॒व॒त्रा+++(=देवस्थानं)+++ यन्त॒म्, अव॑से॒, +++(तस्य पशोः)+++ सखा॑यः
अनु॑ त्वा मा॒ता-पि॒तरो॑ मदन्तु

मूलम्

विषु॑रूपा॒ यत् सल॑क्ष्माणो॒ भव॑थ
दे॒व॒त्रा यन्त॒मव॑से॒ सखा॑यः
अनु॑त्वा मा॒तापि॒तरो॑ मदन्तु ।

पद-पाठः

विषु॑रूपा॒ इति॒ विषु॑-रू॒पाः॒ । यत् । सल॑क्ष्माण॒ इति॒ स-ल॒क्ष्मा॒णः॒ । भव॑थ ।

दे॒व॒त्रेति॑ देव-त्रा । यन्त॑म् । अव॑से । खा॑यः । अन्विति॑ । त्वा॒ । मा॒ता । पि॒तरः॑ । म॒द॒न्तु॒ ।

भट्टभास्कर-टीका

किञ्च - हे पशो! सर्वेपि यूयं विषुरूपा नानारूपा अतुल्यस्वरूपा अपि सन्त इदानीं सलक्ष्माणः समानलक्षणा हवी-रूपेण वा ऽवदान-रूपेण वा देवान् गच्छन्तस् तुल्यस्वरूपा यद् यस्माद् भवथ । तव खलु हविष्ट्वापत्तौ सर्वेपि युष्मत्-सम्बन्धिनः पशवो जात्य्-अभेदात् हविस्-स्वरूपास् सम्पद्यन्ते ।

‘समानस्य छन्दसि’ इति सभावः । यद्वा - सह लक्ष्मणा वर्तन्त इति सलक्ष्माणस् सल्लक्षणोपेताः हविष्ट्वापत्त्या सर्वेपि यूयं भवथ । ‘वोपसर्जनस्य’ इति सहस्य सभावः, ‘अदुपदेशात्’इति लसार्वधातुकानुदात्तत्वम् ।
‘विषुरूपा ह्येते सन्तस्सलक्ष्माणः एतार्हि भवन्ति’ `इति ब्राह्मणम् ।

तस्माद् देवत्रा यन्तं देवान् गच्छन्तम् ।
‘देवमनुष्यपुरुष’ इति त्राप्रत्ययः ।

सखायस् समान-ख्याना बन्धवः ।
‘समाने ख्यस्सचोदात्तः’ इतीञ्प्रत्ययः ।

ते च मातरश्च पितरश्च त्वाम् अनुमदन्तु अनुमन्यन्ताम् - अनुमोदन्ताम् इति यावत् । अहो! अयम् अस्मत्-सम्बन्धी पशुर् हवी-रूपम् आपन्नो देवांस् तर्पयितुं याति, ततस् स्वयम् अपि देवो भविता, ततो वयम् अपि देवीभूय तेन सह स्वर्गे मोदितास्महे, ततस् सर्वं कुलम् अनुगृहीतं भविष्यतीति ।

तदेवाह - अवसे रक्षणाय तव चात्मनश् च । तृप्त्यर्थं वा, अवतिर्हि तृप्तौ च पठ्यते । तस्मादसुन् । ‘अनुमतमेवैनं मात्रा पित्रा सुवर्गं लोकं गमयति’ ` इति च ब्राह्मणम् । मदि हर्षे दैवादिकः विकरणव्यत्ययेन शप् ॥


मूलम् (संयुक्तम्)

श्रीर॑स्य॒ग्निस्त्वा॑ श्रीणा॒त्वाप॒स्सम॑रिणम् वात॑स्य [18]त्वा॒ ध्रज्यै॑ पू॒ष्णो रँह्या॑ अ॒पामोष॑धीनाँ॒ रोहि॑ष्यै।

विश्वास-प्रस्तुतिः

श्रीर्+++(←श्रीञ् पाके)+++ अ॑सि ।
अ॒ग्निस् त्वा॑ श्रीणा॒तु+++(←श्रीञ् पाके)+++ ।

Keith

Thou art fortune (śri).
Let Agni cook (śrinatu) thee.

मूलम्

श्रीर॑सि ।
अ॒ग्निस्त्वा॑ श्रीणा॒तु ।

पद-पाठः

श्रीः । अ॒सि॒ । अ॒ग्निः । त्वा॒ । श्री॒णा॒तु॒ ।

भट्टभास्कर-टीका

3पार्श्वेन होमार्थां वसां प्रयौति आलोडयति - श्रीरसीति ॥
श्रीः श्रपणीया पचनीयासि हे वसे । पक्वं हि हूयते । आलोडनजन्मा विशेषः पाकः । श्रीञ् पाके, क्रैयादिकः तस्मात् सम्पदादिलक्षणः कर्मणि क्विप्।

यत एवं तस्मात् अग्निर् एव स्वयमागत्य त्वां श्रीणातु पाकविशेषशालिनीं करोतु यस्सर्वस्य पाकहेतुरिति भावः ।


विश्वास-प्रस्तुतिः

आप॒स् सम् अ॑रिणन्+++(=यन्तु [त्वा॒])+++
वात॑स्य त्वा॒ ध्रज्यै॑+++(←गतौ)+++
पू॒ष्णो रँह्या॑+++(य् = वेगाय)+++
अ॒पाम् ओष॑धीनाँ॒ रोहि॑ष्यै+++(←रुह्)+++ ।

Keith

The waters are come together
For the whirl of the wind [1] thee,
for the rush of Pusan,
for the growth of the waters, of the plants.

मूलम्

आप॒स्सम॑रिणन्
वात॑स्य त्वा॒ ध्रज्यै॑ पू॒ष्णो रँह्या॑ अ॒पामोष॑धीनाँ॒ रोहि॑ष्यै ।

पद-पाठः

आपः॑ । समिति॑ । अ॒रि॒ण॒न् ।
वात॑स्य । [18]। त्वा॒ । ध्रज्यै॑ । पू॒ष्णः । रँह्यै॑ । अ॒पाम् । ओष॑धीनाम् । रोहि॑ष्यै ।

भट्टभास्कर-टीका

किञ्च – तथा क्रियमाणां त्वां आपस् समरिणन् - सञ्गच्छन्तु, त्वा मा मुचन्, मा शोषं गमन् इति ।
री गति-रेषणयोः क्रैयादिकः उदात्तेत् प्वादिः, तस्मात् ‘छन्दसि लुङ्लङ्लिटः’ इति लङ्, ‘प्वादीनां ह्रस्वः’ इति ह्रस्वत्वम्, ‘श्नाभ्यस्तयोरातः’ इत्याकारलोपः ।

अद्भिस्सङ्गतायां मयि के गुणाः? इति चेदाह - वातस्य त्वा ध्रज्यै गमनाय । अशुष्कायां हि त्वयि यागनिर्वृत्त्या वातो गच्छति सदागतिर्भवतीत्यर्थः । तस्माद्वातस्य ध्रज्यै त्वामापस्समरिणम् इति । ध्रज-घ्रजि गतौ, तस्मात् ‘इन् सर्वधातुभ्यः’ इतीन्प्रत्ययः ।

किञ्च - पूष्णः आदित्यस्य रंह्यै रंहणाय उदयाय । रहि गतौ, इदित्वान्नुम् पूर्ववदिन्प्रत्ययः, उदात्तनिवृत्तिस्वरेण पूष्णो विभक्तिरुदात्ता ।

किञ्च – अपां चोषधीनां च रसं रोहिष्यै रोहणाय उत्पत्तये । ‘प्रयै रोहिष्यै अव्यधिष्यै’ इति निपात्यते ।

तस्माद् वातादिप्रवृत्तये अग्निस् त्वां श्रीणातु
आपश्च त्वां समरिणन् इति ।
‘ऊडिदम्’ इत्यादिना अद्भ्यो विभक्तिरुदात्ता ।
ओषधिशब्दो दासीभारादित्वाद् आद्युदात्तः ।
‘पार्श्वेन वसाहोमं प्रयौति मध्यं वा एतत्पशूनाम्’ इत्यादि ब्राह्मणम् ।

यद् वा - श्रीः श्रयणीया पार्श्वेन मिश्रयितव्यासि ।
‘क्विब्वचि’ इत्यादिना श्रयतेः क्विपि दीर्घत्वम् ।
तस्माद् आहवनीयो ऽग्निस् त्वां श्रीणातु सेवतां भक्षयतु । श्रयतेर्व्यत्ययेन श्नाप्रत्ययः, धातोश्च दीर्घत्वम् ।
आपश्च समरिणन् त्वय्य् एकीभवन्तु । मा मुचन्न् इत्य् एवम् अर्थं त्वां मिश्रयामीति शेषः, पुनश्च त्वाशब्दश्रुतेः । एवं क्रियमाणे के गुणा लोकस्य? इत्याह - वातस्येत्यादि ॥ सुबोधम् ॥


भास्करोक्त-विनियोगः

4वसां जुहोति - घृतमिति ॥

विश्वास-प्रस्तुतिः

घृ॒तङ् घृ॑त-पावानᳶ पिबत ।

Keith

Drink ghee, ye drinkers of ghee;

मूलम्

घृ॒तङ्घृ॑तपावानᳶ पिबत ।

पद-पाठः

घृ॒तम् । घृ॒त॒पा॒वा॒न॒ इति॑ घृत-पा॒वा॒नः॒ । पि॒ब॒त॒ ।

भट्टभास्कर-टीका

4वसां जुहोति - घृतमिति ॥ हे घृतपावानो घृतस्य पातारो देवा यूयं घृतं वसागतं पिबत ।

विश्वास-प्रस्तुतिः

वसाव्ँ॑ वसा-पावानᳶ पिबत ।

Keith

drink fat, ye drinkers of fat.

मूलम्

वसाव्ँ॑वसापावानᳶ पिबत ।

पद-पाठः

वसा॑म् । व॒सा॒पा॒वा॒न॒ इति॑ वसा-पा॒वा॒नः॒ । पि॒ब॒त॒ ।

भट्टभास्कर-टीका

हे वसापावानः वसायाः पातारः, यूयमपि वसां पिबत । पिबतेः ‘आतो मनिन्’ इत्यादिना वनिप् ।

विश्वास-प्रस्तुतिः

अ॒न्तरि॑क्षस्य ह॒विर् अ॑सि॒ स्वाहा॑ ।
त्वा॒ऽन्तरि॑क्षाय +++(अर्पयामि)+++।

Keith

Thou art the oblation of the atmosphere.
Hail! thee to the atmosphere!

मूलम्

अ॒न्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा॑ ।
त्वा॒ऽन्तरि॑क्षाय ।

पद-पाठः

अ॒न्तरि॑क्षस्य । ह॒विः । अ॒सि॒ । स्वाहा॑ ।
त्वा॒ । अ॒न्तरि॑क्षाय ।

भट्टभास्कर-टीका

हे वसे त्वमन्तरिक्षस्य अन्तरिक्षवासिनो देवगणस्य हविरसि ।
यस्मादेवं तस्मात् अन्तरिक्षाय त्वां स्वाहाकरोमीति शेषः ॥


भास्करोक्त-विनियोगः

5वसाहोमोद्रेकेण दिशो जुहोति दिग्भ्यो जुहोति - दिशः प्रादिश इति ॥

मूलम् (संयुक्तम्)

दिशᳶ॑ प्र॒दिश॑ आ॒दिशो॑ वि॒दिश॑ उ॒द्दिश॒स्स्वाहा॑ दि॒ग्भ्यो नमो॑ दि॒ग्भ्यः ॥ [19]

विश्वास-प्रस्तुतिः

+++(प्रदिगादि-विशेषभिन्ना)+++ दिशः,
+++(प्राच्यादयः प्रधानाः)+++ प्र॒दिश॑,
+++(प्राण्याधारभूता)+++ आ॒दिशो॑,
+++(विविधाः कोनदिशो)+++ वि॒दिश॑,
उ॒द्-दिश॒स्,
+++(इत्य् उक्ताभ्यः)+++ स्वाहा॑ दि॒ग्भ्यः!
नमो॑ दि॒ग्भ्यः ॥ [19]

Keith

The quarters, the Pradiśes, the Adiśes, the Vidiśes, the Uddiśes.
Hail to the quarters!
Homage to the quarters.

मूलम्

दिशᳶ॑ प्र॒दिश॑ आ॒दिशो॑ वि॒दिश॑ उ॒द्दिश॒स्स्वाहा॑ दि॒ग्भ्यो नमो॑ दि॒ग्भ्यः ॥ [19]

पद-पाठः

दिशः॑ । प्र॒दिश॒ इति॑ प्र-दिशः॑ । आ॒दिश॒ इत्या॑-दिशः॑ । वि॒दिश॒ इति॑ वि-दिशः॑ । उ॒द्दिश॒ इत्यु॑त्-दिशः॑ । 5N । स्वाहा॑ । दि॒ग्भ्य इति॑ दिक्-भ्यः । 6O । नमः॑ । दि॒ग्भ्य इति॑ दिक्-भ्यः ॥ [19]

भट्टभास्कर-टीका

5वसाहोमोद्रेकेण दिशो जुहोति दिग्भ्यो जुहोति - दिशः प्रादिश इति ॥

यद्यप्येकैव नित्या सर्वगता दिक्, तथाप्य् उपाधिभेदेन सा भिद्यते, यथा - यत्रादित्य उदेति सा प्राची, यत्रास्तमेति सा प्रतीची, यत्र दृश्यमानो गच्छति सा दक्षिणा, यत्रादृश्यमानो गच्छति सोदीची, अवाग्गता अधरा, उद्गता ऊर्ध्वेत्यादि ।
तत्र दिक्-शब्देनाविशेषात् सर्वासां ग्रहणम् ।

प्रदिगादयस् तु शब्दा विशेषवचनाः । या इति चाध्याह्नियते ।

अयमर्थः - प्रदिगादि-विशेषभिन्ना या दिशः ताभ्यो दिग्भ्यस्स्वाहा स्वाहुतोयं वसाशेषोस्तु । नमश्चास्तु ताभ्यो दिग्भ्यः ।

अत्र प्रधानभूताः दिशः प्राच्यादयः प्रदिशः ।

आस्थिता दिशः आदिशः या जन्तुभिर् आस्थीयन्ते । आगता वा अधोदिशो मध्यदिशश् च ।

विगता विविधस्वभावा दिशो विदिशः । ताः पुनर्दक्षिणपूर्वादयः कोणदिशः ।

उद्गता दिश उद्दिशः ऊर्ध्वदिशः । सर्वत्र ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम् ।

यद् वा - प्राधान्येन दिशन्तीति प्रदिशः आगत्य दिशन्तीत्यादिशः । विविधं दिशन्तीति विदिशः । ऊर्ध्वं दिशन्तीत्युद्दिशः । ऋत्विगादिना दिशेः क्विन्, कृदुत्तरपदप्रकृतिस्वरत्वम् ।

ईदृश्यो या दिशस् ताभ्यस् स्वाहा, नमश्च दिग्भ्य इति । ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् । ‘दिशो जुहोति दिश एव रसेनानक्ति’ `इति ब्राह्मणम् ॥

इति तृतीये दशमोनुवाकः ॥