यूपे पशुनियोजनार्थं पशूपाकरणम् (अग्निमन्थनादि)
१३ पङ्क्तिः १४ त्रिष्टुप् सोमऋषिः
भास्करोक्त-विनियोगः
1बर्हिषी आदत्ते - इषे त्वेति ॥
विश्वास-प्रस्तुतिः
इ॒षे त्वा॑ +++(ऽऽददामि)+++।
Keith
For striving thee!
मूलम्
इ॒षे त्वा॑ ।
पद-पाठः
इ॒षे । त्वा॒ ।
भट्टभास्कर-टीका
1बर्हिषी आदत्ते - इषे त्वेति ॥ व्याख्यातम् । इह तु पशुलक्षणमन्नम् । तदर्थं तदुपाकरणार्थं त्वामादद इति शेषः । जातावेकवचनम् । ‘इषे त्वेति बार्हिरादत्ते’ `इति ब्राह्मणम् ॥
- [इडन्नं सर्वैरेषणीयत्वात् ।इषु इच्छायाम् … कर्मणि करणे च सम्पदादिलक्षणस्स्त्रियां क्विप्प्रत्ययः (पा.सू. 3.3.108 वा.9), … तादर्थ्ये चतुर्थी, ‘सावेकाचः’ (पा.सू. 6.1.168) इति विभक्तेरुदात्तत्वम् ।]
भास्करोक्त-विनियोगः
2पशुमुपाकरोति - उपवीरिति ॥
मूलम् (संयुक्तम्)
उप॒वीर॒स्युपो॑ दे॒वान्दैवी॒र्विश॒ᳶ प्रागु॒र्वह्नी॑रु॒शिजो॒ बृह॑स्पते धा॒रया॒ वसू॑नि ह॒व्या ते॑ स्वदन्ता॒न्देव॑ त्वष्ट॒र्वसु॑ रण्व॒ रेव॑ती॒ रम॑ध्वम्
विश्वास-प्रस्तुतिः
+++(हे पशो!)+++ उ॒प॒-वीर्+++(←वी गतौ)+++ अ॑सि ।
Keith
Thou art the impeller.
मूलम्
उ॒प॒वीर॑सि ।
पद-पाठः
उ॒प॒वीरित्यु॑प-वीः । अ॒सि॒ ।
भट्टभास्कर-टीका
2पशुमुपाकरोति - उपवीरिति ॥ उपवीयते उपसङ्गम्यते उपाक्रियत इत्य् उपवीः । वेतेः क्विप् । हे पशो देवेभ्यस् त्वम् उपाकृतोसीत्य् अर्थः । ‘उप ह्येनान् आकरोति’ ` इति च ब्राह्मणम् ।
भास्करोक्त-विनियोगः
तत्र हि देवानां समीपे आभिमुख्येनैनान् पशून् करोति ।
विश्वास-प्रस्तुतिः
उप॑ +उ दे॒वान् दैवी॒र् विश॒ᳶ+++(→पशवः)+++ प्रागुः॑,
वह्नी॑र् उ॒शिजः॑+++(→कामयमाना [ऋत्विजः])+++ ।
Keith
To the gods the servants of the gods have come,
the priests, the eager ones.
मूलम्
उपो॑ दे॒वान् दैवी॒र्विश॒ᳶ प्रागुः॑,
वह्नी॑रु॒शिजः॑ ।
पद-पाठः
उपो॒ इति॑ । दे॒वान् । दैवीः॑ । विशः॑ । प्रेति॑ । अ॒गुः॒ ।
वह्नीः॑ । उ॒शिजः॑ ।
भट्टभास्कर-टीका
तत्र हि देवानां समीपे आभिमुख्येनैनान् पशून् करोति । जातावेकवचने बहुवचनम् । तस्मात् त्वदीया अवयवा अवदान-भावम् आपन्ना देवान् अग्नीषोमादीन् उपप्रागुः उपप्रयन्तु प्रकर्षेणोपगच्छन्तु । उपो इति निपातसमुदाय उपश्ब्दस्यार्थे वर्तते । ‘छन्दसि लुङ्लङ्लिटः’ इति लुङ्, ‘इणो गा लुङि’ इति गादेशः, ‘गातिस्था’ इत्यादिना सिचो लुक् ।
कथम्भूता इत्याह - दैवीर्विशः देवानामिमा दैव्यः । ‘देवाद्यञञौ’ इत्यञ्, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । विशः प्रजाः दैव्यः प्रजा भूत्वा देवान् उपगच्छान्त्व् इत्यर्थः । ‘दैवीर्ह्येता विशस्सतीर्देवानुपयन्ति’ ` इति च ब्राह्मणम् । यद्वा - दैवीर्विशः इति द्वितीया, देवान् दैवीश् च विशः उपगच्छन्तु ।
किञ्च - वह्नीर् उशिजः यज्ञस्य वोढारः ऋत्विजो वह्नयः । ‘वहिश्रिश्रुयुद्रुग्ला’ इत्यादिना वह्नेर्निप्रत्ययः, निदिति हि तत्रोच्यते, ‘तस्माच्छसो नः’ इति नत्वं न क्रियते ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते’ इति । उशिजः कामनावन्तः भक्षणरुचयः । यद् वा - कमनीयाः स्पृहणीया इत्यर्थः । शेष-भक्षणादिना तान् अप्य् उपगच्छन्तु । ‘ऋत्विजो वै वह्नय उशिजः’ इत्यादि ब्राह्मणम् । ‘वशेः किच्च’ इति वष्टेरिजिप्रत्ययः ।
विश्वास-प्रस्तुतिः
बृह॑स्पते +++(→ब्रह्मन्)+++! धा॒रया॒ वसू॑नि।
+++(हे पशो!)+++ ह॒व्या ते॑ स्वदन्ताम्+++(←स्वद आस्वादने)+++।
Keith
O Bihaspati, guard wealth.
Let thy oblations taste sweet.
मूलम्
बृह॑स्पते धा॒रया॒ वसू॑नि।
ह॒व्या ते॑ स्वदन्ताम्।
पद-पाठः
बृह॑स्पते । धा॒रय॑ । वसू॑नि ।
ह॒व्या । ते॒ । स्व॒द॒न्ता॒म् ।
भट्टभास्कर-टीका
अतः परं विराडेकपदा । हे बृहस्पते त्वमपि वसूनी धनानि पशुलक्षणानि यजमानार्थं धारय । ‘ब्रह्म वै देवानां बृह्रस्पतिर्ब्रह्मणैवास्मै पशूनवरुन्धे’ `इति ब्राह्मणम् । यद्वा - ब्रह्मा बृहस्पतिः ।
हे ब्रह्मन् अवदानलक्षणानि वसूनि धनानि धारय अवधारयेत्यर्थः । ब्रह्मा हि कर्मणाम् अध्यक्षः । आमन्त्रितस्याविद्यमानत्वात् धारयेति न निहन्यते, ‘अन्येषामपि दृश्यते’ इति संहितायां दीर्घत्वम् ।
हे पशो ते तव हव्या हव्यान्यवदानलक्षणानि । ‘शेश्छन्दसि बहुलम्’ इति लुक् । स्वदन्तां स्वादूनि भवन्तु । ष्वद आस्वादने अनुदात्तेत् भौवादिकः ।
विश्वास-प्रस्तुतिः
देव॑ त्वष्ट॒र्! वसु॑ रण्व+++(=रमय)+++।
रेव॑ती॒ +++(←रै+मतुम् →पशवः)+++! रम॑ध्वम् ॥
Keith
O god Tvastr make pleasant our possessions.
Stay, ye wealthy ones,
मूलम्
देव॑ त्वष्ट॒र्वसु॑ रण्व।
रेव॑ती॒ रम॑ध्वम् ॥
पद-पाठः
देव॑ । त्व॒ष्टः॒ । वसु॑ । र॒ण्व॒ ।
रेव॑तीः । रम॑ध्वम् ।
भट्टभास्कर-टीका
देव त्वष्टः । ‘नामन्त्रिते समानाधिकरणे’ इति पूर्वस्याविद्यमानत्वानिषेधाद्द्वितीयं निहन्यते । त्वमपि क्षीरादीनां सर्वेषां वासहेतुं पशुलक्षणं धनं रण्व रमय सर्वेषां स्पृहणीयरूपं कुरु । ‘त्वष्टा वै पशूनां मिथुनानां रूपकृद्रूपमेव पशुषु दधाति’ इति ब्राह्मणम् । रवि गतौ, इदित्त्वान्नुम्, इह त्वयं रमत्यर्थे वर्तते । यद्वा - वसु वरिष्ठं रूपं रण्व रमय । पशून्वरिष्ठं हि वासयति । ‘शृस्पृष्णिहि’ इत्यादिना वसेरुप्रत्ययः, निदिति तत्रानुवर्तते । यद्वा - पशुलक्षणं धनं यजमाने रण्व रमय स्थिरीकुरु । यजमानं वा प्रापय ।
हे रेवतीः रेवत्यः क्षीरादिधनवत्यः पशवः । ‘पशवो वै रेवतीः पशूनेवास्मै रमयति’ `इति ब्राह्मणम् । रैशब्दान्मतुपि ‘रयेर्मतौ बहुलम्’ इति सम्प्रसारणम्, ‘सज्ञायाम्’ इति मतुपो वत्वम्, षाष्ठिकमामन्त्रिताद्युदात्तत्वम्, तस्याविद्यमानत्वाद्रमध्वमिति न निहन्यते, अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । यूयमपि रमध्वम् अस्मिन्यजमाने अनुरक्ता भवध्वम् । अस्मत्सम्बन्धिपशुरनेन हिंस्यत इति युष्माकं विरतिर्माभूदित्यर्थः ॥
भास्करोक्त-विनियोगः
3अधिमन्थनशकलं निदधाति - अग्नेर्जनित्रमसीति ॥
विश्वास-प्रस्तुतिः
अ॒ग्नेर् ज॒नित्र॑म् असि ।
Keith
Thou art the birthplace of Agni.
मूलम्
अ॒ग्नेर्ज॒नित्र॑मसि ।
पद-पाठः
अ॒ग्नेः । ज॒नित्र॑म् । अ॒सि॒ ।
भट्टभास्कर-टीका
3अधिमन्थनशकलं निदधाति - अग्नेर्जनित्रमसीति ॥ अग्नेर्जनित्रं जनकं प्रजननस्थानीयमसि हे शकल । ‘अशित्रादिभ्य इत्रोत्रौ’ इति जनेरित्रप्रत्ययः ॥
विश्वास-प्रस्तुतिः
+++(हे शकलौ!)+++ वृष॑णौ स्थः ।
Keith
Ye are the two male ones.
मूलम्
वृष॑णौ स्थः ।
पद-पाठः
वृष॑णौ । स्थः॒ ।
भट्टभास्कर-टीका
4वृषणावन्वञ्चौ निदधाति - वृषणौ स्थ इति ॥ हे शकलौ वृषणौ वृषणस्थानीयौ यागस्य युवां स्थः । यागद्वरेण वां वार्षितारौ कामानां स्थः । ‘कनित्युवृषि’ इत्यादिना वृषेः कनिन्प्रत्ययः । वृषणशब्दाद्द्विवचने ‘वा षपूर्वस्य निगमे’ इति दीर्घाभावः ॥
भास्करोक्त-विनियोगः
5अरणी आदत्ते अधरोत्तरौ क्रमेण - उर्वश्यस्यायुरसि पुरूरवाः इत्येताभ्याम्, यथाहुः - ‘उर्वशीत्यधरारणिमादत्ते, पुरूरवा इत्युत्तरारणिम्’ इति ॥
विश्वास-प्रस्तुतिः
+++(अधरारणे!)+++ उ॒र्वश्य् अ॑सि ।
Keith
Thou art Urvaśi,
मूलम्
उ॒र्वश्य॑सि ।
पद-पाठः
उ॒र्वशी॑ । अ॒सि॒ ।
भट्टभास्कर-टीका
5अरणी आदत्ते अधरोत्तरौ क्रमेण - उर्वश्यस्यायुरसि पुरूरवाः इत्येताभ्याम्, यथाहुः - ‘उर्वशीत्यधरारणिमादत्ते, पुरूरवा इत्युत्तरारणिम्’ इति ॥ हे अधरारणे उर्वश्यसि । ‘घृतेनाक्ते’ इत्यादिनिदर्शनात्त्रिलिङ्गोप्यरणिशब्दश्छन्दसि । उरु महान्तमस्याधारत्वेनाश्नुते व्याप्नोतीत्युर्वशी। अश्नुतेः कर्मण्यण्, ‘संज्ञापूर्वको विधिरनित्यः’ इति वृद्धिर्न क्रियते । यद्वा - परोक्षवृत्त्येदमुच्यते । यथा ‘तं वा एतं षड्डूतं सन्तं । षड्डोतेत्याचर्क्षते परोक्षेण । परोक्षप्रिया इव हि देवाः’ इति । ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम् ॥
भास्करोक्त-विनियोगः
6अथोत्तरारणिम् आदत्ते - आयुरसीति ॥
विश्वास-प्रस्तुतिः
+++(उत्तरारणे!)+++ आ॒युर् अ॑सि, पु॒रू॒रवाः॑ ।
Keith
thou art Ayu, thou art Pururavas.
मूलम्
आ॒युर॑सि पु॒रू॒रवाः॑ ।
पद-पाठः
आ॒युः । अ॒सि॒ । पु॒रू॒रवाः॑ ।
भट्टभास्कर-टीका
6अथोत्तरारणिम् आदत्ते - आयुरसीति ॥ एति विश्वं क्षणेन कर्मणा इत्यायुः । आयन्ते प्राप्यन्तेभिमतानीति वा आयुः अग्निरुच्यते । ‘छन्दसीणः’ इत्युण्प्रत्ययः । तद्वती उत्तरारणिः आयुरुच्यते, ‘आत्मा वै पुत्रनामासि’ इति पितापुत्रयोरभेदेन निर्देष्टुं शक्यत्वात् । उर्वशीपुरूरवसोः आयुर्नाम पुत्रो बभूव, तद्रूपेणारण्योरग्निस्स्वरूपेण वा क्रियते । तत्राधरारणिरुर्वशी माता, उत्तरारणिः पुरूरवाः पिता, अग्निरायुः पुत्र इति । ‘उर्वश्यस्यायुरसीत्याह मिथुनत्वाय’ `इति ब्राह्मणम् । तस्मात्पितापुत्रयोरैकशब्द्यम् । यद्वा - ईयतेनयाग्निरित्यायुः उत्तरारणिरग्नेरानयनहेतुरिति यावत् । तादृशी त्वमसि हे उत्तरारणे । अपि च - पुरूरवाः पुरु बहु राति मन्थनवेलायां शब्दं करोतीति पुरूरवाः । पुरुपूर्वाद्रातेरसुनि उपपदस्य दीर्घत्वं निपात्यते पुरूरवा इति, कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘परादिश्छन्दसि बहुलम्’ इति वा उत्तरपदाद्युदात्तत्वम् ॥
भास्करोक्त-विनियोगः
7आज्यस्थाल्याम् अरणी समनक्ति - घृतेनेति त्रिष्टुभैकपदया ॥
विश्वास-प्रस्तुतिः
+++(अरणी!)+++ घृ॒तेना॒क्ते वृष॑णन् +++(अग्निं)+++ दधाथाम् ।
Keith
Anointed with ghee, do ye produce a male.
मूलम्
घृ॒तेना॒क्ते वृष॑णन्दधाथाम् ।
पद-पाठः
घृ॒तेन॑ । अ॒क्ते इति॑ । वृष॑णम् । द॒धा॒था॒म् ।
भट्टभास्कर-टीका
7आज्यस्थाल्यामरणी समनक्ति - घृतेनेति त्रिष्टुभैकपदया ॥ घृतेनाक्ते । घृ क्षरणे । वृषणं वर्षितारं कामानां अग्निं वृष्टिप्रदं वा दधाथां धारयतं धत्तं वा । ‘वृषणं ह्येते दधाते ये अग्निम्’ `इति ब्राह्मणम् । पूर्ववद्दीर्घाभावः ॥
भास्करोक्त-विनियोगः
8-10प्रजातीर्वाचयते - गायत्रमिति ॥
मूलम् (संयुक्तम्)
गाय॒त्रञ् छन्दोऽनु॒ प्र जा॑यस्व॒ त्रैष्टु॑भ॒ञ्जाग॑त॒ञ्छन्दोऽनु॒ प्रजा॑यस्व
विश्वास-प्रस्तुतिः
गा॒य॒त्रञ्छन्दोऽनु॒ प्र जा॑यस्व ।
Keith
Be born with the Gayatri metre,
मूलम्
गा॒य॒त्रञ्छन्दोऽनु॒ प्र जा॑यस्व ।
पद-पाठः
गा॒य॒त्रम् । छन्दः॑ । अनु॑ । प्रेति॑ । जा॒य॒स्व॒ ।
भट्टभास्कर-टीका
8-10प्रजातीर्वाचयते - गायत्रमिति ॥ हे अग्ने मथ्यमानस्त्वं गायत्रं छन्दोनुप्रजायस्व, गायत्रं हि छन्दोनूच्यमानं श्रुत्वा त्वं जायसे । ‘अनुर्लक्षणे’ इत्यनोः कर्मप्रवचनीयत्वं, यथा ‘शाकल्यस्यसंहितामनुप्रावर्षत्’ इति । ‘छन्दोभिरेवैनं प्रजनयति’ `इति ब्राह्मणम् ।
विश्वास-प्रस्तुतिः
त्रैष्टु॑भम् [छन्दोऽनु॒ प्रजा॑यस्व ]।
जाग॑त॒ञ्छन्दोऽनु॒ प्र जा॑यस्व ।
Keith
with the Tristubh metre, be born with the Jagati metre.
मूलम्
त्रैष्टु॑भम् [छन्दोऽनु॒ प्रजा॑यस्व ]।
जाग॑त॒ञ्छन्दोऽनु॒ प्र जा॑यस्व ।
पद-पाठः
त्रैष्टु॑भम् । जाग॑तम् । छन्दः॑ । अनु॑ । प्रेति॑ । जा॒य॒स्व॒ ।
भट्टभास्कर-टीका
एवं त्रैष्टुभं छन्दोनुप्रजायस्वेत्यनुषज्यते । अत्र ‘छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसङ्ख्यानम्’ इति स्वार्थे प्रत्ययः । तत्र गायत्रशब्दात्प्राग्दीव्यतोण्, इतराभ्यामुत्सादित्वादञ्, ‘उपसङ्ख्यानम्’ इति प्राग्दीव्यतीयत्वात् ॥
भास्करोक्त-विनियोगः
11जातम् अग्निम् आहवनीये प्रहरति - भवतन्न इति पङ्क्त्या पञ्चपदया वस्वष्टऋतुदशाक्षरया ॥
मूलम् (संयुक्तम्)
भव॑तं [12]न॒स्सम॑नसौ॒ समो॑कसावरे॒पसौ॑ । मा य॒ज्ञँ हिँ॑सिष्ट॒म्मा य॒ज्ञप॑तिञ्जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ॥
विश्वास-प्रस्तुतिः ...{Loading}...
+++(मथिताग्ने, आहवनीयाग्ने च!)+++
भव॑तं न॒स् स-म॑नसौ॒
सम्-ओ॑कसाव्+++(=गृहौ)+++ अ-रे॒पसौ॑+++(←रेपस्=दुष्ट)+++ ।
मा य॒ज्ञँ हिँ॑सिष्ट॒म्
मा य॒ज्ञप॑तिञ् +++(हे)+++ जातवेदसौ ।
शि॒वौ भ॑वतम् अ॒द्य नः॑ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Be ye of one mind for us,
one dwelling, spotless.
Harm not the sacrifice
nor the lord of the sacrifice, O all-knowing;
be ye two auspicious to-day with us.
मूलम्
भव॑तं न॒स्सम॑नसौ॒ समो॑कसावरे॒पसौ॑ ।
मा य॒ज्ञँ हिँ॑सिष्ट॒म्मा य॒ज्ञप॑तिञ्जातवेदसौ ।
शि॒वौ भ॑वतम॒द्य नः॑ ॥
पद-पाठः
भव॑तम् । [12] नः॒ । सम॑नसा॒विति॒ स-म॒न॒सौ॒ । समो॑कसा॒विति॒ सम्-ओ॒क॒सौ॒ । अ॒रे॒पसौ॑ ॥
मा । य॒ज्ञम् । हिँ॒सि॒ष्ट॒म् । मा । य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ-प॒ति॒म् । जा॒त॒वे॒द॒सा॒विति॑ जात-वे॒द॒सौ॒ ।
शि॒वौ । भ॒व॒त॒म् । अ॒द्य । नः॒ ॥
भट्टभास्कर-टीका
11जातम् अग्निम् आहवनीये प्रहरति - भवतन्न इति पङ्क्त्या पञ्चपदया वस्वष्टऋतुदशाक्षरया ॥ +++(वसु-८. अष्ट८,=१६ अक्षराणि। ऋतु-६ दश १०=१६ अक्षराणि। )+++
योग्निः पुरा भवत्य् आहवनीये, यश् चेदानीं मथित्वा प्रणीयते, हे तौ द्वाव् अग्नी भवतं भूयास्तं नः अस्माकं समनसौ समान-मनस्कौ अविप्रतिपन्नमनस्कौ । ‘समानस्य छन्दसि’ इति सभावः ।
समोकसौ सहसमवेतौ समाननिवासाविति यावत् । उच समवाये, सम्पूर्वादसुन्प्रत्ययः, बहुलवचनात्कुत्वम् । समुच्येते इति समोकसौ । ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
यद्वा - सम्शब्दस्य समानार्थ-वृत्तेर् बहुव्रीहिः । सम्भावौ वा समानस्य छान्दसः । अरेपसौ अपापौ पापाभिनिवेशरहितौ । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । यस्मादरेपसौ तस्माद्यज्ञमिमं मा हिंसिष्टम् । मा च यज्ञपतिं यजमानम् । ‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् । हे जातवेदसौ जातप्रज्ञानौ जातधनौ वा । वेत्तेर्विन्दतेर्वा असुन् । यद्वा - जातं विश्वं वित्तो विन्दत इति वा कारकपूर्वादसुन्, पूर्ववत्प्रकृतिस्वरत्वम्, इह तु आष्टमिकमाद्युदात्तत्वम् ।
तादृशौ युवां अद्य अस्मिन्कर्मकाले नः अस्माकं शिवौ शान्तौ भवतम् । ‘सद्यः परुत्’ इत्यत्र इदमोद्यशब्दो निपात्यते । ‘अग्निः पुरा भवत्यग्निं मथित्वा प्र हरति’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
12प्रहृत्य स्रुवेणाभिजुहोति - अग्नावग्निरिति चतुष्पदया त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नाव् अ॒ग्निश् च॑रति॒ प्रवि॑ष्ट॒
ऋषी॑णाम् पु॒त्त्रो अ॑धिरा॒ज ए॒षः ।
स्वा॒हा॒-कृत्य॒ ब्रह्म॑णा ते जुहोमि॒
मा दे॒वाना॑म् मिथु॒या क॑र् भाग॒-धेय॑म् ॥ [13]
सर्वाष् टीकाः ...{Loading}...
Keith
The fire moveth entering into the fire,
The son of the Rsis, the overlord he;
With the cry of Hail! I offer to thee with devotion;
Do thou not spoil the share of the gods.
मूलम्
अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णाम्पु॒त्त्रो अ॑धिरा॒ज ए॒षः ।
स्वा॒हा॒कृत्य॒ ब्रह्म॑णा ते जुहोमि॒ मा दे॒वाना॑म्मिथु॒या क॑र्भाग॒धेय॑म् ॥ [13]
पद-पाठः
अ॒ग्नौ । अ॒ग्निः । च॒र॒ति॒ । प्रवि॑ष्ट॒ इति॒ प्र-वि॒ष्टः॒ । ऋषी॑णाम् । पु॒त्रः । अ॒धि॒रा॒ज इत्य॑धि-रा॒जः । ए॒षः ॥
स्वा॒हा॒कृत्येति॑ स्वाहा-कृत्य॑ । ब्रह्म॑णा । ते॒ । जु॒हो॒मि॒ । मा । दे॒वाना॑म् । मि॒थु॒या । कः॒ । भा॒ग॒धेय॒मिति॑ भाग-धेय॑म् ॥ [13]
भट्टभास्कर-टीका
12प्रहृत्य स्रुवेणाभिजुहोति - अग्नावग्निरिति चतुष्पदया त्रिष्टुभा ॥ अग्नौ आहवनीये प्रविष्टो मथित्वा तत्र प्रहृतोयमग्निश्चरति चरतु भक्षयतु इदमाज्यम् । ‘प्रहृत्य जुहोति जातायैवास्मा अन्नमपि दधाति’ ` इति च ब्राह्मणम् । चरतेः पञ्चमो लकारः । प्रविष्ट इति ‘गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
ऋषयो ज्ञातारः ऋत्विजः । ऋषन्तीती ऋषयः, ‘इगुपधात्कित्’ इतीन्, वृषादिर्द्रष्टव्यः । तेषां पुत्रः; ते ह्येनं जनयन्ति । अधिराज एषः अधिकं राजत इत्यधिराजः । पचाद्यच्, कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा - अव्यारूढो राजा अधिराजः दीप्तिमतामुत्तमः । ‘राजाहस्सखिभ्यष्टच्’ । स्वाहाकृत्य स्वाहाकारं कृत्वा । यद्वा - स्वाहुतिस् स्वाहेति जुहोतेस् स्वाङुपसृष्टाद् औणादिको डाप्रत्ययः । ब्रह्मणा मन्त्रेण शोभनाम् आहुतिं कृत्वा, इमामाज्याहुतिं ते तुम्यं जुहोमीति । स्वाहाशब्दस्योर्यादित्वाद्गतिसंज्ञा । गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम् ।
यद्वा - ब्रह्म बृहत् इदमाज्यं जुहोमि । ‘तृतीया च होश्छन्दसि’ इति तृतीया । त्वं च तथा हुतस्सन् देवानां भागधेयं भागं मिथुया मा कः मिथ्या मा कः मा कार्षीः; मिथ्याकरर्ण स्तेयम् । ‘मन्त्रे घस’ इत्यादिना च्लेर्लुक् । ‘भागरूपनामभ्यो धेयः’ इति स्वार्थे धेयप्रत्ययः । यद्वा - मिथःकरणं मिधुयाकरणं परस्परसङ्करो भागानां, यथा वायव्यमिन्द्राय प्रदीयते, तथा ऐन्द्रं वायव इति, तथा मा कार्षीः । ‘अव्ययादाप्सुपः’ इति लुकं बाधित्वा ‘सुपां सुलुक्’ इत्यादिना विभक्तेर्याजादेशः ॥
इति तृतीये सप्तमोनुवाकः ॥