सदो-मण्डप-निर्माणम्, हविर्धान-मण्टप-निर्माणम्
१७ अनुष्टुप् । सोमऋषिः
भट्टभास्कर-टीका
तत्रौदुम्बर्य-वट-परिलेखनार्थम् अभ्रिम्+++(=अग्नीध्र-खनित्रम्)+++ आदत्ते - देवस्य त्वेति ॥
देवस्य त्वा सवितुः ...{Loading}...
विश्वास-प्रस्तुतिः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॒॑+++(=अनुज्ञायां)+++,
+++(देवाध्वर्यू→)+++ ऽश्विनो॑र् बा॒हुभ्या॑म्,
पू॒ष्णो हस्ता॑भ्याम्…
Keith
On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.
मूलम्
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्यां॒…
पद-पाठः
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता॑भ्याम् ।
भट्टभास्कर-टीका
सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं
‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥
सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥
तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां
विश्वास-प्रस्तुतिः
आ द॑दे ।
Keith
I grasp thee.
मूलम्
आ द॑दे ।
पद-पाठः
एति॑ । द॒दे॒
भट्टभास्कर-टीका
अतः परमध्वरकाण्डं सोमार्षेयम् । व्याख्यातं चैतत् । हे अभ्रे त्वामादद इति सावित्रस्यैवायं शेषः ॥
भट्टभास्कर-टीका
तामभिमन्त्रयते - अभ्रिरसीति ॥
विश्वास-प्रस्तुतिः
अभ्रि॑र्+++(=अग्नीध्र-खनित्रम्)+++ असि ।
English
thou art the spade
मूलम्
अभ्रि॑रसि ।
पद-पाठः
अभ्रिः॑ । अ॒सि॒ ।
भट्टभास्कर-टीका
अभ्रिः कठिनमपि प्रदेशं भित्त्वा ऽनुप्रवेष्टुम् समर्थासि, एवंनाम तीक्ष्णासीत्य् अर्थः ।
अभ्र गतौ, ‘इन्सर्वधातुभ्यः’ इतीन्प्रत्ययः ।
यद् वा - अपो बिभर्तीत्य् अभ्रिः, यागसाधन-द्वारेण वृष्टिहेतुत्वात्, तीक्ष्णीकरणाय कर्मकारेण पायितोदकत्वाद्वा ।
अप्छब्द उपपदे बिभर्तेः ‘अचः’ इतीप्रत्ययः, बहुलवचनाद्गुणो न क्रियते, स्वरानवग्रहौ चिन्त्यौ । व्यत्ययो वा ।
विश्वास-प्रस्तुतिः
नारि॑र् असि।
English
thou art the woman.
मूलम्
नारि॑रसि।
पद-पाठः
नारिः॑ । अ॒सि॒ ।
भट्टभास्कर-टीका
कथं पुनरियं तीक्ष्णेति ज्ञायते? इत्याह - नारिरसि । नॄ नये, ‘पुंसि संज्ञायां घः’ । नरः नेता निपुणः कर्मकारः, तस्यापत्यमसि, तेनोत्पादतत्वात् । यद्वा - ‘नयतेष्टिलोपश्च’ इति ऋप्रत्यये ना, तस्यापत्यमिति बाह्वादेराकृतिगणत्वात् इञ्प्रत्ययः । एवं वा - यद्यपि तीक्ष्णतया हिंसिकासि, तथापि त्वं मम नारिरसि अरिर्न भवसि मित्रमेवासि ॥ ‘सुप्सुपा’ इति प्रतिषेधवचनो नशब्दस्समस्यते, सानुबन्धकश्चेन्नलोपेन भाव्यम्, अव्ययपूर्वपदप्रकृतिस्वरत्वं व्यत्ययेन, ‘अव्यये नञ्कुनिपातानाम्’ इति वचनात् । शान्त्यर्थं चैवमियमुच्यते, ‘वज्र इव वा एषा यदभ्रिरभ्रिरसि नारिरसीत्याह शान्त्यै’ इति ब्राह्मणम् ॥
भट्टभास्कर-टीका
तयावटं परिलिखति - परिलिखितमिति ॥
परिलिखितम् ...{Loading}...
विश्वास-प्रस्तुतिः
परि॑लिखितँ॒+++(=परिनाशितं)+++ रक्ष॒ᳶ
परि॑लिखिता॒ अरा॑तयः ।
इ॒दम् अ॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि ।
यो॑ऽस्मान् द्वेष्टि॒ यञ् च॑ व॒यन् द्वि॒ष्म- इ॒दम् अ॑स्य ग्री॒वा अपि॑ कृन्तामि ।
Keith
The Raksas is enclosed,
the evil spirits are enclosed.
Thus I cut the neck of the Raksas.
Thus I cut the neck of him who hates us and whom we hate [1].
मूलम्
[संयुक्तमन्त्रः - परि॑लिखितँ॒ रक्ष॒ᳶ परि॑लिखिता॒ अरा॑तय इ॒दम॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्म इ॒दम॑स्य ग्री॒वाः [11] अपि॑ कृन्तामि]
परि॑लिखितँ॒ रक्ष॒ᳶ परि॑लिखिता॒ अरा॑तयः । इ॒दम॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि । यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्म इ॒दम॑स्य ग्री॒वा अपि॑ कृन्तामि ।
पद-पाठः
परि॑लिखित॒मिति॒ परि॑-लि॒खि॒त॒म् । रक्षः॑ । परि॑लिखिता॒ इति॒ परि॑-लि॒खि॒ताः॒ । अरा॑तयः ।
इ॒दम् । अ॒हम् । रक्ष॑सः । ग्री॒वाः । अपीति॑ । कृ॒न्ता॒मि॒ ।
यः । अ॒स्मान् । द्वेष्टि॑ ।
यम् । च॒ । व॒यम् । द्वि॒ष्मः ।
इ॒दम् । अ॒स्य॒ । ग्री॒वाः । [11] अपीति॑ । कृ॒न्ता॒मि॒ ।
भट्टभास्कर-टीका
9पदं परिलिखति - परिलिखितमिति ॥ परिलिखितं परितो नाशितं रक्षोस्तु यदत्र छिद्रान्वेषि । ‘गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम् । किच्च अरातयो धनस्यादातारः शत्रवः । वहुळवचनात्कर्तरि क्तिन् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तेपि परिलिखितास्सन्तु अनेन पदविलेखनेन ।
कथमित्याह - यदेतत्परिलिखामि इदं खल्वहं रक्षसः ग्रीवा अपिकृन्तामि यथेष्टं कृन्तामि छिनद्मि । अपिशब्दः कामचारं द्योतयति । ग्रीवाशब्दो धमनिवचनः, तासां बहुत्वाद्बहुवचनं, यथा ‘ग्रीवाभ्योण्च` इति । कृती छेदने, ‘शेमुचादीनाम्’ इति नुम् ।
तथा योऽस्मान् द्वेष्टि यं च वयं द्विष्मः तस्य द्वेष्टुः द्वेष्यस्य शत्रोः ग्रीवाः इदमपि कृन्तामि यदेतत्परिलिखामि । ‘द्वौ वाव पुरुषौ’ इत्यादि ब्राह्मणम् । इदमिति क्रियाविषेणत्वान्नपुंसकत्वम् ॥
भट्टभास्कर-टीका
तयावटं परिलिखति - परिलिखितमिति ॥
भट्टभास्कर-टीका
3अपिकृन्तमीत्यन्तो मन्त्रो व्याख्यातः ॥
भट्टभास्कर-टीका
3अपिकृन्तमीत्यन्तो मन्त्रो व्याख्यातः ॥
भट्टभास्कर-टीका
अग्रादारभ्यौदुम्बरीं प्रोक्षति - दिवे त्वेति ॥
दिवे त्वा ...{Loading}...
विश्वास-प्रस्तुतिः
दि॒वे त्वा॑ +++(प्रोक्षामि)+++ ।
अ॒न्तरि॑क्षाय त्वा +++(प्रोक्षामि)+++ ।
पृ॒थि॒व्यै त्वा॑ +++(प्रोक्षामि)+++ ।
प्रदीपसिंहः
अन्तरिक्षाय इत्यत्र सन्नतरः नासीत् । पदपाठे वर्तते ।
Keith
To sky thee, to atmosphere thee, to earth thee!
मूलम् (संयुक्तम्)
- दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा
मूलम्
दि॒वे त्वा॑ ।
अ॒न्तरि॑क्षाय त्वा।
पृ॒थि॒व्यै त्वा॑।
पद-पाठः
दि॒वे । त्वा॒ ।
अ॒न्तरि॑क्षाय । त्वा॒ ।
पृ॒थि॒व्यै । त्वा॒ ।
भट्टभास्कर-टीका
4अन्तर्वेद्यूर्ध्वाग्रं बर्हिस्स्थापयित्वा प्रोक्षति - दिव इति ॥ अग्रमध्यमूलेषु क्रमेण प्रोक्षणम् । सर्वत्र प्रोक्षामीति शेषः । यागनिर्वृत्तिद्वारेण द्युप्रभृतीनां लोकानां धारणार्थं प्रोक्षणं भवति । ‘ऊडिदम्’ (पा.सू. 6.1.171) इत्यादिना दिव इति विभक्तेरुदात्तत्वम् । पृथिव्या इत्यादौ ‘उदात्तयणो हल्पूर्वात्’ (पा.सू. 6.1.174) इति विभक्तेरुदात्तत्वम् ॥
भट्टभास्कर-टीका
4-6 बर्हिःप्रोक्षणे व्याख्यातम् द्युलोकादिस्थित्यर्थं त्वां प्रोक्षामीत्यौदुम्बर्या अग्रमध्यमूलानि पृथक्पृथक्प्रोक्ष्यन्ते । ‘परस्तादर्वाचीम्’ इत्यादि ब्राह्मणम् ॥
भट्टभास्कर-टीका
7अवटे अपोवनयति - शुन्धतामिति ॥
शुन्धन्ताम् ...{Loading}...
विश्वास-प्रस्तुतिः
शुन्ध॑ताल्ँ लो॒कᳶ पि॑तृ॒-षद॑नः ।
Keith
Pure be the world where the Pitrs sit.
मूलम्
शुन्ध॑ताल्ँ लो॒कᳶ पि॑तृ॒षद॑नः ।
पद-पाठः
शुन्ध॑ताम् । लो॒कः । पि॒तृ॒षद॑न॒ इति॑ पितृ-सद॑नः ।
भट्टभास्कर-टीका
पितरस्सीदन्त्यस्मिन्निति पितृषदनः । अधिकरणे ल्युट्, कृदुत्तरपदप्रकृतिस्वरत्वम्, लित्स्वरेण सदनशब्द आद्युदात्तः, सुषामादित्वात्षत्वम् । ईदृशोयं लोकः अवटाख्योवकाशश्शुन्धताम् शुद्धो भवतु । व्यत्ययेनात्मनेपदम्, ‘अदुपदेशात्’ इति लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘क्रूरमिव वा एतत्करोति यत्खनत्यपोवनयति शान्त्यै’ `इति ब्राह्मणम् ॥
भट्टभास्कर-टीका
7अवटे अपोवनयति - शुन्धतामिति ॥
भट्टभास्कर-टीका
8अवटे यवान्प्रक्षिपति - यवोसीति ॥
यवोऽसि ...{Loading}...
विश्वास-प्रस्तुतिः
यवो॑ऽसि।
य॒वय॑+++(=अपनय)+++ +अ॒स्मद्-द्वेषः॑ ।
य॒वय॒ +अरा॑तीः ।
Keith
Thou art barley (yava);
bar (yavaya) from us foes,
bar evil spirits.
मूलम् (संयुक्तम्)
यवो॑ऽसि य॒वया॒स्मद्द्वेषः॑ [1] य॒वयारा॑तीः ।
मूलम्
यवो॑ऽसि।
य॒वया॒स्मद्द्वेषः॑ ।
य॒वयारा॑तीः ।
पद-पाठः
यवः॑ । अ॒सि॒ ।
य॒वय॑ । अ॒स्मत् । द्वेषः॑ । [1]
य॒वय॑ । अरा॑तीः ।
भट्टभास्कर-टीका
यावयति अपनयति क्षुधमिति यवः ।
यौतेः पृथग्भावकर्मणोन्तर्भावितण्यर्थात् ‘पुंसि संज्ञायां घः’, वृषादित्वादाद्युदात्तत्वम् । बहुलग्रहणाद्वा कर्तरि ‘ऋदोरप्’ इत्यप् । जात्याख्यायामेकवचनम् ।
ईदृशस् त्वम् अस्मत् अस्मत्तः द्वेषः द्वेष्यं रक्षःप्रभृति यवय अपनय विनाशय ।
यौतेर्णिचि ‘संज्ञापूर्वको विधिरनित्यः’ इति वृद्धिर्न क्रियते, तिङः परत्वान्न निहन्यते ।
यद्वा - द्विषेः ‘अन्येभ्योपि दृश्यते’ इति विच् । द्वेषः द्वेष्टॄन् विनाशय ।
किञ्च - अरातीः अदातॄन् शत्रूञ्श्च यवय । रातेः कर्तरि क्तिनि क्तिचि वा नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । अस्मदीयांश्च शत्रून्नाशयेत्यर्थः । अपदात्परत्वादिदमाख्यार्तं न निहन्यते । ‘ऊर्ग्वै यवः’ इत्यादि बाह्मणम् ॥
भट्टभास्कर-टीका
13तेषु यवान्प्रस्कन्दयति - यवोसीति ॥ व्याख्यातम् । ‘प्राणेष्वेवोर्जं दधाति’ `इति ब्राह्मणम् ॥
भट्टभास्कर-टीका
9तस्मिन् व्यतिषज्य बर्हिर्-मुष्टिं निदधाति - पितृणामिति ॥
पितृणाम् ...{Loading}...
विश्वास-प्रस्तुतिः
पि॒तृ॒णाँ+++(=पितॄणाम्)+++ सद॑नमसि।
+++(‘नामन्यतरस्याम्’ इति षष्ठीबहुवचनस्योदात्तत्वम्। )+++
Keith
Thou art the seat of the Pitrs.
मूलम्
पि॒तृ॒णाँ सद॑नम् असि।
पद-पाठः
पि॒तृ॒णाम् । सद॑नम् । अ॒सि॒ ।
भट्टभास्कर-टीका
सीदन्त्यस्मिन्निति सदनं आसनम् । अधिकरणए ल्युट्, लित्स्वरेणाद्युदात्तत्वम् । पितॄणामासनमसि । ‘नामन्यतरस्याम्’ इति षष्ठीबहुवचनस्योदात्तत्वम्, ‘छन्दस्युभयथा’ इति ‘नामि’ इति दीर्घत्वं न क्रियते । ‘पितृदेवत्यं ह्येतत्’ इत्यादि ब्राह्मणम् ॥
भट्टभास्कर-टीका
6बर्हिर्हस्तं व्यतिषज्यावस्तृणाति - पितृणामिति ॥ व्याख्यातमेव । ‘यद्बर्हिरनवस्तीर्य मिनुयात्पितृदेवत्यो निखातस्स्यात्’ `इति ब्राह्मणम् ॥
भट्टभास्कर-टीका
10औदुम्बरीम् उच्छ्रयति - उद्दिवमिति ॥
विश्वास-प्रस्तुतिः
उद् दिवँ॑ स्तभान ।
आ +अ॒न्तरि॑क्षम् पृण+++(=पूरय)+++ ।
पृ॒थि॒वीन् दृँ॑ह ।+++(5)+++
Keith
Support the sky, fill the atmosphere, make firm the earth.
मूलम् (संयुक्तम्)
उद्दिवँ॑ स्तभा॒नाऽन्तरि॑क्षम्पृण पृथि॒वीन्दृँ॑ह
मूलम्
उद्दिवँ॑ स्तभान ।
आन्तरि॑क्षम् पृण ।
पृ॒थि॒वीन्दृँ॑ह ।
पद-पाठः
उदिति॑ । दिव॑म् । स्त॒भा॒न॒ ।
एति॑ । अ॒न्तरि॑क्षम् । पृ॒ण॒ ।
पृ॒थि॒वीम् । दृँ॒ह॒ ।
भट्टभास्कर-टीका
हे औदुम्बरि दिर्वं दिविष्ठानुत्तभान उत्तम्भय धारय । स्तन्भुस्सौत्रो धातुः, ‘स्तन्भु स्तुन्भु’ इति श्नाप्रत्ययः । ‘हलश्श्नश्शानज्झौ’ इति शानजादेशः । तथा अन्तरिक्षमन्तरिक्षस्थान् पृण प्रीणय । पृण प्रीणने इति तौदादिकः । तथा पृथिवीं पृथिवीस्थान् दृंह वर्धय । दृह दृहि वृद्धौ । पृथिवीशब्दो ङीषन्तोन्तोदात्तः ॥
भास्करोक्त-विनियोगः
11प्राचनिकर्णामौदुम्बरीम् मिनोति - द्युतानस्त्वेति द्विपदया विराजा जगत्या वा ॥
विश्वास-प्रस्तुतिः
द्यु॒ता॒नस्+++(=द्योतनशीलास्)+++ त्वा॑ मारु॒तो मि॑नोतु
मि॒त्रावरु॑णयोर् ध्रु॒वेण॒ धर्म॑णा।
Keith
May Dyutana Maruta set thee up according to the established law of Mitra and Varuna.
मूलम्
द्यु॒ता॒नस्त्वा॑ मारु॒तो मि॑नोतु … मि॒त्रावरु॑णयोर्ध्रु॒वेण॒ धर्म॑णा ।
पद-पाठः
द्यु॒ता॒नः । त्वा॒ । मा॒रु॒तः । मि॒नो॒तु॒ ।
मि॒त्रावरु॑णयो॒रिति॑ मि॒त्रा-वरु॑णयोः । ध्रु॒वेण॑ । धर्म॑णा ।
भट्टभास्कर-टीका
11प्राचनिकर्णामौदुम्बरीम्मिनोति - द्युतानस्त्वेति द्विपदया विराजा जगत्या वा ॥ द्योतनशीलो द्युतानः । द्युतेस्ताच्छीलिकश्चानश् । ‘बहुलं छन्दसि’ इति शपो लुक् । यद्वा - ’ युधिबुधिदृशां किच्च’ इति विधीयमान आनच्प्रत्ययो बहुलवचनाद्द्युतेरपि भवति । सर्वथा सार्वधातुकत्वाभावात् ‘अनुदात्तेतः’ इति लसार्वधातुकानुदात्तत्वस्याप्रवृत्तेः ‘चितः’ इत्यन्तोदात्तत्वमेव प्रवर्तते । हे औदुम्बरि द्युतानो मारुतस्त्वां मिनोतु अवटे प्रक्षिपतु; द्युताननामा वा मारुतस्त्वां मिनोतु ॥ ‘द्युतानो ह स्म वै’ इत्यादि ब्राह्मणम् । डु मिञ् प्रक्षेपणे, सौवादिकः । मरुच्छब्दात्प्रज्ञादित्वात् स्वार्थिकोण्प्रत्ययः ।
मित्रावरुणसम्बन्धिना ध्रुवेण नित्येन धर्मणा कर्मणा धारणेन वा त्वां मिनोतु । ‘देवताद्वनेद्व च’ मित्रावरुणशब्दे पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । ‘उदरं वै सदः’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
12पुरीषेणौदुम्बरीं प्रदक्षिर्णं पर्यूहति - ब्रह्मवनिमिति ॥
ब्रह्म-वनिम् ...{Loading}...
भास्करोक्त-विनियोगः
14प्रदक्षिणं पुरीषेण पर्यूहति - ब्रह्मवनिमिति ॥
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒-वनि॑न् त्वा क्षत्र॒-वनिँ॑ सुप्रजा॒-वनिँ॑ रायस्-पोष॒-वनि॒म् पर्यू॑हामि।
Keith
Thee that art winner of Brahmans, winner of nobles, winner of fair offspring, winner of increase of wealth, I close in.
मूलम्
ब्र॒ह्म॒वनि॑न्त्वा क्षत्र॒वनिँ॑ सुप्रजा॒वनिँ॑ रायस्पोष॒वनि॒म्पर्यू॑हामि।
पद-पाठः
ब्र॒ह्म॒वनि॒मिति॑ ब्रह्म-वनि॑म् । त्वा॒ ।
क्ष॒त्र॒वनि॒मिति॑ क्षत्र-वनि॑म् ।
सु॒प्र॒जा॒वनि॒मिति॑ सुप्रजा-वनि॑म् ।
रा॒य॒स्पो॒ष॒वनि॒मिति॑ रायस्पोष-वनि॑म् । परीति॑ । ऊ॒हा॒मि॒ ।
भट्टभास्कर-टीका
ब्रह्म ब्राह्मणान्वनति सम्भजत इति ब्रह्मवनिः । ‘छन्दसि वनसनरक्षिमथाम्’ इतीन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम् । एवं क्षत्रवनिं सप्रजावनिं रायस्पोषवनिमिति । ‘षष्ठ्या आक्रोशे’ इत्यनाक्रोशेपि बहुलवचनात् षष्ठ्या अलुक्, ‘षष्ठ्याः पतिपुत्र’ इति विसर्जनीयस्य सत्वम् । एवंगुणां त्वामौदुम्बरीं परितस्सर्वत ऊहामि स्थापयामि, पुरीषेणावटं पूरयित्वा स्थिरां करोमीत्यर्थः । ‘उपसर्गादस्यत्यूह्योर्वा वचनम्’ इति परस्मैपदम् ॥
भट्टभास्कर-टीका
14प्रदक्षिणं पुरीषेण पर्यूहति - ब्रह्मवनिमिति ॥ व्याख्यातम् ॥
भास्करोक्त-विनियोगः
13 मैत्रावरुणदण्डेन संहन्ति - ब्रह्म दृंहेति ॥
ब्रह्म द्रुंह ...{Loading}...
मूलम् (संयुक्तम्)
ब्रह्म॑ दृँह क्ष॒त्रन्दृँ॑ह प्र॒जान्दृँ॑ह रा॒यस्पोष॑न्दृँह
विश्वास-प्रस्तुतिः
ब्रह्म॑ दृँह ।
क्ष॒त्रन् दृँ॑ह ।
प्र॒जान् दृँ॑ह।
रा॒यस्-पोष॑न् दृँह ।
Keith
Strengthen the Brahmans,
strengthen the nobles,
strengthen offspring,
strengthen increase of wealth.
मूलम्
ब्रह्म॑ दृँह ।
क्ष॒त्रन्दृँ॑ह ।
प्र॒जान्दृँ॑ह।
रा॒यस्पोष॑न्दृँह ।
पद-पाठः
ब्रह्म॑ । दृँ॒ह॒ ।
क्ष॒त्रम् । दृँ॒ह॒ ।
प्र॒जामिति॑ प्र-जाम् । दृँ॒ह॒ ।
रा॒यः । पोष॑म् । दृँ॒ह॒ ।
भट्टभास्कर-टीका
हे मैत्रावरुणदण्ड ब्राह्मणादीन् दृंह वर्धय । प्रजाशब्दः कृदुत्तरपदप्रकृतिस्वेरणान्तोदात्तः । रैशब्दात्परस्याः षष्ठ्याः ‘ऊडिदम्’ इत्यादिनोदात्तत्वम् ॥
भट्टभास्कर-टीका
15मैत्रावरुणदण्डेन संहन्ति - ब्रह्म दृंहेति ॥ व्याख्यातमेव ॥
भास्करोक्त-विनियोगः
14औदुम्बरी-विशाखयोर् मध्ये विशाखाग्रयोर् वा हिरण्यं निधाय स्रुवेणाभिजुहोति - घृतेनेति ॥
विश्वास-प्रस्तुतिः
घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथाम् ।
Keith
With ghee, O sky and earth, be filled.
मूलम्
घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथाम् ।
पद-पाठः
घृ॒तेन॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा-पृ॒थि॒वी॒ । एति॑ । पृ॒णे॒था॒म् ।
भट्टभास्कर-टीका
14औदुम्बरी-विशाखयोर् मध्ये विशाखाग्रयोर् वा हिरण्यं निधाय स्रुवेणाभिजुहोति - घृतेनेति ॥ हे द्यावापृथिवीस्थनीये औदुम्बरीमूलाग्रे घृतेनात्मानमापृणेथां प्रीणयतं । द्यावापृथिव्यामेव वा उदकन प्रीणयतम् । ‘द्यावापृथिवी एव रसेनानक्ति’ `इति ब्राह्मणम् । पृणातेर्व्यत्ययेनात्मनेपदम् ॥
भास्करोक्त-विनियोगः
15मध्यम छदिर्निदधाति - इन्द्रस्येति ॥
विश्वास-प्रस्तुतिः
इन्द्र॑स्य॒ सदो॑ऽसि ।
Keith
Thou art the seat of Indra,
मूलम्
इन्द्र॑स्य॒ सदो॑ऽसि ।
पद-पाठः
इन्द्र॑स्य । सदः॑ । अ॒सि॒ ।
भट्टभास्कर-टीका
15मध्यम छदिर्निदधाति - इन्द्रस्येति ॥ इन्द्रस्य सदः सदनं गृह असि । ‘ऐन्द्रं हि देवतया सदः’ `इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
16पार्श्वयोश्छदिर्निदधाति - विश्वजनस्येति ॥
विश्वास-प्रस्तुतिः
वि॒श्व॒ज॒नस्य॑ छा॒या ।
मूलम्
वि॒श्व॒ज॒नस्य॑ छा॒या ।
पद-पाठः
वि॒श्व॒ज॒नस्येति॑ विश्व-ज॒नस्य॑ । छा॒या ।
Keith
the shade of all folk.
भट्टभास्कर-टीका
16पार्श्वयोश्छदिर्निदधाति - विश्वजनस्येति ॥ विश्वजनस्य सर्वजनस्य छाया गृहमासि । ‘विश्वजनस्य ह्येषा छाया’ `इति ब्राह्मणम् । छायाशब्दो गृहनामसु निरुक्तकारैः पठ्यते ॥
विश्वास-प्रस्तुतिः ...{Loading}...
परि॑ त्वा गिर्वणो॒+++(=गिर्भिर् वननीयः)+++ गिर॑
इ॒मा भ॑वन्तु वि॒श्वतः॑ ।
वृ॒द्धायु॒म् अनु॒ वृद्ध॑यो॒
जुष्टा॑ भवन्तु॒ जुष्ट॑यः ॥
सर्वाष् टीकाः ...{Loading}...
Keith
May these our songs, O lover of song,
Encompass thee on all sides,
Strengthening thee whose life is strong;
May they be dear delights.
मूलम्
परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑ ।
वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ॥
पद-पाठः
परीति॑ । त्वा॒ । गि॒र्व॒णः॒ । गिरः॑ । इ॒माः । भ॒व॒न्तु॒ । वि॒श्वतः॑ ।
वृ॒द्धायु॒मिति॑ वृ॒द्ध-आ॒यु॒म् । अन्विति॑ । वृद्ध॑यः । जुष्टाः॑ । भ॒व॒न्तु॒ । जुष्ट॑यः ।
भट्टभास्कर-टीका
17सदः पारिश्रयति - परित्वेति चतुष्पदयानुष्टुभा ॥ इन्द्रदेवत्यत्वादिन्द्रत्वेन सद उच्यते । हे गिर्वणः गीर्भिः स्तुतिभिर्वननीय सम्भजनीय । असुनन्तस्यामन्त्रितत्वादनुदात्तत्वम् । इमा वक्ष्यमाणास्स्तोत्रशत्त्रादिलक्षणा गिरः त्वां परिभवन्तु व्याप्नुवन्तु विश्वतस्सर्वतः । परिभवतिः व्याप्तिकर्मा । यद्वा - ‘लक्षणेत्थंभूताख्यान’ इति भागे लक्षणे वा द्योत्ये परेः कर्मप्रवचनीयत्वम् । इमा गिरस्त्वां परिभवन्तु तव भागात्मना भवन्त्यस्त्वामेव भजन्तामिति यावत् । यत्र त्वं तत्र भवन्त्विति वा ।
किञ्च - वृद्धायुर्दीर्घायुः । ‘छन्दसणिः’ इत्युण्प्रत्ययान्तेन बहुव्रीहिः । ईदृशं त्वामनु वृद्धयस्समृद्धयो भवन्तु । अनोर्लक्षणे भागे वा कर्मप्रवचनीयत्वम् । यत्र त्वं तत्र समृद्धयो भवन्त्विति यावत् । त्वामेव भजन्तामिति वा । सदसि हि सर्वाः स्तुतयः क्रियन्ते सर्वाश्च समृद्धयस्सम्पद्यन्ते । अपि च जुष्टयस्सेवा अस्माभिः क्रियमाणास्तव जुष्टा इष्टा भवन्तु । ‘नित्यं मन्त्रे’ इति जुष्टशब्दआद्युदात्तः ॥
भास्करोक्त-विनियोगः
18दक्षिण-द्वार्-बाहौ कुश-मुष्टिम् उपनिगृह्य दर्भेण स्पन्द्यां प्रवर्तयति - इन्द्रस्येति ॥
मूलम् (संयुक्तम्)
इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॑स्यै॒न्द्रम॒सीन्द्रा॑य त्वा ॥ [2]
विश्वास-प्रस्तुतिः
इन्द्र॑स्य॒ स्यूर्+++(=सूची)+++ अ॑सि ।
Keith
Thou art the string of Indra;
मूलम्
इन्द्र॑स्य॒ स्यूर॑सि ।
पद-पाठः
इन्द्र॑स्य । स्यूः । अ॒सि॒ ।
भट्टभास्कर-टीका
18दक्षिण-द्वार्-बाहौ कुश-मुष्टिम् उपनिगृह्य दर्भेण स्पन्द्यां प्रवर्तयति - इन्द्रस्येति ॥ ‘विष्णोस् स्यूर् असि’ इत्यनेनेदं व्याख्यातप्रायम् । सदस ऐन्द्रत्वादत्रैवमुच्यते ॥
- [विष्णोः स्यूः सेवनी त्वमसि यज्ञस्य । षिवु तन्तुसन्ताने, ‘क्विप्च’ इति क्विप् ‘छ्वोश्शूडनुनासिके च’ इत्यूठ् ॥]
विश्वास-प्रस्तुतिः
इन्द्र॑स्य ध्रु॒वम् अ॑सि ।
Keith
thou art the fixed point of Indra.
मूलम्
इन्द्र॑स्य ध्रु॒वम॑सि ।
पद-पाठः
इन्द्र॑स्य । ध्रु॒वम् । अ॒सि॒ ।
भट्टभास्कर-टीका
19ग्रन्थिं करोति - इन्द्रस्येति ॥ इदमपि ‘विष्णोर्ध्रुवमसि’ इत्यनेन व्याख्यातम् ॥
- [ विष्णुना ध्रुवम् अचलितं करणीयमसि ॥]
भास्करोक्त-विनियोगः
20सदोभिमृशति - ऐन्द्रमसीति॥
विश्वास-प्रस्तुतिः
ऐ॒न्द्रम् अ॑सि ।
इन्द्रा॑य त्वा ॥[2]
Keith
Thou art of Indra.
To Indra thee!
मूलम्
ऐ॒न्द्रम॑सि ।
इन्द्रा॑य त्वा ॥[2]
पद-पाठः
ऐ॒न्द्रम् । अ॒सि॒ ।
इन्द्रा॑य । त्वा॒ ॥ [2]
भट्टभास्कर-टीका
20सदोभिमृशति - ऐन्द्रमसीति॥ इन्द्रो देवतास्य ऐन्द्रं त्वमसि । तादृशं त्वामिन्द्राय इन्द्रार्थमभिमृशामीति शेषः । ‘ऐन्द्रं हि देवतया सदः’ इत्यादि ब्राह्मणम् ।
‘वैष्णवमसि विष्णवे त्वा’ इत्यनेन चेदं गतप्रत्यम् ॥
- [ हविर्धानमण्डपमभिमृशति - वैष्णवमिति ॥ वैष्णवं विष्णुदेवत्यं त्वमसि । अतो विष्णवे त्वामभिमृशामि । ‘वैष्णवं हि देवतया हविर्धानम्’ `इति ब्राह्मणम् ॥]
इति तृतीये प्रथमोनुवाकः ॥