१४ कृणुष्व पाजः

विस्तारः (द्रष्टुं नोद्यम्)

काम्य(सामिधेनी)इष्टियाज्यापुरोनुवाक्याः।
१-१८ त्रिष्टुप् । सोमऋषिः

  • काम्येष्टिकाण्डान्तर्गते २-२-२ अनुवाके समाम्नातायां राक्षोघ्नेष्टौ सङ्गतमन्त्राः
    • सामिधेन्यः १-१५ मन्त्राः
    • पुरोनुवाक्या १६ मन्त्रः
    • याज्ये द्वे १७-१८ मन्त्रौ
भास्करोक्त-विनियोगः

14’अग्नये रक्षोघ्ने पुरोडाशमष्टाकपालं निर्वपेद्यं रक्षांसि सचेरन्’ इत्यस्या इष्टेः पञ्चदश सामिधेन्यः । ततः परे याज्यानुवाक्ये । उपहोमार्था ततः परा याज्याविकल्पो वा । सर्वा अग्निदेवत्याः, ‘तपूष्यग्ने’ इत्यादिदर्शनात् । वैश्वदेवं काण्डम् । त्रैष्टुभस्सर्वोनुवाकः । तत्र प्रथमा - कृणुम्ष्व पाज इति ॥

आह्वानम्

विश्वास-प्रस्तुतिः ...{Loading}...

कृणुष्व᳓ पा᳓जः +++(=तेजः)+++ प्र᳓सितिन् +++(=जालं)+++ न᳓ पृथ्वीं᳓
याहि᳓ रा᳓जेवा᳓मवाँ +++(=सहवान्)+++ इ᳓भेन+++(=यूथेन)+++ ।
तृष्वी᳓म् +++(=वेगम्)+++ अ᳓नु प्र᳓सितिं +++(=सैन्यं)+++ द्रूणानो᳓
+++(निर्)+++ ऽस्ताऽसि, वि᳓ध्य रक्ष᳓सस् त᳓पिष्ठैः ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रक्षोहाग्निः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

कृणुष्व᳓ पा᳓जः प्र᳓सितिं न᳓ पृथ्वीं᳓
याहि᳓ रा᳓जेव अ᳓मवाँ इ᳓भेन
तृष्वी᳓म् अ᳓नु · प्र᳓सितिं द्रुणानो᳓°
अ᳓स्तासि वि᳓ध्य रक्ष᳓सस् त᳓पिष्ठैः

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M
genre M


Morph
kr̥ṇuṣvá ← √kr̥- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:MED}

ná ← ná (invariable)

pā́jaḥ ← pā́jas- (nominal stem)
{case:NOM, gender:N, number:SG}

prásitim ← prásiti- (nominal stem)
{case:ACC, gender:F, number:SG}

pr̥thvī́m ← pr̥thú- (nominal stem)
{case:ACC, gender:F, number:SG}

ámavān ← ámavant- (nominal stem)
{case:NOM, gender:M, number:SG}

íbhena ← íbha- (nominal stem)
{case:INS, gender:M, number:SG}

iva ← iva (invariable)

rā́jā ← rā́jan- (nominal stem)
{case:NOM, gender:M, number:SG}

yāhí ← √yā- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

ánu ← ánu (invariable)

drūṇānáḥ ← √drū- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

prásitim ← prásiti- (nominal stem)
{case:ACC, gender:F, number:SG}

tr̥ṣvī́m ← tr̥ṣú- (nominal stem)
{case:ACC, gender:F, number:SG}

asi ← √as- 1 (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}

ástā ← ástar- (nominal stem)
{case:NOM, gender:M, number:SG}

rakṣásaḥ ← rakṣás- (nominal stem)
{case:ACC, gender:M, number:PL}

tápiṣṭhaiḥ ← tápiṣṭha- (nominal stem)
{case:INS, gender:M, number:PL}

vídhya ← √vyadh- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

पद-पाठः

कृ॒णु॒ष्व । पाजः॑ । प्रऽसि॑तिम् । न । पृ॒थ्वीम् । या॒हि । राजा॑ऽइव । अम॑ऽवान् । इभे॑न ।
तृ॒ष्वीम् । अनु॑ । प्रऽसि॑तिम् । द्रू॒णा॒नः । अस्ता॑ । अ॒सि॒ । विध्य॑ । र॒क्षसः॑ । तपि॑ष्ठैः ॥

पद-पाठः-तैत्तिरीयः

कृ॒णु॒ष्व । पाजः॑ । प्रसि॑ति॒मिति॒ प्र-सि॒ति॒म् । न । पृ॒थ्वीम् । या॒हि । राजा॑ । इ॒व॒ । अम॑वा॒नित्यम॑-वा॒न् । इभे॑न ॥ तृ॒ष्वीम् । अन्विति॑ । प्रसि॑ति॒मिति॒ प्र-सि॒ति॒म् । द्रू॒णा॒नः । अस्ता॑ । अ॒सि॒ । विध्य॑ । र॒क्षसः॑ । तपि॑ष्ठैः ॥

Hellwig Grammar
  • kṛṇuṣvakṛ
  • [verb], singular, Present imperative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • pājaḥpājas
  • [noun], accusative, singular, neuter
  • “luminosity; look.”

  • prasitiṃprasitimprasiti
  • [noun], accusative, singular, feminine
  • “binding.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • pṛthvīṃpṛthvīmpṛthu
  • [noun], accusative, singular, feminine
  • “broad; wide; great; flat; pṛthu [word]; far.”

  • yāhi
  • [verb], singular, Present imperative
  • “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”

  • rājevāmavāṃrājārājan
  • [noun], nominative, singular, masculine
  • “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”

  • rājevāmavāṃiva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • rājevāmavāṃamavāṃamavat
  • [noun], nominative, singular, masculine
  • “impressive; strong.”

  • ibhenaibha
  • [noun], instrumental, singular, masculine
  • “elephant.”

  • tṛṣvīmtṛṣu
  • [noun], accusative, singular, feminine
  • “dry.”

  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • prasitiṃprasitimprasiti
  • [noun], accusative, singular, feminine
  • “binding.”

  • drūṇānodrūṇānaḥdrū
  • [verb noun], nominative, singular

  • ‘stāsiastāas
  • [verb], singular, periphrast. future
  • “shoot; remove.”

  • ‘stāsiasias
  • [verb], singular, Present indikative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • vidhyavyadh
  • [verb], singular, Present imperative
  • “pierce; vedhay; pierce; transfix; bleed; pierce; cut off; injure.”

  • rakṣasasrakṣasaḥrakṣas
  • [noun], accusative, plural, masculine

  • tapiṣṭhaiḥtapiṣṭha
  • [noun], instrumental, plural, masculine
  • “burning; ablaze(p).”

सायण-भाष्यम्

हे अग्ने पाजः तेजःसंघं कृणुष्व कुरुष्व विस्तारय । तत्र दृष्टान्तः । प्रसितिं । यथा मृगयुः पृथ्वीं विस्तीर्णां प्रसितिं प्रकर्षेण सीयते बध्यत इति प्रसितिर्वागुरा। तादृशीं प्रसितिं पक्षिग्रहणार्थं वनगहनेषु प्रसारयति तद्वत् त्वमपि रक्षांसि हन्तुं महद्बलमग्रतस्तनुष्व। इभेन गतभयेन तेजःसंघेन युक्तस्त्वं याहि रक्षांसि हन्तुं गच्छ । तत्र दृष्टान्तः । राजेव । यथा अमवान् । राज्ञा सह वर्तते इत्यमः अमात्यः । तद्वान् । यद्वा । अमोऽमनं रोगः । शत्रूणां कर्तव्यै रोगैस्तद्वान् । शत्रूणां रोगभूत इत्यर्थः । राजा इभेन गजेन युक्तः सन् परबलं प्रतिगच्छति तद्वत् । किंच तृष्वीम् । तृष्वीति क्षिप्रनाम । क्षिप्रगामिनीं प्रसितिं प्रकृष्टां सेनाम् अनु द्रूणानः अनुगच्छन् । यद्वा । तृष्वीमिति तृतीयार्थे द्वितीया । तृष्व्या क्षिप्रया प्रसित्या अनुबद्धया संततया गत्या द्रूणानः परसेनां हिंसन् अस्ता शत्रूणां क्षेप्ता असितपिष्ठैः तप्तृतमैः तेजोभिः रक्षसः राक्षसान् विध्य ताडय । अत्र निरुक्तम् – ‘ कुरुष्व पाजः । पाजः पालनात् । प्रसितिमिव पृथ्वीम् । प्रसितिः प्रसहनात्तन्तुर्वा जालं वा । याहि राजेवामात्यवानभ्यमनवान्स्वम वान्वेरावता गणेन गतभयेन हस्तिनेति वा । तृप्व्यानु प्रसित्या द्रूणानः । तृष्वीति क्षिप्रनाम तरतेर्वा त्वरतेर्वा । अस्तासि विध्य रक्षसस्तपिष्ठैस्तप्ततमैः तृप्ततमैः तपिष्ठतमैरिति वा ’ (निरु. ६. १२) इति ॥ कृणुष्व ।’ कृवि हिंसाकरणयोः’। लोटि ‘धिन्विकृण्व्योर च ‘इत्युप्रत्ययः। व्यत्ययेनात्मनेपदम् । विकरणस्वरस्तु सतिशिष्टोऽपि लसार्वधातुकस्वरं न बाधते इति लसार्वधातुकस्वरः (पा. म. ६. १. १५८, ११ ) ॥

भट्टभास्कर-टीका

हे अग्ने कृणुष्व कुरुष्व । कृवि हिंसाकरणयोः व्यत्ययेनात्मनेपदम् ’ धिन्विकृण्व्योरच’ इत्युप्रत्ययः, अकारोन्तादेशः । करोतेर्विकरणव्यत्ययेन वा श्नुः । सतिशिष्टो विकरणस्वरो लसार्वधातुकस्वरेण बाध्यते । पाजः बलम् । ‘पातेर्जुक्च’ इत्यसुन् । बलेन हि पाल्यते जनः । प्रसितिं न प्रसितिमिव । उपरिष्टादुपचारत्वान्नकार उपमार्थीयः । प्रसितिः प्रसयनात् । प्रकर्षेण सीयते बध्यत इति प्रसितिः बहुसूत्रनिर्मिता मृगग्राहिणी पाश्यानाम, मत्स्यग्रहणं जालं नाम, पक्षिग्रहणं च विसरो नाम प्रसितिरुच्यते । ‘तादौ च निति कृत्यतौ’ इति गतेः प्रकृतिस्वरत्वम् । पृथ्वीं विस्तीर्णाम् । यथा लुब्धको मृगग्रहणार्थं पाश्यां करोति वनगहनेषु स्थापयति, यथा वा मत्स्यग्रहणार्थं जालं करोति जले प्रसारयति, यथा पक्षिग्राही तद्ग्रहणार्थं विसरं करोति नदीपुळिनादौ विसारयति, तथा त्वमपि महद्बलं रक्षांसि हन्तुं कृणुम्ष्व अग्रतो विस्तारयेत्यर्थः । अथ तथा कुर्वन्याहि राजेव ।

केचिदाहुः - आङ्पूर्वो यातिर्द्रष्टव्यः, यागसाधनार्थमागमनस्याभिप्रेतत्वात्,, यागोत्तरकालं हि रक्षोहननार्थं गन्तव्यमिति । अत्र ब्रूमः - याहीत्येव समीचीनम् ।
ननु यागोत्तरकालं गन्तव्यं तेन रक्षोहननार्थम् । मैवं वोचः, न हि देवो विश्वात्मा कुतश्चिदायाति । न क्वचिद्याति । स्तुतिः खल्वियं क्रियते स्वाभिलषितसम्पादनानुरूपा ‘याहि, आयाहि, उत्तिष्ठ, प्रत्यातनुष्व, ऊर्ध्वो भव’ इत्यादि स्वरूपा । एतैश्च स्तुतिपदैस्तुष्टा देवता पुरुषमभिलषितेन फलेन योजयति । तस्माद्रक्षोहननार्थं त्वरितं यातव्यमायातव्यं वा, यागो निर्वर्तित एव मन्तव्य इत्येवं रूपा स्तुतिर्भवत्येवेति किमश्रुतपदाध्याहारेणेति ।

किञ्च - यागमागच्छतो देवस्य किं बलादिपरिग्नहणेन । हन्तव्यसकाशं गच्छतो हि बलादिना कार्यम् । तस्माद्यथोक्तं बलमादाय हन्तव्यसकाशं गच्छ राजेव, राजा यथा महतीं सेनां कर्षन् शत्रुदेशं गच्छति । राजा विशेष्यते - अमवानमात्यवान् । अमा वर्तन्त इत्यमाः । अप्रत्ययश्छान्दसः । ‘तद्धिताः’ इति बहुवचननिर्देशाद्वा । यद्वा - शत्रूणां मनआदिभञ्जनान्यायुधानि अमशब्देनोच्यन्ते । अमवानिति वृद्ध्यभावश्छान्दसः ‘न कम्यमिचमाम्’ इति वचनात् । पचाद्यचि वा वृषादिर्द्रष्टव्यः । अमनशब्दस्यैव वान्त्याक्षरलोपः । यथाहुः - ‘द्वौ चापरौ वर्णविकारनाशौ’ इति ।
इभेन ।
अत्र नैरुक्ता बहुधा वदन्ति - “इरयान्नेनेडोभयेन भयनिवृत्त्यर्थं प्राप्त इभः इतमपगतं भयमस्येति वा इभः वीतभयः हस्ती वा” इति । एतदुक्तं भवति; - यथा राजा अमात्ययुक्तश्शत्रूणां भञ्जनैरायुधादिभिस्तद्वान् इभेन हस्तिना शत्रुवधादिकं साधयितुं युक्तो गच्छति, तथा त्वं महद्बलमादाय शत्रुबलनाशनसमर्थेन रोगादिना तद्वान् इभेन इरापुष्टेन वीतभयेन तद्वान् गजेन वा सह रक्षांसि हन्तुं याहीति । अमवानिति संहितायां नकारस्य यत्वानुनासिकौ पूर्ववत् । तृष्वीं क्षिप्रनामैतत् । प्रकृष्टा सितिस्सेना प्रसितिः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अनुद्रूणानः अनुद्रवन्ननुधावन् ।

एतदुक्तं भवति - मन्त्रिभिर्बहुलं समस्तं बलमग्रतः प्रसारयेतीरितां क्षिप्रगामिनीं प्रकृष्टां सेनामग्रतः प्रसारितां द्रवन्तीमनुद्रवन् राजेव यहीति । यद्वा - तृष्वीं क्षिप्रमागच्छन्तीं प्रसितिं परसेनां अनुद्रूणानः अनुक्रमेण हिंसन् याहीति । द्रूञ् हिंसायां क्रैयादिकः, पूर्वस्मिन्पक्षे द्रवतेस्ताच्छीलिकश्चानश्, व्यत्ययेन श्ना धातोश्च दीर्घत्वम् । अथैवं यात्वा रक्षसः राक्षसान् विध्य ताडय । तपिष्ठैः तप्तृतमैः तप्तृशब्दादिष्ठनि ‘तुरिष्ठेमेयस्सु’ इति तृशब्दस्य लोपः । कस्मादित्थमुच्यत इति चेत्, अस्तासि साधु निरसितासि शत्रूणाम्।

यद्वा - शत्रुसम्बन्धिनाममोघानां शस्त्राणामस्ता निरसिता निवारयिता त्वमसि । तस्मात्तपिष्ठैस्त्वदीयैरायुधैः तान्विध्येति । अस्यतेस्साधुकारिणि तृन् । रधादित्वादिड्विकल्प्यते । विध्येति तिङः परत्वान्न निहन्यते । रक्षश्शब्दोयमसुनन्तः । रक्षाहेतुत्वादपादानेऽसुन् । क्षरेर्वा हिंसार्थात्कर्तर्यसुन्याद्यन्तविपर्ययः; यथोक्तं ‘वर्णागमो वर्णविपर्ययश्च’ इति । अयं चार्धर्चादित्वादुभयलिङ्गः । तत्र नपुंसकत्वे ‘नब्विषयस्यानिसन्तस्य’ इत्याद्युदात्तत्वम् । यथा - ‘रक्षसामपहत्यै’ ‘रक्षांसि जिघांसन्ति’ इति । पुल्लिङ्गे अस्य त्वन्तोदात्तत्वं भवति; यथा - ‘रक्षसः पाह्यस्मान्’ इत्यादौ । एवमस्यापि पुल्लिङ्गत्वादन्तोदात्तत्वम् । ‘नब्विषयस्य’ इति नियमेन नित्स्वरो बाध्यते, यथा - ‘दक्षेरिनन्विधीयत’ इति दक्षिणशब्देनान्तोदात्तेन भवितव्यम् । यथा - ‘दक्षिणा दिक् । इन्द्रो देवता’ इत्यादौ ‘दक्षिणस्या दिगाख्यायाम्’ इति नियमाद्दिगाख्याया अन्यत्राद्युदात्तत्वम् । यथा ‘दक्षिणां प्रतिग्रहीष्यन्’ ‘आ प्र यच्छ दक्षिणात्’ इत्यादिषु । एवमत्रापि द्रष्टव्यम् ॥

मानसतरङ्गिणीकृत्

Forcefully casting your widespreading net, like a king impetously setting forth on his elephant,
swiftly hurling your net, shooting your missiles, pierce the rakShas with your intensely hot flames.

Wilson

English translation:

“Put forth your strength, Agni, as a fowler spreads a capacious snare; proceed like a king attended by his followers on his elephant; you are the scatterer (of your foes); following the swift-moving host consume the rākṣasas with your fiercest flames.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Yajus. 13.9; like a king attended: rājevāmavān ibhena: ibha may also mean fearless, gatabhayena;or, hastinā;

Ama = a minister, for āmātya;or ama, an associate; or, sickness, inflicting it on the foe (cf. the same verse in Nirukta 6.13); following the swift-moving host: tṛṣvīm anu prasitim drūṇānaḥ = kṣipragāminīm prakṛṣṭām senām anugacchan;

Tṛṣvya = quick; santataya gatya, with extended or continuous march;

Prasiti = a net, a snare

Jamison Brereton

Make your leading edge like a broad onslaught. Drive like an aggressive king with his entourage,
mowing down (enemies) along your thirsting onslaught. You are an archer: pierce the demons with your hottest (flames).

Jamison Brereton Notes

The repetition of the same word, prásitim, in a and c without any obvious difference in usage or sense (Renou says they are “légèrement” distinct) seems uncharacteristically clumsy for a Vedic poet, which in turn makes it tempting to identify something that does distinguish them. Although he does not tr. them differently (nor does anyone else), Geldner suggests in his n. 1a that prásiti- represents the coalescence of two words, one derived from √sā, si ‘bind’ (‘Fanggarn’, a hunting net) and the other ‘Laut, Ansturm’, related to prásita- (IV.27.4, X.77.5) ‘shot forth’.

The latter provides the usual meaning of prásiti- ‘onslaught’ vel sim., and the word is now usually considered to belong to PIE *seh1(i)̯ ‘loslassen’ (cf. LIV2 1.*seh1(i)̯ n. 2; EWA s.v.) and to be related to sā́yaka- ‘missile’. For disc. of some of the occurrences of prásiti- see Hoffmann (Aufs. 417-18 [=MSS 10, 1957]); curiously Hoffmann only notes the second occurrence of the word in this vs., not the first. Geldner’s suggestion that the word has two sources opens the possibility of accounting for the poet’s seemingly awkward repetition here, if in fact he’s using two different words prásiti- (or, to him, possibly two different sense of one word; for this cf. sumatí in 6a, 8a below). That the prásiti- in pāda a is ‘broad’ (pṛthvī-), while the ánu ‘along’ in c suggests that it is long and thin there might be a clue. I tentatively suggest that the first occurrence refers to a deployed hunting net – broad so as to trap as many animals as possible (or to make it difficult for any animal to avoid it) and comparable to an advancing sheet or wall of flame. The second one would then have the usual sense of ‘onslaught, forward dash’. Unfortunately altering the tr. to allows for these two separate meanings would lose the identity of the forms in this suggested pun.

Pace Geldner, íbha- means ‘entourage, retinue’ not ‘elephant’ in Vedic, a meaning reinforced by the Middle Indic derivatives. See EWA s.v. On drūṇāṇá- as belonging to √drū ‘cut down, mow’ see Hoffmann (Aufs. 414-21) and EWA s.v. DRAVI .

Pāda c seems to go more naturally with b than with d, as most take it.

Griffith

PUT forth like a wide-spreading net thy vigour; go like a mighty King with his attendants.
Thou, following thy swift net, shootest arrows: transfix the fiends with darts that burn most fiercely.

Oldenberg

Produce thy stream of flames like a broad onslaught. Go forth impetuous like a king with his elephant 1; … 2 after thy greedy onslaught, thou art an archer; shoot the sorcerers with thy hottest (arrows).

Keith

Put forth thy strength like a spreading net;
Come like a mighty king with thy retainers;
Hurling thy swift net thou shootest arrows;
Pierce the Raksases with thy keenest (darts).

Geldner

Mach deine Gestalt wie eine breite Wurfschlinge, zieh aus wie ein mächtiger König auf dem Elefanten! Deiner gierigen Wurfschlinge nachlaufend - du bist der Schütze - triff die Unholde mit deinen glühendsten Pfeilen.

Grassmann

Breit aus dein Licht wie eine weite Heerschar, gleich mächt’gem König geh mit deinen Mannen; Die gier’ge Heerschar schnell verfolgend schiesse, mit schärfster Glut durchbohre die Gespenster.

Elizarenkova

Сделай пламя свое словно широкая петля!
Отправляйся, словно неистовый царь со свитой!
Кинувшись вслед за жадной петлей, –
Ты (ведь) стрелок-пронзи ракшасов самыми раскаленными (стрелами)!

अधिमन्त्रम् (VC)
  • रक्षोहाऽग्निः
  • वामदेवो गौतमः
  • भुरिक्पङ्क्ति
  • पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः

अब पन्द्रह ऋचावाले चौथे सूक्त का आरम्भ है। उसके प्रथम मन्त्र में राजविषय में सेनापति के काम को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे सेना के ईश ! आप (राजेव) राजा के सदृश (अमवान्) बलवान् (इभेन) हाथी से (याहि) जाइये प्राप्त हूजिये (प्रसितिम्) दृढ़ बँधी हुई (पृथ्वीम्) भूमि के (न) सदृश (पाजः) बल (कृणुष्व) करिये जिससे (प्रसितिम्) बन्धन और (तृष्वीम्) पियासी के प्रति (अनु, द्रूणानः) अनुकूल शीघ्रता करनेवाले और (अस्ता) फेंकनेवाला (असि) हो इससे (तपिष्ठैः) अतिशय सन्ताप देनेवाले शस्त्र आदिकों से (रक्षसः) दुष्टों को (विध्य) पीड़ा देओ ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे राजसम्बन्धी जनो ! आप लोग पृथिवी के सदृश दृढ़ बल करके, राजा के सदृश न्यायाधीश होकर, पिपासित मृगी के पीछे दौड़ते हुए भेड़िये के सदृश दुष्ट डाकू जो कि अनुधावन करते अर्थात् जो कि पथिकादिकों के पीछे दौड़ते हुए, उनका नाश करो ॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे सेनेश ! त्वं राजेवाऽमवानिभेन याहि प्रसितिं पृथ्वीं न पाजः कुणुष्व यतः प्रसितिं तृष्वीमनु द्रूणानोऽस्तासि तस्मात्तपिष्ठै रक्षसो विध्य ॥१॥

दयानन्द-सरस्वती (हि) - विषयः

अथ राजविषये सेनापतिकृत्यमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (कृणुष्व) (पाजः) बलम् (प्रसितिम्) प्रबद्धाम् (न) इव (पृथ्वीम्) भूमिम् (याहि) (राजेव) (अमवान्) बलवान् (इभेन) हस्तिना (तृष्वीम्) पिपासिताम् (अनु) (प्रसितिम्) बन्धनम् (द्रूणानः) शीघ्रकारी (अस्ता) प्रक्षेप्ता (असि) (विध्य) (रक्षसः) दुष्टान् (तपिष्ठैः) अतिशयेन सन्तापकैः शस्त्रादिभिः ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमालङ्कारः। हे राजजना ! यूयं पृथ्वीव दृढं बलं कृत्वा राजवन्न्यायाधीशा भूत्वा तृषिताम्मृगीमनुधावन् वृक इव दुष्टान् दस्यूननुधावन्तस्तान् घ्नत ॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात राजा व प्रजा यांच्या कृत्याचे वर्णन केल्याने या सूक्ताच्या अर्थाची पूर्व सूक्तार्थाबरोबर संगती जाणावी.

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या यंत्रात उपमालंकार आहे. हे राजजनानो (सेनापती इत्यादींनो) तुम्ही पृथ्वीप्रमाणे दृढ बलयुक्त व्हा. राजाप्रमाणे न्यायाधीश बना व तृषित हरिणीमागे धावणाऱ्या लांडग्याप्रमाणे असणाऱ्या व वाटसरूंना लुटणाऱ्या दुष्ट दस्यूंचा नाश करा. ॥ १ ॥

युद्धप्रार्थना

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓व भ्रमा᳓स आशुया᳓ पतन्त्य् अ᳓नु
स्पृश धृषता᳓ +++(=अभिभवता)+++ शो᳓शुचानः
त᳓पूँष्य् अग्ने जुह्वा᳙ पतङ्गा᳓न्
अ᳓-सन्दितो +++(=अनिरुद्धः)+++ वि᳓ सृज वि᳓ष्वग् उल्काः᳓ ॥

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रक्षोहाग्निः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

त᳓व भ्रमा᳓स आशुया᳓ पतन्ति
अ᳓नु स्पृश धृषता᳓ शो᳓शुचानः
त᳓पूंषि अग्ने जुहु᳓वा पतंगा᳓न्
अ᳓संदितो वि᳓ सृज वि᳓ष्वग् उल्काः᳓

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M
genre M


Morph
āśuyā́ ← āśuyā́ (invariable)

bhramā́saḥ ← bhramá- (nominal stem)
{case:NOM, gender:M, number:PL}

patanti ← √pat- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

táva ← tvám (pronoun)
{case:GEN, number:SG}

ánu ← ánu (invariable)

dhr̥ṣatā́ ← √dhr̥ṣ- (root)
{case:INS, gender:M, number:SG, tense:PRS, voice:ACT}

śóśucānaḥ ← √śuc- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

spr̥śa ← √spr̥ś- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

juhvā̀ ← juhū́- (nominal stem)
{case:INS, gender:F, number:SG}

pataṁgā́n ← pataṁgá- (nominal stem)
{case:ACC, gender:M, number:PL}

tápūṁṣi ← tápus- (nominal stem)
{case:ACC, gender:N, number:PL}

ásaṁditaḥ ← ásaṁdita- (nominal stem)
{case:NOM, gender:M, number:SG}

sr̥ja ← √sr̥j- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

ulkā́ḥ ← ulkā́- (nominal stem)
{case:ACC, gender:F, number:PL}

ví ← ví (invariable)

víṣvak ← víṣvañc- (nominal stem)
{case:NOM, gender:N, number:SG}

पद-पाठः

तव॑ । भ्र॒मासः॑ । आ॒शु॒ऽया । प॒त॒न्ति॒ । अनु॑ । स्पृ॒श॒ । धृ॒ष॒ता । शोशु॑चानः ।
तपूं॑षि । अ॒ग्ने॒ । जु॒ह्वा॑ । प॒त॒ङ्गान् । अस॑म्ऽदितः । वि । सृ॒ज॒ । विष्व॑क् । उ॒ल्काः ॥

पद-पाठः-तैत्तिरीयः

तव॑ । भ्र॒मासः॑ । आ॒शु॒या । प॒त॒न्ति॒ । अन्विति॑ । स्पृ॒श॒ । धृ॒ष॒ता । शोशु॑चानः ॥ तपूँ॑षि । अ॒ग्ने॒ । जु॒ह्वा॑ । प॒त॒ङ्गान् । अस॑न्दित॒ इत्यस॑म्-दि॒तः॒ । वीति॑ । सृ॒ज॒ । विष्व॑क् । उ॒ल्काः ॥

Hellwig Grammar
  • tavatvad
  • [noun], genitive, singular
  • “you.”

  • bhramāsabhramāsaḥbhrama
  • [noun], nominative, plural, masculine
  • “bhrama; dizziness; flare; wandering.”

  • āśuyā
  • [adverb]

  • patantypatantipat
  • [verb], plural, Present indikative
  • “fall down; drop; fly; issue; fall; fall; decay; hang down; banish; throw; lodge; disappear.”

  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • spṛśaspṛś
  • [verb], singular, Present imperative
  • “touch; enter (a state); reach; touch.”

  • dhṛṣatādhṛṣat
  • [noun], instrumental, singular, masculine

  • śośucānaḥśośuc√śuc
  • [verb noun], nominative, singular
  • “blaze.”

  • tapūṃṣytapūṃṣitapus
  • [noun], accusative, plural, neuter
  • “heat.”

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • juhvājuhū
  • [noun], instrumental, singular, feminine
  • “tongue; fire; ladle.”

  • pataṅgānpataṃga
  • [noun], accusative, plural, masculine
  • “insect; sun; bird; Caesalpinia sappan L.; Pataṃga; Vishnu.”

  • asaṃditoa
  • [adverb]
  • “not; akāra; a [taddhita]; a [word]; a; a.”

  • asaṃditosaṃditaḥsaṃdo√do
  • [verb noun], nominative, singular
  • “yoke; tie.”

  • vi
  • [adverb]
  • “apart; away; away.”

  • sṛjasṛj
  • [verb], singular, Present imperative
  • “create; shoot; discharge; free; cause; throw; emit; send; produce; use; be born; make.”

  • viṣvagviṣvakviṣvañc
  • [noun], accusative, singular, neuter
  • “dispersed; viṣvañc [word].”

  • ulkāḥulkā
  • [noun], accusative, plural, feminine
  • “meteor; torch; brand.”

सायण-भाष्यम्

हे अग्ने तव संबन्धिनः भ्रमासः भ्राम्यन्तः आशुया शीघ्रगतयो रश्मयः पतन्ति सर्वतः प्रसरन्ति । शोशुचानः भृशं दीप्यमानस्त्वं धृषता अभिभवसमर्थेन तेजःसंघेन शत्रून् अनु क्रमेण स्पृश दह । दहनोपायं दर्शयति । असंदितः परैरनिरुद्धस्त्वं तपूंषि तापकानि तेजांसि पतङ्गान् पतनशीलान् विस्फुलिङ्गान् उल्काः चेत्येतत्त्रितयं जुह्वा । हूयन्तेऽस्यामाहुतय इति जुहूर्ज्वाला । तया विष्वक् सर्वतः वि सृज प्रसारय ॥ आशुया । आशुशब्दाज्जसः ‘सुपां सुलुक्° ‘इति याजादेशः । चित्स्वरः । धृषता । ‘धृष प्रसहने ’ । चुरादिधृषीयः । व्यत्ययेन शः । ‘शतुरनुमः इति विभक्तेरुदात्तत्वम् । जुह्वा ।’ जुहोतेर्दीर्घश्च ’ इति क्विप् द्विर्वचनं दीर्घत्वम् ।’ उदात्तयणो हल्पूर्वात् ’ इति विभक्तेरुदात्तत्वस्य ‘नोङ्धात्वोः ’ इति प्रतिषेधे ‘ उदात्तस्वरितयोर्यणः’ इति स्वरितत्वम् । असंदितः । ‘ दो अवखण्डने ‘। कर्मणि निष्ठा । ‘ द्यतिस्यति ’ इति इत्वम् । नञा समासे तस्य स्वरः ॥

भट्टभास्कर-टीका

2अथ द्वितीया - तवेति ॥ हे अग्ने तव भ्रमासः भ्रमणशीलाः विष्फुलिङ्गाः । पचाद्यच् ‘आज्जसेरसुक्’ । आशुया आशवः । ‘सुपां सुलुक्’ इत्यादिना जसो याजादेशः । पतन्ति निष्पतन्ति । यद्वा - आशु निष्पतन्ति, क्रियाविशेषणत्वान्नपुंसकत्वम् । द्वितीयैकवचनस्य लुगपवादो याजादेशः । अनुस्पृश ये निष्पतन्ति तैर्भ्रमैः रक्षश्शरीराण्यनुक्रमेण स्पृश दहेति यावत् । धृषता अभिभवित्रा । धृष प्रसहने चुरादिराधृषीयः, व्यत्ययेन शः, ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । भावप्रधानोयं, धर्षकत्वेनेत्यर्थः । शोशुचानः भृशं दीप्यमानः । यङ्लुगन्ताद्व्यत्ययेनात्मनेपदम्, ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् ।

इदानीं दहनोपाय उच्यते - तपूंषि तापानौष्ण्यलक्षणान् तपनशीलान् । तपेरुसि प्रत्ययः । पतङ्गान् पतनशीलान् । पतेरङ्गच्प्रत्ययः । उल्काः उज्ज्वलाः महाज्वालाः । पृषोदरादिः । एवमेतत्त्रितयं विष्वग्विसृज इतश्चेतश्च निस्सारय । विषु नाना अञ्चतीति ऋत्विगादिना क्विन्प्रत्ययः । ‘न्यधी च’ इति चकारस्यानुक्तसमुच्चयार्थत्वात् पूर्वपदप्रकृतिस्वरत्वम् । व्यत्ययेन वाव्ययपूर्वपदप्रकृतिस्वरत्वम् । जुह्वा असन्दितः अयन्त्रितः; अग्निर्हि जुहूं दृष्ट्वा यन्त्रित इव भवति न क्वचिद्याति, न चान्यत्करोति, तामेवाज्यवतीं व्याप्रियमाणां पश्यन्तया बद्ध इव भवति, तस्मात्तथा माभूरिति प्रार्थयते ।
जुह्वा विभक्तेः ‘उदात्तयणो हल्पूर्वात्’ इत्युदात्तस्य ‘नोङ्धात्वोः’ इति प्रतिषेधे ‘उदात्तस्वरितयोर्यणः’ इति स्वरितत्वं प्रवर्तते । सर्म्पूवाद्द्यतेः निष्ठायां ‘द्यतिस्यतिमास्थामित्तिकिति’ इतीत्वम्, अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।
अन्य आह - असन्दितः केनचिदप्यखण्डितप्रसरस्सन् इत्थं कुरु । तत्र कारणमाह - जुह्वा जुहूस्थेनाज्येनेत्यर्थः ॥

मानसतरङ्गिणीकृत्

Proceed rapidly flying, whirling your [weapons], follow them closely, and attack blazing in fury.
Spread with thy tongue the flying flames, O agni; unstoppable, hurl forth firebrands [like meteors] all around thee.

Wilson

English translation:

“Your swift and errant flames descend (on everyside); fierce-shining with vigour consume (the foe); scatter, Agni, with the ladle (of oblation), scorching flames and sparks, and brands.”

Jamison Brereton

Your swirling (flames) fly swiftly; touch down boldly following (them [/your onslaught]) as you keep blazing.
Unfettered, o Agni, with your tongue hurl out bursts of heat, flying (embers), firebrands in all directions.564 IV.4

Jamison Brereton Notes

Since √spṛś does not otherwise occur with ánu in the RV or, per MonierWilliams, in all of Skt., I supply an object with this preposition – either the flames of pāda a or, perhaps preferably, the prásitim construed with ánu in 1c.

Most interpr. take pataṃgā́n as an unmarked simile, e.g. Geldner “(gleich) Vögeln.” My interpr. requires supplying an unparalleled noun but avoids the need for a simile particle.

02-04 ...{Loading}...
Griffith

Forth go in rapid flight thy whirling weapons: follow them closely, glowing in thy fury.
Spread with thy tongue the winged flames, O Agni; unfettered, cast thy firebrands all around thee.

Oldenberg

Thy whirls fly quickly. Fiercely flaming touch (them). O Agni, (send forth) with the ladle 1 thy heat, thy winged (flames); send forth unfettered thy firebrands all around.

Keith

Swiftly thy whirling flames descend;
bring upward Follow them, glowing in thy fury;
Thy heat, O Agni, thy winged (flames) with thy tongue,
Unfettered, on all sides spread thy firebrands.

Geldner

Deine Lohen fliegen schnell, greif mutig zu, hell flammend. Schieß mit der Zunge deine Gluten hinaus gleich Vögeln, o Agni, ungezügelt nach allen Seiten deine Feuerbrände!

Grassmann

Es fliegen eilend deine Wirbelflammen, folg auf dem Fuss mit kühnem Muthe strahlend; Entfesselt giess beschwingte Flammen rings aus, mit deiner Zunge, Agni, Feuersgluten.

Elizarenkova

Твои огненные вихри быстро летают:
Смело хватай ими, мощно пылая!
Языком, о Агни, рассыпай во все стороны
Огни, (словно) птиц, – головни (твои), не давая себя связать!

अधिमन्त्रम् (VC)
  • रक्षोहाऽग्निः
  • वामदेवो गौतमः
  • भुरिक्पङ्क्ति
  • पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः

अब राज विषय में सामान्य से राजजनों के विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के सदृश वर्त्तमान ! जो (तव) आपके (आशुया) शीघ्र (भ्रमासः) भ्रमण (पतन्ति) गिरते हैं, उनको (धृषता) प्रगल्भ सेना के साथ (शोशुचानः) अत्यन्त पवित्र हुए (अनु, स्पृश) स्पर्श करो और (जुह्वा) होम के साधन से अग्नि (तपूंषि) तपाये गये पदार्थों को जैसे वैसे (पतङ्गान्) अग्निकणों के सदृश वर्त्तमान घोड़ों को अनुकूलता से स्पर्श करो (असन्दितः) खण्डरहित हुए (उल्काः) बिजुलियों को (विष्वक्) सर्व प्रकार (वि, सृज) छोड़िये ॥२॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो राजजन फुरतीवाले होते हुए शीघ्र कार्य्यकारी हों, वे अखण्डितवीर्य्य अर्थात् पूर्णबलवाले होकर बिजुली के प्रयोगों और ब्रह्मास्त्र आदि अस्त्रों को शत्रुओं के ऊपर कर विजय को प्राप्त हों ॥२॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे अग्ने ! ये तवाऽऽशुया भ्रमासः पतन्ति तान् धृषता शोशुचानोऽनुस्पृश जुह्वाग्निस्तपूंषीव पतङ्गाननु स्पृश। असन्दितः सन्नुल्का विष्वग्विसृज ॥२॥

दयानन्द-सरस्वती (हि) - विषयः

अथ राजविषये सामान्यतो राजजनविषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (तव) (भ्रमासः) भ्रमणानि (आशुया) क्षिप्राणि (पतन्ति) (अनु) (स्पृश) (धृषता) प्रगल्भेन सैन्येन (शोशुचानः) भृशं पवित्रः सन् (तपूंषि) प्रतप्तानि (अग्ने) पावकवद्वर्त्तमान (जुह्वा) होमसाधनेन (पतङ्गान्) अग्निकणा इव वर्त्तमानानश्वान् (असन्दितः) अखण्डितः (वि) (सृज) (विष्वक्) सर्वशः (उल्काः) विद्युतः ॥२॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ये राजजना स्फूर्त्तिमन्तः सन्त आशुकारिणः स्युस्तेऽखण्डितवीर्यो भूत्वा विद्युत्प्रयोगान् ब्रह्मास्त्राद्याञ्छत्रूणामुपरि कृत्वा विजयं प्राप्नुवन्तु ॥२॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जे राजे स्फूर्तिवान, शीघ्र कार्य करणारे असतील त्यांनी पूर्णबलयुक्त बनून विद्युत प्रयोगाने ब्रह्मास्त्र इत्यादीच्या साह्याने शत्रूंवर विजय प्राप्त करावा. ॥ २ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ति स्प᳓शो वि᳓ सृज तू᳓र्णितमो
भ᳓वा पायु᳓र् विशो᳓ अस्या᳓ अ᳓-दब्धः
यो᳓ नो दूरे᳓ अघ᳓-शँसो यो᳓ अ᳓न्ति
अ᳓ग्ने मा᳓किष् टे व्य᳓थिर् +++(=बाधकः)+++ आ᳓दधर्षीत्

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रक्षोहाग्निः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

प्र᳓ति स्प᳓शो वि᳓ सृज तू᳓र्णितमो
भ᳓वा पायु᳓र् विशो᳓ अस्या᳓ अ᳓दब्धः
यो᳓ नो दूरे᳓ अघ᳓शंसो यो᳓ अ᳓न्ति
अ᳓ग्ने मा᳓किष् टे व्य᳓थिर् आ᳓ दधर्षीत्

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M
genre M


Morph
práti ← práti (invariable)

spáśaḥ ← spáś- (nominal stem)
{case:ACC, gender:M, number:PL}

sr̥ja ← √sr̥j- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

tū́rṇitamaḥ ← tū́rṇitama- (nominal stem)
{case:NOM, gender:M, number:SG}

ví ← ví (invariable)

ádabdhaḥ ← ádabdha- (nominal stem)
{case:NOM, gender:M, number:SG}

asyā́ḥ ← ayám (pronoun)
{case:ABL, gender:F, number:SG}

bháva ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

pāyúḥ ← pāyú- (nominal stem)
{case:NOM, gender:M, number:SG}

viśáḥ ← víś- (nominal stem)
{case:GEN, gender:F, number:SG}

agháśaṁsaḥ ← agháśaṁsa- (nominal stem)
{case:NOM, gender:M, number:SG}

ánti ← ánti (invariable)

dūré ← dūrá- (nominal stem)
{case:LOC, gender:N, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

ā́ ← ā́ (invariable)

ágne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

dadharṣīt ← √dhr̥ṣ- (root)
{number:SG, person:3, mood:INJ, tense:PRF, voice:ACT}

mā́kis ← mā́kis (invariable)

te ← tvám (pronoun)
{case:DAT, number:SG}

vyáthiḥ ← vyáthi- (nominal stem)
{case:NOM, gender:N, number:SG}

पद-पाठः

प्रति॑ । स्पशः॑ । वि । सृ॒ज॒ । तूर्णि॑ऽतमः । भव॑ । पा॒युः । वि॒शः । अ॒स्याः । अद॑ब्धः ।
यः । नः॒ । दू॒रे । अ॒घऽशं॑सः । यः । अन्ति॑ । अग्ने॑ । माकिः॑ । ते॒ । व्यथिः॑ । आ । द॒ध॒र्षी॒त् ॥

पद-पाठः

प्रतीति॑ । स्पशः॑ । वीति॑ । सृ॒ज॒ । तूर्णि॑तम॒ इति॒ तूर्णि॑-त॒मः॒ । भव॑ । पा॒युः । वि॒शः । अ॒स्याः । अद॑ब्धः ॥
यः । नः॒ । दू॒रे । अ॒घशँ॑स॒ इत्य॒घ-शँ॒सः॒ । [28]
यः । अन्ति॑ । अग्ने॑ । माकिः॑ । ते॒ । व्यथिः॑ । एति॑ । द॒ध॒र्षी॒त् ॥

Hellwig Grammar
  • prati
  • [adverb]
  • “towards; per; regarding; respectively; according to; until.”

  • spaśospaśaḥspaś
  • [noun], accusative, plural, masculine
  • “lookout; spy; spaś.”

  • vi
  • [adverb]
  • “apart; away; away.”

  • sṛjasṛj
  • [verb], singular, Present imperative
  • “create; shoot; discharge; free; cause; throw; emit; send; produce; use; be born; make.”

  • tūrṇitamotūrṇitamaḥtūrṇitama
  • [noun], nominative, singular, masculine

  • bhavābhū
  • [verb], singular, Present imperative
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • pāyurpāyuḥpāyu
  • [noun], nominative, singular, masculine
  • “guard; pāyu [word]; Pāyu.”

  • viśoviśaḥviś
  • [noun], genitive, singular, feminine
  • “people; tribe; Vaisya; national; viś; real property; Vaisya.”

  • asyāasyāḥidam
  • [noun], genitive, singular, feminine
  • “this; he,she,it (pers. pron.); here.”

  • adabdhaḥadabdha
  • [noun], nominative, singular, masculine
  • “unfailing; unimpaired.”

  • yoyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • nonaḥmad
  • [noun], genitive, plural
  • “I; mine.”

  • dūredūra
  • [noun], locative, singular, neuter
  • “distance; distance; farness.”

  • aghaśaṃsoagha
  • [noun], neuter
  • “sin; evil; impurity; agha [word].”

  • aghaśaṃsośaṃsaḥśaṃsa
  • [noun], nominative, singular, masculine
  • “speaking.”

  • yoyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • antyanti
  • [adverb]

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • mākiṣmākir
  • [adverb]

  • ṭetvad
  • [noun], genitive, singular
  • “you.”

  • vyathirvyathiḥvyathis
  • [noun], accusative, singular, neuter

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • dadharṣītdhṛṣ
  • [verb], singular, Perfect injunctive
  • “dare; attack.”

सायण-भाष्यम्

हे अग्ने तूर्णितमः स्वरिततमस्त्वं स्पशः परबाधकान् रश्मीन् चारान् वा सत्यानृतविवेकार्थं वि सृज शत्रून् प्रति विशेषेण प्रेरय । अदब्धः केनाप्यहिंसितस्त्वम् अस्याः त्वदीयायाः विशः अस्मदादिकायाः प्रजायाः पायुः पालकः भव । कस्मात्तद्रक्षणमित्यपेक्षायामाह । नः अस्माकं दूरे यः अघशंसः । अघं पापात्मकं शंसनमभिलाषः कीर्तनं वा यस्य सोऽघशंसः । यः च अघशंसः अन्ति अस्माकं समीपे तिष्ठति तस्मादुभयविधाच्छत्रोः पालको भव । किंच ते त्वत्संबधिनोऽस्मान् माकिः न कश्चिदपि व्यथिः बाधको राक्षसः दधर्षीत् आधर्षयतु । अस्माकं कश्चिदपि परिभवं मा करोत्वित्यर्थः ॥ अन्ति । अन्तिकस्य कादिलोप आद्युदात्तत्वं च । अग्ने । पादादित्वात् षाष्ठिकमाद्युदात्तत्वम् । माकिष्टे इति संहितायां ‘युष्मत्तत्ततक्षुःष्वन्तःपादम्’ इति षत्वम् । दधर्षीत् । धृष प्रसहने । लङि ‘ बहुलं छन्दसि ’ इति शपः श्लुः । बहुलं छन्दसि ’ इति तिप ईडागमः । निघातः ॥

भट्टभास्कर-टीका

अथ तृतीया - प्रतीति ॥ अग्न इति चतुर्थपादादिः, अत एव न निहन्यते । हे अग्ने नः अस्माकं यो दूरे स्थितः अघशंसः यो वा अन्ति अन्तिके । ‘कादिलोपो बहुळम्’ इति कलोपः । अघं पापात्मकं शंसनमभिलाषः कीर्तनं वा यस्य सोघशंसः, बधादिकारी, दुरुक्तवदी वोच्यते । तथा प्रतिस्पशः पाशान् विसृज विस्तारय पाशैस्तं बधानेत्यर्थः । स्पश ग्रहणशोषणयोः, करणे सम्पदादिलक्षणः क्विप् । यद्वा - स्पश बाधने, बाधकान्यायुधादीनि तं प्रति विसृज । तूर्णितमः त्वरिततमस्सन् । त्वरतेः क्तिनि निष्ठावद्भावेन निष्ठानत्वे ‘ज्वरत्वरस्रव्यविमवामुपधायाश्च’ इत्यूठ् ।

किञ्च - भव पायुः पालयिता अस्या विशः प्रजायाः । कस्याः? त्वामनुगतायाः अस्मदादिकायाः न पुनः प्रकृतायाः । अत एवान्वादेशाभावात् ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वं प्रवर्तते । ‘सावेकाचः’ इति विशो विभक्तेरुदात्तत्वम् । ‘द्व्यचोतस्तिङः’ इति संहितायामाख्यातस्य दीर्घत्वम् । ‘कृवापाजिमि’ इत्युण्प्रत्ययः । अदब्धः अनुपहिंसितः केनापि ।

किञ्च - माकिः मा कश्चिदपि ते त्वामादधर्षीत् आधर्षयतु तव कश्चिदपि परिभवं माकार्षीदित्यर्थः । धृष प्रसहने चुरादिराधृषीयः द्विविकरणता, शपश्श्लुः, ततः परं सिच्, ‘नेटि’ इति वृद्धिप्रतिषेधः । सिच्येव वा व्यत्ययेन द्विर्वचनम् । व्यथिः व्यथयिता । व्यथेरन्तर्भावितण्यर्थात् ‘इन् सर्वधातुभ्यः’ इतीन् । ण्यन्तादेव वा ‘अच इः’ इतीप्रत्यये ‘बहुळमन्यत्रापि संज्ञाच्छन्दसोः’ इति णिलोपः । यथा - ‘वर्धन्तु त्वा सुष्टुतयः’ इति वृषादिर्द्रष्टव्यः । ते इति ‘क्रियाग्रहणं कर्तव्यम्’ इति सम्प्रदानत्वाच्चतुर्थी । ‘चतुर्थ्यर्थे बहुळं छन्दसि’ इति षष्ठी चतुर्थ्यर्थे वा । कर्मणि षष्ठी वा, तेव्यथिरिति सम्बन्धात् । ‘युष्मत्तत्तक्षुष्वन्तः पादम्’ इति ते इत्यस्मिन् परतः पूर्वस्य सकारस्य षत्वम् ॥

मानसतरङ्गिणीकृत्

Dispatch your spies forward, the fast moving one, being undeceived, the guardian of this people [the Aryas]. From him who, near or far, is bent on evil, O agni let no trouble sent over overcome us.

Wilson

English translation:

“Do you, who are most rapid, direct your (flames) against opposing (rays), and, unresisted, become the protector of this your people against the calumniator who is remote or who is nigh; let no malevolent (foe) prevail against us (who are) your worshippers.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Direct your flames against opposing rays: prati spaśo viṛja: spaśaḥ = parabādhakān raśmin; or, it may mean, caran, spies, sent to determine between true and false, satyanṛtavivekāītham; praṇidhin may also mean binders, imprisoners, bandhanakṛtāḥ

Jamison Brereton

Hurl out your spies against (the foes), as the swiftest one. Become the undeceivable protector of this clan here.
Whoever curses us at a distance, who nearby, o Agni, let no one defy your veering course.

Jamison Brereton Notes

Geldner renders d “keiner soll es wagen, dich irrezuführen,” but vyáthiḥ ‘veering course’ is simply a description of the usual behavior of fire, amply described in vss.

1-2.

02-04 ...{Loading}...
Griffith

Send thy spies forward, flectest in thy motion; be, ne’er deceived, the guardian of this people
From him who, near or far, is bent on evil, and let no trouble sent from thee o’ercome us.

Oldenberg

Being the quickest, send forth thy spies against (all evildoers). Be an undeceivable guardian of this clan. He who attacks us with evil spells, far or near, may no such (foe) defy thy track.

Keith

Send forth thy spies, swiftest in thy motion;
Be an unfailing guardian to this folk,
From him who afar plans evil [1], from him who near;
O Agni let no trouble from thee overwhelm us.

Geldner

Entsende eiligst deine Späher, sei ein unbetörbarer Schützer dieses Clans. Wer in der Ferne, wer in der Nähe Böses von uns redet, o Agni, keiner soll es wagen dich irrezuführen.

Grassmann

Zum Schutze sende eilig deine Späher, sei zuverläss’ger Hüter dieses Hauses; Welch bös’ gesinnter nahe weilt und ferne, der mög’ an deine Bahn sich nimmer wagen.

Elizarenkova

Самый стремительный, рассыпай против (врагов)-соглядатаев,
Будь защитником этого племени, не терпящим обмана!
Кто вдалеке говорит о нас злое, кто вблизи,
О Агни, ни один пусть не дерзнет помешать твоему метанию!

अधिमन्त्रम् (VC)
  • रक्षोहाऽग्निः
  • वामदेवो गौतमः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर राज विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् राजन् ! आप (तूर्णितमः) अत्यन्त शीघ्रकारी होते हुए (स्पशः) अत्यन्त स्पर्श करने अर्थात् मुँह लगनेवालों का (वि, सृज) त्याग करो, और (अस्याः) इस (विशः) प्रजा के (अदब्धः) नहीं मारने और (पायुः) पालन करनेवाले (प्रति, भव) होओ (यः) जो (अघशंसः) पाप की प्रशंसा करनेवाला चोर (नः) हम लोगों के (दूरे) दूर देश में वा (यः) जो (अन्ति) समीप में वर्त्तमान हो वह (ते) आपको (व्यथिः) पीड़ारूप (माकिः) मत (आ, दधर्षीत्) ढीठ हो ॥३॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे राजन् ! आप उत्तम गुणों को ग्रहण करके और प्रजा का पालन करके जो दूर और समीप में वर्त्तमान डाकू आदि दुष्ट पुरुष उनका नाश करो, जिससे सब को सुख हो ॥३॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे अग्ने ! त्वं तूर्णितमस्सन् स्पशो विसृज। अस्या विशोऽदब्धः पायुः प्रति भव योऽघशंसो नो दूरे योऽन्ति वर्त्तेत स ते व्यथिर्माकिरादधर्षीत् ॥३॥

दयानन्द-सरस्वती (हि) - विषयः

पुना राजविषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (प्रति) (स्पशः) स्पर्शकान् (वि) (सृज) (तूर्णितमः) अतिशीघ्रकारी (भव) अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (पायुः) पालकः (विशः) प्रजायाः (अस्याः) (अदब्धः) अहिंसकः (यः) (नः) अस्माकम् (दूरे) (अघशंसः) पापप्रशंसकस्तेनः (यः) (अन्ति) समीपे (अग्ने) विद्वन् राजन् (माकिः) (ते) तव (व्यथिः) पीडा (आ) (दधर्षीत्) धृष्णुयात् ॥३॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे राजंस्त्वं शुभान् गुणान् गृहीत्वा प्रजाः सम्पाल्य ये दूरसमीपस्था दस्यवस्तान् हिन्धि यतस्सर्वेषां सुखं स्यात् ॥३॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे राजा ! तू उत्तम गुण ग्रहण करून प्रजेचे पालन करून समीप व दूर असलेल्या दस्यू इत्यादी दुष्ट पुरुषांचा नाश कर. ज्यामुळे सर्वांना सुख मिळेल. ॥ ३ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् अग्ने तिष्ठ प्र᳓त्या᳓ऽऽतनुष्व
न्य् अ᳙मि᳓त्राँ ओषतात् +++(=प्रदह)+++ तिग्म-हेते ।
यो᳓ नो अ᳓रातिँ समिधान चक्रे᳓
नीचा᳓ तं᳓ धक्ष्य् +++(=दह)+++ अतसं᳓ +++(=काष्ठविशेषः)+++ न᳓ शु᳓ष्कम् ॥

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रक्षोहाग्निः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

उ᳓द् अग्ने तिष्ठ प्र᳓ति आ᳓ तनुष्व
नि᳓ अमि᳓त्राँ ओषतात् तिग्महेते
यो᳓ नो अ᳓रातिं समिधान चक्रे᳓
नीचा᳓ तं᳓ धक्षि अतसं᳓ न᳓ शु᳓ष्कम्

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M
genre M


Morph
ā́ ← ā́ (invariable)

agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

práti ← práti (invariable)

tanuṣva ← √tan- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:MED}

tiṣṭha ← √sthā- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

út ← út (invariable)

amítrān ← amítra- (nominal stem)
{case:ACC, gender:M, number:PL}

ní ← ní (invariable)

oṣatāt ← √uṣ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

tigmahete ← tigmáheti- (nominal stem)
{case:VOC, gender:M, number:SG}

árātim ← árāti- (nominal stem)
{case:ACC, gender:F, number:SG}

cakré ← √kr̥- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

samidhāna ← √idh- 1 (root)
{case:VOC, gender:M, number:SG, tense:AOR, voice:MED}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

atasám ← atasá- (nominal stem)
{case:NOM, gender:N, number:SG}

dhakṣi ← √dah- (root)
{number:SG, person:2, mood:IMP, voice:ACT}

ná ← ná (invariable)

nīcā́ ← nyàñc- (nominal stem)
{case:INS, gender:N, number:SG}

śúṣkam ← śúṣka- (nominal stem)
{case:NOM, gender:N, number:SG}

tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}

पद-पाठः

उत् । अ॒ग्ने॒ । ति॒ष्ठ॒ । प्रति॑ । आ । त॒नु॒ष्व॒ । नि । अ॒मित्रा॑न् । ओ॒ष॒ता॒त् । ति॒ग्म॒ऽहे॒ते॒ ।
यः । नः॒ । अरा॑तिम् । स॒म्ऽइ॒धा॒न॒ । च॒क्रे । नी॒चा । तम् । ध॒क्षि॒ । अ॒त॒सम् । न । शुष्क॑म् ॥

पद-पाठः-तैत्तिरीयः

उदिति॑ । अ॒ग्ने॒ । ति॒ष्ठ॒ । प्रति॑ । एति॑ । त॒नु॒ष्व॒ । नीति॑ । अ॒मित्रान्॑ । ओ॒ष॒ता॒त् । ति॒ग्म॒हे॒त॒ इति॑ तिग्म-हे॒ते॒ ॥ यः । नः॒ । अरा॑तिम् । स॒मि॒धा॒नेति॑ सम्-इ॒धा॒न॒ । च॒क्रे । नी॒चा । तम् । ध॒क्षि॒ । अ॒त॒सम् । न । शुष्क॑म् ॥

Hellwig Grammar
  • ud
  • [adverb]
  • “up.”

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • tiṣṭhasthā
  • [verb], singular, Present imperative
  • “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”

  • pratyprati
  • [adverb]
  • “towards; per; regarding; respectively; according to; until.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • tanuṣvatan
  • [verb], singular, Present imperative
  • “expand; perform; cause; increase; write; spread; produce; spread; speak; propagate.”

  • nyni
  • [adverb]
  • “back; down.”

  • amitrāṃamitra
  • [noun], accusative, plural, masculine
  • “enemy; foe.”

  • oṣatātuṣ
  • [verb], singular, Present imperative
  • “burn; punish.”

  • tigmahetetigma
  • [noun]
  • “sharp; pointed; fiery.”

  • tigmaheteheteheti
  • [noun], vocative, singular, masculine
  • “projectile; heti [word].”

  • yoyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • nonaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • arātiṃarātimarāti
  • [noun], accusative, singular, feminine
  • “hostility; adversity; foe; envy; stinginess.”

  • samidhānasamindh√indh
  • [verb noun], vocative, singular
  • “kindle; blaze.”

  • cakrekṛ
  • [verb], singular, Perfect indicative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • nīcā
  • [adverb]
  • “down.”

  • taṃtamtad
  • [noun], accusative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • dhakṣydhakṣidah
  • [verb], singular, Present indikative
  • “burn; cauterize; heat; burn; burn; burn; roast; blaze; burn; distress; destroy.”

  • atasaṃatasamatasa
  • [noun], accusative, singular, neuter
  • “shrub; scrub.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • śuṣkamśuṣka
  • [noun], accusative, singular, neuter
  • “dried; dry; dried-up; śuṣka [word]; baseless; arid.”

सायण-भाष्यम्

तिग्महेते । तिग्माः तीक्ष्णाः हेतयो ज्वाला यस्य स तथोक्तः । तादृश हे अग्ने उत् तिष्ठ रक्षोहननार्थमुद्यतो भव । शत्रून् प्रत्या तनुष्व ज्वालासंघं विस्तारय । तैस्तेजःसंघैः अमित्रान् शत्रून् नि ओषतात् नितरां दह । हे समिधान समिद्भिर्दीप्यमानाग्ने यः पुमान् नः अस्माकम् अरातिम् । भावप्रधाननिर्देशः । अरातित्वं शात्रवं चक्रे कुरुते । अरातिमदानं वा कुरुते । तं पुमांसं नीचा न्यग्भूतं धक्षि दह । तत्र दृष्टान्तः । अतसं । यथा शुष्कम् अनार्द्रम् अतसं काष्ठं दहसि तद्वत् ॥ ओषतात् ।’ उष दाहे’। लोटि हेः ‘तुह्योः’ इति तातङादेशः । धक्षि। दहेर्लोटि ‘ बहुलं छन्दसि’ इति शपो लुक् । ‘हो ढः’ इति ढत्वम् । भष्भावः । ‘ षढोः कः सि ’ इति कत्वम् । निघातः ॥

भट्टभास्कर-टीका

4अथ चतुर्थी - उदग्न इति ॥ हे अग्ने उत्तिष्ठ उत्थाय प्रत्यातनुष्व शत्रून्प्रत्यात्ततेजा भव । तथा च भूत्वा, हे तिग्महेते तीक्ष्णायुध अमित्रानस्मच्छत्रून् न्योषतात् नियमेन दह । उष दाहे । अमेरित्रप्रत्ययः । किञ्च - यो नः अस्माकं अरातिं अरातित्वं अस्मभ्यं वा अरातिं अदानं चक्रे कुरुते, योस्मभ्यं न किञ्चिदपि ददाति तं नीचा न्यग्भूतं धक्षि दह, अतसन्न काष्ठमिव शुष्कम् । दहेर्लेटि ‘बहुळं छन्दसि’ इति शपो लुक् । न्यक्शब्दाद्व्यत्ययेन तृतीया ‘अञ्चेश्छन्दस्यसर्वनामस्थानम्’ इति तस्या उदात्तत्वम् । हे समिधान सामिधेनीसमिद्भिर्दीप्यमान । पूर्ववच्छपो लुक् ॥

मानसतरङ्गिणीकृत्

Rise, O agni, blaze before us, one with sharp missiles, burn down our foes. Oh agitator of fuel, the one who has seeked harm us, smash down that one with your arrows, utterly [burning that evil-doer] like dry hay.

Wilson

English translation:

“Sharp-weaponed Agni, rise up; spread wide (your flames) against (the rākṣasas); entirely consume the foes; blazing Agni, burn down him who acts as an enemy towards us like a piece of dry timber.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Who acts as an enemy: āratim cakre may also mean, who annuls or prevents our donation, one who makes a gift no gift

Jamison Brereton

Stand up, Agni; stretch yourself out [/stretch (your bow)] against (them). Then scorch down the foes, o you whose missiles are sharp. Whoever has directed hostility toward us, o kindled one, burn him down like a dry thicket.

Jamison Brereton Notes

As Geldner suggests in his n. 4a, ā́tanuṣva could reflect the common idiom ā́√tan ‘draw/stretch (the bow [dhánus-, dhánvan-])’. Given that Agni is identified as a ‘shooter’ (ástā) in 1c and that bows are the presumed object of a different form of √tan in the next vs. (5c, see there), this seems quite possible, though I think the primary reading is simply the reflexive ‘stretch yourself out’; cf. 1a for Agni’s making himself broad.

02-04 ...{Loading}...
Griffith

Rise up, O Agni, spread thee out before us: burn down our foes, thou who hast sharpened arrows.
Him, blazing Agni! who hath worked us mischief, consume thou utterly like dried-up stubble.

Oldenberg

Rise up, O Agni! Spread out against (all foes)! Burn down the foes, O (god) with the sharp weapon! When kindled, O Agni, burn down like dry brushwood, the man who exercises malice against us.

Keith

Arise, O Agni; spread thyself out;
Burn up our foes, O thou of keen dart;
Him who hath wrought evil for us, O blazing one,
Do thou consume utterly like dry stubble.

Geldner

Steh auf, Agni, stell dich breit entgegen; brenn die Feinde nieder, Scharfpfeiliger! Wer uns, du Entflammter, Mißgunst erwiesen hat, den brenne nieder wie dürres Gestrüpp!

Grassmann

Erheb dich, Agni, spanne deinen Bogen, mit scharfer Waffe brenn die Feinde nieder; Wer Frevel übt an uns, o hellentflammter, den brenne nieder gleichwie dürres Buschwerk.

Elizarenkova

Поднимись, о Агни! Вытянись против (них)!
Испепели недругов, о ты, с острым дротиком!
Кто нам причинил горе, о зажженный,
Спали того дотла, как сухой куст!

अधिमन्त्रम् (VC)
  • रक्षोहाऽग्निः
  • वामदेवो गौतमः
  • भुरिक्पङ्क्ति
  • पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (समिधान) उत्तम प्रकार प्रकाशमान और (अग्ने) अग्नि के सदृश वर्त्तमान आप (उत्, तिष्ठ) उद्युक्त हूजिये (आ, तनुष्व) अच्छे प्रकार विस्तृत हूजिये (अमित्रान्) शत्रुओं के (प्रति) प्रति (नि, ओषतात्) निरन्तर दाह देओ (तिग्महेते) हे अत्यन्त तीव्र वृद्धिवाले ! (यः) जो (नः) हम लोगों के (अरातिम्) एक शत्रु और अनेक शत्रुओं को (नीचा) नीच (चक्रे) कर चुका अर्थात् सब से बढ़ गया (तम्) उसको (शुष्कम्) गीलेपन से रहित (अतसम्) कूप के (न) सदृश जिससे आप (धक्षि) जलाते हो, इससे वह आप राज्य के योग्य हो ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। मनुष्यों को चाहिये कि आलस्य त्याग के पुरुषार्थ का विस्तार करके शत्रुओं को जलावें और अन्धकूप के सदृश कारागृह में उनका बन्धन करें और नीचता को प्राप्त करे =करायें। जो लोग ऐसा करते हैं, उनकी राजा गुरु के सदृश सेवा करे ॥४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे समिधानाऽग्ने ! त्वमुत्तिष्ठाऽऽतनुष्वाऽमित्रान् प्रति न्योषतात्। हे तिग्महेते ! यो नोऽरातिममित्रान्नीचा चक्रे तं शुष्कमतसं न यतस्त्वं धक्षि तस्माद्राज्यमर्हसि ॥४॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (उत्) (अग्ने) अग्निरिव वर्त्तमान (तिष्ठ) उद्युक्तो भव (प्रति) (आ) (तनुष्व) विस्तृणीहि (नि) (अमित्रान्) शत्रून् (ओषतात्) दह (तिग्महेते) तिग्मा तीव्रा हेतिर्वृद्धिर्यस्य तत्सम्बुद्धौ (यः) (नः) (अरातिम्) शत्रुम् (समिधान) सम्यक् प्रकाशमान (चक्रे) (नीचा) नीचान् (तम्) (धक्षि) दहसि (अतसम्) कूपम् (न) इव (शुष्कम्) जलार्द्रभावरहितम् ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमालङ्कारः। मनुष्यैरालस्यं विहाय पुरुषार्थं विसृत्य शत्रवो दग्धव्या अन्धकूप इव कारागृहे बन्धनीयाः। नीचतां प्रापणीयाः। य एवं विदधति तान् राजा गुरुवत्सेवेत ॥४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात उपमालंकार आहे. माणसांनी आळसाचा त्याग करून पुरुषार्थ वाढवून शत्रूंचे दहन करावे व अंध कूपाप्रमाणे असलेल्या कारागृहात त्यांना बंदिस्त करावे व नीच समजून वर्तन करावे. जे लोक असे करतात त्यांची राजाने गुरुप्रमाणे सेवा करावी ॥ ४ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वो᳓ भव प्र᳓ति विध्या᳓-
+ध्य् अस्म᳓द् आवि᳓ष् कृणुष्व दै᳓व्यान्य् अग्ने ।
अ᳓व स्थिरा᳓ तनुहि यातु-जू᳓नां+++(=प्रेरकाणां)+++
जामि᳓म् +++(=ज्ञातिं)+++ अ᳓जामिं प्र᳓ मृणीहि +++(=जहि)+++ श᳓त्रू᳓न् ॥

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रक्षोहाग्निः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

ऊर्ध्वो᳓ भव प्र᳓ति विध्या᳓धि अस्म᳓द्
आवि᳓ष् कृणुष्व दइ᳓वियानि अग्ने
अ᳓व स्थिरा᳓ तनुहि यातुजू᳓नां
जामि᳓म् अ᳓जामिम् प्र᳓ मृणीहि श᳓त्रून्

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M
genre M


Morph
ádhi ← ádhi (invariable)

asmát ← ahám (pronoun)
{case:ABL, number:PL}

bhava ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

práti ← práti (invariable)

ūrdhváḥ ← ūrdhvá- (nominal stem)
{case:NOM, gender:M, number:SG}

vidhya ← √vyadh- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

āvís ← āvís (invariable)

daívyāni ← daívya- (nominal stem)
{case:NOM, gender:N, number:PL}

kr̥ṇuṣva ← √kr̥- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:MED}

áva ← áva (invariable)

sthirā́ ← sthirá- (nominal stem)
{case:ACC, gender:N, number:PL}

tanuhi ← √tan- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

yātujū́nām ← yātujū́- (nominal stem)
{case:GEN, gender:M, number:PL}

ájāmim ← ájāmi- (nominal stem)
{case:ACC, gender:M, number:SG}

jāmím ← jāmí- (nominal stem)
{case:ACC, gender:M, number:SG}

mr̥ṇīhi ← √mr̥̄- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

prá ← prá (invariable)

śátrūn ← śátru- (nominal stem)
{case:ACC, gender:M, number:PL}

पद-पाठः

ऊ॒र्ध्वः । भ॒व॒ । प्रति॑ । वि॒ध्य॒ । अधि॑ । अ॒स्मत् । आ॒विः । कृ॒णु॒ष्व॒ । दैव्या॑नि । अ॒ग्ने॒ ।
अव॑ । स्थि॒रा । त॒नु॒हि॒ । या॒तु॒ऽजूना॑म् । जा॒मिम् । अजा॑मिम् । प्र । मृ॒णी॒हि॒ । शत्रू॑न् ॥

पद-पाठः-तैत्तिरीयः

ऊ॒र्ध्वः । भ॒व॒ । प्रतीति॑ । वि॒ध्य॒ । अधीति॑ । अ॒स्मत् । आ॒विः । कृ॒णु॒ष्व॒ । दैव्या॑नि । अ॒ग्ने॒ ॥ अवेति॑ । स्थि॒रा । त॒नु॒हि॒ । या॒तु॒जूना॑म् । जा॒मिम् । अजा॑मिम् । प्रेति॑ । मृ॒णी॒हि॒ । शत्रून्॑ ॥

Hellwig Grammar
  • ūrdhvoūrdhvaḥūrdhva
  • [noun], nominative, singular, masculine
  • “upper; up(a); upper; upward; erect; more(a); raised; ūrdhva [word]; acclivitous; overturned; loud; eminent; high.”

  • bhavabhū
  • [verb], singular, Present imperative
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • prati
  • [adverb]
  • “towards; per; regarding; respectively; according to; until.”

  • vidhyādhyvidhyavyadh
  • [verb], singular, Present imperative
  • “pierce; vedhay; pierce; transfix; bleed; pierce; cut off; injure.”

  • vidhyādhyadhi
  • [adverb]
  • “on; from; accordingly.”

  • asmadasmatmad
  • [noun], ablative, plural
  • “I; mine.”

  • āviṣāvi
  • [noun], nominative, singular, feminine
  • “birth pangs.”

  • kṛṇuṣvakṛ
  • [verb], singular, Present imperative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • daivyānydaivyānidaivya
  • [noun], accusative, plural, neuter

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • ava
  • [adverb]
  • “down.”

  • sthirāsthira
  • [noun], accusative, plural, neuter
  • “firm; hard; lasting; calm; stable; immovable; firm; strong; sthira [word]; vegetable; potent; steadfast; durable; firm; trustworthy; trustworthy; diligent.”

  • tanuhitan
  • [verb], singular, Present imperative
  • “expand; perform; cause; increase; write; spread; produce; spread; speak; propagate.”

  • yātujūnāṃ_√_
  • [?]
  • “_”

  • jāmimjāmi
  • [noun], accusative, singular, masculine
  • “related; ancestral; customary; usual.”

  • ajāmimajāmi
  • [noun], accusative, singular, masculine
  • “unrelated; foreign-born.”

  • pra
  • [adverb]
  • “towards; ahead.”

  • mṛṇīhimṛ
  • [verb], singular, Present imperative
  • “crush; destroy.”

  • śatrūnśatru
  • [noun], accusative, plural, masculine
  • “enemy; foe; enemy; Asura.”

सायण-भाष्यम्

हे अग्ने ऊर्ध्वो भव रक्षोहननार्थमुद्युक्तो भव । अस्मत् अस्मत्तः अधि अधिकान् राक्षसान् प्रति विध्य प्रत्येकं ताडय । दैव्यानि तेजांसि च आविष्कृणुष्व आविष्कुरु । एतत्त्रयं विधाय यातुजूनां यातयितुं प्राणिनः क्लेशयितुं ये जवं कुर्वन्ति तेषां यातुधानानां स्थिरा दृढानि धनूंषि अव तनुहि अवगतज्यानि कुरु । किंच जामिं बन्धुम् अजामिम् अबन्धुम् एतादृशान् शत्रून् प्र मृणीहि प्रजहि । यद्वा । जामिं यः पूर्वं प्रहृतस्तम् । अजामिं पूर्वमप्रहृतम् । एवंभूतान् शत्रून् जहि । प्रहृतोऽयम् इत्युपेक्षां मा कृथाः ॥ अविष्कृणुष्व इत्यत्र संहितायाम् इदुदुपधस्य चाप्रत्ययस्य ’ इति षत्वम् । तनुहि । तनोतेर्लोटि • उतश्च प्रत्ययाच्छन्दसि वावचनम्’ इति हेर्लुगभावः । यातुजूनाम् । ‘जु गतौ । क्विब्वचि इत्यादिना क्विप्। दीर्घः । आमि छान्दसो नुम् । मृणीहि । मृङ् प्राणत्यागे’। अन्तर्भावितण्यर्थस्य लोटि ‘ बहुलं छन्दसि ’ इति विकरणस्य श्ना । निघातः ॥ ॥ २३ ॥ ᳓

भट्टभास्कर-टीका

5अथ पञ्चमी - ऊर्ध्व इति ॥ हे अग्ने ऊर्ध्वः उत्थितो भव । उत्थाय च प्रतिविध्य प्रत्येकं ताडय । यद्वा - प्रतियोद्धा भव । कस्यार्थे? अध्यस्मत् अस्मत्त उपरि अस्मत्पक्षे तिष्ठन् अस्मदर्थमित्यर्थः । यद्वा - अस्मत्त उपरि ये तिष्ठन्त्यस्मान्न्यग्भावयन्तः । तान् प्रतिविध्य प्रत्येकं ताडय । यद्वा - सप्तम्या लुक् । अस्मास्वधि प्रतिविध्य अस्मन्निमित्तं प्रतियोद्धा भव । अधिशब्देनापि सप्तम्यर्थ एव द्योत्यते । तदर्थं किं कर्तव्यमिति चेत् आविष्कृणुष्व प्रकाशय दैव्यानि देवस्थ तव स्वभूतानि वीर्याणि यानि तवैव सन्ति तानि प्रकाशय । ‘देवाद्यञञौ’ इति यञ् । ‘इदुदुपदस्य चाप्रत्ययस्य’ इति षत्वम् ।

किञ्च - यातुजूनां यातयितुं क्लेशयितुं प्राणिनो ये जवं कुर्वन्ति ते यातुजुवः । ‘क्विब्वचि’ इत्यादिना क्विब्दीर्घौ । आमि छान्दसो नुट् । तेषां यातुधानानां स्थिराणि वीर्याणि अवतनुहि अवाचनिं कुरु नाशय । ‘शेश्छन्दसि बहुळम्’ इति लुक् । ‘उतश्च प्रत्ययाच्छन्दो वा वचनम्’ इति हेर्लोपो न क्रियते । एवं त्वदीयानि वीर्याण्याविष्कृत्य यातुधानानां च वीर्याणि शिथिलीकृत्य पश्चादित्थं प्रवर्तितव्यमित्याह - जामिं चाजामिं च शत्रून्प्रमृणीहि प्रकर्षेण मारय । म्रियतेरन्तर्भावितण्यर्थात् लोटि[टः] व्यत्ययेन श्ना, हेः पित्त्वाभावे ङित्त्वादीत्वम् । यद्वा - मृण हिंसायाम्, लोटि हेश्छान्दस ईडागमः, विकरणस्य लुक् । यत्कृतमेव क्रियते तज्जामि । अत्र प्रमृणीहीत्याख्यातसन्निधेर्मरणविषयं पौनरुक्त्यं विज्ञायते, उपचारेण तद्वति वृत्तिः ।

एतदुक्तं भवति; - शत्रून् प्रमृणीहि । किं विशेषेण? जामिं चाजामिं च शत्रुं मारय यः पूर्वं प्रहृतस्तमपि प्रहर, हतो यमिति मोपेक्षिष्ठाः, यश्च न प्रहृतः कुतश्चित्कारणात्तमपि प्रहर, वराकोयं न हन्तव्य इत्यादि चेतसि माकृथाः । इदमेव कार्त्स्न्यं प्रतिपादयितुं बहुवचनं प्रयुक्तम् । एकेन जामि मारणेन एकेनाजामिमारणेन देवस्य कृतार्थता माविज्ञायीति । यद्वा - द्वे अप्येते क्रियाविशेषणे, व्यत्ययने ‘स्वमोर्नपुंसकात्’ इति न क्रियते । पुनरुक्तमपुनरुक्तं च शत्रून् मारयेति ॥

मानसतरङ्गिणीकृत्

Rise up O agni, hit back against those who fight against us, putting forth your celestial might.
Slacken the firm bows of the inciters of yAtus, destroy our foemen whether from our people or foreigners.

Wilson

English translation:

“Rise up, Agni, chastise those who overpower us; manifest your divine energies; slacken the strone (bow strings) of the malignant kings; destroy those (who are hostile), whether kindred or unallied.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Jāmim ajāmim = bandhum abandhum; or, whether formerly overcome or not;

Alternative: punaruktam apunaruktam, repeated or not repeated; puraḥ punastaditam ataditam, repeatedly chastised or not chastised

Jamison Brereton

Become upright; pierce against (them)—away from us. Make your heavenly (forms?) manifest, Agni.
Slacken the taut (bows) of those incited by sorcerers; kin or non-kin, pulverize the rivals.

Jamison Brereton Notes

The standard tr. supply ‘powers’ with daívyāni, and this certainly could make sense. However, no word meaning ‘power’ occurs with pl. daívya- (I must admit that sáhas- occurs several times with the sg.) nor as obj. of āvíṣ √kṛ ‘make manifest’.

Since we expect something visual as the obj. of such a verb and since the hymn so far has concerned the shape-shifting of Agni, I tentatively supply ‘forms’ – though ‘powers’ is not excluded contextually.

The adj. sthirá- ‘taut, firm’, esp. when obj. of áva √tan, presupposes ‘bows’ as its head noun; cf. the bahuvrīhi sthirá-dhanvan- (VII.46.1) and phrases like VIII.20.12 sthirā́dhánvāni.

The more usual interpr. of cmpds with final root noun is OBJ + TRANS. VERB, and this seems to be the sense of many of the fairly numerous cmpds in -jū- (e.g., vasū-jū́- ‘speeding goods’), though Scarlatta (166-77) hesitates in several cases.

However, in yātu-jū́- the final member must be read passively with agentive 1st member: ‘incited by sorcerers’, as VII.21.5, adduced by both Geldner and Scarlatta (173), definitively shows: ná yātáva indra jūjuvur naḥ “Sorcerers do not incite us, Indra.” On the number disharmony in the obj. phrase in d, jāmím ájāmim … śátrūn, see comm. ad VI.44.17.

Griffith

Rise, Agni, drive off those who fight against us: make manifest thine own celestial vigour.
Slacken the strong bows of the demondriven: destroy our foemen whether kin or stranger.

Oldenberg

Stand upright, strike (the foes) away from us! Make manifest thy divine (powers), O Agni! Unbend the strong (bows) of those who incite demons (against us) 1. Crush all enemies, be they relations or strangers.

Keith

Arise; drive from us (our foes);
Reveal thy heavenly strength, O Agni,
Slacken the strung (weapon) of the demon-driven;
Crush our foes, kin or not kin.

Geldner

Richte dich auf, stoß sie von uns weg, offenbare deine göttlichen Kräfte, o Agni! Zermalme die Feinde, den verwandten, wie den fremden.

Grassmann

Erheb dich, jage fort von uns die Feinde, mach kund, o Agni, deine Götterkräfte; Mach schlaff die Sehnen aller Spuk-Besessnen, tilg’ aus verwandt’ und unverwandte Feinde.

Elizarenkova

Распрямись! Отгони от нас (врагов,) пронзая (их)!
Прояви (свои) божественные (силы), о Агни!
Разряди тугие (луки) тех, кого вдохновляет колдовство!
Разбей врагов: родного, как неродного!

अधिमन्त्रम् (VC)
  • रक्षोहाऽग्निः
  • वामदेवो गौतमः
  • भुरिक्पङ्क्ति
  • पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के सदृश तेजस्विन् ! आप (अस्मत्) हम लोगों से (ऊर्ध्वः) उन्नत (अधि) उपरिभाव में अर्थात् ऊपर में रहनेवाले (भव) हूजिये (स्थिरा) स्थिर सेना और (दैव्यानि) विद्वानों के किये कर्म्मों का (तनुहि) विस्तार करिये (यातुजूनाम्) वेग को प्राप्त हुए प्राणियों के (जामिम्) भोग और (अजामिम्) अभोग को (आविः) प्रकट (कृणुष्व) करिये (शत्रून्) शत्रुओं का (प्र, अव, मृणीहि) अच्छे प्रकार नाश करिये और (प्रति, विध्य) वार-वार पीड़ा दीजिये ॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो मनुष्य अपने से उत्कृष्ट अर्थात् श्रेष्ठों को देख के प्रसन्न होते, अनुत्कृष्ट अर्थात् दुःखियों को देख के शोक करते, भोगयुक्तों को देख के आनन्दित होते और भोगरहितों को देख के अप्रसन्न होते, वे ही राजकर्मों में स्थिर होते हैं ॥५॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे अग्ने ! त्वमस्मदूर्ध्वोऽधि भव स्थिरा दैव्यानि तनुहि यातुजूनां जामिमजामिमाविष्कृणुष्व शत्रून् प्राऽव मृणीहि प्रति विध्य ॥५॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (ऊर्ध्वः) उन्नतः (भव) (प्रति) (विध्य) (अधि) उपरिभावे (अस्मत्) (आविः) प्राकट्ये (कृणुष्व) (दैव्यानि) देवैर्विद्वद्भिः कृतानि कर्माणि (अग्ने) पावक इव तेजस्विन् (अव) (स्थिरा) स्थिराणि सैन्यानि (तनुहि) विस्तृणीहि (यातुजूनाम्) प्राप्तवेगानाम् (जामिम्) भोगम् (अजामिम्) अभोगम् (प्र) (मृणीहि) हिन्धि (शत्रून्) अरीन् ॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ये मनुष्याः स्वस्मादुत्कृष्टान् दृष्ट्वा हर्षन्ति, अनुत्कृष्टान् दृष्ट्वा शोचन्ति भोगयुक्तान् दृष्ट्वा प्रमोदन्तेऽभोगान् दृष्ट्वाऽप्रसन्नयन्ति त एव राजकर्म्मसु स्थिरा भवन्तु ॥५॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जी माणसे आपल्यापेक्षा उत्कृष्ट अर्थात् श्रेष्ठांना पाहून प्रसन्न होतात व अनुत्कृष्ट अर्थात दुःखी लोकांना पाहून शोक करतात, भोगयुक्तांना पाहून आनंदित होतात व भोगरहितांना पाहून अप्रसन्न होतात, तेच राजकर्मात स्थिर होतात. ॥ ५ ॥

उपासकसौभाग्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ ते जानाति सु-मतिं᳓ यविष्ठ
य᳓ ई᳓वते+++(=गमनशीलाय)+++ ब्र᳓ह्मणे +++(=पुष्टाय)+++ गातु᳓म् ऐ᳓रत् +++(=प्रेरयति)+++ ।
वि᳓श्वान्य् अस्मै सुदि᳓नानि रायो᳓
द्युम्ना᳓न्य् अर्यो᳓ वि᳓ दु᳓रो +++(=गृहान्)+++ अभि᳓ द्यौत् +++(=द्योतस्व)+++ ॥

006 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रक्षोहाग्निः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

स᳓ ते जानाति सुमतिं᳓ यविष्ठ
य᳓ ई᳓वते ब्र᳓ह्मणे गातु᳓म् अइ᳓रत्
वि᳓श्वानि अस्मै सुदि᳓नानि रायो᳓
द्युम्ना᳓नि अर्यो᳓ वि᳓ दु᳓रो अभि᳓ द्यौत्

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M
genre M


Morph
jānāti ← √jñā- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

sumatím ← sumatí- (nominal stem)
{case:ACC, gender:F, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

yaviṣṭha ← yáviṣṭha- (nominal stem)
{case:VOC, gender:M, number:SG}

aírat ← √īr- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}

bráhmaṇe ← bráhman- (nominal stem)
{case:DAT, gender:N, number:SG}

gātúm ← gātú- (nominal stem)
{case:ACC, gender:M, number:SG}

ī́vate ← ī́vant- (nominal stem)
{case:DAT, gender:N, number:SG}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

asmai ← ayám (pronoun)
{case:DAT, gender:M, number:SG}

rāyáḥ ← rayí- ~ rāy- (nominal stem)
{case:GEN, gender:M, number:SG}

sudínāni ← sudína- (nominal stem)
{case:NOM, gender:N, number:PL}

víśvāni ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}

abhí ← abhí (invariable)

aryáḥ ← arí- (nominal stem)
{case:GEN, gender:M, number:SG}

dúraḥ ← dvā́r- (nominal stem)
{case:ACC, gender:F, number:PL}

dyaut ← √dyut- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}

dyumnā́ni ← dyumná- (nominal stem)
{case:NOM, gender:N, number:PL}

ví ← ví (invariable)

पद-पाठः

सः । ते॒ । जा॒ना॒ति॒ । सु॒ऽम॒तिम् । य॒वि॒ष्ठ॒ । यः । ईव॑ते । ब्रह्म॑णे । गा॒तुम् । ऐर॑त् ।
विश्वा॑नि । अ॒स्मै॒ । सु॒ऽदिना॑नि । रा॒यः । द्यु॒म्नानि॑ । अ॒र्यः । वि । दुरः॑ । अ॒भि । द्यौ॒त् ॥

पद-पाठः-तैत्तिरीयः

सः । ते॒ । [29] जा॒ना॒ति॒ । सु॒म॒तिमिति॑ सु-म॒तिम् । य॒वि॒ष्ठ॒ । यः । ईव॑ते । ब्रह्म॑णे । गा॒तुम् । ऐर॑त् ॥
विश्वा॑नि । अ॒स्मै॒ । सु॒दिना॒नीति॑ सु-दिना॑नि । रा॒यः । द्यु॒म्नानि॑ । अ॒र्यः । वीति॑ । दुरः॑ । अ॒भीति॑ । द्यौ॒त् ॥

Hellwig Grammar
  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • jānātijñā
  • [verb], singular, Present indikative
  • “know; diagnose; perceive; know; come to know; notice; determine; think of; find; learn; perceive; identify; recognize; understand; know; learn; ascertain; detect; deem.”

  • sumatiṃsumatimsumati
  • [noun], accusative, singular, feminine
  • “benevolence; favor; Sumati.”

  • yaviṣṭha
  • [noun], vocative, singular, masculine
  • “youngest.”

  • yayaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • īvateīvat
  • [noun], dative, singular, neuter
  • “such(a).”

  • brahmaṇebrahman
  • [noun], dative, singular, neuter
  • “brahman; mantra; prayer; spell; Veda; Brahmin; sacred text; final emancipation; hymn; brahman [word]; Brāhmaṇa; study.”

  • gātum
  • [verb noun]
  • “sing; praise; jap; recite; describe.”

  • airatīr
  • [verb], singular, Imperfect
  • “go.”

  • viśvānyviśvāniviśva
  • [noun], accusative, plural, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • asmaiidam
  • [noun], dative, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • sudinānisu
  • [adverb]
  • “very; well; good; nicely; beautiful; su; early; quite.”

  • sudinānidinānidina
  • [noun], accusative, plural, neuter
  • “day; day; day of the week; one.”

  • rāyorāyaḥrai
  • [noun], accusative, plural, masculine
  • “wealth; possession; rai [word]; gold.”

  • dyumnānydyumnānidyumna
  • [noun], accusative, plural, neuter
  • “magnificence.”

  • aryoaryaḥari
  • [noun], genitive, singular, masculine

  • vi
  • [adverb]
  • “apart; away; away.”

  • duroduraḥdvār
  • [noun], accusative, plural, feminine
  • “door; means.”

  • abhi
  • [adverb]
  • “towards; on.”

  • dyautdyut
  • [verb], singular, Aorist inj. (proh.)
  • “shine; inflame.”

सायण-भाष्यम्

यविष्ठ युवतम यद्वा देवानां हवींषि मिश्रयितृतम हे अग्ने यः पुमान् ईवते गमनवते कल्याणहेतुभूतागमनाय ब्रह्मणे परिवृढाय तुभ्यं गातुम् ॥ गीयते उच्चार्यते इति गातुः स्तोत्रम् । तत् ऐरत् प्रेरयति । सः पुमान् ते तव सुमतिं कल्याणकरीमनुग्रहात्मिकां बुद्धिं जानाति लभत इत्यर्थः । अस्मै स्तोत्रं कृतवते यजमानाय तदर्थं विश्वानि सर्वाणि सुदिनानि शोभनानि दिनानि रायः धनानि द्युम्नानि द्युतिमन्ति रस्नकनकादीनि दुरः गृहान् अभि अभिलक्ष्य अर्यः यज्ञानां स्वामी त्वं वि द्यौत् विशेषेण द्योतस्व । केचिदत्र वाक्यभेदमङ्गीकुर्वते । स्तोत्रं कृतवते यजमानाय विश्वानि सुदिनानि अभ्युदयकारीणि भवन्ति । रायः । रान्ति क्षीरादीनीति रायो गोधनानि । द्युम्नानि द्योतमानानि कनकादीनि चास्मै भवन्ति। अर्यः कर्मणामनुष्ठाता सः यजमानो दुरो गृहानभि वि द्यौत् विशेषेण द्योतते॥ ईवते। ‘ई गतौ ’ । क्विप् । तदस्यास्ति’ इति मतुप् । छन्दसीरः ’ इति मतुपो वत्वम् । ऐरत् ।’ ईर गतौ ’ । यद्वृत्तयोगादनिघातः । अर्यः । ‘ ऋ गतौ ।’ अर्यः स्वामिवैश्ययोः’ इति यत्प्रत्ययान्तो निपातितः । स्वामिन्यन्तोदात्तत्वम् । द्यौत् । ‘द्युत् दीप्तौ । छान्दसे लुङि ‘द्युद्भ्यो लुङि’ इति परस्मैपदम् । ‘ बहुलं छन्दसि ’ इत्यडभावः ॥

भट्टभास्कर-टीका

6अथ षष्ठी - स त इति ॥ हे अग्ने यविष्ठ युवतम । यद्वा - हविर्देवानाम्मिश्रयितृतम । यौतेः तृजन्तादिष्ठन् । स ते तव जानाति सुमतिं शोभनां कल्याणकारिणीं मतिं स एव तवानुग्रहबुद्धिं यथावत् भजत इति यावत् । यद्वा - स एव त्वत्प्रसादात्सुमतिमात्महितं जानाति, स एवात्महिते प्रवर्तत इति यावत् । कृदुत्तरपदप्रकृतिस्वरत्वम्, ‘मन्त्रे वृष’ इति मतिशब्दोन्तोदात्तः ।
क इत्याह - य ईवते गमनवते प्रशस्तगतये कल्याणहेतुभूतागमनाय । यद्वा - गृहमागताय ब्रह्मणे परिबृढाय । तुभ्यं गातुमन्नं हविर्लक्षणं ऐरत् ईरयति ददाति । ईर क्षेपे, चुरादिराधृषीयः, छान्दसो लुङ् । इङ् गतौ, क्विबन्तात्प्रशंसायां मतुप्, ‘छन्दसीरः’ इति मतुपो वत्वम् ।

यद्वा - ईवते गमनवते गमनकारिणे तुभ्यं यो गातुम्मार्गमैरत् करोति, मार्गं हविरादिसम्पन्नं प्रवर्तयति अलङ्कृतमिव राजमार्गम् । स एव सुमतिं जानाति । तस्मात्त्वया इत्थमस्यैवोपकर्तव्यमित्याह - अस्मै इत्थं त्वयि श्रद्धां कुर्वते यजमानाय यजमानार्थम् । अन्वादेशविषयत्वादनुदात्तत्वम् । रायो धनानि द्युम्नानि यशांसि दुरो गृहान्, एतानि विश्वान्यपि सुदिनानि शोभनानि दिनान्यभिलक्षीकृत्य, त्वं विद्यौत् विशेषेण द्योतस्व । यैर्द्युम्नादिभिश्शोभनानि दिनानि क्रियन्ते तानि सुदिनानि । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम्, ‘नपुंसकमनपुंसकेन’ इति नपुंसकस्यैकशेषः । ‘ऊडिदम्’ इति रायो विभक्तेरुदात्तत्वम् । दुर्वेर्हिंसाकर्मणः क्विपि वलोपः । द्योततेश्छान्दसो लुङ्, ‘द्युद्भ्यो लुङि’ इति परस्मैपदम्, सिचि वृद्धिः, ‘बहुळं छन्दसि’ इतीडभावः, ‘बहुळं छन्दस्यमाङ्योगेपि’ इत्यडभावः । यथैतानि विश्वान्यपि सुदिनानि भवन्ति इष्टदिनानि भवन्ति तथा विद्योतस्व अर्यस्त्वम् । अर्यस्स्वामी, ‘अर्यस्स्वामिवैश्ययोः’ इति यत्प्रत्ययान्तो निपात्यते ।

अपरा योजना - विश्वानि द्युम्नानि दीप्तिमन्ति सुदिनानि शोभनदिनानि । अत्यन्तसंयोगे द्वितीया । यथा शोभनानि विश्वानि दिनानि भवन्ति, तथा तेषु विद्योतस्व । ‘परादिश्छन्दसि बहुळम्’ इत्युत्तरपदाद्युदात्तत्वम् । दुरोभि गृहानभिलक्षीकृत्य विश्वानि दिनानि द्योतस्व । रायो धनस्य स्वामी त्वम् । अन्ये तु वाक्यभेदेन व्याचक्षते - विश्वान्यपि सुदिनान्यस्मै भवन्ति । द्युम्नानि यशांसि च भवन्ति । रायो धनस्य स्वामी भवति । गृहानभि विद्योतते, गृहस्थश्च भवतीति ॥

Wilson

English translation:

“He experiences your good favour, young (of the gods), who offers praise to you a Brahman, coming quickly (to bestow felicity); to him are all prosperous days and wealth (of cattle) and treasures; do you as the lord of sacrifice, shine upon his dwelling.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

A brahman coming quickly: ivate brahmaṇe, i.e., parivṛdhāya, to the greatly augmented; shine upon his dwelling: aryo vi duro abhidyaut, he the worshipper especially shines over his house, aryo yajamāno gṛhān abhi viśeṣeṇa dyotate

Jamison Brereton

That one knows your good will, o youngest one, who has set the course for a sacred formulation like this.
For him you have flashed open the doors to all the day-bright (days), to the riches, to the brilliant things of the stranger.

Jamison Brereton Notes

The 2nd hemistich has been variously interpr. Most recently Witzel Gotō take the neut.

pls. víśvāni … sudínāni … dyumnā́ni as subjs. of the sg. verb dyaut, in the wellknown, inherited, but relatively rare constr. of neut. pl. + sg. verb (“Zu ihm strahlen alle …”). Renou takes all of the half-verse through aryáḥ as nominal sentences: “que tous (les jours) soient de beaux jours pour lui …,” and the rest of d as an abrupt command. Geldner has Agni shining the various good things through the doors to the fortunate asmai. My interpr. is closest to Oldenberg (Noten, not SBE) and Geldner’s alternative in his n. 6cd. I take ví dúraḥ as referring to the usual opening of the doors, an expression that usually contains a form of the verb √vṛ ‘(un)cover’ (e.g., IX.45.1 ví … dúro vṛdhi). Here the more dramatic verb dyaut has been substituted, blending the lexeme ví … dyaut ‘flashed forth (like lightning)’ with the straightforward ví √vṛ ‘open’ – hence my “flashed open the doors.” I am not sure why all the standard tr.

(except for Witzel Gotō) render the injunctive dyaut as a modal (e.g., Geldner “… sollst du … scheinen”).

I supply ‘days’ with sudínāni on the basis of passages like VII.11.2 áhāny asmai sudínā bhavanti.

rāyáḥ can be either acc. pl. (so Oldenberg, Geldner, Renou) or gen. sg. dependent on víśvāni … sudínāni (so Thieme [Fremdl. 61] “All die Sonnentage des Reichtums,” Witzel Gotō). In the published translation I took it as acc. pl. but, to my mind, nothing rides on it either way.

Griffith

Most Youthful God, he knoweth well thy favour who gave an impulse to this high devotion.
All fair days and magnificence of riches hast thou beamed forth upon the good man’s portals.

Oldenberg

He knows thy favour, O youngest one, who makes a way for a sacred speech like this. Mayst thou beam forth to his doors all auspicious days and the wealth and the splendour of the niggard.

Keith

He knows thy [2] loving kindliness, O most youthful one,
Who hath given furtherance to this devotion;
All happy days for him, glory, and wealth
–Opening the doors of the miser–he hath revealed.’

Geldner

Der erfährt deine Gunst, o Jüngster, der ein erbauliches Wort wie dieses Zuwege bringt. Ihm sollst du lauter schöne Tage, Reichtümer, die Herrlichkeiten des hohen Herrn durch die Tür scheinen.

Grassmann

Der spüret recht, o jüngster, deine Güte, wer einer solchen Andacht Fortgang schaffet; Dem strahlst du alle Herrlichkeit des Reichthums vom Feind hinweg, ins Haus hinein ihm Schätze.

Elizarenkova

Тот познает твою милость, о самый юный,
Кто исполняет молитву, подобную (этой).
Воссвети ему, от(крыв) врата, все прекрасные дни,
Богатства, все великолепие врага!

अधिमन्त्रम् (VC)
  • रक्षोहाऽग्निः
  • वामदेवो गौतमः
  • विराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (यविष्ठ) अत्यन्त युवावस्थायुक्त ! (यः) जो (अर्यः) स्वामी (ईवते) विद्या से व्याप्त (ब्रह्मणे) वेद जाननेवाले के लिये (गातुम्) प्रशंसित वाणी को (ऐरत्) प्राप्त कराये (अस्मै) इसके लिये (विश्वानि) सम्पूर्ण (सुदिनानि) सुख करनेवाले दिनों (रायः) धनों (द्युम्नानि) प्रकाशित यशों (दुरः) और यश के द्वारों को (अभि, वि, द्यौत्) प्रकाशित करे (सः) वह विद्वान् (ते) आपकी (सुमतिम्) श्रेष्ठ बुद्धि को (जानाति) जानता है ॥६॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे राजन् ! जो लोग नित्य मङ्गल आचरण करनेवाले यशयुक्त अनुरक्त अर्थात् स्नेही शूरवीर और राज्यव्यवहार के जाननेवाले आपको चितावें, उनको आप मित्र जानिये ॥६॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे यविष्ठ ! योऽर्य ईवते ब्रह्मणे गातुमैरदस्मै विश्वानि सुदिनानि रायो द्युम्नानि दुरोऽभि वि द्यौत् स ते सुमतिं जानाति ॥६॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (सः) विद्वान् (ते) तव (जानाति) (सुमतिम्) श्रेष्ठां प्रज्ञाम् (यविष्ठ) (यः) (ईवते) विद्याव्याप्ताय (ब्रह्मणे) वेदविदे (गातुम्) प्रशंसितां वाणीम् (ऐरत्) प्रापयेत् (विश्वानि) सर्वाणि (अस्मै) (सुदिनानि) सुखकराणि (रायः) धनानि (द्युम्नानि) यशांसि (अर्यः) स्वामी (वि) (दुरः) द्वाराणि (अभि) (द्यौत्) द्योतयेत् ॥६॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे राजन् ! ये नित्यमङ्गलाचारिणो यशस्विनोऽनुरक्ताश्शूरा राजव्यवहारविदस्त्वां बोधयेयुस्ताँस्त्वं सुहृदो जानीहि ॥६॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - भावार्थ -हे राजा ! जे लोक नित्य शुभाचरणी, यशस्वी, स्नेही, शूरवीर व राज्यव्यवहार कुशल असून तुला जाणतात त्यांना तू मित्र समज. ॥ ६ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

से᳓द्+++(=स+इत्)+++ अग्ने अस्तु सुभ᳓गस् सुदा᳓नुर्
य᳓स् त्वा नि᳓त्येन हवि᳓षा य᳓ उक्थैः᳓ ।
पि᳓प्रीषति, स्व᳓ आ᳓युषि दुरोणे᳓ +++(=गृहे)+++ +++(तिष्ठतु)+++
वि᳓श्वे᳓द् अस्मै सुदि᳓ना सा᳓ ऽसद्+++(=भूयात्)+++ इष्टिः᳓ ॥

007 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रक्षोहाग्निः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

से᳓द् अग्ने अस्तु सुभ᳓गः सुदा᳓नुर्
य᳓स् त्वा नि᳓त्येन हवि᳓षा य᳓ उक्थइः᳓
पि᳓प्रीषति स्व᳓ आ᳓युषि दुरोणे᳓
वि᳓श्वे᳓द् अस्मै सुदि᳓ना सा᳓सद् इष्टिः᳓

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M
genre M


Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

ít ← ít (invariable)

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

subhágaḥ ← subhága- (nominal stem)
{case:NOM, gender:M, number:SG}

sudā́nuḥ ← sudā́nu- (nominal stem)
{case:NOM, gender:M, number:SG}

havíṣā ← havís- (nominal stem)
{case:INS, gender:N, number:SG}

nítyena ← nítya- (nominal stem)
{case:INS, gender:N, number:SG}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

ukthaíḥ ← ukthá- (nominal stem)
{case:INS, gender:N, number:PL}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

ā́yuṣi ← ā́yus- (nominal stem)
{case:LOC, gender:N, number:SG}

duroṇé ← duroṇá- (nominal stem)
{case:LOC, gender:N, number:SG}

píprīṣati ← √prī- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT, mood:DES}

své ← svá- (pronoun)
{case:LOC, gender:N, number:SG}

asat ← √as- 1 (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}

asmai ← ayám (pronoun)
{case:DAT, gender:M, number:SG}

iṣṭíḥ ← iṣṭí- (nominal stem)
{case:NOM, gender:F, number:SG}

ít ← ít (invariable)

sā́ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:SG}

sudínā ← sudína- (nominal stem)
{case:NOM, gender:N, number:PL}

víśvā ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}

पद-पाठः

सः । इत् । अ॒ग्ने॒ । अ॒स्तु॒ । सु॒ऽभगः॑ । सु॒ऽदानुः॑ । यः । त्वा॒ । नित्ये॑न । ह॒विषा॑ । यः । उ॒क्थैः ।
पिप्री॑षति । स्वे । आयु॑षि । दु॒रो॒णे । विश्वा॑ । इत् । अ॒स्मै॒ । सु॒ऽदिना॑ । सा । अ॒स॒त् । इ॒ष्टिः ॥

पद-पाठः-तैत्तिरीयः

सः । इत् । अ॒ग्ने॒ । अ॒स्तु॒ । सु॒भग॒ इति॑ सु-भगः॑ । सु॒दानु॒रिति॑ सु-दानुः॑ । यः । त्वा॒ । नित्ये॑न । ह॒विषा॑ । यः । उ॒क्थैः ॥
पिप्री॑षति । स्वे । आयु॑षि । दु॒रो॒ण इति॑ दुः-ओ॒ने । विश्वा॑ । इत् । अ॒स्मै॒ । सु॒दिनेति॑ सु-दिना॑ । सा । अस॑त् । इ॒ष्टिः ॥

Hellwig Grammar
  • sedsatad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • sedid
  • [adverb]
  • “indeed; assuredly; entirely.”

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • astuas
  • [verb], singular, Present imperative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • subhagaḥsubhaga
  • [noun], nominative, singular, masculine
  • “beautiful; auspicious; beloved; fine-looking; fortunate; subhaga [word]; charming; pleasing; lucky.”

  • sudānursudānuḥsudānu
  • [noun], nominative, singular, masculine
  • “big; lavish.”

  • yasyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • tvātvad
  • [noun], accusative, singular
  • “you.”

  • nityenanitya
  • [noun], instrumental, singular, neuter
  • “continuous; own(a); changeless; everlasting; continual; devoted(p); permanent; obligatory; continuing; indispensable; native; addicted; connatural; necessary; durable; ageless; invariable; biological.”

  • haviṣāhavis
  • [noun], instrumental, singular, neuter
  • “Havya; offering; ghee; havis [word].”

  • yayaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • ukthaiḥuktha
  • [noun], instrumental, plural, neuter
  • “hymn; praise; uktha [word]; encomium.”

  • piprīṣatipiprīṣ√prī
  • [verb], singular, Present indikative

  • svasvesva
  • [noun], locative, singular, neuter
  • “own(a); respective(a); akin(p); sva [word]; individual; present(a); independent.”

  • āyuṣiāyus
  • [noun], locative, singular, neuter
  • “life; longevity; āyus; life; āyus [word]; Āyus.”

  • duroṇeduroṇa
  • [noun], locative, singular, neuter
  • “home; dwelling.”

  • viśvedviśvāviśva
  • [noun], nominative, plural, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • viśvedid
  • [adverb]
  • “indeed; assuredly; entirely.”

  • asmaiidam
  • [noun], dative, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • sudināsu
  • [adverb]
  • “very; well; good; nicely; beautiful; su; early; quite.”

  • sudinādinādina
  • [noun], nominative, plural, neuter
  • “day; day; day of the week; one.”

  • sāsadtad
  • [noun], nominative, singular, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • sāsadasatas
  • [verb], singular, Present conjunctive (subjunctive)
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • iṣṭiḥiṣṭi
  • [noun], nominative, singular, feminine
  • “seeking.”

सायण-भाष्यम्

हे अग्ने यः पुमान् नित्येन यावज्जीवं संकल्पितेनाग्निहोत्रादिसाधनभूतेन हविषा त्वा त्वां पिप्रीषति प्रीणयितुमिच्छति, यःउक्थैः शस्त्रैः प्रीणयितुमिच्छति सेत् स एव पुमान् सुभगः शोभनधनः सौभाग्यवान् वा ‘सुदानुः शोभनदानोपेतश्च अस्तु । किंच दुरोणे दुरवने कृच्छूलभ्ये स्वे स्वकीये आयुषि शतवर्षांख्ये जीवने तिष्ठतु। अस्मै यजमानाय विश्वा सर्वाणि सुदिना शोभनानि दिनानि भवन्तु । अस्य सा इष्टिः स यज्ञः असत् फलसाधनसमर्थो भवतु ॥ पिप्रीषति । ‘प्रीञ् तर्पणे ‘।’ धातोः कर्मण:°’ (पा. सू. ३. १. ७ ) इति सन् । असत् । अस्तेर्लेट्यडागमः । इष्टिः । ‘ मन्त्रे वृष° ’ इत्यादिना क्तिन्नुदात्तः ॥

भट्टभास्कर-टीका

7अथ सप्तमी - सेदिति ॥ हे अग्ने स इत् स एव सुभगोस्तु सौभाग्यवान् भवतु, सुदानुः शोभनदानश्च । उभयत्रापि ‘आद्युदात्तं द्व्यश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । ‘सोचि लोपे चेत्’ इति स इत्यस्य संहितायां सोर्लोपः । क इत्याह – यस्त्वा नित्येन अविच्छिन्नेन यावज्जीवसङ्कल्पनां परिपालयन् हविषा पिप्रीषति प्रीणयितुमिच्छति; न कदाचिदपीमां हित्वा यजमानो भवति । मीञ् तर्पणे । यश्चोक्थैश्शस्त्रैस्त्वां पिप्रीषति स एव ।
कस्मिन्निमित्त इत्याह - स्वायुषि आत्मीये जीवितेग्नौ वा निमित्ते । निमित्तात्कर्मसंयोगे सप्तमी । आत्मार्थं न परार्थमिति स्वग्रहेण दर्शयति । कुत्र स्थित इत्यत आह - दुरोणे गृहे स्व इत्येव । आत्मीये ग्रहे स्थितं त्वां पिप्रीषति, न तु ऋत्विजाम् । दुःखेन रक्ष्यत इति दुरोणम् । अवतेरौणादिको नप्रत्ययः, ज्वरत्वरादिना ऊठि गुणः, ‘पूर्वपदात्संज्ञायामगः’ इति णत्वम्, कृदुत्तरपदप्रकृतिस्वरत्वम् ।

किञ्चेत्याह - सा तादृशीत्थंभूतेन क्रियमाणा विश्वेत् विश्वैव न पुनरेकैव । इष्टिर्यागः सुदिना शोभनदिना असद्भवति । अस्मै अस्य । षष्ठ्यर्थे चतुर्थी, पूर्ववदुत्तरपदाद्युदात्तत्वम् । यद्वा - अस्य यजमानस्य विश्वान्यपि सुदिनानि भवन्ति ।
किञ्च - सा तादृशेन क्रियमाणा इष्टिरसद्भवेत् । अतादृशेन क्रियमाणा इष्टिरेव न भवति । तस्मात्स एव सुभस्सुदानुश्चास्तु । भगो रूपमैश्वर्यं वा । दानुर्दानशीलः दातृत्वं वा । अस्तेर्लेटि ‘लेटोडाटौ’ इत्यडागमः, ‘इतश्च लोपः’ ॥

Wilson

English translation:

“May the liberal man ever be prosperous who propitiate you with constant oblations and praises; may all the days in his arduous life be prosperous, and may this (his) sacrifice be (productive of reward).”

Jamison Brereton

Agni, let just him be rich in portions, rich in gifts, who with regular oblation, who with solemn words
seeks to please you during his own lifetime, in his own dwelling. All (days) (will be) day-bright for him. This desire (of his) will come true.

Jamison Brereton Notes

It is not clear whether nítya- in this context has already developed its later technical sense of regular, obligatory ritual offering, as opposed to those performed irregularly for special purposes. Or whether it simply means, as Renou takes the phrase nítyena havíṣā, “une offrande personnelle.” I have pushed the last phrase sā́sad iṣṭíḥ to “this desire will be” – that is, “will come true” – rather than simply “this will be his desire” (so Geldner [Witzel Gotō]), since I otherwise find it difficult to interpr. the subjunctive.

Griffith

Blest, Agni, be the man, the liberal giver, who with his lauds and regular oblation
Is fain to please thee for his life and dwelling. May all his days be bright: be this his longing.

Oldenberg

Let him, O Agni, be fortunate and blessed with good rain, who longs to gladden thee with constant offerings and hymns through his life in his house. May such longing ever bring auspicious days to him.

Keith

Let him, O Agni, be fortunate and munificent,
Who with constant oblation, who with praise,
Seeks to delight thee in his life in his house;
May all days be happy for him; be that the will.

Geldner

Der soll glücklich, reich an Gaben sein, o Agni, der dich mit ständiger Opferspende und mit Liedern während seines Lebens in seinem Hause zu befriedigen wünscht. Lauter schöne Tage sollen ihm werden: Das sei der Wunsch.

Grassmann

Nur der sei glücklich, reich an Gut, o Agni, der dich mit stetem Opferguss und Sprüchen Zu letzen strebt im Haus, so lang’ er lebet, dem werde alles Glück, das sei die Bitte.

Elizarenkova

Да будет, о Агни, счастливым, богатым прекрасными дарами
Тот, кто постоянным жертвенным возлиянием, кто гимнами
Старается радовать тебя в своем доме (весь) век.
(Да будут) ему все дни прекрасны – таково будет пожелание!

अधिमन्त्रम् (VC)
  • रक्षोहाऽग्निः
  • वामदेवो गौतमः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (अग्ने) विद्या से प्रकाशित सभ्यजन ! (यः) जो (सुभगः) प्रशंसनीय ऐश्वर्य्ययुक्त (सुदानुः) उत्तम दान देनेवाला हो (सः, इत्) वही आपका सभासद् (अस्तु) हो (यः) जो (उक्थैः) प्रशंसाओं और (नित्येन) नहीं नाश होनेवाले (हविषा) हवन करने योग्य पदार्थ से (त्वा) आपको (पिप्रीषति) सुशोभित करने की इच्छा करता है (अस्मै) इसके लिये (स्वे) अपने (आयुषि) जीवन और (दुरोणे) गृह में (विश्वा) सम्पूर्ण (सुदिना) सुन्दर दिन हों (सा) वह (इष्टिः) यज्ञ करने की क्रिया दोनों लोकों में सुख देनेवाली (इत्) ही (असत्) होवे ॥७॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे राजन् ! जो लोग नित्य प्रेम से न्याय और विनय के द्वारा राज्य की उन्नति करते और राजा और प्रजा के उपद्रव के विना मङ्गल समय सदा ही प्राप्त कराते हैं, वे राजगृह में अध्यक्ष हों ॥७॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे अग्ने ! यस्सुभगः सुदानुर्भवेत् स इदेव तव सभ्योऽस्तु य उक्थैर्नित्येन हविषा त्वा पिप्रीषति। अस्मै स्व आयुषि दुरोणे विश्वा सुदिना सन्तु सेष्टिरुभयत्र कल्याणकारिणीदसत् ॥७॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (सः) राजा (इत्) एव (अग्ने) विद्याप्रकाशितसभ्यजन (अस्तु) (सुभगः) प्रशस्तैश्वर्य्यः (सुदानुः) उत्तमदानः (यः) (त्वा) त्वाम् (नित्येन) अविनाशिना (हविषा) होतव्येन (यः) (उक्थैः) प्रशंसनैः (पिप्रीषति) कमितुमिच्छति (स्वे) स्वकीये (आयुषि) जीवने (दुरोणे) (विश्वा) अखिलानि (इत्) एव (अस्मै) (सुदिना) शोभनानि दिनानि (सा) (असत्) भवेत् (इष्टिः) यजनक्रिया ॥७॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे राजन् ! येऽविनाशिना प्रेम्णा न्यायविनयाभ्यां राज्योन्नतिं विदधति राजप्रजयोर्निरुपद्रवेण मङ्गलसमयं सदैव प्रापयन्ति ते राजगृहेऽध्यक्षाः स्युः ॥७॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे राजा ! जे लोक नित्य प्रेमाने न्याय व विनय याद्वारे राज्याची उन्नती करतात व राजा आणि प्रजा यांच्यात उपद्रव न करता चांगले दिवस सदैव प्राप्त करवून देतात ते राजगृहात अध्यक्ष असावेत. ॥ ७ ॥

प्रतिज्ञा

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓र्चामि ते सु-मतिं᳓, घो᳓ष्य् +++(=घोषवती)+++ अर्वा᳓क्+++(=पुरतः)+++
स᳓म्+ ते वावा᳓ता+++(=पुनः पुनः)+++ जरताम् +++(=स्तौतु)+++ इयं᳓ गीः᳓ ।
स्व्-अ᳓श्वास् त्वा सु-र᳓था मर्जयेमा+++(=अलङ्कुर्याम)+++
ऽस्मे᳓+++(=अस्मासु)+++ क्षत्रा᳓णि धारयेर् अ᳓नु द्यू᳓न् +++(=अन्वहम्)+++ ॥

008 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रक्षोहाग्निः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

अ᳓र्चामि ते सुमतिं᳓ घो᳓षि अर्वा᳓क्
सं᳓ ते वावा᳓ता जरताम् इयं᳓ गीः᳓
सुअ᳓श्वास् त्वा सुर᳓था मर्जयेम
अस्मे᳓ क्षत्रा᳓णि धारयेर् अ᳓नु द्यू᳓न्

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M
genre M


Morph
árcāmi ← √r̥c- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}

arvā́k ← arvā́ñc- (nominal stem)
{case:NOM, gender:N, number:SG}

ghóṣi ← √ghuṣ- (root)
{number:SG, person:2, mood:IMP, voice:ACT}

sumatím ← sumatí- (nominal stem)
{case:ACC, gender:F, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

gī́ḥ ← gír- ~ gīr- (nominal stem)
{case:NOM, gender:F, number:SG}

iyám ← ayám (pronoun)
{case:NOM, gender:F, number:SG}

jaratām ← √gr̥̄- 1 (root)
{number:DU, person:3, mood:IMP, tense:PRS, voice:MED}

sám ← sám (invariable)

te ← tvám (pronoun)
{case:DAT, number:SG}

vāvā́tā ← vāvā́ta- (?) (nominal stem)
{case:NOM, gender:F, number:SG}

marjayema ← √mr̥j- (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

suráthāḥ ← surátha- (nominal stem)
{case:NOM, gender:M, number:PL}

sváśvāḥ ← sváśva- (nominal stem)
{case:NOM, gender:M, number:PL}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

ánu ← ánu (invariable)

asmé ← ahám (pronoun)
{case:LOC, number:PL}

dhārayeḥ ← √dhr̥- (root)
{number:SG, person:2, mood:OPT, tense:PRS, voice:ACT}

dyū́n ← dyú- ~ div- (nominal stem)
{case:ACC, gender:M, number:PL}

kṣatrā́ṇi ← kṣatrá- (nominal stem)
{case:NOM, gender:N, number:PL}

पद-पाठः

अर्चा॑मि । ते॒ । सु॒ऽम॒तिम् । घोषि॑ । अ॒र्वाक् । सम् । ते॒ । व॒वाता॑ । ज॒र॒ता॒म् । इ॒यम् । गीः ।
सु॒ऽअश्वाः॑ । त्वा॒ । सु॒ऽरथाः॑ । म॒र्ज॒ये॒म॒ । अ॒स्मे इति॑ । क्ष॒त्राणि॑ । धा॒र॒येः॒ । अनु॑ । द्यून् ॥

पद-पाठः

अर्चा॑मि । ते॒ । सु॒म॒तिमिति॑ सु-म॒तिम् । घोषि॑ । अ॒र्वाक् । समिति॑ । ते॒ । वा॒वाता॑ । ज॒र॒ता॒म् । [30] इ॒यम् । गीः ॥
स्वश्वा॒ इति॑ सु-अश्वाः॑ । त्वा॒ । सु॒रथा॒ इति॑ सु-रथाः॑ । म॒र्ज॒ये॒म॒ । अ॒स्मे इति॑ । क्ष॒त्राणि॑ । धा॒र॒येः॒ । अन्विति॑ । द्यून् ॥

Hellwig Grammar
  • arcāmiarc
  • [verb], singular, Present indikative
  • “sing; worship; honor; praise; welcome.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • sumatiṃsumatimsumati
  • [noun], accusative, singular, feminine
  • “benevolence; favor; Sumati.”

  • ghoṣyghoṣighuṣ
  • [verb], singular, Aorist passive

  • arvāk
  • [adverb]
  • “here.”

  • saṃsam
  • [adverb]
  • “sam; together; together; saṃ.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • vāvātā
  • [noun], nominative, singular, feminine

  • jaratāmjṛ
  • [verb], singular, Present imperative
  • “sing.”

  • iyaṃiyamidam
  • [noun], nominative, singular, feminine
  • “this; he,she,it (pers. pron.); here.”

  • gīḥgir
  • [noun], nominative, singular, feminine
  • “hymn; praise; voice; words; invocation; command; statement; cry; language.”

  • svaśvāssu
  • [adverb]
  • “very; well; good; nicely; beautiful; su; early; quite.”

  • svaśvāsaśvāḥaśva
  • [noun], nominative, plural, masculine
  • “horse; aśva [word]; Aśva; stallion.”

  • tvātvad
  • [noun], accusative, singular
  • “you.”

  • surathāsu
  • [adverb]
  • “very; well; good; nicely; beautiful; su; early; quite.”

  • surathārathāḥratha
  • [noun], nominative, plural, masculine
  • “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”

  • marjayemāsmemarjayemamarjay√mṛj
  • [verb], plural, Present optative

  • marjayemāsmeasmemad
  • [noun], locative, plural
  • “I; mine.”

  • kṣatrāṇikṣatra
  • [noun], accusative, plural, neuter
  • “Kshatriya; dominion; Kshatriya; kṣatra [word]; power.”

  • dhārayerdhārayeḥdhāray√dhṛ
  • [verb], singular, Present optative
  • “keep; sustain; put; hold; wear; hold; carry; keep alive; suppress; preserve; remember; stow; stop; have; fill into; endure; support; understand; fixate; govern; restrain.”

  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • dyūndiv
  • [noun], accusative, plural, masculine
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

सायण-भाष्यम्

हे अग्ने ते तव सुमतिम् अनुग्रहकरीं शोभनां बुद्धिम् अर्चामि पूजयामि । ववाता पुनःपुनस्त्वाम् अभिगच्छन्ती इयम् उच्यमाना गीः वाक् घोषि घोषयुक्तं यथा भवति तथा अर्वाक् त्वदभिमुखं ते त्वां सं जरतां स्तौतु । वयमपि स्वश्वाः शोभनाश्वोपेताः सुरथाः च । उपलक्षणमेतत् । पुत्रपौत्रादिभिः सहिताः सन्तः त्वां मर्जयेम अलंकुर्याम । परिचरेमेति यावत् । त्वं तु अनु द्यून् अन्वहम् अस्मे अस्मासु क्षत्राणि धनानि धारयेः निधेहि ॥ घोषि । ‘घुष शब्दने । औणादिक इन् । नित्त्वादाद्युदात्तः। वावाता। ‘वा गतिगन्धनयोः’ इत्यस्य यङ्लुगन्तस्य निष्ठायां रूपम् । मर्जयेम ।’ मृजू शौचालंकारयोः’। ण्यन्तस्य लिङि रूपम् । वृद्ध्यभावश्छान्दसः ॥

भट्टभास्कर-टीका

8अथाष्टमी - अर्चामीति ॥ हे अग्ने ते तव सुमतिं शोभनां मतिमुपकर्त्रीं बुद्धिमर्चयामि पूजयामि मनसा बहुमन्ये । सुष्ठु मन्यतेनयेति सोपसर्गात्क्तिनि समासे कृदुत्तरपदप्रकृतिस्वरत्वम्, ‘मन्त्रे वृष’ इति क्तिन उदात्तत्वम् । इयं मदीया गीश्च ते त्वां सञ्जरतां सम्यक्स्तौतु । जरतिस्स्तुतिकर्मा छन्दसि । कीदृशी गीः? त्वामेव वावाता पुनःपुनस्त्वामेवोपगच्छन्ती क्षणमपि त्वां हातुमशक्नुवन्ती । वातेर्यङ्लुगन्तान्निष्ठा, व्यत्ययेन धातुस्वरः । त्वां संवावाता त्वां सङ्गच्छन्ती वान्वीयते । यद्वा - त्वामञ्चिता वा अवगच्छन्तीति वा । ‘वष्टि वागुरिरल्लोपम्’ इत्यवशब्दाकारो लुप्यते, ‘अन्येषामपि’ इति सांहितिकं दीर्घत्वम् । यद्वा - आद्यन्तविपर्ययो वा अवशब्दस्य; यथा - ‘श्वात्रोसि’ इत्याशुशब्दस्य । ‘परादिश्छन्दसि बहुळम्’ इत्युत्तरपदाद्युदात्तत्वम् । यद्वा - अतिशयेन वननीया । यङ्लुकि छान्दसी रूपसिद्धिः ।
स्तुस्तिर्विशेष्यते - घोषि घुष्यत इति घोषि । ‘इन्सर्वधातुभ्यः’ इतीन्, क्रियाविशेषणत्वान्नपुंसकत्वम् । अर्वाक् अर्वाचीनमस्मादृशजनोचितं, यथास्माभिर्घोषयितुं शक्यते तथा घोषयित्वा त्वद्गुणानियं स्तौतु । अथ कायिकीं परिचर्यामाह - स्वश्वास्सुरथाश्च सन्तः त्वत्प्रसादेन महाधनाः पुत्रपौत्रादिसहिताश्च सन्तस्त्वामर्चयेम अलङ्कुर्मः, परिचरेमेति यावत् । मृजू शौचालङ्करणयोः, वृद्ध्यभावश्छान्दसः । शुद्धिकर्मण एव वा शु[वृ?]द्ध्या भाव्यम् । ‘आद्युदात्तं द्व्यच्छन्दसि’ इति बहुव्रीहेरुत्तरपदाद्युदात्तत्वम् । अस्मे अस्मभ्यमेवं वर्तमानेभ्यः क्षत्राणि बलानि धारयेः देहि । यद्वा - अस्माकं क्षत्राणि धारय । यद्वा - अस्मदर्थं क्षत्राणि धारय । सुपां सुलुक्’ इति शे आदेशः । अनुद्यून् दिनेदिने । लक्षणादिना कर्मप्रवचनीयत्वम् ॥

Wilson

English translation:

“I reverence your good favour, Agni; may this reiterated and resounding hymn convey due praise to your presence; may we be possessed of good horses and good cars, that we may pay you homage; and do you daily bestow upon us riches.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Good horses and good cars: a metaphor: may we, being with the sons, grandsons worship you

Jamison Brereton

I recite a good thought to you [/recite (=praise) your good will]. Hear it, inclined our way. (Like) a “Favorite” wife, let this song bring harmony to you.
We who have good horses and good chariots would groom you. In us you should uphold lordly powers through the days.

Jamison Brereton Notes

The word sumatí-, found in 6a, is repeated here. There it clearly referred to the benevolence or good will of Agni, which the successful priest/poet comes to know. Here I think it has double meaning. On the one hand, it still refers to Agni’s good will, which the poet praises, but it also refers to the good thought, i.e., the poem, that the poet has produced for Agni. This double reading is enabled not only by the usual double meaning of sumatí- and the grammatical ambiguity of the enclitic te (gen. in the first interpr., dat. in the 2nd), but also by the double meaning of √ṛc ‘chant, recite’, which can take as object either the topic/goal of the praise (e.g., V.29.1 árcanti tvā marútaḥ … “The Maruts chant to/praise you”) or the verbal contents of the recitation (V.30.6 tubhyéd eté marútaḥ … árcanti arkám “Just for/to you do these Maruts chant the chant”).

ghóṣi (also VI.5.6) is a controversial form. The grammars/lexica generally take it as a 3rd sg. passive aor. to √ghuṣ ‘hear’; it would take a putative sumatíḥ as subj. and mean “(the good thought) was/is/will be heard” (Oldenberg SBE “it resounded here,” sim. Witzel Gotō). The other instance (in VI.5.6) is taken as a neut. adj. ‘laut ertönend’ by Grassmann, also Oldenberg (Noten, contra SBE). Most tr., however, render it as a 2nd sg. act.

impv. “hear!” Though a passive aor. would also be possible in VI.5.6 (ghóṣi mánma “the thought is heard”) and though the pass. aor. interpr. is morphologically impeccable, I think the 2nd sg. act. impv. is the correct interpr., though the morphology is a little troubled. It appears to be a -si imperative, though not built as usual (at least in my view) to an s-aor. subjunctive, but rather to, or alongside, the 1st class thematic pres. ghóṣati; this analysis also requires that a putative *ghoṣ-ṣi has simplified the double sibilant. One of the arguments in favor of a 2nd sg. impv. in VI.6.5 is the relative density of -si impvs. in that context, with two (śróṣi, párṣi) in the preceding hymn (VI.4.7, 8) in that tightly knit Agni cycle. The interpr. of the form as a -si impv. is accepted and argued for by Gotō (1st cl., 131-32 and n. 160, with lit.); it is curious that in Witzel Gotō[otō] this interpr. has been abandoned without comment. The form is disc., in typically indecisive fashion, by Baum (Impv., 46 and 27 [where he seems to accept the -si impv. analysis]).

The Vāvātā or ‘Favorite’ wife in later śrauta ritual is one of the wives of the king who has a series of set functions in the various royal rituals (see, e.g., my Sacrificed Wife passim). The presence of this figure, or of her prototype, may suggest that the lexeme sám √jṛ, found also in the preceding hymn (IV.3.15), may have deeper resonance than simply ‘be welcome, bring harmony’, perhaps something like ‘be in tune with (s.o.)’, referring to perfect harmonious agreement between two people, esp. two people in love. In both IV.3.15 and our passage the feminine song (gír-) / chant (śastí-) would put herself in tune with the masc. god, as a Favorite wife would to her kingly husband. Note that in IV.3.15 the chant is modified by devávātā ‘favored by the gods’, with the same -vātā as here (save for accent). In fact, as Geldner points out (for different purposes) our te vāvā́tā is phonologically very close to IV.3.15 devávātā. It might also be that jara(tām) would be reminiscent of jārá- ‘lover’, to add to the erotic mood.

As Renou’s tr. makes clear (“Nous souhaitons t’orner, (dans l’espoir d’obtenir) de bons chevaux, de bons chars”), the two adj. sváśvāḥ … suráthāḥ are most likely proleptic: we want to tend the ritual fire in order to get possession of good horses and chariots. This contrasts with the use of sváśva- in 10a.

Griffith

I praise thy gracious favour: sing in answer. May this my song sing like a loved one with thee.
Lords of good steeds and cars may we adorn thee, and day by day vouchsafe thou us dominion.

Oldenberg

I praise thy favour; it resounded here. May this song (which is like) a favourite wife, awaken for thee 1. Let us brighten thee, being rich in horses and chariots. Mayst thou maintain our knightly power day by day.

Keith

I praise thy loving kindness; loud sounding (thou singest) a reply;
Let this song of mine, beloved of thee, sing with thee [3]
With good steeds and fair chariots may we adorn thee;
Maintain for us the lordly power as the days go by.

Geldner

Ich singe dir Wohlwollen ein; horche her! Diese Lobrede soll bei dir wie die Lieblingsfrau Anklang finden. Als Besitzer schöner Rosse und Wagen möchten wir dich putzen. Erhalte uns alle Tage die Herrschaft!

Grassmann

Ich sing’ ein Lied dir, in der Näh’ erschall’ es; dir soll erklingen dieses liebe Preislied; Wir schmücken dich, versehn mit Ross und Wagen; du mögest immer unsre Herrschaft wahren.

Elizarenkova

Я воспеваю твою милость: обрати свой слух в нашу сторону!
Пусть эта хвалебная песнь имеет успех у тебя, (словно) любимая жена!
Мы хотим украсить тебя, (чтоб получить) прекрасных коней, прекрасные колесницы.
Все дни поддерживай (наше) господство!

अधिमन्त्रम् (VC)
  • रक्षोहाऽग्निः
  • वामदेवो गौतमः
  • भुरिक्पङ्क्ति
  • पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे राजन् ! मैं (ते) आपके (सुमतिम्) श्रेष्ठ बुद्धिवाले सभासद् का (अर्चामि) सत्कार करता हूँ जिन (त्वा) आपकी (वावाता) दोषों को नाश करने और विद्या को उत्पन्न करनेवाली (इयम्) यह (गीः) उत्तम प्रकार शिक्षित वाणी (घोषि) शब्दयुक्त वचन जैसे हों, वैसे (सम्, जरताम्) स्तुति करे उन आपको (स्वश्वाः) उत्तम घोड़े (सुरथाः) श्रेष्ठ रथ और हम लोग (मर्जयेम) शुद्ध करावें। जैसे (ते) आपके धनों को (अनु, द्यून्) अनुदिन प्रतिदिन हम लोग धारण करें, वैसे आप (अर्वाक्) पीछे (अस्मे) हम लोगों के लिये (क्षत्राणि) राज्य में उत्पन्न हुए धनों को (धारयेः) धारण करिये ॥८॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जब राजा सभास्थ जनों को पूँछै कि इस अधिकार में कौन पुरुष रखने योग्य है, तब सम्पूर्ण जन धार्मिक योग्य पुरुष के नियत करने में सम्मति देवें। और राजा को भी चाहिये कि योग्य ही पुरुषों को राजकर्म में नियत करे, जिससे कि नित्य प्रशंसा बढ़े ॥८॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे राजन्नहं ते सुमतिमर्चामि यं त्वा वावातेयं गीर्घोषि सञ्जरतां तं त्वां स्वश्वाः सुरथा वयम्मर्जयेम। यथा ते धनान्यनुद्यून् वयं धारयेम तथार्वाक् त्वमस्मे क्षत्राण्यनुद्यून् धारयेः ॥८॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अर्चामि) सत्करोमि (ते) तव (सुमतिम्) शोभना मतिर्यस्य सभ्यस्य तम् (घोषि) शब्दयुक्तं वचः (अर्वाक्) पश्चात् (सम्) (ते) तव (वावाता) दोषहन्त्री विद्याजनयित्री (जरताम्) स्तुयात् (इयम्) (गीः) सुशिक्षिता वाणी (स्वश्वाः) शोभना अश्वाः (त्वा) त्वाम् (सुरथाः) श्रेष्ठरथाः (मर्जयेम) शोधयेम (अस्मे) अस्माकम् (क्षत्राणि) राज्योद्भवानि धनानि। क्षत्रमिति धननामसु पठितम्। (निघं०२.१) (धारयेः) (अनु) (द्यून्) दिवसान् ॥८॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - यदा राजा सभ्यान् पृच्छेदस्मिन्नधिकारे कः पुरुषो रक्षणीय इति तदा सर्वे धार्मिकस्य योग्यस्य रक्षणे सम्मतिं दद्युः। राज्ञा च योग्या एव पुरुषा राजकर्मणि रक्षणीया यतो नित्यं प्रशंसा वर्धेत ॥८॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जेव्हा राजा सभेच्या लोकांना विचारतो की, या अधिकारात कोणत्या पुरुषाला नेमावे? तेव्हा संपूर्ण लोकांनी धार्मिक योग्य पुरुषाला नियुक्त करण्याची संमती द्यावी व राजानेही योग्य पुरुषाला राजकर्मात नियुक्त करावे, ज्यामुळे नित्य प्रशंसा वाढेल. ॥ ८ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

इह᳓ त्वा भू᳓र्य् आ᳓ चरेद् उ᳓प +++(आ)+++त्म᳓न्
दो᳓षावस्तर् +++(=रात्रावहः)+++ दीदिवाँ᳓सम्+++(=दीप्यमानं)+++ अ᳓नु द्यू᳓न्+++(=अन्वहम्)+++ ।
क्री᳓डन्तस् त्वा सु-म᳓नसस् सपेम+++(=परिचरेमा)+++
+अभि᳓ द्युम्ना᳓ तस्थिवाँ᳓सो ज᳓नानाम् ॥

009 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रक्षोहाग्निः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

इह᳓ त्वा भू᳓रि आ᳓ चरेद् उ᳓प त्म᳓न्
दो᳓षावस्तर् दीदिवां᳓सम् अ᳓नु द्यू᳓न्
क्री᳓ळन्तस् त्वा सुम᳓नसः सपेम
अभि᳓ द्युम्ना᳓ तस्थिवां᳓सो ज᳓नानाम्

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M
genre M


Morph
ā́ ← ā́ (invariable)

bhū́ri ← bhū́ri- (nominal stem)
{case:ACC, gender:N, number:SG}

caret ← √carⁱ- (root)
{number:SG, person:3, mood:OPT, tense:PRS, voice:ACT}

ihá ← ihá (invariable)

tmán ← tmán- (nominal stem)
{case:LOC, gender:M, number:SG}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

úpa ← úpa (invariable)

ánu ← ánu (invariable)

dīdivā́ṁsam ← √dī- 1 (root)
{case:ACC, gender:M, number:SG, tense:PRF, voice:ACT}

dóṣāvastar ← doṣāvastar- (nominal stem)
{case:VOC, gender:M, number:SG}

dyū́n ← dyú- ~ div- (nominal stem)
{case:ACC, gender:M, number:PL}

krī́ḷantaḥ ← √krīḍ- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:ACT}

sapema ← √sap- (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

sumánasaḥ ← sumánas- (nominal stem)
{case:NOM, gender:M, number:PL}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

abhí ← abhí (invariable)

dyumnā́ ← dyumná- (nominal stem)
{case:ACC, gender:N, number:PL}

jánānām ← jána- (nominal stem)
{case:GEN, gender:M, number:PL}

tasthivā́ṁsaḥ ← √sthā- (root)
{case:NOM, gender:M, number:PL, tense:PRF, voice:ACT}

पद-पाठः

इ॒ह । त्वा॒ । भूरि॑ । आ । च॒रे॒त् । उप॑ । त्मन् । दोषा॑ऽवस्तः । दी॒दि॒ऽवांस॑म् । अनु॑ । द्यून् ।
क्रीळ॑न्तः । त्वा॒ । सु॒ऽमन॑सः । स॒पे॒म॒ । अ॒भि । द्यु॒म्ना । त॒स्थि॒ऽवांसः॑ । जना॑नाम् ॥

पद-पाठः-तैत्तिरीयः

इ॒ह । त्वा॒ । भूरि॑ । एति॑ । च॒रे॒त् । उपेति॑ । त्मन्न् । दोषा॑वस्त॒रिति॒ दोषा॑-व॒स्तः॒ । दी॒दि॒वाँस॑म् । अन्विति॑ । द्यून् ॥ क्रीड॑न्तः । त्वा॒ । सु॒मन॑स॒ इति॑ सु-मन॑सः । स॒पे॒म॒ । अ॒भीति॑ । द्यु॒म्ना । त॒स्थि॒वाँसः॑ । जना॑नाम् ॥

Hellwig Grammar
  • iha
  • [adverb]
  • “here; now; in this world; now; below; there; here; just.”

  • tvātvad
  • [noun], accusative, singular
  • “you.”

  • bhūrybhūri
  • [noun], accusative, singular, neuter
  • “much; many; much(a); abundant; rich; mighty; distinguished.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • caredcaretcar
  • [verb], singular, Present optative
  • “car; wander; perform; travel; bore; produce; make; dwell; dig; act; observe; enter (a state); observe; cause; crop; behave; practice; heed; process; administer.”

  • upa
  • [adverb]
  • “towards; on; next.”

  • tman
  • [noun], locative, singular, masculine
  • “self.”

  • doṣāvastardoṣā
  • [noun], feminine
  • “night.”

  • doṣāvastarvastarvastṛ
  • [noun], vocative, singular, masculine

  • dīdivāṃsamdīdī
  • [verb noun], accusative, singular
  • “shine; glitter.”

  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • dyūndiv
  • [noun], accusative, plural, masculine
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

  • krīᄆantaskrīᄆantaḥkrīḍ
  • [verb noun], nominative, plural
  • “frolic; love; play; amuse.”

  • tvātvad
  • [noun], accusative, singular
  • “you.”

  • sumanasaḥsumanas
  • [noun], nominative, plural, masculine
  • “benevolent; cheerful; happy; satisfied.”

  • sapemābhisapemasap
  • [verb], plural, Present optative

  • sapemābhiabhi
  • [adverb]
  • “towards; on.”

  • dyumnādyumna
  • [noun], accusative, plural, neuter
  • “magnificence.”

  • tasthivāṃsotasthivāṃsaḥsthā
  • [verb noun], nominative, plural
  • “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”

  • janānāmjana
  • [noun], genitive, plural, masculine
  • “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”

सायण-भाष्यम्

हे अग्ने इह रक्षोहननाख्ये कर्मणि यद्वा अस्मिन् लोके यः पुरुषः दोषावस्तः रात्रावहनि च दीदिवांसं दीप्यमानं त्वा त्वाम् अनु द्यून् अन्वहं त्मन् आत्मना स्वयमेव उप समीपे भूरि भूयिष्ठं यथा भवति तथा “ आ चरेत् परिचरति । तस्माद्वयमपि जनानां शत्रूणां द्युम्ना द्युम्नानि धनानि अभि तस्थिवांसः त्वत्प्रसादादात्मसात्कुर्वन्तोऽत एव क्रीळन्तः स्वे स्वे गृहे पुत्रपौत्रादिभिः सह संक्रीडमानास्तथा सुमनसः शोभनमनस्काः सन्तस्त्वां सपेम परिचरेम । यद्वा । दोषावस्तरिति संबुद्धिः । दोषाया रात्रिकृतस्य तमसो वस्तराच्छादयितर्निवारयितः ॥ त्मन् । आत्मन्शब्दस्य तृतीयायाः ‘सुपां सुलुक्’ इति लुक् । मन्त्रेष्वाङ्यादेरात्मनः’ इत्याकारलोपः । दोषावस्तः । द्वन्द्वपक्षे ‘ कार्तकौजपादयश्च ’ इति पूर्वपदप्रकृतिस्वरः । संबुद्धिपक्षे आमन्त्रितस्य पादादित्वात् षाष्टिकमाद्युदात्तत्वम् । सपेम । ‘षप समवाये । लिङि रूपम् । निघातः ॥ ᳓

भट्टभास्कर-टीका

9अथ नवमी - इहेति ॥ इहास्मिन्कर्मणि रक्षोवधलक्षणे त्वामेव भूरि भूयिष्ठं उपाचरेत् उपचरितुमर्हति पुरुषः त्मन् आत्मनि दोषावस्तर्दीदिवांसमनुद्यून् रात्रावहनि च सर्वेषां अन्तर्दीदिवांसं संदीप्यमानम् । ‘आङोन्यत्रापि दृश्यते’ इत्यात्मन आकारस्य लोपः । दीप्यतेः क्वसौ ‘तुजादीनाम्’ इत्यभ्यासस्य दीर्घत्वम् । छान्दसो वा दीदिविः दीप्तिकर्मा कृतद्विर्वचन एव । ‘कार्तकौजपादयश्च’ इति दोषावस्तरित्यस्य पूर्वपदप्रकृतिस्वरत्वम् । पदसमुदायात्मको वा एको निपातः । ‘निपाता आद्युदात्ताः’ इति तस्याद्युदात्तत्वम् । यद्वा - इहास्मिन् लोके त्वामेव भूरि उपाचरेत् पुरुषः आत्मनिमित्तमात्मनोभिमतसम्पादनार्थं दोषावस्तः दीप्यमानम् । अनुद्यूनित्युपचरणं विशेष्यते अनुदिनमुपाचरेदिति । तस्माद्वयं क्रीडन्तः तृप्यन्तस्सुमनसः अप्रतिकूलमनसः शोभनमनसो वा । त्वा त्वामेव सपेम भजेम । षप समवाये । ‘सोर्मनसी इत्युत्तरपदाद्युदात्तत्वं सुमनश्शब्दस्य । जनानां द्युम्नानि धनानि यशांसि वा अभितस्थिवांसः अभितिष्ठन्तः त्वत्प्रसादेनात्मसात्कुर्वन्तः त्वत्सम्बन्धिन एव सर्वदा भवेमेति । ‘शेश्छन्दसि बहुलम्’ इति द्युम्नेत्यत्र शेर्लोपः’ । ‘वस्वेकाजाद्घसाम्’ इति तिष्ठतेरिडागमः ॥

Wilson

English translation:

“May every one of his own accord diligently worship you, shining in the (hall) morning and evening, every day; thus, sporting in our dwellings, (enjoying) the wealth (of hostile) man, may we with happy hearts worship you.”

Jamison Brereton

Here should (a man) attend on you much in person—you illuminator of the evening, shining through the days.
Playful and well disposed, we would serve you, we who have
surmounted the brilliant things of (other) men.

Jamison Brereton Notes

sumánas- here recalls the two occurrences of sumatí- in 6a and 8a (see disc.

there); this word two may have dual value: both ‘benevolent, well-disposed’ and ‘having a good mind’, that is, one capable of producing good thoughts in the form of hymns.

The dyumnā́ni of the arí- “the brilliant things of the stranger” that Agni opened up for us in 6d we seem to have thoroughly taken possession of here. The gen. jánānām here corresponds to aryáḥ in 6d.

Griffith

Here of free choice let each one serve thee richly, resplendent day by day at eve and morning.
So may we honour thee, content and joyous, passing beyond the glories of the people.

Oldenberg

May (the worshipper) here frequently of his own accord approach thee, O (god) who shinest in darkness 1, resplendent day by day. Let us worship thee sporting and joyous, surpassing the splendour of (other) people. ᳓

Keith

Here let each serve thee readily,
That shinest in the darkness, as the days go by;
Happy and joyous may we attend thee That dost surpass the glories of men.

Geldner

Hier soll er selbst dir fleißig aufwarten, alle Tage, wenn du Dunkelerheller erstrahlst. Unter Spielen und Frohsinn wollen wir dich pflegen, indem wir die Herrlichkeiten anderer Leute übertreffen.

Grassmann

Es soll dir vieles hier zum Dienst bereit stehn, der du erglänzest täglich morgens, abends; Wir wollen froh und wohlgesinnt dich ehren, nachdem der Menschen Güter wir errungen.

Elizarenkova

Пусть он сам за тобою здесь много ухаживает,
Когда ты горишь все дни, о осветитель ночей!
Счастливые духом, мы хотим заботиться о тебе, играя,
Затмевая великолепие (других) людей.

अधिमन्त्रम् (VC)
  • रक्षोहाऽग्निः
  • वामदेवो गौतमः
  • स्वराट्पङ्क्ति
  • पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे राजन् ! (इह) इस राजकर्म में आप (त्मन्) आत्मा में (भूरि) बहुत शुभकर्म (उप, आ, चरेत्) करें (सुमनसः) श्रेष्ठ मनयुक्त जन (तस्थिवांसः) स्थिर और (अनु, द्यून्,) प्रतिदिन (क्रीळन्तः) धनुर्वेदविद्या की शिक्षा के लिये और युद्ध के लिये शस्त्रों का अभ्यास करते हुए हम लोग (जनानाम्) राजा और प्रजा के पुरुषों के मध्य में (दीदिवांसम्) प्रकाशमान वा प्रकाश करते हुए और (द्युम्ना) यश वा धन के सहित वर्त्तमान राजमान (त्वा) आपकी (दोषावस्तः) दिन-रात्रि प्रशंसा करें, जो अश्रेष्ठ कर्म्म करो तो (त्वा) आपकी (अभि, सपेम) निन्दा करें ॥९॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे राजन् ! जो आप दुर्व्यसनों का त्याग करके धर्म्मसम्बन्धी कर्म्मों को करें तो हम लोग आपके भक्त निरन्तर होवें, जो अन्याय करो तो आप का शीघ्र त्याग करें ॥९॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे राजन्निह भवान् त्मन् भूरि शुभमुपाचरेत् सुमनसस्तस्थिवांसोऽनुद्यून् क्रीळन्तो वयं जनानां दीदिवांसं द्युम्ना यशसा सह वर्त्तमानं राजानं त्वा दोषावस्तः प्रशंसेम यद्यशुभाचारं कुर्यात्तर्हि त्वाऽभि सपेम ॥९॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (इह) अस्मिन् राजकर्मणि (त्वा) त्वाम् (भूरि) बहु (आ) (चरेत्) (उप) (त्मन्) आत्मनि (दोषावस्तः) अहर्निशम् (दीदिवांसम्) प्रकाशमानं प्रकाशयन्तं वा (अनु) (द्यून्) दिवसान् (क्रीळन्तः) धनुर्वेदविद्याशिक्षणाय युद्धाय शस्त्राऽभ्यासं कुर्वन्तः (त्वा) (सुमनसः) शोभनं मनो येषान्ते (सपेम) आक्रुश्याम निन्द्येम (अभि) (द्युम्ना) यशसा धनेन वा (तस्थिवांसः) स्थिरास्सन्तः (जनानाम्) राजप्रजापुरुषाणाम् ॥९॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे राजन् ! यदि भवान् दुर्व्यसनानि त्यक्त्वा धर्म्याणि कर्म्माणि कुर्य्यात्तर्हि वयं तव भक्ता निरन्तरं स्याम यद्यन्यायं कुर्य्यात्तर्हि भवन्तं सद्यस्त्यजेम ॥९॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे राजा ! जर तू दुर्व्यसनाचा त्याग करून धर्मासंबंधी कार्य केलेस तर आम्ही तुझे निरंतर भक्त होऊ. जर अन्याय केलास तर तुझा तात्काळ त्याग करू. ॥ ९ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् त्वा स्व्-अ᳓श्वस् सु-हिरण्यो᳓ अग्न
उपया᳓ति व᳓सुमता र᳓थेन ।
त᳓स्य त्राता᳓ भवसि, त᳓स्य स᳓खा
य᳓स् त आतिथ्य᳓म् आनुष᳓ग् +++(=अनुक्रमेण)+++ जु᳓जोषत्

010 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रक्षोहाग्निः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

य᳓स् त्वा सुअ᳓श्वः सुहिरण्यो᳓ अग्न
उपया᳓ति व᳓सुमता र᳓थेन
त᳓स्य त्राता᳓ भवसि त᳓स्य स᳓खा
य᳓स् त आतिथ्य᳓म् आनुष᳓ग् जु᳓जोषत्

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M
genre M


Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

suhiraṇyáḥ ← suhiraṇyá- (nominal stem)
{case:NOM, gender:M, number:SG}

sváśvaḥ ← sváśva- (nominal stem)
{case:NOM, gender:M, number:SG}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

ráthena ← rátha- (nominal stem)
{case:INS, gender:M, number:SG}

upayā́ti ← √yā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

vásumatā ← vásumant- (nominal stem)
{case:INS, gender:M, number:SG}

bhavasi ← √bhū- (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}

sákhā ← sákhi- (nominal stem)
{case:NOM, gender:M, number:SG}

tásya ← sá- ~ tá- (pronoun)
{case:GEN, gender:M, number:SG}

tásya ← sá- ~ tá- (pronoun)
{case:GEN, gender:M, number:SG}

trātā́ ← trātár- (nominal stem)
{case:NOM, gender:M, number:SG}

ānuṣák ← ānuṣák (invariable)

ātithyám ← ātithyá- (nominal stem)
{case:NOM, gender:N, number:SG}

jújoṣat ← √juṣ- (root)
{number:SG, person:3, mood:SBJV, tense:PRF, voice:ACT}

te ← tvám (pronoun)
{case:DAT, number:SG}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

पद-पाठः

यः । त्वा॒ । सु॒ऽअश्वः॑ । सु॒ऽहि॒र॒ण्यः । अ॒ग्ने॒ । उ॒प॒ऽयाति॑ । वसु॑ऽमता । रथे॑न ।
तस्य॑ । त्रा॒ता । भ॒व॒सि॒ । तस्य॑ । सखा॑ । यः । ते॒ । आ॒ति॒थ्यम् । आ॒नु॒षक् । जुजो॑षत् ॥

पद-पाठः

यः । त्वा॒ । स्वश्व॒ इति॑ सु-अश्वः॑ । सु॒हि॒र॒ण्य इति॑ सु-हि॒र॒ण्यः । अ॒ग्ने॒ । उ॒प॒यातीत्यु॑प-याति॑ । वसु॑म॒तेति॒ वसु॑-म॒ता॒ । रथे॑न ॥ तस्य॑ । त्रा॒ता । भ॒व॒सि॒ । तस्य॑ । सखा॑ । यः । ते॒ । आ॒ति॒थ्यम् । आ॒नु॒षक् । जुजो॑षत् ॥

Hellwig Grammar
  • yasyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • tvātvad
  • [noun], accusative, singular
  • “you.”

  • svaśvaḥsu
  • [adverb]
  • “very; well; good; nicely; beautiful; su; early; quite.”

  • svaśvaḥaśvaḥaśva
  • [noun], nominative, singular, masculine
  • “horse; aśva [word]; Aśva; stallion.”

  • suhiraṇyosu
  • [adverb]
  • “very; well; good; nicely; beautiful; su; early; quite.”

  • suhiraṇyohiraṇyaḥhiraṇya
  • [noun], nominative, singular, masculine
  • “gold; jewelry; hiraṇya [word]; gold.”

  • agnaagneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • upayātiupayā√yā
  • [verb], singular, Present indikative
  • “enter (a state); arrive; come; go.”

  • vasumatāvasumat
  • [noun], instrumental, singular, masculine
  • “deluxe; affluent; rich.”

  • rathenaratha
  • [noun], instrumental, singular, masculine
  • “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”

  • tasyatad
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • trātātrā
  • [verb], singular, periphrast. future
  • “protect; help.”

  • bhavasibhū
  • [verb], singular, Present indikative
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • tasyatad
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • sakhāsakhi
  • [noun], nominative, singular, masculine
  • “friend; companion; sakhi [word].”

  • yasyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • tatetvad
  • [noun], genitive, singular
  • “you.”

  • ātithyamātithya
  • [noun], accusative, singular, neuter
  • “cordial reception.”

  • ānuṣagānuṣak
  • [adverb]
  • “correctly; in sequence; punctually.”

  • jujoṣatjuṣ
  • [verb], singular, Perfect conjunctive (subj.)
  • “enjoy; endow; possess; frequent; accompany; induce; consume; approve; affect; attend; befit; blend; contract.”

सायण-भाष्यम्

हे अग्ने यः पुमान् स्वश्वः शोभनाश्वोपेतः सुहिरण्यः यागयोग्यधनोपेतः वसुमता व्रीह्यादिधनयुक्तेन रथेन सहितः सन् त्वा त्वाम् उपयाति परिचरणार्थं तव समीपं गच्छति ॥ तस्य पुंसः त्राता सर्वदुरितेभ्यो रक्षकः भवसियः च पुमान् ते तव आतिथ्यम् अतिथियोग्यां पूजाम् आनुषक् अनुक्रमेण जुजोषत् प्रापयति तस्य पुंसः सखा तदुचितफलप्रदानेनोपकर्ता भवसि । उपयाति । ‘ सह सुपा ’ इत्यत्र सहेति योगविभागात् समासः । तिपः पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ तिङि चोदात्तवति’ इति गतेर्निघातः । आतिथ्यम् । अतिथिशब्दात् तादर्थ्ये ‘ अतिथेर्ञ्यः’ इति ञ्यप्रत्ययः । प्रत्ययस्वरः । जुजोषत् । जोषयतेर्लङि ‘बहुलं छन्दसि’ इति शपः श्लुः । अडागमः । ‘छन्दस्युभयथा’ इति तिप आर्धधातुकत्वात् णिलोपः। ‘अभ्यस्तानामादिः’ इत्याद्युदात्त: ॥ ॥ २४ ॥

भट्टभास्कर-टीका

10अथ दशमी - यस्त्वेति ॥ हे अग्ने स्वश्वः शोभनाश्वः महाधनः यागयोग्य इति यावत् । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । सुहिरण्यः । ‘नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । य इदृशस्सन् वसुमता व्रीह्यादिधनवता रथेन त्वामुपयाति तस्य त्राता भवसि सर्वदुरितेभ्यः ।
किञ्च - तस्य सखा भवसि । कस्य? यस्त्वामानुषक् अनुषक्तं नित्यं आतिथ्यमतिथिसत्कारम् । यद्वा - अनुषक्तं यथाभिलषितमातिथ्यं जुजोषत् जोषयति प्रापयति । जुषेरन्तर्भावितण्यर्थात् लेटि ‘बहुलं च्छन्दसि’ इति शपश्श्लुः । ‘लेटोडाटौ’ इत्यडागमः, ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । ते इति कर्मणस्सम्प्रदानत्वात् चतुर्थ्यर्थे षष्ठी । ‘अतिथेर्ण्यः’ ॥

Wilson

English translation:

“You Agni, are the protector of him who, possessed of good horses and a golden car, approaches you with a chariot laden with wealth; you are the friend of him who gratifies you be the due performance of hospitality to you.”

Jamison Brereton

Whoever, rich in horses and gold, drives up to you, Agni, with a chariot full of goods,
his protector do you become and the (ritual) partner of him who will regularly enjoy your guest-friendship.

Jamison Brereton Notes

Unlike 8c, where I took sváśva- surátha- as proleptic with the priestly subject “we,” here the man who is sváśva- suhiraṇyá- appears to be already rich, with a chariot full of goods – and therefore most likely the patron of the sacrifice, who (we hope) will redistribute this wealth to us performers via the sacrifice. This may be the purport of sákhā ‘partner’ here. Geldner suggests (n. 10ab) that the figure in question is a ruler returning from battle with booty.

Griffith

Whoso with good steeds and fine gold, O Agni, comes nigh thee on a car laden with trcasure,
His Friend art thou, yea, thou art his Protector whose joy it is to entertain thee duly.

Oldenberg

Whoever, rich in horses and rich in gold, approaches thee, O Agni, with his chariot full of wealth—thou art the protector and the friend of him who always delights in showing thee hospitality.

Keith

He who with good steeds and rich in gold
Approacheth thee, O Agni, with a rich chariot,
His protector thou art, the comrade of him
Who duly offereth thee glad reception.

Geldner

Der Besitzer schöner Rosse, schönen Goldes, der zu dir, Agni, auf schätzebeladenem Wagen kommt, dessen Schirmer wirst du, dessen Freund, und wer sich deiner Gastfreundschaft gebührlich erfreut.

Grassmann

Wer zu dir kommt an Rossen reich und Goldschmuck, o Agni, und mit schatzbeladnem Wagen, Dem bist du Schützer, liebender Genosse, wer fort und fort als lieben Gast dich aufnimmt.

Elizarenkova

Кто приближается к тебе, о Агни, имея прекрасных коней,
Прекрасное золото, на колеснице, полной добра, –
Ты бываешь защитником того, другом того,
Кто наслаждается твоим гостеприимством, как подобает.

अधिमन्त्रम् (VC)
  • रक्षोहाऽग्निः
  • वामदेवो गौतमः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (अग्ने) राजन् (यः) जो (ते) आपकी (आनुषक्) अनुकूलता से वर्त्तमान (आतिथ्यम्) अतिथि के सदृश सत्कार की (जुजोषत्) निरन्तर सेवा करे (यः) जो (सुहिरण्यः) उत्तम सुवर्ण आदि धनयुक्त और (स्वश्वः) सुन्दर घोड़ों से युक्त पुरुष (वसुमता) बहुत धन से युक्त (रथेन) रमणीय वाहन से (त्वा) आपके (उपयाति) समीप प्राप्त होता है (तस्य) उसके आप (त्राता) रक्षा करनेवाले (भवसि) हूजिये और (तस्य) उसके (सखा) मित्र हूजिये ॥१०॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे राजन् ! जो आपके राज्य के उपकार करने और सत्कार करनेवाले हों, उनके ही मित्र और रक्षा करनेवाले हुए चकवर्त्ती हूजिये ॥१०॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे अग्ने ! यस्त आनुषगातिथ्यं जुजोषद्यः सुहिरण्यः स्वश्वो वसुमता रथेन त्वोपयाति तस्य त्वं त्राता भवसि तस्य सखा भवसि ॥१०॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (यः) (त्वा) त्वाम् (स्वश्वः) शोभनाश्वः (सुहिरण्यः) उत्तमसुवर्णादिधनः (अग्ने) राजन् (उपयाति) (वसुमता) बहुधनयुक्तेन (रथेन) रमणीयेन यानेन (तस्य) (त्राता) (भवसि) भवेः (तस्य) (सखा) सुहृत् (यः) (ते) तव (आतिथ्यम्) अतिथिवत्सत्कारम् (आनुषक्) आनुकूल्येन (जुजोषत्) भृशं सेवेत ॥१०॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे राजन् ! ये तव राष्ट्रस्य चोपकारकाः स्युः सत्कर्त्तारश्च तेषामेव सखा रक्षकः सञ्चक्रवर्त्ती भवेः ॥१०॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे राजा ! जे तुझ्या राज्यावर उपकार करणारे, सत्कार करणारे असतील त्यांचेच मित्र व रक्षक बनून चक्रवर्ती हो. ॥ १० ॥

विश्वास-प्रस्तुतिः ...{Loading}...

महो᳓ +++(=महद्राक्षसान्)+++ रुजामि +++(=भनज्मि)+++ बन्धु᳓ता+++(~बन्धुतया)+++
व᳓चोभिस् त᳓न् मा पितु᳓र् गो᳓तमाद् अ᳓न्वियाय
त्व᳓न् नो अस्य᳓ व᳓चसश् चिकिद्धि
हो᳓तर् यविष्ठ सु-क्रतो द᳓मूनाः +++(=दान्तमनाः)+++॥

011 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रक्षोहाग्निः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

महो᳓ रुजामि बन्धु᳓ता व᳓चोभिस्
त᳓न् मा पितु᳓र् गो᳓तमाद् अ᳓न्व् इयाय
तुवं᳓ नो अस्य᳓ व᳓चसश् चिकिद्धि
हो᳓तर् यविष्ठ सुक्रतो द᳓मूनाः

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M
genre M


Morph
bandhútā ← bandhútā- (nominal stem)
{case:INS, gender:F, number:SG}

maháḥ ← máh- (nominal stem)
{case:GEN, gender:M, number:SG}

rujāmi ← √ruj- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}

vácobhiḥ ← vácas- (nominal stem)
{case:INS, gender:N, number:PL}

ánu ← ánu (invariable)

gótamāt ← gótama- (nominal stem)
{case:ABL, gender:M, number:SG}

iyāya ← √i- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

mā ← ahám (pronoun)
{case:ACC, number:SG}

pitúḥ ← pitár- (nominal stem)
{case:ABL, gender:M, number:SG}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

asyá ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

cikiddhi ← √cit- (root)
{number:SG, person:2, mood:IMP, tense:PRF, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

tvám ← tvám (pronoun)
{case:NOM, number:SG}

vácasaḥ ← vácas- (nominal stem)
{case:GEN, gender:N, number:SG}

dámūnāḥ ← dámūnas- (nominal stem)
{case:NOM, gender:M, number:SG}

hótar ← hótar- (nominal stem)
{case:VOC, gender:M, number:SG}

sukrato ← sukrátu- (nominal stem)
{case:VOC, gender:M, number:SG}

yaviṣṭha ← yáviṣṭha- (nominal stem)
{case:VOC, gender:M, number:SG}

पद-पाठः

म॒हः । रु॒जा॒मि॒ । ब॒न्धुता॑ । वचः॑ऽभिः । तत् । मा॒ । पि॒तुः । गोत॑मात् । अनु॑ । इ॒या॒य॒ ।
त्वम् । नः॒ । अ॒स्य । वच॑सः । चि॒कि॒द्धि॒ । होतः॑ । य॒वि॒ष्ठ॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दमू॑नाः ॥

पद-पाठः-तैत्तिरीयः

म॒हः । रु॒जा॒मि॒ । [31] ब॒न्धुता॑ । वचो॑भि॒रिति॒ वचः॑-भिः॒ । तत् । मा॒ । पि॒तुः । गोत॑मात् । अन्विति॑ । इ॒या॒य॒ ॥
त्वम् । नः॒ । अ॒स्य । वच॑सः । चि॒कि॒द्धि॒ । होतः॑ । य॒वि॒ष्ठ॒ । सु॒क्र॒तो॒ इति॑ सु-क्र॒तो॒ । दमू॑नाः ॥

Hellwig Grammar
  • mahomahaḥmah
  • [noun], genitive, singular, masculine
  • “great; great; distinguished; much(a); adult; long; high.”

  • rujāmiruj
  • [verb], singular, Present indikative
  • “break; bend.”

  • bandhutābandhu
  • [noun], masculine
  • “relative; bandhu [word]; association; friend; kin.”

  • bandhutā
  • [noun], instrumental, singular, feminine
  • “state; Lakshmi.”

  • vacobhisvacobhiḥvacas
  • [noun], instrumental, plural, neuter
  • “statement; command; speech; words; advice; word; voice.”

  • tantattad
  • [noun], nominative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • mad
  • [noun], accusative, singular
  • “I; mine.”

  • piturpituḥpitṛ
  • [noun], ablative, singular, masculine
  • “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”

  • gotamādgotamātgotama
  • [noun], ablative, singular, masculine
  • “Gotama; gotama [word].”

  • anvanu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • iyāyai
  • [verb], singular, Perfect indicative
  • “go; travel; enter (a state); return; walk; continue; reach; ask.”

  • tvaṃtvamtvad
  • [noun], nominative, singular
  • “you.”

  • nonaḥmad
  • [noun], genitive, plural
  • “I; mine.”

  • asyaidam
  • [noun], genitive, singular, neuter
  • “this; he,she,it (pers. pron.); here.”

  • vacasaśvacasaḥvacas
  • [noun], genitive, singular, neuter
  • “statement; command; speech; words; advice; word; voice.”

  • cikiddhicit
  • [verb], singular, Perfect imperative
  • “notice; observe; attend to; intend.”

  • hotarhotṛ
  • [noun], vocative, singular, masculine
  • “Hotṛ.”

  • yaviṣṭha
  • [noun], vocative, singular, masculine
  • “youngest.”

  • sukratosu
  • [adverb]
  • “very; well; good; nicely; beautiful; su; early; quite.”

  • sukratokratokratu
  • [noun], vocative, singular, masculine
  • “yajña; decision; plan; deliberation; intelligence; Kratu; will; kratu [word]; desire; resoluteness; ritual.”

  • damūnāḥdamūnas
  • [noun], nominative, singular, masculine
  • “master.”

सायण-भाष्यम्

हे होतः देवानामाह्वातः यविष्ठ युवतम सुक्रतो शोभनप्रज्ञ हे अग्ने वचोभिः त्वदुद्देशेन कृतैः स्तोत्रैः समुपजाता येयं बन्धुता बन्धुभावस्तया बन्धुतया महः महतो राक्षसान् । रुजामि भनज्मि। तत् तादृशं स्तोत्रात्मकं वचः पितुः उत्पादयितुः गोतमात् ऋषेः सकाशात् मा मां वामदेवं अन्वियाय प्राप्तम् । दमूनाः दान्तमना दानमना वा शत्रूणामुपक्षपयिता वा तादृशः त्वं नः अस्मदीयस्य अस्य वचसः स्तोत्रात्मकमेतद्वाक्यं चिकिद्धि जानीहि ॥ चिकिद्धि । कित ज्ञाने ’ । जौहोत्यादिकः । लोटि रूपम् । होतः । पादादित्वात् षाष्ठिकमाद्युदात्तत्वम् । इतरयोस्तु ‘ नामन्त्रिते समानाधिकरणे° ’ इति प्रथमस्य अविद्यमानवद्भावनिषेधात् अपादादित्वेन निघातः ॥

भट्टभास्कर-टीका

11अथैकादशी - महो रुजामीति ॥ हे अग्ने बन्धुता बन्धुतया बन्धुभावेन । ‘सुपां सुलुक्’ इति तृतीयाया आकारः । वचोभिस्तुतिभिरुपजातया त्वद्बन्धुतया महः महतः असुरान् ये धनादिना मामतिशेरते तान्रुजामि भञ्जयामि मत्तो न्यक्करोमि । महतेः क्विपि ‘सावेकाचः’ इति व्यत्ययेन विभक्तेरुदात्तत्वम् । तत्तादृशं ज्ञानं गोतमनाम्नः गोतमसदृशाद्वा मम पितुस्सकाशान्मामन्वियाय अन्वगच्छत् । येन त्वां वाग्भिर्बन्धुत्वाय [येनेमां वाचं त्वद्बन्धुत्वाय?] करोमि ।
यद्वा - वचोभिरिति व्यत्ययेन बहुवचनम् । स्तुतिवचसा उपजातेन तव बान्धवेन महो रुजामि प्रथमम् । तदनु तस्माद्गोतमात् त्वद्बान्धवहेतुभूतगोतमात् साधुतमात् स्तुतिवचसो हेतुभूतात् पितुरन्नमपि मामियाय एति उपगच्छति तेनैव बान्धवेन । यद्वा - तत्तादृशं वचो गातेमात् पितुस्सकाशान्मामन्वियाय सा स्तुतिशक्तिर्मामुपसङ्क्रान्ता इत्यर्थः ।
त्वमेव खल्वस्य स्तुतिवचसः अस्मदीयस्य चिकिद्धि जानासि एतत् ज्ञातुं शक्नोषि । कित ज्ञाने, जुहोत्यादिकः । अस्येति स्तोत्ररूपं निर्दिशति, न तु प्रकृतं वचः । तेनान्वादेशाभावः । यद्वा - प्रथमपक्षे एकवचनान्तस्य वचश्शब्दस्याप्रकृतत्वादस्येति प्रथमादेशत्वेनान्वादेशाभावः । तत्र ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वम् । इतरयोस्तु पक्षयोर्व्यत्ययेनान्वादेशाभावः, कृते वानुदात्तत्वाभावः ।
कस्तव विशेष इत्याह – हे होतः देवानामाह्वातः यविष्ठ युवतम सुक्रतो शोभनप्रज्ञ । ‘नामन्त्रिते समानाधिकरणे’ इति प्रथमस्याविद्यमानत्वनिषेधात्परमामन्त्रितद्वयं निहन्यते । दमूनाः दान्तमना दानमना वा । पृषोदरादिः । इर्दृशस्त्वमेवैतच्चिकिद्धि किमन्येनाज्ञानिना इति ॥

Wilson

English translation:

“Invoker (of the gods), young (of the deities) possessed of excellent wisdom, through the alliance (with you produced) by holy texts, which came to me from my father Gotama, I demolish the powerful (demons); do you who are the humbler (of foes), be cognizant of our praises.”

Jamison Brereton

Thanks to my lineage, I powerfully break (it [=the rock full of treasures]) with my speeches. This [=speech/poetic gift?] has come down to me from my father Gotama.
Take note of this speech of ours here, o Hotar, youngest one, very effective, as friend of the house.

Jamison Brereton Notes

This vs. concerning the poet’s poetic gifts and his lineage, spoken in the 1st ps. sg., seems out of place in this hymn and anticipates the enigmatic hymn IV.5 that follows immediately, which focuses on the mysterious sources of poetic power. Of course, given the mechanical arrangement of the RVic hymn collections, we cannot assume that the hymns had anything to do with each other originally.

Oldenberg (SBE), Renou think that the poet’s lineage (bandhútā) is with Agni: Oldenberg “through my kinship (with thee).” But the next pāda, where the line of descent is traced from his father Gotama, makes that unlikely.

The next question is what to do with maháḥ. Oldenberg (SBE) takes it as acc. pl.

object of rujāmi; Geldner (/Witzel Gotō) as gen. sg. with vácobhiḥ, referring to the poet’s great (father). With Renou I prefer to take maháḥ as adverbial. Although this leaves rujāmi without an object, an object is easily supplied: the root √ruj is typed for the breaking of the Vala cave, particularly in this group of hymns so dominated by that myth. Cf. > 2.15 … áṅgiraso bhavema, ádriṃ rujema …

“Might we become Aṅgirases; might we break the rock.”

On grounds of sense I don’t think maháḥ is gen. with vácobhiḥ because I think the poet is asserting the power of his own poetic gift: he acquired this gift from his father (pāda b), but he is not using his father’s words but his own – or so I take his proud boast. By casting himself as the subject of the Vala-breaking verb, he is also implicitly asserting his identification with the Aṅgirases, who broke into Vala with their words. Like the speaker(s) of IV.2.15 he seems to be saying “might I become an Aṅgiras.”

Griffith

Through words and kinship I destroy the miglity: this power I have from Gotama my father.
Mark thou this speech of ours, O thou Most Youthful, Friend of the House, exceeding wise, Invoker.

Oldenberg

Through my kinship (with thee) I break down the great (foes) by my words 1. That (kinship) has come down to me from my father Gotama. Be thou attentive to this our word, O youngest, highly wise Hotri, as the friend of our house.

Keith

The great I overcome [4] through kinship and my songs;
That hath descended to me from Gotama, my sire;
Pay heed to this song of ours,
O Hotr, most youthful, skilful, friend of the house. ᳓

Geldner

Vermöge meiner Abstammung zerschmettere ich mit den Worten des großen Vaters. Das ist mir vom Vater Gotama überkommen. Achte du auf dieses Wort von uns, jüngster, wohlverständiger Hotri, als der Hausgebieter!

Grassmann

Durch meiner Sippe Lieder schlag’ ich Helden; das kam auf mich von Gotama, dem Vater; O merke du auf diese unsre Rede, o jüngster, weiser Priester, du der Hausfreund.

Elizarenkova

Благодаря (своему) родству я умею мощно разить словами,
Это мне перешло от отца Готамы.
Обрати внимание на эту нашу речь
Как друг дома, о хотар, самый юный, обладающий прекрасной силой духа!

अधिमन्त्रम् (VC)
  • रक्षोहाऽग्निः
  • वामदेवो गौतमः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब कुमार और कुमारियों के शिक्षा विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे राजन् ! जैसे मैं (गोतमात्) अत्यन्त सम्पूर्ण विद्याओं के स्तुति करनेवाले (पितुः) पिता से विद्या को प्राप्त होकर अविद्यादि दोष और शत्रुओं को (रुजामि) प्रभग्न करता हूँ (तत्) (महः) बड़ा कार्य और (वचोभिः) वचनों से (बन्धुता) बन्धुपन (मा) मुझे (अनु, इयाय) प्राप्त हो, वैसे यह बन्धुपन आपको प्राप्त हो और हे (होतः) देनेवाले (यविष्ठ) अत्यन्त युवा (सुक्रतो) उत्तम बुद्धियुक्त पुरुष (दमूनाः) दमनशील जितेन्द्रिय ! (त्वम्) आप (अस्य) इस (वचसः) वचन की उत्तेजना से (नः) हम लोगों को (चिकिद्धि) जनाइये ॥११॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे कुमार और कुमारियो ! जैसे हम लोग माता-पिता और आचार्य्य से उत्तम शिक्षा और विद्या को प्राप्त होकर आनन्दित होवें, वैसे आप लोग भी हूजिये ॥११॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे राजन् ! यथाऽहं गोतमात् पितुर्विद्यां प्राप्य दोषाञ्छत्रूंश्च रुजामि तन्महो वचोभिर्बन्धुता मान्वियाय तथेयं त्वामियात् हे होतर्यविष्ठ सुक्रतो दमूनास्त्वमस्य वचसः सकाशान्नोऽस्माञ्चिकिद्धि ॥११॥

दयानन्द-सरस्वती (हि) - विषयः

अथ कुमारकुमारीणां शिक्षाविषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (महः) महत् (रुजामि) प्रभग्नान् करोमि (बन्धुता) बन्धूनां भावः (वचोभिः) वचनैः (तत्) (मा) माम् (पितुः) जनकात् (गोतमात्) अतिशयेन गौः सकलविद्यास्तोता तस्मात्। गौरिति स्तोतृनामसु पठितम्। (निघं०३.१६) (अनु) (इयाय) प्राप्नोतु (त्वम्) (नः) अस्मान् (अस्य) (वचसः) (चिकिद्धि) ज्ञापय (होतः) दातः (यविष्ठ) अतिशयेन युवन् (सुक्रतो) सुष्ठुप्राप्तप्रज्ञ (दमूनाः) दमनशीलो जितेन्द्रियः ॥११॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे कुमारा कुमार्यश्च ! यथा वयं मातुः पितुराचार्याच्च सुशिक्षां विद्यां प्राप्याऽऽनन्दिता भवेम तथैव यूयमपि भवत ॥११॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे कुमार व कुमारींनो ! जसे आम्ही माता, पिता, आचार्याकडून उत्तम शिक्षण व विद्या प्राप्त करून आनंदित होतो तसे तुम्हीही व्हा. ॥ ११ ॥

किरणकीर्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓-स्वप्न-जस् तर᳓णयस् सु-शे᳓वा +++(=सुमुखाः)+++
अ᳓-तन्द्रासो ऽवृका᳓+++(=अहिंसका)+++ अ᳓-श्रमिष्ठाः ।
ते᳓ +++(रश्मयः)+++ पाय᳓वस् सध्रि᳓यञ्चो +++(=सङ्गताः)+++निष᳓द्य+++(=उपविश्य)+++
+अग्ने त᳓व नः पान्त्व् अमूर +++(=अमर्त्य)+++ ॥

012 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रक्षोहाग्निः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

अ᳓स्वप्नजस् तर᳓णयः सुशे᳓वा
अ᳓तन्द्रासो अवृका᳓ अ᳓श्रमिष्ठाः
ते᳓ पाय᳓वः सध्रि᳓अञ्चो निष᳓द्य
अ᳓ग्ने त᳓व नः पा᳐न्तु अमूर

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M
genre M


Morph
ásvapnajaḥ ← ásvapnaj- (nominal stem)
{case:NOM, gender:M, number:PL}

suśévāḥ ← suśéva- (nominal stem)
{case:NOM, gender:M, number:PL}

taráṇayaḥ ← taráṇi- (nominal stem)
{case:NOM, gender:M, number:PL}

áśramiṣṭhāḥ ← áśramiṣṭha- (nominal stem)
{case:NOM, gender:M, number:PL}

átandrāsaḥ ← átandra- (nominal stem)
{case:NOM, gender:M, number:PL}

avr̥kā́ḥ ← avr̥ká- (nominal stem)
{case:NOM, gender:M, number:PL}

niṣádya ← √sad- (root)
{non-finite:CVB}

pāyávaḥ ← pāyú- (nominal stem)
{case:NOM, gender:M, number:PL}

sadhryàñcaḥ ← sadhryàñc- (nominal stem)
{case:NOM, gender:M, number:PL}

té ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:PL}

ágne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

amūra ← ámūra- (nominal stem)
{case:VOC, gender:M, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

pāntu ← √pā- 1 (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}

táva ← tvám (pronoun)
{case:GEN, number:SG}

पद-पाठः

अस्व॑प्नऽजः । त॒रण॑यः । सु॒ऽशेवाः॑ । अत॑न्द्रासः । अ॒वृ॒काः । अश्र॑मिष्ठाः ।
ते । पा॒यवः॑ । स॒ध्र्य॑ञ्चः । नि॒ऽसद्य॑ । अ॒ग्ने॒ । तव॑ । नः॒ । पा॒न्तु॒ । अ॒मू॒र॒ ॥

पद-पाठः-तैत्तिरीयः

अस्व॑प्नज॒ इत्यस्व॑प्न-जः॒ । त॒रण॑यः । सु॒शेवा॒ इति॑ सु-शेवाः॑ । अत॑न्द्रासः । अ॒वृ॒काः । अश्र॑मिष्ठाः ॥
ते । पा॒यवः॑ । स॒ध्रिय॑ञ्चः । नि॒षद्येति॑ नि-सद्य॑ । अग्ने॑ । तव॑ । नः॒ । पा॒न्तु॒ । अ॒मू॒र॒ ॥ । [32]

Hellwig Grammar
  • asvapnajasa
  • [adverb]
  • “not; akāra; a [taddhita]; a [word]; a; a.”

  • asvapnajassvapnajaḥsvapnaj
  • [noun], nominative, plural, masculine
  • “sleepy; asleep(p).”

  • taraṇayaḥtaraṇi
  • [noun], nominative, plural, masculine
  • “energetic; agile.”

  • suśevāsu
  • [adverb]
  • “very; well; good; nicely; beautiful; su; early; quite.”

  • suśevāśevāḥśeva
  • [noun], nominative, plural, masculine
  • “friendly; favorable; dear.”

  • atandrāsoatandrāsaḥatandra
  • [noun], nominative, plural, masculine
  • “untired.”

  • ‘vṛkāavṛkāḥavṛka
  • [noun], nominative, plural, masculine
  • “protective; safe.”

  • aśramiṣṭhāḥaśramiṣṭha
  • [noun], nominative, plural, masculine

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • pāyavaḥpāyu
  • [noun], nominative, plural, masculine
  • “guard; pāyu [word]; Pāyu.”

  • sadhryañcosadhryañcaḥsadhryañc
  • [noun], nominative, plural, masculine

  • niṣadyāgneniṣadyaniṣad√sad
  • [verb noun]
  • “sit down; sit; put.”

  • niṣadyāgneagneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • tavatvad
  • [noun], genitive, singular
  • “you.”

  • naḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • pāntvpāntu
  • [verb], plural, Present imperative
  • “protect; govern.”

  • amūra
  • [noun], vocative, singular, masculine
  • “wise; intelligent; apt.”

सायण-भाष्यम्

अमूर अमूढ सर्वज्ञ । यद्वा । अमूर अप्रतिहतगते हे अग्ने अस्वप्नजः अस्वपन्तः । जागरूका इति यावत् । तरणयः सततगमनस्वभावा आपद्भ्यस्तारका वा सुशेवाः सुसुखाः अतन्द्रासः अतन्द्रा अनलसाः सर्वदोद्युक्ताः अवृकाः अहिंसकाः अश्रमिष्ठाः अश्रान्ततमाः सध्र्यञ्चः परस्परं संगताः पायवः रक्षकाः ते तादृशाः तव रश्मयः निषद्य अस्मद्यज्ञे निषण्णा भूत्वा नः अस्मान् पान्तु रक्षन्तु ॥ अस्वप्नजः । स्वपितृषोर्नजिङ्प्रत्ययः । मध्येऽवग्रहश्छान्दसः ॥ सध्र्यञ्चः । सहपूर्वादञ्चतेः क्विप् । ‘सहस्य सध्रिः’ इति सहस्य सध्र्यादेशः । सध्र्यादेशस्य अन्तोदात्तत्वनिपातनात् यणादेशे ( उदात्तस्वरितयो:०’ इति स्वरितत्वम् । अमूर। ‘मुह वैचित्ये ‘। निष्ठायां ढकारस्य रेफश्छान्दसः । यद्वा । ‘ मृङ् बन्धने’ । औणादिकः रक् ॥

भट्टभास्कर-टीका

12अथ द्वादशी - अस्वप्नज इति ॥ अस्वप्नशीलः । ‘स्वपितृषो र्नजिङ्’ । पदकारानभिमतत्वात् अन्यथा व्याख्यायते - स्वप्नजन्मानो न भवन्तीत्यस्वप्नजाः । ‘सुपां सुलुक् इति जसस्स्वादेश’, सतिशिष्टत्वादव्ययपूवापदप्रकृतिस्वरत्वम् । तरणयः दुरिततरणहेतवः । तरतेरनिप्रत्ययः । सुशेवाः सुसुखाः । ‘शेवायह्वा’ इति निपात्यते । अतन्द्रासः अलसत्वरहिताः । ‘आज्जसेरसुक्’ । अवृकाः वृकत्वं हिंस्रत्वं तद्रहिताः । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । अश्रमिष्ठाः अखेदयितृतमाः । श्रमु खेदे, तृजन्तात् ‘तुश्छन्दसि’ इतीष्ठन्, ‘तुरिष्ठेमेयस्सु’ इति लोपः ।

एवंस्वभावास्ते तादृशाः हे अग्ने तव पायवः जगत्पालनशीलाः रश्मयः । ‘कृपावाजि’ इत्युण्प्रत्ययः । सध्रियञ्चस्सहाञ्चन्तः सम्भूयकारिणः । ‘सहस्य सध्रिः’ । निषद्य अस्मद्यज्ञे निषीदन्तो भूत्वा सर्वे अस्मद्यज्ञमागत्य त्वयि निषण्णास्त्वामुद्दीपयन्तः नः अस्मान् पान्तु रक्षन्तु । हे अमूर अमोहनशील । मुर्छा मोहसमुच्छ्राययोः, क्विपि ‘राल्लोपः’, ततो मत्वर्थीयोऽप्रत्ययः । मोहनशीलो मूरः ततोन्योऽमूरः । यद्वा - मूङ् बन्धने, औणादिको रक् । अमूर अबन्धनीय अनिग्राह्य । यद्वा - अमतेरूरन् प्रत्ययः । अमूरः अप्रतिहतगतिः ॥

Wilson

English translation:

“All-wise Agni, may your protecting (rays), unslumbering alert, propitious, unslothful, benignant, unwearied, co-operating, having taken their plural ce (at this sacrifice), preserve us.”

Jamison Brereton

These—sleepless, (ever) advancing, very friendly, tireless, never wearying, keeping the wolf away—
these protectors of yours, directed to a single goal—let them settle down and protect us, o ungullible Agni.

Griffith

Knowing no slumber, speedy and propitious, alert and ever friendly, most unwearied,
May thy protecting powers, unerring Agni, taking their places here, combined, preserve us.

Oldenberg

May those guardians of thine, infallible Agni, sitting down together protect us, the never sleeping, onward-pressing, kind, unwearied ones, who keep off the wolf, who never tire.

Keith

Sleepless, speedy, propitious,
Unwearied, never hostile, unexhausted,
May thy guardians, O Agni, taking their places here united,
Protect us, O wise one.

Geldner

Nie schläfrig, durchhaltend, freundlich, unverdrossen, den Wolf abwehrend, am wenigsten ermüdend sollen diese deine Schutzgeister sich vereint niederlassen und uns schützen, du besonnener Agni.

Grassmann

Die schlummerlosen, eilenden, getreuen, sehr holden, die nicht rasten, noch ermüden, Die Hüter, Agni, die du hast, die mögen zusammen sitzend uns behüten, weiser.

Elizarenkova

Бессонные, преодолевающие (трудности), очень дружелюбные,
Неутомимые, устраняющие лютого врага, меньше всех изнуряющиеся,
Эти защитники твои, о Агни проницательный,
Усевшись вместе, пусть защитят нас!

अधिमन्त्रम् (VC)
  • रक्षोहाऽग्निः
  • वामदेवो गौतमः
  • निचृत्पङ्क्ति
  • पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः

अब प्रजाजनों के रक्षा विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (अमूर) मूर्खतादि दोषों से रहित (अग्ने) अग्नि सदृश तेजस्विन् राजन् ! जो जन (तव) आपके (अस्वप्नजः) जागनेवाले (तरणयः) युवावस्था को प्राप्त (अतन्द्रासः) आलस्य (अवृकाः) चोरीपन (अश्रमिष्ठाः) और अत्यन्त थकावट से रहित (सुशेवाः) उत्तम सुखयुक्त (सध्र्यञ्चः) साथ जाने वा सत्कार करने और (पायवः) पालन करनेवाले नौकर हैं (ते) वे (निषद्य) निरन्तर स्थित होकर (नः) हम लोगों की (पान्तु) रक्षा करें ॥१२॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - प्रजाजनों को चाहिये कि सदा ही राजा को उपदेश देवें कि हे राजन् ! आपकी ओर से हम लोगों की रक्षा में धार्मिक आलस्यरहित पुरुषार्थी और बलवान् जन नियत हों ॥१२॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे अमूराऽग्ने राजन् ! ये तवाऽस्वप्नजस्तरणयोऽतन्द्रासोऽवृका अश्रमिष्ठाः सुशेवाः सध्र्यञ्चः पायवो भृत्याः सन्ति ते निषद्य नः पान्तु ॥१२॥

दयानन्द-सरस्वती (हि) - विषयः

अथ प्रजाजनरक्षाविषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अस्वप्नजः) जागरूकाः (तरणयः) तरुणावस्थां प्राप्ताः (सुशेवाः) सुसुखाः (अतन्द्रासः) अनलसाः (अवृकाः) अस्तेनाः (अश्रमिष्ठाः) अतिशयेनाऽश्रान्ताः श्रमरहिताः (ते) (पायवः) पालकाः (सध्र्यञ्चः) ये सहाञ्चन्ति ते (निषद्य) नितरां स्थित्वा (अग्ने) (तव) (नः) अस्मान् (पान्तु) रक्षन्तु (अमूर) मूढतादिदोषरहित ॥१२॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - प्रजाजनैः सदैव राजोपदेष्टव्यो हे राजन् ! भवतः सकाशादस्माकं रक्षणे धार्मिका अनलसा पुरुषार्थिनो बलवन्तो जना नियताः सन्त्विति ॥१२॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - भावार्थ-प्रजेने सदैव राजाला उपदेश द्यावा, की हे राजा! तू आमचे रक्षण करण्यासाठी धार्मिक, आळशी नसले०ल्या, पुरुषार्थी व बलवान लोकांची नेमणूक कर ॥ १२ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

+++(उतथ्यभार्या ममता। तस्याम् बृहस्पतिर् रेतः स्थापयितुम् अयतत। तत्र वर्तमानं रेतोऽन्तरम् आक्षिपत्। बृहस्पतिर् अशपत् तम् दीर्घतमा भवेति। सोऽ अग्नेर् अलभत चक्षुः।)+++

ये᳓ पाय᳓वो मामतेय᳓न् ते अग्ने
प᳓श्यन्तो अन्ध᳓न् दुरिता᳓द् अ᳓रक्षन्
रर᳓क्ष ता᳓न्त् सुकृ᳓तो विश्व᳓-वेदा
दि᳓प्सन्त +++(=दम्भितुकामाः)+++ इ᳓द् रिप᳓वो ना᳓ ह देभुः᳓ +++(=परिभवन्ति)+++ ॥

013 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रक्षोहाग्निः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

ये᳓ पाय᳓वो मामतेयं᳓ ते अग्ने
प᳓श्यन्तो अन्धं᳓ दुरिता᳓द् अ᳓रक्षन्
रर᳓क्ष ता᳓न् सुकृ᳓तो विश्व᳓वेदा
दि᳓प्सन्त इ᳓द् रिप᳓वो ना᳓ह देभुः

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M;; repeated line
genre M;; repeated line
genre M;; repeated line
genre M;; repeated line


Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

māmateyám ← māmateyá- (nominal stem)
{case:ACC, gender:M, number:SG}

pāyávaḥ ← pāyú- (nominal stem)
{case:NOM, gender:M, number:PL}

te ← tvám (pronoun)
{case:DAT, number:SG}

yé ← yá- (pronoun)

andhám ← andhá- (nominal stem)
{case:ACC, gender:M, number:SG}

árakṣan ← √rakṣⁱ- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:ACT}

duritā́t ← duritá- (nominal stem)
{case:ABL, gender:N, number:SG}

páśyantaḥ ← √paś- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:ACT}

rarákṣa ← √rakṣⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

sukŕ̥taḥ ← sukŕ̥t- (nominal stem)
{case:ACC, number:PL}

tā́n ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:PL}

viśvávedāḥ ← viśvávedas- (nominal stem)
{case:NOM, gender:M, number:SG}

áha ← áha (invariable)

debhuḥ ← √dabh- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}

dípsantaḥ ← √dabh- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:ACT, mood:DES}

ít ← ít (invariable)

ná ← ná (invariable)

ripávaḥ ← ripú- (nominal stem)
{case:NOM, gender:M, number:PL}

पद-पाठः

ये । पा॒यवः॑ । मा॒म॒ते॒यम् । ते॒ । अ॒ग्ने॒ । पश्य॑न्तः । अ॒न्धम् । दुः॒ऽइ॒तात् । अर॑क्षन् ।
र॒रक्ष॑ । तान् । सु॒ऽकृतः॑ । वि॒श्वऽवे॑दाः । दिप्स॑न्तः । इत् । रि॒पवः॑ । न । अह॑ । दे॒भुः॒ ॥

पद-पाठः-तैत्तिरीयः

ये । पा॒यवः॑ । मा॒म॒ते॒यम् । ते॒ । अ॒ग्ने॒ । पश्य॑न्तः । अ॒न्धम् । दु॒रि॒तादिति॑ दुः-इ॒तात् । अर॑क्षन्न् ॥ र॒रक्ष॑ । तान् । सु॒कृत॒ इति॑ सु-कृतः॑ । वि॒श्ववे॑दा॒ इति॑ वि॒श्व-वे॒दाः॒ । दिप्स॑न्तः । इत् । रि॒पवः॑ । न । ह॒ । दे॒भुः॒ ॥

Hellwig Grammar
  • yeyad
  • [noun], nominative, plural, masculine
  • “who; which; yat [pronoun].”

  • pāyavopāyavaḥpāyu
  • [noun], nominative, plural, masculine
  • “guard; pāyu [word]; Pāyu.”

  • māmateyaṃmāmateyammāmateya
  • [noun], accusative, singular, masculine
  • “Dīrghatamas.”

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • paśyantopaśyantaḥpaś
  • [verb noun], nominative, plural
  • “see; view; watch; meet; observe; think of; look; examine; behold; visit; understand.”

  • andhaṃandhamandha
  • [noun], accusative, singular, masculine
  • “blind; andha [word]; andha; blind; complete; dark.”

  • duritādduritātdurita
  • [noun], ablative, singular, neuter
  • “danger; sin; difficulty; difficulty; evil.”

  • arakṣanrakṣ
  • [verb], plural, Imperfect
  • “protect; guard; keep; stow; govern; guard; spare; accumulate.”

  • rarakṣarakṣ
  • [verb], singular, Perfect indicative
  • “protect; guard; keep; stow; govern; guard; spare; accumulate.”

  • tāntad
  • [noun], accusative, plural, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • sukṛtosu
  • [adverb]
  • “very; well; good; nicely; beautiful; su; early; quite.”

  • sukṛtokṛtaḥkṛt
  • [noun], accusative, plural, masculine
  • “causing; making; performing; promotive; producing; doing; acting; writing; transforming; effecting.”

  • viśvavedāviśva
  • [noun]
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • viśvavedāvedāḥvedas
  • [noun], nominative, singular, masculine
  • “knowledge.”

  • dipsantadipsantaḥdips√dabh
  • [verb noun], nominative, plural

  • id
  • [adverb]
  • “indeed; assuredly; entirely.”

  • ripavoripavaḥripu
  • [noun], nominative, plural, masculine
  • “enemy; arivarga; Ripu; foe.”

  • nāhana
  • [adverb]
  • “not; like; no; na [word].”

  • nāhaaha
  • [adverb]
  • “aha [word]; indeed.”

  • debhuḥdabh
  • [verb], plural, Perfect indicative

सायण-भाष्यम्

अत्रेयमैतिहासिकी कथा । उचथ्यस्य गर्भिणीं ममतानामधेयां भार्यां तदनुजो बृहस्पतिरचकमत । तस्यां रेत आधित्सुं तं बृहस्पतिं गर्भस्थं रेतोऽब्रवीत् । रेतोऽत्र मा सैक्षीरहमत्र वसामीति । एवमुक्तो बृहस्पतिर्निरुद्धरेतस्कः सन् रेतरूपं गर्भं शशाप । जात्यन्धत्वरूपं दीर्घं तमः प्राप्नुहीति । ततस्तस्यां दीर्घतमा अजनिष्ट। स चान्ध्यपरिहारायाग्निं रतुत्वा चक्षुरलभतेति । तदिदानीमाह । हे अग्ने पायवः रक्षकाः पश्यन्तः अन्धोऽयमिति कृपादृष्ट्या पश्यन्तः ते तव ये रश्मयः मामतेयं ममतायाः पुत्रम् अन्धं चक्षुर्हीनं दीर्घतमसं दुरितात् आन्ध्यलक्षणात् शापात् अरक्षन् चक्षु प्रदानेनापालयन् । विश्ववेदाः विश्वप्रज्ञो भवान् सुकृतः शोभनं चक्षुष्प्रदानादिकर्म कृतवतः तान् रश्मीन् ररक्ष आदरेण परिगृह्य पालयति। तेषां परिग्रहसिद्धि: अभिधीयते । दिप्सन्त इत् दम्भितुं परिभवितुम् इच्छन्त एव रिपवः शत्रव एनं दीर्घतमसं नाह देभुः नैव परिभवन्ति खलु ॥ मामतेयम्। ममताया अपत्यमित्यर्थे ‘स्त्रीभ्यो ढक्’। दिप्सन्तः । ‘ दम्भु दम्भे’।’ सनीवन्तर्ध° ’ इत्यादिना इडभावः । ‘ दम्भ इच्च’ इति इकारः । देभुः । ‘ श्रन्थिग्रन्थिदम्भिष्वञ्जीनामुपसंख्यानम् ’ ( का. ६. १ ) इति लिटः कित्त्वादुपधालोपः ॥ ᳓

भट्टभास्कर-टीका

13अथ त्रयोदशी - ये पायव इति ॥ हे अग्ने ते तव ये पायवो रश्मयः अन्धं चक्षुर्हीनं मामतेयं, ममता नाम काचिदृषिपत्नी तस्या अपत्यं मामतेयम् । ‘स्त्रीभ्यो ढक्’ । तमन्धं पश्यन्तः दुरितात् श्वभ्रपतनलक्षणात् अरक्षन् प्रकाशप्रदानेन दुरितहीनमकुर्वन् । दुरितशब्दः प्रवृद्धादिर्द्रष्टव्यः । तन्रश्मीन् सुकृतस्तथा शोभनं कर्म कृतवतः विश्ववेदास्त्वं विश्वस्य वेदयिता । ‘गतिकारकयोरपि’ इत्यसुन् । विश्वानि वेदांसि वा यस्य तादृशो भवान् तान्रक्ष, रक्षतेः परोक्षे लिट्, आदरेण परिगृह्य पालयेति । ‘छन्दसि लुङ्लङ्लिटः’ इति लिट् । परोक्ष एव ररक्ष विशेषेण परिजग्राहेत्यर्थः ।
कथं ररक्षेत्याह - यथा रिपवो राक्षसादयः दिप्सन्त इत् रिपुं दम्भितुमिच्छन्तः परिभवितुमिच्छन्त एव सन्तः नैव देभुः न परिबभूवुः । ततः प्रभृति तथा ररक्षेति । दम्भेस्सनि ‘सनीवन्तर्ध’ इतीडागमः । ‘दम्भ इच्च’ इतीकारः । भषभावश्छान्दसः । दम्भेर्हल्ग्रहणस्य जातिवाचित्वात् ‘हलन्ताच्च’ इति सनः कित्त्वम् । देभुरिति ‘दम्भेश्चोति वक्तव्यम्’ इति लिटः कित्त्वादुपधालोपः । दभिः प्रकृत्यन्तरं वा । ‘अन्येषामपि दृश्यते’ इति नशब्दस्य संहितायां दीर्घत्वम् ॥

Wilson

English translation:

“Those your protecting (rays), Agni, which, beholding (what had chanced), preserved the blind son of Mamatā from misfortune; he, knowing all things, cherished those benevolent (rays), and his enemies, intending to destroy him, wrought him no harm.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Preserved the blind son: an allusion to the legend of the birth of Dīrghatamas, who recovered his sight by worshipping Agni; cherished those benevolent rays: rakṣa tān sukṛto viśvavedā: viśvavedas may apply to Agni or to Dīrghatamas; by adding, bhavān, your honour, the term seems to apply to Agni

Jamison Brereton

Agni, your protectors who, watching, guarded blind Māmateya [=Dīrghatamas] from ill-faring,
those of good (ritual) action has the possessor [/knower] of everything [=Agni] guarded. Though wishing to damage, the cheats did no
damage at all.

Jamison Brereton Notes

Since the yé of the rel. clause in ab has no obvious referent in the main clause of cd, it is tempting to connect ab with the preceding verse (12), and start a new sentence with 13cd – esp. because 13a yé pāyávaḥ matches 12c té pāyavaḥ so exactly. But vs. 13 is a repeated vs. (= I.147.3), and so must be interpreted as selfcontained. It is also likely, because of the reference to Māmateya, i.e., Dīrghatamas, that I.147, a Dīrghatamas hymn, is its source, and the vs. has been inserted here secondarily because of the match between the two pāyávaḥ phrases (so Bloomfield, Rig-Veda Repetitions ad I.147.3). On the relationship between the relative and main clauses in this vs. see comm. ad I.147.3.

Griffith

Thy guardian rays, O Agni, when they saw him, preserved blind Mamateya from affliction.
Lord of all riches, he preserved the pious: the fees who fain would harm them did no mischief

Oldenberg

1 Thy guardians, O Agni, who seeing have saved the blind son of Mamatâ from distress—He the possessor of all wealth has saved them who have done good deeds. The impostors, though trying to deceive, could not deceive.

Keith

In Thy guardians, O Agni, who seeing,
Guarded from ill the blind Mamateya,
He of all wisdom guarded these kindly ones;
The foes that were fain to deceive could not [5] deceive.

Geldner

Deine Schutzgeister, o Agni, die selbst sehend den blinden Mamateya vor Fehltritt bewahrten, mit denen hat der Allwissende diese Frommen bewahrt. Die schadenfrohen Schelme haben wirklich nicht geschadet.

Grassmann

Den Mamateja schützten deine Hüter, den Blinden sehend, vor Gefahr, o Agni; Der alles weiss, beschützte hier die Frommen; auch schadensücht’ge Feinde schaden nimmer.

Elizarenkova

(Те) твои защитники, о Агни, (сами) зрячие,
Кто спас от беды слепого Маматею, –
(С их помощью) всеведущий (Агни) спас таких благочестивых.
И хотят навредить мошенники, но не (могут) навредить.

अधिमन्त्रम् (VC)
  • रक्षोहाऽग्निः
  • वामदेवो गौतमः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर राजविषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के सदृश राजन् ! (ये) जो (पायवः) रक्षा करनेवाले (ते) आपके (मामतेयम्) ममता सम्बन्धी कार्य को (पश्यन्तः) देखते हुए (दुरितात्) दुष्ट आचरण वा दुःख से (अन्धम्) नेत्ररहित को जैसे वैसे हम लोगों की (अरक्षन्) रक्षा करते हैं (तान्) उन (सुकृतः) उत्तम कर्म करनेवालों का (विश्ववेदाः) सम्पूर्ण विषय जाननेवाले होते हुए आप (ररक्ष) पालन करो, जिससे (इत्) ही (दिप्सन्तः) पाखण्ड की इच्छा करते हुए (रिपवः) शत्रु लोग हम लोगों के (न, अह) निग्रह करने में न (देभुः) दम्भ करें ॥१३॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे राजन् ! जो लोग अपने के सदृश अन्य जनों और आपके पदार्थ को जानते हैं और अपने आत्मा के सदृश अन्यों की रक्षा करते हैं, वे ही यथार्थवक्ता आपके सेवक हों, जिससे कि शत्रुओं का बल नष्ट होवे ॥१३॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे अग्ने ! ये पायवस्ते मामतेयं पश्यन्तो दुरितादन्धमिवाऽस्मानरक्षंस्तान् सुकृतो विश्ववेदाः संस्त्वं ररक्ष येनेदेव दिप्सन्तो रिपवोऽस्मान्नाऽह देभुः ॥१३॥

दयानन्द-सरस्वती (हि) - विषयः

पुना राजविषयमाह

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (ये) (पायवः) रक्षकाः (मामतेयम्) मम भावो ममता तस्या इदम् (ते) तव (अग्ने) पावकवद्राजन् (पश्यन्तः) प्रेक्षमाणाः (अन्धम्) नेत्ररहितमिव (दुरितात्) दुष्टाचाराद् दुःखाद्वा (अरक्षन्) रक्षन्ति (ररक्ष) पालय (तान्) (सुकृतः) उत्तमकर्मकारिणः (विश्ववेदाः) समग्रवित् (दिप्सन्तः) दम्भमिच्छन्तः (इत्) एव (रिपवः) शत्रवः (न) (अह) विनिग्रहे (देभुः) दभ्नुयुः ॥१३॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे राजन् ! ये स्वकीयमिवाऽन्येषाम्भवतश्च पदार्थं जानन्ति। आत्मानमिवान्यान् रक्षन्ति त एवाऽऽप्ता तव भृत्याः सन्तु येन शत्रूणां बलं विनश्येत् ॥१३॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे राजा ! जे लोक आपल्या प्रमाणेच इतरांच्या पदार्थांना जाणतात व आपल्या आत्म्याप्रमाणेच इतरांचे रक्षण करतात तेच विद्वान तुझे सेवक व्हावेत. ज्यामुळे शत्रूंचे बल नष्ट होईल. ॥ १३ ॥

प्रतिज्ञानुवर्तनम्

भास्करोक्त-विनियोगः

14अथ चतुर्दशी - त्वयेति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓या वयँ᳓ सधन्य᳓स् त्वो᳓तास् +++(त्वया +अविताः=रक्षिताः)+++
त᳓व प्र᳓णीत्या ऽश्याम वा᳓जा᳓न् +++(=अन्नानि)+++ ।
उभा᳓ +++(पाप-)+++शँ᳓सा +++(शत्रू)+++ सूदय सत्य-ताते+++(=तते)+++
ऽनुष्ठुया᳓+++(=अनुक्रमेण)+++ कृणुह्य् अ-ह्रयाण +++(=अह्रीः)+++ ॥

014 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रक्षोहाग्निः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

त्व᳓या वयं᳓ सधनि᳓यस् तुवो᳓तास्
त᳓व प्र᳓णीति अशियाम वा᳓जान्
उभा᳓ शं᳓सा सूदय सत्यताते
अनुष्ठुया᳓ कृणुहि अह्रयाण

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M
genre M


Morph
sadhanyàḥ ← sadhanī́- (nominal stem)
{case:NOM, gender:M, number:PL}

tváyā ← tvám (pronoun)
{case:INS, number:SG}

tvótāḥ ← tvóta- (nominal stem)
{case:NOM, gender:M, number:PL}

vayám ← ahám (pronoun)
{case:NOM, number:PL}

aśyāma ← √naś- 1 (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:ACT}

práṇītī ← práṇīti- (nominal stem)
{case:INS, gender:F, number:SG}

táva ← tvám (pronoun)
{case:GEN, number:SG}

vā́jān ← vā́ja- (nominal stem)
{case:ACC, gender:M, number:PL}

śáṁsā ← śáṁsa- (nominal stem)
{case:ACC, gender:M, number:DU}

satyatāte ← satyatāti- (nominal stem)
{case:VOC, gender:F, number:SG}

sūdaya ← √sūd- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

ubhā́ ← ubhá- (pronoun)
{case:ACC, gender:M, number:DU}

ahrayāṇa ← áhrayāṇa- (nominal stem)
{case:VOC, gender:M, number:SG}

anuṣṭhuyā́ ← anuṣṭhuyā́ (invariable)

kr̥ṇuhi ← √kr̥- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

पद-पाठः

त्वया॑ । व॒यम् । स॒ऽध॒न्यः॑ । त्वाऽऊ॑ताः । तव॑ । प्रऽनी॑ती । अ॒श्या॒म॒ । वाजा॑न् ।
उ॒भा । शंसा॑ । सू॒द॒य॒ । स॒त्य॒ऽता॒ते॒ । अ॒नु॒ष्ठु॒या । कृ॒णु॒हि॒ । अ॒ह्र॒या॒ण॒ ॥

पद-पाठः-तैत्तिरीयः

त्वया॑ । व॒यम् । स॒ध॒न्य॑ इति॑ सध-न्यः॑ । त्वोताः॑ । तव॑ । प्रणी॒तीति॒ प्र-नी॒ती॒ । अ॒श्या॒म॒ । वाजान्॑ ॥ उ॒भा । शँसा॑ । सू॒द॒य॒ । स॒त्य॒ता॒त॒ इति॑ सत्य-ता॒ते॒ । अ॒नु॒ष्ठु॒या । कृ॒णु॒हि॒ । अ॒ह्र॒या॒ण॒ ॥

Hellwig Grammar
  • tvayātvad
  • [noun], instrumental, singular
  • “you.”

  • vayaṃvayammad
  • [noun], nominative, plural
  • “I; mine.”

  • sadhanyassadhanyaḥsadhanī
  • [noun], nominative, plural, masculine

  • tvotāstvotāḥtvota
  • [noun], nominative, plural, masculine

  • tavatvad
  • [noun], genitive, singular
  • “you.”

  • praṇītypraṇītīpraṇīti
  • [noun], instrumental, singular, feminine
  • “guidance; guidance.”

  • aśyāma
  • [verb], plural, Aorist optative
  • “get; reach; enter (a state).”

  • vājānvāja
  • [noun], accusative, plural, masculine
  • “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”

  • ubhāubh
  • [noun], accusative, dual, masculine
  • “both(a).”

  • śaṃsāśaṃsa
  • [noun], accusative, dual, masculine
  • “praise; śaṃs; recitation.”

  • sūdayasūday√sūd
  • [verb], singular, Present imperative
  • “kill; promote.”

  • satyatātesatyatāti
  • [noun], vocative, singular, feminine

  • ’nuṣṭhuyāanuṣṭhuyā
  • [adverb]

  • kṛṇuhykṛṇuhikṛ
  • [verb], singular, Present imperative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • ahrayāṇa
  • [noun], vocative, singular, masculine
  • “audacious.”

सायण-भाष्यम्

अह्रयाण अलज्जितगमन। ‘अह्रयाणोऽह्रीतयानः’ (निरु.५.१५) इति यास्कः । तादृश हे अग्ने वयं स्तोतारः त्वया सधन्यः त्वत्प्रसादात् समानधनाः त्वोताः त्वया रक्षिता वयं तव प्रणीती प्रणीत्या तव प्रेरणेनानुज्ञया वाजान् अन्नानि अश्याम प्राप्नुयाम । हे सत्यताते । सत्यं तनोतीति वा सत्यं तायते यस्मिन्निति वा सत्यतातिः । हे सत्यताते शंसा पापानां शंसितारौ उभा उभौ आसन्नविप्रकृष्टौ शत्रू सूदय जहि। अनुष्ठुया अनुक्रमेण कृणुहि । अस्मिन् सूक्ते प्रतिपादितमर्थं कुरु ॥ सधन्यः । धनमेषामस्तीति छन्दसीवनिपौ° ’ इति ईप्रत्ययः।’ एरनेकाचः’ इति यण् । उदात्तस्वरितयोः’ इति स्वरितत्वम् । अनुष्ठुया । “ अपदुःसुषु स्थः ’ इति विधीयमानः कुप्रत्ययो बहुलवचनादनुपूर्वस्यापि भवति। ‘सुपां सुलुक्°’ इति तृतीयाया याजादेशः । अह्रयाण । ‘ ह्री लज्जायाम् । ‘ बहुलं छन्दसि ’ इति शपः श्लुभावाभावः ।“ अनित्यमागमशासनम् ’ इति मुगभावः ॥ ᳓

भट्टभास्कर-टीका

हे अग्ने त्वया सधन्यस्सहनेतारो वयं त्वं च वयं च सहाभिमतानि नयाम इत्यर्थः । ‘सधमादस्थयोः’ इति विधीयमानस्सधादेशो व्यत्ययेनात्रापि भवति, ‘एरनेकाचः’ इति यणादेशः, ‘उदात्तस्वरितयोर्यणः’ इति विभक्तिस्स्वर्यते । त्वोताः त्वया ऊताः रक्षिताः । छान्दसी रूपसिद्धिः, ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम्, बहुविकारत्वादनवग्रहः । तव प्रणीती प्रणीत्या प्रणयनेन अनुज्ञानेन परिचरणेन वा वयं वाजानन्नानि अश्याम भक्षीमहि । ‘सुपां सुलुक्’ इति प्रणीतिशब्दात्परस्यास्तृतीयायाः पूर्वसवर्णदीर्घत्वम्, ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । किञ्च - हे सत्यताते सत्य??रिन् । व्यत्ययेन तातिल्प्रत्ययः ।
यद्वा - तनोतेः क्तिनि छान्दसं दीर्घत्वम् । हे सत्यविस्तार । उभा शंसा उभौ शंस ?? आयौ अर्थावैहिकमामुष्मिकं च । ‘सुपां सुलुक्’ इत्यकारः । तौ सूदय आनय । षूद क्षरणे । अनुष्ठुया अनुक्रमेण स्थितौ कृणुहि कुरु । ‘उतश्च प्रत्ययाच्छन्दो वा वचनम्’ इति हेर्लुगभावः । अनुक्रमेण स्थापनमनुष्ठु । ‘अपदुस्सुषु स्थः’ इति विधीयमानः कुप्रत्ययो व्यत्ययेनानुपूर्वादपि भवति, सूषामादित्वात् षत्वम्, ततः परस्यास्तृतीयायाः ‘सुपां सुलुक्’ इति याजादेशः । अह्रयाण भक्तानां अह्रेपयितः, विजयकरत्वात् । जिह्रेतेर्व्यत्ययेन शपो लुक्, ‘छन्दस्युभयथा’ इति चानशः आर्धधातुकत्वात् ङित्त्वाभावः । व्यत्ययेन वा शपि मुगभावः ॥

Wilson

English translation:

Agni, who are freed from shame, by you we are made opulent; by you we are protected; may we, through your guidance, attain abundant food; cherisher of truth, destroy both (sorts of calumniators), those who are nigh, those who are far off, and in due course fulfil (our desires).”

Jamison Brereton

Through you may we—companions aided by you, in your guidance— attain prizes.
Sweeten both of the lauds [=for both the gods and the patrons], you who are reality itself. Set them in order, you unabashed one.

Griffith

Aided by thee with thee may we be wealthy, may we gain strength with thee to guide us onward.
Fulfil the words of both, O Ever Truthful: straightway do this, thou God whom power emboldens.

Oldenberg

In thy companionship we dwell, protected by thee. Under thy guidance let us acquire gain. Accomplish both praises 1, O (thou who art the) truth! Do so by thy present power, O fearless one!

Keith

In unison with thee, aided by thee,
Under thy leadership, let us gain strength;
Fulfil both our desires, O truthful one;
Perform it forthwith, O fearless one.

Geldner

Mit dir in Gütergemeinschaft lebend, von dir unterstützt möchten wir unter deiner Führung die Siegerpreise erlangen. Bring doppeltes Lob fertig, du Wahrmacher, mach´s ordnungsgemäß, du Beherzter!

Grassmann

Von dir geleitet mögen wir erlangen, von dir geschützt, durch deine Führung, Schätze; Erfülle beide Wünsche, o wahrhaft’ger, und thue das, o Kühner, stehnden Fusses.

Elizarenkova

Ведомые (все) вместе тобою, поддержанные тобою,
Под твоим водительством пусть достигнем мы наград!
Приготовь обе хвалы, о воплощение истины!
Поступай по обычаю, о решительный!

अधिमन्त्रम् (VC)
  • रक्षोहाऽग्निः
  • वामदेवो गौतमः
  • स्वराड्बृहती
  • मध्यमः
दयानन्द-सरस्वती (हि) - विषयः

फिर प्रकारान्तर से राजविषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (अह्रयाण) लज्जारहित (सत्यताते) सत्य आचरण करनेवाले राजन् ! आप (अनुष्ठुया) अनुकूलता से (उभा) दोनों (शंसा) प्रशंसाओं को (कृणुहि) करिये और दोषों का (सूदय) नाश करिये जिससे (त्वया) आपके साथ (त्वोताः) आपने पालन किये और (सधन्यः) तुल्य धनवाले हुए (वयम्) हम लोग (तव) आपकी (प्रणीती) उत्तम नीति से (वाजान्) विज्ञान और धन आदि पदार्थों को (अश्याम) प्राप्त होवें ॥१४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - सब नौकरों को चाहिये कि राजा के साथ मित्रता और राजा को चाहिये कि सब लोगों के साथ पिता के सदृश वर्त्ताव रखे और परस्पर एक-दूसरे की प्रशंसा कर दोषों का नाश और सत्यनीति का प्रचार करके जिस-जिस कर्म्म में लज्जा हो, उस उसका त्यागकर चक्रवर्त्ती राज्य का भोग करें ॥१४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे अह्रयाण सत्यताते राजंस्त्वमनुष्ठुया उभा शंसा कृणुहि दोषान्त्सूदय यतस्स्वया सह त्वोताः सधन्यः सन्तो वयं तव प्रणीती वाजानश्याम ॥१४॥

दयानन्द-सरस्वती (हि) - विषयः

पुनः प्रकारान्तरेण राजविषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (त्वया) स्वामिना राज्ञा (वयम्) (सधन्यः) समानं धनं विद्यते येषान्ते। अत्र मत्वर्थीय ईप्। (त्वोताः) त्वया पालिताः (तव) (प्रणीती) प्रकृष्टनीत्या (अश्याम) प्राप्नुयाम (वाजान्) विज्ञानधनादिपदार्थान् (उभा) उभौ (शंसा) प्रशंसे (सूदय) क्षरय (सत्यताते) सत्याचरक (अनुष्ठुया) आनुकूल्येन (कृणुहि) (अह्रयाण) लज्जारहित ॥१४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - सर्वैर्भृत्यै राज्ञा सह मित्रता राज्ञा च सर्वैस्सह पितृवद्भावो रक्षणीयोऽन्येषां प्रशंसां कृत्वा दोषान् विनाश्य सत्यनीतिं प्रचार्य्य यत्र यत्र कर्मणि लज्जा स्यात्तत्तद्विहाय साम्राज्यं भोक्तव्यम् ॥१४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - सर्व सेवकांनी राजाबरोबर मैत्री करावी व राजाने सर्व लोकांबरोबर पित्याप्रमाणे वर्तन करावे व परस्पर एकमेकांची प्रशंसा करून दोषांचा नाश व सत्य नीतीचा प्रचार करून ज्या ज्या कर्माची लाज वाटेल, त्याचा त्याग करून चक्रवर्ती राज्य भोगावे. ॥ १४ ॥

भास्करोक्त-विनियोगः

15।अथ पञ्चदशी - अयेति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अया᳓ +++(=अनया)+++ ते अग्ने समि᳓धा विधेम
प्र᳓ति स्तो᳓मँ शस्य᳓मानं गृभाय +++(=गृहाण)+++ ।
द᳓हा ऽश᳓सो +++(=अशंसो)+++ रक्ष᳓सः पाह्य् अ᳓स्मा᳓न्
द्रुहो᳓ निदो᳓ +++(=निन्दकात्)+++ मित्र-महो +++(=मित्रपूज्य!)+++ अवद्या᳓त्+++(=परिवादात्)+++ ॥

015 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रक्षोहाग्निः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

अया᳓ ते अग्ने समि᳓धा विधेम
प्र᳓ति स्तो᳓मं शस्य᳓मानं गृभाय
द᳓हाश᳓सो रक्ष᳓सः पाहि᳓ अस्मा᳓न्
द्रुहो᳓ निदो᳓ मित्रमहो अवद्या᳓त्

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M
genre M


Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

ayā́ ← ayám (pronoun)
{case:INS, gender:F, number:SG}

samídhā ← samídh- (nominal stem)
{case:INS, gender:F, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

vidhema ← √vidh- (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:ACT}

gr̥bhāya ← √gr̥bhⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

práti ← práti (invariable)

śasyámānam ← √śaṁs- (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:PASS}

stómam ← stóma- (nominal stem)
{case:ACC, gender:M, number:SG}

aśásaḥ ← aśás- (nominal stem)
{case:ACC, gender:M, number:PL}

asmā́n ← ahám (pronoun)
{case:ACC, number:PL}

dáha ← √dah- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

pāhí ← √pā- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

rakṣásaḥ ← rakṣás- (nominal stem)
{case:ACC, gender:M, number:PL}

avadyā́t ← avadyá- (nominal stem)
{case:ABL, gender:N, number:SG}

druháḥ ← drúh- (nominal stem)
{case:ABL, gender:F, number:SG}

mitramahaḥ ← mitrámahas- (nominal stem)
{case:VOC, gender:M, number:SG}

nidáḥ ← níd- (nominal stem)
{case:ABL, gender:F, number:SG}

पद-पाठः

अ॒या । ते॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वि॒धे॒म॒ । प्रति॑ । स्तोम॑म् । श॒स्यमा॑नम् । गृ॒भा॒य॒ ।
दह॑ । अ॒शसः॑ । र॒क्षसः॑ । पा॒हि । अ॒स्मान् । द्रु॒हः । नि॒दः । मि॒त्र॒ऽम॒हः॒ । अ॒व॒द्यात् ॥

पद-पाठः-तैत्तिरीयः

अ॒या । ते॒ । अ॒ग्ने॒ । स॒मिधेति॑ सम्-इधा॑ । वि॒धे॒म॒ । प्रतीति॑ । स्तोम॑म् । श॒स्यमा॑नम् । गृ॒भा॒य॒ ॥
दह॑ । अ॒शसः॑ । र॒क्षसः॑ । पा॒हि । अ॒स्मान् । द्रु॒हः । नि॒दः । मि॒त्र॒म॒ह॒ इति॑ मित्र-म॒हः॒ । अ॒व॒द्यात् ॥

Hellwig Grammar
  • ayāidam
  • [noun], instrumental, singular, feminine
  • “this; he,she,it (pers. pron.); here.”

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • samidhāsamidh
  • [noun], instrumental, singular, feminine
  • “firewood; kindling; fuel; fire.”

  • vidhemavidh
  • [verb], plural, Present optative
  • “worship; offer.”

  • prati
  • [adverb]
  • “towards; per; regarding; respectively; according to; until.”

  • stomaṃstomamstoma
  • [noun], accusative, singular, masculine
  • “hymn; Stoma; stoma [word].”

  • śasyamānaṃśasyamānamśaṃs
  • [verb noun], accusative, singular
  • “recommend; tell; praise; approve; communicate; recite; commend; bode; name; agree.”

  • gṛbhāyagṛbhāy√grah
  • [verb], singular, Present imperative
  • “accept.”

  • dahāśasodahadah
  • [verb], singular, Present imperative
  • “burn; cauterize; heat; burn; burn; burn; roast; blaze; burn; distress; destroy.”

  • dahāśasoaśasaḥaśas
  • [noun], accusative, plural, masculine

  • rakṣasaḥrakṣas
  • [noun], accusative, plural, masculine

  • pāhypāhi
  • [verb], singular, Present imperative
  • “protect; govern.”

  • asmānmad
  • [noun], accusative, plural
  • “I; mine.”

  • druhodruhaḥdruh
  • [noun], ablative, singular, feminine
  • “deception; druh; misrepresentation; fraudulence; offense; injury.”

  • nidonidaḥnid
  • [noun], ablative, singular, feminine
  • “derision; scoffer; contempt.”

  • mitramahomitra
  • [noun], masculine
  • “friend; Mitra; mitra [word]; sun; ally.”

  • mitramahomahasmahat
  • [noun], vocative, singular, masculine
  • “large; eminent; great; loud; dangerous; strong; long; high; much(a); mahant [word]; ample; very; great; adult; important; dark; high; abundant; violent; remarkable; mighty; big; long.”

  • avadyātavadya
  • [noun], ablative, singular, neuter
  • “shame; censure; blame.”

सायण-भाष्यम्

हे अग्ने अया अनया समिधा दीप्त्या स्तुत्या ते त्वां विधेम परिचरेम । अस्माभिः शस्यमानम् इमं स्तोमं स्तोत्रं प्रति गृभाय प्रतिगृहाण । अशसः । शंसन्ति स्तुवन्तीति शसः स्तोतारः । ते न भवन्तीत्यशसो नृशंसाः । तान् रक्षसः दह भस्मसात्कुरु। हे मित्रमहः मित्रैः पूजनीय हे अग्ने द्रुहः द्रोग्धुः निदः निन्दकात् अवद्यात् परिवादाच्च अस्मान् पाहि रक्ष । गृभाय । ग्रहेर्लोटि ‘ छन्दसि शायजपि ’ इति श्नः शायच् । हृग्रहोर्भः । पाहि । वाक्यभेदात् अनिघातः । निदः । णिदि कुत्सायाम् । क्विप् । आगमशासनस्यानित्यत्वान्नुमभावः । ‘ सावेकाचः’ इति विभक्तेरुदात्तत्वम् । अवद्यात् । ‘ अवद्यपण्य° ’ इति यत् । ययतोश्चातदर्थे । ( पा. सू. ६. २. १५६ ) इत्यन्तोदात्तत्वम् । मित्रमहो अवद्यात् इत्यत्र संहितायाम् । अव्यादवद्यात्’ इति एङः प्रकृतिभावः ॥ २५ ॥

भट्टभास्कर-टीका

हे अग्ने अया अनया समिधा समिन्धनेन समिधेनीकृत्येन । इदमस्तृतीयायाः ‘सुपां सुलुक्’ इति याजादेशः, त्यदाद्यत्वम्, ‘अतो गुणे’ इति पररूपत्वं, हलि लोपश्च, ‘अनाप्यकः’ इति व्तत्ययेन न प्रवर्तते । ते त्वां विधेम परिचरेम । पूर्ववत्कर्मणस्सम्प्रदानत्वम् । स्तोमं स्तोत्रं शस्यमानं प्रतिगृभाय प्रतिगृहाण । ‘छन्दसि शायजपि’ इति शायच्, ‘हृग्रहोर्भः’ इति भत्वम् । अशसः अशंसनान् अस्मद्द्वेष्यान् । बहुव्रीहिर्वा । अशेर्वा असुन् । व्यापकान् हिंसाद्वारा । रक्षसः राक्षसान् । पूर्ववन्नब्विषयत्वाभावादाद्युदात्तत्वाभावः ।
किञ्च - अस्मान् पाहि रक्ष । कस्मादित्याः - द्रुहः द्रोहात्परकर्तृकात् । निदः । निन्दतेः क्विप् । निन्दायाः परकर्तृकायाः । अवद्यात् परिवादात् परकर्तृकात् अस्मान्पाहि । उभयत्र ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम्, तृतीयस्य तु ‘अवद्यपण्य’ इति निपातनात्, ‘ययतोश्चादर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । हे मित्रमहः सर्वस्य मित्रवदुपकारकं महस्तेजो यस्य स तादृशः ॥

भट्टभास्कर-टीका

18अथ याज्याविकल्पः, उपहोमार्था वा - उतेति ॥ स्वानासः स्वनं कुर्वन्तः हवि प्रक्षेपसमुपजनितमहाशब्दाः । स्वनतेर्व्यत्ययेन कर्तरि घञ्, आज्जसेरसुक्, ‘कर्षात्वतः’ इत्यन्तोदात्तत्वम् । इर्दृशाः अग्नेः रश्मयः उत दिवि दिव्यपि सन्तु सर्वत्राकाशे विजृम्भन्ताम् । छान्दसं षत्वम् । ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वम् । स्वाना इति रश्मिनामेति केचित् । तिग्मायुधाः तीक्ष्णायुधाः । तिग्मं तैक्ष्ण्यमेव आयुधस्थानीयं शत्रूणां वेधकत्वात् येषां ते तव रश्मयः दिव्यपि प्रकाशन्ताम् । किमर्थं । रक्षसे हन्तवै रक्षोवधार्थम् । हन्तेः कृत्यार्थे भावे तवैप्रत्ययः । प्ररुजन्तु प्रकर्षेण भक्षयन्तु हवींषि । रुजो भङ्गे तौदादिकः । यद्वा - भामाः क्रोधनशीलाः रुत्वा[क्त्वा?] अस्य रश्मयः प्ररुजन्तु प्रकर्षेण रक्षःप्रभृत्यपि भक्षयन्तु । मदेचित् मदायैवास्य । यद्वा - उपमानार्थश्चिच्छब्दः । महस्मे [मध्याह्ने] वर्तमानस्यास्य यथा रश्मयो विश्वं दहन्ति, एवमस्मद्रिपून् भक्षयन्त्यिति । एवमस्मद्विषये प्रवर्तमानमेनमग्निं अदेवीः अदेव्यः आसुर्यः परिबाधः पीडाः न वरन्ते न वृण्वन्तु न प्राप्नुवन्तु । वृञो वृङो वा व्यत्ययेन शप् । परिपूर्वाद्बाधतेस्सम्पदादिलक्षणस्स्त्रियां क्विप् कृदुत्तरपदप्रकृतिस्वरत्वम् ॥

Wilson

English translation:

“May we propitiate you, Agni, by this fuel; accept the praise that is recited by us; consume the unadoring rākṣasas; you are to be honoured by (your) friends, preserve us from the reproach of the oppressor and the reviler.”

Jamison Brereton

With this kindling stick we would do honor to you, Agni. Accept the praise being chanted.
Burn the demons who lack chant; protect us from deceit, from scorn, from calumny, o you with Mitra’s might.

Griffith

O Agni, with this fuel will we serve thee; accept the laud we sing to thee with favour
Destroy the cursing Raksasas: preserve us, O rich in friends, from guile and scorn and slander.

Oldenberg

May we worship thee, O Agni, with this log of wood. Accept the hymn of praise which we recite. Burn down those who curse us, the sorcerers. Protect us, O (god) who art great like Mitra, from guile, from revilement, and from disgrace.

Keith

With this fuel, O Agni, will we serve thee;
Accept the song of praise recited for thee;
Burn those that revile, the Raksases; guard us,
From the foe, the reviler, O rich in friends, from blame.

Geldner

Mit diesem Brennholz wollen wir dir dienen, o Agni, nimm das vorgetragene Loblied entgegen, verbrenn die unerwünschten Unholde, schütz uns vor Trug, vor Tadel, vor Unehre, du wie Mitra Geehrter!

Grassmann

Wir huld’gen, Agni, dir mit diesem Brennholz, empfange du das ausgesprochne Loblied; Die bösen Geister brenne, uns beschütze vor Trug und Hass, vor Schmach, o freundereicher.

Elizarenkova

Мы хотим почтить тебя, о Агни, этими дровами.
Прими произносимую хвалу!
Спали проклятых ракшасов! Защити нас
От обмана, хулы, позора, о великий (, как) Митра!

अधिमन्त्रम् (VC)
  • रक्षोहाऽग्निः
  • वामदेवो गौतमः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (अग्ने) राजन् ! हम लोग (ते) आपकी (अया) इस प्राप्त हुई (समिधा) उत्तम प्रकार प्रदीप्त नीति के साथ जिस (शस्यमानम्) प्रशंसा करने योग्य प्रशंसित होते हुए को (स्तोमम्) प्रशंसनीय (विधेम) करें उसको आप (प्रति, गृभाय) ग्रहण कीजिये (अशसः) निन्दक (रक्षसः) दुष्टाचरणों को (दह) भस्म कीजिये और (द्रुहः) द्रोह से युक्त (निदः) निन्दा करनेवाले का (अवद्यात्) अधर्माचरण से (मित्रमहः) मित्रों का सत्कार करनेवाले (अस्मान्) हम लोगों का (पाहि) पालन कीजिये ॥१५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो राजा और मन्त्री जन परस्पर सम्मत हुए नम्रता से राज्य की शिक्षा करते हैं तो द्वेष निन्दा और अधर्माचरण से अलग होकर उत्तम शिष्टाचार करते हुए दशों दिशाओं में यश को फैलाते हैं ॥१५॥ इस सूक्त में राजा और प्रजा के कृत्य वर्णन करने से इस सूक्त के अर्थ की इस से पूर्व सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये ॥१५॥ यह चतुर्थ मण्डल में चतुर्थ सूक्त और तीसरे अष्टक में पच्चीसवाँ वर्ग और चौथा अध्याय समाप्त हुआ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे अग्ने ! वयं तेऽया समिधा यं शस्यमानं स्तोमं विधेम तं त्वं प्रति गृभाय। अशसो रक्षसो दह द्रुहो निदोऽवद्याच्च मित्रमहोऽस्माञ्च पाहि ॥१५॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अया) अनया प्राप्तया (ते) तव (अग्ने) राजन् (समिधा) सम्यक् प्रदीप्तया नीत्या सह (विधेम) कुर्य्याम (प्रति) (स्तोमम्) प्रशंसनीयम् (शस्यमानम्) प्रशंसितव्यम् (गृभाय) गृहाण (दह) (अशसः) अस्तवकान् (रक्षसः) दुष्टाचारान् (पाहि) (अस्मान्) (द्रुहः) द्रोहयुक्ताः (निदः) निन्दकात् (मित्रमहः) ये मित्राणि महन्ति सत्कुर्वन्ति (अवद्यात्) अधर्माचरणात् ॥१५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - यदि राजाऽमात्याः सम्मतः सन्तो विनयेन राज्यं शासति तर्हि द्रोहनिन्दाऽधर्माचरणात् पृथग्भूत्वा शिष्टाचाराः सन्तो दशसु दिक्षु कीर्तिं प्रसारयन्तीति ॥१५॥ अत्र राजप्रजाकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥१५॥ इति चतुर्थे मण्डले चतुर्थं सूक्तं तृतीयाष्टके पञ्चविंशो वर्गश्चतुर्थोऽध्यायश्च समाप्तः ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जे राजे व मंत्री परस्पर संमतीने नम्र बनून राज्य शासन चालवितात ते द्वेष, निंदा व अधर्माचरण यापासून पृथक होऊन उत्तम शिष्टाचारयुक्त बनून दशदिशांमध्ये यश पसरवितात. ॥ १५ ॥

भास्करोक्त-विनियोगः

16अथ पुरोनुवाक्या - रक्षोहणमिति ॥ ‘रक्षोघ्नी याज्यानुवाक्ये भवतः’ इति च ब्राह्मणम् ।

विश्वास-प्रस्तुतिः ...{Loading}...

रक्षोह᳓णं वाजि᳓नम् +++(=अन्नवन्तम्)+++ आ᳓ऽऽजिघर्मि +++(=दीपयामि)+++
मित्रं᳓ प्र᳓थिष्ठम् +++(=विस्तीर्णतमम्)+++ उ᳓पयामि श᳓र्म ।
शि᳓शानो +++(=तीक्ष्णः)+++ अग्निः᳓ क्र᳓तुभिस् स᳓मिद्धस्
स᳓ नो दि᳓वा स᳓ रिषः᳓ +++(=हिंसकात्)+++ पातु न᳓क्तम् ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्नी रक्षोहा
  • ऋषिः - पायुः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

रक्षोह᳓णं वाजि᳓नम् आ᳓ जिघर्मि
मित्र᳓म् प्र᳓थिष्ठम् उ᳓प यामि श᳓र्म
शि᳓शानो अग्निः᳓ क्र᳓तुभिः स᳓मिद्धः
स᳓ नो दि᳓वा स᳓ रिषः᳓ पातु न᳓क्तम्

Vedaweb annotation

Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons


Pāda-label
popular
popular
popular
popular;; repeated line


Morph
ā́ ← ā́ (invariable)

jigharmi ← √ghr̥- 1 (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}

rakṣoháṇam ← rakṣohán- (nominal stem)
{case:ACC, gender:M, number:SG}

vājínam ← vājín- (nominal stem)
{case:ACC, gender:M, number:SG}

mitrám ← mitrá- (nominal stem)
{case:ACC, gender:M, number:SG}

práthiṣṭham ← práthiṣṭha- (nominal stem)
{case:ACC, gender:N, number:SG}

śárma ← śárman- (nominal stem)
{case:ACC, gender:N, number:SG}

úpa ← úpa (invariable)

yāmi ← √yā- 2 (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}

agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}

krátubhiḥ ← krátu- (nominal stem)
{case:INS, gender:M, number:PL}

sámiddhaḥ ← √idh- 1 (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

śíśānaḥ ← √śā- ~ śī- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

dívā ← dívā (invariable)

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

náktam ← nákt- (nominal stem)
{case:ACC, gender:F, number:SG}

pātu ← √pā- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

riṣáḥ ← ríṣ- (nominal stem)
{case:ABL, gender:F, number:SG}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

पद-पाठः

र॒क्षः॒ऽहन॑म् । वा॒जिन॑म् । आ । जि॒घ॒र्मि॒ । मि॒त्रम् । प्रथि॑ष्ठम् । उप॑ । या॒मि॒ । शर्म॑ ।
शिशा॑नः । अ॒ग्निः । क्रतु॑ऽभिः । सम्ऽइ॑द्धः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥

Hellwig Grammar
  • rakṣohaṇaṃrakṣaḥrakṣas
  • [noun], neuter
  • “Rākṣasa; Rakṣas; rakṣas [word].”

  • rakṣohaṇaṃhaṇamhan
  • [noun], accusative, singular, masculine
  • “killing; curative; destroying; removing; māraka; stabbing.”

  • vājinamvājin
  • [noun], accusative, singular, masculine
  • “horse; bird; seven; hero; achiever; aphrodisiac.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • jigharmighṛ
  • [verb], singular, Present indikative

  • mitrammitra
  • [noun], accusative, singular, masculine
  • “friend; Mitra; mitra [word]; sun; ally.”

  • prathiṣṭhamprathiṣṭha
  • [noun], accusative, singular, neuter

  • upa
  • [adverb]
  • “towards; on; next.”

  • yāmi
  • [verb], singular, Present indikative
  • “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”

  • śarmaśarman
  • [noun], accusative, singular, neuter
  • “protection; protective covering; refuge; joy.”

  • śiśānośiśānaḥśā
  • [verb noun], nominative, singular
  • “sharpen; whet; strengthen.”

  • agniḥagni
  • [noun], nominative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • kratubhiḥkratu
  • [noun], instrumental, plural, masculine
  • “yajña; decision; plan; deliberation; intelligence; Kratu; will; kratu [word]; desire; resoluteness; ritual.”

  • samiddhaḥsamindh√indh
  • [verb noun], nominative, singular
  • “kindle; blaze.”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nonaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • divā
  • [adverb]
  • “by day; divā [indecl.].”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • riṣaḥriṣ
  • [noun], accusative, plural, feminine
  • “injury; riṣ; damage.”

  • pātu
  • [verb], singular, Present imperative
  • “protect; govern.”

  • naktamnakta
  • [noun], accusative, singular, neuter
  • “night; night.”

सायण-भाष्यम्

रक्षोहणं रक्षसां हन्तारं वाजिनं बलवन्तमन्नवन्तं वाग्निम् जिघर्मि घृतेनाजुहोमि। किंच मित्रं यजमानानां सखायं प्रथिष्ठ पृथुतमं शर्म गृहम् उप यामि उपगच्छामि । सोऽयम् अग्निः शिशानः ज्वालास्तीक्ष्णीकुर्वन् क्रतुभिः कर्मपरैः पुरुषैः समिद्धः प्रज्वालितो भवति ॥ किंच सः अग्निः नः अस्मान् दिवा अहनि रिषः हिंसकाद्रक्षसः पातु रक्षतु । सः अग्निः नक्तं रात्रौ चास्मान्रक्षसः पातु ॥

भट्टभास्कर-टीका

रक्षसां हन्तारं वाजिनमन्नवन्तं अन्नस्य दातारं आजिघर्मि अनेन हविषा आभिमुख्येन सन्दीपयामि । घृ क्षरणदीप्त्योः । जुहोत्यादिकः, ‘बहुलं छन्दसि’ इत्यभ्यासस्येत्वम् । मित्रं सर्वेषां सुहृद्रूपम् । मिदो दुःखात्त्रायकं प्रथिष्ठं पृथुतमम् । यद्वा - प्रथयितृतमम् । प्रथितृशब्दात् ‘तुश्छन्दसि’ इतीष्ठन्, ‘तुरिष्ठेमेयस्सु’ इति तृलोपः । इर्दृशं तं शर्म शरणमुपयामि रक्षकं भने । स च क्रतुभिः समिद्धः प्रज्ञाभिस्सन्दीप्तः अस्मदीयैर्वा यजनैः प्रवृद्धतेजाः । अग्निः अङ्गनादिगुणयुक्तः । शिशानस्तीक्ष्णीभवन् । श्यतेर्व्यत्ययेनात्मनेपदम्म् ‘बहुलं छन्दसि’ इति शपश्श्लुः, अभ्यासस्येत्वम्, ‘अभ्यस्तानामादिः’ आद्युदात्तत्वम् । इर्दृशस्स नः अस्मान् दिवा च नक्तं च रिषः पातु दुःखाद्रक्षतु । हिंस्राद्वा रक्षःप्रभृतेरस्मान्पातु । पूर्ववद्विभक्तेरुदात्तत्वम् ‘सावेकाचः’ इति ॥

Wilson

English translation:

“I offer clarified butter to the powerful Agni, the slayer of rākṣasas, I approach the most spaciousdwelling, the friend (of worshippers); Agni sharpening (his flames) is kindled by pious men; may he guard us frommalignant spirits by day and by night.”

Jamison Brereton

The demon-smiter—I besprinkle him as the prizewinner; I beseech him as Mitra [/an ally] for broadest shelter.
Agni, sharpening himself, fully kindled according to (our) intentions— let him protect us from harm by day, let him by night.

Griffith

I BALM with oil the mighty Raksas-slayer; to the most famous Friend I come for shelter
Enkindled, sharpened by our rites, may Agni protect us in the day and night from evil.

Keith

I touch the steed that slayeth the Raksases;
I go for shelter to the friend most spreading;
May Agni, enkindled with our offerings, sharpening (his dart)
Guard us by day, [6] from harm and by night. ᳓

Geldner

Den Unholdtöter, den sieghaften, besprenge ich; bei dem Freunde suche ich breiteste Zuflucht. Agni soll sich scharf machen, nachdem er mit bestimmten Absichten entzündet ist, und uns am Tag und des Nachts vor Schaden bewahren!

Grassmann

Ich netz’ mit Fett den starken Rakschastödter und geh den Freund um ausgedehnten Schutz an, Geschärft ist Agni und mit Kraft entzündet; er schütze Tag und Nacht uns vor Verderben.

Elizarenkova

Убийцу ракшасов победоносного я кроплю (жиром).
Как к другу обращаюсь я за самой широкой защитой.
Агни заострен (и) с умением зажжен.
Пусть защищает он нас днем (и) ночью от вреда!

अधिमन्त्रम् (VC)
  • अग्नी रक्षोहा
  • पायुः
  • त्रिष्टुप्
  • धैवतः

रक्षोहाग्निध्यानम्

गरणि-विस्तारः

17अथ याज्या - वीति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ ज्यो᳓तिषा बृहता᳓ भात्य् अग्नि᳓र्
आवि᳓र् वि᳓श्वानि कृणुते महित्वा᳓ +++(=महत्तया)+++ ।
प्रा᳓देवीर् माया᳓स् सहते दुरे᳓वाः +++(=दुरत्ययः)+++
शि᳓शीते +++(=तीक्ष्णीकरोति)+++ शृ᳓ङ्गे र᳓क्षसे विनि᳓क्षे +++(=विनाशाय)+++ ॥

009 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वृशो जानः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

वि᳓ ज्यो᳓तिषा बृहता᳓ भाति अग्नि᳓र्
आवि᳓र् वि᳓श्वानि कृणुते महित्वा᳓
प्रा᳓देवीर् मायाः᳓ सहते दुरे᳓वाः
शि᳓शीते शृ᳓ङ्गे र᳓क्षसे विनि᳓क्षे

Vedaweb annotation

Strata
Strophic on metrical evidence alone


Pāda-label
genre M
genre M
genre M
genre M


Morph
agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}

bhāti ← √bhā- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

br̥hatā́ ← br̥hánt- (nominal stem)
{case:INS, gender:N, number:SG}

jyótiṣā ← jyótis- (nominal stem)
{case:INS, gender:N, number:SG}

ví ← ví (invariable)

āvís ← āvís (invariable)

kr̥ṇute ← √kr̥- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

mahitvā́ ← mahitvá- (nominal stem)
{case:INS, gender:N, number:SG}

víśvāni ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}

ádevīḥ ← ádeva- (nominal stem)
{case:ACC, gender:F, number:PL}

durévāḥ ← duréva- (nominal stem)
{case:ACC, gender:F, number:PL}

māyā́ḥ ← māyā́- (nominal stem)
{case:ACC, gender:F, number:PL}

prá ← prá (invariable)

sahate ← √sah- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

rákṣase ← rákṣas- (nominal stem)
{case:DAT, gender:N, number:SG}

śíśīte ← √śā- ~ śī- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

śŕ̥ṅge ← śŕ̥ṅga- (nominal stem)
{case:ACC, gender:N, number:DU}

viníkṣe ← √nikṣ- (root)
{case:DAT, number:SG}

पद-पाठः

वि । ज्योति॑षा । बृ॒ह॒ता । भा॒ति॒ । अ॒ग्निः । आ॒विः । विश्वा॑नि । कृ॒णु॒ते॒ । म॒हि॒ऽत्वा ।
प्र । अदे॑वीः । मा॒याः । स॒ह॒ते॒ । दुः॒ऽएवाः॑ । शिशी॑ते । शृङ्गे॒ इति॑ । रक्ष॑से । वि॒ऽनिक्षे॑ ॥

Hellwig Grammar
  • vi
  • [adverb]
  • “apart; away; away.”

  • jyotiṣājyotis
  • [noun], instrumental, singular, neuter
  • “light; star; luminosity; fire; jyotis [word]; digestion; planet; light; sunlight.”

  • bṛhatābṛhant
  • [noun], instrumental, singular, neuter
  • “Bṛhant.”

  • bhātybhātibhā
  • [verb], singular, Present indikative
  • “look; shine; show; look like; glitter; reflect.”

  • agniragniḥagni
  • [noun], nominative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • āvirāvis
  • [adverb]
  • “openly; obviously.”

  • viśvāniviśva
  • [noun], accusative, plural, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • kṛṇutekṛ
  • [verb], singular, Present indikative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • mahitvāmahitva
  • [noun], accusative, plural, neuter
  • “greatness.”

  • prādevīrpra
  • [adverb]
  • “towards; ahead.”

  • prādevīradevīḥadeva
  • [noun], accusative, plural, feminine
  • “godless.”

  • māyāḥmāyā
  • [noun], accusative, plural, feminine
  • “magic trick; Māyā; deception; illusion; māyā [word]; disguise; trick.”

  • sahatesah
  • [verb], singular, Present indikative
  • “endure; overcome; habituate.”

  • durevāḥdureva
  • [noun], accusative, plural, feminine
  • “malevolent; bad; crabbed.”

  • śiśīteśā
  • [verb], singular, Present indikative
  • “sharpen; whet; strengthen.”

  • śṛṅgeśṛṅga
  • [noun], accusative, dual, neuter
  • “peak; horn; tusk; śṛṅga [word].”

  • rakṣaserakṣas
  • [noun], dative, singular, neuter
  • “Rākṣasa; Rakṣas; rakṣas [word].”

  • vinikṣevinikṣ√nikṣ
  • [verb noun]

सायण-भाष्यम्

अयम् अग्निः ज्योतिषा तेजसा बृहता महता वि भाति विशेषेण दीप्यते । अथ तथाभूतः सन् महित्वा स्वमहत्त्वेन विश्वानि सर्वाणि पदार्थजातानि आविः कृणुते प्रकटीकरोति । एवं प्रवृद्धोऽग्निः अदेवीः अदेवनशीला आसुरीः मायाः दुरेवाः दुःखगमनाः’ प्र सहते अभिभवति । किंच शिशीते तीक्ष्णीकरोति । शृङ्गे शृङ्गाणि । शृङ्गसदृशीर्हिंसिका वा ज्वालाः शिशीते तीक्ष्णीकरोति । किमर्थम् । रक्षसे विनिक्षे रक्षसो नाशाय । ‘निश्यति श्रङ्गे रक्षसो विनिक्षणनाय’ (निरु. ४. १८) इति यास्कः ॥

भट्टभास्कर-टीका

अयमग्निर्बृहता ज्योतिषा महता तेजसा इत्थंभूतस्सन् विभाति विशेषेणाभाति महाननेनास्मदीयेन हविषा । ‘बृहन्महतोरुपसङ्ख्यानम्’ इति तृतीयाया उदात्तत्वम् । किन्च - विश्वानि महित्वा माहात्म्यानि । ‘शेश्छन्दसि’ इति लोपः । आविष्कृणुते आविष्कुर्वीत । किन्च - अदेवीः अदेवनशीलाः आसुरीर्मायाः प्रसहते अभिभवेत् । दुरेवाः दुःखेनैतव्याः दुष्प्रधर्षा इति यावत् । एतेर्वः, कृदुत्तरपदप्रकृतिस्वरत्वम् ।

किञ्च - शृङ्गे शृङ्गस्थानीये प्रधाने आत्मीये ज्वाले शिशीते तीक्ष्णीकुरुते । श्यतेर्व्यत्ययेन आत्मनेपदम्, पूर्ववच्छपश्श्लुः, इत्वं चाभ्यासस्य, ‘तास्यनुदात्तेत्’ इति लसार्वधातुकानुदात्तत्वे ‘अनुदात्ते च’ इत्याद्युदात्तत्वम् । किमर्थं शिशीत इत्याह – रक्षसे विनिक्षे रक्षोविनाशार्थम् । पूर्ववत्कर्मणस्सम्प्रदानत्वम् । विनिक्षे - णिक्षि चुम्बने ‘कृत्यार्थे तवैकेन्’ इति केन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम् । ज्वालाभ्यां रक्षसश्चुम्बनं दाह एव, रक्षसो दाहार्थं शृङ्गे तीक्ष्णीकरोत्विति । यद्वा - णिजेश्शोधनकर्मणः ‘तुमर्थे सेसेनसे’ इति क्सेप्रत्ययः, ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम् । सनि वा व्यत्ययेन गुणाभावः । विनाशे बन्धनं विनाशनमेव ॥


अयमग्निर्बृहता ज्योतिषा विभाति विशेषेण भायात् अनेन हविषा ।
किञ्च - विश्वानि महित्वा माहात्म्यानि आविष्कृणुते आविष्कुर्वीत । किञ्च - अदेवीः अदेवनशीला आसुरीर्मायाः दुरेवाः दुष्प्रधर्षाः प्रसहते अभिभवेत् । किञ्च - शृङ्गे शृङ्गस्थानीये आत्मीये प्रधाने ज्वाले शत्रूणां वा हिंसके शिशीते तीक्ष्णीकुर्यात् । किमर्थम्? रक्षसे विनिक्षे रक्षसो विनाशार्थं ज्वालाभ्यां निक्षणं चुम्बनं शोधनं वा विनाशोवेति स एव महानुभावोग्निरनुगमनदोषमुपशमय्यात्मनः परापतितं ज्योतिरवरुन्ध इति ॥


अयमग्निः बृहता ज्योतिषा विभाति विविधं भाति, विश्वानि च महित्वा माहात्म्यानि आविष्कृणुते आविष्करोति । अदेवीः अदेवन शीलाश्च दुरेवाः दुःखेन गन्तव्या मायाः प्रसहते प्रकर्षेणाभिभवतु । किं च – शृङ्गे गोशृङ्गस्थानीये ज्वाले शिशीते निशितीकरोति । किमर्थं? रक्षसो विनाशार्थमिति ॥

Wilson

English translation:

Agni, shines with great and varied radiance; he makes all things manifest by his might; he overcomes undivine malignant delusions; he sharpens his horns for the destruction of the rākṣasas.”

Jamison Brereton

Agni radiates in all directions with a lofty light. He makes visible all things by his greatness.
He overpowers ungodly guiles and those of evil ways. He sharpens his horns to pierce through the demonic.

Griffith

Agni shines far and wide with lofty splendour, and by his greatness makes all things apparent.
He conquers godless and malign enchantments, and sharpens both his horns to gore the Raksas.

Oldenberg

Agni shines with mighty light; he makes all things visible by his greatness. He conquers godless, wicked wiles. He sharpens his two horns in order to pierce the Rakshas.

Keith

With great radiance Agni shineth;
All things doth he reveal by his might;
He overcometh godless and malign enchantments
He sharpeneth his horns to pierce the Raksas.

Geldner

In hohem Licht erstrahlt Agni, er offenbart alle seine Kräfte mit Macht. Er überwindet die gottlosen böswilligen Blendwerke, er wetzt die Hörner, um den bösen Geist aufzuspießen.

Grassmann

Mit hellem Glanze strahlet weithin Agni, in Herrlichkeit macht alles offenbar er; Bezwingt die bösen, gottverhassten Listen, er wetzt die Hörner, das Gespenst zu tilgen.

Elizarenkova

Агни ярко сверкает высоким светом.
(Своим) величием он делает видными все (предметы).
Он осиливает безбожные колдовские чары, действующие во зло.
Он оттачивает рога, чтобы пронзить ракшаса.

अधिमन्त्रम् (VC)
  • अग्निः
  • कुमार आत्रेयो वृषो वा जार उभौ वा
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे विद्वानो ! जैसे (अग्निः) सूर्य्य आदि रूप से अग्नि (बृहता) बड़े (ज्योतिषा) प्रकाश से (महित्वा) बड़प्पन से (विश्वानि) सम्पूर्ण वस्तुओं को (आविः) प्रकट (कृणुते) करता है (वि) विशेष करके (भाति) प्रकाशित होता है और (प्र) अत्यन्त (सहते) सहन करता है (शृङ्गे) शृङ्ग के निमित्त (रक्षसे) दुष्टों के विनाश के लिये (विनिक्षे) वा अन्य विनाश के लिये (शिशीते) प्रतापयुक्त होता है, वैसे (दुरेवाः) दुष्ट प्राप्त कराने रूप कर्मवाली (अदेवीः) अशुद्ध (मायाः) छल आदि से युक्त बुद्धियों को सब प्रकार से वारण कीजिये ॥९॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्य अन्धकार का वारण कर और प्रकाश को उत्पन्न करके भय का निवारण करता है, वैसे ही विद्वान् जन घोर अज्ञान का निवारण करके विद्यारूप सूर्य को उत्पन्न करके सब के आत्माओं को प्रकाशित करें ॥९॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे विद्वांसो ! यथाग्निर्बृहता ज्योतिषा महित्वा विश्वान्याविष्कृणुते वि भाति प्र सहते शृङ्गे रक्षसे विनिक्षे शिशीते तथा दुरेवा अदेवीर्मायाः सर्वतो निवारयतः ॥९॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्विद्वद्विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (वि) विशेषेण (ज्योतिषा) प्रकाशेन (बृहता) महता (भाति) प्रकाशते (अग्निः) सूर्यादिरूपेण पावकः (आविः) प्राकट्ये (विश्वानि) सर्वाणि वस्तूनि (कृणुते) (महित्वा) महत्त्वेन (प्र) (अदेवीः) अशुद्धाः (मायाः) छलादियुक्ता प्रज्ञाः (सहते) (दुरेवाः) दुष्टमेवः प्रापणं कर्म यासां ताः (शिशीते) तेजते (शृङ्गे) (रक्षसे) दुष्टानां विनाशाय (विनिक्षे) विनाशाय ॥९॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्योऽन्धकारं निवार्य प्रकाशं जनयित्वा भयं निवारयति तथैव विद्वांसो गाढमज्ञानं निवार्य विद्यार्कं जनयित्वा सर्वेषामात्मनः प्रकाशयन्तु ॥९॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - भावार्थ -या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा सूर्य अंधकाराचे निवारण करून प्रकाश उत्पन्न करतो व भयाचे निवारण करतो तसेच विद्वान लोक गाढ अज्ञानाचे निवारण करून विद्यारूपी सूर्य उत्पन्न करून सर्व आत्म्यांमध्ये प्रकाश करवितात. ॥ ९ ॥

भास्करोक्त-विनियोगः

18अथ याज्याविकल्पः, उपहोमार्था वा - उतेति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ स्वाना᳓सो +++(=सस्वनाः)+++ दिवि᳓ षन्त्व् अग्ने᳓स्
तिग्मा᳓युधा र᳓क्षसे ह᳓न्तवा᳓ उ ।
+++(अस्माकं)+++ म᳓दे +++(=मदाय)+++ चिद् अस्य प्र᳓रुजन्ति +++(=भञ्जन्ति (अदेवीः))+++ भा᳓मा+++(=भासः रश्मयो)+++,
न᳓ वरन्ते +++(अस्मान्)+++ परिबा᳓धो अ᳓देवीः ॥

010 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - कुमार आत्रेयो वृशो वा जान उभौ वा
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

उत᳓ स्वाना᳓सो दिवि᳓ षन्तु अग्ने᳓स्
तिग्मा᳓युधा र᳓क्षसे ह᳓न्तवा᳓ उ
म᳓दे चिद् अस्य प्र᳓ रुजन्ति भा᳓मा
न᳓ वरन्ते परिबा᳓धो अ᳓देवीः

Vedaweb annotation

Strata
Strophic on metrical evidence alone


Pāda-label
genre M
genre M
genre M
genre M


Morph
agnéḥ ← agní- (nominal stem)
{case:GEN, gender:M, number:SG}

diví ← dyú- ~ div- (nominal stem)
{case:LOC, gender:M, number:SG}

santu ← √as- 1 (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}

svānā́saḥ ← svāná- (nominal stem)
{case:NOM, gender:M, number:PL}

utá ← utá (invariable)

hántavaí ← √han- (root)
{case:DAT, number:SG}

rákṣase ← rákṣas- (nominal stem)
{case:DAT, gender:N, number:SG}

tigmā́yudhāḥ ← tigmā́yudha- (nominal stem)
{case:NOM, gender:M, number:PL}

u ← u (invariable)

asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

bhā́māḥ ← bhā́ma- 1 (nominal stem)
{case:NOM, gender:M, number:PL}

cit ← cit (invariable)

máde ← máda- (nominal stem)
{case:LOC, gender:M, number:SG}

prá ← prá (invariable)

rujanti ← √ruj- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

ádevīḥ ← ádeva- (nominal stem)
{case:NOM, gender:F, number:PL}

ná ← ná (invariable)

paribā́dhaḥ ← paribā́dh- (nominal stem)
{case:NOM, gender:F, number:PL}

varante ← √vr̥- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}

पद-पाठः

उ॒त । स्वा॒नासः॑ । दि॒वि । स॒न्तु॒ । अ॒ग्नेः । ति॒ग्मऽआ॑युधाः । रक्ष॑से । हन्त॒वै । ऊं॒ इति॑ ।
मदे॑ । चि॒त् । अ॒स्य॒ । प्र । रु॒ज॒न्ति॒ । भामाः॑ । न । व॒र॒न्ते॒ । प॒रि॒ऽबाधः॑ । अदे॑वीः ॥

Hellwig Grammar
  • uta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • svānāsosvānāsaḥsvāna
  • [noun], nominative, plural, masculine
  • “sound.”

  • dividiv
  • [noun], locative, singular, masculine
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

  • ṣantvṣantuas
  • [verb], plural, Present imperative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • agnesagneḥagni
  • [noun], genitive, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • tigmāyudhātigma
  • [noun]
  • “sharp; pointed; fiery.”

  • tigmāyudhāāyudhāāyudha
  • [noun], instrumental, singular, neuter
  • “weapon; āyudha [word].”

  • rakṣaserakṣas
  • [noun], dative, singular, neuter
  • “Rākṣasa; Rakṣas; rakṣas [word].”

  • hantavāhantavaihan
  • [verb noun]
  • “kill; cure; māray; remove; destroy; hit; injure; damage; destroy; paralyze; hurt; forge; beat; cut off; stop; overwhelm; kick; hunt; affect; strike; hammer; love; obstruct; shoot.”

  • u
  • [adverb]
  • “ukāra; besides; now; indeed; u.”

  • mademada
  • [noun], locative, singular, masculine
  • “drunkenness; mada; estrus; excitement; sexual arousal; alcohol; musth; mad; mada; ecstasy; pride; drink; joy; arrogance; vivification.”

  • cidcit
  • [adverb]
  • “even; indeed.”

  • asyaidam
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • pra
  • [adverb]
  • “towards; ahead.”

  • rujantiruj
  • [verb], plural, Present indikative
  • “break; bend.”

  • bhāmābhāmāḥbhāma
  • [noun], nominative, plural, masculine
  • “wrath; anger.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • varantevṛ
  • [verb], plural, Present indikative
  • “surround; accompany; cover; cover; obstruct; check; spread; envelop.”

  • paribādhoparibādhaḥparibādh
  • [noun], nominative, plural, feminine

  • adevīḥadeva
  • [noun], nominative, plural, feminine
  • “godless.”

सायण-भाष्यम्

उत अपि च अग्नेः स्वानासः शब्दं कुर्वाणा ज्वालाः दिवि षन्तु द्युलोके प्रादुर्भवन्तु । किमर्थम् । तिग्मायुधाः तीक्ष्णायुधस्थानीया ज्वालाः । रक्षसे हन्तवा रक्षसो हननाय । उ इति पूरणः । मदे चित् हर्षे सति अस्य अग्नेः भामाः क्रोधा दीप्तयो वा प्र रुजन्ति प्रकर्षेण भङ्गं गच्छन्ति पीडयन्ति वा रक्षांसि । परिबाधः परितो बाधिकाः अदेवीः अदेवनाः आसुर्यः सेनाः वरन्ते न वारयन्त्येनम् ॥

भट्टभास्कर-टीका

स्वानासः स्वनं कुर्वन्तः हवि प्रक्षेपसमुपजनितमहाशब्दाः । स्वनतेर्व्यत्ययेन कर्तरि घञ्, आज्जसेरसुक्, ‘कर्षात्वतः’ इत्यन्तोदात्तत्वम् । इर्दृशाः अग्नेः रश्मयः उत दिवि दिव्यपि सन्तु सर्वत्राकाशे विजृम्भन्ताम् । छान्दसं षत्वम् । ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वम् । स्वाना इति रश्मिनामेति केचित् । तिग्मायुधाः तीक्ष्णायुधाः । तिग्मं तैक्ष्ण्यमेव आयुधस्थानीयं शत्रूणां वेधकत्वात् येषां ते तव रश्मयः दिव्यपि प्रकाशन्ताम् । किमर्थं । रक्षसे हन्तवै रक्षोवधार्थम् । हन्तेः कृत्यार्थे भावे तवैप्रत्ययः । प्ररुजन्तु प्रकर्षेण भक्षयन्तु हवींषि । रुजो भङ्गे तौदादिकः । यद्वा - भामाः क्रोधनशीलाः रुत्वा[क्त्वा?] अस्य रश्मयः प्ररुजन्तु प्रकर्षेण रक्षःप्रभृत्यपि भक्षयन्तु । मदेचित् मदायैवास्य । यद्वा - उपमानार्थश्चिच्छब्दः । महस्मे [मध्याह्ने] वर्तमानस्यास्य यथा रश्मयो विश्वं दहन्ति, एवमस्मद्रिपून् भक्षयन्त्यिति । एवमस्मद्विषये प्रवर्तमानमेनमग्निं अदेवीः अदेव्यः आसुर्यः परिबाधः पीडाः न वरन्ते न वृण्वन्तु न प्राप्नुवन्तु । वृञो वृङो वा व्यत्ययेन शप् । परिपूर्वाद्बाधतेस्सम्पदादिलक्षणस्स्त्रियां क्विप् कृदुत्तरपदप्रकृतिस्वरत्वम् ॥

Wilson

English translation:

“My roaring (flames), Agni, be manifest in the sky as sharp weapons wherewith to slay the rākṣasas; in his exhilaration his shining (rays) inflict (destruction), and undivine opposing (hosts) arrest him not.”

Jamison Brereton

And in heaven let there be the roars of Agni with their sharp weapons to smash the demonic.
Even in his elation his (furious) radiance breaks forth. Ungodly
evasions will not hinder him.

Griffith

Loud in the heaven above be Agni’s roarings with keen-edged weapons to destroy the demons.
Forth burst his splendours in the Soma’s rapture. The godless bands press round but cannot stayhim.

Oldenberg

And may the roarings of Agni mount up to the sky, with sharp weapons in order to kill the Rakshas. In his rapture his flames break down (everything); the godless hindrances do not hold him back.

Keith

Let the roarings of Agni rise to the heaven,
Sharp weapons to slay the Raksas;
In the carouse his radiance bursteth forth
The godless assailers cannot restrain him.

Geldner

Und das Getöse des Agni soll zum Himmel dringen, um mit scharfer Waffe den bösen Geist zu töten. Wie im Rausche brechen seine Zornesgluten durch, nicht halten ihn die gottlosen Hindernisse auf.

Grassmann

Des Agni Prasseln töne laut im Himmel, mit scharfen Waffen das Gespenst zu tödten; Bei seiner Thatlust brechen vor die Flammen, nicht hemmen ihn die gottvergessnen Feinde.

Elizarenkova

Пусть дойдет до неба треск Агни,
Вызванный (его) острым оружием, чтобы он убил ракшаса!
Его вспышки ярости разбивают (всё), (словно) в опьянении.
Не удерживают его безбожные препятствия.

अधिमन्त्रम् (VC)
  • अग्निः
  • कुमार आत्रेयो वृषो वा जार उभौ वा
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब धनुर्वेद के दृष्टान्त से अविद्यानिवारण को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे विद्वानो ! (अग्नेः) अग्नि से (तिग्मायुधाः) तीक्ष्ण आयुधयुक्त (स्वानासः) उपदेश करनेवाले (दिवि) विद्या के प्रकाश में वर्त्तमान (रक्षसे) दुष्टों के विनाश करने के लिये (हन्तवै) हनने को समर्थ (सन्तु) हूजिये और (उत) भी (मदे) आनन्द के लिये प्रवृत्त हूजिये (चित्, उ) और भी (अस्य) इसके (भामाः) क्रोधों के (न) तुल्य (परिबाधः) सब ओर से बन्धनों को (अदेवीः) प्रमादरहित क्रियायें (प्र, रुजन्ति) सब प्रकार भङ्ग करती और (वरन्ते) स्वीकार करती हैं, उनका निवारण करो ॥१०॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे विद्वानो ! आप लोग जैसे धनुर्वेद को पढ़े हुए शस्त्र और अस्त्रों के प्रक्षेप अर्थात् चलाने रूप युद्ध में चतुर जन अग्निसम्बन्धी अस्त्रादिकों से शत्रुओं का निवारण करके विजय को प्रकाशित करते हैं, वैसे ही अत्यन्त विद्या के पढ़ाने और उपदेश करने से अविद्याकृत प्रमादों का निवारण करके विद्याकृत श्रेष्ठ गुणों का प्रकाश करो ॥१०॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे विद्वांसोऽग्नेऽस्तिग्मायुधाः स्वानासो दिवि वर्त्तमाना भवन्तो रक्षसे हन्तवै समर्थाः सन्तु। उतापि मदे प्रवृत्ताः सन्तु चिद्वस्य भामा न परिबाधोऽदेवीः प्र रुजन्ति वरन्ते ता निवारयन्तु ॥१०॥

दयानन्द-सरस्वती (हि) - विषयः

अथ धनुर्वेददृष्टान्तेनाविद्यानिवारणमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (उत) (स्वानासः) उपदेशकाः (दिवि) विद्याप्रकाशे (सन्तु) (अग्नेः) पावकात् (तिग्मायुधाः) तीक्ष्णायुधाः (रक्षसे) दुष्टविनाशाय (हन्तवै) हन्तुम् (उ) (मदे) आनन्दाय (चित्) (अस्य) (प्र) (रुजन्ति) आभञ्जन्ति (भामाः) क्रोधाः (न) इव (वरन्ते) स्वीकुर्वन्ति (परिबाधः) सर्वतो बाधनानि (अदेवीः) अप्रमदाः क्रियाः ॥१०॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे विद्वांसो ! यूयं यथाऽधीतधनुर्वेदाः शस्त्रास्त्रप्रक्षेपयुद्धकुशला आग्नेयास्त्रादिभिश्शत्रून् निवार्य विजयं प्रकाशयन्ति तथैव तीव्रविद्याध्यापनोपदेशाभ्यामविद्याप्रमादान्निवार्य विद्याशुभगुणान् प्रकाशयत ॥१०॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे विद्वानांनो! तुम्ही जसे धनुर्वेद पारंगत व शस्त्र, अस्त्र चालविण्यात चतुर लोकांना युद्धात अग्नियुक्त अस्त्रांद्वारे शत्रूंचे निवारण करवून विजय प्राप्त करविता तसेच अविद्येमुळे झालेल्या प्रमादाचे निवारण करण्यासाठी विद्या व उपदेशाद्वारे श्रेष्ठ गुण प्रकट करा. ॥ १० ॥

इति श्रीभट्टभास्करमिश्रविरेचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये प्रथमे काण्डे द्वितीयप्रपाठके चतुर्दशोनुवाकः ॥

प्रथमकाण्डे द्वितीयप्रपाठकः समाप्तः ॥