११ उपसदाहुत्यन्तम्

सोम-करणक-करिष्यमाण-याग-विघ्न-कार्य्-असुर-पराभवार्थोपसद्-वर्णनम्
सोमऋषिः


भास्करोक्त-विनियोगः

सोमम् आप्याययति।

विश्वास-प्रस्तुतिः

अँ॒शुर् अँ॑शुस् ते +++(प्रत्येकः)+++ देव सो॒माऽऽप्या॑यताम् इन्द्रा॑यैक-धन॒-विदे॑।
आ तुभ्य॒म्+++(=त्वत्पानाय)+++ इन्द्रᳶ॑ प्यायताम् ।
आ त्वम् इन्द्रा॑य प्याय॒स्व ।

Keith

May thy every shoot, O god Soma, swell, For Indra who gaineth the chiefest wealth;
May Indra swell for thee; Do thou swell for Indra.

मूलम् (संयुक्तम्)

- अँ॒शुरँ॑शुस्ते देव सो॒माऽऽप्या॑यता॒मिन्द्रा॑यैकधन॒विद॒ आ तुभ्य॒मिन्द्रᳶ॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्व

मूलम्

अँ॒शुरँ॑शुस्ते देव सो॒माऽऽप्या॑यताम्
इन्द्रा॑यैकधन॒विदे॑। (+++आप्यायताम्+++) आ तुभ्य॒मिन्द्रᳶ॑ प्यायताम् ।
आ त्वमिन्द्रा॑य प्याय॒स्व ।

पद-पाठः

अँ॒शुरँ॑शु॒रित्यँ॒शुः-अँ॒शुः॒ । ते॒ । दे॒व॒ । सो॒म॒ । एति॑ । प्या॒य॒ता॒म् ।
इन्द्रा॑य । ए॒क॒ध॒न॒विद॒ इत्ये॑कधन-विदे॑ ।
एति॑ । तुभ्य॑म् । इन्द्रः॑ । प्या॒य॒ता॒म् ।
एति॑ । त्वम् । इन्द्रा॑य । प्या॒य॒स्व॒ ।

भट्टभास्कर-टीका

1सोममाप्याययति - अंशुरंशुरिति ॥ हे देवसोम ते त्वदीयों शुरशुः सर्वोवयवः आप्यायतां वर्धताम् । वीप्सायां द्विर्वचनम्, ‘अनुदात्तं च’ इति द्वितीयस्यानुदात्तत्वम् ।

इन्द्राय इन्द्रार्थम् । इन्द्रो विशेष्यते - एकधनविदे, एकं प्रधानं धनं उदकं येषु घटेषु ते एकधनाः, तान्विन्दति लभत इत्येकधनवित् । इन्द्रो हि तान्विन्दति इन्द्रार्थत्वात् । इन्द्रोपि तुभ्यं त्वदर्थं त्वत्पानार्थमाप्यायतां पातुं समर्थो भवतु ।

त्वं चाप्यायमानसर्वांशुः इन्द्रार्थमाप्यायस्व पर्याप्तो भव ॥


भास्करोक्त-विनियोगः

यजमानं वाचयति।

विश्वास-प्रस्तुतिः

आप्या॑यय॒ सखी॑न् स॒न्या मे॒धया॑ ।
स्व॒स्ति ते॑ देव सोम सु॒त्याम्+++(=अभिषवम्)+++ अ॑शीय+++(=आप्नुयाम्)+++ ।

Keith

Make thy comrades to swell with wealth and skill; with good fortune
may I accomplish thy pressing, O god Soma.

मूलम् (संयुक्तम्)

आप्या॑यय॒ सखी॑न्त्स॒न्या मे॒धया॑ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शी॒य

मूलम्

आप्या॑यय॒ सखी॑न् स॒न्या मे॒धया॑ ।
स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शीय ।

पद-पाठः

एति॑ । प्या॒य॒य॒ । सखी॑न् । स॒न्या । मे॒धया॑ ।
स्व॒स्ति । ते॒ । दे॒व॒ । सो॒म॒ ।
सु॒त्याम् । अ॒शी॒य॒ ।

भट्टभास्कर-टीका

2यजमानं वाचयति - आप्याययेति ॥ सखीन् समानख्यानान् ऋत्विजः सन्या धनेन मेधया च यागनिर्वर्तनसमर्थया आप्यायय सम्पन्नान् कुरु । सनिशब्दोन्तोदात्तः, तेन ‘उदात्तयणः’ इति ततः परस्या विभक्तेरुदात्तत्वम् ।

किञ्च - हे देव सोम स्वस्ति ते अविनाशेन अविघ्नेन तव सुत्यामभिषवमशीय प्राप्नुयाम् । आशिषि लिङ्, ‘छन्दस्युभयथा’ इति सार्वधातुकत्वात्सीयुटि सलोपः । सुनोतेः ‘संज्ञायां समजनिषद’ इति क्यप्, ‘उदात्तः’ इति हि तत्रानुवर्तते ॥


नमस्कारः

भास्करोक्त-विनियोगः

प्रस्तरे पाणिं निधाय नमस्-कुर्वन्ति।।

विश्वास-प्रस्तुतिः

+++(हे प्रस्तर)+++ एष्टा॒+++(=इच्छुक)+++ राय॒ᳶ प्र+इ॒षे भगा॑य +ऋ॒तम् ऋ॑तवा॒दिभ्यः॑ +++(भव)+++। नमो॑ दि॒वे ।
नमᳶ॑ पृथि॒व्यै ।
+++(‘द्यावापृथिवीभ्यामेव नमस्कृत्यास्मिन् लोके प्रतितिष्ठन्ति’ इति ब्राह्मणम् ।)+++

Keith

Desired are riches exceedingly for food, for prosperity. Be right to the proclaimers of right.
Honour to the sky,
honour to the earth!

मूलम् (संयुक्तम्)

एष्टा॒ राय॒ᳶ प्रेषे भगा॑य॒र्तमृ॑तवा॒दिभ्यो॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

मूलम्

एष्टा॒ राय॒ᳶ प्रेषे भगा॑य +++(भव)+++ ।
ऋ॒तमृ॑तवा॒दिभ्यः॑ +++(भव)+++ ।
नमो॑ दि॒वे ।
नमᳶ॑ पृथि॒व्यै ।

पद-पाठः

एष्टः॑ । रायः॑ । प्रेति॑ । इ॒षे । भगा॑य ।
ऋ॒तम् । ऋ॒त॒वा॒दिभ्य॒ इत्यृ॑तवा॒दि-भ्यः॒ ।
नमः॑ । दि॒वे ।
नमः॑ । पृ॒थि॒व्यै ।

भट्टभास्कर-टीका

3प्रस्तरे पाणिं निधाय नमस्कुर्वन्ति - एष्टा राय इति ॥ प्रस्तर उच्यते । हे एष्टः एषणशील प्रयागोनिर्वृत्तिद्वारेण फलं प्रापयितुं त्वरमाण यस्मदीदृशस्त्वमसि तस्माद्रायो धनानि अस्माकं सन्तु त्वन्महिम्ना । यद्वा - ईदृशत्स्त्वमेव रायो धनानि; रैहेतुत्वाद्रैत्वमुपचर्यते । इषेस्तृन्, ‘तीषसहलुभरुषरिषः’ इतीडभावः, षाष्ठिकमामन्त्निताद्युदात्तत्वम् । सम्बुद्धिगुणे ‘रो रि’ इति लोपे ‘ढ्रलोपे पूर्वस्य दीघोऽणः’ इति दीर्घत्वम् । केचिन्निष्ठायां वर्णव्यत्ययेन इकारस्यैकारमाहुः, अनामन्त्रितत्वं च मन्यन्ते । तदा आद्युदात्तत्वं दुर्लभम्, रेफस्य संहितांयां ‘हशि च’ इत्युत्वं प्राप्नोति ।
शाखान्तरे तु - आ इष्टः एष्ट इति मत्वा अवग्रहं कुर्वन्ति । तदा ‘गतिरनन्तरः’ इत्याद्युदात्तत्वं सिद्धम् । राय इति च षष्ठ्यन्तं केचिदाहुः । तेषां ‘ऊडिदं पदाद्यम्’ इति विभक्तेरुदात्तत्वं प्राप्नोति । आमन्त्रितेन तु सम्बन्धे ‘परमपिच्छन्दसि’ इत्यामन्त्रितानुप्रवेशात् पृथक्स्वरत्वाप्रसङ्गः ।
एवं प्रस्तरं स्तुत्वेदानीं स्वाभिलषितं प्रार्थयते । तत्र ससाधनां क्रियामुपसर्ग आहेति योग्यं क्रियापदमध्याह्रियते । इषे अन्नाय, भगाय ऐश्वर्याद्याय च प्रभव तत्सम्पादनसमर्थोस्माकं भव । ‘सावेकाचः’ इतीषो विभक्तिरुदात्ता ।
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥
यद्वा - भगं एतुं प्रभवतु । ‘तुमर्थे सेसेन्’ इति क्सेप्रत्ययः ।

किञ्च - ऋतं सत्यं ऋतवादिभ्यस्सत्यवादिभ्यः अस्मभ्यं भव, ऋतवदनफले अस्मान्योजय । यद्वा - ऋतं यज्ञं, यज्ञवादिभ्योस्मभ्यं यज्ञो भव, शीघ्रं यज्ञं निंर्वर्तयेति यावत् ।

किञ्च - नमो दिवे द्युरूपाय । ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वम् ।

नमः पृथिव्यै पृथिवीरूपाय । द्यावापृथिवीभ्यामेव वा नमस्कारः । ‘द्यावापृथिवीभ्यामेव नमस्कृत्यास्मिन्लोके प्रतितिष्ठन्ति’ इति ब्राह्मणम् । ‘उदात्तयणः’ इति पृथिव्या विभक्तेरुदात्तत्वम् ॥


अवान्तरदीक्षा

भास्करोक्त-विनियोगः

4यजमानम् अवान्तर-दीक्षाम् उपनयति- अग्न इति ।

विश्वास-प्रस्तुतिः

अग्ने॑ व्रतपते॒ - त्वव्ँ व्र॒तानाव्ँ॑ व्र॒तप॑तिर् असि ।
या मम॑ त॒नूर् ए॒षा +++(इत्यङ्गुल्या अग्नेस्तनूं दर्शयति)+++ सा त्वयि॑ +++(निवेशिता)+++।
या तव॑ त॒नूर् इ॒यँ +++(आत्मशरीरमङ्गुल्या दर्शयति)+++ सा मयि॑ +++(निवेशिता)+++।
स॒ह नौ॑ व्रतपते व्र॒तिनो॑र् व्र॒तानि । +++(यन्मया कृतं तत्त्वयापि कृतं भवतीति ।)+++

Keith

Agni, lord of vows, thou art the vow-lord of vows;
this body of mine be in thee [1],
that body of thine be in me.
Together, O lord of vows, be the vows of us two that keep vows.

मूलम् (संयुक्तम्)

अग्ने॑ व्रतपते॒ त्वव्व्ँर॒ताना॑व्व्ँर॒तप॑तिरसि॒ या मम॑ त॒नूरे॒षा सा त्वयि॑ [20]या तव॑ त॒नूरि॒यँ सा मयि॑ स॒ह नौ॑ व्रतपते व्र॒तिनो॑र्व्र॒तानि

मूलम्

अग्ने॑ व्रतपते॒ त्वव्व्ँर॒ताना॑व्व्ँर॒तप॑तिरसि ।
या मम॑ त॒नूरे॒षा सा त्वयि॑ ।
या तव॑ त॒नूरि॒यँ सा मयि॑ ।
स॒ह नौ॑ व्रतपते व्र॒तिनो॑र्व्र॒तानि ।

पद-पाठः

अग्ने॑ । व्र॒त॒प॒त॒ इति॑ व्रत-प॒ते॒ । त्वम् । व्र॒ताना॑म् । व्र॒तप॑ति॒रिति॑ व्र॒त-प॒तिः॒ । अ॒सि॒ ।
या । मम॑ । त॒नूः । ए॒षा । सा । त्वयि॑ । [20]
या । तव॑ । त॒नूः । इ॒यम् । सा । मयि॑ ।
स॒ह । नौ॒ । व्र॒त॒प॒त॒ इति॑ व्रत-प॒ते॒ । व्र॒तिनोः॑ । व्र॒तानि॑ ।

भट्टभास्कर-टीका

हे अग्ने व्रतपते व्रतानां पते त्वं व्रतानां सर्वेषां सम्बन्धिनां व्रतपतिरसि; न पुनरेकस्य व्रतस्य पतित्वाद्व्रतपतिरुच्यते । समासे सङ्ख्याविशेषस्याप्रतिपत्तेः बहुत्वप्रतिपादनाय व्रतानामित्युक्तम् । नित्यसम्बन्धाविप्रतिपत्त्यर्थं वृत्तिश्च कृता । पतिः पालयिता स्वामी वा । सर्वेषां व्रतानां सर्वदा सर्वात्मना च पतिस्त्वमसि ।

या मम यजमानस्य तनूश्शररिं सा त्वयि मया निवेशिता । एषा इत्यङ्गुल्या अग्नेस्तनूं दर्शयति ।

या तव तनूः सा मयि त्वया निवेशिता इयमित्यात्मशरीरमङ्गुल्या दर्शयति । प्रत्यक्पराग्रूपसन्निहितविषयत्वादिदमेतदादीनामेवमुक्तम् ।

यस्मादेवं, तस्मात् हे व्रतपते अग्ने नौ आवयोर्व्रतिनोर्व्रतानि अतः परं सह भवन्ति, न परस्परव्यावृत्तानि, यन्मया कृतं तत्त्वयापि कृतं भवतीति । ‘आत्मानमेव दीक्षया पाति’ इति ब्राह्मणम् ॥


विस्तारः (द्रष्टुं नोद्यम्)

उपसदः सौमिकी वेदिः, दीक्षितस्य व्रतनिर्णयः, काम्यानि देवयजनानि, उपसदः

भास्करोक्त-विनियोगः

उपसत्सु व्रतयति।।

विश्वास-प्रस्तुतिः

या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्, तया॑ नᳶ पाहि ।
तस्या॑स् ते॒ +++(पतिभूताय)+++ स्वाहा॑ ।

Keith

Thy dread form, O Agni, with that protect us;
hail to that form of thine!

मूलम् (संयुक्तम्)

या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नᳶ पाहि॒ तस्या॑स्ते॒ स्वाहा।

मूलम्

या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नᳶ पाहि ।
तस्या॑स्ते॒ स्वाहा॑ ।

पद-पाठः

या । ते॒ । अ॒ग्ने॒ । रुद्रि॑या । त॒नूः । तया॑ । नः॒ । पा॒हि॒ । तस्याः॑ । ते॒ । स्वाहा॑ ।

भट्टभास्कर-टीका

5उपसत्सु व्रतयति - या त इति ॥ हे अग्ने रुद्रिया रुद्रार्हा, यो रुद्रस्तिस्रोसुरपुरीरदहत् तद्वीर्यार्नुरूपा ते तव तनूः महावीर्या । तया नः अस्मान्पाहि । रुद्रशब्दादर्हत्यर्थे छान्दसो घः । यद्वा - ‘रुद्रो वा एष यदग्निस्तस्यैते तनुवौ घोरान्या शिवान्या’ इत्युक्तम्; तत्र घोरा तनूः रुद्रिया क्रूरा ‘रुद्रो वै क्रूरः’ इति । तदर्हत्वात्तया तन्वा नः अस्मान्पाहि भ्रातृव्यादिभ्यो रक्ष ।

तस्यास्तन्वाः पतिभूताय ते तुभ्यं स्वाहा हुतमिदं पयोस्तु । चतुर्थ्यर्थे वा षष्ठी । तदीयायै तस्यै तन्वै स्वाहेति ॥


भास्करोक्त-विनियोगः - ऋक्

6उपसदाहुतीर्जुहोति - तिसृषूपसत्सु अनुक्रमेण या त इति तिसृभिरनुष्टुग्भिः । तत्र प्रथमायां ‘या ते अग्नेयाशया’ इति ॥
‘तनूर्वर्षिष्ठा’ इत्यादि तिसृष्वपि सम्बध्यते ।

विश्वास-प्रस्तुतिः ...{Loading}...

या ते॑ अग्ने ऽया+++(=अयसि/अस्यां [भुवि])+++श॒या [ त॒नूर्
वर्षि॑ष्ठा+++(=वृद्धतमा)+++ गह्वरे॒ष्ठोग्रव्ँ वचो॒ अपा॑वधीम्+++(→अपहन्मि)+++,,
त्वे॒षव्ँ+++(=दीप्तं/ क्रूरं)+++ वचो॒ अपा॑वधीँ॒ स्वाहा॑ ॥ ] ।

सर्वाष् टीकाः ...{Loading}...

Keith

That form of thine, O Agni, which rests in iron
the highest, that dwells in the cleft,
(By it) I have driven away harsh speech,
(by it) I have driven away angry speech. Hail!

मूलम्

या ते॑ अग्नेऽयाश॒या… [ त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठोग्रव्ँवचो॒ अपा॑वधीम् । त्वे॒षव्ँवचो॒ अपा॑वधीँ॒ स्वाहा॑ ॥ ] ।

पद-पाठः

या । ते॒ । अ॒ग्ने॒ । अ॒या॒श॒येत्य॑या-श॒या । त॒नूः । वर्षि॑ष्ठा । ग॒ह्व॒रे॒ष्ठेति॑ गह्वरे-स्था । उ॒ग्रम् । वचः॑ । अपेति॑ । अ॒व॒धी॒म् । त्वे॒षम् । वचः॑ । अपेति॑ । अ॒व॒धी॒म् । स्वाहा॑ ॥ [21]

भट्टभास्कर-टीका

हे अग्ने या ते त्वदीयां तनूः अयाशया अस्यां पृथिव्यां शेत इत्ययाशया । इदमस्सप्तम्येकवचनस्य `सुपां सुलुक्’ इति यादेशः, ‘हलि लोपः’ इतीद्रूपस्य लोपः, त्यदाद्यत्वम्, अस्यां शेत इति ‘अधिकरणे शेतेः’ इत्यच्, ‘शवासवासिष्वकालात्’ इत्यलुक्, कृदुत्तरपदप्रकृतिस्वरत्वम् ।

वर्षिष्ठा … …{Loading}…

वर्षिष्ठा वृद्धतमा । प्रियस्थिरादिसूत्रेण वृद्धशब्दस्य वर्षादेशः । गह्वरे गहने तिष्ठतीति गह्वरेष्ठा । ‘सुपि स्थः’ इति कः, ‘तत्पुरुषे कृति बहुळम्’ इत्यलुक् । तयेत्यध्याह्रियते । तया तन्वा उग्रं उद्गूर्णमधिक्षेपं वचोपावधीमप हन्मि, तस्य प्रयोक्तारमपहन्मीति यावत् । ‘अशनयापिपासेहवा उग्रं वचः’ इत्यादि ब्राह्मणम् । तन्निमित्तत्वात्तादृशवचनश्रुतेः । छान्दसो लुङ्, ‘हनो वध लुङि’ इति वधा देशः, ‘आमो मश्’ इति मशादेशः ।

त्वेषं दीप्तं क्रूरं राक्षसादिसमीरितं श्रुत्याभीतिजनकम् । ‘एनश्च वैरहत्यं च त्वेषं वचः’ इत्यादिब्राह्मणम् । एनस्विभिर्वीरहादिभिश्च प्रयोज्यत्वात् । तच्च वचोपावधीम् । तस्य प्रयोक्तारं च अपहन्मि त्वत्प्रसादान्नाशयेयम् । इदमुभयं तदर्थं तस्यै तन्वै स्वाहा सुहुतमिदमस्तु ॥

विश्वास-प्रस्तुतिः ...{Loading}...

[या ते॑ अग्ने] रजा+++(=रजते/ऽन्तरिक्षे)+++-श॒या [ त॒नूर्
वर्षि॑ष्ठा+++(=वृद्धतमा)+++ गह्वरे॒ष्ठोग्रव्ँ वचो॒ अपा॑वधीम्+++(→अपहन्मि)+++,,
त्वे॒षव्ँ+++(=दीप्तं/ क्रूरं)+++ वचो॒ अपा॑वधीँ॒ स्वाहा॑ ॥ ] ।

सर्वाष् टीकाः ...{Loading}...

Keith

That form of thine, O Agni, which rests in silver
the highest, that dwells in the cleft,
(By it) I have driven away harsh speech,
(by it) I have driven away angry speech. Hail!

मूलम्

या ते॑ र॑जाश॒या [ त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठोग्रव्ँवचो॒ अपा॑वधीम् । त्वे॒षव्ँवचो॒ अपा॑वधीँ॒ स्वाहा॑ ॥ ]

पद-पाठः

या । ते॒ । अ॒ग्ने॒ । र॒जा॒श॒येति॑ रजा-श॒या ।
त॒नूः । वर्षि॑ष्ठा । ग॒ह्व॒रे॒ष्ठेति॑ गह्वरे-स्था । उ॒ग्रम् । वचः॑ । अपेति॑ । अ॒व॒धी॒म् । त्वे॒षम् । वचः॑ । अपेति॑ । अ॒व॒धी॒म् । स्वाहा॑ ॥ [21]

भट्टभास्कर-टीका

7द्वितीयस्यां जुहोति - या ते अग्ने रजाशया तनूरित्यादि ॥
रजोन्तरिक्षं तस्मिन् शेत इति रजाशया मध्यमात्मिका । रजश्शब्दात्परस्यास्सप्तम्या डादेशः, पूर्ववदलुक् । शेषं समानम् ॥

वर्षिष्ठा … …{Loading}…

वर्षिष्ठा वृद्धतमा । प्रियस्थिरादिसूत्रेण वृद्धशब्दस्य वर्षादेशः । गह्वरे गहने तिष्ठतीति गह्वरेष्ठा । ‘सुपि स्थः’ इति कः, ‘तत्पुरुषे कृति बहुळम्’ इत्यलुक् । तयेत्यध्याह्रियते । तया तन्वा उग्रं उद्गूर्णमधिक्षेपं वचोपावधीमप हन्मि, तस्य प्रयोक्तारमपहन्मीति यावत् । ‘अशनयापिपासेहवा उग्रं वचः’ इत्यादि ब्राह्मणम् । तन्निमित्तत्वात्तादृशवचनश्रुतेः । छान्दसो लुङ्, ‘हनो वध लुङि’ इति वधा देशः, ‘आमो मश्’ इति मशादेशः ।

त्वेषं दीप्तं क्रूरं राक्षसादिसमीरितं श्रुत्याभीतिजनकम् । ‘एनश्च वैरहत्यं च त्वेषं वचः’ इत्यादिब्राह्मणम् । एनस्विभिर्वीरहादिभिश्च प्रयोज्यत्वात् । तच्च वचोपावधीम् । तस्य प्रयोक्तारं च अपहन्मि त्वत्प्रसादान्नाशयेयम् । इदमुभयं तदर्थं तस्यै तन्वै स्वाहा सुहुतमिदमस्तु ॥

विश्वास-प्रस्तुतिः ...{Loading}...

[या ते॑ अग्ने] हरा+++(=हिरण्ये‌/द्यवि)+++श॒या [ त॒नूर्
वर्षि॑ष्ठा+++(=वृद्धतमा)+++ गह्वरे॒ष्ठोग्रव्ँ वचो॒ अपा॑वधीम्+++(→अपहन्मि)+++,,
त्वे॒षव्ँ+++(=दीप्तं/ क्रूरं)+++ वचो॒ अपा॑वधीँ॒ स्वाहा॑ ॥ ] ।

सर्वाष् टीकाः ...{Loading}...

Keith

That form of thine, O Agni, which rests in gold
the highest, that dwells in the cleft,
(By it) I have driven away harsh speech,
(by it) I have driven away angry speech. Hail!

मूलम् (संयुक्तम्)

या ते॑ अग्नेऽयाश॒या र॑जाश॒या ह॑राश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठोग्रव्ँवचो॒ अपा॑वधीन्त्वे॒षव्ँवचो॒ अपा॑वधीँ॒ स्वाहा॑ ॥ [21]त्वे॒षव्ँवचो॒ अपा॑वधीँ॒ स्वाहा॑ ॥

मूलम्

या ते॑ ह॑राश॒या [ त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठोग्रव्ँवचो॒ अपा॑वधीम् ।
त्वे॒षव्ँवचो॒ अपा॑वधीँ॒ स्वाहा॑ ॥]

पद-पाठः

या । ते॒ । अ॒ग्ने॒ । ह॒रा॒श॒येति॑ हरा-श॒या ।
त॒नूः । वर्षि॑ष्ठा । ग॒ह्व॒रे॒ष्ठेति॑ गह्वरे-स्था । उ॒ग्रम् । वचः॑ । अपेति॑ । अ॒व॒धी॒म् । त्वे॒षम् । वचः॑ । अपेति॑ । अ॒व॒धी॒म् । स्वाहा॑ ॥ [21]

भट्टभास्कर-टीका

8तृतीयायां जुहोति - हराशया तनूरित्यादि ॥
भौमान् रसान् हरतीति हरो द्युलोकः, तस्मिन्शेते हराशया सूर्यात्मिका । डादेशादि समानम् । यद्वा - या सेत्यध्याह्रियते । अपावधीमिति च पुरुषव्यत्ययः अपावधीदिति । सा उग्रं त्वेषं वचो अपहन्त्विति ।
शाखान्तरे च अपावधीदिति पाठः ।
‘तेषामसुराणां तिस्रः पुरआसन्नयस्मय्यवमाथ रजताऽथ हरिणी’ इति ब्राह्मणानुसारेणान्यथा व्याख्यायते । अयसि अयस्मय्यां पुरि शेत इत्ययाशया । डादेशादि समानम् । रजतं रजस्तन्मय्यां पुरि शेत इति रजाशया । हरितं हरस्तन्मय्यां पुरि शेत इति हराशया । गतमन्यत् ॥

वर्षिष्ठा … …{Loading}…

वर्षिष्ठा वृद्धतमा । प्रियस्थिरादिसूत्रेण वृद्धशब्दस्य वर्षादेशः । गह्वरे गहने तिष्ठतीति गह्वरेष्ठा । ‘सुपि स्थः’ इति कः, ‘तत्पुरुषे कृति बहुळम्’ इत्यलुक् । तयेत्यध्याह्रियते । तया तन्वा उग्रं उद्गूर्णमधिक्षेपं वचोपावधीमप हन्मि, तस्य प्रयोक्तारमपहन्मीति यावत् । ‘अशनयापिपासेहवा उग्रं वचः’ इत्यादि ब्राह्मणम् । तन्निमित्तत्वात्तादृशवचनश्रुतेः । छान्दसो लुङ्, ‘हनो वध लुङि’ इति वधा देशः, ‘आमो मश्’ इति मशादेशः ।

त्वेषं दीप्तं क्रूरं राक्षसादिसमीरितं श्रुत्याभीतिजनकम् । ‘एनश्च वैरहत्यं च त्वेषं वचः’ इत्यादिब्राह्मणम् । एनस्विभिर्वीरहादिभिश्च प्रयोज्यत्वात् । तच्च वचोपावधीम् । तस्य प्रयोक्तारं च अपहन्मि त्वत्प्रसादान्नाशयेयम् । इदमुभयं तदर्थं तस्यै तन्वै स्वाहा सुहुतमिदमस्तु ॥

इति द्वितीये एकादशोनुवाकः