(प्राचीनवंशसमीपमागतस्य सोमस्य सत्कारः)
६ त्रिष्टुप्। सोमऋषिः
सोमस्य प्राचीनवंशप्रवेशः
भास्करोक्त-विनियोगः
आतिथ्यं निर्वपति।।
विश्वास-प्रस्तुतिः
अ॒ग्नेर् आ॑ति॒थ्यम् अ॑सि॒, +++(सर्वदेवतात्मने)+++ विष्ण॑वे त्वा +++(निर्वपामि)+++ ।
+++(सर्वदेवतात्मनो विष्णोर् अंशभूता एते अग्न्य्-आदयो राज्ञि गृहम् आगते आगता भवन्ति । ‘यावद्भिर् वै राजानुचरैर् आगच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते’ इति ब्राह्मणम्।)+++
Keith
Thou art the hospitality of Agni. For Visnu thee!
मूलम्
अ॒ग्नेरा॑ति॒थ्यम॑सि॒, विष्ण॑वे त्वा +++(निर्वपामि)+++ ।
पद-पाठः
अ॒ग्नेः । आ॒ति॒थ्यम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ ।
भट्टभास्कर-टीका
1आतिथ्यं निर्वपति - अग्नेरातिथ्यमसीत्यादिभिः ॥
‘अतिथिरभ्यतितो गृहाद्भवति’ इति यास्कः । अतेरिथिन् । अतिथये इदमातिथ्यम् ॥
‘अतिथेर्ञ्यः’ । अत्र सर्वदेवतात्मनो विष्णोरंशभूता एते अग्न्यादयो राज्ञि गृहमागते आगता भवन्ति । ते च केवलं निर्वपणविशेषणतयोपादीयन्ते । यथा - ‘यदग्नावग्निं मथित्वा प्रहरति तेनैवाग्नय आतिथ्यं क्रियते’ इति । अत्र नाग्नेर्हविषा सम्बन्धः । एवमेते अग्न्यादयो न हविर्भजन्ते, विष्णोरेव केवलस्य सर्वदेवतासमष्टिरूपस्य हविषा सम्बन्धः ।
ननु निर्वपणमन्त्रेष्वग्न्यादयोपि प्रतीयन्ते, तत्कथं केवलं विष्णुस्स्यात् हविषस्सम्बन्धी? उच्यते - अग्न्यादिग्रहणस्योपलक्षणार्थत्वादन्येषामपि राज्ञा सहागतानामतिथीनाम्, अत्रागतानां मध्ये कौश्चिन्निर्वापः क्रियत इति । अत्र हि ब्राह्मणम् ‘यावद्भिर्वै राजानुचरैरागच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते’ इत्युक्त्वा ‘अग्नेरातिथ्यमसि विष्णवे त्वेत्याह गायत्रिया एवैतेन करोति’ इत्यदिना अग्न्यादीनामुपलक्षणभूतानां हविषा सम्बन्धो नास्तीति प्रतिपादयति । तत्राग्न्यादयस्तिस्रो देवताः विष्णुना व्यधिकरणभूता निर्दिष्टाः; अन्ये तु सामानाधिकरण्येन, आतिथ्यपदं च तयोर्मन्त्रयोर्नास्ति । तत्र वैचित्र्यकारणं मृग्यम् ।
मन्त्रार्थस्तु - निरुप्यमाणं द्रव्यमुच्यते । अग्नेरग्न्यात्मनो विष्ण्वंशस्यातिथ्यमतिथिप्रयुक्तं निर्वाप्यं त्वमसि, तत्त्वां विष्णवे हविष्मते निर्वपामि ॥
विश्वास-प्रस्तुतिः
सोम॑स्याऽऽति॒थ्यम् अ॑सि॒, +++(सर्वदेवतात्मने)+++ विष्ण॑वे॒ त्वा +++(निर्वपामि)+++ ।
Keith
Thou art the hospitality of Soma. For Visnu thee!
मूलम्
सोम॑स्याऽऽति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वा +++(निर्वपामि)+++ ।
पद-पाठः
सोम॑स्य । आ॒ति॒थ्यम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ ।
भट्टभास्कर-टीका
2सोमस्य सोमलतात्मनो विष्ण्वंशस्य । शेषं समानम् ॥
- [आतिथ्यमतिथिप्रयुक्तं निर्वाप्यं त्वमसि, तत्त्वां विष्णवे हविष्मते निर्वपामि ॥]
विश्वास-प्रस्तुतिः
अति॑थेर्+++(=अतनशीलस्य [सुर्यस्य वायोर् वा])+++ आति॒थ्यम॑सि॒, +++(सर्वदेवतात्मने)+++ विष्ण॑वे त्वा॒ऽग्नये॑ त्वा +++(निर्वपामि)+++ ।
Keith
Thou art the hospitality of the stranger. For Visnu thee!
मूलम्
अति॑थेराति॒थ्यम॑सि॒, विष्ण॑वे त्वा॒ऽग्नये॑ त्वा +++(निर्वपामि)+++ ।
पद-पाठः
अति॑थेः । आ॒ति॒थ्यम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ । अ॒ग्नये॑ । त्वा॒ ।
भट्टभास्कर-टीका
अतिथिरतनशीलः यतस्सर्वदा गच्छति आदित्य उच्यते; वायुर्वा । समानमन्यत् ॥ [आतिथ्यमतिथिप्रयुक्तं निर्वाप्यं त्वमसि, तत्त्वां विष्णवे हविष्मते निर्वपामि ॥]
विश्वास-प्रस्तुतिः
रा॒य॒स्-पो॒ष॒दाव्न्ने॒ +++(ऽग्नये)+++ +++(तदात्मने)+++ विष्ण॑वे +++(च)+++ त्वा +++(निर्वपामि)+++ ।
Keith
For Agni thee, giver of wealth, for Visnu thee;
मूलम्
रा॒य॒स्पो॒ष॒दाव्न्ने॒ विष्ण॑वे त्वा +++(निर्वपामि)+++ ।
पद-पाठः
रा॒य॒स्पो॒ष॒दाव्न्न॒ इति॑ रायस्पोष-दाव्न्ने॑ । विष्ण॑वे । त्वा॒ ।
भट्टभास्कर-टीका
4रायस्पोषदावा नामाग्निविशेषः, तदात्मने विष्णवे त्वां निर्वपामि । रायो धनस्य पोषो रायस्पोषः । छान्दसष्षष्ठ्या अलुक्, ‘षष्ठ्याः पतिपुत्र’ इति सत्वम् । तं ददातीति । ‘आतो मनिन्’ इति वनिप्, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ [आतिथ्यमतिथिप्रयुक्तं निर्वाप्यं त्वमसि, तत्त्वां विष्णवे हविष्मते निर्वपामि ॥]
विश्वास-प्रस्तुतिः
श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे +++(च)+++ त्वा +++(निर्वपामि)+++।
Keith
for the eagle, bringer of the Soma, thee, for Visnu thee!
मूलम्
श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा +++(निर्वपामि)+++ ।
पद-पाठः
श्ये॒नाय॑ । त्वा॒ । सो॒म॒भृत॒ इति॑ सोम-भृते॑ । विष्ण॑वे । त्वा॒ ।
भट्टभास्कर-टीका
5श्येनस्सोमभृद्देवताविशेषः । गायत्रीत्येके ॥ श्येनश्शंसनीय इत्याहुः । श्येनात्मा वा सोमं बिभर्तीति सोमभृत् । गायत्रीपक्षे सोमं हरतीति सोमभृत् । ‘हृग्रहोर्भश्छन्दसि’ इति भत्वम् ॥
भास्करोक्त-विनियोगः
6यजमानस्सोममादत्ते - या त इति त्रिष्टुभार्धर्चेन ॥
7शालां प्रवेशयति - गयस्फान इति द्वितीयेनार्धर्चेन ॥
विश्वास-प्रस्तुतिः
+++(हे सोम)+++ या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒
ता ते॒ विश्वा॑ परि॒-भूर् अ॑स्तु य॒ज्ञम्+++(स्य)+++ ।
Keith
Thy powers which they honour with oblation,
May they all envelop the sacrifice!
मूलम् (संयुक्तम्)
या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञङ्ग॑य॒स्फानᳶ॑ प्र॒तर॑णस्सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॒न्
मूलम्
या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम् ।
पद-पाठः
या । ते॒ । धामा॑नि । ह॒विषा॑ । यज॑न्ति । ता । ते॒ । विश्वा॑ । प॒रि॒भूरिति॑ परि-भूः । अ॒स्तु॒ । य॒ज्ञम् ।
भट्टभास्कर-टीका
6यजमानस्सोममादत्ते - या त इति त्रिष्टुभार्धर्चेन ॥
हे सोम या यानि तव धामानि स्थानानि नामानि जन्मानि वा हविषा यजन्ति ता तानि विश्वान्यपि धामानि परिभूः परितो भावयिता रक्षिता अस्तु । कः? भवान् । यद्वा - पुरुषव्यत्ययः एधीत्यर्थः । यज्ञं चं परिभूरस्तु । ‘ततोन्यत्रापि दृश्यते’ इति द्वितीया । तसिप्रत्ययान्तो वा । तत्र ‘अभितः परितस्समयानिकषाहाप्रतियोगेष्वपि दृश्यते’ इति द्वितीया । यद्वा - लक्षणे परेः कर्मप्रवचनीयसंज्ञा । ‘कर्मप्रवचनीयानां प्रतिषेधः’ इत्येतद्बाधित्वा व्यत्ययेन समासः ॥
भास्करोक्त-विनियोगः
शालां प्रवेशयति।
विश्वास-प्रस्तुतिः
ग॒य॒+++(=गृह)+++स्फानᳶ॑+++(=वर्धयिता)+++ प्र॒तर॑णस् सु॒वीरो
ऽ+++(स्वपक्ष)+++वी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न्+++(=गृहान् [प्राग्वंशदीन्])+++ ॥
Keith
Giver of wealth, impeller, rich in heroes,
Slaying not heroes, O Soma, enter the dwellings.
मूलम्
ग॒य॒स्फानᳶ॑ प्र॒तर॑णस्सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ॥
पद-पाठः
ग॒य॒स्फान॒ इति॑ गय-स्फानः॑ । प्र॒तर॑ण॒ इति॑ प्र-तर॑णः । सु॒वीर॒ इति॑ सु-वीरः॑ । अवी॑र॒हेत्यवी॑र-हा॒ । प्रेति॑ । च॒र॒ । सो॒म॒ । दुर्या॑न् ।
भट्टभास्कर-टीका
7शालां प्रवेशयति - गयस्फान इति द्वितीयेनार्धर्चेन ॥
गय इति गृहनाम । गयानां गृहाणां स्फायिता वर्धयिता गयस्फानः । ओ स्फयी वृद्धौ ‘कृत्यल्युटो बहुलम्’ इति कर्तरि ल्युट्, धातोरन्त्यलोपश्छान्दसः । आकारान्तं धात्वन्तरं वा द्रष्टव्यम् । प्रतरणः प्रकर्षेण दुर्गेभ्यस्तारयिता । सुवीरश्शोभनैः पुत्रपौत्रादिभिरस्मदीयैस्तद्वान् । ‘वीरवीर्यौ च’ इत्युत्तरपदाद्युदात्तत्वम् । अवीरहा कस्यचिदप्यस्मदीयस्य पुत्रपौत्रादेरहन्ता सर्वदा प्रसन्न एव सन्, हे सोम दुर्यान् प्राग्वंशदीन् गृहान् प्रचर प्रकर्षेण प्रविश्य चर ॥
सोमोपस्थानादि
भास्करोक्त-विनियोगः
नीडे कृष्णाजिनम् आस्तृणाति।
अदित्यास् सदः ...{Loading}...
भास्करोक्त-विनियोगः
नीडे कृष्णाजिनमास्तृणाति।
विश्वास-प्रस्तुतिः
अदि॑त्या॒स् सदो॑ऽसि ।
Keith
Thou art the seat of Aditi.
मूलम्
अदि॑त्या॒स्सदो॑ऽसि ।
पद-पाठः
अदि॑त्याः । सदः॑ । अ॒सि॒ ।
भट्टभास्कर-टीका
3नीडे कृष्णाजिनमास्तृणाति - अदित्या इति ॥ अदित्याः देवमातुः सदः सदनं लोकलक्षणं त्वमसि ॥
भट्टभास्कर-टीका
6दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनमास्तृणाति - आदित्या इति ॥ अदितिर्देवमाता तस्यास्सदोस्यासनमसि । सीदन्त्यस्मिन्निति सदः ॥
भास्करोक्त-विनियोगः
तस्मिन् सोमं निदधाति।
अदित्यास् सद आसीद ...{Loading}...
भास्करोक्त-विनियोगः
तस्मिन् सोमं निदधाति।
विश्वास-प्रस्तुतिः
अदि॑त्या॒स् सद॒ आसीद ।
Keith
Sit on the seat of Aditi.
मूलम्
अदि॑त्या॒स् सद॒ आसीद ।
पद-पाठः
अदि॑त्याः । सदः॑ । एति॑ । सी॒द॒ ।
भट्टभास्कर-टीका
4तस्मिन्सोमं निदधाति - अदित्या इति ॥ अदित्यास्सदः सदन स्थानीयमेतत् कृष्णाजिनमासीद उपविश अस्मिन् ॥
7कृष्णाजिने राजानमासादयति - अदित्या इति ॥ अदित्यास्सदोभूतमेतत्कृष्णाजिनं हे सोम आसीद अधितिष्ठ । प्रागेव व्याख्यातमिदं मन्त्रद्वयम् ॥
मूलम् (संयुक्तम्)
-अदि॑त्या॒स्सदो॒ऽस्यदि॑त्या॒स्सद॒ आ [18]सी॒द
भट्टभास्कर-टीका
8-9कृष्णाजिनस्तरणसोमस्थापनमन्त्रौ व्याख्यातौ-अदित्यास्सद इति ॥
भास्करोक्त-विनियोगः
सोमम् उपतिष्ठते।।
विश्वास-प्रस्तुतिः
+++(तादात्म्येनाऽधुना)+++ वरु॑णोऽसि धृ॒तव्र॑तो, वारु॒णम् अ॑सि ।
+++(‘वरुणो वा एष यजमानमभ्यैति यत्क्रीतस्सोम उपनद्धः’ इति ब्राह्मणम् ।)+++
Keith
Thou art Varuna who guardeth law; thou art of Varuna.
मूलम् (संयुक्तम्)
वरु॑णोऽसि धृ॒तव्र॑तो वारु॒णम॑सि शय्ँ॒योर्दे॒वानाँ॑ स॒ख्यान्मा दे॒वाना॑म॒पस॑श्छित्स्म॒ह्याप॑तये त्वा गृह्णामि
मूलम्
वरु॑णोऽसि धृ॒तव्र॑तो, वारु॒णम॑सि ।
पद-पाठः
वरु॑णः । अ॒सि॒ । धृ॒तव्र॑त॒ इति॑ धृ॒त-व्र॒तः॒ ।
वा॒रु॒णम् । अ॒सि॒ ।
भट्टभास्कर-टीका
10सोममुपतिष्ठते - वरुणोसीति गायत्र्यैकपदया यजुरन्तया ॥ हे सोम वरुणस्त्वमसि वरणीयत्वात् । वृतत्वाद्वा; वाससा आच्छादितत्वात् । ‘वरुणो वा एष यजमानमभ्यैति यत्क्रीतस्सोम उपनद्धः’ इति ब्राह्मणम् । धृतव्रतः धृतकर्मा धारणत्वात्कर्मणाम् । वारुणं वरुणस्य तव यत्स्वभूतां द्रव्यमिति सर्वं त्वमेव त्वदधीनत्वात् ॥
भास्करोक्त-विनियोगः
वंशे बध्नाति।
विश्वास-प्रस्तुतिः
शय्ँ॒+++(=शमनम्)+++ योर्+++(=बन्धनाद्)+++ दे॒वाना॑म् ।
Keith
Be prosperity ours from our friendship with the gods.
मूलम्
शय्ँ॒योर्दे॒वाना॑म् +++(भव)+++ ।
पद-पाठः
शय्ँ॒योरिति॑ शं-योः । दे॒वाना॑म् ।
भट्टभास्कर-टीका
11वंशे बध्नाति - शंयोरिति ॥ शं च योश्च देवानां भव । समाहारद्वन्द्वः, छान्दसं पुल्लिङ्गत्वम् । विद्यमानानां रोगादीनां शामनं शम् । आगामिनां यावनं पृथक्करणं उत्पत्तिनिरोधः योः । उभयत्रापि शाम्यतेर्यौतेश्च विच् ॥
भास्करोक्त-विनियोगः
सोमस्य पादौ प्रक्षालयति।
विश्वास-प्रस्तुतिः
स॒ख्यान् मा दे॒वाना॑म् अ॒पस॑श्+++(=कर्मतः)+++ छित्स्महि ।
Keith
May we be not severed from our service of the gods.
मूलम्
स॒ख्यान्मा दे॒वाना॑म॒पस॑श्छित्स्महि ।
पद-पाठः
स॒ख्यात् । मा । दे॒वाना॑म् । अ॒पसः॑ । छि॒त्स्म॒हि॒ ।
भट्टभास्कर-टीका
12सोमस्य पादौ प्रक्षालयति - सख्यान्मा देवानामिति ॥ देवानां सम्बन्धि यत् अपः कर्म ततः सख्याच्च तत एव हेतोः मा छित्स्महि विच्छिन्ना मा भूम । ‘सख्युर्यः’ ॥
आज्यग्रहणादिकम्
भास्करोक्त-विनियोगः
तानूनप्त्रम् आज्यं गृह्णाति, यत् सर्वैः स्प्रक्ष्यत ऋत्विग्भिः। अयम् एक-कार्यानुवृत्त्य्-अर्थं समयः क्रियते तेषु।।
मूलम् (संयुक्तम्)
आप॑तये त्वा गृह्णामि॒ परि॑पतये त्वा गृह्णामि॒ तनू॒नप्त्रे॑ त्वा गृह्णामि शाक्व॒राय॑ त्वा गृह्णामि॒ शक्म॒न्नोजि॑ष्ठाय त्वा गृह्णा॒मि
विश्वास-प्रस्तुतिः
+++(हे आज्य)+++ आप॑तये+++(आपतततीति→प्राणाय)+++ त्वा गृह्णामि ।
Keith
For him who rushes on I seize thee;
मूलम्
आप॑तये त्वा गृह्णामि ।
पद-पाठः
आप॑तय॒ इत्या-प॒त॒ये॒ । त्वा॒ । गृ॒ह्णा॒मि॒ ।
भट्टभास्कर-टीका
13तानूनप्त्रं गृह्णाति - आपतय इति ॥ आवृत्त्या आभिमुख्येन वा पतति पातीति वा आपतिः प्राणः । ‘प्राणो वा आपतिः’ इति च ब्राह्मणम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तस्मै तदविनाशाय त्वां गह्णामि ध्रुवातः स्रुवेण गृह्णामि ॥
विश्वास-प्रस्तुतिः
परि॑पतये+++(परिपततीति→मनसे)+++ त्वा गृह्णामि।
Keith
for him who rushes around I seize thee;
मूलम्
परि॑पतये त्वा गृह्णामि।
पद-पाठः
परि॑पतय॒ इति॒ परि॑-प॒त॒ये॒ । त्वा॒ । गृ॒ह्णा॒मि॒ ।
भट्टभास्कर-टीका
14हे आज्य परितः सवर्तः पाति पततीति वा परिपतिः मनः । पातेर्डतिः । पतेः ‘इन् सर्वधातुभ्यः’ इति इन् । ‘मनो वै परिपतिः’ इति च ब्राह्मणम् । तस्मै त्वां गृह्णामि ॥
विश्वास-प्रस्तुतिः
तनू॒+++(=जल)+++नप्त्रे॑+++(=शरीरस्थायाग्नये)+++ त्वा गृह्णामि।
Keith
for Tanunapat I seize thee;
मूलम्
तनू॒नप्त्रे॑ त्वा गृह्णामि।
पद-पाठः
तनू॒नप्त्र॒ इति॒ तनू॑-नप्त्रे॑ । त्वा॒ । गृ॒ह्णा॒मि॒ ।
भट्टभास्कर-टीका
15तनूनामपां नप्ता चतुर्थः तनूनप्ता अग्निः शरीरस्थः । तस्मै गृह्णामि । वनस्पत्यादित्वात्पूर्वोत्तरपदयोः युगापत्प्रकृतिस्वरत्वम् ॥
विश्वास-प्रस्तुतिः
शा॒क्व॒राय॑+++(=शक्त्यै)+++ त्वा गृह्णामि।
Keith
for the mighty I seize thee;
मूलम्
शा॒क्व॒राय॑ त्वा गृह्णामि।
पद-पाठः
शा॒क्व॒राय॑ । त्वा॒ । गृ॒ह्णा॒मि॒ ।
भट्टभास्कर-टीका
16शाक्वराय शक्त्यै । शकनशीलः शक्वरः तस्य भावश्शाक्वरं शक्तिरेव । ‘शक्त्यै हि ते तास्समवाद्यन्त’ इति च ब्राह्मणम् । तस्मै गृह्णामि ॥
विश्वास-प्रस्तुतिः
शक्म॒न्न्+++(=शक्तेषु)+++ ओजि॑ष्ठाय +++(प्राणाय)+++ त्वा गृह्णामि।
Keith
for the mightiest in strength I seize thee.
मूलम्
शक्म॒न्नोजि॑ष्ठाय त्वा गृह्णामि।
पद-पाठः
शक्म॑न् । ओजि॑ष्ठाय । त्वा॒ । गृ॒ह्णा॒मि॒ ।
भट्टभास्कर-टीका
17शक्मन्न् शक्मेषु जातावेकवचनम् । शकेर्मनिन्, ‘सुपां सुलुक्’ इति ङेर्लुक्, ‘न ङिसम्बुद्ध्योः’ इति नलोपप्रतिषेधः । शक्तानां मध्ये ओजिष्ठाय अतिशयेन बलवते प्राणाय त्वां गृह्णामि । ओजस्विशब्दादिष्ठनि ‘विन्मतोर्लुक्’, ‘टेः’ इति टिलोपः । अयमेककार्यानुवृत्त्यर्थं समयः क्रियते । यद्येवं समयो न क्रियेत तदा परस्पराभिप्रायेणा द्रोहेण विप्रतिपद्यमाना यागं न कुर्युः । अतस्तन्मा भूदिति तानूनप्त्रं गृह्यते ॥
भास्करोक्त-विनियोगः
अव-मृशाति।।
विश्वास-प्रस्तुतिः
अना॑धृष्टम् असि,
अनाधृ॒ष्यन्, दे॒वाना॒म् ओजो॑, ऽभिशस्ति॒+++(=अभिशाप)+++पाः, अ॑नभिशस्ते॒न्यम्+++(=अभिशस्तेनाऽवेध्या)+++ +++(असि)+++।
Keith
Thou art unapproached,
the unapproachable might of the gods, guarding from imprecations, impervious to imprecations.
मूलम्
अना॑धृष्टमसि, अनाधृ॒ष्यम् +++(असि)+++ दे॒वाना॒मोजोऽभिशस्ति॒पा अ॑नभिशस्ते॒ऽन्यम् ।
पद-पाठः
अना॑धृष्ट॒मित्यना॑-धृ॒ष्ट॒म् । अ॒सि॒ ।
अ॒ना॒धृ॒ष्यमित्य॑ना-धृ॒ष्यम् ।
दे॒वाना॑म् । ओजः॑ ।
अ॒भि॒श॒स्ति॒पा इत्य॑भिशस्ति-पाः । अ॒न॒भि॒श॒स्ते॒न्यम् इत्य् अ॑नभि-श॒स्ते॒न्यम् ।
भट्टभास्कर-टीका
18अवमृशाति - अनाधृष्टमसीति ॥ आज्यमुच्यते । अनाधृष्टं केनचिदप्यनभिमूतमसि ।
अनाधृष्यं केनचिदप्यभिभवितुमशक्यं चासि । ‘ऋदुपधाच्चाकॢपिचृतेः’ इति क्यप्, ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् ।
देवानामोजो बलं चासि । त्वया हि देवा ऋत्विजो बलवन्तो यजन्ते । यद्वा - त्व्या हि देवा इन्द्रादयो बलवन्तो भवन्ति ।
अभिशस्तिपाः अभिशस्तिरभिशंसनमभिशापः अतस्त्वं पासि । विचि लिङ्गव्यत्ययः ।
अनभिशस्तेन्यं अनभिशंसनीयं केनचिदपि नाभिशंस्यते न दूष्यत इत्यर्थः । एन्यप्रत्ययस्तुडागमश्च उत्तरपदान्तोदात्तत्वं च छन्दसि । [यद्वा?] अभिशस्तेन योगं नार्हति इत्यनभिशस्तेन्यम् । ‘छन्दसि च’ इति यः, विभक्तेर्लुगभावश्छान्दसः, योगं नार्हतीत्यर्थे तद्धतिः, ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - अभिशंसनं अभिशस्तं तन्नार्हतीति एन्यप्रत्ययश्छान्दसः ‘नञो गुणप्रतिषेधे’ इत्युत्तरपदान्तोदात्तत्वम् । ईदृशं त्वमसीत्याज्यस्तुतिः ॥
भास्करोक्त-विनियोगः
यजमानं वाचयति।।
विश्वास-प्रस्तुतिः
अनु॑ मे दी॒क्षान् दी॒क्षाप॑तिर् मन्यताम्,
अनु॒ तप॒स् तप॑स्पतिः+++(=अग्निः [मन्यताम्])+++।
अञ्ज॑सा+++(=ऋजुना)+++ स॒त्यम् +++(समयं तानूनप्त्राभिमर्शनेन)+++ उप॑ गेषम्+++(=अगच्छम्)+++।
सु॒वि॒ते+++(=सूताय)+++ मा॑ धाः ॥
Keith
May the lord of consecration approve my consecration,
the lord of penance my penance.
Speedily may I attain truth.
Place me in good fortune.
मूलम् (संयुक्तम्)
- अनु॑ मे दी॒क्षान्दी॒क्षाप॑तिर्मन्यता॒मनु॒ तप॒स्तप॑स्पति॒रञ्ज॑सा स॒त्यमुप॑ गेषँ सुवि॒ते मा॑ धाः ॥ [19]
मूलम्
अनु॑ मे दी॒क्षान्दी॒क्षाप॑तिर्मन्यताम् ।
अनु॒ तप॒स्तप॑स्पतिः +++(मन्यताम्)+++ ।
अञ्ज॑सा स॒त्यमुप॑ गेषम् ।
सु॒वि॒ते मा॑ धाः ॥
भट्टभास्कर-टीका
अन्विति॑ । मे॒ । दी॒क्षाम् । दी॒क्षाप॑ति॒रिति॑ दी॒क्षा-प॒तिः॒ । म॒न्य॒ता॒म् ।
अन्विति॑ । तपः॑ । तप॑स्पति॒रिति॒ तपः॑-प॒तिः॒ ।
अञ्ज॑सा । स॒त्यम् । उपेति॑ । गे॒ष॒म् ।
सु॒वि॒ते । मा॒ । धाः॒ ॥ [19]
भट्टभास्कर-टीका
19यजमानं वाचयति - अन्विति ॥ दीक्षापतिर्विष्णुस्स मम दीक्षामनुमन्यतां अनुजानातु । ‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् । तपः उपसत् तस्य पतिस्तपस्पतिरग्निः । सोपि मम तपोनुमन्यताम् ।
अञ्जसा ऋजुना आशास्येन सत्यं समयं तानूनप्त्राभिमर्शनेन उपगेषं उपसम्प्राप्तोस्मि ।
अत एतद्विज्ञाय मां सुविते धाः धेहि स्थापय हे आज्य सुविते सूतौ अपत्ये मां धेहि अपत्यवन्तं मां कुरु । छान्दस इडागमः ।
यद्वा - सुविते । स्विते सुष्ठुप्राप्ते अस्मत्प्राप्ते अस्मत्पूर्वचरिते यज्ञे वा मां धेहि । स्थाने वा सुखवति अस्मर्त्पूवेरिते मां स्थापय । ‘तन्वादीनां । बहुळं छन्दसि’ इत्युवङादेशः, ‘सूपमानात्क्तः’ इत्युत्तरपदान्तोदात्तत्वम् ।
अन्य आहुः - अञ्जसा ऋजुना यथाशस्त्रीयेण सत्यं सति साधु परानिन्दात्मकं वस्तु उपगेषं उपगतो भूयासम् । तदर्थमामन्त्रिते श्रेयोर्थिभिस्सुष्ठु सेविते सुष्ठु ज्ञाते वा पथि मां ज्ञा[स्था]पयतेति । अस्मिन्पक्षे इणो गादेशश्छान्दसः, आशिषि लिङ्, ‘लिङ्याशिष्यङ्’, ‘आतो लोपः’, यासुट्, ‘अतो येयः’, आर्धधातुकत्वात्सलोपाभावः, बहुळवचनाद्यलोपः ।
पूर्वस्मिन् पक्षे लुङि ‘इणो गा लुङि’ इति गादेशः, छान्दसः इत्वं विकारः, व्यत्ययेन ‘गातिस्था’ इति न प्रवर्तते, ‘बहुळं छन्दस्यमाङ्योगेपि’ इत्यडभावः ॥