सोमऋषिः
१ षट्पदा अतिजगती
२-३ अनुष्टुप्
४ जगती
प्रच्यावनम्
भास्करोक्त-विनियोगः
1शकटेन सोमं प्रच्यावयति - प्रच्यवस्वेति तिसृभिः । तत्र प्रथमा षट्पदा अतिजगती ॥
विश्वास-प्रस्तुतिः ...{Loading}...
प्रच्य॑वस्व भुवस्पते॒ +++(सोम!)+++
विश्वा॑न्य् अ॒भि+++(लक्ष्य)+++ धामा॑नि ।
मा त्वा॑ परिप॒री+++(=परिबाधको [विश्वावसुर् गन्धर्वो])+++ वि॑दत्।
मा त्वा॑ +++(अन्ये)+++ परिप॒न्थिनो॑ विदन्,
मा त्वा॒ वृका॑ अघा॒यवः॑।
मा ग॑न्ध॒र्वो वि॒श्वाव॑सु॒र् आ द॑घत्+++(=आत्मसात् कार्षुः)+++ ।
सर्वाष् टीकाः ...{Loading}...
Keith
Move forward, O lord of the world,
To all thy stations.
Let no opponent find thee,
Let not robbers find thee;
Let not the evil-working wolves (find) thee;
Nor the Gandharva, Viçvavasu, injure thee.
मूलम् (संयुक्तम्)
प्रच्य॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि॒ मा त्वा॑ परिप॒री वि॑द॒न्मा त्वा॑ परिप॒न्थिनो॑ विद॒न्मा त्वा॒ वृका॑ अघा॒यवो॒ मा ग॑न्ध॒र्वो वि॒श्वाव॑सु॒रा द॑घत्
मूलम्
+++(अतिजगतीछन्दोनुगुणः मन्त्रः)+++
[षट्पदतया विभक्तो मन्त्रः ]
प्रच्य॑वस्व भुवस्पते॒ … +++(८ अक्षराणि)+++
विश्वा॑न्य॒भि धामा॑नि । +++(७ अक्षराणि)+++
मा त्वा॑ परिप॒री वि॑दत् … +++(८ अक्षराणि)+++
मा त्वा॑ परिप॒न्थिनो॑ विदन् … +++(९ अक्षराणि)+++
मा त्वा॒ वृका॑ अघा॒यवः॑। +++(८ अक्षराणि)+++
मा ग॑न्ध॒र्वो वि॒श्वाव॑सु॒रा द॑घत् । +++(११ अक्षराणि - चतुर्थपादः विवृद्धाक्षरः)+++
पद-पाठः
प्रेति॑ । च्य॒व॒स्व॒ । भु॒वः॒ । प॒ते॒ । विश्वा॑नि । अ॒भीति॑ । धामा॑नि ।
मा । त्वा॒ । प॒रि॒प॒रीति॑ परि-प॒री । वि॒द॒त् । मा । त्वा॒ । प॒रि॒प॒न्थिन॒ इति॑ परि-प॒न्थिनः॑ । वि॒द॒न् । मा । त्वा॒ । वृकाः॑ । अ॒घा॒यव॒ इत्य॑घ-यवः॑ ।
मा । ग॒न्ध॒र्वः । वि॒श्वाव॑सु॒रिति॑ वि॒श्व-व॒सुः॒ । एति॑ । द॒घ॒त् ।
भट्टभास्कर-टीका
प्रच्यवस्व प्रकर्षेणास्माद्देशाद्गच्छ भुवः भुवनस्य पते सोम । ‘षष्ठ्याः पतिपुत्र’ इत्यादिना सत्वं, ‘सुबामन्त्रिते’ इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायो निहन्यते ।
विश्वानि धामानि गन्तव्यानि स्थानानि अभि लक्षीकृत्य गच्छ । ‘अभिरभागे’ इति कर्मप्रवचनीयत्वम् ।
किञ्च - तथा गच्छन्तं त्वां परिपरी मा विदत् मा प्रापत् । विन्दतेर्लुङि लृदित्वादङ् । ‘छन्दसि परि’ इत्यादिना पर्यवस्थातरि निपात्यते । योध्वन्याक्रम्य बाधते स पर्यवस्थाता ।
स विश्वावसुर्गन्धर्वोभिप्रेतः यः पूर्वं सोमं पर्यमुष्णात् । ब्राह्मणं च भवति ‘मा त्वा परिपरी विददित्याह यदेवादस्सोममाह्रियमाणं गन्धवो विश्वावसुः पर्यमुष्णात्तस्मादेवमाहापरिमोषाय’ इति । स इदानीं त्वाम्मा विददिति ।
किञ्च - सर्व एव परिपन्थिनः विश्वावसोरन्येपि त्वां मा विदन् । तेनैव निपात्यते ।
किञ्च – वृकाः आदाय गन्तारः । कुक वृक आदाने, इगुपधात्कः, पचाद्यच् [ज्वा?], पुषादिर्द्रष्टव्यः । अघं पापं वधादिकं तवेच्छन्तः । ‘छन्दसि परेच्छायाम्’ इति क्यच्, ‘अश्वाघस्यात्’ इत्यात्त्वम् । येध्वनि पीडां कुर्वन्तोन्यत्र बाधितुं अध्वनोपनयन्ति ते त्वां मा दघत् मात्मसात्कार्षुः । दघ पालने, छान्दसश्च्लेरङादेशः । एवं तु वक्ष्यमाणस्यैकवचनस्य विपरिणामेन सम्बन्धः क्लिष्टस्स्यात् । तस्माद्वृका अपि त्वां माविदन्नित्येव ।
किच्च - विश्वावसुनामा गन्धर्वः त्वां मा दघत् परिपरी च मा भूत् आदघिता च मा भूत् इति द्वयमस्य निषिध्यते । चतुर्थपादो विवृद्धाक्षरः ॥
विश्वास-प्रस्तुतिः ...{Loading}...
श्ये॒नो भू॒त्वा परा॑ पत
यज॑मानस्य नो गृ॒हे +++(प्राग्वंशे)+++ ।
+++(ऋत्विक्प्रेरित)+++दे॒वैस् सँ॑स्कृ॒तम् +++(आसनम्)+++ ।
सर्वाष् टीकाः ...{Loading}...
Keith
Become an eagle and fly away
to the place in the house of the sacrificer
which we have prepared with the gods (for thee).
मूलम्
श्ये॒नो भू॒त्वा परा॑ पत
यज॑मानस्य नो गृ॒हे ।
दे॒वैस्सँ॑स्कृ॒तम् ।
पद-पाठः
श्ये॒नः । भू॒त्वा । परेति॑ । प॒त॒ । यज॑मानस्य । नः॒ । गृ॒हे । दे॒वैः । सँ॒स्कृ॒तम् ।
प्रदीपसिंहः
+++(अत्र तृतीयपादः ह्रसिष्ठः चतुर्थो वर्षिष्ठः इति व्याख्याने । अयं न स्पष्टः मूले ।)+++
भट्टभास्कर-टीका
2अथ द्वितीया श्येन इत्यनुष्टुप् । अत्र तृतीयः पादो ह्रसिष्ठः, चतुर्थो वर्षिष्ठः ॥
श्येन इव शीघ्रो भूत्वा परापत निस्सङ्कटं गच्छ अस्मदीयस्य यजमानस्य गृहे प्राग्वंशे । तत्र ऋत्विग्भिर्देवैस्संस्कृंतं आसन्दीस्थानम् । प्रवृद्धादित्वादुत्तरपदान्तोदात्तत्वम् ॥
उपस्थानादिकम्
भास्करोक्त-विनियोगः
अध्वर्यु-यजमानौ गच्छतः।।
विश्वास-प्रस्तुतिः
+++(हे सोम!)+++ यज॑मानस्य स्व॒स्त्यय॑न्य् अ॒सि ।
Keith
Thou art the good luck of the sacrificer.
मूलम् (संयुक्तम्)
-यज॑मानस्य स्व॒स्त्यय॑न्य॒स्यपि॒ पन्था॑मगस्महि स्वस्ति॒गाम॑ने॒हसय्ँ॒येन॒ विश्वा॒ᳶ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॒
मूलम्
यज॑मानस्य स्व॒स्त्यय॑न्य॒सि ।
पद-पाठः
यज॑मानस्य । स्व॒स्त्यय॒नीति॑ स्वस्ति-अय॑नी । अ॒सि॒ ।
भट्टभास्कर-टीका
3अध्वर्युयजमानौ गच्छतः - यजमानस्य स्वस्त्ययनीति ॥
स्वस्त्ययनमविनाशप्रापणं तद्वानसि यजमानस्य स्वस्त्ययनकार्यसि हे सोम । यद्वा - स्वस्तिमदयनमाश्रयस्तद्वान् अविनश्वराश्रयत्वात् यजमानस्याविनश्वराश्रयोसीति यावत् । सर्वथा ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम् ।
विश्वास-प्रस्तुतिः ...{Loading}...
अपि॒ पन्था॑म् अगस्महि
स्व॒स्ति॒गाम् अ॑ने॒हस॑म्+++(=अस्पर्धिनम्)+++,
येन॒ विश्वा॒ᳶ परि॒ द्विषो॑
वृ॒णक्ति॑, वि॒न्दते॒ वसु॑ ।
सर्वाष् टीकाः ...{Loading}...
Keith
We have reached the path
Which leadeth to bliss, without a foe,
Whereby a man defeateth all his foes
and winneth wealth.
मूलम्
अपि॒ पन्था॑मगस्महि
स्व॒स्ति॒गाम॑ने॒हस॑म्।
येन॒ विश्वा॒ᳶ परि॒ द्विषो॑
वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ।
पद-पाठः
अपीति॑ । पन्था॑म् । अ॒ग॒स्म॒हि॒ । स्व॒स्ति॒गामिति॑ स्वस्ति-गाम् । अ॒ने॒हस॑म् ।
येन॑ । विश्वाः॑ । परीति॑ । द्विषः॑ । वृ॒णक्ति॑ । वि॒न्दते॑ । वसु॑ ।
भट्टभास्कर-टीका
सतिशिष्टत्वादीनि[दि] प्वरस्य अथ तृतीया - अपिपन्थामित्यनुष्टुप् ।
केचिदाहुः - ‘प्रथमा धृतिर्नवपदा । यजमानस्य स्वस्त्ययनीत्यादिका तु पञ्चपदा पङ्तिः’ इति ॥
अपि च, वयमपि पन्थां पन्थानमगस्महि सभ्प्राप्ताः त्वत्प्रसादेन सोम । कीदृशं स्वस्तिगां, स्वस्ति अविनाशं गम्यते येन तादृशम् । ‘गाङ् गतौ’ इत्यतो विच् । अनेहसं अपापं पापफलरहितं पन्थानं अगमाम । व्यत्ययेनात्मनेपदम्, ‘वा गमः’ इति सिचः कित्त्वादनुनासिकलोपः । ‘पथिमथ्यृभुक्षामात्’ इत्यात्वम् व्यत्ययेन द्वितीयायामपि भवति । यद्वा - ‘आशंसायां भूतवच्च’ इति लुङ् । तमपि पन्थानं गम्यास्म स्वस्तिगामनेहसम् ।
पुनश्च पन्था विशेष्यते - येन पथा गच्छन् विश्वा द्विषः विश्वान् द्वेषेयान् लिङ्गव्यत्ययेन स्त्रीत्वम् । यद्वा - सम्पदादिलक्षणस्स्त्रियां क्विप् । परिवृणक्ति परितो वर्जयति ।
किञ्च - विन्दते लभते च वसु धनं तमगमाम गम्यास्म वा ॥
भास्करोक्त-विनियोगः
राजानं प्रत्य् उपतिष्ठते। ।
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से+++(!)+++
म॒हो दे॒वाय॒ तद् ऋ॒तँ स॑पर्यत ।
दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑
दि॒वस्-पु॒त्राय॒ सूर्या॑य शँसत ॥
+++(वरणात्मा कदाचित् सोम उपयाति - ‘वरुणो वा एष यजमानमभ्यैति यत्क्रीतस्सोम उपनद्धः’ इति। मित्रवान् अपि - ‘मित्रो न एहि’ इति सोम उच्यते ।)+++
सर्वाष् टीकाः ...{Loading}...
Keith
Honour to the radiance of Mitra and Varuna.
This worship, this reverence offer to the god;
To the far seeing, god-born, the banner,
The son of the sky, the sun, do ye sing.
मूलम् (संयुक्तम्)
-नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तँ स॑पर्यत दूरे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शँसत॒
मूलम्
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से
म॒हो दे॒वाय॒ तदृ॒तँ स॑पर्यत ।
दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑
दि॒वस्पु॒त्राय॒ सूर्या॑य शँसत ॥
पद-पाठः
नमः॑ । मि॒त्रस्य॑ । वरु॑णस्य । चक्ष॑से । म॒हः । दे॒वाय॑ । तत् । ऋ॒तम् । स॒प॒र्य॒त॒ ।
दू॒रे॒दृश॒ इति॑ दूरे-दृशे॑ । दे॒वजा॑ता॒येति॑ दे॒व-जा॒ता॒य॒ । के॒तवे॑ । दि॒वः । पु॒त्राय॑ । सूर्या॑य । शँ॒स॒त॒ ।
भट्टभास्कर-टीका
5राजानं प्रत्युपतिष्ठते - नमो मित्रस्येति जगत्या ॥ सूर्यात्मना सोमस्स्तूयते । नमस्कारोस्तु तस्मै मित्रस्य वरुणस्य चक्षसे चक्षुस्थानीयाय । महः चतुर्थ्यर्थे षष्ठी; महते देवाय तदृतं यज्ञं सपर्यत तस्मै देवाय सपर्यार्थं यज्ञमपि प्रयुङ्ग्ध्वम् । सपर पूजायां कण्ड्वादिः । विभक्तिव्यत्ययेन वा चक्षुस्थानीयं तं ऋतेन परिचरतेति ।
एवं नमस्कारेण यज्ञेन च महान् देव आराध्यत इत्युक्तम्, अधुना स्तोत्रेणाप्याराधनीय इत्याह - दूरेदृशे दूरे सर्वदा दृश्यत इति दूरेदृक्, दूरे स्थित्वा सर्वं पश्यतीति वा । ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक् । देवजाताय जाता देवा यस्मिन् । ‘निष्ठायाः पूर्वनिपाते आतिकालसुखादिध्यः परवचनम्’ इति परनिपातः । केतवे रश्मिमते । मत्वर्थीयो लुप्यते । यद्वा - केतुः प्रज्ञा, तद्धतेवे तदात्मने वा । दिवस्पुत्राय दीप्तेः पुत्रस्थानीयाय, सदा तत्प्रभवत्वात् । यद्वा - दिवो द्युलोकस्य दुःखात्त्रायकाय । ‘षष्ठ्याः पतिपुत्र’ इत्यादिना सत्वम् । ईदृशाय सूर्याय विश्वस्य सवित्रे शंसत शस्त्राणि कुरुत, स्तुवतेति यावत् ।
एवं लिङ्गात्सूर्योपस्थानमिदं प्रतीयते, सोमोपस्थाने तु विनियुज्यते ‘राजानं प्रत्युपतिष्ठते’ इति । तत्र चक्षुस्स्थनीयस्य सूर्यस्य नमस्कारादिना चक्षुष्मान्देव आराधितो भवतीत्याचार्यस्याभिप्रायः । इयं चोपपत्तिः - अत्र प्रकरणे मित्रवरुणशब्दौ सोमवचनौ मन्त्रेषु प्रसिद्धौ, यथा ‘मित्रो न एहि’ इति सोम उच्यते । मितेः त्रायते इति मित्रः । ‘वरुणो वा एष यजमानमभ्यैति यत्क्रीतस्सोम उपनद्धः’ इति च । वरुण इतीदानीं सोमाभिधानम् । वरणीयैस्सर्वैर्भवतीति वरुणः । देवायेति षष्ट्यर्थे चतुर्थी ।
अयं भावः - मित्रत्वादिगुणविशिष्टस्य महतो देवस्यास्य त्व(मस्य) [म्] चक्षुस्स्थानीय [इति] सूर्याय नमस्कारादिकं कुरुतेति । अनेनैवाभिप्रायेण ‘राजानं प्रत्युपतिष्ठते’ इति प्रतिशब्दः प्रयुक्तः; राजानं प्रति राजानमुद्दिश्य सूर्यमुपतिष्ठत इति लिङ्गमप्यविरुद्धम् ॥
भास्करोक्त-विनियोगः
शकटम् उदग्-ईषम् उपस्तम्भयति।
+++(इषा = शकटस्य महादण्डो यस्यैकस्मिन् भागे वृषो युज्यते, अपरस्मिन् च शकटम्।)+++
वरुणस्य स्कम्भनम् ...{Loading}...
विश्वास-प्रस्तुतिः
वरु॑णस्य॒ +++(सोमस्य च)+++ स्कम्भ॑नम्+++(=धारयिता)+++ असि ।
Keith
Thou art the pillar of Varuna.
मूलम्
वरु॑णस्य॒ स्कम्भ॑नमसि ।
पद-पाठः
वरु॑णस्य । स्कम्भ॑नम् । अ॒सि॒ ।
भट्टभास्कर-टीका
वरुणस्य स्कम्भनं स्तम्भनमुत्पादयिता त्वमसि यागद्वारेण । यद्वा - वरुणस्य वरणीयस्य वारयितुर्वा सोमस्य स्कम्भनं धारायिता असि ॥
मूलम् (संयुक्तम्)
वरु॑णस्य॒ स्कम्भ॑नमसि॒ वरु॑णस्य स्कम्भ॒सर्ज॑नम॒स्युन्मु॑क्तो॒ वरु॑णस्य॒ पाशः॑ ॥ [17]
पद-पाठः
वरु॑णस्य । स्कम्भ॑नम् । अ॒सि॒ ।
वरु॑णस्य । स्क॒म्भ॒सर्ज॑न॒मिति॑ स्कम्भ-सर्ज॑नम् । अ॒सि॒ ।
वरु॑णस्य । स्क॒म्भ॒सर्ज॑न॒मिति॑ स्कम्भ-सर्ज॑नम् । अ॒सि॒ ।
उन्मु॑क्त॒ इत्युत्-मु॒क्तः॒ । वरु॑णस्य । पाशः॑ ॥ [17]
भट्टभास्कर-टीका
6शकटमुदगीषमुपस्तम्भयति - वरुणस्य स्कम्भनमसीति ॥ व्याख्यातम् । इह त्वयं विशेषः - ईषाया उपस्कम्भनमभिधेयम्, तत्र तु गौः ॥
भास्करोक्त-विनियोगः
शम्याम् उद्-वृहति।
वरुणस्य स्कम्भनम् ...{Loading}...
विश्वास-प्रस्तुतिः
वरु॑णस्य॒ +++(सोमस्य च)+++ स्कम्भ॑नम्+++(=धारयिता)+++ असि ।
Keith
Thou art the pillar of Varuna.
मूलम्
वरु॑णस्य॒ स्कम्भ॑नमसि ।
पद-पाठः
वरु॑णस्य । स्कम्भ॑नम् । अ॒सि॒ ।
भट्टभास्कर-टीका
वरुणस्य स्कम्भनं स्तम्भनमुत्पादयिता त्वमसि यागद्वारेण । यद्वा - वरुणस्य वरणीयस्य वारयितुर्वा सोमस्य स्कम्भनं धारायिता असि ॥
भास्करोक्त-विनियोगः
योक्त्रम् अपनयति।
विश्वास-प्रस्तुतिः
उन् मु॑क्तो॒ वरु॑णस्य॒ पाशः॑ ॥
Keith
Varuna’s noose is loosened.
मूलम्
उन्मु॑क्तो॒ वरु॑णस्य॒ पाशः॑ ॥
पद-पाठः
उन्मु॑क्त॒ इत्युत्-मु॒क्तः॒ । वरु॑णस्य । पाशः॑ ॥ [17]
भट्टभास्कर-टीका
8योक्त्रमपनयति - उन्मुक्तो वरुणस्य पाश इति ॥ अपनीतोसीत्यर्थः । यद्वा - त्वय्यपनीते वरुणस्य पाशः उन्मुक्तो भवतीति ॥
इति द्वितीये नवमोनुवाकः