०६ सोम-मानादिकम्
२ अतिच्छन्दाः (अष्टिः) सोमऋषिः
अभिमर्शः
भास्करोक्त-विनियोगः
1सहिरण्येन पाणिना राजानमभिमृशति - अंशुनेति ॥
विश्वास-प्रस्तुतिः
अँ॒शुना॑ ते अँ॒शुᳶ+++(=सूक्ष्मावयवः)+++ पृ॑च्यता॒म्, परु॑षा॒+++(=पर्वणा)+++ परुः॑+++(=पर्व)+++।
ग॒न्धस् ते॒ काम॑म् अवतु +++(यागम्)+++,
मदा॑य॒ रसो॒ अच्यु॑तः ।
+++(देवयज्ञादीनाम्)+++ अमात्यो॑ऽसि ।
शु॒क्रस्+++(=हिरण्यं)+++ ते॒ +++(परि)+++ग्रहः॑ +++(सहिरण्येन पाणिना ग्रहणात् क्रयणाद् वा)+++।
Keith
Let thy shoot be joined with shoot, joint with joint,
let thy scent further desire,
let thy savour, which falls not, cause rejoicing.
Thou art a home dweller,
thy libation is bright.
मूलम् (संयुक्तम्)
अँ॒शुना॑ ते अँ॒शुᳶ पृ॑च्यता॒म्परु॑षा॒ परु॑र्ग॒न्धस्ते॒ काम॑मवतु॒ मदा॑य॒ रसो॒ अच्यु॑तो॒ऽमात्यो॑ऽसि शु॒क्रस्ते॒ ग्रहः
मूलम्
अँ॒शुना॑ ते अँ॒शुᳶ पृ॑च्यता॒म् , परु॑षा॒ परुः॑ +++( पृ॑च्यताम्)+++ ।..
ग॒न्धस्ते॒ काम॑मवतु ।
मदा॑य॒ रसो॒ अच्यु॑तः ।
अमात्यो॑ऽसि ।
शु॒क्रस्ते॒ ग्रहः॑ ।
पद-पाठः
अँ॒शुना॑ । ते॒ । अँ॒शुः । पृ॒च्य॒ता॒म् ।
परु॑षा । परुः॑ ।
ग॒न्धः । ते॒ । काम॑म् । अ॒व॒तु॒ ।
मदा॑य । रसः॑ । अच्यु॑तः ।
अ॒मात्यः॑ । अ॒सि॒ ।
शु॒क्रः । ते॒ । ग्रहः॑ ।
भट्टभास्कर-टीका
अंशुस्सूक्ष्मावयवः । त्वदीयोंशुः अंशुना अंश्वन्तरेण पृच्यतां सर्वदा संयुज्यताम्, प्राणा[पाना]दिना निमित्तेन मा कदाचिदपि तेन विश्लिष्टो भूत् ।
किञ्च - परुः पर्व तच्च परुषा पर्वणा सम्पृच्यतां अङ्गच्छेदादिना कदाचिदपि तेन विश्लिष्टं मा भूत् ।
अपि च - यागमविघ्नेन निर्वर्तयेमेत्येवं योयमस्माकं कामः इच्छा तं ते तव गन्धः अवतु रक्षतु उद्दीपयतु वा ।
मदाय देवतातृप्तये त्वदीयो रसः अच्युतो भवतु यागान्मादकरणाद्वा मा च्योष्ट । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।
कस्मादेवमुच्यत इति चेत् अत आह - अमात्योसीति । अमा सहभवतीत्यमात्यः । ‘अव्ययात्त्यप्’ ‘अमेहक्वतसित्रेभ्य एव’ । यज्ञस्येन्द्रस्य यजमानस्य वा सहायस्त्वमसि ।
किञ्च - शुक्रो हिरण्यं तव ग्रहः परिग्रहः, हिरण्येन त्वं प्राप्यसे गृह्यसे वा, सहिरण्येन पाणिना ग्रहणात्क्रयणाद्वा ॥
मानम्, उपसमूहनम्
भास्करोक्त-विनियोगः
अति-च्छन्दसा +ऋचा सोमं मिमीते।
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भि त्यन्+++(=तन्)+++ दे॒वँ स॑वि॒तार॑म् ऊ॒ण्योः॑+++(=अवित्र्योः [द्यावापृथिव्योः])+++ क॒विक्र॑तु॒म्
अर्चा॑मि स॒त्य-स॑वसँ+++(=सत्यानुज्ञं)+++ रत्न॒धाम् अ॒भि प्रि॒यम् म॒तिम् +++(धारयन्तम्)+++ । +++(पादादित्वान् न स्वरनिघातः)+++
ऊर्ध्वा यस्या॒ऽमति॒र्+++(=अमनशीला/ व्यापनशीला)+++ भा अदि॑द्युत॒त् सवी॑मनि॒+++(=सवे)+++
+++(माम् आविश्य स)+++ हिर॑ण्य-पाणिर् अमिमीत +++(सोमं)+++ सु॒क्रतु॑ᳵ कृ॒पा+++(=कृपया)+++ सुवः॑+++(=सुष्ठु वृतः)+++ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Unto that god, Savitr, within the two bowls, The sage,
I sing, him of true impulse, The bestower of treasures, unto tile+++(=??)+++ wise friend;
He at whose impulse the resplendent light shone high,
The golden-banded sage hath measured the heaven with his form.
मूलम् (संयुक्तम्)
अभि त्यन्दे॒वँ स॑वि॒तार॑मू॒ण्योः॑ क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वसँ रत्न॒धाम॒भि प्रि॒यम्म॒तिमू॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतु॑ᳵ कृ॒पा सुवः॑ ।
मूलम्
अ॒भि त्यन्दे॒वँ स॑वि॒तार॑मू॒ण्योः॑ क॒विक्र॑तु॒म् +++(१५ अक्षराणि)+++
अर्चा॑मि स॒त्यस॑वसँ रत्न॒धाम॒भि प्रि॒यम्म॒तिम् । +++(१७ अक्षराणि)+++
ऊर्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ +++(१५अक्षराणि)+++
हिर॑ण्यपाणिरमिमीत सु॒क्रतु॑ᳵ कृ॒पा सुवः॑ ॥ +++(१६ अक्षराणि)+++
पद-पाठः
अ॒भीति॑ । त्यम् । दे॒वम् । स॒वि॒तार॑म् । ऊ॒ण्योः॑ । क॒विक्र॑तु॒मिति॑ क॒वि-क्र॒तु॒म् । अर्चा॑मि । स॒त्यस॑वस॒मिति॑ स॒त्य-स॒व॒स॒म् । र॒त्न॒धामिति॑ रत्न-धाम् । अ॒भीति॑ । प्रि॒यम् । म॒तिम् ।
ऊ॒र्ध्वा । यस्य॑ । अ॒मतिः॑ । भाः । अदि॑द्युतत् । सवी॑मनि । हिर॑ण्यपाणि॒रिति॒ हिर॑ण्य-पा॒णिः॒ । अ॒मि॒मी॒त॒ । सु॒क्रतु॒रिति॑ सु-क्रतुः॑ । कृ॒पा । सुवः॑ ॥
भट्टभास्कर-टीका
2अतिच्छन्दसर्चा सोमं मिमीते - अभित्यं देवम् इति । अत्यष्टिरियं षोडशाक्षरपादा, ‘अर्चामि’ इति द्वितीयस्यादिः, ‘ऊर्ध्वा यस्य’ इति तृतीयस्य, ‘हिरण्यपाणिः’ इति चतुर्थस्य ॥ ‘अतिछन्दा वै सर्वाणि छन्दांसि’ इति ब्राह्मणम् ।
अभित्यं देवं सवितारं सर्वस्य प्रेरयितारं ऊण्योस् सर्वस्यावित्र्योः द्यावापृथिव्योः । अवतेरौणादिके निप्रत्यये ‘ज्वरत्वर’ इत्यादिना ऊठि छान्दसं णत्वम्, ‘उदात्तस्वरितयोः’ इत्योकारस्स्वर्यते, ‘उदात्तयणः’ इति व्यत्ययेन प्रवर्तते । कविक्रतुं कवीनां मेधाविनामिव क्रतुः कर्म यस्य तादृशं, कमनीयकर्माणं वा । सत्यसवसं, सत्यानुज्ञं सत्यप्रेरणं वा । रत्नधां रत्नानां रमणीयानां धनानां धारयितारं, रत्नानि धारयन्तं वा । ‘आतो मनिन्’ इति विच् । अभिप्रियं प्रियमभि प्रियं लक्षीकृत्य सर्वस्य प्रियमुत्पादयामीति रत्नानि धारयन्तम् । यद्वा - आभिमुख्येन सर्वस्य प्रियम्; असमस्त एव धात्वर्थं विशिनष्टि । मतिं सर्वैर्मन्तव्यं, सर्वस्य वा ज्ञातारम् । ‘मन्त्रे वृषः’ इति क्तिन उदात्तत्वम् । ईदृशं देवमभ्यर्चामि आभिमुख्येन पूजयामि । पादादित्वान्न निहन्यते ।
पुनश्च देवोपि विशेष्यते - यस्य देवस्यामतिरमनशीला व्यापनशीला भाः दीप्तिः ऊर्ध्वा उत्कृष्टा अदिद्युतत् द्योतयति विश्वं तमभ्यर्चामि । ‘णौ चङ्युपधाया ह्रस्वः’, ‘द्युतिस्वाप्योस्सम्प्रसारणम्’ । अमतेर्गतिकर्मण औणादिकोतिप्रत्ययः । भासतेः ‘भ्राजभास’ इति क्विप् ।
पुनश्च देवो विशेष्यते - यस्य देवस्य सवीमनि सवे अभ्यनुज्ञायां सत्यां येनाभ्यनुज्ञातस्सन् । मनिनि छान्दसमितो दीर्घत्वम् । यद्वा - इमनिचि ‘तुरिष्ठेमेयस्सु’ इति लोपः । अरमदादिस्सोमस्य माता हिरण्यपाणिः हिरण्यसहितपाणिः अमिमीत मिमीते सोमम् । छान्दसो लङ् । सुक्रतुः शोभनकर्मा माता ।
यद्वा - ईदृशोहममि[मी]ति पुरुषव्यत्ययः, ‘क्रत्वादयश्च’ इत्युत्तरपदाद्युदात्तत्वम् । कृपा कल्पनयाङ्गुल्यादिविषयया सुवः सुष्ठु वृतः आगतोहम् । यद्वा - कृपा सामर्थ्येन सुवः सुष्ठु प्राप्तः यस्य प्रसवेनेति । अन्य आहुः - सवीमनीति निमित्तसप्तमी । सर्वस्य प्रसवार्थं यस्य भा[सो] विश्वं द्योतयन्ति स देवो हिरण्यपाणिः अपहरणशीलरश्मिः सुक्रतुश्शोभनकर्मा सुवः आदित्यः कृपया मामध्वर्युमाविश्य स्वयमेव सोमं मिमीते ।
अत्र वा सवीमनीति सम्बध्यते, सर्वस्य प्रसवार्थं स्वयमेव कृपया मामाविश्य सोमं मिमीते इति । कृपू सामर्थ्ये, क्विप्, ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् । पक्षान्तरेपि क्विबन्तमेव कृपायां वर्तते । तृतीयायां वा आकारः । सुपूर्वादर्तोर्विचि गुणे स्वः, ‘तन्वादीनां छन्दसि बहुलम्’ इत्युवङादेशः, ‘न्यङ्स्वरौ स्वरितौ’ इति स्वरितत्वम् ॥
भास्करोक्त-विनियोगः
अवशिष्टं सोमं मितेनोपसमूहति।
विश्वास-प्रस्तुतिः
प्र॒जाभ्य॑स् त्वा +++(अवशिष्टम् उपसमूहामि)+++।
Keith
For offspring thee!
मूलम्
प्र॒जाभ्य॑स्त्वा ।
पद-पाठः
प्र॒जाभ्य॒ इति॑ प्र-जाभ्यः॑ । त्वा॒ ।
भट्टभास्कर-टीका
3अवशिष्टं सोमं मितेनोपसमूहति - प्रजाभ्य इति ॥ प्रजानां सदस्यानामर्थाय त्वामवशिष्टं उपसमूहामि मितं प्रापयामि । ‘यद्वै तावानेव सोमस्स्यात्’ इत्यादि ब्राह्मणम् ॥
सन्नहनम्
भास्करोक्त-विनियोगः
उष्णीषेणोपसन्नह्यति।
विश्वास-प्रस्तुतिः
प्रा॒णाय॑ त्वा +++(सोमम् उपनह्यामि)+++।
Keith
For expiration thee!
मूलम् (संयुक्तम्)
प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा प्र॒जास्त्वमनु॒ प्राणि॑हि प्र॒जास्त्वामनु॒ प्राण॑न्तु ॥[13]
मूलम्
प्रा॒णाय॑ त्वा ।
पद-पाठः
प्रा॒णायेति॑ प्र-अ॒नाय॑ । त्वा॒ ।
भट्टभास्कर-टीका
4उष्णीषेणोपसन्नह्यति - प्राणायेति ॥ प्राणार्थं त्वां सोममुपनह्यामीति । ‘प्राणमेव पशुषु दधाति’ इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
बन्धनं शिथिलीकरोति।
विश्वास-प्रस्तुतिः
व्या॒नाय॑ त्वा +++(अनुशृन्थामि)+++।
Keith
For cross-breathing thee!
मूलम्
व्या॒नाय॑ त्वा ।
पद-पाठः
व्या॒नायेति॑ वि-अ॒नाय॑ । त्वा॒ ।
भट्टभास्कर-टीका
5बन्धनं शिथिलीकरोति - व्यानायेति ॥ व्यानार्थं त्वामनुशृन्थामीति । ‘व्यानमेव पशुषु दधाति’ इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
यजमानम् अवेक्षयति सोमं।
विश्वास-प्रस्तुतिः
प्र॒जास् त्वम् अनु॒ प्राणि॑हि ।
प्र॒जास् त्वाम् अनु॒ प्राण॑न्तु ॥
Keith
Breathe thou after offspring. Let offspring breathe after thee.
मूलम्
प्र॒जास्त्वमनु॒ प्राणि॑हि ।
पद-पाठः
प्र॒जा इति॑ प्र-जाः । त्वम् । अनु॑ । प्रेति॑ । अ॒नि॒हि॒ ।
भट्टभास्कर-टीका
6यजमानमवेक्षयति सोमं - प्रजा इति ॥ हे सोम प्रजा अनु त्वं प्राणिहि प्रजार्थं जीवेत्यर्थः ।
मूलम्
प्र॒जास्त्वामनु॒ प्राण॑न्तु ॥
पद-पाठः
प्र॒जा इति॑ प्र-जाः । त्वाम् । अनु॑ । प्रेति॑ । अ॒न॒न्तु॒ ॥ [13]
भट्टभास्कर-टीका
प्रजाश्च त्वां प्राणन्तमनु प्राणन्तु त्वयि प्राणति ताः प्राणन्तीति ॥