०५ सोमक्रयण्य्-अनुगमनादिकम्

०५ सोमक्रयण्य्-अनुगमनादिकम्
सोमऋषिः

सोमक्रयण्य्-अनुगमनम्


भास्करोक्त-विनियोगः

षट्पदान्यनु निक्रामति सोमक्रयणीं गच्छन्तीम् अनुगच्छति। षट्सु पदेषु षण्मन्त्राः ॥।

विश्वास-प्रस्तुतिः

+++(हे सोमक्रयणि!)+++
वस्व्य् अ॑सि ।
रु॒द्रा+++(=रुद्रवती)+++ ऽसि॑ ।
अदि॑तिरसि॑ ।
आदि॒त्या+++(=आदित्यवती)+++ ऽसि॑ ।
शु॒क्रा+++(=शुक्रवती)+++ ऽसि॑ । +++(शुक्रस्सोमः।)+++
च॒न्द्रा+++(=ह्लादनवती/ हिरण्यवती)+++ ऽसि॑ ।
+++(वसुरुद्रादित्याः सवनत्रयस्य देवताः । अदितिः प्रायणीयोदयनीययोः । वस्वादिमतो यज्ञस्य साधनत्वात् सोमक्रयण्यपि तद्वतीत्युच्यते ।)+++

Keith

Thou art a Vasvi,
thou art a Rudra,
thou art Aditi,
thou art an Aditya,
thou art Çukra,
thou art Candra.

मूलम् (संयुक्तम्)

वस्व्य॑सि रु॒द्राऽस्यदि॑तिरस्यादि॒त्याऽसि॑ शु॒क्राऽसि॑ च॒न्द्राऽसि

मूलम्

वस्व्य॑सि ।
रु॒द्राऽसि॑ ।
अदि॑तिरसि॑ ।
आदि॒त्याऽसि॑ ।
शु॒क्राऽसि॑ ।
च॒न्द्राऽसि॑ ।

पद-पाठः

वस्वी॑ । अ॒सि॒ ।
रु॒द्रा । अ॒सि॒ ।
अदि॑तिः । अ॒सि॒ ।
आ॒दि॒त्या । अ॒सि॒ ।
शु॒क्रा । अ॒सि॒ ।
च॒न्द्रा । अ॒सि॒ ।

भट्टभास्कर-टीका

1-6षट्पदान्यनु निक्रामति सोमक्रयणीं गच्छन्तीमनुगच्छति - वस्व्यसीत्यादिभिः । एते च षट्सु पदेषु षण्मन्त्राः ॥
तत्र वसुरुद्रादित्याः सवनत्रयस्य देवताः । अदितिः प्रायणीयोदयनीययोः । शुक्रस्सोमः । चन्द्रं हिरण्यं दक्षिणादिरूपम् वस्वादिमतो यज्ञस्य साधनत्वात् सोमक्रयण्यपि तद्वतीत्युच्यते ।
वस्वी वसुभिर्देवैः तद्वती त्वमसि । ‘छन्दसीवनिपौ’ इतीकारो मत्वर्थीयः, आद्युदात्तत्वं चिन्त्यम् । वृषादिर्वा द्रष्टव्यः ।यद्वा - वस्वी प्रशस्ता, प्रशस्तता च वसुभिस्सम्बन्धात् । ‘वोतो गुणवचनात्’ इति ङीप्, तत्र हि ‘गुणवचनात् ङीबाद्युदात्तार्थम्’ इत्युक्तम् ।

रुद्रा रुद्रवती । ‘लुगकारेकाररेफाश्च’ इति मत्वर्थीयोकारः । अदितिः अदितिमती । तेनैव मतुपो लुक्, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । आदित्या आदित्यवती । तेनैवाकारः ।

शुक्रवती शुक्रा । स एवाकारः । यद्वा - शुक् दीप्तिः तद्वती । तेनैव रेफः ।

चन्द्रवती चन्द्रा । स एवाकारः । यद्वा - आह्लादिनी । ‘स्फायिताञ्चि’ इत्यादिना रक्प्रत्ययः । ‘षट्पदान्यनु नि क्रामति’ इत्यादि ब्राह्मणम् ॥

सप्तमपदे कर्म


भास्करोक्त-विनियोगः

सप्तमं पदम् अभिगृह्णाति।

विश्वास-प्रस्तुतिः

बृह॒स्पति॑स् त्वा सु॒म्ने+++(=सुखे)+++ र॑ण्वतु+++(=गमयतु)+++ ।
रु॒द्रो वसु॑भि॒र् आ चि॑केतु+++(=जानातु)+++ ।

Keith

May Brhaspati make thee rejoice in happiness.
May Rudra with the Vasus be favourable to thee.

मूलम् (संयुक्तम्)

-बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्वतु रु॒द्रो वसु॑भि॒रा चि॑केतु

मूलम्

बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्वतु ।
रु॒द्रो वसु॑भि॒रा चि॑केतु ।

पद-पाठः

बृह॒स्पतिः॑ । त्वा॒ । सु॒म्ने । र॒ण्व॒तु॒ ।
रु॒द्रः । वसु॑भि॒रिति॒ वसु॑-भिः॒ । एति॑ । चि॒के॒तु॒ ।

भट्टभास्कर-टीका

7सप्तमं पदमभिगृह्णाति - बृहस्पतिरिति ॥ बृहस्पतिर्ब्रह्मा, ‘ब्रह्म वै देवानां बृहस्पतिः’ इति । वनस्पत्यादित्वादुभयपदप्रकृतिस्वरत्वम् । स त्वां सुम्ने सुखे प्रदेशे रण्वतु गमयतु पदं कारयतु । रवि मवि धवि गत्यर्थाः; भौवादिकः इदित्त्वान्नुम् ।

किञ्च - क्रियमाणं वसुभिस्सह रुद्रः आचिकेतु अनुजानातु यः पशूनां पतिः । कि त ज्ञाने, जौहोत्यादिकौ, तयोः प्रथमस्येदं लोटि रूपम् ॥


भास्करोक्त-विनियोगः

8तस्मिन् पदे जुहोति - पृथिव्या इति ॥

मूलम् (संयुक्तम्)

पृथि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इडा॑याᳶ प॒दे घृ॒तव॑ति॒ स्वाहा

विश्वास-प्रस्तुतिः

पृथि॒व्यास् त्वा॑ मू॒र्धन्न्+++(नि)+++ आ जि॑घर्मि+++(=क्षारयामि)+++
देव॒यज॑न॒+++(य्)+++ इडा॑याᳶ+++(=सोमक्रयण्याः [सप्तमे])+++ प॒दे घृ॒तव॑ति
+++(‘पृथिव्या ह्येष मूर्धा यद्देवयजनम्’ इत्यादि ब्राह्मणम् ।)+++
स्वाहा॑+++(=स्वाहुतं भव/ इत्थं सरस्वत्याह)+++ ।

Keith

I pour thee on the head of the earth,
on the place of sacrifice, on the abode of the offering, rich in ghee; hail!

मूलम् (संयुक्तम्)

पृ॒थि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इडा॑याᳶ प॒दे घृ॒तव॑ति॒ स्वाहा

मूलम्

पृ॒थि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इडा॑याᳶ प॒दे घृ॒तव॑ति । +++(स्वाहा॑)+++ ।
स्वाहा॑ ।

पद-पाठः

पृ॒थि॒व्याः । त्वा॒ । मू॒र्धन् । एति॑ । जि॒घ॒र्मि॒ । दे॒व॒यज॑न॒ इति॑ देव-यज॑ने । इडा॑याः । प॒दे । घृ॒तव॒तीति॑ घृ॒त-व॒ति॒ । स्वाहा॑ ।

भट्टभास्कर-टीका

पृथिव्यास्त्वा मूर्धन् मूर्थनि मूर्धस्थानीये पदे । ‘सुपां सुलुक्’ इति सप्तम्या लुक्, ‘न ङिसम्बुध्योः’ इति नलोपाभावः । देवयजने । देवा इज्यन्तेस्मिन्नित्यधिकरणे ल्युट्, कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘पृथिव्या ह्येष मूर्धा यद्देवयजनम्’ इत्यादि ब्राह्मणम् । इडायाः पदे इडा सोमक्रयणी, ‘पशवो वा इडा’, तस्यास्सप्तमे पदे । कीदृशे? घृतवति । ‘यदेवास्यै पदाद्धृतमपीड्यत’ इति ब्राह्मणम् । ‘सा यत्रयत्र न्यक्रामत्ततो घृतमपीड्यत’ इति च । हे आज्य तस्मिन् तादृशे पदे त्वामाजिघर्मि मर्यादया क्षारयामि । घृ क्षरणदीप्त्योः जौहोत्यादिकः, ‘बहुळं छन्दसि’ इत्यभ्यासस्येत्वम् । स्वाहा स्वाहुतं भव ।
यद्वा - इत्थं कर्तव्यमिति स्वयमेव खलु सरस्वत्याह ॥


भास्करोक्त-विनियोगः

पदं परिलिखति।

परिलिखितम् ...{Loading}...

विश्वास-प्रस्तुतिः

परि॑लिखितँ॒+++(=परिनाशितं)+++ रक्ष॒ᳶ
परि॑लिखिता॒ अरा॑तयः ।
इ॒दम् अ॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि ।
यो॑ऽस्मान् द्वेष्टि॒ यञ् च॑ व॒यन् द्वि॒ष्म- इ॒दम् अ॑स्य ग्री॒वा अपि॑ कृन्तामि ।

Keith

The Raksas is enclosed,
the evil spirits are enclosed.
Thus I cut the neck of the Raksas.
Thus I cut the neck of him who hates us and whom we hate [1].

मूलम्

[संयुक्तमन्त्रः - परि॑लिखितँ॒ रक्ष॒ᳶ परि॑लिखिता॒ अरा॑तय इ॒दम॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्म इ॒दम॑स्य ग्री॒वाः [11] अपि॑ कृन्तामि]

परि॑लिखितँ॒ रक्ष॒ᳶ परि॑लिखिता॒ अरा॑तयः । इ॒दम॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि । यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्म इ॒दम॑स्य ग्री॒वा अपि॑ कृन्तामि ।

पद-पाठः

परि॑लिखित॒मिति॒ परि॑-लि॒खि॒त॒म् । रक्षः॑ । परि॑लिखिता॒ इति॒ परि॑-लि॒खि॒ताः॒ । अरा॑तयः ।

इ॒दम् । अ॒हम् । रक्ष॑सः । ग्री॒वाः । अपीति॑ । कृ॒न्ता॒मि॒ ।

यः । अ॒स्मान् । द्वेष्टि॑ ।
यम् । च॒ । व॒यम् । द्वि॒ष्मः ।
इ॒दम् । अ॒स्य॒ । ग्री॒वाः । [11] अपीति॑ । कृ॒न्ता॒मि॒ ।

भट्टभास्कर-टीका

9पदं परिलिखति - परिलिखितमिति ॥ परिलिखितं परितो नाशितं रक्षोस्तु यदत्र छिद्रान्वेषि । ‘गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम् । किच्च अरातयो धनस्यादातारः शत्रवः । वहुळवचनात्कर्तरि क्तिन् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तेपि परिलिखितास्सन्तु अनेन पदविलेखनेन ।

कथमित्याह - यदेतत्परिलिखामि इदं खल्वहं रक्षसः ग्रीवा अपिकृन्तामि यथेष्टं कृन्तामि छिनद्मि । अपिशब्दः कामचारं द्योतयति । ग्रीवाशब्दो धमनिवचनः, तासां बहुत्वाद्बहुवचनं, यथा ‘ग्रीवाभ्योण्च` इति । कृती छेदने, ‘शेमुचादीनाम्’ इति नुम् ।

तथा योऽस्मान् द्वेष्टि यं च वयं द्विष्मः तस्य द्वेष्टुः द्वेष्यस्य शत्रोः ग्रीवाः इदमपि कृन्तामि यदेतत्परिलिखामि । ‘द्वौ वाव पुरुषौ’ इत्यादि ब्राह्मणम् । इदमिति क्रियाविषेणत्वान्नपुंसकत्वम् ॥

भट्टभास्कर-टीका

तयावटं परिलिखति - परिलिखितमिति ॥

भट्टभास्कर-टीका

3अपिकृन्तमीत्यन्तो मन्त्रो व्याख्यातः ॥

पांसुग्रहणम्


भास्करोक्त-विनियोगः

पदपांसून् धरण्यां संवपति।।

विश्वास-प्रस्तुतिः

अ॒स्मे+++(=अस्मासु)+++ रायः॑ ।

Keith

With us be wealth.

मूलम् (संयुक्तम्)

अ॒स्मे राय॒स्त्वे राय॒स्तोते॒ राय॒स्सन्दे॑वि दे॒व्योर्वश्या॑ पश्यस्व॒

मूलम्

अ॒स्मे रायः॑ ।

पद-पाठः

अ॒स्मे इति॑ । रायः॑ ।

भट्टभास्कर-टीका

10पदपांसून् धरण्यां संवपति - अस्मे इति ॥ अस्मे अस्मासु । ‘सुपां सुलुक्’ इति सप्तमीबहुवचनस्य शेआदेशः । अनेन पदपांसुसंवापेन अस्माकं रायः धनानि पश्वात्मकानि सन्तु । ‘पशवो वै सोमक्रयण्यै पदम्’ इत्यादि ब्राह्मणम् । अत्र चाध्वर्युरात्मार्थमेवाशास्ते, न यजमानार्थम् । ‘आत्मानमेवाध्वर्युः पशुभ्यो नान्तरेति’ इति दर्शनात् ॥


भास्करोक्त-विनियोगः

यजमानाय प्रयच्छति।।

विश्वास-प्रस्तुतिः

त्वे+++(=त्वयि)+++ रायः॑।

Keith

with thee be wealth.

मूलम्

त्वे रायः॑।

पद-पाठः

त्वे इति॑ । रायः॑ ।

भट्टभास्कर-टीका

11यजमानाय प्रयच्छति - त्वे इति ॥ त्वे तव । ‘त्वमावेकवचने’ इति त्वादेशः, पूर्ववत्सप्तम्येकवचनस्य शेआदेशः । हे यजमान त्वयि च रायस्सन्तु ॥


भास्करोक्त-विनियोगः

यजमानः पत्न्यै प्रयच्छति।

विश्वास-प्रस्तुतिः

तोते॒+++(=त्वया ऊते/रक्षिते [गृहे])+++ रायः॑ ।

Keith

thine be wealth.

मूलम्

तोते॒ रायः॑ ।

पद-पाठः

तोते॑ । रायः॑ ।

भट्टभास्कर-टीका

12यजमानः पत्न्यै प्रयच्छति - तोत इति ॥ ऊतं रक्षितम् । अवतेर्निष्ठायां ज्वरत्वरादिना ऊठादेशः । त्वया ऊतं तोतम् । त्वदूतमिति वक्तव्ये व्यञ्जनद्वयं लुप्यते, पृषोदरादित्वाद्रूपसिद्धिः, ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । हे पत्नि त्वया रक्षिते च गृहे रायस्सन्तु । ‘अर्धो वा एष आत्मनः’ इत्यादि ब्राह्मणम् । आहुश्च ‘तत्सा गृहेषु निदधाति’ इति ॥

पत्नीकर्म


भास्करोक्त-विनियोगः

पत्नीं सोमक्रयण्या समीक्षयति।

विश्वास-प्रस्तुतिः

सं+ दे॑वि +++(सोमक्रयणि!)+++ दे॒व्या+उ॒र्वश्या॑+++(=उरूणि श्रेयांसि अश्नुते या तया [दृष्ट्या])+++ पश्यस्व।

Keith

Gaze, O goddess, together with the goddess Urvaçi.

मूलम्

सन्दे॑वि दे॒व्योर्वश्या॑ पश्यस्व।

पद-पाठः

समिति॑ । दे॒वि॒ । दे॒व्या । उ॒र्वश्या॑ । प॒श्य॒स्व॒ ।

भट्टभास्कर-टीका

13पत्नीं सोमक्रयण्या समीक्षयति - संदेवीति ॥ उरूणि महान्ति श्रेयांसि अश्नुते व्याप्नोतीत्युर्वशी । अश्नोतेः कर्मण्यण्, ‘संज्ञापूर्वको विधिरनित्यः’ इत्युपधाया वृद्धिर्न क्रियते, वर्णव्यत्ययेन वा ह्रस्वत्वम्, ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम् । देव्या द्योतनवत्या त्वया दृश्यमानया हे देवि सोमक्रयणि सम्पश्यस्व सम्यग्दर्शनवती भव, यथेयमुरूणि श्रेयांस्यश्नुते तथा पश्येति भावः । ‘दृशेश्चेति वक्तव्यम्’ इत्यात्मनेपदम् । ‘उदात्तयणो हल्पूर्वात्’ इति देव्याः परस्यास्तृतीयाया उदात्तत्वम् ॥


भास्करोक्त-विनियोगः

14पत्नी यजमानमीक्षते - त्वष्टीमतीति अस्तारबृहत्या वस्वष्टदशपङ्क्त्यक्षरया +++(वसु८-अष्ट-८, दश-१०,पङ्क्ति-१० अक्षराणीत्यर्थः)+++ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

त्वष्टी॑+++(=प्रजनन-नैशित्य)+++मती ते सपेय+++(=मिथुनीभवेयम्)+++
सु॒रेता॒ रेतो॒ दधा॑ना ।
वी॒रव्ँ वि॑देय॒ तव॑ स॒न्दृशि॑+++(=सन्दर्शने)+++

सर्वाष् टीकाः ...{Loading}...

Keith

Let me attend on thee, with Tvastr’s aid;
rich in seed, bearing seed,
may I find a hero in thy presence.

मूलम्

त्वष्टी॑मती ते सपेय +++(वसु ८ अक्षराणि)+++
सु॒रेता॒ रेतो॒ दधा॑ना +++(अष्ट ८ अक्षराणि)+++ । +++(वसु+अष्ट=१६ अक्षराणि)+++
वी॒रव्ँवि॑देय॒ तव॑ स॒न्दृशि॑ । +++(१०अक्षराणि)+++

पद-पाठः

त्वष्टी॑मती । ते॒ । स॒पे॒य॒ । सु॒रेता॒ इति॑ सु-रेताः॑ । रेतः॑ । दधा॑ना । वी॒रम् । वि॒दे॒य॒ । तव॑ । स॒न्दृशीति॑ सं-दृशि॑ ।

भट्टभास्कर-टीका

तक्षू त्वक्षू तनूकरणे, त्वक्षेः क्तिनि त्वष्टिः प्रजननविषयं नैशित्यं सामर्थ्यविशेषः, तद्वती त्वष्टमिती मिथुनीभवने योग्या । अहं ते तुभ्यं सपेय मिथुनीभवेयम् । षप समवाये, व्यत्ययेनात्मनेपदम्, ‘क्रियाग्रहणं च कर्तव्यम्’ इति सम्प्रदानत्वात्त इति चत्रुथी, पत्ये शेते इति यथा । यद्वा - त्वष्टुर्व्यापारास्त्वष्टयः विविधप्रजानिर्माणशक्तयः । ‘त्वष्टा वै पशूनां मिथुनानां रूपकृत्’ इति ब्राह्मणमप्युपपद्यते । त्वष्टारमाचक्षते इति त्वष्टीयतेः ‘सर्वधातुभ्यः’ इतीन्प्रत्ययः । तद्वती त्वष्टीमती । सर्वत्र ‘अन्येषामपि दृश्यते’ इति दीर्घः ।

किञ्च – सुरेता शोभनममोघं यस्यां निषिक्तं शुक्लं सा सुरेताः । अलोमोषसी’ इत्युत्तरपदाद्युदात्तत्वम् । रेतश्च त्वया निषिक्तं दधाना गर्भार्थमन्तर्बिभ्रती । ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् ।

अहमीदृशीभूत्वा वीरं पुत्रं विदेय लभेय । वेतेः प्रनननवृत्तेः औणादिको रक्प्रत्ययः । विदिर्लाभे, स्वरितेत्, ‘आशिषि लिङि’ ‘लिङ्याशिष्यङ्’, सीयुट्, ‘छन्दस्युभयथा’ इति सार्वधातुकत्वात् सलोपः, अतो लोपाभावश्छान्दसः ।
तव संदृशि संदर्शने सस्नेहदृष्टिलाभे । सम्पदादित्वात्क्विप्, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥


भास्करोक्त-विनियोगः

पत्नी यजमानमीक्षते।

विश्वास-प्रस्तुतिः

माऽहँ रा॒यस्पोषे॑ण॒ वि यो॑षम् ॥

Keith

May I not be separated from abundance of wealth.

मूलम्

माऽहँ रा॒यस्पोषे॑ण॒ वि यो॑षम् ॥

प्रदीपसिंहः

अत्र विश्वासप्रस्तुतिमात्रम् आसीत् । मूलं नासीत् । मूलं योजितम् ।

पद-पाठः

मा । अ॒हम् । रा॒यः । पोषे॑ण । वीति॑ । यो॒ष॒म् ॥ [12]

भट्टभास्कर-टीका

15 यजमानस्सोमक्रयणीमीक्षते - माहमिति चतुर्थेन पादेन ॥
अहं रायो धनस्य पोषेण पुष्ट्या मा वियोषं वियुक्तो मा भूवम्, हे सोमक्रयणि त्वत्प्रसादात् । यौतेर्लिङि ‘छन्दस्युभयथा’ इति सिचस्सार्वधातुकत्वादिडभावः, ‘संज्ञापूर्वको विधिरनित्यः’ इति सिचि वृद्धिर्न क्रियते । यद्वा - युङ्बन्धने क्रैयादिकः, अनुदात्तः ‘युणुक्ष्णवः’ इत्यत्र हि कारिकायां सानुबन्धस्य ग्रहणात्, वृद्ध्यभावः पूर्ववत् । यद्वा - ‘लेटोऽडाटौ’ इत्याडागमः, इतश्च लोपः, ‘सिब्बहुळं लेटि’, ‘ऊडिदम्’ इत्यादिना रायः परस्याष्षष्ठ्या उदात्तत्वम्, ‘षष्ठ्याः पतिपुत्र’ इत्यादिना विसर्जनीयस्य संहितायां सकारः ॥

इति द्वितीये पञ्चमोनुवाकः