०२ दीक्षा

५ त्रिपदा विराट् ८ त्रिष्टुप् ६ अनुष्टुप् सोमऋषिः


भास्करोक्त-विनियोगः

स्रुवेण चतस्रो दीक्षाहुतीर्जुहोति-।

मूलम् (संयुक्तम्)

आकू॑त्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॒ सर॑स्वत्यै पू॒ष्णे॑ऽग्नये॒ स्वाहा

विश्वास-प्रस्तुतिः

आकू॑त्यै+++(=सङ्कल्पाय)+++ प्र॒युजे॒ ऽग्नये॒ स्वाहा॑ ।

Keith

To the purpose, to the impulse, to Agni, hail!

मूलम्

आकू॑त्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ ।

पद-पाठः

आकू॑त्या॒ इत्या-कू॒त्यै॒ । प्र॒युज॒ इति॑ प्र-युजे॑ । अ॒ग्नये॑ । स्वाहा॑ ।

भट्टभास्कर-टीका

1-4स्रुवेण चतस्रो दीक्षाहुतीर्जुहोति - आकूत्या इति ॥ आकूतिस्सङ्कल्पः ॥ ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । प्रयुङ्क्ते इति प्रयुक्, कर्मणां प्रयोक्ता । क्विपि कृदुत्तरपदप्रकृतिस्वरत्वम् । य आकूतिर्भूत्वा कर्माणि प्रयुङ्क्ते प्रवर्तयति, तस्मा अग्नये स्वाहा हुतमिदमस्तु ॥ ‘आकूत्या हि पुरुषः’ इत्यादि ब्राह्मणम् ।

विश्वास-प्रस्तुतिः

मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ ।

Keith

To wisdom, to thought, to Agni, hail!

मूलम्

मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ ।

पद-पाठः

मे॒धायै॑ । मन॑से । अ॒ग्नये॑ । स्वाहा॑ ।

भट्टभास्कर-टीका

मेधा ग्रन्थार्थधारणशक्तिः । मनुत इति मनः । मनोतेरसुन् । यो मेधा भूत्वा सर्वान् दुर्बोधानपि मनुते जानाति, तस्मा अग्नये स्वाहा इति ।

विश्वास-प्रस्तुतिः

दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॑ ।

Keith

To consecration, to penance, to Agni, hail!

मूलम्

दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॑ ।

पद-पाठः

दी॒क्षायै॑ । तप॑से । अ॒ग्नये॑ । स्वाहा॑ ।

भट्टभास्कर-टीका

दीक्षा मौण्ड्यस्नानादिलक्षणा । तपतीति तपः । तपतेरसुन् । यो दीक्षा भूत्वा तपति दुःखयति तस्मा अग्नये स्वाहा ।

विश्वास-प्रस्तुतिः

सर॑स्वत्यै पू॒ष्णे॑ऽग्नये॒ स्वाहा॑ ।

Keith

To Sarasvati, to Prisan, to Agni, hail!

मूलम्

सर॑स्वत्यै पू॒ष्णे॑ऽग्नये॒ स्वाहा॑ ।

पद-पाठः

सर॑स्वत्यै । पू॒ष्णे । अ॒ग्नये॑ । स्वाहा॑ ।

भट्टभास्कर-टीका

सरस्वती वाक् । पुष्णातीति पूषा । ‘श्वन्नुक्षन्’ इति पुष्णातेः कनिन्प्रत्ययो निपातितः । यस्सरस्वती भूत्वा सर्वानर्थान्पुष्णाति । यद्वा - पृथिवी पूषा, सर्वार्थपोषणत्वात् । ‘पृथिवी पूषा’ इति च ब्राह्मणम् । यस्सरस्वत्यात्मना पृथिव्यात्मना च स्थित्वा यागं निर्वर्तयति तस्मा अग्नये स्वाहा । ‘वाचैव पृथिव्या यज्ञं प्रयुङ्क्ते’ इति ब्राह्मणम् । पूष्ण इत्युदात्तनिवृतिस्वरेण विभक्तेरुदात्तत्त्वम् ॥


भास्करोक्त-विनियोगः

स्रुचा पञ्चमीं जुहोति।

मूलम् (संयुक्तम्)

आपो॑ देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथि॒वी उ॒र्व॑न्तरि॑क्षम्बृह॒स्पति॑र्नो ह॒विषा॑ वृधातु॒ स्वाहा

विश्वास-प्रस्तुतिः ...{Loading}...

आपो॑ देवीर् बृहतीर् विश्व-शम्-भुवो॒!
द्यावा॑-पृथि॒वी उ॒र्व् अ॑न्तरि॑क्षम्, बृह॒स्पति॑र्
नो ह॒विषा॑ वृधातु।

(… स्वाहा॑।)

सर्वाष् टीकाः ...{Loading}...

Keith

O ye divine, vast, all-sootbing waters!
Heaven and earth, wide atmosphere!
May Brhaspati rejoice in our oblation,

मूलम्

आपो॑ देवीर्बृहतीर्विश्वशम्भुवो॒ … +++(१२ अक्षराणि)+++
द्यावा॑पृथि॒वी उ॒र्व॑न्तरि॑क्षम् +++(१० अक्षराणि)+++ +++(असि)+++ ।
बृह॒स्पति॑र्नो ह॒विषा॑ वृधातु …. +++(११ अक्षराणि, पादत्रयेषु आहत्य ३३ अक्षराणि भवन्ति । १-२पादयोर्यव्यत्यासः)+++

पद-पाठः

आपः॑ । दे॒वीः॒ । बृ॒ह॒तीः॒ । वि॒श्व॒श॒म्भु॒व॒ इति॑ विश्व-श॒म्भु॒वः॒ । द्यावा॑पृथि॒वी इति॒ द्यावा॑-पृ॒थि॒वी । उ॒रु । अ॒न्तरि॑क्षम् । बृह॒स्पतिः॑ । नः॒ । ह॒विषा॑ । वृ॒धा॒तु॒ ।

भट्टभास्कर-टीका

5स्रुचा पञ्चमीं जुहोति - आप इति त्रिपदया विराजा । एकादशाक्षरास्त्रयः पादाः । उक्तं च, ‘ईशैश्च’ इति ॥
हे आपः । षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । हे देवीः देव्यः दीप्तिमत्यः, बृहतीः बृहत्यः । उभयत्र ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । हे विश्वशम्भुवः विश्वस्य लोकस्य शं सुखं भावयन्तीति । भवतेर्ण्यन्तात्क्विप्, बहुलमन्यत्रापि संज्ञाच्छन्दसोः’ इति णिलुक् । वर्ष्या आपः सस्यादिनिष्पादनद्वारेण सर्वस्य सुखं भावयन्तीति ता इहामन्त्र्यन्ते । ‘या वै वर्ष्याः’ इत्यादि ब्राह्मणम् । अत्र ‘विभाषितं विशेषवचने बहुलवचनम्’ इति प्रथमस्य विद्यमानत्वादतः परमामन्त्रितत्रयं निहन्यते ।
हे एवंविधा आपः येषां लोकानां भवत्यश्शं भावयन्ति तान् लोकान् द्यावापृथिवी दिवं च पृथिवीं च । ‘दिवो द्यावा’, इति द्यावादेशः । पृथिवीशब्दो डीषन्तोन्तोदात्तः, ‘देवताद्वन्द्वे च’ इति पूर्वोत्तरपदयोः प्रकृतिस्वरत्वम् । उरु चान्तरिक्षमसि । त्रीनपि लोकान्नोऽस्माकं अन्नेन हविषा बृहस्पतिर्ब्रह्मा वृधातु वर्धयतु । ‘ब्रह्म वै देवानां बृहस्पतिः’ इति ब्राह्मणम् । वृधेर्ण्यन्ताल्लोट्, ‘बहुलमन्यत्रापि’ इति णिलुक् । विकरणव्यत्ययेन शः, आगमव्यत्ययेनाडागम उत्तमस्योक्तः प्रथमस्यापि भवति । यद्वा - लेट उक्तो लोटोपि भवति ।
एवं यज्ञस्यैव वृद्ध्यर्थं तदाधाराणां लोकानां वृद्धिः प्रार्थ्यते । ‘द्यावापृथिव्योर्हि यज्ञः’ इत्यादि ब्राह्मणम् । वनस्पत्यादित्वाद्बृहस्पतिशब्दे पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम्, बृहच्छब्दो वृत्तावाद्युदात्तः ।

विश्वास-प्रस्तुतिः

… स्वाहा॑।

मूलम्

… स्वाहा॑।

पद-पाठः

स्वाहा॑ ।

Keith

hail!

भट्टभास्कर-टीका

स्वाहा सुहुतं चेदमस्तु, युष्मभ्यं वर्धयितव्येभ्यो लोकेभ्यः वर्धयित्रे च बृहस्पतये । एवं स्वाहाकाराधिक्यात् यजुरन्ता विराडियं वेदितव्या । एवमृग्यजुषसमुदायत्वात् अस्य यजुरित्यपि व्यपदेष्टुं शक्यते । यथा ‘यदेतद्यजुर्न ब्रूयात्’ इति । भवति ह्यवयवधर्मेणापि समुदायव्यपदेशः, यथा कृष्टेषु चूर्णमिति । अनवसानत्वाद्वा यजुष्ट्वम् ॥


भास्करोक्त-विनियोगः

6स्रुचैवोद्ग्रहणं जुहोति - विश्वेदेवस्येत्यनुष्टुभा चतुष्पदया यजुरन्तया । ‘सा वा एषर्गनुष्टुक्’ इत्यादि ब्राह्मणम् ।

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे॑ +++(सवितुः)+++ दे॒वस्य॑ ने॒तुर्,
+++(अतो ऽयम्)+++ मर्तो॑ ऽवृणीत +++(तस्य सवितुः)+++ स॒ख्यम्।
विश्वे॑ रा॒य+++(ः)+++, +++(त्वम् अग्ने तस्य)+++ इ॑षुध्यसि+++(=इषुधिर् इवाचरसि)+++
द्यु॒म्नव्ँ+++(=धनं)+++ वृ॑णीत, +++(त्वञ्च तम्)+++ पु॒ष्यसे॑।+++(४)+++

(… स्वाहा॑ ।)

सर्वाष् टीकाः ...{Loading}...

Keith

Let every man choose the companionship
Of the god who leadeth.
Every man prayeth for wealth;
Let him choose glory that he may prosper,

मूलम् (संयुक्तम्)

विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ऽवृणीत स॒ख्यव्ँविश्वे॑ रा॒य इ॑षुध्यसि द्यु॒म्नव्ँवृ॑णीत पु॒ष्यसे॒ स्वाहा॑

पद-पाठः

विश्वे॑ । दे॒वस्य॑ । ने॒तुः । मर्तः॑ । वृ॒णी॒त॒ । स॒ख्यम् । विश्वे॑ । रा॒यः । इ॒षु॒ध्य॒सि॒ । द्यु॒म्नम् । वृ॒णी॒त॒ । पु॒ष्यसे॑ ।

मूलम्

विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ऽवृणीत स॒ख्यम्।
विश्वे॑ रा॒य इ॑षुध्यसि द्यु॒म्नव्ँवृ॑णीत पु॒ष्यसे॑।
(स्वाहा॑ ।)

भट्टभास्कर-टीका

सप्ताक्षरं प्रथमं पदं, अष्टाक्षराणि त्रीण्यन्यानि ॥

विश्वे प्राणिनः
देवस्य नेतुः प्रेरयितुः स्वभूताः वशवर्तिनः नेतव्यत्वेन वर्तन्ते अस्वतन्त्रा वर्तन्त इति यावत् । कोसौ नेता? सवितेति ब्रूमः । कुत एतत्? - विश्वे देवस्य नेतुरित्याह सावित्र्येतेन’ इति ब्राह्मणदर्शनात् । स हि सर्वस्य प्रेरकः, येन यत्र यदा कर्म कृतं भोक्तव्यं तत्र नयति ग्रामाद्ग्रामम्, जागरितात्स्वप्नम्, स्वप्नाच्च जागरितम् इतो लोकादमुं लोकम्, अमुतश्चेमम् इति । एवं तेन सर्वस्येशानेन अस्वतन्त्रा जन्तवः इतश्चेतश्च पशुवन्नीयन्ते ।

किम् अधुना विजानता प्रतिपत्तव्यम् इत्याह- मर्तो वृणीत सख्यम्
मरणधर्मा मनुष्यः । ‘हसिमृग्रिण्वामिदमिलूपूधूर्विभ्यस्तन्’ इति तन्प्रत्ययः ।
यत एवं देवः करोति अतोसौ मर्तो विजानन् देवेन सख्यं वरितुम् अर्हति त्वत्-सकाशात् । ‘अर्हे कृत्यतृचश्च’ इति लिङ् । समानख्यानः सखा । ‘समाने ख्यस्सचोदात्तः’ इति ख्यातेरिण्प्रत्ययः, ‘समानस्य छन्दसि’ इति सभावः, यलोपः इति तत्रानुवर्तते, तस्य भावः सख्यम्, ‘सख्युर्यः’ इति यः ।

अयम् अर्थः - देवेन सवित्रा यत् समानाख्यानत्वं सारूप्यम् एकत्वं वा, यस्मिन् सति स एव भूत्वा पारतन्त्र्याद् विमुक्तस् सर्वस्य स्वयं नेता सम्पद्यते, तत् क्षिप्रम् अयं मर्त्यस् त्वत्-सकाशाद् वरीतुम् अर्हति ।

इदानीम् अस्य देवेन सख्यं कृतवतः मर्त्यस्याग्निसकाशात् समुपजायमाना सिद्धिर् उच्यते -
इषुध्यसि; त्वम् अपि देवसख्यं वृतवन्तम् इमं जनम् इषुधिम् इवाचरसि ;
यथा इषुधिर् इषूणां निधानं भवति एवम् इमं सर्व-सिद्धीनां भाजनत्वेनाचरसि ; तादृशम् एनं करोषीति यावत् । ‘उपमानादाचारे’ इति क्यच्, ‘कव्यध्वरपृतनस्य’ इति विधीयमानो लोपो व्यत्ययेन भवति ।
अथवा - इषुध शर-धारणे, इति कण्ड्वादिरयं द्रष्टव्यः । देव-सख्यं गतवतोस्य त्वम् इषुध्यसि, इषूणाम् इषुधिरिव इषु-स्थानीयानां सिद्धीनाम् अपादानत्वेनाधारत्वेन च वर्तस इत्यर्थः ।

एवम् आमुष्मिका[की]नां सिद्धीनाम् अग्निर् एव दातेत्य् उक्तम् । इदनीम् ऐहिका[की]नामपि दातृत्वं प्रतिपाद्यते । तत्र धनाधीनत्वात् सर्वसिद्धीनां तन्-माहात्म्यं प्रतिपादयति - विश्वे राय इति । रायो धनस्य गोभूमिहिरण्यौदनादिलक्षणस्य विश्वे प्राणिनः । किं? वशवर्तिनः तत्परतन्त्रास्सर्वे इतश्चेतश्च नीयन्ते देवा अपि, किं पुनर्मनुष्याः । कुत एतत् ? ‘वैश्वदेव्येतेन’ इति ब्राह्मणदर्शनात् ।

यत एवं तस्माद् अयं मर्त्यश् शीघ्रम् एव त्वत्-सकाशाद् द्युम्नं धनं वृणीत वरितुमर्हति । स एव लिङ् । त्वमपि तत् द्युम्नं वृणानं मर्त्यं पुष्यसे पोषयसि । पुष पुष्टौ, दैवादिकः उदात्तेत्, व्यत्ययेनात्मनेपदम् । सर्वाभिमतधनसम्पत्तिः पुष्टिः ।

यद्वा - तस्य पुरुषस्य द्युम्नं त्वया पुष्यते । पुरुषव्यत्ययेन मध्यमः, स च तिङः परत्वान्न निहन्यते, ‘अदुपदेशात्’ इति लसार्वधातुकत्वानुदात्तत्वे कृते विकरणस्यैव स्वरः, श्यनस्तु स्वरव्यत्ययेनोदात्तत्वम् ।

विश्वास-प्रस्तुतिः

स्वाहा॑।

Keith

hail!

मूलम्

स्वाहा॑।

पद-पाठः

स्वाहा॑ ।

भट्टभास्कर-टीका

स्वाहा सुहुतमिदमौद्ग्रहणाख्यं हविरस्तु । यज्ञस्योद्ग्रहणहेतुत्वादियमृगुद्ग्रहणी, इदं हविरौद्ग्रहणम् यदनया दीयते । ‘प्रजापतिर्यज्ञमसृजत सोस्मात्सृष्टः पराङैत्स प्रयजुरव्लीनात्’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

कृष्णाजिनस्य शुक्ल-कृष्णे अङ्गुष्ठाङ्गुलिभ्यां सम्मृशति।

विश्वास-प्रस्तुतिः

ऋख्-सा॒मयो॒श् शिल्पे॑ स्थः।+++(५)+++
+++(‘एष वा ऋचो वर्णो यच्छुक्लं कृष्णाजिनस्य’ इत्यादि ब्राह्मणम् ।)+++
ते वा॒म् आ र॑+++(ल)+++भे ।
ते मा॑ पातम् आऽस्य य॒ज्ञस्यो॒दृचः॑+++(=आसमाप्तेः)+++।+++(र४)+++

Keith

Ye are images of the Rc and the Saman.
I grasp you two;
do ye two [1] protect me until the completion of this sacrifice.

मूलम् (संयुक्तम्)

ऋ॒क्सा॒मयो॒श्शिल्पे॑ स्थ॒स्ते वा॒मा र॑भे ते मा॑ [3]पा॒त॒माऽस्य य॒ज्ञस्यो॒दृचः

मूलम्

ऋ॒क्सा॒मयो॒श्शिल्पे॑ स्थः।
ते वा॒मा र॑भे ।
ते मा॑ पातम् आऽस्य य॒ज्ञस्यो॒दृचः॑।

पद-पाठः

ऋ॒क्सा॒मयो॒रित्यृ॑क्-सा॒मयोः॑ । शिल्पे॒ इति॑ । स्थः॒ ।

ते इति॑ । वा॒म् । एति॑ । र॒भे॒ । ़

ते इति॑ । मा॒ । [3] पा॒त॒म् । एति॑ । अ॒स्य । य॒ज्ञस्य॑ । उ॒दृच॒ इत्यु॑त्-ऋचः॑ ।

भट्टभास्कर-टीका

7कृष्णाजिनस्य शुक्लकृष्णे अङ्गुष्ठाङ्गुलिभ्यां सम्मृशति - ऋक्सामयोरिति ॥ अचतुरादिसूत्रेण ऋक्सामशब्दोच्प्रत्ययान्तो निपातितः । हस्तविषयं कौशलं शिल्पम् । हे शुक्लकृष्णे ऋक्सामयोश्शिल्पे स्थः । तत्र ऋचश्शिल्पं शुक्लं, साम्नः कृष्णम् । ‘एष वा ऋचो वर्णो यच्छुक्लं कृष्णाजिनस्य’ इत्यादि ब्राह्मणम् ।

ते तादृशे वां युवां अहमारभे आलभे स्पृशामि । रलयोरेकत्वं स्मर्यते ।

ते च मया स्पृष्टे युवां मां पातं रक्षतम् ।

कुत इत्यत आह - अस्य यज्ञस्य आ उदृच आ उदयात् समाप्तेरिति यावत् । ऋच स्तुतौ, इह तु धातूनामनेकार्थत्वात् गतौ वर्तते, स्तोमाभिप्रायं वा, तत उत्पूर्वात्सम्पदादिलक्षणः क्विप्, कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘ऋक्सामे वै देवेभ्यो यज्ञायातिष्ठमाने’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

कृष्णाजिनम् अभिसर्पति।

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मान् धियँ॒ शिक्ष॑माणस्य देव॒
+++(अग्निष्टोम-)+++ क्रतु॒न् दक्षव्ँ॑ वरुण॒ सँशि॑शाधि+++(=शितं कुरु)+++ ।
यया ऽति॒ विश्वा॑ दुरि॒ता तरे॑म
सु॒तर्मा॑ण॒म्+++(=सुतारकम्)+++ अधि॒ नावँ॑ रुहेम॥+++(५)+++

सर्वाष् टीकाः ...{Loading}...

Keith

O god,Varuna, do thou sharpen this prayer of him who implores thee,
Sharpen his strength, his insight;
May we mount that safe ship
Whereby we’ may pass over all our difficulties.

मूलम् (संयुक्तम्)

इ॒मान्धियँ॒ शिक्ष॑माणस्य देव॒ क्रतु॒न्दक्षव्ँ॑वरुण॒ सँशि॑शाधि॒ ययाऽति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावँ॑ रुहे॒म

मूलम्

इ॒मान्धियँ॒ शिक्ष॑माणस्य देव॒ …
क्रतु॒न्दक्षव्ँ॑वरुण॒ सँशि॑शाधि ।
ययाऽति॒ विश्वा॑ दुरि॒ता तरे॑म
सु॒तर्मा॑ण॒मधि॒ नावँ॑ रुहेम॥

पद-पाठः

इ॒माम् । धिय॑म् । शिक्ष॑माणस्य । दे॒व॒ । क्रतु॑म् । दक्ष॑म् । व॒रु॒ण॒ । समिति॑ । शि॒शा॒धि॒ । यया॑ । अतीति॑ । विश्वा॑ । दु॒रि॒तेति॑ दुः-इ॒ता । तरे॑म । सु॒तर्मा॑ण॒मिति॑ सु-तर्मा॑णम् । अधीति॑ । नाव॑म् । रु॒हे॒म॒ ।

भट्टभास्कर-टीका

8कृष्णाजिनमभिसर्पति - इमामिति त्रिष्टुभा चतुष्पदया ॥ तत्र देवशब्दान्तः प्रथमः । इमामग्निष्टोमविषयां धियं प्रज्ञां शिक्षमाणस्योपाददानस्य पुरुषस्य । शिक्ष विद्योपादाने । ‘अदुपदेशात्’ इति लसार्वधातुकानुदात्तत्वे धातुस्वरः । दक्षमभिवृद्धिकरम् । दक्ष वृद्धौ शीघ्रार्थे च । प्रवर्तकं वा । क्रतुमग्निष्टोमाख्यमिममस्मदीयं यागं हे देव वरुण संशिशाधि संशितं कुरु, स्वकार्यसमर्थमित्यर्थः । श्यतेर्लोटि ‘बहुलं छन्दसि’ इति शपश्श्लुः, ‘बहुलं छन्दसि’ इत्यभ्यासस्येत्वम् ‘सेर्ह्यपिच्च’ इति ‘वा छन्दसि’ इत्यपित्त्वप्रतिषेधात् पित्त्वेन ङित्त्वाभावात् ‘अङितश्च’ इति ईडभावः ।
इदानीं धीर्विशेष्यते - यया धिया विश्वा दुरिता विश्वानि दुरितानि । ‘शेश्छन्दसि बहुलम्’ इति शलोपः । दुःखेन यन्ति एतेष्विति दुरितानि । ‘क्तोधिकरणे च’ इत्यधिकरणे निष्ठा, थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् । श्रेयसो विघातकानि कर्माण्युच्यन्ते । तानि सर्वाणि ययाऽतितरेम अतिक्रम्य गच्छेम तामिमां धियमिति सम्बध्यते ।
ननु दुरितसागरं तितीर्षूणां सम्यक्प्रज्ञावतामपि कया चिन्नावा भवितव्यमित्यत आह - सुतर्माणमिति, सुष्ठु दुरितानां तारणकुशलाम् । ‘अन्येभ्योपि दृश्यते’ इति तरतेर्मनिन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम् । इदृशीं नावमग्निष्टोमात्मिकाम् वयमधिरुहेम अधिरूढा भूयास्म अनेन चर्माधिरोहणेनेति । रुहेराशिषि लिङ्, ‘लिङ्याशिष्यङ्’ । ‘यज्ञो वै सुतर्माणम्’ इति ब्राह्मणम् । ‘कृष्णाजिनेन दीक्षयति ब्रह्मणो वा एतद्रूपं यत्कृष्णाजिनम्’ इति ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

मेखलां पर्यस्यति।

विश्वास-प्रस्तुतिः

ऊर्ग्॑+++(=बलम्)+++ अस्य् आ॒ङ्गि॒र॒सी +ऊर्ण॑-म्रदा+++(=मृद्वी)+++।
ऊर्ज॑म् मे यच्छ ।+++(र४)+++
पा॒हि मा॑ ।
मा मा॑ हिँसीः ।+++(र४)+++

Keith

Thou art the strength of the Angirases, soft as wool;
grant me strength,
guard me,
harm me not.

मूलम् (संयुक्तम्)

ऊर्ग॑स्याङ्गिर॒स्यूर्ण॑म्रदा॒ ऊर्ज॑म्मे यच्छ पा॒हि मा॒ मा मा॑ हिँसीः

मूलम्

ऊर्ग॑स्या॒ङ्गि॒र॒सी …
ऊर्ण॑म्रदा॒ ऊर्ज॑म्मे यच्छ ।
पा॒हि मा॑ ।
मा मा॑ हिँसीः ।

पद-पाठः

ऊर्क् । अ॒सि॒ । आ॒ङ्गि॒र॒सी ।
ऊर्ण॑म्रदा॒ इत्यूर्ण॑-म्र॒दाः॒ । ऊर्ज॑म् । मे॒ । य॒च्छ॒ ।
पा॒हि । मा॒ । मा । मा॒ । हिँ॒सीः॒ ।

भट्टभास्कर-टीका

9मेखलां पर्यस्यति - ऊर्गसीति ॥ ऊर्जयतेः सम्पदादिलक्षणः क्विप् । बलं रसो वाभिधीयते । अङ्गिरसामियमाङ्गिरसीति, यामङ्गिरसो व्यभजन्त ॥
‘अङ्गिरसः सुवर्गं लोकं यन्त ऊर्जं व्यभजन्त’ इत्यादि ब्राह्मणम् । हे मेखले आङ्गिरसि ऊर्क् त्वमसि ऊर्क्परिणामभूतैश्शरैर्निर्मितत्वात् ऊर्ग्व्यपदेशः ।

पुनश्च विशेष्यते - ऊर्णम्रदाः, ऊर्णा अविसूत्रं, तद्वन्मृद्वी । मृदु मर्दने, असुन्प्रत्ययः । ‘ङ्यापोस्संज्ञाछन्दसोर्बहुलम्’ इति पूर्वपदस्य ह्रस्वत्वम्, उपमानपूर्वपदप्रकृतिस्वरत्वम् । ईदृशी त्वमूर्जं बलं मह्यं यच्छ देहि ।

पाहि च माम् । तिङः परत्वान्न निहन्यते । मा च मा हिंसीः ॥


भास्करोक्त-विनियोगः

वाससा यजमानं प्रोर्णोति।

विश्वास-प्रस्तुतिः

विष्णो॒श्+++(=यज्ञस्य)+++ शर्मा॑सि॒, शर्म॒ यज॑मानस्य +++(असि)+++।
शर्म॑ मे यच्छ।

Keith

Thou art the protection of Visnu, the protection of the sacrificer,
grant me protection.

मूलम् (संयुक्तम्)

विष्णो॒श्शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे यच्छ

मूलम्

विष्णो॒श्शर्मा॑सि ।
शर्म॒ यज॑मानस्य +++(असि)+++ ।
शर्म॑ मे यच्छ।

पद-पाठः

विष्णोः॑ । शर्म॑ । अ॒सि॒ ।
शर्म॑ । यज॑मानस्य ।
शर्म॑ । मे॒ । य॒च्छ॒ ।

भट्टभास्कर-टीका

10वाससा यजमानं प्रोर्णोति - विष्णोरिति ॥ विष्णोरपि शर्म सुखमसि सुखहेतुरसि । यज्ञो वै विष्णुः । किञ्च - यजमानस्य शर्मासि । लसार्वधातुकानुदात्तत्वे धातुस्वरः । ईदृशस्त्वं मह्यमपि शर्म यच्छ देहि ॥


भास्करोक्त-विनियोगः

वसन-च्छिद्रेषु यजमानं वाचयति।

विश्वास-प्रस्तुतिः

+++(हे वासः!)+++ नक्ष॑त्राणाम् मा ऽतीका॒शात् +++(छिद्रात्)+++ पा॒हि ।+++(र४)+++

Keith

Guard me from the lustre of the Naksatras.

मूलम् (संयुक्तम्)

नक्ष॑त्राणाम्माऽतीका॒शात् पा॒हि

मूलम्

नक्ष॑त्राणाम्माऽतीका॒शात्पा॑हि ।

पद-पाठः

नक्ष॑त्राणाम् । मा॒ । अ॒ती॒का॒शात् । पा॒हि॒ ।

भट्टभास्कर-टीका

11वसनच्छिद्रेषु यजमानं वाचयति - नक्षत्राणामिति ॥ अतीकाशश्छिद्रं, अतीत्य काशत इत्यतीकाशः । पचाद्यच्, घञ् वाधिकरणे, उभयत्रापि थाथादिस्वरेणान्तोदात्तत्वम्, ‘इकः काशे’ इति दीर्घत्वम् । नक्षत्राणां सम्बन्धी योतीकाशः नक्षत्रदेवत्यत्वान्नक्षत्राणामतीकाश इति । तस्मान्मां पाहि । हे वासः अतीकाशनिमित्तमनाच्छादनं दोषत्वेन न मन्तव्यम् । नक्षत्राण्येव हि तं दोषं परिहरिष्यन्तीति भावः ॥


भास्करोक्त-विनियोगः

कृष्ण-विषाणे यजमानाय प्रयच्छति।

विश्वास-प्रस्तुतिः

इन्द्र॑स्य॒ योनि॑र् असि ।
+++( ‘यज्ञो दक्षिणामभ्यध्यायत्तां समभवत्’ इत्यारभ्य ‘सा कृष्णविषाणाऽभवत्’ इत्यन्ते ब्राह्मणे स्पष्टमिन्द्रयोनित्वमस्याः ॥)+++
मा मा॑ हिँसीः ।

Keith

Thou art the birthplace of Indra [2]; harm me not.

मूलम् (संयुक्तम्)

इन्द्र॑स्य॒ योनि॑रसि [4]मा मा॑ हिँसीःᳶ

मूलम्

इन्द्र॑स्य॒ योनि॑रसि ।
मा मा॑ हिँसीः ।

पद-पाठः

इन्द्र॑स्य । योनिः॑ । अ॒सि॒ ।
मा । मा॒ । हिँ॒सीः॒ ।

भट्टभास्कर-टीका

12कृष्णविषाणे यजमानाय प्रयच्छति - इन्द्रस्येति ॥ इन्द्रस्यापि योनिः कारणमसि त्वम् । ईदृशी त्वं मा मा हिंसीः । त्वां यजमानाय प्रयच्छामीति भावः । ‘यज्ञो दक्षिणामभ्यध्यायत्तां समभवत्’ इत्यारभ्य ‘सा कृष्णविषाणाऽभवत्’ इत्यन्ते ब्राह्मणे स्पष्टमिन्द्रयोनित्वमस्याः ॥


भास्करोक्त-विनियोगः

तयान्तर्वेदि लोष्टम् उद्धन्ति।

विश्वास-प्रस्तुतिः

+++(हे पृथिवि!)+++ कृ॒ष्यै त्वा॑ सुस॒स्यायै॑ +++(उद्धरामि)+++।+++(र४)+++

Keith

For ploughing thee, for good crops,

मूलम्

कृ॒ष्यै त्वा॑ सुस॒स्यायै॑ ।

पद-पाठः

कृ॒ष्यै । त्वा॒ । सु॒स॒स्याया॒ इति॑ सु-स॒स्यायै॑ ।

भट्टभास्कर-टीका

13तयान्तर्वेदि लोष्टमुद्धन्ति - कृष्यै त्वेति ॥ हे पृथिवि या सुसस्या शोभनसस्या कृषिः । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । तदर्थं त्वामुद्धरामीति शेषः । ‘इगुपधात्किः’ इति किप्रत्ययान्तोन्तोदात्तः कृषिशब्दः । ‘उदात्तयणो हल्पूर्वात्’ इति ततः परस्याश्चतुर्थ्या उदात्तत्वम् ॥


भास्करोक्त-विनियोगः

14 तया दक्षिणं गोदानं कण्डूयते - सुपिप्पलाभ्य इति ॥

सुपिप्पलाः ...{Loading}...
भास्करोक्त-विनियोगः

9चषालं प्रतिमुञ्चाति - सुपिप्पलाभ्य इति ॥

विश्वास-प्रस्तुतिः

सु॒पि॒प्प॒लाभ्य॑स्+++(=सुफलेभ्यः)+++ त्वौष॑धीभ्यः +++(कण्डूये)+++।+++(र४)+++

Keith

For the plants with good berries thee!

मूलम्

सु॒पि॒प्प॒लाभ्य॑स्त्वौष॑धीभ्यः ।

पद-पाठः
पद-पाठः

सु॒पि॒प्प॒लाभ्य॒ इति॑ सु-पि॒प्प॒लाभ्यः॑ । त्वा॒ । ओष॑धीभ्य॒ इत्योष॑धि-भ्यः॒ ।

भट्टभास्कर-टीका

यास्सुपिप्पलाः शोभनफलाः शोभनकरणिका ओषधयः, तदर्थं त्वां कण्डूये इति शेषः । पूर्ववत्स्वरः । ओषधिशब्दे तु दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । ‘ओषधेश्च विभक्तावप्रथमायाम्’ इति दीर्घः । ‘यद्धस्तेन कण्डूयत’ इत्यादि ब्राह्मणम् ॥

भट्टभास्कर-टीका

9चषालं प्रतिमुञ्चाति - सुपिप्पलाभ्य इति ॥ व्याख्यातमेव । शोभनफलानामोषधीनामर्थाय त्वां चषालं यूपस्याग्रे प्रतिमुञ्चामीति शेषः । ‘तस्माच्छीर्षत ओषधयः फलं गृह्णन्ति’ `इति ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

औदुम्बरं दण्डं यजमानाय प्रयच्छति।

विश्वास-प्रस्तुतिः

+++(हे दण्ड!)+++ सु॒+उ॒प॒स्था दे॒वो वन॒स्पति॑र् ऊ॒र्ध्वो +++(त्वम्)+++ मा॑ पा॒ह्य् ओदृचः+++(=आसमाप्तेः)+++।

Keith

Thou art of easy access, divine tree. Being erect, guard me until the completion (of the sacrifice).

मूलम्

सू॒प॒स्था दे॒वो वन॒स्पति॑रू॒र्ध्वो मा॑ पा॒ह्योदृचः ।

पद-पाठः

सू॒प॒स्था इति॑ सु-उ॒प॒स्थाः । दे॒वः । वन॒स्पतिः॑ । ऊ॒र्ध्वः । मा॒ । पा॒हि॒ । एति॑ । उ॒दृच॒ इत्यु॑त्-ऋचः॑ ।

भट्टभास्कर-टीका

15औदुम्बरं दण्डं यजमानाय प्रयच्छति - सूपस्था इति ॥ सुष्ठु उपस्थीयते अवष्टभ्य स्थीयते मैत्रावरुणेन प्रैषे कृते । तिष्ठतेः ‘अन्येभ्योपि दृश्यते’ इति कर्मणि क्विप्, कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा - उपस्थानमुपस्था । भावे क्विप्, शोभनमुपस्थानं यस्मिन्निति बहुव्रीहौ ‘नञ् सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम्, अस्त्रीप्रत्ययान्तत्वाद्ध्रस्वाभावः । देवः दीप्तिमान् वनस्पतिः वनस्पतिविकारः, कार्ये कारणशब्दः । ‘उभे वनस्पत्यादिषु युगपत्’ इति पूर्वोत्तरपदयोः युगपत्प्रकृतिस्वरत्वम् । पारस्करप्रभृतित्वात्सुट् । ऊर्ध्वः अकुटिलः । ईदृशस्त्वं मां पाहि रक्ष । ओदृचः आसमाप्तेर्यज्ञस्य । पूर्ववत्प्रत्ययः स्वरश्च । ईदृशं त्वां यजमानाय प्रयच्छामीति भावः । ‘वाग्वै देवेभ्योऽपाक्रामत्’ इत्यादि ब्राह्मणम् ॥


विश्वास-प्रस्तुतिः

+++(आर॑भे )+++ स्वाहा॑ ।
य॒ज्ञम् मन॑सा॒ +++(आर॑भे )+++ स्वाहा॑ ।+++(र४)+++
द्यावा॑पृथि॒वीभ्यां॒ +++(आर॑भे )+++ स्वाहा॑ ।
उ॒रोर् अ॒न्तरि॑क्षात् [आर॑भे ] स्वाहा॑ । +++(‘अन्तरिक्षे हि यज्ञः’ इति च ब्राह्मणम् ।)+++
य॒ज्ञव्ँ वाता॒द् आ र॑भे ॥

Keith

Hail!
with my mind the sacrifice (I grasp); hail!
from heaven and earth, hail!
from the broad atmosphere, hail!
from the wind the sacrifice I grasp.

मूलम् (संयुक्तम्)

स्वाहा॑ य॒ज्ञम्मन॑सा॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्याँ॒ स्वाहो॒रोर॒न्तरि॑क्षा॒त्स्वाहा॑ य॒ज्ञव्ँ वाता॒दा र॑भे ॥ [5]

पद-पाठः

स्वाहा॑ ।
य॒ज्ञम् । मन॑सा । स्वाहा॑ । द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा॑-पृ॒थि॒वीभ्या॑म् । स्वाहा॑ ।
उ॒रोः । अ॒न्तरि॑क्षात् । स्वाहा॑ । य॒ज्ञम् । वाता॑त् । एति॑ । र॒भे॒ ॥ [5]