११ हविरासनादिः

इध्मबर्हिःपूर्वकं वेद्यां हविरासादनादिः।
१४ गायत्री, २० एकपदा त्रिष्टुप् ।


इध्मप्रोक्षणम्

भास्करोक्त-विनियोगः

इध्मं प्रोक्षति

विश्वास-प्रस्तुतिः

कृष्णो॑ऽस्य्
+++(‘अग्निर्देवेभ्यो निलायत । कृष्णो रूपं कृत्वा । स वनस्पतीन्प्राविशत्’ (तै.ब्रा. 3.3.6) इत्यादिब्राह्मणोक्तो)+++
आखरे॒ष्ठः॑ +++(←आखनति भुवम् इति)+++ ।
अ॒ग्नये॑ त्वा॒ +++(प्रोक्षामि)+++ +++(इति)+++ स्वाहा॑ +++(←स्वा वाग् आह)+++ ।

Keith

Thou art a black deer, living in the lair, to Agni thee, hail!

मूलम् (संयुक्तम्)

कृष्णो॑ऽस्याखरे॒ष्ठो॑ऽग्नये॑ त्वा॒ स्वाहा॑

मूलम्

कृष्णो॑ऽस्याखरे॒ष्ठः ।
अ॒ग्नये॑ त्वा +++(प्रोक्षामि)+++ ।

पद-पाठः

कृष्णः॑ । अ॒सि॒ । आ॒ख॒रे॒ष्ठ इत्या॑खरे-स्थः । अ॒ग्नये॑ । त्वा॒ । स्वाहा॑ ।

भट्टभास्कर-टीका

1इध्मं प्रोक्षति - कृष्ण इति ॥ कृष्णः कृष्णमृगः । ‘कृष्णस्य(ा)मृगाख्या चेत्’ (फि.सू. 11) इति वचनान्मृगाख्यायामाद्युदात्तत्वम् । आखरेष्ठः आखनति समन्ताद्भुवं मूलैरवदारयतीत्याखरो वनस्पतिः । ‘खनतेर्डरो वक्तव्यः’ (पा.भा. 3.3.125) इति खनतेर्डरप्रत्ययः । तत्र तिष्ठतीत्याखरेष्ठः । ‘सुपि स्थः’ (पा.सू. 3.2.4) इति कः, ‘तत्पुरुषे कृति बहुलम्’ (पा.सू. 6.3.14) इत्यलुक्, सुषामादित्वात् (पा.सू. 8.3.98) षत्वम्, थाथादिसूत्रेण (पा.सू. 6.2.144) उत्तरपदान्तोदात्तत्वम् । ‘अग्निर्देवेभ्यो निलायत । कृष्णो रूपं कृत्वा । स वनस्पतीन्प्राविशत्’ (तै.ब्रा. 3.3.6) इत्यादिब्राह्मणोक्तो योऽग्निः स एव त्वमसीति तदाधारभूतेध्मस्तुतिः । एवंभूतं त्वामिध्मम् अग्नये अग्न्यर्थं प्रोक्षामीति शेषः ।

मूलम्

स्वाहा॑ ।

भट्टभास्कर-टीका

एवं कर्तव्यमिति स्वयमेव सरस्वत्याह । विभक्त्यन्त-समुदायात्मा निपातः स्वाहा इति । +++(स्वा - आह इति इङ्ग्यत्वेन न पठ्यते पदकाले इति )+++ संस्कार-विशेषानवधारणात् नावगृह्यते ॥


वेदिप्रोक्षणम्

भास्करोक्त-विनियोगः

वेदिं प्रोक्षति

विश्वास-प्रस्तुतिः

वेदि॑र्+++(=वेदयित्री [हविषाम्] →पृथिवी)+++ असि ।
ब॒र्हिषे॑ +++(→प्रजाः)+++ त्वा॒ +++(प्रोक्षामि)+++ +++(इति)+++ स्वाहा॑ +++(←स्वा वाग् आह)+++।

Keith

Thou art the altar, to the strew thee, hail!

मूलम् (संयुक्तम्)

-वेदि॑रसि ब॒र्हिषे॑ त्वा॒ स्वाहा॑

मूलम्

वेदि॑रसि ।
ब॒र्हिषे॑ त्वा +++(प्रोक्षामि)+++ ।
स्वाहा॑ ।

पद-पाठः

वेदिः॑ । अ॒सि॒ । ब॒र्हिषे॑ । त्वा॒ । स्वाहा॑ ।

भट्टभास्कर-टीका

2वेदिं प्रोक्षति - वेदिरिति ॥ वेदिः वेदयित्री हविषामाधारत्वेन प्रकाशयित्र्यसि । । ‘इन् सर्वधातुभ्यः’ (उ.सू. 567) इति वेदेरिन्प्रत्ययः । तां तादृशीं त्वां बर्हिषे बर्हिस्तरणार्थं प्रोक्षामि । एतच्च स्वयमेव वागाह । ‘प्रजा वै बर्हिः’ (तै.ब्रा. 3.3.6) इत्यादि ब्राह्मणम् ॥


बर्हिःप्रोक्षणम्

भास्करोक्त-विनियोगः

बर्हिः प्रोक्षति

विश्वास-प्रस्तुतिः

ब॒र्हिर् +++(→प्रजाः)+++ अ॑सि ।
स्रु॒ग्भ्यस् +++(→यजमानाय)+++ त्वा॒ +++(प्रोक्षामि)+++ +++(इति)+++ स्वाहा॑ +++(←स्वा वाग् आह)+++ ।
+++(‘प्रजा वै बर्हिः । यजमानस्स्रुचः’ (तै.ब्रा. 3.3.6) इत्यादि ब्राह्मणम् ॥)+++

Keith

Thou art the strew, to the ladles thee, hail

मूलम् (संयुक्तम्)

ब॒र्हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहा॑

मूलम्

ब॒र्हिर॑सि ।
स्रु॒ग्भ्यस्त्वा॑ +++(प्रोक्षामि)+++ स्वाहा॑ ।

पद-पाठः

ब॒र्हिः । अ॒सि॒ । स्रु॒ग्भ्य इति॑ स्रुक्-भ्यः । त्वा॒ । स्वाहा॑ ।

भट्टभास्कर-टीका

3बर्हिः प्रोक्षति - बर्हिरिति ॥ (बर्हिः) बृहत् पर्याप्तमसि । ‘बृंहेर्नलोपश्च’ (उ.सू. 274) इतीसिप्रत्ययः । तादृशं त्वां स्रुग्भ्यः स्रुगर्थं स्रुचां धारणार्थं प्रोक्षामि ।

इत्याह स्वयं सरस्वती । ‘सावेकाचः’ (पा.सू. 6.1.168) इति भ्यस उदात्तत्वम् । ‘प्रजा वै बर्हिः । यजमानस्स्रुचः’ (तै.ब्रा. 3.3.6) इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

अन्तर्वेद्यूर्ध्वाग्रं बर्हिस्स्थापयित्वा प्रोक्षति

दिवे त्वा ...{Loading}...

विश्वास-प्रस्तुतिः

दि॒वे त्वा॑ +++(प्रोक्षामि)+++ ।
अ॒न्तरि॑क्षाय त्वा +++(प्रोक्षामि)+++ ।
पृ॒थि॒व्यै त्वा॑ +++(प्रोक्षामि)+++ ।

प्रदीपसिंहः

अन्तरिक्षाय इत्यत्र सन्नतरः नासीत् । पदपाठे वर्तते ।

Keith

To sky thee, to atmosphere thee, to earth thee!

मूलम् (संयुक्तम्)

- दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा

मूलम्

दि॒वे त्वा॑ ।
अ॒न्तरि॑क्षाय त्वा।
पृ॒थि॒व्यै त्वा॑।

पद-पाठः

दि॒वे । त्वा॒ ।
अ॒न्तरि॑क्षाय । त्वा॒ ।
पृ॒थि॒व्यै । त्वा॒ ।

भट्टभास्कर-टीका

4अन्तर्वेद्यूर्ध्वाग्रं बर्हिस्स्थापयित्वा प्रोक्षति - दिव इति ॥ अग्रमध्यमूलेषु क्रमेण प्रोक्षणम् । सर्वत्र प्रोक्षामीति शेषः । यागनिर्वृत्तिद्वारेण द्युप्रभृतीनां लोकानां धारणार्थं प्रोक्षणं भवति । ‘ऊडिदम्’ (पा.सू. 6.1.171) इत्यादिना दिव इति विभक्तेरुदात्तत्वम् । पृथिव्या इत्यादौ ‘उदात्तयणो हल्पूर्वात्’ (पा.सू. 6.1.174) इति विभक्तेरुदात्तत्वम् ॥


प्रोक्षणीशेष-नयनम्

भास्करोक्त-विनियोगः

दक्षिणस्याश् श्रोणेर् उत्तरस्याः प्रोक्षणीशेषं निनयति

विश्वास-प्रस्तुतिः

+++(प्रोक्षणीशेष!)+++ स्व॒धा+++(=अन्नं)+++ +++(सर्व-वर्धक-मास-नाम-)+++पि॒तृभ्यः॒ ऊर्ग्+++(=बलप्राणनयोरुद्दीपकं)+++ भ॑व बर्हि॒षद्भ्यः॑ ।
+++(हे आपः!)+++ ऊ॒र्जा+++(=रसेन सह)+++ पृ॑थि॒वीङ् ग॑च्छत ।

Keith

Be thou refreshment to the fathers, strength to those that sit on the strew.
With strength go ye to the earth.

मूलम् (संयुक्तम्)

-स्व॒धा पि॒तृभ्य॒ ऊर्ग्भ॑व बर्हि॒षद्भ्य॑ ऊ॒र्जा पृ॑थि॒वीङ्ग॑च्छत

मूलम्

स्व॒धा पि॒तृभ्य॒ ऊर्ग्भ॑व बर्हि॒षद्भ्यः॑ …

पद-पाठः

स्व॒धेति॑ स्व-धा । पि॒तृभ्य॒ इति॑ पि॒तृ-भ्यः॒ । ऊर्क् । भ॒व॒ । ब॒र्हि॒षद्भ्य॒ इति॑ बर्हि॒षत्-भ्यः॒ ।

भट्टभास्कर-टीका

5दक्षिणस्याश्श्रोणेरुत्तरस्याः प्रोक्षणीशेषं निनयति - स्वधेति ॥ ‘मासा वै पितरो बर्हिषदः’ (तै.ब्रा. 3.3.6) इत्यादिब्राह्मणप्रसिद्धा ये मासनामानः पितरो बर्हिष्यागत्य सीदन्ति, तेभ्यस्स्वधा अन्नम् । कीदृशं? ऊर्क् बलप्राणनयोरुद्दीपकं भवेति । समुदायापेक्षमेकवचनम्, अन्नापेक्षं वा ।

मूलम्

ऊ॒र्जा पृ॑थि॒वीङ्ग॑च्छत ।

पद-पाठः

ऊ॒र्जा । पृ॒थि॒वीम् । ग॒च्छ॒त॒ ।

भट्टभास्कर-टीका

किञ्च - ऊर्जा रसेन सह पृथिवीं गच्छत प्रविशत । अवयवापेक्षं बहुवचनम् । बर्हिषद इति पृषोदरादिवात्सलोपः । ‘सत्सूद्विष’ (पा.सू. 3.2.61) इत्यादिना क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.139) ।
ऊर्जेति । ‘सावेकाचः’ (पा.सू. 6.1.168) इति विभक्तेरुदात्तत्वम् । ‘आतोऽनुपसर्गे कः’ (पा.सू. 3.2.3) इति कप्रत्ययान्तः स्वधाशब्दः, थाथादिस्वरेणान्तोदात्तः (पा.सू. 6.2.144) ॥


भास्करोक्त-विनियोगः

प्रस्तरं गृह्णाति

विश्वास-प्रस्तुतिः

+++(प्रस्तर!)+++ विष्णो॒स् +++(यज्ञस्य)+++ स्तूपो॑ ऽसि।
+++(‘यज्ञो वै विष्णुः’ (तै.ब्रा. 3.3.6) इति ब्राह्मणम् ।)+++

Keith

Thou art the hair-knot of Visnu.

मूलम्

विष्णो॒स्स्तूपो॑ऽसि।

पद-पाठः

विष्णोः॑ । स्तूपः॑ । अ॒सि॒ ।

भट्टभास्कर-टीका

6प्रस्तरं गृह्णाति - विष्णोरिति ॥ विष्णुः व्यापको यज्ञः । ‘यज्ञो वै विष्णुः’ (तै.ब्रा. 3.3.6) इति ब्राह्मणम् । तस्य स्तूपस्सङ्घातोसि । त्वदात्मना यज्ञस्संहत इति स्तुतिः । ‘स्त्यस्सम्प्रसारणमुच्च’ +++(इदमाकारं सूत्रं नोपलभ्यते??)+++ इति पप्रत्ययः, उकारश्चान्तादेशः, ‘दीर्घश्च’ इति तत्रानुवर्तते, वृषादित्वादाद्युदात्तत्वम् (पा.सू. 6.1.203) ॥


बर्हिस्-स्तरणम्

भास्करोक्त-विनियोगः

बर्हिस् स्तृणाति

विश्वास-प्रस्तुतिः

+++(बर्हिः!)+++ ऊर्णा॑-म्रदसन्+++(=मृदुं)+++ त्वा स्तृणामि स्व्+आ॒स॒-स्थन् दे॒वेभ्यः॑।

Keith

Soft as wool I strew thee, offering a good seat to the gods.

मूलम्

ऊर्णा॑म्रदसन् त्वा स्तृणामि स्वा॒स॒स्थन्दे॒वेभ्यः॑ ।

पद-पाठः

ऊर्णा॑म्रदस॒मित्यूर्णा॑-म्र॒द॒स॒म् । त्वा॒ । स्तृ॒णा॒मि॒ । स्वा॒स॒स्थमिति॑ सु-आ॒स॒स्थम्। दे॒वेभ्यः॑ ।

भट्टभास्कर-टीका

7बर्हिस्स्तृणाति - ऊर्णाम्रदसमिति ॥ ऊर्णा अविसूत्रं, तद्वन्मृदुः ऊर्णाम्रदाः । म्रद मर्दने, घटादिः । यस्मात् ‘प्रथिम्रदि’ (उ.सू. 28) इत्यादिना उर्विधीयते तस्मादसुन् । ‘उपमानानि सामान्यवचनैः’ (पा.सू. 2.1.55) इति तत्पुरुषः । ‘तत्पुरुषे तुल्यार्थे’ (पा.सू. 6.2.2) इत्यादिना उपमानपूर्वपदप्रकृतिस्वरत्वम् । ‘ऊर्णोतेश्च’ (उ.सू. 725) इति डप्रत्ययान्तः ऊर्णाशब्दः, वृषादित्वादाद्युदात्तत्वम् (पा.सू. 6.1.203) । तादृशं त्वां स्तृणामि ।

पुनश्च विशेष्यते - स्वासस्थं, शोभनास्सुखवन्त आसितारः स्थातारश्च यस्मिन् स स्वासस्थः; आसितारः आसाः । आस उपवेशने पचाद्यच् । स्थातारः स्थाः । विच् (पा.सू. 3.2.74) । समाहारद्वन्द्वः । सु आसस्थं शोभनमासस्थं यस्मिन्निति स्वासस्थम् । ‘नञ् सुभ्याम्’ (पा.सू. 6.2.172) इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - आसनमासस्थम् । ‘दृशसददमितमिभ्यश्च’ +++{इदमाकारं सूत्रं नोपलभ्यते} +++(?) इति चकारस्यानुक्तसमुच्चयार्थत्वादासेरथप्रत्ययः । बहुलवचनात् सकारश्च मध्यम उपजायते । शोभनमासस्थं यस्मिन्निति बहुव्रीहिः । स एव स्वरः । देवेभ्य इति षष्ठ्यर्थे चतुर्थी (पा.सू. 2.3.62.वा 1) । देवानां स्वासस्थम् ।
यद्वा - स्वासस्थं त्वां देवार्थं स्तृणामि । तादर्थ्ये चतुर्थी (पा.सू. 2.1.36) ॥


परिधिः

भास्करोक्त-विनियोगः

मध्यमं परिधिं पीरदधाति

विश्वास-प्रस्तुतिः

+++(मध्यम-परिधे!)+++ ग॒न्ध॒र्वो॑ऽसि वि॒श्वाव॑सुर्,
विश्व॑स्मा॒द् ईष॑तो+++(=ईषमानात् = हिंसकाद्)+++ यज॑मानस्य परि॒धिर्,
इ॒ड+++(=इड्-वान् = अन्नवान्)+++ ई॑डि॒तः+++(=स्तुतः)+++।

Keith

Thou art the Gandharva, Viśvavasu (possessing all wealth),
the fence of the sacrificer from every attacker,
praised and to be praised.

मूलम् (संयुक्तम्)

ग॒न्ध॒र्वो॑ऽसि वि॒श्वाव॑सुर्विश्व॑स्मा॒दीष॑तो यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तः

मूलम्

ग॒न्ध॒र्वो॑ऽसि
वि॒श्वाव॑सुः …
र्विश्व॑स्मा॒दीष॑तो यज॑मानस्य परि॒धिः
इ॒ड ई॑डि॒तः ।

पद-पाठः

ग॒न्ध॒र्वः । अ॒सि॒ । वि॒श्वाव॑सु॒रिति॑ वि॒श्व-व॒सुः॒ । विश्व॑स्मात् । ईष॑तः । यज॑मानस्य । प॒रि॒धिरिति॑ परि-धिः । इ॒डः । ई॒डि॒तः ।

भट्टभास्कर-टीका

8मध्यमं परिधिं परिदधाति - गन्धर्व इति ॥ विश्वानि वसून्यस्मिन्निति बहुव्रीहौ ‘विश्वस्य वसुराटोः’ (पा.सू. 6.3.128) इति पूर्वपदस्य दीर्घत्वम् । ‘बहुव्रीहौ विश्वं संज्ञायाम्’ (पा.सू. 6.2.106) इति पूर्वपदान्तोदात्तत्वम् । विश्वावसुर्नाम गन्धर्वः, स शत्रुनिग्रहसमर्थः, स एव त्वमसीति परिधेः स्तुतिः ।

यस्मादेवं तस्माद्विश्वस्मादीषतः हिंसकात् राक्षसादेर्जनात् । ईष गतिहिंसादानेषु, अनुदात्तेत्, भौवादिकः, व्यत्ययेन शतृप्रत्ययः, ‘अदुपदेशात्’ (पा.सू. 6.1.186) इति लसार्वधातुकानुदात्तत्वेन धातोरेव स्वरः ।

यजमानस्य परिधिः परितस्सर्वतो धाता रक्षकस्त्वमसि । ‘उपसर्गे घोः किः’ (पा.सू. 3.3.92) इति किप्रत्यये कृदुत्तरपदप्रकृतिस्वरत्वम् ।

किञ्च - इडन्नं पशवश्च तद्वान् इडः, तत्साधनत्वात् । अर्श आदित्वादच् (पा.सू. 5.2.127) । अत एव सर्वैरीडितस्स्तुतः ॥


भास्करोक्त-विनियोगः

दक्षिणं परिदधाति

विश्वास-प्रस्तुतिः

+++(दक्षिण-परिधे!)+++ इन्द्र॑स्य बा॒हुर॑सि दक्षि॑णः, यज॑मानस्य परि॒धिः, इ॒ड+++(=इड्-वान् = अन्नवान्)+++ ई॑डि॒तः ।

Keith

Thou art the right arm of Indra, the fence of the sacrificer, praised and to be praised.

मूलम् (संयुक्तम्)

इन्द्र॑स्य बा॒हुर॑सि [19]दक्षि॑णो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तः

मूलम्

इन्द्र॑स्य बा॒हुर॑सि दक्षि॑णः
यज॑मानस्य परि॒धिः इ॒ड ई॑डि॒तः ।

पद-पाठः

इन्द्र॑स्य । बा॒हुः । अ॒सि॒ । दक्षि॑णः । यज॑मानस्य । प॒रि॒धिरिति॑ परि-धिः । इ॒डः । ई॒डि॒तः ।

भट्टभास्कर-टीका

9दक्षिणं परिदधाति - इन्द्रस्येति ॥ इन्द्रस्य यो दक्षिणो बाहुः महावीर्यः, स एव त्वमसीति दक्षिणस्य परिधेस्स्तुतिः । ‘स्वाङ्गाख्यायामादिर्वा’ (फि.सू. 9) इति दक्षिणशब्द आद्युदात्तः । गतमन्यत् (तै.सं. 1.1.11) ॥

  • [ यजमानस्य परिधिः परितस्सर्वतो धाता रक्षकस्त्वमसि । ‘उपसर्गे घोः किः’ (पा.सू. 3.3.92) इति किप्रत्यये कृदुत्तरपदप्रकृतिस्वरत्वम् । -किञ्च - इडन्नं पशवश्च तद्वान् इडः, तत्साधनत्वात् । अर्श आदित्वादच् (पा.सू. 5.2.127) । अत एव सर्वैरीडितस्स्तुतः ॥]

भास्करोक्त-विनियोगः

उत्तरं परिदधाति

विश्वास-प्रस्तुतिः

+++(हे कुण्ड!)+++ मि॒त्रावरु॑णौ त्वोत्तर॒तᳶ परि॑धत्तां ध्रु॒वेण॒ धर्म॑णा।
यज॑मानस्य +++(उत्तर-)+++परि॒धिर्, इ॒ड+++(=इड्-वान् = अन्नवान्)+++ ई॑डि॒तः ।

Keith

May Mitra and Varuna lay thee around in the north with firm law,
thou art the fence of the sacrificer, praised and to be praised.

मूलम् (संयुक्तम्)

मि॒त्रावरु॑णौ त्वोत्तर॒तᳶ परि॑धत्तान्ध्रु॒वेण॒ धर्म॑णा॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तः

मूलम्

मि॒त्रावरु॑णौ त्वोत्तर॒तᳶ परि॑धत्तान्ध्रु॒वेण॒ धर्म॑णा
यज॑मानस्य परि॒धिः इ॒ड ई॑डि॒तः ।

पद-पाठः

मि॒त्रावरु॑णा॒विति॑ मि॒त्रा-वरु॑णौ । त्वा॒ । उ॒त्त॒र॒त इत्यु॑त्-त॒र॒तः । परीति॑ । ध॒त्ता॒म् । ध्रु॒वेण॑ । धर्म॑णा । यज॑मानस्य । प॒रि॒धिरिति॑ परि-धिः । इ॒डः । ई॒डि॒तः ।

भट्टभास्कर-टीका

10उत्तरं परिदधाति - मित्रावरुणाविति ॥ ध्रुवेण अचलेन नित्येन धर्मणा कर्मणा मित्रावरुणावेव च त्वामुत्तरतः परिधत्ताम् । समानमन्यत् ।

  • [यजमानस्य परिधिः परितस्सर्वतो धाता रक्षकस्त्वमसि । ‘उपसर्गे घोः किः’ (पा.सू. 3.3.92) इति किप्रत्यये कृदुत्तरपदप्रकृतिस्वरत्वम् ।
  • किञ्च - इडन्नं पशवश्च तद्वान् इडः, तत्साधनत्वात् । अर्श आदित्वादच् (पा.सू. 5.2.127) । अत एव सर्वैरीडितस्स्तुतः ॥]

‘देवताद्वन्द्वे च’ इति मित्रावरुणशब्दे पूर्वोत्तरपदयोः प्रकृतिस्वरत्वम् ॥


भास्करोक्त-विनियोगः

सूर्येण पुरस्तात् परिधानकार्यं करोति

विश्वास-प्रस्तुतिः

+++(हे कुण्ड! उत्तर-परिधि-रूपः)+++ सूर्य॑स् त्वा पु॒रस्ता॑त् पातु कस्या॑श्चिद् अ॒भिश॑स्त्याः ।

Keith

May the sun in the east protect thee from all evil.

मूलम्

सूर्य॑स्त्वा पु॒रस्ता॑त्पातु॒ कस्या॑श्चिद॒भिश॑स्त्याः ।

पद-पाठः

सूर्यः॑ । त्वा॒ । पु॒रस्ता॑त् । पा॒तु॒ । कस्याः॑ । चि॒त् । अ॒भिश॑स्त्या॒ इत्य॒भि-श॒स्त्याः॒ ।

भट्टभास्कर-टीका

11सूर्येण पुरस्तात् परिधानकार्यं करोति - सूर्य इति ॥ सूर्य एव त्वां पुरस्तात् पातु रक्षतु । कस्मात् - कस्याश्चित् यतः कुतश्चित् अभिशस्त्याः अपरिमितायाः अभिशापाद्रक्षःप्रभृतिप्रयुक्तात् । शसु हिंसायाम्, ‘तितुत्रतथसि’ (पा.सू. 7.2.9) इतीट्प्रतिषेधः, ‘तादौ च निति कृत्यतौ’ (पा.सू. 6.2.50) इति गतेः प्रकृतिस्वरत्वम्, ‘निपाता आद्युदात्ताः’ (फि.सू. 80) ‘उपसर्गाश्चाभिवर्जम्’ (फि.सू. 81) इत्यभिशब्दोन्तोदात्तः । एवं कस्याश्चिदित्यत्र ‘सावेकाचः’ (पा.सू. 6.1.168) इति प्राप्तं विभक्त्युदात्तत्वं ‘न गोश्वन्’ (पा.सू. 6.1.182) इति प्रतिषिध्यते ॥


समिदाधानम्

भास्करोक्त-विनियोगः

ऊर्ध्वे समिधाव् आदधाति

विश्वास-प्रस्तुतिः ...{Loading}...

वी॒ति+++(=इष्ट)+++हो॑त्रन्+++(=ह्वानं)+++ त्वा कवे
द्यु॒मन्तँ॒ समि॑धीम॒हि ।
+++(हे)+++ अग्ने॑! बृ॒हन्त॑म् अध्व॒रे ॥

सर्वाष् टीकाः ...{Loading}...

Keith

May we kindle thee, O wise one,
That dost invite to the sacrifice, the radiant one,
O Agni, thee that art mighty at the sacrifice.

मूलम् (संयुक्तम्)

वी॒तिहो॑त्रन्त्वा कवे द्यु॒मन्तँ॒ समि॑धीम॒ह्यग्ने॑ बृ॒हन्त॑मध्व॒रे

मूलम्

वी॒तिहो॑त्रन्त्वा कवे द्यु॒मन्तँ॒ समि॑धीम॒हि ।
अग्ने॑ बृ॒हन्त॑मध्व॒रे ॥

पद-पाठः

वी॒तिहो॑त्र॒मिति॑ वी॒ति-हो॒त्र॒म् । त्वा॒ । क॒वे॒ । द्यु॒मन्त॒मिति॑ द्यु-मन्त॑म् । समिति॑ । इ॒धी॒म॒हि॒ । अग्ने॑ । बृ॒हन्त॑म् । अ॒ध्व॒रे ।

भट्टभास्कर-टीका

12ऊर्ध्वे समिधावादधाति - वीतिहोत्रमिति त्रिपदया गायत्र्या ॥
वीतिहोत्रं इष्टस्तोत्रम् । वीतेः कान्तिकर्मणो ‘मन्त्रे वृष’ (पा.सू. 3.3.96) इत्यादिना कर्मणि क्तिन्प्रत्यय उदात्तः । वेतव्या कमितव्या होत्रा वाक् स्तोत्ररूपा होतृव्यापारो वा यस्य तं त्वा । हे कवे मेधाविन् । अग्ने द्युमन्तं दीप्तिमन्तम् । ‘ह्रस्वनुड्भ्यां मतुप्’ (पा.सू. 6.1.176) इति मतुप उदात्तत्वम् । बृहन्तं महान्तं समिधीमहि प्रागेव दीप्तिमन्तं सन्तं अनया समिधा सम्यग्दीपयामः । इन्धेर्लिङि, ‘बहुलं छन्दसि’ (पा.सू. 2.4.73) इति विकरणस्य लुक् । यद्वा - ‘छन्दस्युभयथा’ (पा.सू. 3.4.117) इत्यार्धधातुकत्वात् विकरणाप्रसङ्गः । सार्वधातुकत्वेन ङित्त्वादनुनासिकलोपः । अध्वरे अध्वरार्थम् । निमित्तात्सप्तमी (पा.सू. 2.3.36 वा 6) । ध्वृ हूर्छने, हूर्छनं कौटिल्यम् । ध्वरन्तीति ध्वराः रक्षःप्रभृतयः । पचाद्यच् । ते यत्र न सन्ति सः अध्वरः । बहुव्रीहौ ‘नञ्सुभ्याम्’ (पा.सू. 6.2.172) इत्युत्तरपदान्तोदात्तत्वम् । तादृशाय यज्ञाय त्वां समिधीमहि ॥


विधृती

भास्करोक्त-विनियोगः

बर्हिः-प्रस्तर-विभागार्थं स्थापिते दर्भ-द्वयं “विधृती” सादयति

विश्वास-प्रस्तुतिः

+++(दर्भद्वय!)+++ वि॒शो य॒न्त्रे+++(=यमने)+++ स्थः॑।

Keith

Ye two are the props of the people.

मूलम्

वि॒शो य॒न्त्रे स्थः॑।

पद-पाठः

वि॒शः । य॒न्त्रे इति॑ । स्थः॒ ।

भट्टभास्कर-टीका

13विधृती सादयति - विश इति । विशः प्रजायाः यन्त्रे यमने धारिके स्थः । ‘गृधृविपचि’ (उ.सू. 616) इत्यादिना यमेस्त्रप्रत्ययः । ‘सावेकाचः’ (पा.सू. 6.1.168) इति विशः परस्याः षष्ठ्या उदात्तत्वम् ॥


प्रस्तर-सादनम्

भास्करोक्त-विनियोगः

तयोः प्रस्तरं सादयति

विश्वास-प्रस्तुतिः

+++(प्रस्तर)+++ वसू॑नाँ रु॒द्राणा॑म् आदि॒त्यानाँ॒ सद॑सि सीद ।

Keith

Sit on the seat of the Vasus, Rudras, Adityas.

मूलम्

वसू॑नाँ रु॒द्राणा॑मादि॒त्यानाँ॒ सद॑सि सीद ।

पद-पाठः

वसू॑नाम् । रु॒द्राणा॑म् । आ॒दि॒त्याना॑म् । सद॑सि । सी॒द॒ ।

भट्टभास्कर-टीका

14तयोः प्रस्तरं सादयति - वसूनामिति ॥ वस्वादयः प्रसिद्धा देवताः यज्ञभागिन्यः । तासां सदस्त्वेन विधृत्योः स्तुतिः ॥


जुह्वादि

भास्करोक्त-विनियोगः

तत्र जुहूं सादयति

विश्वास-प्रस्तुतिः

जु॒हूर् अ॑सि ।

Keith

Thou art named juhu

मूलम् (संयुक्तम्)

जु॒हूरु॑प॒भृद्ध्रु॒वाऽसि॑ घृ॒ताची॒ नाम्ना॑ प्रि॒येण॒ नाम्ना॑ प्रि॒ये सद॑सि सीद

मूलम्

जु॒हूः [ अ॑सि]।

पद-पाठः

जु॒हूः ।

भट्टभास्कर-टीका

15तत्र जुहूं सादयति - जुहूरिति ॥ असि घृताचीत्यादिकं वक्ष्यमाणं जुह्वादिभिः प्रत्येकमभिसम्बध्यते । हूयतेऽनयेति जुहूः । ‘द्युतिगमिजुहोतीनां द्वे च’ (पा.सू. 3.2.178) इति क्विप्, जुहोतेर्दीर्घश्च’ (पा.भा. 3.2.178 वा 3) इति दीर्घोनुवर्तते । जुहूस्त्वमसि । त्वया खलु हूयते ।

घृताची ...{Loading}...
विश्वास-प्रस्तुतिः

घृ॒ताची॒ नाम्ना॑ प्रि॒येण॒ नाम्ना॑ प्रि॒ये सद॑सि सीद ।

Keith

Loving the ghee, sit on thy dear seat with thy dear name.

मूलम्

घृ॒ताची॒ नाम्ना॑ प्रि॒येण॒ नाम्ना॑ प्रि॒ये सद॑सि सीद ।

पद-पाठः

घृ॒ताची॑ । नाम्ना॑ । प्रि॒येण॑ । नाम्ना॑ । प्रि॒ये । सद॑सि । सी॒द॒ ।

भट्टभास्कर-टीका

पुनश्च विशेष्यते - घृताची त्वम् घृतमञ्चति गच्छति धारकत्वेनेति घृताची । ऋत्विगादिना क्विप् (पा.सू. 3.2.49) । अनुनासिकलोपे ‘अचः’ (पा.सू. 6.4.138) इत्यकारलोपे ‘चौ’ (पा.सू. 6.3.138) इति दीर्घः ।
सा त्वं प्रियेण नाम्ना घृतसम्बन्धेन सर्वस्य प्रीतिहेतुना घृताचीति नाम्ना उपलक्षितासि । ‘तासामेतदेव प्रियं नाम । यद्घृताची’ (तै.ब्रा. 3.3.6) इत्यादि ब्राह्मणम् । ईदृशेन नाम्ना प्रिये सदसि प्रस्तराख्येऽस्मिन् सदने सीद । ‘यजमानो वै प्रस्तरः’ (तै.ब्रा. 3.3.6) । इति यजमानत्वसंस्तवान्नाममात्रेण प्रस्तरस्य प्रियत्वम् ॥


भास्करोक्त-विनियोगः

उपभृतं सादयति

विश्वास-प्रस्तुतिः

उ॒प॒भृद् अ॑सि ।
[घृ॒ताची॒ नाम्ना॑ प्रि॒येण॒ नाम्ना॑ प्रि॒ये सद॑सि सीद ] ।

Keith

Thou art named upabhrt

मूलम्

उ॒प॒भृत् ।[अ॑सि ।] ।

पद-पाठः

उ॒प॒भृदित्यु॑प-भृत् ।

भट्टभास्कर-टीका

16उपभृतं सादयति - उपभृदिति ॥ उपेत्य जुहूं बिभर्तीति उपभृत् । ‘अन्येभ्योपि दृश्यते’ (पा.सू. 3.2.178) इति क्विप् । ईदृशी त्वमसि । समानमन्यत् ॥

घृताची ...{Loading}...
विश्वास-प्रस्तुतिः

घृ॒ताची॒ नाम्ना॑ प्रि॒येण॒ नाम्ना॑ प्रि॒ये सद॑सि सीद ।

Keith

Loving the ghee, sit on thy dear seat with thy dear name.

मूलम्

घृ॒ताची॒ नाम्ना॑ प्रि॒येण॒ नाम्ना॑ प्रि॒ये सद॑सि सीद ।

पद-पाठः

घृ॒ताची॑ । नाम्ना॑ । प्रि॒येण॑ । नाम्ना॑ । प्रि॒ये । सद॑सि । सी॒द॒ ।

भट्टभास्कर-टीका

पुनश्च विशेष्यते - घृताची त्वम् घृतमञ्चति गच्छति धारकत्वेनेति घृताची । ऋत्विगादिना क्विप् (पा.सू. 3.2.49) । अनुनासिकलोपे ‘अचः’ (पा.सू. 6.4.138) इत्यकारलोपे ‘चौ’ (पा.सू. 6.3.138) इति दीर्घः ।
सा त्वं प्रियेण नाम्ना घृतसम्बन्धेन सर्वस्य प्रीतिहेतुना घृताचीति नाम्ना उपलक्षितासि । ‘तासामेतदेव प्रियं नाम । यद्घृताची’ (तै.ब्रा. 3.3.6) इत्यादि ब्राह्मणम् । ईदृशेन नाम्ना प्रिये सदसि प्रस्तराख्येऽस्मिन् सदने सीद । ‘यजमानो वै प्रस्तरः’ (तै.ब्रा. 3.3.6) । इति यजमानत्वसंस्तवान्नाममात्रेण प्रस्तरस्य प्रियत्वम् ॥


भास्करोक्त-विनियोगः

ध्रुवां सादयति

विश्वास-प्रस्तुतिः

ध्रु॒वाऽसि॑।

Keith

Thou art named dhruva.

मूलम्

ध्रु॒वाऽसि॑ ।

पद-पाठः

ध्रु॒वा । अ॒सि॒ ।

भट्टभास्कर-टीका

17ध्रुवां सादयति - ध्रुवेति ॥ ध्रुवा निश्चला । यत्रैव साद्यते तत्रैव धार्यते न चाल्यते प्राक्समिष्टयजुष इति ध्रुवा । तादृशी त्वमसि । शिष्टं स्पष्टम् ॥

घृताची ...{Loading}...
विश्वास-प्रस्तुतिः

घृ॒ताची॒ नाम्ना॑ प्रि॒येण॒ नाम्ना॑ प्रि॒ये सद॑सि सीद ।

Keith

Loving the ghee, sit on thy dear seat with thy dear name.

मूलम्

घृ॒ताची॒ नाम्ना॑ प्रि॒येण॒ नाम्ना॑ प्रि॒ये सद॑सि सीद ।

पद-पाठः

घृ॒ताची॑ । नाम्ना॑ । प्रि॒येण॑ । नाम्ना॑ । प्रि॒ये । सद॑सि । सी॒द॒ ।

भट्टभास्कर-टीका

पुनश्च विशेष्यते - घृताची त्वम् घृतमञ्चति गच्छति धारकत्वेनेति घृताची । ऋत्विगादिना क्विप् (पा.सू. 3.2.49) । अनुनासिकलोपे ‘अचः’ (पा.सू. 6.4.138) इत्यकारलोपे ‘चौ’ (पा.सू. 6.3.138) इति दीर्घः ।
सा त्वं प्रियेण नाम्ना घृतसम्बन्धेन सर्वस्य प्रीतिहेतुना घृताचीति नाम्ना उपलक्षितासि । ‘तासामेतदेव प्रियं नाम । यद्घृताची’ (तै.ब्रा. 3.3.6) इत्यादि ब्राह्मणम् । ईदृशेन नाम्ना प्रिये सदसि प्रस्तराख्येऽस्मिन् सदने सीद । ‘यजमानो वै प्रस्तरः’ (तै.ब्रा. 3.3.6) । इति यजमानत्वसंस्तवान्नाममात्रेण प्रस्तरस्य प्रियत्वम् ॥


भास्करोक्त-विनियोगः

स्रुचो ऽभिमन्त्रयते

विश्वास-प्रस्तुतिः

ए॒ता +++(स्रुचः)+++ अ॑सदन्त् सुकृ॒तस्य॑ +++(यागस्य)+++ लो॒के ।
ता वि॑ष्णो पाहि ।
पा॒हि य॒ज्ञम् ।
पा॒हि य॒ज्ञप॑तिम् ।
पा॒हि माय्ँ य॑ज्ञ॒निय॑म् ॥ [20]

Keith

These have sat down in the world of good action.
Protect them, O Visnu.
Protect the sacrifice, protect the lord of the sacrifice, protect me that conduct the sacrifice.

मूलम् (संयुक्तम्)

एता अ॑सदन्त्सुकृ॒तस्य॑ लो॒के ता वि॑ष्णो पाहि पा॒हि य॒ज्ञम्पा॒हि य॒ज्ञप॑तिम्पा॒हि माय्ँय॑ज्ञ॒निय॑म् ॥ [20]

मूलम्

ए॒ता अ॑सदन्त्सुकृ॒तस्य॑ लो॒के ।
ता वि॑ष्णो पाहि ।
पा॒हि य॒ज्ञम् ।
पा॒हि य॒ज्ञप॑तिम् ।
पा॒हि माय्ँय॑ज्ञ॒निय॑म् ॥

पद-पाठः

ए॒ताः । अ॒स॒द॒न् । सु॒कृ॒तस्येति॑ सु-कृ॒तस्य॑ । लो॒के । 9S । ताः । वि॒ष्णो॒ इति॑ । पा॒हि॒ । 10T । पा॒हि । य॒ज्ञम् । पा॒हि । य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ-प॒ति॒म् । पा॒हि । माम् । य॒ज्ञ॒निय॒मिति॑ यज्ञ-निय॑म् ॥

भट्टभास्कर-टीका

18स्रुचोभिमन्त्रयते - एता इति यजुरन्तया त्रिष्टुभैकपदया ॥
सुकृतस्य शोभनस्य कर्मणः यागलक्षणस्य लोके स्थाने । ‘सूपमानात् क्तः’ (पा.सू. 6.2.145) इति क्तान्तमन्तोदात्तम् । एतास्स्रुचः असदन्, सदसि मया(ऽन्वा)सादितत्वात् । छान्दसो लुङ्, पुषादि(ऌदि)त्वादङ् (पा.सू. 3.1.55) । तास्स्रुचः हे विष्णो सर्वस्य पालक पाहि, यज्ञं पाहि, यज्ञपतिं यजमानं च पाहि । ‘पत्यावैश्वर्ये’ (पा.सू. 6.2.18) इति पूर्वपदप्रकृतिस्वरत्वम् ।

यज्ञनियं यज्ञस्य नेतारं मां च पाहि । यज्ञं नयतीति ‘सत्सूद्विष’ (पा.सू. 3.2.61) इत्यादिना क्विप् । ‘तन्वादीनां छन्दसि बहुलम्’ (पा.सू. 6.4.77 वा 1) इति इयङादेशेन ‘एरनेकाचः’ (पा.सू. 6.4.82) इति यणादेशो बाध्यते, कृदुत्तरपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.139) । समान(वाक्ये)पाद(पदात्पर)त्वाभावात् प्रथमवर्जं तिङन्तानां निघाताभावः ॥

इति एकादशोनुवाकः ।