०९ वेदि-करणम्

२० द्विपदा गायत्री
२४ एकपदा त्रिष्टुप्
२५ त्रिपदा त्रिष्टुप् ।
प्रजापतिर्ऋषिः

भास्करोक्त-विनियोगः

स्फ्यमादत्ते

देवस्य त्वा सवितुः ...{Loading}...
विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॒॑+++(=अनुज्ञायां)+++,
+++(देवाध्वर्यू→)+++ ऽश्विनो॑र् बा॒हुभ्या॑म्,
पू॒ष्णो हस्ता॑भ्याम्…

Keith

On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्यां॒…

पद-पाठः

दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता॑भ्याम् ।

भट्टभास्कर-टीका

सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं

‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥

सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥

तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां

विश्वास-प्रस्तुतिः

आ द॑दे ।

मूलम्

आ द॑दे ।

पद-पाठः

एति॑ । द॒दे॒ ।

भट्टभास्कर-टीका

1स्फ्यमादत्ते - आदद इति ॥ सावित्रशेषोऽयम् (तै.सं. 1.1.4) ॥

भास्करोक्त-विनियोगः

स्फ्यम् अनुमन्त्रयते

विश्वास-प्रस्तुतिः

+++(स्फ्य!)+++ इन्द्र॑स्य बा॒हुर॑सि दक्षि॑णस्
+++(शत्रूणां)+++ स॒हस्र॑-भृष्टिश्+++(=धारः)+++
श॒त-ते॑जाः ।

Keith

Thou art Indra’s right arm with a thousand spikes, a hundred edges.

मूलम्

इन्द्र॑स्य बा॒हुर॑सि दक्षि॑णस्स॒हस्र॑भृष्टिश्श॒तते॑जाः ।

पद-पाठः

इन्द्र॑स्य । बा॒हुः । अ॒सि॒ । दक्षि॑णः ।
स॒हस्र॑भृष्टि॒रिति॑ स॒हस्र॑-भृ॒ष्टिः॒ । श॒तते॑जा॒ इति॑ श॒त-ते॒जाः॒ ।

भट्टभास्कर-टीका

2स्फ्यमनुमन्त्रयते - इन्द्रस्येति ॥ ‘स्वाङ्गाख्यायामादिर्वा’ (फि.सू. 9) इति दक्षिणशब्द आद्युदात्तः । बाहुर्विशेष्यते - सहस्रभृष्टिः अनेकपरिवारः(पाकः) (अनेकप्रकारं) शत्रूणां निवारकः(पीडकः) । शततेजाः बह्ववधानः तद्वत्त्वमपीति । उभयत्रापि ‘बहुव्रीहौ प्रकृत्या पूर्वपदम्’ (पा.सू. 6.2.1) इति पूर्वपदप्रकृतिस्वरत्वम् ॥

भास्करोक्त-विनियोगः

तीक्ष्णीकरोति

विश्वास-प्रस्तुतिः

+++(तेजोवृद्धिहेतुत्वात्)+++ वा॒युर् अ॑सि ति॒ग्म-ते॑जाः ।

Keith

Thou art the wind of sharp edge.

मूलम्

वा॒युर॑सि ति॒ग्मते॑जाः ।

पद-पाठः

वा॒युः । अ॒सि॒ । ति॒ग्मते॑जा॒ इति॑ ति॒ग्म-ते॒जाः॒ ।

भट्टभास्कर-टीका

3तीक्ष्णीकरोति - वायुरिति ॥ वायुरसि वायुरिव क्षिप्रकार्यसि । कुत इत्यत आह - तिग्मतेजाः तीक्ष्णदीप्तिः निशितधारत्वात् । तादृशो हि त्वमसि । पूर्ववत्प्रकृतिस्वरत्वम् ॥

भास्करोक्त-विनियोगः

बर्हिः प्रहरति

विश्वास-प्रस्तुतिः

+++(हे)+++ पृथि॑वि! देव-यज॒न्य् +++(नामेध्या वृत्र-रक्तादि-पातेन)+++! ओष॑ध्यास् ते॒ मूल॒म् मा हिँ॑सिषम् +++(स्फ्यप्रहारेण)+++।

Keith

O earth whereon sacrifice is offered to the gods, let me harm not the root of thy plant.

मूलम्

पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒ मूल॒म्मा हिँ॑सिषम् ।

पद-पाठः

पृथि॑वि । दे॒व॒य॒ज॒नीति॑ देव-य॒ज॒नि॒ । ओष॑ध्याः । ते॒ । मूल॑म् । मा । हिँ॒सि॒ष॒म् ।

भट्टभास्कर-टीका

4बर्हिः प्रहरति - पृथिवीति ॥ हे पृथिवि देवयजनि देवयागाधिकरणभूते, त्वदीयाया ओषध्याः मूलं मा हिंसिषम् । अनेन स्फ्यप्रहारेण न विनाशयामि । प्रथमस्यामन्त्रितस्य षाष्ठिकमाद्युदात्तत्वम् । ‘नामन्त्रिते समानाधिकरणे’ (पा.सू. 8.1.73) इति पूर्वस्याविद्यमानवत्त्वनिषेधाद्द्वितीयः पदात्परत्वान्निहन्यते । ओषधिशब्दस्य दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । ओषशब्दो घञन्त आद्युदात्तः । ‘विषाद्वै नामासुरः’ (तै.ब्रा. 3.2.9) इति ब्राह्मणं । तेन ब्राह्मणोक्तमेध्यत्वाभिप्रायं पृथिव्या देवयजनत्वम् । यथा ‘मेध्यामेवैनां देवयजनीं करोति’ (तै.ब्रा. 3.2.9) इति ॥

भास्करोक्त-विनियोगः

सतृणं पुरीषम् आदत्ते

विश्वास-प्रस्तुतिः

अप॑हतो॒ ऽररुᳶ॑ पृथि॒व्यै ।
+++(‘अररुर्वै नामासुर आसीत्’ (तै.ब्रा. 3.2.9) इत्यादिब्राह्मणप्रसिद्धः असुरविशेषोऽररुः, अरणशीलः गूढचारी ।)+++

Keith

Araru is smitten away from the earth.

मूलम्

अप॑हतो॒ऽररुᳶ॑ पृथि॒व्यै ।

पद-पाठः

अप॑हत॒ इत्यप॑-ह॒तः॒ । अ॒ररुः॑ । पृ॒थि॒व्यै ।

भट्टभास्कर-टीका

5सतृणं पुरीषमादत्ते - अपहत इति ॥ अपहतः अपनीतः । ‘गतिरनन्तरः’ (तै.ब्रा. 6.2.49) इति पूर्वपदप्रकृतिस्वरत्वम् । ‘अररुर्वै नामासुर आसीत्’ (तै.ब्रा. 3.2.9) इत्यादिब्राह्मणप्रसिद्धः असुरविशेषोऽररुः, अरणशीलः गूढचारी । ‘अर्तेररुः’ (उ.सू. 528) इत्यरुप्रत्ययः । स इतः पृथिव्या अपहतः । अपादानस्य शेषत्वेन विवक्षायां षष्ठ्यर्थे चतुर्थी । ‘उदात्तयणो हल्पूर्वात्’ (पा.सू. 6.1.174) इति विभक्तेरुदात्तत्वम् ॥

व्रजं गच्छ ...{Loading}...
भास्करोक्त-विनियोगः

??हरति

विश्वास-प्रस्तुतिः

व्र॒जङ् ग॑च्छ गो॒-स्थान॑म् +++(→छन्दांसि)+++ ।

Keith

Go to the fold where the cattle are.

मूलम् (संयुक्तम्)

व्र॒जम् [13]ग॒च्छ॒ गो॒स्थानं वर्ष॑तु ते॒ द्यौः

मूलम्

व्र॒जङ्ग॑च्छ गो॒स्थान॑म् ।

पद-पाठः

व्र॒जम् । ग॒च्छ॒ । गो॒स्थान॒मिति॑ गो-स्थान॑म् ।

भट्टभास्कर-टीका

6हरति - व्रजमिति ॥ व्रजन्त्यस्मिन्निति व्रजः । ‘गोचरसंचर’ (पा.सू. 3.3.119) इत्यादौ घप्रत्ययान्तो निपातितः । यस्मिन्प्रदेशे पांसवस्सङ्घीभूता उत्करभावमापद्यन्ते, तं देशं गच्छति । कीदृशं? - गोस्थानम् गोशब्दस्य प्रत्याश्रावणलक्षणस्य सम्बन्धि स्थानम् । ‘छन्दाँसि वै व्रजो गोस्थानः’ (तै.ब्रा. 3.2.9) इति ब्राह्मणम् । छन्दस्त्वेन तस्य स्तुतिः । तान्यपि हि गवां शब्दानां स्थानानि । कृदुत्तरपदप्रकृतिस्वरत्वम् । स्थानशब्दो लित्स्वरेणाद्युदात्तः (पा.सू. 6.1.193) । ननु ‘मन्क्तिन् व्याख्यानशयन’ (पा.सू. 6.2.151) इत्यादिना कृदुत्तरपदान्तोदात्तत्वेन भाव्यम् । तर्हि ‘परादिश्छन्दसि बहुळम्’ (पा.सू. 6.2.199) इत्युत्तरपदाद्युदात्तत्वं भविष्यति ॥

भास्करोक्त-विनियोगः

वेदिं प्रत्यवेक्षते

विश्वास-प्रस्तुतिः

वर्ष॑तु +++(स्फ्येन प्रहृतायाः)+++ ते॒ द्यौः ।

Keith

May heaven rain for thee.

मूलम्

वर्ष॑तु ते॒ द्यौः ।

पद-पाठः

वर्ष॑तु । ते॒ । द्यौः ।

भट्टभास्कर-टीका

7वेदिं प्रत्यवेक्षते - वर्षत्विति ॥ ते तव स्फ्येन प्रहृतायाश्शान्त्यर्थं द्यौर्वर्षतु दिविष्ठपर्जन्यद्वारेण ॥

____
भास्करोक्त-विनियोगः

निवपति

विश्वास-प्रस्तुतिः

ब॒धा॒न दे॑व सवितᳶ पर॒मस्या॑म् परा॒वति॑+++(=सुदूरस्थे)+++
श॒तेन॒+++(=शतैः)+++ पाशै॒र्
यो॑ ऽस्मान् द्वेष्टि॒
यञ् च॑ व॒यन् द्वि॒ष्मः।
तम् अतो॒ मा मौ॑क् ।

+++(‘अररुर्वै नामासुर आसीत्’ (तै.ब्रा. 3.2.9) इत्यादिब्राह्मणप्रसिद्धः असुरविशेषोऽररुः, अरणशीलः गूढचारी ।)+++

Keith

O god Savitr, bind thou in the furthest distance with a hundred fetters him who hateth us and whom we hate, thence let him not free.

मूलम् (संयुक्तम्)

बधा॒न दे॑व सवितᳶ पर॒मस्या॑म्परा॒वति॑ श॒तेन॒ पाशै॒र्यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा मौक्

मूलम्

ब॒धा॒न दे॑व सवितᳶ पर॒मस्या॑म्परा॒वति॑ ।
श॒तेन॒ पाशै॒र्यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मः॥ तम् अतो॒ मा मौ॑क् ।

पद-पाठः

ब॒धा॒न । दे॒व॒ । स॒वि॒तः॒ । प॒र॒मस्या॑म् । प॒रा॒वतीति॑ परा-वति॑ । श॒तेन॑ । पाशैः॑ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । तम् । अतः॑ । मा । मौ॒क् ।

भट्टभास्कर-टीका

8-16निवपति - बधानेति द्विपदया गायत्र्या यजुरन्तया ॥ हे देव सवितः सर्वस्य प्रेरक । परमस्यां परावति सुदूरेपि देशे स्थितं जनम् । ‘उपसर्गाच्छन्दसि धात्वर्थे’ (पा.सू. 5.1.118) इति वतिः । छान्दसश्चाडागमः । शतेन पाशैः बहुभिः पाशैः तं बधान अस्मिन्नुत्करे तं निश्चेष्टं स्थापय । कम्? - यः अस्मान् द्वेष्टि यं च वयं द्विष्मः तमस्माकं द्वेष्टारं द्वेष्यं च बधान ।

बद्धं तमस्मादुत्करात् मा मौक् मा मुचः । यद्वा - परमस्यां परावति परागतौ पराजये शतेन पाशैः अस्माकं द्वेष्टारं द्वेष्यं च बधान । बद्धं च तं, अस्मात्पराजयात् मा मौक् मा मुचः ।
यद्वा - परमस्यां परावति पराजये पराजयार्थं तस्मिन्नुत्करे बधान । बद्धं च तं मा मुचः उत्करात्पराजयाद्वा । मुचेर्लुङि व्यत्ययेन अङं बाधित्वा च्लेस्सिजादेशः, ‘बहुलं छन्दसि’ (पा.सू. 7.3.97) इतीडभावः, हलन्तलक्षणा वृद्धिः, हल्ङ्यादिसंयोगान्तलोपौ ।

विश्वास-प्रस्तुतिः

अप॑हतो॒ऽररुᳶ॑ पृथि॒व्यै दे॑व॒यज॑न्यै।
+++(प्रथमप्रहारेण देवयजनीकृता सा।)+++

Keith

Araru is smitten away from the earth, the place of sacrifice.

मूलम्

अप॑हतो॒ऽररुᳶ॑ पृथि॒व्यै दे॑व॒यज॑न्यै ।

पद-पाठः

अप॑हत॒ इत्यप॑-ह॒तः॒ । अ॒ररुः॑ । पृ॒थि॒व्यै । दे॒व॒यज॑न्या॒ इति॑ देव-यज॑न्यै ।

भट्टभास्कर-टीका

द्वितीये पर्याये देवयजन्या इति पृथिव्या विशेषणम्, अपहत इत्यादौ प्रथमप्रहारेण देव-याग-योग्यत्वस्यापादितत्वात् ।

भास्करोक्त-विनियोगः

तस्यैवावर्तनम्

अप॑हतो॒ऽररुᳶ॑ +++(→भ्रातृव्यः)+++ पृथि॒व्या+++(व्यै)+++ अदे॑वयजनः +++(असुरः)+++।

Keith

Araru is smitten away from the earth, he that sacrifices not to the gods.

मूलम्

अप॑हतो॒ऽररुᳶ॑ पृथि॒व्या +++(व्यैै)+++ अदे॑वयजनः +++(असुरः)+++ ।

पद-पाठः

अप॑हत॒ इत्यप॑-ह॒तः॒ । अ॒ररुः॑ । पृ॒थि॒व्याः । अदे॑वयजन॒ इत्यदे॑व-य॒ज॒नः॒ ।

भट्टभास्कर-टीका

तृतीये च पर्याये अदेवयजनत्वमसुरस्य विशेषणम्, यस्मिन्वेदिदेशमनुप्रविश्य शयाने तस्यां भुवि देवयजनं नास्ति; तेन अदेवयजनोऽसुरोपहत इति । नञ्समासे कृते अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।

व्रजं गच्छ ...{Loading}...
भास्करोक्त-विनियोगः

??हरति

विश्वास-प्रस्तुतिः

व्र॒जङ् ग॑च्छ गो॒-स्थान॑म् +++(→छन्दांसि)+++ ।

Keith

Go to the fold where the cattle are.

मूलम् (संयुक्तम्)

व्र॒जम् [13]ग॒च्छ॒ गो॒स्थानं वर्ष॑तु ते॒ द्यौः

मूलम्

व्र॒जङ्ग॑च्छ गो॒स्थान॑म् ।

पद-पाठः

व्र॒जम् । ग॒च्छ॒ । गो॒स्थान॒मिति॑ गो-स्थान॑म् ।

भट्टभास्कर-टीका

6हरति - व्रजमिति ॥ व्रजन्त्यस्मिन्निति व्रजः । ‘गोचरसंचर’ (पा.सू. 3.3.119) इत्यादौ घप्रत्ययान्तो निपातितः । यस्मिन्प्रदेशे पांसवस्सङ्घीभूता उत्करभावमापद्यन्ते, तं देशं गच्छति । कीदृशं? - गोस्थानम् गोशब्दस्य प्रत्याश्रावणलक्षणस्य सम्बन्धि स्थानम् । ‘छन्दाँसि वै व्रजो गोस्थानः’ (तै.ब्रा. 3.2.9) इति ब्राह्मणम् । छन्दस्त्वेन तस्य स्तुतिः । तान्यपि हि गवां शब्दानां स्थानानि । कृदुत्तरपदप्रकृतिस्वरत्वम् । स्थानशब्दो लित्स्वरेणाद्युदात्तः (पा.सू. 6.1.193) । ननु ‘मन्क्तिन् व्याख्यानशयन’ (पा.सू. 6.2.151) इत्यादिना कृदुत्तरपदान्तोदात्तत्वेन भाव्यम् । तर्हि ‘परादिश्छन्दसि बहुळम्’ (पा.सू. 6.2.199) इत्युत्तरपदाद्युदात्तत्वं भविष्यति ॥

भास्करोक्त-विनियोगः

वेदिं प्रत्यवेक्षते

विश्वास-प्रस्तुतिः

वर्ष॑तु +++(स्फ्येन प्रहृतायाः)+++ ते॒ द्यौः ।

Keith

May heaven rain for thee.

मूलम्

वर्ष॑तु ते॒ द्यौः ।

पद-पाठः

वर्ष॑तु । ते॒ । द्यौः ।

भट्टभास्कर-टीका

7वेदिं प्रत्यवेक्षते - वर्षत्विति ॥ ते तव स्फ्येन प्रहृतायाश्शान्त्यर्थं द्यौर्वर्षतु दिविष्ठपर्जन्यद्वारेण ॥

____
भास्करोक्त-विनियोगः

निवपति

विश्वास-प्रस्तुतिः

ब॒धा॒न दे॑व सवितᳶ पर॒मस्या॑म् परा॒वति॑+++(=सुदूरस्थे)+++
श॒तेन॒+++(=शतैः)+++ पाशै॒र्
यो॑ ऽस्मान् द्वेष्टि॒
यञ् च॑ व॒यन् द्वि॒ष्मः।
तम् अतो॒ मा मौ॑क् ।

+++(‘अररुर्वै नामासुर आसीत्’ (तै.ब्रा. 3.2.9) इत्यादिब्राह्मणप्रसिद्धः असुरविशेषोऽररुः, अरणशीलः गूढचारी ।)+++

Keith

O god Savitr, bind thou in the furthest distance with a hundred fetters him who hateth us and whom we hate, thence let him not free.

मूलम् (संयुक्तम्)

बधा॒न दे॑व सवितᳶ पर॒मस्या॑म्परा॒वति॑ श॒तेन॒ पाशै॒र्यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा मौक्

मूलम्

ब॒धा॒न दे॑व सवितᳶ पर॒मस्या॑म्परा॒वति॑ ।
श॒तेन॒ पाशै॒र्यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मः॥ तम् अतो॒ मा मौ॑क् ।

पद-पाठः

ब॒धा॒न । दे॒व॒ । स॒वि॒तः॒ । प॒र॒मस्या॑म् । प॒रा॒वतीति॑ परा-वति॑ । श॒तेन॑ । पाशैः॑ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । तम् । अतः॑ । मा । मौ॒क् ।

भट्टभास्कर-टीका

8-16निवपति - बधानेति द्विपदया गायत्र्या यजुरन्तया ॥ हे देव सवितः सर्वस्य प्रेरक । परमस्यां परावति सुदूरेपि देशे स्थितं जनम् । ‘उपसर्गाच्छन्दसि धात्वर्थे’ (पा.सू. 5.1.118) इति वतिः । छान्दसश्चाडागमः । शतेन पाशैः बहुभिः पाशैः तं बधान अस्मिन्नुत्करे तं निश्चेष्टं स्थापय । कम्? - यः अस्मान् द्वेष्टि यं च वयं द्विष्मः तमस्माकं द्वेष्टारं द्वेष्यं च बधान ।

बद्धं तमस्मादुत्करात् मा मौक् मा मुचः । यद्वा - परमस्यां परावति परागतौ पराजये शतेन पाशैः अस्माकं द्वेष्टारं द्वेष्यं च बधान । बद्धं च तं, अस्मात्पराजयात् मा मौक् मा मुचः ।
यद्वा - परमस्यां परावति पराजये पराजयार्थं तस्मिन्नुत्करे बधान । बद्धं च तं मा मुचः उत्करात्पराजयाद्वा । मुचेर्लुङि व्यत्ययेन अङं बाधित्वा च्लेस्सिजादेशः, ‘बहुलं छन्दसि’ (पा.सू. 7.3.97) इतीडभावः, हलन्तलक्षणा वृद्धिः, हल्ङ्यादिसंयोगान्तलोपौ ।

विश्वास-प्रस्तुतिः

अ॒ररु॑स् +++(→भ्रातृव्यः)+++ ते॒ दिव॒म् मा ऽस्का॑न्+++(=गात्)+++ ।
+++(‘भ्रातृव्यो वा अररुः’ (तै.ब्रा. 3.2.9) इत्यादि ब्राह्मणम् ॥)+++

Keith

Let not Araru mount the sky for thee.

मूलम्

अ॒ररु॑स्ते॒ दिव॒म्मा स्का॑न् +++(=गात्)+++ ।

पद-पाठः

अ॒ररुः॑ । ते॒ । दिव॑म् । मा । स्का॒न् ।

भट्टभास्कर-टीका

तृतीय एव शेषः ‘अररुस्ते दिवं मास्कान्’ इति । अत एवोत्करस्य योऽयमररुस्त्वयि बद्धः, स दिवं स्वर्गं मास्कान् मा गात् । स्कन्देर्लुङि हलन्तलक्षणा वृद्धिः, ‘बहुळं छन्दसि’ (पा.सू. 7.3.97) इतीडभावः, ‘झलो झलि’ (पा.सू. 8.2.26) इति सिचो लोपः, हल्ङ्यादिसंयोगान्तलोपौ । ‘भ्रातृव्यो वा अररुः’ (तै.ब्रा. 3.2.9) इत्यादि ब्राह्मणम् ॥

भास्करोक्त-विनियोगः

वेदिं परिगृह्णाति

विश्वास-प्रस्तुतिः

+++(वेदे!)+++ +++(अष्टौ)+++ वस॑वस् त्वा॒ +++(दक्षिणतः)+++ परि॑गृह्णन्तु +++(अष्टाक्षरेण)+++ गाय॒त्रेण॒ छन्द॑सा ।

Keith

Let the Vasus grasp thee with the Gayatri metre

मूलम्

वस॑वस्त्वा॒ परि॑गृह्णन्तु गाय॒त्रेण॒ छन्द॑सा ।

पद-पाठः

वस॑वः । त्वा॒ । परीति॑ । गृ॒ह्ण॒न्तु॒ । गा॒य॒त्रेण॑ । छन्द॑सा ।

भट्टभास्कर-टीका

17 वेदिं परिगृह्णाति - वसव इति ॥ वसवः अष्टौ । अष्टाक्षरा गायत्री । ते च गायत्रेण छन्दसा त्वां दक्षिणतः परिगृह्णन्तु ।

विश्वास-प्रस्तुतिः

+++(एकादश)+++ रु॒द्रास् त्वा॒ परि॑गृह्णन्तु॒ +++(एकादशाक्षरेण)+++ त्रैष्टु॑भेन॒ छन्द॑सा ।

Keith

let the Rudras grasp thee with the Tristubh metre

मूलम्

रु॒द्रास्त्वा॒ परि॑गृह्णन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा ।

भट्टभास्कर-टीका

एकादश रुद्राः । एकादशाक्षरा त्रिष्टुप् । ते एकादशाक्षरेण त्रैष्टुभेन छन्दसा त्वां पश्चात्परिगृह्णन्तु ।

विश्वास-प्रस्तुतिः

+++(द्वादश)+++ आ॒दि॒त्यास्त्वा॒ +++(उत्तरतः)+++ परि॑गृह्णन्तु॒ +++(द्वादशाक्षरेण)+++ जाग॑तेन॒ छन्द॑सा ।
+++(‘असुराणां वा इयमग्र आसीत्’ (तै.ब्रा. 3.2.9) इत्यादि ब्राह्मणम् ॥)+++

Keith

let the Adityas grasp thee with the Jagati metre.

पद-पाठः

रु॒द्राः । त्वा॒ । परीति॑ । गृ॒ह्ण॒न्तु॒ । त्रैष्टु॑भेन । छन्द॑सा ।

मूलम्

आ॒दि॒त्यास्त्वा॒ परि॑गृह्णन्तु॒ जाग॑तेन॒ छन्द॑सा ।

पद-पाठः

आ॒दि॒त्याः । त्वा॒ । परीति॑ । गृ॒ह्ण॒न्तु॒ । जाग॑तेन । छन्द॑सा ।

भट्टभास्कर-टीका

द्वादश आदित्याः । ते द्वादशाक्षरेण जागतेन छन्दसा त्वामुत्तरतः परिगृह्णन्तु । ‘छन्दसः प्रत्ययविधाने नपुंसके स्वार्थे उपसंख्यानम्’ (पा.सू. 4.2.55 वा 1) इति गायत्रादिभ्यस्स्वार्थेऽण्प्रत्ययः । तत्र त्रिष्टुप्जगतीशब्दाभ्यां उत्सादित्वादञ् (पा.सू. 4.1.86), प्राग्दीव्यतीयत्वात् तस्योपसङ्ख्यानस्य । ‘असुराणां वा इयमग्र आसीत्’ (तै.ब्रा. 3.2.9) इत्यादि ब्राह्मणम् ॥

भास्करोक्त-विनियोगः

18खनति - देवस्येति द्विपदया गायत्र्या ॥

विश्वास-प्रस्तुतिः - ऋक्

दे॒वस्य॑ सवि॒तुस् स॒वे +++(=अनुज्ञायाम्)+++
कर्म॑ कृण्वन्ति वे॒धसः॑+++(=ऋत्विजः)+++ ।
+++(ततो मम नापराधः।)+++

Keith

On the impulse of the god Savitr wise ones perform the rite.

मूलम्

दे॒वस्य॑ सवि॒तुस्स॒वे कर्म॑ कृण्वन्ति वे॒धसः॑ ।

पद-पाठः

दे॒वस्य॑ । स॒वि॒तुः । स॒वे । कर्म॑ । कृ॒ण्व॒न्ति॒ । वे॒धसः॑ ।

भट्टभास्कर-टीका

सवितुः सर्वप्रेरकस्य देवस्य सवे अनुज्ञायाम् अनुज्ञां लब्ध्वैव वेधसो विधायका ऋत्विजः कर्म कृण्वन्ति । यत एवं, तस्मादहमपि देवेन सवित्राऽनुज्ञात एव वेदिं खनामि । ततो मम नापराध इति । कृवि जिघांसायां, कृवि हिंसाकरणयोरित्यन्ये । ‘धिन्विकृण्व्योर च’ (पा.सू. 3.1.80) इत्युप्रत्ययः, ‘अतो लोपः’ (पा.सू. 6.4.48) । ‘सवजवौ छन्दसि’ (पा.सू. 3.3.56 वा 4) इति सवशब्दोऽजन्तत्वादन्तोदात्तः ॥

भास्करोक्त-विनियोगः

उत्तरं परिग्राहं परिगृह्णाति

विश्वास-प्रस्तुतिः

+++(हे वेदे!)+++ ऋ॒तम् अ॑सि ।
ऋत॒-सद॑नम् असि ।
ऋत॒-श्रीर् अ॑सि ।

Keith

Thou art the right, thou art the seat of right, thou art the glory of right.

मूलम् (संयुक्तम्)

-ऋ॒तम॑स्यृत॒सद॑नमस्यृत॒श्रीर॑सि

मूलम्

ऋ॒तम॑सि ।
ऋत॒सद॑नमसि ।
ऋ॒तश्रीर॑सि ।

पद-पाठः

ऋ॒तम् । अ॒सि॒ । ऋ॒त॒सद॑न॒मित्यृ॑त-सद॑नम् । अ॒सि॒ । ऋ॒त॒श्रीरित्यृ॑त-श्रीः । अ॒सि॒ ।

भट्टभास्कर-टीका

21-23उत्तरं परिग्राहं परिगृह्णाति - ऋतमसीति ॥ हे वेदे ऋतं सत्यं यज्ञो वा त्वमसि, तदाधारत्वात् । तदेवाह ऋतसदनमसीति । ऋतस्य सदनमसि गृहमसि । ऋतवादी ऋत्विक् यजमानो यज्ञो वा सीदत्यस्मिन्नित्यधिकरणे ल्युट्, कृदुत्तरपदप्रकृतिस्वरत्वम् । ऋतं श्रयति साधनत्वेनेति ऋतश्रीः । ‘क्विब्वचि’ (पा.सू. 3.2.178 वा 2) इत्यादिना क्विप्, दीर्घश्च, स एव स्वरः । दक्षिणतः पश्चादुत्तरतश्च त्रय एवैते परिग्रहे मन्त्राः । ‘एतावती वै पृथिवी’ (तै.ब्रा. 3.2.9) इत्यादि ब्राह्मणम् ॥

भास्करोक्त-विनियोगः

समीकरोति

विश्वास-प्रस्तुतिः

धा अ॑सि ।
स्व॒धा+++(=अन्नं, स्वं पुरुषं दधातीति)+++ अ॑सि ।
उ॒र्वी चाऽसि॑।
वस्वी॑ चासि ।

Keith

Thou art the holder, thou art the self-holder.
Thou art broad, and wealthy art thou.

मूलम् (संयुक्तम्)

धा अ॑सि स्व॒धा अ॑स्यु॒र्वी चासि॒ वस्वी॑ चासि

मूलम्

धा अ॑सि ।
स्व॒धा अ॑सि ।
उ॒र्वी चाऽसि॑ ।
वस्वी॑ चासि ।

पद-पाठः

धाः । अ॒सि॒ । स्व॒धेति॑ स्व-धा । अ॒सि॒ । 7W । उ॒र्वी । च॒ । असि॑ । वस्वी॑ । च॒ । अ॒सि॒ ।

भट्टभास्कर-टीका

24समीकरोति - धा इति यजुरादिकया पुरा क्रूूरस्येत्यादिकया त्रिष्टुभा चतुष्पदया ॥ दधातीति धाः । ‘क्विप् च’ (पा.सू. 3.2.76) इति क्विप् । हविषामाधारस्त्वमसि ।

स्वधा अन्नं, स्वं पुरुषं दधातीति । ‘आतोऽनुपसर्गे कः’ (पा.सू. 3.2.3) कृदुत्तरपदप्रकृतिस्वरत्वम् ।स्वधैव त्वमसि, तत्साधनत्वात् । ‘ईषाअक्षादिषु च्छन्दसि प्रकृतिभावमात्रं वक्तव्यम्’ (पा.सू. 6.1.127 वा 2) इति पदयोः सवर्णदीर्घत्वाभावः ।

उर्वी महती चासि । वस्वी वासहेतुश्चासि, पुरोडाशादिधनवत्त्वेन देवतानां धारकत्वात् । अत्र ‘गुणवचनात् ङीबाद्युदात्तार्थम्’ (पा.सू. 4.1.44 वा 1) इति वसुशब्दात् ङीप् । उरुशब्दात् ङीप् ङीष् वा; न कश्चन विशेषः । ङीप्यपि ‘उदात्तयणो हल्पूर्वात्’ (पा.सू. 6.1.174) इति नद्या उदात्तत्वेन भाव्यम् । अत्र ‘चवायोगे प्रथमा’ (पा.सू. 8.1.59) इति प्रथमा तिङ्विभक्तिर्न निहन्यते ।

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रा क्रू॒रस्य॑ +++(अरुरोर् असुरस्य)+++ वि॒सृपो॑+++(=विसर्पणात्)+++ विरफ्शिन्न्+++(=विविधशब्दवति वेदे!)+++
उदा॒दाय॑ पृथि॒वीञ्+++(=प्रथितां)+++, +++(त्वं)+++ जी॒र+++(=अग्नि/बुद्धि)+++-दा॑नुः+++(=दात्री)+++ ।
याम् +++(प्र-)+++ऐर॑यञ् च॒न्द्रम॑सि स्व॒धाभि॒स्,
तान् +++(मेध्यांशं)+++ धीरा॑सो अनु॒दृश्य॑ यजन्ते ॥ [15]

सर्वाष् टीकाः ...{Loading}...

Keith

Before the cruel foe slips away, O glorious one,
Taking up the earth, with plenteous drops,
The earth which they place in the moon by their offerings,
Which wise men use to guide them in the sacrifice.

मूलम्

पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शिन्नुदा॒दाय॑ पृथि॒वीञ्जी॒रदा॑नुः ।
यामैर॑यञ्च॒न्द्रम॑सि स्व॒धाभि॒स्तान्धीरा॑सो अनु॒दृश्य॑ यजन्ते ॥ [15]

पद-पाठः

पु॒रा । क्रू॒रस्य॑ । वि॒सृप॒ इति॑ वि-सृपः॑ । वि॒र॒फ्शि॒न्निति॑ वि-र॒फ्शि॒न् । उ॒दा॒दायेत्यु॑त्-आ॒दाय॑ । पृ॒थि॒वीम् । जी॒रदा॑नु॒रिति॑ जी॒र-दा॒नुः॒ । याम् । ऐर॑यन् । च॒न्द्रम॑सि । स्व॒धाभि॒रिति॑ स्व-धाभिः॑ । ताम् । धीरा॑सः । अ॒नु॒दृश्येत्य॑नु-दृश्य॑ । य॒ज॒न्ते॒ ॥ [15]

भट्टभास्कर-टीका

अथ कुतोऽवगम्यते ईदृशी वेदिरिदानीमभूदिति तत्राह - पुरेति ॥
क्रूरस्याररुनाम्नोसुरस्य उत्करबद्धस्य विसृपः विसर्पणात् पुरा पूर्वमेव । ‘सृपितृदोः कसुन्’ (पा.सू. 3.4.17), व्यत्ययेन प्रथमा । पृथिवीं प्रथिताम् । जीरदानुः जीरो ऽग्निः बुद्धिर् वा । ‘जु’ इति सौत्रो धातुः, तस्मात् ‘जोरी च’ (उ.सू. 191) इति रक्प्रत्ययः । जीरस्य दानुः दात्री जीरदानुः । ‘दाभाभ्यां नुः’ (उ.सू. 319) इति नुप्रत्ययः । ‘अन्तोदात्तप्रकरणे मरुद्वृधादीनां छन्दस्युपसङ्ख्यानम्’ (पा.सू. 6.2.106 वा 2) इति पूर्वपदस्यान्तोदात्तत्वम् ।

यद्वा - जीवनशीलाः जीराः । ‘स्फायितञ्चि’ (उ.सू. 178) इति रक्प्रत्ययो बहुलवचनात् जीवेरपि भवति । दानवः दातारः हविषां, यजमानाः । जीरा दानवो यस्यामिति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।

ईदृशीं यां त्वां स्वधाभिरन्नैरोषधिविकारैस्सहितां उदादाय उत्क्षिप्य चन्द्रमसि ओषधीशे ऐरयन् स्थापितवन्तः यज्वानः । हे विरप्शिन्, वेद्यास्संबोधनम् । विविधं रपणं शब्दनं विरप्, उपांशुत्वादिभेदेन मन्त्राणामुच्चारणम् । तद्वन्तो विरप्शाः ऋत्विज उच्यन्ते । लोमादित्वाच्छः (पा.सू. 5.2.100) । तद्वति विरप्शिन् । छान्दसः स्त्रीप्रत्ययाभावः । तां तादृशीं त्वां चन्द्रमसि स्थापितां देवयजनीभूतामनुदृश्य अन्वीक्ष्य सैवेयमस्माभिस्संस्कृता वेदिरिति विज्ञाय, धीरासः प्रज्ञावन्तो यजमाना यजन्ते । ‘आज्जसेरसुक्’ (पा.सू. 7.1.50) । तस्माद्वयमपि तथैव विज्ञाय यजामः ।
यद्वा - हे विरप्शिन् वेदे, क्रूरस्याररुनाम्नोऽसुरस्य विसर्पणात् प्रागेव यां त्वाम् उदादाय चन्द्रमसि स्थिताभिस् स्वधाभिः अमृतैर्हेतुभिः जीरदानु-भूतां पृथिवीम् ऐरयन् प्रापयन्, तां तथाविधां त्वां अनुदृश्य धीरा यजन्ते । तस्माद्वयमपि तादृशीं त्वामवगम्य यजामः इति । दासीभारादित्वात् (पा.सू. 6.2.42) चन्द्रमसीति पदे पूर्वपदप्रकृतिस्वरत्वम्’ । ‘यदेवास्या अमेध्यम्’ (तै.ब्रा. 3.2.9) इत्यादि ब्राह्मणम् ॥

इति प्रथमे नवमोनुवाकः