२ उपरिष्टाद् बृहती ३-४, ११ एकपदा गायत्री प्रजापतिर्ऋषिः
भास्करोक्त-विनियोगः
पिष्टानि संवपति
देवस्य त्वा सवितुः ...{Loading}...
विश्वास-प्रस्तुतिः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॒॑+++(=अनुज्ञायां)+++,
+++(देवाध्वर्यू→)+++ ऽश्विनो॑र् बा॒हुभ्या॑म्,
पू॒ष्णो हस्ता॑भ्याम्…
Keith
On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.
मूलम्
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्यां॒…
पद-पाठः
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता॑भ्याम् ।
भट्टभास्कर-टीका
सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं
‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥
सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥
तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां
विश्वास-प्रस्तुतिः
सव्ँ-व॑पामि ।
Keith
I pour together.
मूलम्
सव्ँ व॑पामि ।
पद-पाठः
समिति॑ । व॒पा॒मि॒ ।
भट्टभास्कर-टीका
1पिष्टानि संवपति - समिति ॥ समित्येकीभावे; सह प्रक्षिपामि । सावित्रशेषश्चायम् । ‘अग्नये जुष्टम्’ (तै.सं. 1.1.4) इत्यपि लभ्यते ॥
भास्करोक्त-विनियोगः
प्रणीता मदन्तीरानीयमानाः प्रतिमन्त्रयते
विश्वास-प्रस्तुतिः ...{Loading}...
सम् +++(प्रणीता-)+++आपो॑ +++(मदन्ती/क्वथित)+++अ॒द्भिर्॑ अग्मत॒
सम् +++(पिष्टरूपा)+++ ओष॑धयो॒ रसे॑न +++(→परस्पर-जिन्वनम् water cycle ब्राह्मणय् उक्तम्)+++।
सँ रे॒वती॒र्+++(=धनवत्यः →आपः)+++ जग॑तीभि॒र्+++(=जङ्गमाभिः →पशवः)+++
मधु॑मती॒र् +++(→ओषधीः)+++ मधु॑मतीभिस् सृज्यध्वम् ॥
सर्वाष् टीकाः ...{Loading}...
Keith
The waters have joined with the waters, the plants with sap.
Join ye rich ones with the moving ones, sweet ones with the sweet.
मूलम्
समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॑न ।
सँ रे॒वती॒र्जग॑तीभि॒र्मधु॑मती॒र्मधु॑मतीभिस्सृज्यध्वम् ॥
+++(वाजसनेयीसंहितानुसारेण अत्र मन्त्रविभागः कृतः)+++
पद-पाठः
समिति॑ । आपः॑ । अ॒द्भिरित्य॑त्-भिः । अ॒ग्म॒त॒ । समिति॑ । ओष॑धयः । रसे॑न । 3C । समिति॑ । रे॒वतीः॑ । जग॑तीभिः । मधु॑मती॒रिति॒ मधु॑-म॒तीः॒ । मधु॑मतीभि॒रिति॒ मधु॑-म॒ती॒भिः॒ । सृ॒ज्य॒ध्व॒म् ।
भट्टभास्कर-टीका
2प्रणीता मदन्तीरानीयमानाः प्रतिमन्त्रयते - समाप इति वस्वष्टवस्वादित्यपदया उपरिष्टाद्बृहत्या ॥
आपः प्रणीतालक्षणाः, अद्भिर्मदन्तीलक्षणाभिः, समग्मत सङ्गच्छन्ताम् । ‘ऊडिदम्’ (पा.सू. 6.1.171) इत्यादिना असर्वनामस्थानविभक्तेरुदात्तत्वम् । ‘छन्दसि लुङ्लङ्लिटः’ (पा.सू. 3.4.6) इति लङ्, ‘समो गम्यृच्छिभ्याम्’ (पा.सू. 1.3.29) इत्यात्मनेपदम्, ‘बहुळं छन्दसि’ (पा.सू. 2.4.73) इति शपो लुक्, ‘आत्मनेपदेष्वनतः’ (पा.सू. 7.1.5) इत्यदादेशः । यद्वा - तेनैव लुङ्, ‘मन्त्रे घस’ (पा.सू. 2.4.80) इत्यादिना च्लेर्लुक्, ‘गमहन’ (पा.सू. 6.4.98) इत्युपधालोपः ।
किञ्च, ओषधयः पिष्टलक्षणाः रसेनानीयमानेन द्विप्रकारेण रसेन जलेन सङ्गच्छन्ताम् । ओषा धीयन्त आस्वित्योषधयः । दासीभारादित्वात् (पा.सू. 6.2.42) पूर्वपदप्रकृतिस्वरत्वम्, ओषशब्दो घञन्त आद्युदात्तः, ‘कर्मण्यधिकरणे च’ (पा.सू. 3.3.93)इति दधातेः किप्रत्ययः ।
एवं परोक्षवदभिधायेदानीं प्रत्यक्षवदुच्यते - रेवतीः रेवत्यः धनवत्यः सर्वधनकारणत्वात् । ‘रयेर्मतौ बहुलम्’ (पा.सू. 6.1.37 वा 6) इति सम्प्रसारणम्; ‘वा छन्दसि’ (पा.सू. 6.1.106) इति पूर्वसवर्णदीर्घत्वम्, ह्रस्वनुड्भ्यां मतुप्’ (पा.सू. 6.1.176) इत्यत्र ‘रेशब्दाच्चोपसङ्ख्यानम्’ (पा.सू. 6.1.176 वा 1) इति मतुप उदात्तत्वं, वत्त्वं च ।
ईदृश्यो यूयं जगतीभिस्संसृज्यध्वं संसृष्टा भवत । कर्मणि लकारः । जगतीभिः जङ्गमस्वभावाभिः । ‘वर्तमाने पृषद्बृहन्महज्जगच्छतृवत्’ (उ.सू. 241) इति गमेरतिप्रत्ययः, मकारलोपः, द्विर्वचनं च निपात्यते, ‘उगितश्च’ (पा.सू. 4.1.6) इति ङीप्, ‘अभ्यस्तानामादिः’ (पा.सू. 6.1.189) इत्याद्युदात्तत्वम् । शतृवद्भावेन लसार्वधातुकत्वात् (पा.सू. 6.1.186) प्रत्ययस्यानुदात्तत्वम् । तथा मधुमतीः मधुमत्यः मधुरा यूयं मधुमतीभिस्संसृज्यध्वम् ।
एतदुक्तं भवति - हे आपः रेवत्यो मधुमत्यश्च यूयं जगतीभिर्मधुमतीभिश्च ओषधीभिस्संसृज्यध्वम्, इति । ‘आपो वा ओषधीर्जिन्वन्ति’ (तै.ब्रा. 3.2.8) इत्यादि, ‘आपो वै रेवतीः’ (तै.ब्रा. 3.2.8) इत्यादि च ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
अपः परिप्लावयति
विश्वास-प्रस्तुतिः
अ॒द्भ्यᳶ परि॒ प्रजा॑तास् स्थ +++(हे ओषधयः पार्थिवाः!)+++।
सम॒द्भिᳶ पृ॑च्यध्वम् ।
Keith
From the waters ye are born, be united with the waters.
मूलम् (संयुक्तम्)
अ॒द्भ्यᳶ परि॒ प्रजा॑तास्स्थ॒ सम॒द्भिᳶ पृ॑च्यध्वम्
मूलम्
अ॒द्भ्यᳶ परि॒ प्रजा॑तास्स्थ ।
पद-पाठः
अ॒द्भ्य इत्य॑त्-भ्यः । परीति॑ । प्रजा॑ता॒ इति॒ प्र-जा॒ताः॒ । स्थ॒ ।
भट्टभास्कर-टीका
3अपः परिप्लावयति - अद्भ्य इति गायत्र्यैकपदया यजुरन्तया ॥ हे ओषधयः यूयं अद्भ्यः परिप्रजाताः अद्भ्य एव सर्वास्सम्भूताः ।
मूलम्
सम॒द्भिᳶ पृ॑च्यध्वम् ।
पद-पाठः
समिति॑ । अ॒द्भिरित्य॑त्-भिः । पृ॒च्य॒ध्व॒म् ।
भट्टभास्कर-टीका
यस्मादेवं स्थ, तस्मादाभिरद्भिस्सम्पृच्यध्वं सम्पृक्ता भवत । कर्मणि लकारः । अद्भिस्सम्पर्केण युष्माकमभिवृद्धिरिति । ‘यथा सुवृष्टे’ (तै.ब्रा. 3.2.8) इत्यादि ब्राह्मणम् । ‘ऊडिदम्’ (पा.सू. 6.1.171) इत्यादिना अद्भ्यो विभक्तेरुदात्तत्वम् । प्रकृष्टा जाताः प्रजाता इति प्रादिसमासः प्राचार्यवत् । गतित्वाभावात् अव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) । यद्वा अन्तर्भावितण्यर्थात् कर्मणि निष्ठायां ‘गतिरनन्तरः’ (पा.सू. 6.2.49) इति पूर्वपदप्रकृतिस्वरत्वम् ॥
भास्करोक्त-विनियोगः
आलोडयति
विश्वास-प्रस्तुतिः
+++(प्रजानां)+++ जन॑यत्यै त्वा॒ सय्ँयौ॑मि+++(=मिश्रीकरोमि)+++ ।
Keith
For generation I unite thee.
मूलम्
जन॑यत्यै त्वा॒ सय्ँयौ॑मि ।
पद-पाठः
जन॑यत्यै । त्वा॒ । समिति॑ । यौ॒मि॒ ।
भट्टभास्कर-टीका
4आलोडयति - जनयत्या इति ॥ जनयत्यै प्रजानां जननाय त्वां संयौमि मिश्रीकरोमि । ‘अमेरतिः’ (उ.सू. 499) इति विधीयमानोऽतिप्रत्ययो बहुलवचनाज्जनेर्ण्यन्तादपि भवति । ‘छन्दस्युभयथा’ (पा.सू. 3.4.117) इति तस्य सार्वधातुकत्वात् णिलोपाभावः ॥
भास्करोक्त-विनियोगः
व्यूह्याभिमृशति
विश्वास-प्रस्तुतिः
अ॒ग्नये॑ त्वा +++(ऽभिमृशामि)+++।
अ॒ग्नीषोमा॑भ्याम् [त्वा] +++(ऽभिमृशामि)+++।
Keith
For Agni thee, for Agni and Soma.
मूलम्
अ॒ग्नये॑ त्वा ।
पद-पाठः
अ॒ग्नये॑ । त्वा॒ ।
भट्टभास्कर-टीका
5व्यूह्याभिमृशति - अग्नय इति ॥ अग्न्यर्थं त्वामभिमृशामीति शेषः ॥
मूलम्
अ॒ग्नीषोमा॑भ्याम् [ त्वा ] ।
पद-पाठः
अ॒ग्नीषोमा॑भ्या॒मित्य॒ग्नी-सोमा॑भ्याम् ।
भट्टभास्कर-टीका
6अग्नीषोमाभ्यामित्यत्र त्वेत्यनुषज्यते । पूर्ववच्छेषः । अभिमर्शेन चान्यस्माद्व्यावृत्तिः क्रियते ॥
भास्करोक्त-विनियोगः
पिण्डं करोति
विश्वास-प्रस्तुतिः
म॒खस्य॒ शिरो॑ऽसि ।+++(5)+++
Keith
Thou art the head of Makha.
मूलम्
म॒खस्य॒ शिरो॑ऽसि ।
पद-पाठः
म॒खस्य॑ । शिरः॑ । अ॒सि॒ ।
भट्टभास्कर-टीका
7पिण्डं करोति - मखस्य शिरोसीति ॥ यज्ञो वै मखः (तै.ब्रा. 3.2.8), तस्य शिरः मुख्यमङ्गमसि, प्राधान्यात् ॥
भास्करोक्त-विनियोगः
अधिश्रयति
विश्वास-प्रस्तुतिः
घ॒र्मो॑ ऽसि वि॒श्वायुः॑।
Keith
Thou art the cauldron that contains all life.
मूलम्
घ॒र्मो॑ऽसि वि॒श्वायुः ।
पद-पाठः
घ॒र्मः । अ॒सि॒ । वि॒श्वायु॒रिति॑ वि॒श्व-आ॒युः॒ ।
भट्टभास्कर-टीका
8अधिश्रयति - घर्म इति ॥ घर्मः प्रवर्ग्य आदित्यो वा, स एवासि, उष्णत्वात् । विश्वमायुर्येन क्रियत इति विश्वायुः, विश्वायुर्नामासि ॥ ‘बहुव्रीहौ विश्वं संज्ञायां’ (पा.सू. 6.2.106) इति पूर्वपदान्तोदात्तत्वम् ॥
भास्करोक्त-विनियोगः
प्रथयति
उरु ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒रु प्र॑थस्व ।
उ॒रु ते॑ य॒ज्ञप॑तिᳶ प्रथताम् ।
Keith
Be extended wide, let the lord of the sacrifice be extended wide.
मूलम् (संयुक्तम्)
उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिᳶ प्रथताम्
मूलम्
उ॒रु प्र॑थस्व ।
उ॒रु ते॑ य॒ज्ञप॑तिᳶ प्रथताम् ।
पद-पाठः
उ॒रु । प्र॒थ॒स्व॒ ।
उ॒रु । ते॒ । य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ-प॒तिः॒ । प्र॒थ॒ता॒म् ।
पद-पाठः
उ॒रु । प्र॒थ॒स्व॒ । उ॒रु । ते॒ । य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ-प॒तिः॒ । प्र॒थ॒ता॒म् ।
भट्टभास्कर-टीका
9प्रथयति - उर्विति ॥ उरु यथा भवति तथा प्रथस्व । यज्ञपतिः यजमानः अनेन तवोरुप्रथनेन उरु प्रथतां पश्वादिभिः । ‘पत्यावैश्वर्ये’ (पा.सू. 6.2.18) इति पूर्वपदप्रकृतिस्वरत्वम् ॥
भास्करोक्त-विनियोगः
श्लक्ष्णीकरोति
विश्वास-प्रस्तुतिः
त्वच॑ङ् गृह्णीष्व ।
Keith
Grasp the skin.
मूलम्
त्वच॑ङ्गृह्णीष्व ।
पद-पाठः
त्वच॑म् । गृ॒ह्णी॒ष्व॒ ।
भट्टभास्कर-टीका
10श्लक्ष्णीकरोति - त्वचमिति ॥ त्वचं गृह्णीष्व त्वचा अतिश्लक्ष्णतनूर्भव । ‘सर्वमेवैनँ सतनुम्’ (तै.ब्रा. 3.2.8) इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
पर्यग्नि करोति
विश्वास-प्रस्तुतिः
अन्तरि॑तँ॒ रक्षो॒
ऽन्तरि॑ता॒ अरा॑तयः +++(→दि॒वि नाको॒ नामा॒ग्नी र॑क्षो॒हा)+++।
+++(अप्रदग्धश् च यजमानः।)+++
Keith
I The Raksas is obstructed, the evil spirits are obstructed.
मूलम्
अन्तरि॑तँ॒ रक्षो॒ऽन्तरि॑ता॒ अरा॑तयः ।
पद-पाठः
अ॒न्तरि॑त॒मित्य॒न्तः-इ॒त॒म् । रक्षः॑ । अ॒न्तरि॑ता॒ इत्य॒न्तः-इ॒ताः॒ । अरा॑तयः ।
भट्टभास्कर-टीका
11पर्यग्नि करोति - अन्तरितमिति यजुरादिकयैकपदया गायत्र्या ॥
अन्तरितं तिरोहितमपनीतम् । ‘अन्तरपरिग्रहे’ (पा.सू. 1.4.65) इति गतिसंज्ञिकत्वात् ‘गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम् । व्याख्यातमन्यत् (तै.सं. 1.1.2) । ‘घर्मो वा एषोऽशान्तः’ (तै.ब्रा. 3.2.8) इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
श्रपयति
विश्वास-प्रस्तुतिः
दे॒वस् त्वा॑ सवि॒ता श्र॑पयतु॒
वर्षि॑ष्ठे॒ अधि॒ नाके॑+++(=द्युवह्नौ रक्षोहन्त्रे)+++।
अ॒ग्निस् ते॑ त॒नुव॒म् मा ऽति॑ धाक् ।
Keith
Let the god Savitr make thee ready on the highest firmament.
May Agni burn not too much thy body.
मूलम् (संयुक्तम्)
- दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्षि॑ष्ठे॒ अधि॒ नाके॒ऽग्निस्ते॑ त॒नुव॒म्माऽति॑ धाक्
मूलम्
दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒
वर्षि॑ष्ठे॒ अधि॒ नाके॑।
अ॒ग्निस्ते॑ त॒नुव॒म्माऽति॑ धाक् ।
पद-पाठः
दे॒वः । त्वा॒ । स॒वि॒ता । श्र॒प॒य॒तु॒ । वर्षि॑ष्ठे । अधीति॑ । नाके॑ । 13N । अ॒ग्निः । ते॒ । त॒नुव॑म् । मा । अतीति॑ । धा॒क् ।
भट्टभास्कर-टीका
12श्रपयति - देव इति ॥ देवस्सविता सर्वस्य प्रेरकः त्वां श्रपयतु पक्वं करोतु । किमर्थं? - वर्षिष्ठे वृद्धतमे नाके सुखरूपे स्वर्गे निमित्ते । ‘निमित्तात्कर्म(सं)योगे’ (पा.सू. 2.3.36 वा 6) इति सप्तमी । नाके स्वर्गार्थं त्वां श्रपयतु । सप्तम्यर्थमेवाधिशब्दो द्योतयति । ‘अधिपरी अनर्थकौ’ (पा.सू. 1.4.93) इति कर्मप्रवचनीयसंज्ञा । यद्वा - देवस्सविता त्वां श्रपयतु ।
कीदृशं? - वर्षिष्ठे अधिनाके, योयं दिवि नाको नामाग्निः वृद्धतमो रक्षसां हन्ता तस्मिन्नधि तेनेश्वरेण रक्ष्यमाणं त्वां श्रपयतु । ‘अधिरीश्वरे’ (पा.सू. 1.4.97) इति कर्मप्रवचनीयत्वम् । ‘यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी’ (पा.सू. 2.3.9) इति स्वामिविशेषे द्योत्ये स्वामिविशेषात्सप्तमी, यथा ‘अधिब्रह्मदत्ते पञ्चालः’ इति । ‘पुरोडाशं वा अधिश्रितम्’ (तै.ब्रा. 3.2.8) इत्यादि ब्राह्मणम् ।
किञ्च - अग्निस्ते तनुवं मातिधाक् कृशावस्थामतीत्य मा धाक्षीत् । दहेर्लुङि, च्लेस्सिचि, हलन्तलक्षणा वृद्धिः (पा.सू. 3.2.110, 3.1.44, 7.2.3), ‘बहुळं छन्दसि’ (पा.सू. 7.3.97) इतीडभावः, हल्ङ्यादिलोपसंयोगान्तलोपौ, घत्वचर्त्वभष्भावाः (पा.सू. 8.2.36, 8.4.55, 8.2.37) । ‘तन्वादीनां छन्दसि बहुलम्’ (पा.सू. 6.4.77 वा 1) इति तनोतेरुवङादेशः ॥
भास्करोक्त-विनियोगः
गार्हपत्यम् अभिमन्त्रयते
अग्ने हव्यम् ...{Loading}...
विश्वास-प्रस्तुतिः
अग्ने॑ ह॒व्यँ र॑क्षस्व ॥ [6]
Keith
O Agni, guard the offering.
मूलम्
अग्ने॑ ह॒व्यँ र॑क्षस्व ॥ [6]
पद-पाठः
अग्ने॑ । ह॒व्यम् । र॒क्ष॒स्व॒ ॥
भट्टभास्कर-टीका
17गार्हपत्यमभिमन्त्रयते - अग्न इति ॥ हे अग्ने गार्हपत्य, इदं हव्यं हवनाय निरुप्तं रक्षस्व । व्यत्ययेनात्मनेपदम् । ‘छन्दसि च’ (पा.सू. 5.1.67) इति यः ॥
भट्टभास्कर-टीका
13गार्हपत्यमभिमन्त्रयते - अग्न इति ॥ व्याख्यातम् (तै.सं. 1.1.4) ॥
भास्करोक्त-विनियोगः
भस्मनाभिवासयति
विश्वास-प्रस्तुतिः
सम् ब्रह्म॑णा पृच्यस्व +++(पशु-सम्बन्धाय, अ-खल्वाटत्वाय च)+++।
Keith
Be united with our prayer.
मूलम्
सम्ब्रह्म॑णा पृच्यस्व ।
पद-पाठः
समिति॑ । ब्रह्म॑णा । पृ॒च्य॒स्व॒ ।
भट्टभास्कर-टीका
14भस्मनाभिवासयति - समिति ॥ ब्रह्मणा बृहता अनेन भस्मना संपृच्यस्व संपृक्तो भव हे पुरोडाश । पृचेः कर्मणि लकारः । ‘मस्तिष्को वै पुरोडाशः’ (तै.ब्रा. 3.2.8) इत्यादि ब्राह्मणम् । ‘पशोर्वै प्रतिमा परोडाशः’ (तै.ब्रा. 3.2.8) इति च ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
पात्रनिर्णेजनीर् अपो निनयति
विश्वास-प्रस्तुतिः
ए॒क॒ताय॒ स्वाहा॑ ।
द्वि॒ताय॒ स्वाहा॑ ।
त्रि॒ताय॒ स्वाहा॑ ।
+++(‘तत एकतोजायत’ (तै.ब्रा. 3.2.8) इत्यादिब्राह्मणे प्रसिद्धाः तद्-वाच्याः पित्रादयः अग्निष्वात्तादयः ।)+++
Keith
Hail to Ekata, hail to Dvita, hail to Trita.
मूलम् (संयुक्तम्)
एक॒ताय॒ स्वाहा॑ द्वि॒ताय॒ स्वाहा॑ त्रि॒ताय॒ स्वाहा॑ ॥ [12]
मूलम्
एक॒ताय॒ स्वाहा॑ ।
द्वि॒ताय॒ स्वाहा॑ ।
त्रि॒ताय॒ स्वाहा॑ ।
पद-पाठः
ए॒क॒ताय॑ । स्वाहा॑ । द्वि॒ताय॑ । स्वाहा॑ । त्रि॒ताय॑ । स्वाहा॑ ॥ [12]
भट्टभास्कर-टीका
15पात्रनिर्णेजनीरपो निनयति - एकतायेति ॥ एकतादयस्संज्ञाशब्दाः ‘तत एकतोजायत’ (तै.ब्रा. 3.2.8) इत्यादिब्राह्मणे प्रसिद्धाः तद्वाच्याः पित्रादयः अग्निष्वात्तादयः । तेभ्य इमा आहुतयस्सन्त्विति स्वयमेव सरस्वत्याह; न त्वहं मनुष्य इति । एकतोभिपातादस्यास्ति जन्मेत्येकतः । अर्श आदेराकृतिगणत्वादच्प्रत्ययः (पा.सू. 5.2.127) । ‘तद्धितश्चासर्वविभक्तिः’ (पा.सू. 1.1.38) इत्यव्ययत्वात् ‘अव्ययानां भमात्रे टिलोपः’ (पा.सू. 4.2.104 वा 2), अस्तिसामानाधिकरण्याभावेपि ‘बहुळं छन्दसि’ (पा.सू. 5.2.122) इति मत्वर्थीयो दृश्यते । यथा ‘सोन्तर्वानभवत्’ (तै.ब्रा. 2.2.9) इति । एवं द्वितस्त्रितोपि द्रष्टव्यः । ‘देवा वै हविर्भृत्वाऽब्रुवन्’ (तै.ब्रा. 3.2.8) इति ब्राह्मणम् ॥
इत्यष्टमोनुवाकः
इत्यष्टमोनुवाकः