(व्रीह्यवघातः)
१ गायत्री, ६,१४ एकपदा गायत्री, प्रजापतिर्ऋषिः
भास्करोक्त-विनियोगः
1अप उत्पुनाति - देवो व इति गायत्र्या । ‘सावित्रियर्चा’ (तै.ब्रा. 3.2.5) इति ब्राह्मणम् ।
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वो व॑स् सवि॒तोत्पु॑ना॒त्व्
अच्छि॑द्रेण प॒वित्रे॑ण +++(सूर्येण)+++ ।
वसो॒स्+++(=वासहेतोः)+++ सूर्य॑स्य र॒श्मिभिः॑ ॥+++(५)+++
+++(‘असौ वा आदित्योच्छिद्रं पवित्रम्’ (तै.ब्रा. 3.2.5) इत्यादि ब्राह्मणम् ।)+++
देवो वस् सविता ...{Loading}...
Keith
Let the god Savitr purify you,
with a filter that has no flaw,
with the rays of the bright sun.
मूलम्
दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण ।
वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ ॥
पद-पाठः
दे॒वः । वः॒ । स॒वि॒ता । उदिति॑ । पु॒ना॒तु॒ । अच्छि॑द्रेण । प॒वित्रे॑ण । वसोः॑ । सूर्य॑स्य । र॒श्मिभि॒रिति॑ र॒श्मि-भिः॒ ।
भट्टभास्कर-टीका
हे आपः देवस्सविता सर्वस्य प्रेरकः, वः युष्मान् उत्पुनातु ऊर्ध्वं शोधयतु ।
अच्छिद्रेण ...{Loading}...
अच्छिद्रेण पवित्रेण जगतां पावनेन आदित्यात्मनानेन;
छिन्नं छिद्रम्, अतोन्यद् अच्छिद्रं अविच्छेदेन वर्तमानं । अव्यय-पूर्व-पद-प्रकृति-स्वरत्वं । ‘पुवस्संज्ञायाम्’ (पा.सू. 3.2.185) इति पुनातेरित्रप्रत्ययः । ‘असौ वा आदित्योच्छिद्रं पवित्रम्’ (तै.ब्रा. 3.2.5) इत्यादि ब्राह्मणम् ।
वसोर् जगतां वासहेतोः सूर्यस्य मण्डलात्मनो रश्मिभिः जगतां शुद्धि-हेतुभिः उत्पुनातु । वसेः करणे उप्रत्ययः, (उ.सू. 10) स च नित् ।
भास्करोक्त-विनियोगः
उन्महयन्न् उपोत्तिष्ठति
विश्वास-प्रस्तुतिः
+++(हे)+++ आपो॑ देवीर् अग्रेपुवो, अ॒ग्रे॒गु॒वो+++(=अग्रेसराः)+++ ऽग्र॑ इ॒मय्ँ य॒ज्ञन् न॑यत ।
अग्रे॑ य॒ज्ञप॑तिन् धत्त ।
यु॒ष्मान् इन्द्रो॑ ऽवृणीत +++(अपाम् अभि-प्रवृत्ते)+++ वृत्र॒-तूर्ये॑+++(=वधे)+++ ।
यू॒यम् इन्द्र॑म् अवृणीध्वव्ँ वृत्र॒-तूर्ये॑ ।
Keith
Ye divine waters, that go in front and first purify, forward lead this sacrifice, place in front the lord of the sacrifice.
You Indra chose for the contest with Vrtra, ye chose Indra for the contest with Vrtra.
मूलम् (संयुक्तम्)
आपो॑ देवीरग्रेपुवो अग्रेगु॒वोऽग्र॑ इ॒मय्ँ य॒ज्ञन्न॑य॒ताग्रे॑ य॒ज्ञप॑तिन्धत्त यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वव्ँ वृत्र॒तूर्ये
मूलम्
आपो॑ देवीरग्रेपुवो अग्रेगु॒वोऽग्र॑ इ॒मय्ँ य॒ज्ञन्न॑य॒त। अग्रे॑ य॒ज्ञप॑तिन् धत्त । यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ । यू॒यमिन्द्र॑मवृणीध्वव्ँ वृत्र॒तूर्ये॑ ।
पद-पाठः
आपः॑ । दे॒वीः॒ । अ॒ग्रे॒पु॒व॒ इत्य॑ग्रे-पु॒वः॒ । अ॒ग्रे॒गु॒व॒ इत्य॑ग्रे-गु॒वः॒ ।
अग्रे॑ । इ॒मम् । य॒ज्ञम् । न॒य॒त॒ ।
अग्रे॑ । य॒ज्ञप॑ति॒म् इति॑ य॒ज्ञ-प॒ति॒म् । ध॒त्त॒ । 3C ।
यु॒ष्मान् । इन्द्रः॑ । अ॒वृ॒णी॒त॒ । वृ॒त्र॒तूर्य॒ इति॑ वृत्र-तूर्ये॑ ।
यू॒यम् । इन्द्र॑म् । अ॒वृ॒णी॒ध्व॒म् । वृ॒त्र॒तूर्य॒ इति॑ वृत्र-तूर्ये॑ ।
भट्टभास्कर-टीका
2उन्महयन्नुपोत्तिष्ठति - आप इति ॥ हे आपः । आमन्त्रिताद्युदात्तत्वम् । उत्तरेषामामन्त्रितानामाष्टमिकं सर्वानुदात्तत्वम् (पा.सू. 8.1.19), ‘विभाषितं विशेषवचने बहुवचनम्’ (पा.सू. 8.1.14) इति पूर्वस्य विद्यमानत्वात् । हे देवीः देवनगुणयुक्ताः । ‘वा छन्दसि’ (पा.सू. 6.1.106) इति पूर्वसवर्णदीर्घत्वम् ।हे अग्रेपुवः भस्मादेश्शुद्धिकारणात् प्रथममेव वस्तूनां शोधिकाः । क्विपि ‘तत्पुरुषे कृति बहुळं’ (पा.सू. 6.3.14) इत्यलुक् ।
हे अग्रेगुवः प्रथमं स्नानकाल एव यागसाधनत्वं गच्छन्त्यः । ‘ऊङ् च गमादीनामिति वक्तव्यम्’ (पा.सू. 6.4.40 वा 2) इति क्वौ अनुनासिकलोपः ऊकारश्च । ईदृश्यो यूयमिमं प्रस्तुतं यज्ञमग्रे नयत यज्ञानामग्रं प्रापयत ।
यज्ञपतिं यजमानं चाग्रे धत्त यजमानानामग्रगण्यं कुरुत । ‘पत्यावैश्वर्ये’ (पा.सू. 6.2.18) इति यज्ञपतौ पूर्वपदप्रकृतिस्वरत्वम् ।
किं हि नाम भवतीनामशक्यमित्याह युष्मानिति । युष्मान्खल्विन्द्रो वृत्रतूर्ये वृत्रवधार्थसङ्ग्रामे अवृणीत वृणीतवान् ।
यूयमपीन्द्रं वृत्रतूर्ये अवृणीध्वं वृतवत्यः । युष्माकमिन्द्रो यूयं चेन्द्रस्य सहाया इति स्तुतिः । वृत्रस्तूर्यते हिंस्यतेऽस्मिन्निति वृत्रतूर्यं युद्धम् । तुर्वी त्वरणहिंसयोः, ‘हन्त्यर्थाश्च’ इति चुरादिपाठात् स्वार्थिकण्यन्तात् ‘अचो यत्’ (पा.सू. 3.1.97) इति यत् । ‘यतो नावः’ (पा.सू. 6.1.213) इत्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.139) तेन । ‘वृत्रँ ह हनिष्यन्निन्द्र आपो वव्रे’ (तै.ब्रा. 3.2.5) इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
प्रोक्षणीः प्रोक्षति +++(वचनाद् एव)+++
विश्वास-प्रस्तुतिः
प्रोक्षि॑तास् स्थ ।
Keith
Ye are sprinkled.
मूलम्
प्रोक्षि॑तास्स्थ ।
पद-पाठः
प्रोक्षि॑ता॒ इति॒ प्र-उ॒क्षि॒ताः॒ । स्थ॒ ।
भट्टभास्कर-टीका
3प्रोक्षणीः प्रोक्षति - प्रोक्षितास्थेति ॥ स्वत एव शुद्धा यूयं शुद्धाः स्थ इति मन्त्रोच्चारणमेवासां प्रोक्षणम् । । ‘अद्भिर्ह्येव हवीँषि प्रोक्षति, ब्रह्मणापः’ (तै.सं. 2.6.5) इत्यादि ब्राह्मणम् । ‘प्रोक्षितास्थेत्याह । तेनापः प्रोक्षिताः’ (तै.ब्रा. 3.2.5) इति च । ‘गतिरनन्तरः’ (पा.सू. 6.2.49) इति पूर्वपदप्रकृतिस्वरत्वम् ॥
भास्करोक्त-विनियोगः
पुरोडाशीयान् प्रोक्षति
विश्वास-प्रस्तुतिः
अ॒ग्नये॑ वो॒ जुष्ट॒म्+++(=प्रियं)+++ +++(यथा तथा)+++ प्रोक्षा॑मि ।
अ॒ग्नीषोमा॑भ्या॒म् [वो॒ जुष्ट॒म् प्रोक्षा॑मि ] +++(रक्ष॑सा॒म् अप॑हत्यै)+++।
Keith
I sprinkle you agreeable to Agni, to Agni and Soma.
मूलम्
अ॒ग्नये॑ वो॒ जुष्ट॒म्प्रोक्षा॑मि ।
अ॒ग्नीषोमा॑भ्या॒म् [ वो॒ जुष्ट॒म्प्रोक्षा॑मि ] ।
पद-पाठः
अ॒ग्नये॑ । वः॒ । जुष्ट॑म् । प्रेति॑ । उ॒क्षा॒मि॒ । अ॒ग्नीषोमा॑भ्या॒मित्य॒ग्नी-सोमा॑भ्याम् ।
भट्टभास्कर-टीका
4पुरोडाशीयान् प्रोक्षति - अग्नय इति ॥ अग्न्यर्थं युष्मान्प्रोक्षामि आद्भिस्सिञ्चामि । जुष्टं प्रियं यथा भवति तथा सिञ्चामि । ‘नित्यं मन्त्रे’ (पा.सू. 6.1.210) इति जुष्टशब्द आद्युदात्तः । अग्नीषोमाभ्यामित्यत्र ‘वो जुष्टं प्रोक्षामि’ इत्यनुषज्यते । ‘देवताद्वन्द्वे च’ (पा.सू. 6.2.141) इति युगपत्स्वरः ॥
भास्करोक्त-विनियोगः
पात्राणि प्रोक्षति
शुन्धध्वम् ...{Loading}...
विश्वास-प्रस्तुतिः
+++(पात्राणि!)+++ शुन्ध॑ध्व॒न् दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑ ।
Keith
Be ye pure for the divine rite, the sacrifice to the gods.
मूलम्
शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑ ।
पद-पाठः
शुन्ध॑ध्वम् । दैव्या॑य । कर्म॑णे । दे॒व॒य॒ज्याया॒ इति॑ देव-य॒ज्यायै॑ ।
भट्टभास्कर-टीका
1सान्नाय्यपात्राणि प्रोक्षति - शुन्धध्वमिति ॥ शुन्ध शुद्धौ, उदात्तेत्, व्यत्ययेनात्मनेपदम् । यद्वा, शुन्ध शौचकर्मणि ; अस्माण्ण्यन्तात्कर्मकर्तर्यात्मनेपदम् । ‘यक्चिणोः प्रतिषेधे णि श्रन्धिग्रन्थि’ (पा.सू. 3.1.89 वा 1) इत्यादिना यक्प्रतिषेधः । ‘बहुलं संज्ञाछन्दसोः’ (उ.सू. 190) इति णिलुक् । लसार्वधातुकानुदात्तत्वे (पा.सू. 6.1.186) धातुस्वरः । देवानामिदं दैव्यं ‘देवाद्यञञौ’ (पा.सू. 4.1.85 वा 3) इति यञ्प्रत्ययः प्राग्दीव्यतीयः । ञित्त्वादाद्युदात्तत्वं । ‘छन्दसि निष्टर्क्य’ (पा.सू. 3.1.123) इत्यादौ देवयज्याशब्दो यप्रत्ययान्तो निपातितः । हे पात्राणि देवयज्यात्मने दैव्याय कर्मणे शुन्धध्वं शुद्धानि भवत, स्वयमेवात्मानं शोधयतेति वा । प्राधान्यख्यापनार्था देवशब्दावृत्तिः, साकल्यार्था वा, यथा ‘निधीनां त्वा निधिपतिं हवामहे’ (तै.सं. 7.4.12) इति ॥
भट्टभास्कर-टीका
5पात्राणि प्रोक्षति - शुन्धध्वमिति । गतम् (तै.सं. 1.1.3) ।
भास्करोक्त-विनियोगः
कृष्णाजिनमवधूनोति
अवधूतम् ...{Loading}...
भास्करोक्त-विनियोगः
कृष्णाजिनम् अवधूनोति
विश्वास-प्रस्तुतिः
अव॑धूतँ॒ रक्षोऽव॑धूता॒ अरा॑त॒यः ।
Keith
The Raksas is shaken off, the evil spirits are shaken off.
मूलम्
अव॑धूतँ॒ रक्षोऽव॑धूता॒ अरा॑त॒यः ।
पद-पाठः
अव॑धूत॒मित्यव॑-धू॒त॒म् । रक्षः॑ । अव॑धूता॒ इत्यव॑-धू॒ताः॒ । अरा॑तयः ।
भट्टभास्कर-टीका
6कृष्णाजिनमवधूनोति - अवधूतमिति यजुरादिकयैकपदया गायत्र्या ॥ अवधूतं विनाशितम् । शिष्टं व्यख्यातं प्रत्युष्टादि मन्त्रेण (तै.सं. 1.1.2) । ‘गतिरनन्तरः’ (पा.सू. 6.2.49) इति पूर्वपदप्रकृतिस्वरत्वम् ॥
रक्षोऽराती ...{Loading}...
रक्षेर् असुनि अर्थविपर्यासः । ‘क्षर मूर्छने’ इत्यस्य वर्णविपर्यासो वा ।
रातयो धनस्य दातारस्सुहृदः । ‘कृत्यल्युटो बहुळम्’ (पा.सू. 3.3.113) इति बहुलवचनात्कर्तरि क्तिन् । अतोन्येऽरातयः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) ॥
भास्करोक्त-विनियोगः
कृष्णाजिनम् अवस्तृणाति
विश्वास-प्रस्तुतिः
अदि॑त्या॒स् त्वग॑सि ।
प्रति॑ +++(तादृशीं)+++ त्वा॒+++(ं)+++ पृ॒थि॒वी +++(स्वस्या उपरि)+++ वे॑त्तु ।
Keith
Thou art the skin of Aditi, may the earth’ recognize thee [1].
मूलम् (संयुक्तम्)
अदि॑त्या॒स्त्वग॑सि प्रति॑ त्वा॒ [7]पृ॒थि॒वी वे॑त्तु ।
मूलम्
अदि॑त्या॒स्त्वग॑सि ।
प्रति॑ त्वा॒ पृ॒थि॒वी वे॑त्तु ।
पद-पाठः
अदि॑त्याः । त्वक् । अ॒सि॒ । प्रतीति॑ । त्वा॒ । पृ॒थि॒वी । वे॒त्तु॒ ।
भट्टभास्कर-टीका
7कृष्णाजिनमवस्तृणाति - अदित्या इति ॥ अदितिः अखण्डनीया । कर्मणि क्तिन्, अव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) । अखण्डितायाः पृथिव्यास्त्वगिव प्रियतममसि, अतस्त्वामास्तीर्णां पृथिवी प्रतिवेत्तु आत्मन उपरि तवावस्थानमनुजानातु न न्यक्कारयतु । सा तु माऽवमंस्त । पृथिवीशब्दो ङीषन्तोन्तोदात्तः ॥
भास्करोक्त-विनियोगः
उलूखलम् अध्यूहति
विश्वास-प्रस्तुतिः
अ॒धि॒-षव॑णम्+++(=निपीडनम्)+++ असि वानस्प॒त्यम् ।
प्रति॑ त्वा+++(ं)+++ ऽदि॑त्या॒स् त्वग् +++(कृष्णाजिनरूपम्)+++ वे॑त्तु ।
Keith
Thou art the plank’ of wood, may the skin of Aditi recognize thee.
मूलम् (संयुक्तम्)
अधि॒षव॑णमसि वानस्प॒त्यम्प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॑त्तु
मूलम्
अ॒धि॒षव॑णमसि ।
वानस्प॒त्यम् +++(असि)+++ ।
प्रति॑ त्वाऽदि॑त्या॒स्त्वग्वे॑त्तु ।
पद-पाठः
अ॒धि॒षव॑ण॒मित्य॑धि-सव॑नम् । अ॒सि॒ । वा॒न॒स्प॒त्यम् । प्रतीति॑ । त्वा॒ । अदि॑त्याः । त्वक् । वे॒त्तु॒ ।
भट्टभास्कर-टीका
8उलूखलमध्यूहति - अधिषवणमिति ॥ अधिषूयते अभिपीड्यते अवहन्यतेऽस्मिन्निति सुनोतेरधिकरणे ल्युट् (पा.सू. 3.3.117), उपसर्गात्सुनोति’ (पा.सू. 8.3.65) इत्यादिना षत्वम्, कृदुत्तरपदप्रकृतिस्वरेण (पा.सू. 6.2.139) लिति (पा.सू. 6.1.193) प्रत्ययात्पूर्वस्योदात्तत्वम् । वनस्पतेर्विकार इति पत्युत्तरपदलक्षणो ण्यः (पा.सू. 4.1.85) । ईदृशं महाभागं त्वमसि । तस्मात् अदित्यास्त्वग्भूतं कृष्णाजिनं त्वां प्रतिवेत्तु अनुजानातु । आत्मोपरि तवावस्थानं क्षमताम् ॥
भास्करोक्त-विनियोगः
पुरोडाशीयान् आवपति
विश्वास-प्रस्तुतिः
+++(हे पुरोडाशीयसमूह!)+++ अ॒ग्नेस् त॒नूर् अ॑सि
वा॒चो वि॒सर्ज॑नम् ।
+++(→य॒दा हि प्र॒जा ओष॑धीनाम् अ॒श्ञन्ति॑,
अथ॒ वाचव्ँ॒ विसृ॑जन्ते ।)+++
दे॒व-वी॑तये+++(=भोगाय)+++ त्वा गृह्णा॒मि । +++(दासीभारादित्वात् (पा.सू. 6.2.42) पूर्वपदप्रकृतिस्वरत्वम् ॥)+++
Keith
Thou art the body of Agni, loostener of speech.
I grasp thee for the joy of the gods.
मूलम्
अ॒ग्नेस्त॒नूर॑सि । वा॒चो वि॒सर्ज॑नम् +++(असि)+++ । दे॒ववी॑तये त्वा गृह्णा॒मि ।
पद-पाठः
अ॒ग्नेः । त॒नूः । अ॒सि॒ । वा॒चः । वि॒सर्ज॑न॒मिति॑ वि-सर्ज॑नम् । 4L । दे॒ववी॑तय॒ इति॑ दे॒व-वी॒त॒ये॒ । त्वा॒ । गृ॒ह्णा॒मि॒ ।
भट्टभास्कर-टीका
9पुरोडाशीयानावपति - अग्नेरिति ॥ अग्नेस्तनूश्शरीरमिवासि, उद्दीपकत्वात् । हे पुरोडाशीयसमूह । ‘कृषिचमितमि’ (उ.सू. 84) इत्यादिना तनोतेरूप्रत्ययः । स्तुत्यर्थत्वादग्निशब्दोपादानस्य विकृतौ नोहः । ‘अग्नेर्वा एषा तनूः । यदोषधयः’ (तै.ब्रा. 3.2.5) इति ब्राह्मणम् ।
किञ्च वाचो विसर्जनमसि । विसृज्यते वागनेनेति करणे ल्युट् (पा.सू. 3.3.117) । कृदुत्तरपदप्रकृतिस्वरेण (पा.सू. 6.2.139) लित्स्वरः । ‘सावेकाचः’ (पा.सू. 6.1.168) इति वाचः परस्य विभक्तेरुदात्तत्वम् । ‘यदा हि प्रजा ओषधीनामश्नन्ति । अथ वाचं विसृजन्ते’ (तै.ब्रा. 3.2.5) इति ब्राह्मणम् ।
एवं विश्वजननं त्वां देववीतये देवानां भक्षणार्थं गृह्णामि उलूखले त्वां प्रक्षिपामि । दासीभारादित्वात् (पा.सू. 6.2.42) पूर्वपदप्रकृतिस्वरत्वम् ॥
भास्करोक्त-विनियोगः
मुसलम् अवदधाति
विश्वास-प्रस्तुतिः
+++(मुसल!)+++ अद्रि॑र् असि वानस्प॒त्यः ।
स इ॒दन् दे॒वेभ्यो॑ ह॒व्यँ सु॒शमि॑+++(=सु शाम्यतीति)+++ शमि॒ष्व+++(=शामय)+++ ।
Keith
Thou art the stone of wood.
Do thou with good labour elaborate this offering for the gods.
मूलम्
अद्रि॑रसि वानस्प॒त्यः ।
स इ॒दन्दे॒वेभ्यो॑ ह॒व्यँ सु॒शमि॑ शमि॒ष्व ।
पद-पाठः
अद्रिः॑ । अ॒सि॒ । वा॒न॒स्प॒त्यः । 6N ।
सः । इ॒दम् । दे॒वेभ्यः॑ । ह॒व्यम् । सु॒शमीति॑ सु-शमि॑ । श॒मि॒ष्व॒ ।
भट्टभास्कर-टीका
10मुसलमवदधाति - अद्रिरसीति ॥ अत्ता आहर्ता तुषाणां अद्रिः । ‘अदिशदिभूशुभिभ्यःक्रिन्’ (उ.सू. 505) इति क्रिन्प्रत्ययः, नित्त्वादाद्युदात्तत्वम् । ईदृशो वनस्पतेर्विकारस्त्वमसि ।
स तादृशस्त्वं इदं हव्यं हवनार्हम् । ‘छन्दसि च’ (पा.सू. 5.1.67) इति यत्प्रत्ययः । सुशमि सुष्ठु स्वयमेव शाम्यतीति सुशमि । ‘शमित्यष्टाभ्यो घिनुण्’ (पा.सू. 3.2.141) । ‘परादिश्छन्दसि बहुळं’ (पा.सू. 6.2.199) इत्युत्तरपदाद्युदात्तत्वम् । ईदृशमिदं हव्यं देवेभ्यः देवतार्थं शमिष्व शामय सुखहेतुं कुरु । शमयतेः लोट् । ‘बहुळं छन्दसि’ (पा.सू. 2.4.73) इति शपो लुक् ॥
भास्करोक्त-विनियोगः
वृषारवेण दृषदुपले समाहन्ति
विश्वास-प्रस्तुतिः
इष॒म् आ व॑द +++(देवेभ्यः!)+++।
ऊर्ज॒म्+++(=रसं)+++ आ व॑द ।
Keith
Utter food, utter strength;
मूलम् (संयुक्तम्)
इष॒मा व॒दोर्ज॒मा व॑द
मूलम्
इष॒मा व॑द ।
ऊर्ज॒मा व॑द ।
पद-पाठः
इष॑म् । एति॑ । व॒द॒ । ऊर्ज॑म् । एति॑ । व॒द॒ ।
भट्टभास्कर-टीका
11वृषारवेण दृषदुपले समाहन्ति - इषमिति ॥ हविर्लक्षणं यदिदमन्नं आवद देवेभ्य आवेदय, युष्मदर्थमिदमनेन यजमानेन संस्क्रियते, इति । एवं ऊर्जमावदेति व्याख्यातम् । ऊर्क् रसः।
- [यदिदमन्नं आवद देवेभ्य आवेदय, युष्मदर्थमिदमनेन यजमानेन संस्क्रियते, इति ]
विश्वास-प्रस्तुतिः
+++(हे यज्ञायुधानि!)+++ द्यु॒मद् +++(अन्नं)+++ व॑दत ।
Keith
Make ye glorious sounds.
मूलम्
द्यु॒मद्व॑दत ।
पद-पाठः
द्यु॒मदिति॑ द्यु-मत् । व॒द॒त॒ ।
भट्टभास्कर-टीका
इदानीं यज्ञायुधान्युच्यन्ते - द्युमत् दीप्तिमत् । दिवेः क्विप्प्रत्ययान्तान्मतुपि ‘दिव उत्’ (पा.सू. 6.1.131) इत्युत्वे ‘ह्रस्वनुड्भ्यां मतुप्’ (पा.सू. 6.1.176) इति मतुप उदात्तत्वम् । ईदृशमिदमन्नं संस्क्रियमाणं देवेभ्यो वदत वेदयत ।
विश्वास-प्रस्तुतिः
व॒यँ +++(शत्रु)+++स॑ङ्घा॒तञ् जे॑ष्म+++(=जयेम)+++ ।
+++(मनो॑श् श्र॒द्धा-दे॑वस्य॒ यज॑मानस्यासुर॒-घ्नी वाग्
य॑ज्ञायु॒धेषु॒ प्रवि॑ष्टा ऽऽसीत् ।)+++
Keith
May we be victorious in contest.
मूलम्
व॒यँ स॑ङ्घा॒तञ्जे॑ष्म ।
पद-पाठः
व॒यम् । स॒ङ्घा॒तमिति॑ सं-घा॒तम् । जे॒ष्म॒ ।
भट्टभास्कर-टीका
ननु देवास्स्वयमेव ज्ञास्यन्ति, तत्किमनेन घोषणेनेत्यत्राह - वयं युष्मदीयेन शब्देन सङ्घातं भ्रातृव्यसमूहं जेष्म जयेम । जयतेर्लेटि ‘सिब्बहुळं लेटि’ (पा.सू. 3.1.34) इति सिप्प्रत्यः, ‘बहुळं छन्दसि’ (पा.सू. 2.4.73) इति शपो लुक् । सङ्घातशब्दस्य थाथादिस्वरेण (पा.सू. 6.2.144) उत्तरपदान्तोदात्तत्वम् । ‘मनोश्श्रद्धा देवस्य’ (तै.ब्रा. 3.2.5) इत्यादिब्राह्मणम् ॥
भास्करोक्त-विनियोगः
शूर्पम् उपयच्छति
वर्षवृद्धम् ...{Loading}...
विश्वास-प्रस्तुतिः
व॒र्ष-वृ॑द्धम् असि।
विस्तारः (द्रष्टुं नोद्यम्)
Thou art made to grow by the rains.
मूलम्
व॒र्षवृ॑द्धमसि ।
पद-पाठः
व॒र्षवृ॑द्ध॒मिति॑ व॒र्ष-वृ॒द्ध॒म् । अ॒सि॒ ।
भट्टभास्कर-टीका
वर्षेण वर्धितमसि । पूर्ववण्णिलुक् (उ.सू. 190) । ‘तृतीया कर्मणि’ (पा.सू. 6.2.48) इति पूर्वपदप्रकृतिस्वरत्वम् । वर्षशब्द उञ्छादित्वादन्तोदात्तः (पा.सू. 6.1.160) ॥
भट्टभास्कर-टीका
12शूर्पमुपयच्छति - वर्षवृद्धमसीति ॥ व्याख्यातं बर्हिषि (तै.सं. 1.1.2) । इह तु शूर्पमुच्यते ॥
भास्करोक्त-विनियोगः
पुरोडाशीयान् उद्वपति शूर्पे
विश्वास-प्रस्तुतिः
प्रति॑ त्वा व॒र्षवृ॑द्धव्ँ वेत्तु ।
Keith
May that which is increased by the rain recognize thee.
मूलम्
प्रति॑ त्वा व॒र्षवृ॑द्धव्ँवेत्तु ।
पद-पाठः
प्रतीति॑ । त्वा॒ । व॒र्षवृ॑द्ध॒मिति॑ व॒र्ष-वृ॒द्ध॒म् । वे॒त्तु॒ ।
भट्टभास्कर-टीका
13पुरोडाशीयानुद्वपति - प्रति त्वेति ॥ हे पुरोडाशीयसमूह वर्षवृद्धं त्वां शूर्पः प्रतिवेत्तु अनुजानातु आत्मोपरि तव प्रक्षेपणं क्षमताम् ॥
भास्करोक्त-विनियोगः
परापुनाति
विश्वास-प्रस्तुतिः
परा॑पूतँ॒ रक्ष॒ᳶ
परा॑पूता॒ अरा॑तयः ।
+++(‘यज्ञँ रक्षाँस्यनुप्राविशन्’ (तै.ब्रा. 3.2.5) इति ब्राह्मणम् ॥)+++
Keith
The Raksas is cleared away, the evil spirits are cleared away.
मूलम्
परा॑पूतँ॒ रक्ष॒ᳶ परा॑पूता॒ अरा॑तयः ।
पद-पाठः
परा॑पूत॒मिति॒ परा॑-पू॒त॒म् । रक्षः॑ । परा॑पूता॒ इति॒ परा॑-पू॒ताः॒ । अरा॑तयः ।
भट्टभास्कर-टीका
14परापुनाति - परापूतमिति यजुरादिकैकपदया गायत्र्या । परापूतं परास्तम् । शिष्टं प्रत्युष्टादिना व्याख्यातम् (तै.सं. 1.1.2) । ‘गतिरनन्तरः’ (पा.सू. 6.2.49) इति पूर्वपदप्रकृतिस्वरत्वम् । ‘यज्ञँ रक्षाँस्यनुप्राविशन्’ (तै.ब्रा. 3.2.5) इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
तुषान् निरस्यति
विश्वास-प्रस्तुतिः
रक्ष॑साम् भा॒गो॑ऽसि ।
Keith
Thou art the share of the Raksases.
मूलम्
रक्ष॑साम्भा॒गो॑ऽसि ।
पद-पाठः
रक्ष॑साम् । भा॒गः । अ॒सि॒ ।
भट्टभास्कर-टीका
15तुषान्निरस्यति - रक्षसामिति ॥ सुबोधम् । ‘कर्षात्वतः’ (पा.सू. 6.1.159) इति भागशब्दोन्तोदात्तः ॥
भास्करोक्त-विनियोगः
त्वचं विविनक्ति
विश्वास-प्रस्तुतिः
वा॒युर् वो॒ +++(तण्डुलेभ्यः कणान्)+++ विवि॑नक्तु ।
Keith
Let the wind separate you.
मूलम्
वा॒युर्वो॒ विवि॑नक्तु ।
पद-पाठः
वा॒युः । वः॒ । वीति॑ । वि॒न॒क्तु॒ ।
भट्टभास्कर-टीका
16त्वचं विविनक्ति - वायुरिति ॥ वायुर्वो युष्मान् विविनक्तु तण्डुलेभ्यः कणान्पृथक्करोतु ॥
भास्करोक्त-विनियोगः
तण्डुलान् [कृष्णाजिने?] प्रस्कन्दयति
देवो वस् सविता ...{Loading}...
विश्वास-प्रस्तुतिः
दे॒वो व॑स् सवि॒ता हिर॑ण्यपाणि॒ᳶ प्रति॑गृह्णातु ॥ [8]
Keith
Let the god Savitr of golden hands, seize you.
मूलम्
दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ᳶ प्रति॑ गृह्णातु ॥ [8]
पद-पाठः
दे॒वः । वः॒ । स॒वि॒ता । हिर॑ण्यपाणि॒रिति॒ हिर॑ण्य-पा॒णिः॒ । प्रतीति॑ । गृ॒ह्णा॒तु॒ ॥
भट्टभास्कर-टीका
17तण्डुलान् प्रस्कन्दयति - देवो व इति ॥ देवस्सविता सर्वस्य प्रेरकः हिरण्यपाणिः हिरण्याभरणपाणिः युष्मान् प्रतिगृह्णातु प्रतिगृह्य रक्षतु । हिरण्यस्य विकारो वलयाङ्गुलीयकादिः पाण्योर्य स्येति समुदायविकारषष्ठ्या (पा.सू. 2.2.24 वा 13) विगृह्य ‘सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वाचोत्तरपदलोपश्च’ (पा.सू. 2.2.24 वा 12) इति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ‘उशीरदाशेरकपालपलालशैवालश्यामाकशरीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम्’ (फि.सू. 67) इति हिरण्यशब्द आद्युदात्तः । ‘अन्तरिक्षादिव’ (तै.ब्रा. 3.2.5) इत्यादि ब्राह्मणम् ॥
इति पञ्चमोनुवाकः ॥