प्रजापतिर्ऋषिः
- प्रतिपद्दिनकर्तव्यकर्माङ्गमन्त्राः ४-१३ अनुवाकाः
भास्करोक्त-विनियोगः
यागदिवसे कर्मारम्भे हस्तौ सम्मृशति
विश्वास-प्रस्तुतिः
+++(हस्तौ!)+++ कर्म॑णे वान्, +++(युवाभ्यां)+++ दे॒वेभ्य॑श् शकेयम्।+++(5)+++
Keith
For the rite you two, for the gods may I be strong.
मूलम्
कर्म॑णे वान्दे॒वेभ्य॑श्शकेयम् ।
पद-पाठः
कर्म॑णे । वा॒म् । दे॒वेभ्यः॑ । श॒के॒य॒म् ।
भट्टभास्कर-टीका
1यागदिवसे कर्मारम्भे हस्तौ सम्मृशति - कर्मणे वामिति ॥ देवेभ्य इति षष्ठ्यर्थे चतुर्थी (पा.सू. 2.3.62 वा 1) । हे हस्तौ देवानां सम्बन्धिने कर्मणे तत्सिद्ध्यर्थं वां युवयोः शकेयं युवां विनियोक्तुं समर्थो भूयासम् । ‘लिङ्याशिष्यङ्’ (पा.सू. 3.1.86) इत्यङ्प्रत्ययः । ‘छन्दस्युभयथा’ (पा.सू. 3.4.117) इति सार्वधातुकत्वात्सलोपः ॥
भास्करोक्त-विनियोगः
शूर्पम् आदत्ते
विश्वास-प्रस्तुतिः
+++(शूर्प!)+++ वेषा॑य+++(=विष्णवे [यज्ञाय])+++ त्वा।
Keith
Thee for accomplishment!
मूलम्
वेषा॑य त्वा ।
पद-पाठः
वेषा॑य । त्वा॒ ।
भट्टभास्कर-टीका
2शूर्पमादत्ते - वेषाय त्वेति ॥ वेषः विष्णुर्यज्ञ इति पर्यायाः । पचाद्यजन्तः । वृषादित्वादाद्युदात्तत्वम् (पा.सू. 6.1.203) । सर्वव्यापिने विष्ण्वात्मने यज्ञाय त्वामादद इति शेषः ॥
भास्करोक्त-विनियोगः
गार्हपत्ये प्रतितपति
प्रत्युष्टं रक्षः ...{Loading}...
विश्वास-प्रस्तुतिः
प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ, प्रत्यु॑ष्टा॒ अरा॑तयः+++(=अदातारः)+++।
Keith
The Raksas is burned up, the evil spirits are burned up.
मूलम् (संयुक्तम्)
प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ प्रत्यु॑ष्टा॒ अरा॑तयः
मूलम्
प्रत्यु॑ष्टँ॒ रक्षः॑ ।
प्रत्यु॑ष्टा॒ अरा॑तयः ।
पद-पाठः
प्रत्यु॑ष्ट॒मिति॒ प्रति॑-उ॒ष्ट॒म् । रक्षः॑ । प्रत्यु॑ष्टा॒ इति॒ प्रति॑-उ॒ष्टाः॒ । अरा॑तयः ।
भट्टभास्कर-टीका
2गार्हपत्ये प्रतितपति - प्रत्युष्टमिति ॥ केचित्तु - ‘प्रत्युष्टा अरातयः’ इति गायत्र्येकपदा यजुरादिकेत्याहुः । रक्षेरसुनि अर्थविपर्यासः । ‘क्षर मूर्छने’ इत्यस्य वर्णविपर्यासो वा । यदत्र छिद्रान्वेषि रक्षस्तदनेन प्रतितपनेन प्रत्युष्टं प्रतिमुखीकृत्य दग्धमस्तु । उष दाहे । ‘आदितश्च’ (पा.सू. 7.2.16) इति चकारादाश्वस्तादिवदिट्प्रतिषेधः । ‘गतिरनन्तरः’ (पा.सू. 6.2.49) इति पूर्वपदप्रकृतिस्वरत्वम् ।
किञ्च, अरातयोपि प्रत्युष्टास्सन्तु । रातयो धनस्य दातारस्सुहृदः । ‘कृत्यल्युटो बहुळम्’ (पा.सू. 3.3.113) इति बहुलवचनात्कर्तरि क्तिन् । अतोन्येऽरातयः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) ॥
भट्टभास्कर-टीका
3प्रत्युष्टमिति प्रतितपनमन्त्रो व्याख्यातः (तै.सं. 1.1.2)॥
भास्करोक्त-विनियोगः
धुरमभिमृशति
विश्वास-प्रस्तुतिः
धूर्+++(=धूस्स्थ हिंसको ऽग्निः)+++ अ॑सि ।
+++(‘एष वै धुर्योग्निः’ (तै.ब्रा. 3.2.4) इति ब्राह्मणम्)+++
धूर्व॒+++(=नाशय)+++ धूर्व॑न्तम्+++(=हिंसकं)+++।
धूर्व॑+++(=नाशय)+++ तं यो॑ ऽस्मान् धूर्व॑ति।
तन् धू॑र्व॒ यव्ँ व॒यन् धूर्वा॑मः ।
Keith
Thou art the yoke.
Injure him who injures us, injure him whom we injure.
मूलम् (संयुक्तम्)
धूर॑सि॒ धूर्व॒ धूर्व॑न्त॒न्धूर्व॒ तय्ँ यो॑ऽस्मान्धूर्व॑ति॒ तन्धू॑र्व॒ यव्ँ व॒यन्धूर्वा॑मः
मूलम्
धूर॑सि ।
धूर्व॒ धूर्व॑न्तम्।
तं +++(धूर्व)+++ योँ॑ऽस्मान्धूर्व॑ति ।
तन्धू॑र्व॒ यव्ँ व॒यन्धूर्वा॑मः ।
पद-पाठः
धूः । अ॒सि॒ ।
धूर्व॑ । धूर्व॑न्तम् ।
धूर्व॑ । तम् । यः । अ॒स्मान् । धूर्व॑ति । तम् । धू॒र्व॒ । यम् । व॒यम् । धूर्वा॑मः ।
भट्टभास्कर-टीका
4धुरमभिमृशति - धूरिति ॥ धूस्स्थोग्निरुच्यते । धूर् हिंसकः त्वमसि युगप्रदेशस्य धूर्भूत्वा स्थितस्त्वं ।
हे अग्ने धुर्य ‘एष वै धुर्योग्निः’ (तै.ब्रा. 3.2.4) इति ब्राह्मणम् । धुर्वी हिसायां, कर्तरि क्विप् (पा.सू. 3.2.76), राल्लोपः (पा.सू. 6.4.21) उपधादीर्घः (पा.सू. 8.2.76) । यत ईदृशस्त्वं तस्माद्धूर्वन्तं यज्ञस्य हिंसकं राक्षसादिकं तावद्धूर्व नाशय ।
किञ्च तं च धूर्व योस्मान् धूर्वति जिघांसति । अपि च, तमपि धूर्व यं वयं धूर्वामः जिघांसामः । सर्वत्र ‘उपधायाश्च’ (पा.सू. 8.2.78) इति दीर्घत्वम् ॥
भास्करोक्त-विनियोगः
अनोभिमन्त्रयते
विश्वास-प्रस्तुतिः
+++(हे शकट!)+++ त्वन् दे॒वाना॑म् असि
सस्नि॑+++(←सन् दाने)+++-तम॒म्, पप्रि॑+++(=पूर्ण)+++-त॒मं॒, जुष्ट॑+++(=प्रिय)+++-तमम्, वह्नि॑-तमं, देव॒-हू-त॑मम्।
अह्रु॑तम्+++(=अकुटिलम्)+++ असि हवि॒र्धान॑म्।
Keith
Thou art of gods, the most firmly jointed, the most richly filled, the most agreeable, the best of carriers, the best caller of the gods.
Thou art the oblation-holder that wavers not.
मूलम्
त्वन्दे॒वाना॑मसि॒ सस्नि॑तम॒म्पप्रि॑तम॒ञ्जुष्ट॑तमव्ँ॒वह्नि॑तमन्देव॒हूत॑म॒मह्रु॑तमसि हवि॒र्धानम्।
पद-पाठः
त्वम् । दे॒वाना॑म् । अ॒सि॒ । सस्नि॑तम॒मिति॒ सस्नि॑-त॒म॒म् । पप्रि॑तम॒मिति॒ पप्रि॑-त॒म॒म् । जुष्ट॑तम॒मिति॒ जुष्ट॑-त॒म॒म् । वह्नि॑तम॒मिति॒ वह्नि॑-त॒म॒म् । दे॒व॒हूत॑म॒मिति॑ देव-हूत॑मम् । अह्रु॑तम् । अ॒सि॒ । ह॒वि॒र्धान॒मिति॑ हविः-धान॑म् ।
भट्टभास्कर-टीका
5अनोभिमन्त्रयते - त्वमिति ॥ हे शकट त्वं देवानां असि देवसंबन्ध्यसि देवतार्थं हविर्धारणेन । अत एव सस्नितमं शुद्धतमं इदानीमसि । ष्णा शौचे । ‘आदृगम’ (पा.सू. 3.2.171) इत्यादिना किन् लिड्वच्च । पप्रितमं पूर्णतमं व्रीह्यादिभिः । प्रा पूरणे, स एव प्रत्ययः । जुष्टतमं प्रियतमं देवानां । ‘नित्यं मन्त्रे’ (पा.सू. 6.1.210) इत्याद्युदात्तत्वम् । वह्नितमं वोढृतमं हविषाम् । ‘वहिश्रिश्रुयुद्रुग्ला’ (उ.सू. 500) इत्यादिना निप्रत्ययः । स च नित् । देवहूतमं देवानामाह्वातृतममिवासि हविर्धारणेन । क्विपि सम्प्रसारणे, ‘हलः’ (पा.सू. 6.4.2) इति दीर्घः, कृदुत्तरपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.139) । अह्रुतं अकुटिलं असि धृतिमत्तया ‘ह्रुह्वरेश्छन्दसि’ (पा.सू. 7.2.31) इति ह्रुभावः ।
हविर्धानं हविर्भूता व्रीह्यादयो निधीयन्तेस्मिन्निति हविर्धानम् । कृदुत्तरपदप्रकृतिस्वरेण प्रत्ययार्त्पूवस्योदात्तत्वम् ।
भट्टभास्कर-टीका
यतस्त्वमेवंविधस्तस्माद्दृंहस्व । मा ह्वारिति व्याख्यातम् (तै.सं. 1.1.3) ॥
दृंहस्व ...{Loading}...
विश्वास-प्रस्तुतिः
दृँह॑स्व+++(=दृढा भव)+++।
मा ह्वाः॑+++(=कुटिला भूः)+++।
Keith
Be firm, waver not.
मूलम् (संयुक्तम्)
दृँह॑स्व॒ मा ह्वाः
मूलम्
दृँह॑स्व॒ मा ह्वाः॑
पद-पाठः
दृँह॑स्व । मा । ह्वाः॒ ।
भट्टभास्कर-टीका
दृंहस्व वर्धस्व दृढा भव । दृहदृहि वृद्धौ, व्यत्ययेनात्मनेपदम् । केचिदाहुर्वर्धनायां वर्तत इति । यद्वा - दृंहगा इतिवत् ण्यन्तात्कर्मकर्तर्यात्मनेपदम् । पूर्ववद्यक्प्रतिषेधादि (पा.सू. 3.1.89 वा 1) । मा ह्वाः मा कुटिला भूः । ह्वृ कौटिल्ये, लुङ्मध्यमपुरुषैकवचने, सिचि वृद्धौ, ‘बहुळं छन्दसि’ (पा.सू. 7.3.97) इतीडभावे, हल्ङ्यादिलोपे ‘रात्सस्य’ (पा.सू. 8.2.24) इति सकारलोपः । अत्र ‘चादिलोपे विभाषा’ (पा.सू. 8.1.63) इति प्रथमा तिङ्विभक्तिर्न निहन्यते दृंह॑स्व॒ मा ह्वाः॒ इति ॥
भास्करोक्त-विनियोगः
पुरोडाशीयान् प्रेक्षते
विश्वास-प्रस्तुतिः
+++(पुरोडाशीयाः!)+++ मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्षे॑ +++(मित्रत्वाय)+++।
मा भेः+++(=भैषीः)+++ ।
मा सव्ँ वि॑क्थाः+++(=कंपिष्ठाः)+++ ।
मा त्वा॑ [5] हिँसि॒षम् ।
Keith
I gaze on thee with the eye of Mitra.
Be not afraid, be not troubled,
let me harm thee [1] not.
मूलम् (संयुक्तम्)
मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्षे॒ मा भेर्मा सव्ँ वि॑क्था॒ मा त्वा॑ [5]हिँ॒सि॒षम्
मूलम्
मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्षे॑ । मा भेः । मा सव्ँ वि॑क्थाः । मा त्वा॑ [5] हिँ॒सि॒षम् ।
पद-पाठः
मि॒त्रस्य॑ । त्वा॒ । चक्षु॑षा । प्रेति॑ । ई॒क्षे॒ । 10K । मा । भेः । मा । समिति॑ । वि॒क्थाः॒ ।
मा । त्वा॒ । [5]
हिँ॒सि॒ष॒म् ।
भट्टभास्कर-टीका
6पुरोडाशीयान् प्रेक्षते - मित्रस्येति ॥ जगतां मित्रभूतस्य सर्वजगद्बन्धोरादित्यस्य चक्षुषा त्वां पुरोडाशीयसमूहं प्रेक्षे, नात्मीयेन ।
ततश्च त्वं मनुष्येण दृष्टोहमिति मा भेः मा भैषीः । ‘बहुलं छन्दसि’ (पा.सू. 7.3.97) इतीडभावः । सिचि वृद्धिं बाधित्वा व्यत्ययेनान्तरङ्गो गुण एव क्रियते । ‘संज्ञापूर्वको विधिरनित्यः’ (व्याडिपरिभाषाव-त्ति 53) इति वा वृद्ध्यभावः ।
मा च संविक्थाः मा च कंपिष्ठाः । ओविजीभयचलनयोः, लुङि ‘लिङ्सिचावात्मनेपदेषु’ (पा.सू. 1.2.11) इति सिचः कित्वम् । ‘झलो झलि’ (पा.सू. 8.2.26) इति सिचो लोपः । अत्र मा च भेः मा च संविक्थाः, इति चार्थस्य गम्यमानत्वात् ‘चादिलोपे विभाषा’ (पा.सू. 8.1.63) इति प्रथमा तिङ्विभक्तिर्न निहन्यते । गम्यमानार्थस्याप्रयोग एव लोपः ।
नन्ववघातादिना पीडां कर्तुमारभते भवान्, तत्किमुच्यते मा भेरिति; तत्राह मा त्वा हिंसिषं अवघातादिना न त्वामहं नाशयामि, किन्तु हविर्भूतं त्वां देवतायै सङ्कल्प्य, उछ्रितं स्थानं प्रापयामि । यथोक्तं -
‘यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युछ्रितं पदम्’ (मनु. 5.40) इति ॥
भास्करोक्त-विनियोगः
तृणानि निरस्यति
विश्वास-प्रस्तुतिः
उ॒रु +++(भव)+++ वाता॑य +++(अवारुणत्वाय)+++।
Keith
(Be thou) wide open to the wind.
मूलम्
उ॒रु वाता॑य ।
पद-पाठः
उ॒रु । वाता॑य ।
भट्टभास्कर-टीका
7तृणानि निरस्यति - उर्विति ॥ वातार्थं वातप्रवृत्त्यर्थं उरु महद्भव । एतेनावारुणत्वं हविषः कृतं भवति । ‘यद्वै किञ्च वातो नाभिवाति’ (तै.ब्रा. 3.2.4) इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
निर्वपति
8निर्वपति - देवस्य त्वेति ॥
मूलम् (संयुक्तम्)
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ अश्विनो॑र्बा॒हुभ्या॑म् पू॒ष्णो हस्ता॑भ्याम॒ग्नये॒ जुष्ट॒न्निर्व॑पामि ।
देवस्य त्वा सवितुः ...{Loading}...
विश्वास-प्रस्तुतिः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॒॑+++(=अनुज्ञायां)+++,
+++(देवाध्वर्यू→)+++ ऽश्विनो॑र् बा॒हुभ्या॑म्,
पू॒ष्णो हस्ता॑भ्याम्…
Keith
On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.
मूलम्
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्यां॒…
पद-पाठः
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता॑भ्याम् ।
भट्टभास्कर-टीका
सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं
‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥
सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥
तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां
विश्वास-प्रस्तुतिः
… अ॒ग्नये॒ जुष्ट॒न् निर्व॑पामि ।
Keith
I offer thee dear to Agni, to Agni and Soma.
मूलम्
… अ॒ग्नये॒ जुष्ट॒न् निर्व॑पामि ।
पद-पाठः
अ॒ग्नये॑ । जुष्ट॑म् । निरिति॑ । व॒पा॒मि॒ ।
भट्टभास्कर-टीका
(त्वाम् अग्नये अग्न्यर्थं जुष्टं प्रियं निर्वपामि निष्कृष्य शूर्पे निक्षिपामि । …)
देवस्य त्वा सवितुः ...{Loading}...
विश्वास-प्रस्तुतिः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॒॑+++(=अनुज्ञायां)+++,
+++(देवाध्वर्यू→)+++ ऽश्विनो॑र् बा॒हुभ्या॑म्,
पू॒ष्णो हस्ता॑भ्याम्…
Keith
On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.
मूलम्
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्यां॒…
पद-पाठः
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता॑भ्याम् ।
भट्टभास्कर-टीका
सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं
‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥
सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥
तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां
विश्वास-प्रस्तुतिः
… अ॒ग्नीषोमा॑भ्यां [जुष्ट॒न् निर्व॑पामि] ।
Keith
to Agni and Soma.
मूलम्
अ॒ग्नीषोमा॑भ्याम् ।
पद-पाठः
अ॒ग्नीषोमा॑भ्या॒मित्य॒ग्नी-सोमा॑भ्याम् ।
भट्टभास्कर-टीका
9अग्नीषोमीयं निर्वपति - अग्नीषोमाभ्यामिति ॥ ‘देवताद्वन्द्वे च’ (पा.सू. 6.2.141) इति पूर्वोत्तरपदयोः युगपत् प्रकृतिस्वरत्वम् । अत्र च ‘देवस्य त्वा’ इत्यादि, ‘जुष्टं निर्वपामि’ इति चानुषज्यते ॥
मूलम्
… अ॒ग्नीषोमा॑भ्यां [जुष्ट॒न्निर्व॑पामि] ।
भास्करोक्त-विनियोगः
निरुप्तान् अभिमृशति
विश्वास-प्रस्तुतिः
इ॒दन् दे॒वाना॑म् ।
Keith
This of the gods
मूलम्
इ॒दन्दे॒वाना॑म् ।
पद-पाठः
इ॒दम् । दे॒वाना॑म् ।
भट्टभास्कर-टीका
10निरुप्तानभिमृशति - इदं देवानामिति ॥ इदं निरुप्तं धान्यं देवानां स्वं, तदुद्देशेन निरुप्तत्वात् । अन्यस्माद्व्यावृत्तमभूदित्यर्थः ॥
भास्करोक्त-विनियोगः
निरुप्तशेषमभिमृशति
विश्वास-प्रस्तुतिः
इ॒दम् उ॑ नस् स॒ह +++(देवैः)+++।
Keith
this of us too.
मूलम्
इ॒दमु॑ नस्स॒ह ।
पद-पाठः
इ॒दम् । उ॒ । नः॒ । स॒ह ।
भट्टभास्कर-टीका
11निरुप्तशेषमभिमृशति - इदमु नस्सहेति ॥ इदं निरुप्तशेषं नः अस्माकं भवतु । उशब्दः पूर्वस्माद्व्यावृत्त्यै । तु शब्दो वा लुप्ततकारः । किमस्माकमेव? नेत्याह । सहैव देवैः इदमस्माकं स्वम् । न निरुप्तवद्देवानामेव, न चास्माकमैहिकभोगायैव । तत्र शेषस्य निरुप्ते यदा आवापः, तदा यागोत्तरकालं शेषभक्षणेन साधारणत्वम् । यदा तु कोष्ठादौ, तदा तदुत्तरस्यामिष्ट्यामुभयं भविष्यतीति साधारण्यम् ॥
भास्करोक्त-विनियोगः
निरुप्ते कोष्ठादौ वाऽवशिष्टम् आवपति
विश्वास-प्रस्तुतिः
स्फा॒त्यै+++(=वृद्ध्यै)+++ त्वा॒ +++(=अवशिष्टं)+++ नारा॑त्यै ।
Keith
For prosperity thee, not for misfortune.
मूलम्
स्फा॒त्यै त्वा॒ नारा॑त्यै ।
पद-पाठः
स्फा॒त्यै । त्वा॒ । न । अरा॑त्यै ।
भट्टभास्कर-टीका
12निरुप्ते कोष्ठादौ वाऽवशिष्टमावपति - स्फात्यै त्वेति ॥ स्फायी ओप्यायी वृद्धौ । ण्यन्तात् क्तिन् ‘तितुत्रतथसिसुसरकेषु च’ (पा.सू. 7.2.9) इतीट्प्रतिषेधः णिलोपयलोपौ । उदात्तनिवृत्तिस्वरेण क्तिन उदात्तत्वम् । ‘उदात्तयणो हल्पूर्वात्’ (पा.सू. 6.1.174) इति विभक्तेरुदात्तत्वम् । स्फात्यै वर्धनाय अस्मदीयं धान्यं वर्धयितुं त्वामवशिष्टमावपामीति शेषः । नारात्यै, तत्र वर्धितं नादानाय अपि तु दानायैव दानार्थमेवेति । रातेः क्तिनि अव्ययपूर्वदप्रकृतिस्वरत्वम् ॥
भास्करोक्त-विनियोगः
आहवनीयमन्वीक्षते
सुवर् अभि ...{Loading}...
विश्वास-प्रस्तुतिः
सुव॑र् अ॒भि वि ख्ये॑षव्ँ+++(=अपश्यं)+++ वैश्वान॒रञ् ज्योतिः॑ ।
Keith
May I behold the light, the radiance for all men.
मूलम्
सुव॑र॒भि वि ख्ये॑षव्ँ वैश्वान॒रञ्ज्योतिः॑ ।
पद-पाठः
सुवः॑ । अ॒भि । वीति॑ । ख्ये॒ष॒म् । वै॒श्वा॒न॒रम् । ज्योतिः॑ ।
भट्टभास्कर-टीका
13आहवनीयमन्वीक्षते - सुवरिति ॥ सुष्ठु श्रेयांसि गमयतीति सुवः । अन्तर्भावितण्यर्थात् ‘अन्येभ्योपि दृश्यते’ (पा.सू. 3.2.75) इति विच् । ‘इयङुवङ्प्रकरणे तन्वादीनां छन्दसि बहुलम्’ (पा.सू. 6.4.77 वा 1) इत्युवङादेशः । ‘न्यङ्स्वरौ स्वरितौ’ (फि.सू. 74) इति वस्स्वरितत्वम् । एवंविधं वैश्वानरं विश्वेषां नराणां स्वामित्वेन सम्बन्धिनं ज्योतिर्द्योतनशीलं आहवनीयं अभिविख्येषं आभिमुख्येन पश्यामि । ‘अभिरभागे’ (पा.सू. 1.4.91) इति लक्षणे कर्मप्रवचनीयत्वेन गतित्वाभावात् ‘गतिर्गतौ’ (पा.सू. 8.1.70) इति निघाताभावः । लिङ्याशिष्यङ् (पा.सू. 3.1.86), यासुट् (पा.सू. 3.4.103), अतो येयः (पा.सू. 7.2.80) । ‘नरे संज्ञायाम्’ (पा.सू. 6.3.129) इति विश्वशब्दस्य दीर्घः, ‘तस्येदम्’ (पा.सू. 4.3.120) इत्यण् । अन्तोदात्तो वैश्वानरशब्दः । ‘तमसीव वा एषोन्तश्चरति’ (तै.ब्रा. 3.2.4) इति ब्राह्मणम् ॥
भट्टभास्कर-टीका
13 आहवनीयमीक्षते - सुवरिति ॥ स्वर्गसाधनत्वेन स्तुतिः । विश्वेषां नराणां ज्योतिष्ट्वं नयतीति वैश्वानरं द्योतमानमाहवनीयमाभिमुख्येन पश्यामीति । व्याख्यातम् । ख्यातेराशिषि लिङि, ‘लिङ्यशिष्यङ्’ ‘अतो येयः’ ॥
भास्करोक्त-विनियोगः
गृहान् अनुवीक्षते
विश्वास-प्रस्तुतिः
+++(द्यावा॑-पृथि॒वी ह॒विषि॑ गृही॒त उद॑वेपेताम्। अतः)+++
दृँह॑न्ता॒न् दुर्या॒+++(=द्वारवन्ति)+++ द्यावा॑पृथि॒व्योः +++(भोगाय)+++।
Keith
May they that have doors stand firm in heaven and earth.
मूलम्
दृँह॑न्ता॒न्दुर्या॒ द्यावा॑पृथि॒व्योः
पद-पाठः
दृँह॑न्ताम् । दुर्याः॑ । द्यावा॑पृथि॒व्योरिति॒ द्यावा॑-पृ॒थि॒व्योः ।
भट्टभास्कर-टीका
14गृहाननुवीक्षते - दृंहन्तामिति ॥ दुर्याः गृहाः । दुर्वी हिंसायां क्विप्प्रत्यये राल्लोपाष्टक्तलोपयोः (पा.सू. 6.4.21, 6.1.67) कृतयोः, दूः हिंसा । तस्मात् ‘तत्र साधुः’ (पा.सू. 4.4.98) इति यत् । ‘न भकुर्छुराम्’ (पा.सू. 8.2.79) इति दीर्घाभावः । ‘यतो नावः’ (पा.सू. 6.1.213) इत्यु(त्याद्यु)दात्तत्वम् । दुरि साधवो दुर्याः दुःखहेतवः । दिवि च पृथिव्यां चास्माकमुपभोगार्थं दृंहन्तां वर्धन्ताम् । दृंहस्वेतिवत्पदस्वरूपमनुसरणीयम् । ‘द्यावापृथिवी हविषि गृहीत उदवेपेताम्’ (तै.ब्रा. 3.2.4) इति ब्राह्मणम् । ‘देवताद्वन्द्वे च’ (पा.सू. 6.2.141) इति द्यावापृथिवीशब्दे पूर्वोत्तरपदे युगपत्प्रकृतिस्वरेण ‘उदात्तयणः’ (पा.सू. 6.1.174) इति विभक्तेरुदात्तत्वम् । ‘दिवो द्यावा’ (पा.सू. 6.3.29) इति द्यावादेशः ॥
भास्करोक्त-विनियोगः
उद्गच्छति
उर्वन्तरिक्षम् ...{Loading}...
भास्करोक्त-विनियोगः
16एति - उर्वन्तरिक्षमन्विहीति ॥ व्याख्यातमेव ।
विश्वास-प्रस्तुतिः
उ॒र्व् अ᳙न्तरि॑क्ष॒म् अन्वि॑हि ।
+++(महान् पन्थाः, सुखेन गच्छेति भावः ॥)+++
Keith
Fare along the wide atmosphere.
मूलम्
उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि ।
पद-पाठः
उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ ।
भट्टभास्कर-टीका
18प्रत्यागच्छति - उर्विति गायत्र्यैकपदया ॥ उरु विस्तीर्णमन्तरिक्षं अन्विहि अनुगच्छ । महान् पन्थाः, सुखेन गच्छेति भावः ॥
भट्टभास्कर-टीका
16एति - उर्वन्तरिक्षमन्विहीति ॥ व्याख्यातमेव । हे वपे उत्खेदनविबाधिते अधुना महान्तमन्तरिक्षाख्यं पन्थानं अनुगच्छेति विशेषः । ‘क्रूरमिव वा एतत्करोति यद्वपामुत्खिदति’ इत्यादि ब्राह्मणम् ॥
भट्टभास्कर-टीका
15’उर्वन्तरिक्षमन्विहि’ इति गमनमन्त्रो व्याख्यातः (तै.सं. 1.1.2) ॥
भास्करोक्त-विनियोगः
हविस्सादयति
विश्वास-प्रस्तुतिः
+++(पृथ्वी-रूपाया)+++ अदि॑त्यास् त्वो॒पस्थे॑ सादयामि ।
Keith
I place thee in the lap of Aditi.
मूलम्
अदि॑त्यास्त्वो॒पस्थे॑ सादयामि ।
पद-पाठः
अदि॑त्याः । त्वा॒ । उ॒पस्थ॒ इत्यु॒प-स्थे॒ । सा॒द॒या॒मि॒ ।
भट्टभास्कर-टीका
16हविस्सादयति - अदित्या इति ॥ द्यतेः कर्मणि क्तिनि दितिः खण्डनीया, अदितिः अखण्डनीया पृथिवी । ‘इयं वा अदितिः’ (तै.ब्रा. 3.2.4) इति दर्शनात् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) । तस्याः उपस्थे उत्सङ्गे त्वां स्थापयामीति स्तुतिः । उपस्थीयते अस्मिन्नित्युपस्थः । ‘घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्’ (पा.सू. 3.3.58 वा 4) इति घञर्थे कः ॥ ‘स्वाङ्गानामकुर्वादीनाम्’ (फि.सू. 52) इति द्वितीयमक्षरमुदात्तम् ॥
भास्करोक्त-विनियोगः
गार्हपत्यमभिमन्त्रयते
अग्ने हव्यम् ...{Loading}...
विश्वास-प्रस्तुतिः
अग्ने॑ ह॒व्यँ र॑क्षस्व ॥ [6]
Keith
O Agni, guard the offering.
मूलम्
अग्ने॑ ह॒व्यँ र॑क्षस्व ॥ [6]
पद-पाठः
अग्ने॑ । ह॒व्यम् । र॒क्ष॒स्व॒ ॥
भट्टभास्कर-टीका
17गार्हपत्यमभिमन्त्रयते - अग्न इति ॥ हे अग्ने गार्हपत्य, इदं हव्यं हवनाय निरुप्तं रक्षस्व । व्यत्ययेनात्मनेपदम् । ‘छन्दसि च’ (पा.सू. 5.1.67) इति यः ॥
इति चतुर्थोनुवाकः ॥