०३ सान्नाय्यं - पात्रप्रोक्षणादि

८ गायत्री । प्रजापतिर्ऋषिः


भास्करोक्त-विनियोगः

सान्नाय्य-पात्राणि प्रोक्षति

शुन्धध्वम् ...{Loading}...
विश्वास-प्रस्तुतिः

+++(पात्राणि!)+++ शुन्ध॑ध्व॒न् दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑ ।

Keith

Be ye pure for the divine rite, the sacrifice to the gods.

मूलम्

शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑ ।

पद-पाठः

शुन्ध॑ध्वम् । दैव्या॑य । कर्म॑णे । दे॒व॒य॒ज्याया॒ इति॑ देव-य॒ज्यायै॑ ।

भट्टभास्कर-टीका

1सान्नाय्यपात्राणि प्रोक्षति - शुन्धध्वमिति ॥ शुन्ध शुद्धौ, उदात्तेत्, व्यत्ययेनात्मनेपदम् । यद्वा, शुन्ध शौचकर्मणि ; अस्माण्ण्यन्तात्कर्मकर्तर्यात्मनेपदम् । ‘यक्चिणोः प्रतिषेधे णि श्रन्धिग्रन्थि’ (पा.सू. 3.1.89 वा 1) इत्यादिना यक्प्रतिषेधः । ‘बहुलं संज्ञाछन्दसोः’ (उ.सू. 190) इति णिलुक् । लसार्वधातुकानुदात्तत्वे (पा.सू. 6.1.186) धातुस्वरः । देवानामिदं दैव्यं ‘देवाद्यञञौ’ (पा.सू. 4.1.85 वा 3) इति यञ्प्रत्ययः प्राग्दीव्यतीयः । ञित्त्वादाद्युदात्तत्वं । ‘छन्दसि निष्टर्क्य’ (पा.सू. 3.1.123) इत्यादौ देवयज्याशब्दो यप्रत्ययान्तो निपातितः । हे पात्राणि देवयज्यात्मने दैव्याय कर्मणे शुन्धध्वं शुद्धानि भवत, स्वयमेवात्मानं शोधयतेति वा । प्राधान्यख्यापनार्था देवशब्दावृत्तिः, साकल्यार्था वा, यथा ‘निधीनां त्वा निधिपतिं हवामहे’ (तै.सं. 7.4.12) इति ॥


भास्करोक्त-विनियोगः

अङ्गारान्निरूहति

विश्वास-प्रस्तुतिः

+++(अङ्गार!!)+++ मा॒त॒रि-श्व॑नो घ॒र्मो॑ +++(→अ॒न्तरि॑क्षम्)+++ ऽसि ।
+++(मातरि सर्वस्य परिच्छेदके अन्तरिक्षे शेत इति मातरिश्वा । निपातनसामर्थ्यादेव सप्तम्या उदात्तत्वं । )+++

Keith

Thou art the cauldron of Matariśvan.

मूलम्

मा॒त॒रिश्व॑नो घ॒र्मो॑ऽसि ।

पद-पाठः

मा॒त॒रिश्व॑नः । घ॒र्मः । अ॒सि॒ ।

भट्टभास्कर-टीका

2अङ्गारान्निरूहति - मातरिश्वन इति ॥ मातरि सर्वस्य परिच्छेदके अन्तरिक्षे शेत इति मातरिश्वा । ‘श्वन्नुक्षन्’ (उ.सू. 157) इत्यादिना शीङः कनिन्प्रत्यये वकारोन्तादेशो निपात्यते । ‘तत्पुरुषे कृति बहुलम्’ (पा.सू. 6.3.14) इत्यलुक् । निपातनसामर्थ्यादेव सप्तम्या उदात्तत्वं । वायुरुच्यते । तस्य यो घर्मः अर्ग्निवैद्युताख्यः स एव त्वमसीति पार्थिवोग्निः स्तूयते । यद्वा, घरणाधिकरणं घर्मः । घृक्षरणदीप्त्योः । क्षरणं सञ्चलनम् । घर्म इति मन्प्रत्ययान्तो निपातितः (उ.सू. 146) । वायोरपि सञ्चलनाधारभूतः अन्तरिक्षमेव त्वमसीति कुम्भ्याधारोङ्गारस्स्तूयते धारणसामर्थ्यख्यापनार्थम् । ‘अन्तरिक्षं वै मातरिश्वनो घर्मः । एषां लोकानां विधृत्यै’ (तै.ब्रा. 3.2.3) इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

सान्नाय्य-तपनीम् अधिश्रयति

विश्वास-प्रस्तुतिः

+++(हे स्थालि!)+++ द्यौर् अ॑सि +++(तत्स्रोतोत्वात्)+++।
पृ॒थि॒व्य् अ॑सि ।
वि॒श्व-धा॑या+++(=धारकम्)+++ +++(अन्तरिक्षम्/ वृष्टिर्)+++ असि
पर॒मेण॒ धाम्ना॑।
+++(‘दिवश्च ह्येषा पृथिव्याश्च संभृता’ (तै.ब्रा. 3.2.3) इति ब्राह्मणम् । )+++

Keith

Thou art the heaven, thou art the earth.
Thou art the all-supporting with the highest support.

मूलम् (संयुक्तम्)

द्यौर॑सि पृथि॒व्य॑सि वि॒श्वधा॑या असि पर॒मेण॒ धाम्ना॑

मूलम्

द्यौर॑सि ।
पृ॒थि॒व्य॑सि ।
वि॒श्वधा॑या असि पर॒मेण॒ धाम्ना॑ +++(=धारणशक्त्या)+++ ।

पद-पाठः

द्यौः । अ॒सि॒ । पृ॒थि॒वी । अ॒सि॒ ।
वि॒श्वधा॑या॒ इति॑ वि॒श्व-धा॒याः॒ । अ॒सि॒ । प॒र॒मेण॑ । धाम्ना॑ ।

भट्टभास्कर-टीका

3सान्नाय्यतपनीमधिश्रयति - द्यौरसीति ॥ द्युप्रभृतीनां कार्यभूता स्थाली कारणात्मना स्तूयते । ‘दिवश्च ह्येषा पृथिव्याश्च संभृता’ (तै.ब्रा. 3.2.3) इति ब्राह्मणम् ।

लोकाधिकाराद् विश्वधाया इत्य् अन्तरिक्षम् उच्यते । ‘वृष्टिर्वै विश्वधायाः’ (तै.ब्रा. 3.2.3) इति दर्शनात् । विश्वस्य धायो धारणं यस्या इति बहुव्रीहिः, विश्वं धीयतेऽनयेति । ‘वहिहाधाञ्भ्यश्छन्दसि’ (उ.सू. 660) इत्यसुन्प्रत्ययः । णिदित्यनुवृत्तेर्युक् (पा.सू. 7.3.33) । तत्र हि ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च’ (उ.सू. 666) इत्युक्तम् । तेन कारकपूर्वादपि भवत्येव । पूर्वपदप्रकृतिस्वरग्रहणस्य च बहुव्रीहिस्वरस्योपलक्षणत्वात् ‘बहुव्रीहौ विश्वं संज्ञायाम्’ (पा.सू. 6.2.106) इति पूर्वपदान्तोदात्तत्वम् ।

सा त्वमीदृशेन परमेण प्रकृष्टेन धाम्ना धारणशक्त्या …।


दृंहस्व ...{Loading}...
विश्वास-प्रस्तुतिः

दृँह॑स्व+++(=दृढा भव)+++।
मा ह्वाः॑+++(=कुटिला भूः)+++।

Keith

Be firm, waver not.

मूलम् (संयुक्तम्)

दृँह॑स्व॒ मा ह्वाः

मूलम्

दृँह॑स्व॒ मा ह्वाः॑

पद-पाठः

दृँह॑स्व । मा । ह्वाः॒ ।

भट्टभास्कर-टीका

दृंहस्व वर्धस्व दृढा भव । दृहदृहि वृद्धौ, व्यत्ययेनात्मनेपदम् । केचिदाहुर्वर्धनायां वर्तत इति । यद्वा - दृंहगा इतिवत् ण्यन्तात्कर्मकर्तर्यात्मनेपदम् । पूर्ववद्यक्प्रतिषेधादि (पा.सू. 3.1.89 वा 1) । मा ह्वाः मा कुटिला भूः । ह्वृ कौटिल्ये, लुङ्मध्यमपुरुषैकवचने, सिचि वृद्धौ, ‘बहुळं छन्दसि’ (पा.सू. 7.3.97) इतीडभावे, हल्ङ्यादिलोपे ‘रात्सस्य’ (पा.सू. 8.2.24) इति सकारलोपः । अत्र ‘चादिलोपे विभाषा’ (पा.सू. 8.1.63) इति प्रथमा तिङ्विभक्तिर्न निहन्यते दृंह॑स्व॒ मा ह्वाः॒ इति ॥


भास्करोक्त-विनियोगः

उखायां शाखापवित्रं निदधाति

विश्वास-प्रस्तुतिः

वसू॑नाम्+++(→वासहेतुत्वात् धनानां/ प्राणानां)+++ प॒वित्र॑म् असि ।
श॒त-धा॑रव्ँ॒+++(=प्रकारं)+++ वसू॑नाम् प॒वित्र॑म् असि ,
स॒हस्र॑-धारम् +++(प॒वित्र॑म् असि, प्रा॒णेष्व् ए॒वायु॑र् दधामि)+++ ।

Keith

Thou art the strainer of the Vasus, of a hundred streams, thou art that of the Vasus, of a thousand streams.

मूलम् (संयुक्तम्)
  • वसू॑नाम्प॒वित्र॑मसि श॒तधा॑रव्ँ॒वसू॑नाम्प॒वित्र॑मसि स॒हस्र॑धारम्
मूलम्

वसू॑नाम्प॒वित्र॑मसि ।
श॒तधा॑रव्ँ॒वसू॑नाम्प॒वित्र॑मसि ।
+++(वसूनां)+++ स॒हस्र॑धारं +++(प॒वित्र॑मसि)+++ ।

पद-पाठः

वसू॑नाम् । प॒वित्र॑म् । अ॒सि॒ ।
श॒तधा॑र॒मिति॑ श॒त-धा॒र॒म् । वसू॑नाम् । प॒वित्र॑म् । अ॒सि॒ ।
स॒हस्र॑धार॒मिति॑ स॒हस्र॑-धा॒र॒म् ।

भट्टभास्कर-टीका

4उखायां शाखापवित्रं निदधाति - वसूनामिति ॥ प्राणिनां वासहेतुत्वात्पयःप्रभृतीनि धनानि वसुशब्देनोच्यन्ते, प्राणाश्च, ‘प्राणा वै वसवः’ (तै.ब्रा. 3.2.3) इति दर्शनात् । तेपि हि वासहेतवः । ‘शॄस्पृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च’ (उ.सू. 10) इति वसेः करणे उप्रत्ययः । ‘धान्ये नित्’ (उ.सू. 9) इत्यतो निदिति हि तत्रानुवर्तते । नित्त्वादाद्युदात्तः (पा.सू. 6.1.197) । पयःप्रभृतीनां वसूनां शतधारमनेकप्रकारं पवित्रं पावनमसि । प्राणात्मनां वसूनां सहस्रधारं पूर्वस्मादपि बहुप्रकारं पावनमसि यागसाधनद्वारेण । ‘पुवस्संज्ञायाम्’ (पा.सू. 3.2.185) इति इत्रप्रत्ययः ॥


भास्करोक्त-विनियोगः

5स्तोकाननुमन्त्रयते - हुत इति ॥

विश्वास-प्रस्तुतिः

+++(दोहनकाले पात्राद् बहिर् निपतितः)+++
हु॒तस् स्तो॒को+++(=अल्पो)+++ +++(बिन्दुः)+++,
हु॒तो द्र॒प्सो॑ +++(बिन्दुः [प्रति॑ष्ठित्यै, ह॒विषो ऽस्क॑न्दाय])+++,
+++(न हि हु॒तँ स्वाहा॑कृतँ॒ स्कन्द॑ति । )+++
ऽग्नये॑ बृह॒ते +++(दिवि वर्तमानाय)+++ नाका॑य॒+++(=न+अकाय=नासुखाय)+++

विस्तारः (द्रष्टुं नोद्यम्)

The spot (stoka) has been offered, the drop has been offered. To Agni, to the mighty firmament! Hail to sky and earth!

मूलम्

हु॒तस्स्तो॒को हु॒तो द्र॒प्सो॒॑ऽग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्याम्

पद-पाठः

हु॒तः । स्तो॒कः ।
हु॒तः । द्र॒प्सः ।
अ॒ग्नये॑ । बृ॒ह॒ते । नाका॑य ।

भट्टभास्कर-टीका

अल्पो बिन्दुस्तोको महान्बिन्दुर्द्रप्सः । दोहनकालेऽमहान्बिन्दुः पात्राद्वहिर्निपतितस्स्तोकः, स हुतोस्तु देवतोद्देशेन परित्यक्तोस्तु । द्रप्सोपि हि हुतोस्तु । कस्मै । अग्नये बृहते नाकाय नाकनाम्ने । कं सुखं, तदस्य नास्तीत्यकः तस्मादन्यो नाकः । ‘नभ्राण्नपात्’ (पा.सू. 6.3.75) इति निपातितः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) । ‘बृहन्महतोरुपसङ्ख्यानम्’ (पा.सू. 6.1.173 वा 1) इति बृहतः परस्याजादेर्विभक्तेरुदात्तत्वम् । ‘दिवि नाको नामाग्निः’ (तै.ब्रा. 3.2.3) इत्यादि ब्राह्मणम् । एवं हुतोस्त्विति सङ्कल्पेन हविषोस्कन्नता क्रियते ।

स्वाहा ...{Loading}...
विश्वास-प्रस्तुतिः

+++(इति)+++ स्वाहा॑ +++(←स्वा वाग् आह)+++।
+++(निपाता आद्युदात्ताः।)+++

मूलम्

स्वाहा॑ ।

पद-पाठः

स्वाहा॑ ।

भट्टभास्कर-टीका

कः पुनरित्थं वदतीत्याह, स्वाहा स्वयमेव सरस्वती, आह ब्रूते । ‘स्वैव ते वाग् इत्य् अब्रवीत्’ (तै.ब्रा. 2.1.2) इत्यादि ब्राह्मणम् । स्वयमेवाहेत्य् अस्यार्थस्य द्योतकोयं निपातः । आह स्वेत्यस्य प्रतिलोमपाठे स्वाहेति भवति । निपाता आद्युदात्ताः (फि.सू. 80) ।

विश्वास-प्रस्तुतिः

द्यावा॑-पृथि॒वीभ्या॑म् +++(च)+++ ।

+++(स्वाहा सरस्वतीति - ‘स्वैव ते वागित्यब्रवीत्’ (तै.ब्रा. 2.1.2) इत्यादि ब्राह्मणम् ।)+++

मूलम्

द्यावा॑पृथि॒वीभ्या॑म् ।

पद-पाठः

द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा॑-पृ॒थि॒वीभ्या॑म् ।

भट्टभास्कर-टीका

न केवलं नाकायैवापि तु, द्यावापृथिवीभ्यामपि हुतोस्त्विति । ‘दिवो द्यावा’ (पा.सू. 6.3.29) इति द्यावादेशः आद्युदात्तः । ‘देवताद्वन्द्वे च’ (पा.सू. 6.2.141) इति पूर्वोत्तरपदयोः प्रकृतिस्वरत्वम् ॥


भास्करोक्त-विनियोगः

6प्रथमां दुग्धां गामभिमन्त्रयते - सा विश्वायुरिति ॥

विश्वास-प्रस्तुतिः

सा वि॒श्वायुः॑ +++(पृथिवी)+++ ।
+++(‘इयं वै विश्वायुः’ (तै.ब्रा. 3.2.3) इत्यादि ब्राह्मणम् ॥)+++

Keith

This is she of all life,

मूलम्

सा वि॒श्वायुः॑ ।

पद-पाठः

सा । वि॒श्वायु॒रिति॑ वि॒श्व-आ॒युः॒ ।

भट्टभास्कर-टीका

या प्रथमं दुग्धा गौस्सा विश्वायुर्नाम, विश्वं आयुर्जीवनं यस्यामिति पृथिव्यभिधीयते । तदात्मना च गौः स्तूयते । ‘इयं वै विश्वायुः’ (तै.ब्रा. 3.2.3) इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

7द्वितीयामभिमन्त्रयते - सा विश्वव्यचा इति ॥

विश्वास-प्रस्तुतिः

सा वि॒श्वव्य॑चाः +++(अन्तरिक्षम्)+++।
+++(अन्तरिक्षं विश्वव्यचाः (तै.ब्रा. 3.2.3) ॥)+++

Keith

this is the all-encompassing,

मूलम्

सा वि॒श्वव्य॑चाः ।

पद-पाठः

सा । वि॒श्वव्य॑चा॒ इति॑ वि॒श्व-व्य॒चाः॒ ।

भट्टभास्कर-टीका

विश्वं व्यचति व्याप्नोतीति विश्वव्यचाः । अञ्चु गतौ, अञ्चु इत्येतस्मादसुन्, शिष्टं विश्वधायाशब्दवत् । अन्तरिक्षं विश्वव्यचाः (तै.ब्रा. 3.2.3) ॥


भास्करोक्त-विनियोगः

8तृतीयामनुमन्त्रयते - सा विश्वकर्मेति ॥

विश्वास-प्रस्तुतिः

सा वि॒श्वक॑र्मा +++(द्युलोकः)+++।

Keith

this is the all-doing.

मूलम्

सा वि॒श्वक॑र्मा ।

पद-पाठः

सा । वि॒श्वक॒र्मेति॑ वि॒श्व-क॒र्मा॒ ।

भट्टभास्कर-टीका

विश्वानि कर्माणि कर्मफलानि यस्यां सा विश्वकर्मा द्युलोकः । पूर्ववत्स्वरः । ‘इमानेवैताभिः’ (तै.ब्रा. 3.2.3) इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

9गोदोहन-संक्षालनीया अपः पयस्यानयति - संपृच्यध्वमिति गायत्र्या ॥

विश्वास-प्रस्तुतिः ...{Loading}...

+++(पयसा)+++ सम्पृ॑च्यध्वम् ऋतावरीर्+++(=ऋतवत्यः)+++
उ॒र्मिणी॒र् मधु॑मत्तमाः +++(आपः)+++।
म॒न्द्रा+++(=मादयित्र्यः)+++ धन॑स्य सा॒तये॑+++(=लाभाय)+++ ।

सर्वाष् टीकाः ...{Loading}...

Keith

I Be ye united, that follow holy orders,
Ye that wave and are fullest of sweetness,
Delightful for the gaining of wealth.

मूलम्

सम्पृ॑च्यध्वमृतावरीरू॒र्मिणी॒र्मधु॑मत्तमाः ।
म॒न्द्रा धन॑स्य सा॒तये॑ ॥

पद-पाठः

समिति॑ । पृ॒च्य॒ध्व॒म् । ऋ॒ता॒व॒री॒रित्यृ॑त-व॒रीः॒ ।
ऊ॒र्मिणीः॑ । मधु॑मत्तमा॒ इति॒ मधु॑मत्-त॒माः॒ ।
म॒न्द्राः । धन॑स्य । सा॒तये॑ ।

भट्टभास्कर-टीका

हे ऋतावरीः ऋतेन सत्येन यज्ञेन वा तद्वत्यः, ऋतसम्पादिका आपः ययूं पयसा सम्पृच्यध्वं सम्पृक्ता भवत । कर्मणि लकारः । ‘छन्दसीवनिपौ’ (पा.सू. 5.2.109 वा 2) इति वनिप् । ‘वनो र च’ (पा.सू. 4.1.7) इति ङीप् रेफौ । ‘अन्येषामपि दृश्यते’ (पा.सू. 6.3.137) इति दीर्घः । ‘वा छन्दसि’ (पा.सू. 6.1.106) इति पूर्वसवर्णदीर्घत्वं । आष्टमिकमामन्त्रितानुदात्तत्वम् (पा.सू. 8.1.19) । ऊर्मिमत्त्वादिगुणयुक्तास्सत्यस्सम्पृच्यध्वम् । एतेषामामन्त्रितत्वाभावाद्यथायथं स्वरा भवन्ति । पयस्सम्पर्केण वा ह्येते गुणाः अपामुपजायन्ते । महद्भिरूर्मिभिस्तद्वत्यः ऊर्मिण्यः । ‘तुन्दादिषु स्वाङ्गाद्विवृद्धौ’ (पा.सू. 5.2.117 गणसूत्रम्) इति पाठादिनिप्रत्ययः । स्वमङ्गं स्वाङ्गम् । पूर्ववद्दीर्घत्वम् (पा.सू. 6.1.106) । मधुमत्तमाः मधुरतमाः । मन्द्राः मादयित्र्यः । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । ‘स्फायितञ्चि’ (उ.सू. 170) इत्यादिना रक्प्रत्ययः ।
किमर्थं सम्पृच्यत इत्याह धनस्येति । धनस्य सान्नाय्यलक्षणस्य । सातये लाभाय । धनवनषणसम्भक्तौ, ‘जनसनखनां सञ्झलोः’ (पा.सू. 6.4.42) इत्यात्वम् । ‘ऊतियूति’ (पा.सू. 3.3.97) इत्यादिना क्तिन्प्रत्ययान्तोऽन्तोदात्तो निपातितः । युष्मत्सम्पर्के हि तत्सिद्धिरिति भावः ॥


भास्करोक्त-विनियोगः

10दध्ना तनक्ति - सोमेनेति ॥

विश्वास-प्रस्तुतिः

सोमे॑न॒ +++(सान्नाय्यरूपेण)+++ त्वा ऽऽत॑न॒च्मीन्द्रा॑य॒ दधि॑ +++(सोम-पीथत्व-सन्तानाय)+++।

Keith

With Soma I curdle thee, curds for Indra.

मूलम्

सोमे॑न॒ त्वाऽऽत॑न॒च्मीन्द्रा॑य॒ दधि॑ ।

पद-पाठः

सोमे॑न । त्वा॒ । एति॑ । त॒न॒च्मि॒ । इन्द्रा॑य । दधि॑ ।

भट्टभास्कर-टीका

सोमसदृशेन दध्ना त्वा त्वां आतनच्मि घनीकरोमि । यद्वा - सोमेन सदृशत्वात् सान्नाय्यमेव सोमः । ‘सोमः खलु वै सान्नाय्यम्’ (तै.ब्रा. 3.2.3) इति च श्रूयते । सोमशब्दात् ‘तत्करोति’ (चुराद्यन्तर्गणसूत्रम्) इति णिचि, ‘एरचिण्यन्तानां’ (पा.सू. 3.3.56) इति वचनात्करणे घञ् । ञित्त्वादाद्युदात्तत्वं । किमर्थमित्याह - इन्द्राय यथा त्वं दधि भवसि तथा तदर्थमातनच्मि । ‘ऐन्द्रं दध्यमावास्यायाम्’ (तै.सं. 2.5.4) इत्यैन्द्रत्वं दध्नः । तञ्चू सङ्कोचने, श्नान्नलोपः (पा.सू. 6.4.23) ॥


भास्करोक्त-विनियोगः

उपरि निदधाति

विश्वास-प्रस्तुतिः

विष्णो॑ ह॒व्यँ र॑क्षस्व ॥ [4]

Keith

O Visnu, guard the offering.

मूलम्

विष्णो॑ ह॒व्यँ र॑क्षस्व ॥ [4]

पद-पाठः

विष्णो॒ इति॑ । ह॒व्यम् । र॒क्ष॒स्व॒ ॥

भट्टभास्कर-टीका

11उपरि निदधाति - विष्णविति ॥ हे विष्णो सर्वस्य रक्षक इदं दुग्धलक्षणं हव्यं रक्षस्व । व्यत्ययेनात्मनेपदम् । हवमर्हतीति हव्यं होमार्हम् । ‘छन्दसि च’ (पा.सू. 5.1.67) इति यत्प्रत्ययः ॥

इति तृतीयोनुवाकः