मन्त्रव्याख्यानायाऽऽदावुक्थ्यग्रहणं विधत्ते —
“इन्द्रो वृत्राय वज्रमुदयच्छत्स वृत्रो वज्रादुद्यतादबिभेत्सोऽब्रवीन्मा मे प्र हारस्ति वा इदं मयि वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यमेव प्रायच्छत्तस्मै द्वितीयमुदयच्छत्सोऽब्रवीन्मा मे प्र हारस्ति वा इतं मयि वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यमेव प्रायच्छत्तस्मै तृतीयमुदयच्छत्तं विष्णुरन्वतिष्ठत जहीति सोऽब्रवीन्मा मे प्र हारस्ति वा इदं मयि वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यमेव प्रायच्छत्तं निर्मायं भूतमहन्यज्ञो हि तस्य मायाऽऽसीद्यदुक्थ्यो गृह्यत इन्द्रियमेव तद्वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते” (सं. का. ६ प्र. ५ अ. १) इति।
मा मे प्रहा मां मा प्रहार्षीः। वीर्यमुक्थ्यरूपं श्रेष्ठं वस्तु, उक्थ्यस्थाल्यां मन्त्रेण गृहीतः सोम इत्यर्थेः। तस्य सवनत्रयापेक्षया त्रिः प्रदानम्। अग्निष्टोमे तृतीयसवन उक्थ्याभावेऽपि संस्थान्तरेषु विद्यते। अथवा प्रातःसवन एवोक्थ्यस्थाल्यामुक्थ्यपात्रे त्रिर्ग्रहीतव्यं, तदपेक्षया त्रिः प्रदानम्। तृतीयपर्याये विष्णुर्जहीत्येवं वदन्निन्द्रमन्वतिष्ठत सहकारी सन्नवस्थितः। उक्थ्यरूपो यज्ञो वृत्रस्य माया। यस्मादुक्थ्यलोभेन मोहित इन्द्रो वृत्रं न जघान, त्रिष्वप्युक्थ्येषु दत्तेषु निर्मायं मोहयितुमसमर्थं वृत्रं हतवांस्तस्मादिन्द्रवद्वैरिगतमिन्द्रियसामर्थ्यं विनाशयितुमुक्थ्यं गृह्णीयात्।
वृत्रेणेन्द्राय दत्तत्वान्मन्त्रेऽपीन्द्रायेत्युक्तिर्युक्तेत्याह —
“इन्द्राय त्वा बृहद्वते वयस्वत इत्याहेन्द्राय हि स तं प्रायच्छत्” (सं. का. ६ प्र. ५ अ. १) इति।
विष्णोरपि सहकारित्वेन भागित्वात्तन्मन्त्रोऽपि युक्त इत्याह —
“तस्मै त्वा विष्णवे त्वेत्याह यदेव विष्णुरन्वतिष्ठत जहीति तस्माद्विष्णुमन्वाभजति” इति।
स्थाल्यां गृहीत्वा सादितस्य सोमस्य होमकाले पुनर्दारुपात्रे त्रिवारग्रहणं विधत्ते —
“त्रिर्निर्गृह्णाति त्रिर्हि स तं तस्मै प्रायच्छत्” (सं. का. ६ प्र. ५ अ. ११) इति।
स वृत्रस्तमुक्थ्यं तस्मा इन्द्राय त्रिः प्रायच्छत्। तस्मात्स्थालीगतं सोमं त्रेधा निष्कृष्य पर्यायत्रेण गृह्णीयात्।
दारुपात्रे गृहीतस्याऽऽसादनमन्त्रं स्थाल्यभिमर्शनमन्त्रं चोत्पाद्य व्याचष्टे —
“एष ये योनिः पुनर्हविरसीत्याह पुनः पुनर्ह्यस्मान्निर्गृह्णाति” (सं. का. ६ प्र.५ अ. १) इति।
हे दारुपात्रे गृहीत सोम तवैष खरप्रदेशः स्थानम्। अनेन मन्त्रेण सादयेत्। हे स्थालीगत सोम त्वं गृहीतशेषोऽपि पुनर्गृह्यमाणत्वाद्धविरेवासि। अस्मात्स्थालीगतात्सोमाद्ग्रहीष्यमाणं पर्यायद्वयमपेक्ष्य पुनः पुनरित्युक्तिः।
उक्थ्यहोमचमसहोमान्विधत्ते —
“चक्षुर्वा एतद्यज्ञस्य यदुक्थ्यस्तस्मादुथ्य हुत सोमा अन्वायन्ति तस्मादात्मा चक्षुरन्वेति तस्मादेकं यन्तं बहवोऽनुयन्ति तस्मादेको बहूनां भद्रो भवति तस्मादेको बह्वीर्जाया विन्दते यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमित्यन्तराऽऽहवनीयं च हविर्धानं च तिष्ठन्नव नयेदात्मानमेव यज्ञयशसेनार्पयति यदि कामयेत यजमानं यज्ञयशसेनार्पयेयमित्यन्तरा सदोहविर्धाने तिष्ठन्नव नयेद्यजमानमेव यज्ञ यशसेनार्पयति” (सं. का. ६ प्र. ५ अ. १) इति।
चक्षुःस्थानीय उक्थ्ये हुते सत्यनन्तरमेवेतरस्थानीयाश्चमसा होतव्याः। आत्मा सर्वावयवसंधानरूपः पुरुषः। अवयवेषु मुख्यस्य चक्षुषो दृष्टिः पुरतो मार्गे प्रसरति। ततः संघातरूप आत्माऽनुगच्छति। एकं मुख्यं परिगच्छन्तं बहवो भृत्या अनुगच्छन्ति। एको मुख्यश्चक्षुरिव ज्ञापक आचार्यो बहूनां शिष्याणां मध्ये भद्रः पूज्यो भवति। एको मुख्यः स्वतन्त्रः पुरुषः परतन्त्राः बह्वीर्जाया लभते। एभिर्दृष्टान्तैश्चमसानामुक्थ्यानन्तरं होमो युक्तः।
मुख्यचमसे संपातस्यावनयनं विधत्ते —
“यदि कामयेत सदस्यान्यज्ञयशसेनार्पयेयमिति सद आलभ्यावनयेत्सदस्यानेव यज्ञयशसेनार्पयति” (सं. का. ६ प्र. ५ अ. १) इति।
यज्ञयशसं यज्ञफलम्। आलभ्य प्रविश्य।
ध्रुवग्रहं विधत्ते —
“आयुर्वा एतद्यज्ञस्य यद्ध्रुव उत्तमो ग्रहाणां गृह्यते तस्मादायुः प्राणानामुत्तमम्” (सं. का. ६ प्र. ५ अ. २) इति।
ऐन्द्रवायवादयो यथा यज्ञस्य वागादिप्राणरूपास्तथा ध्रुवोऽप्यायुःस्वरूपः। स च ध्रुवोऽन्तर्यामैन्द्रवायवादीनां धाराग्रहाणामुत्तमश्चरमो यथा भवति तथा ग्रहीतव्यः।
मन्त्रे मूर्धानमित्यादिशब्दप्रयोगेण ज्ञातीनां मध्ये यजमानं श्रेष्ठं करोतीत्याह —
“मूर्धानं दिवो अरतिं पृथिव्या इत्याह मूर्धानमेवैन समानानां करोति” (सं. का. ६ प्र. ५ अ. २) इति।
आयुषो वैश्वानराभिमानिदेवत्वादायुःस्थानीयध्रुवस्य ग्रहणे वैश्वानरशब्दो युक्त इत्याह —
“वैश्वानरमृताय जातमग्निमित्याह वैश्वानर हि देवतायाऽऽयुः” (सं. का. ६ प्र. ५ अ. २) इति।
अस्यामृच्युपरितने यजुषि च वैश्वानरशब्दप्रयोगो नाभेरूर्ध्वाधोवर्तिप्राणसाम्यायेत्याह —
“उभयतोवैश्वानरो गृह्यते तस्मादुभयतः प्राणा अधस्ताच्चोपरिष्टाच्च” (सं. का. ६ प्र. ५ अ. २) इति।
यथा वाक्चक्षुरादय उपरिवर्तिनो मूकत्वान्धत्वबधिरत्वादिकृतानल्पान्व्यवहारनिरोधान्वारयन्तो देहस्यार्धं कृत्यं निर्वहन्ति अधोभागवर्ती तु प्राणो मलमूत्रनिरोधं महान्तं निवारयन्नर्धकृत्यं निर्वहति तथैवान्ये ग्रहा यज्ञस्यार्धं निर्वहन्ति ध्रुवस्त्वर्धमिति
प्रशंसति —
“अर्धिनोऽन्ये ग्रहा गृह्यन्तेऽर्धी ध्रुवस्तस्मादर्ध्यवाङ्प्राणोऽन्येषां प्राणानाम्” (सं. का. ६ प्र. ५ अ. २) इति।
अर्धित्वमिति शेषः।
ध्रुवस्येतरविलक्षणं सादनस्थानं विधत्ते–
“उपोप्तेऽन्ये ग्रहाः साद्यन्तेऽनुपोप्ते ध्रुवस्तस्मादस्थ्नाऽन्याः प्रजाः प्रतितिष्ठन्ति मासेनान्याः” (सं. का. ६ प्र. ५ अ. २) इति।
मृदमुपोप्य खरीकृते प्रदेशे ग्रहान्तरसादनं, केवलभूम्यां ध्रुवस्य सादनम्। यस्मादेवं वैलक्षण्यं तस्माल्लोकेऽपि अन्या गवादिरूपाः प्रजा अस्थिवत्कठिनखुरेण भूमौ तिष्ठन्ति, अन्यास्तु मनुष्यरूपाः प्रजाः पादतलगतेन मांसेनावतिष्ठन्ते।
भूमौ साद्यमानस्य ध्रुवस्योत्तरहविर्धानसमीपदेशं विधत्ते —
“असुरा वा उत्तरतः पृथिवीं पर्याचिकीर्षन्तां देवा ध्रुवेणादृहन्तद्ध्रुवस्य ध्रुवत्वं यद्ध्रुव उत्तरतः साद्यते धृत्यै” (सं. का. ६ प्र. ५ अ. २) इति।
पर्याचिकीर्षन्पर्याकर्तुमुत्तरत आक्रष्टुमैच्छन्। ध्रुवस्योत्तरदेशे सादनेन पृथिवी धृता भवति। अत्र सूत्रम् – “उत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम्” इति।
ध्रुवोऽवस्थितस्य सोमस्य होतृचमसेऽवनयनं विधत्ते —
“आयुर्वा एतद्यज्ञस्य यद्ध्रुव आत्मा होता यद्धोतृचमसे ध्रुमवनयत्यात्मन्नेव यज्ञस्याऽऽयुर्दधाति” (सं. का. ६ प्र. ५ अ. २) इति।
अवनयनस्य कालं विधित्सुर्मतान्तराण्युपन्यस्यति —
“पुरस्तादुक्थस्यावनीय इत्याहुः पुरस्ताद्ध्यायुषो भुङ्क्ते मध्यतोऽवनीय इत्याहुर्मध्यमेन ह्यायुषो भुङ्क्त उत्तरार्धेऽवनीय इत्याहुरुत्तमेन ह्यायुषो भुङ्क्ते” (सं. का. ६ प्र. ५ अ. २) इति।
उक्थं शस्त्रम्। तच्च त्रेधा विभज्य पूर्वभागे शस्यमानेऽवनयेत्। एवमितरयोरपि। आयुषः पूर्वभागे बाल्ये बहुकृत्वो भुज्यते। मध्यमे भागे बह्वन्नं भुज्यते। उत्तमे भागे शक्त्यभावेऽपि बहु भोक्तुमिच्छति।
इदानीं विधत्ते —
“वैश्वदेव्यामृचि शस्यमानायामव नयति वैश्वदेव्यो वै प्रजाः प्रजास्वेवाऽऽयुर्दधाति” (सं. का. ६ प्र. ५ अ. २) इति।
उत नोऽहिर्बुध्नियः शृणोत्वित्येषा वैश्वदेवा।
मूर्धानं दिव इत्येषा त्रिष्टुप्॥
“यज्ञेन वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति ते संवत्सरेण योपयित्वा सुवर्गं लोकमायन्तमृषय ऋतुग्रहैरेवानु प्राजानन्यदृतुग्रहा गृह्यन्ते सुवर्गस्य लोकस्य प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ३ इति।
संवत्सरेण योपयित्वा कालविलम्बेन मोहयित्वा। यत ऋषयो मनुष्येष्वभिज्ञाः।
संख्यां विधत्ते —
“द्वादश गृह्यन्ते द्वादश मासाः संवत्सरः संवत्सरस्य प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ३ इति।
त्रयोदशचतुर्दशयोरप्येतदुपलक्षणम्।
आदावन्ते च द्वयोर्ग्रहणं विधत्ते —
“सह प्रथमौ गृह्येते सहोत्तमौ तस्माद्द्वौद्वावृतू” (सं. का. ६ प्र. ५ अ. ३) इति।
मधुश्च माधवश्चेत्येतौ प्रथमौ। तपश्च तपस्यश्चेत्येतावुत्तरौ। यस्माद्द्वयोः साहित्यमत्र विहितं तस्माद्द्वौद्वौ मासावृत्ववयवौ।
पात्रस्थसोमं वह्नौ स्रावयितुं बिलस्य पार्श्वयोर्द्वे मुखे विधत्ते —
“उभयतोमुखमृतुपात्रं भवति को हि तद्वेद यत ऋतूनां मुखम्” (सं. का. ६ प्र. ५ अ. ३) इति।
ऋतूनां मुखमृतुधर्मप्रवृत्त्यारम्भो यतो यस्मात्कालादारभ्य भवति तत्को नाम वेद। तस्मादृतुपात्रस्य मुखद्वयं कुर्यात्।
अध्वर्युप्रतिप्रस्थात्रोः प्रैषमन्त्रावुत्पादयति —
“ऋतुना प्रेष्येति षट्कृत्व आह षड्वा ऋतव ऋतूनेव प्रीणात्यृतुभिरिति चतुश्चतुष्पद एव पशून्प्रीणाति द्विः पुनतुनाऽऽह द्विपद एव प्रीणाति” (सं. का. ६ प्र. ५ अ. ३) इति।
हे मैत्रावरुण ऋतुना निमित्तेन होतारं प्रेष्य तमिमं मन्त्रं प्रथमतृतीयपञ्चमेष्वध्वर्ब्रूयात्। द्वितीयचतुर्थषष्ठेषु प्रतिप्रस्थाता ब्रूयात्। एवं षट्कृत्वस्तद्वचनम्। तेन भवत्यृतूनां प्रीतिः। ऋतुभिः प्रेष्येति सप्तमनवमयोरध्वर्युर्ब्रूयात्। अष्ठमदशमयोः प्रतिप्रस्थाता। तेन चतुरावर्तनेन पशूनां प्रीतिः। ऋतुना प्रेष्येत्यध्वर्युरेकादशे ब्रूयात्। प्रतिप्रस्थाता द्वादशे। तेन द्विरावर्तनेन मनुष्याणां पक्षिणां च प्रीतिः।
पूर्वोक्तामेव षट्चतुर्द्विसंख्यामुपजीव्योपजीवकभावेन प्रशंसति —
“ऋतुना प्रष्येति षट्कृत्व आहर्तुभिरिति चतुस्तस्माच्चतुष्पादः पशव ऋतूनुपविन्ति द्विः पुनतुनाऽऽह तस्माद्द्विपादश्चतुष्पदः पशूनुप जीवन्ति” (सं. का. ६ प्र. ५ अ. ३) इति।
गवादयश्चतुष्पादः शीतोष्णादीनृतुधर्मानुपजीवन्ति। मनुष्याश्च द्विपादः पशुगतक्षीरादीनुपजीवन्ति।
“ऋतुना प्रेष्येति षट्कृत्व आहर्तुभिरिति चतुर्द्विः पुनतुनाऽऽहाऽऽऋमणमेव
तत्सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै” (सं. का. ६ प्र. ५ अ. ३) इति।
आक्रम्यते प्राप्यते स्वर्गोऽनेनेत्याक्रमणः सेतुः यथा सेतोरधोभागो विशाल ऊर्ध्वभागः संकुचितस्तथैवात्र षट्चतुर्द्विसंख्या द्रष्टव्या। सोपानेष्वप्येतत्समानम्।
अध्वर्युप्रतिप्रस्थात्रोर्युगपद्गमनं निषेधति —
“नान्योऽन्यमनु प्र पद्येत यदन्योऽन्यमनुप्रपद्येतर्तुतुमनु प्र पद्येतर्तवो मोहुकाः स्युः” (सं. का. ६ प्र. ५ अ. ३) इति।
अध्वर्युप्रतिप्रस्थातृभ्यां प्रथमद्वितीयौ ग्रहौ सह गृहीतौ। ततो हविर्धाना-न्निष्क्रम्य गत्वाऽऽहवनीये हुत्वा पुनः प्रत्यागत्य हविर्धाने ग्रहान्तरं ग्रहीतव्यम्। तत्रैकः पुरतोऽन्यः पृष्ठत इत्येवं युगपन्न गन्तव्यं किंतु पर्यायेण। यद्यृतुग्रहे तयोः सहगमनं स्यात्तदानीमेकमृतुमन्योऽनुप्रविशेत्। तदा सांकर्यादृतवो मोहहेतवो भवेयुः।
कालभेदवदुभयोर्मार्गभेदं विधत्ते —
“प्रसिद्धमेवाध्वर्युर्दक्षिणेन प्र पद्यते प्रसिद्धं प्रतिप्रस्थातोत्तरेण तस्मादादित्यः षण्मासो दक्षिणेनैति षडुत्तरेण” (सं. का. ६ प्र. ५ अ. ३) इति।
प्रथमतः सिद्धं प्रसिद्धमादित आरभ्येत्यर्थः। यस्मादृत्विजोर्दक्षिणोत्तरौ द्वौ मार्गौ तस्मादादित्यस्यापि दक्षिणायनोत्तरायणे भवतः।
मधुश्चेत्यादिमन्त्रैरेव द्वादशमासानां प्रीतत्वात्संसर्पमन्त्रस्य निर्विषयत्वमाशङ्क्य व्याचष्टे —
“उपयामगृहीतोऽसि ससर्पोऽस्यहस्पत्याय त्वेत्याहास्ति त्रयोदशो मास इत्याहुस्तमेव तत्प्रीणाति” (सं. का. ६ प्र. ५ अ. ३) इति। अधिकमासस्त्रयोदशः॥
मन्त्रानुपेक्ष्यैन्द्राग्नग्रहं विधत्ते —
“सुवर्गाय वा एते लोकाय गृह्यन्ते यदृतुग्रहा ज्योतिरिन्द्राग्नी यदैन्द्राग्नमृतुपात्रेण गृह्णाति ज्योतिरेवास्मा उपरिष्टाद्दधाति सुवर्गस्य लोकस्यानुख्यात्यै” (सं. का. ६ प्र. ५ अ. ४) इति।
यदेतदृतुपात्रमध्वर्युहस्ते भक्षणीयेन सोमेनोपेतं तेनैन्द्राग्नं गृह्णीयात्। तथा सत्यृतुग्रहैः प्राप्तः स्वर्ग इन्द्राग्निज्योतिषा प्रकाशितो भवति।
बलप्रदत्वेनैन्द्राग्नं प्रशंसति —
‘ओजोभृतौ वा एतौ देवनां यदिन्द्राग्नी यदैन्द्राग्नो गृह्यत ओज एवाव रुन्धे’ (सं. का. ६ प्र. ५ अ. ४) इति।
ग्रहान्तरं विधत्ते —
‘वैश्वदेवं शुक्रपात्रेण गृह्णाति वैश्वदेव्यो वै प्रजा असावादित्यः शुक्रो यद्वैश्वदेव शुक्रपात्रेण गृह्णाति तस्मादसावादित्यः सर्वाः प्रजाः प्रत्यङ्ङुदेति तस्मात्सर्व एव मन्यते मां प्रत्युदगादिति’ (सं. का. ६ प्र. ५ अ. ४) इति। शुक्रग्रहस्य यत्पात्रं तेन वैश्वदेवं गृह्णीयात्। वैश्वदेवीः सर्वाः प्रजाः प्रति शुक्रग्रहाभिमान्यादित्यः प्रत्यङ् प्रत्येकमभिमुख उदेति। तदेतत्सर्वस्याप्यनुभवसिद्धम्।
तेजःप्रदत्वेन वैश्वदेवं प्रशंसति —
वैश्वदेव शुक्रपात्रेण गृह्णाणि वैश्वदेव्यो वै प्रजास्तेजः शुक्रो यद्वैश्वदेव शुक्रपात्रेण गृह्णाति प्रजास्वेव तेजो दधाति’ (सं. का. ६ प्र. ५ अ. ४) इति। इन्द्राग्नी ओमास इत्येते गायत्र्यौ ॥
त्रीन्मरुत्वतीयग्रहान्विधत्ते —
“इन्द्रो मरुद्भिः सांविद्येन माध्यंदिने सवने वृत्रमहन्यन्माध्यंदिने सवने मरुत्वतीया गृह्यन्ते वार्त्रघ्ना एव ते यजमानस्य गृह्यन्ते” (सं. का. ६ प्र. ५ अ. ५) इति। सांविद्यं संप्रतिपत्तिरैकमत्यम्।
तेषां ग्रहाणां पात्रं विधत्ते —
“तस्य वृत्रं जघ्नुष ऋतवोऽमुह्यन्त्स ऋतुपात्रेण मरुत्वतीयानगृह्णात्ततो वै स ऋतून्प्राजानाद्यदृतुपात्रेण मरुत्वतीया गृह्यन्त ऋतूनां प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ५) इति।
ग्रहत्रयं वज्ररूपेण प्रशंसति —
“वज्रं वा एतं यजमानो भ्रातृव्याय प्र हरति यन्मरुत्वतीया उदेव प्रथमेन गच्छति प्र हरति द्वितीयेन स्तृणुते तृतीयेन” (सं. का. ६ प्र. ५ अ. ५) इति। स्तृणुते हिनस्ति।
धनुःसंपादनरूपेण पुनः प्रशंसति —
“आयुधं वा एतद्यजमानः स स्कुरुते यन्मरुत्वतीया धनुरेव प्रथमो ज्या द्वितीय इषुस्तृतीयः” (सं. का. ६ प्र. ५ अ. ५) इति।
संपादितस्य धनुषः प्रयोगरूपेण पुनः प्रशंसति —
“प्रत्येव प्रथमेन धत्ते वि सृजति द्वितीयेन विध्यति तृतीयेन” (सं. का. ६ प्र. ५ अ. ५) इति।
प्रतिधत्त एव बाणं संदधात्येव।
प्राणादिप्रीणयितृत्वरूपेश पुनः प्रशंसां कर्तुमाख्यायिकामाह —
“इन्द्रो वृत्र हत्वा परां परावतमगच्छदपाराधमिति मन्यमानः स हरितोऽभवत्स एतान्मरुत्वतीयानात्मस्परणानपश्यत्तानगृह्णीत प्राणनेव प्रथमेनास्पृणुतापानं द्वितीयेनाऽऽत्मानं तृतीयेन” (सं. का. ६ प्र. ५ अ. ५) इति।
प्रबलेनारिकुलेन सह विरोधरूपमपराधं कृतवानस्मीति भीत्या परां परावतमत्यन्तदूरं पलाय्य स हरितो विवर्णोऽभवत्। आत्मस्परणान्स्वस्य भीतिनिवारणेन प्रीणयितॄन्प्रतिजग्राह प्राणापानक्षेत्रज्ञानां प्रीतिरभूत्।
इदानीं प्रशंसति —
“आत्मस्परणा वा एते यजमानस्य गृह्यन्ते यन्मरुत्वतीयाः प्राणमेव प्रथमेन स्पृणुतेऽपानं द्वितीयेनाऽऽत्मानं तृतीयेन” (सं. का. ६ प्र. ५ अ. ५) इति।
अथ माहेन्द्रग्रहं विधत्ते —
“इन्द्रो वृत्रमहन्तं देवा अब्रुवन्महान्वा अयमभूद्यो वृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रत्व स एतं माहेन्द्रमुद्धारमुदहरत वृत्र हत्वाऽन्यासु देवतास्वधि यन्माहेन्द्रो गृह्यत उद्धारमेव तं यजमान उद्धरतेऽन्यासु प्रजास्वधि” (सं. का. ६ प्र. ५ अ. ५) इति।
उद्ध्रियते गृह्यत इत्युद्धारो ग्रहस्तमुदहरतागृह्णात्। वृत्रहननेनोद्धारेणैवाय-मन्यासु देवतासु मध्येऽध्यधिकोऽभवत्।
माहेन्द्रस्य पात्रं विधत्ते —
“शुक्रपात्रेण गृह्णाति यजमानदेवत्यो वै माहेन्द्रस्तेजः शुक्रो यन्माहेन्द्र शुक्रपात्रेण गृह्णाति यजमान एव तेजो दधाति” (सं. का. ६ प्र. ५ अ. ५) इति।
मरुत्वन्तमिन्द्र मरुत्वो मरुत्वान्महा इन्द्रो नृवदित्येतास्रिष्टुभः। महा इन्द्रो य ओजसेति गायत्री॥
अत्राऽऽदित्याग्रहं विधातुमाख्यायिकामाह —
“अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत्तस्या उच्छेषणमददु-स्तत्प्राश्नात्सा रेतोऽधत्त तस्यै चत्वार आदित्या अजायन्त” (सं. का. ६ प्र. ५ अ. ६) इति।
साध्येभ्यः साध्यनामकेभ्यः। आधानप्रकरणोक्तविधानेन संपादितो ब्रह्मौदनः। उच्छेषणं हुतशिष्टम्।
पुत्रचतुष्टयेनाप्यनिवृत्ते कामे पुनः प्रयुक्तवतीत्याह —
“सा द्वितीयमपचत्साऽमन्यतोच्छेषणान्म इमेऽज्ञत यदग्रे प्राशिष्यामीतो मे वसीयासो जनिष्यन्त इति साऽग्रे प्राश्नात्सा रेतोऽधत्त तस्यै व्यृद्धमाण्डमजायत” (सं. का. ६ प्र. ५ अ. ६) इति।
इमेऽज्ञत चत्वारोऽजायन्त। अत्यन्तधनिकपुत्रोत्पत्त्यपेक्षया होमात्प्रागेव प्राशनेनैवापराधेन तस्या आण्डं गर्भस्थानं व्यृद्धं गर्भशून्यमभवत्।
व्यृद्धिनिवारणाय पुनः प्रयुक्तवतीत्याह —
“साऽऽदित्येभ्य एव तृतीयमपचद्भोगाय म इद श्रान्तमस्त्वति तेऽब्रुवन्वरं वृणामहै योऽतो जायाता अस्माक स एकोऽसद्योऽस्य प्रजायामृद्धयाता अस्माकं भोगाय भवादिति ततो विवस्वानादित्योऽजायत तस्य वा इयं प्रजा यन्मनुष्यास्तास्वेक एवर्द्धो यो यजते स देवानां भोगाय भवति” (सं. का. ६ प्र. ५ अ. ६) इति।
इदमाण्डं श्रान्तं गर्भाभावेन पुरा संतप्तमासीत्। इदानीं मम गर्भधारणेनादि-तेर्भोगायास्त्वित्युक्त्वा ब्रह्मौदनमादित्येभ्योऽजुहोत्। त(अ)त आण्डाद्यो जायते सोऽस्माकं मध्य एक आदित्योऽस्तु। अस्याऽऽदित्यस्य संबधिन्यां प्रजायां यः समृद्धः सोऽस्माकं भोगाय भवत्विति वरः। तत आण्डाद्विवस्वान्नमक आदित्य उत्पन्नः। ये मनुष्यास्ते तस्याऽऽदित्यस्य प्रजा वृष्टिद्वारेणोत्पादकत्वात्। तासु प्रजासु यो यजते स एव समृद्धत्वाद्देवानां भोगाय भवति।
इत्थमाख्यायिकया ग्रहदेवतां निरूप्य ग्रहणापादानं निरूपयितुमाख्यायिकान्तरमाह —
“देवा वै यज्ञाद्रुद्रमन्तरायन्त्स आदित्यानन्वाक्रमत ते द्विदेवत्यान्प्रापद्यन्त तान्न प्रति प्रायच्छन्तस्मादपि वध्यं प्रपन्नं न प्रति प्र यच्छन्ति” (सं. का. ६ प्र. ५ अ. ६) इति।
देवा यज्ञं कुर्वन्तस्तस्मिन्यज्ञे रुद्रं विस्मृतवन्तः। स च रुद्र आदित्याननुप्रप्याबाधत। तेन बाधिता आदित्या ऐन्द्रवायवादिग्रहाञ्शरणं प्रपन्नाः। ते च ग्रहदेवास्तानादित्यान्रुद्राय नैव प्रत्यर्पितवन्तः। तस्माल्लोके परैर्वध्योऽपि चोरादिर्यदि शरणं प्राप्नुयात्तदा तं परेभ्यो नैव प्रत्यर्पयन्ति।
आदित्यग्रहं विधत्ते —
“तस्मादिद्वदेवत्येभ्य आदित्यो निर्गृह्यते” (सं. का. ६ प्र. ५ अ. ६) इति।
यस्मादादित्या द्विदेवत्यग्रहान्प्रपन्नास्तस्माद्द्विदेवत्यग्रहेभ्यो निषिच्याऽऽदित्यग्राहं गृह्णीयात्।
आदित्यानां हुतशेषेण ब्रह्मौदनेनोत्पन्नत्वात्तेषां द्विदेवत्यशेषाद्ग्रहो युक्त इत्याह —
“यदुच्छेषणादजायन्त तस्मादुच्छेषणाद्गृह्यते” (सं. का. ६ प्र. ५ अ. ६) इति।
ग्रहणे कदा चनेत्यादिमन्त्रान्विनियुङ्क्ते —
“तिसृभिग्भिर्गृह्णाति माता पिता पुत्रस्तदेव तन्मिथुनमुल्बं गर्भो जरायु तदेव तन्मिथुनम्” (सं. का. ६ प्र. ५ अ. ६) इति।
मातापितृरूपं मिथुनं पुत्रेण सह तदेकं(व) त्रयात्मकम्। गर्भवेष्टनोदकमुल्बं, तद्वेष्टनं पट्टसदृशं जरायुनामकम्। तदुभयरूपं मिथुनं गर्भेण सह त्रयात्मकम्। तेन सदृशमिदमृक्त्रयात्मकम्।
अस्मिन्ग्रहे दधिमेलनं विधत्ते —
“पशवो वा एते यादादित्य ऊर्ग्दधि दध्ना मध्यतः श्रीणात्यूर्जमेव पशूनां मध्यतो दधाति” (सं. का. ६ प्र. ५ अ. ६) इति।
आदित्यस्य वृष्टिद्वारा पशूपकारित्वम्। दध्नो भोज्यत्वात्तद्रूपत्वम्। तेन दध्ना सोमं मध्ये मेलयेत्। प्रथममन्त्रेण सकृत्सोमं गृहीत्वा तृतीयमन्त्रेण पुनर्ग्रहीष्यमाणो मध्यममन्त्रेण दधि प्रक्षिपेदित्यर्थः।
दध्नः कं चिद्गुणं विधत्ते–
“शृतातङ्क्येन मेध्यत्वाय तस्मादामा पक्वं दुहे” (सं. का. ६ प्र. ५ अ. ६) इति।
शीते बुध्नमातनक्तीति वचनात्सांनाय्यभाण्डे क्षीरे सम्यक्शीते सति पश्चा-दातञ्चनीयम्। इह तूष्ण एव क्षीरे यदातञ्चनेन निष्पन्नं दधि तेन मेलनीयम्। यस्मादत्र तप्तं क्षीरं तस्माल्लोकेऽपि आमा पाकरहिता गौडं पक्वं धारोष्णरूपं क्षीरं दुहे दुग्धे प्रयच्छति।
ग्रहस्याऽऽच्छादनं विधत्ते —
“पशवो वा एते यदादित्यः परिश्रित्य गृह्णाति प्रतिरुध्यैवास्मै पशून्गृह्णाति” (सं. का. ६ प्र. ५ अ. ६) इति।
अन्यतः पशून्निरुध्य यजमानार्थमेव तान्गृहीतवान्भवति।
तदेतदेवाऽऽदित्यग्रहपरिश्रयणमनूद्य प्रशंसति —
“पशवो वा एते यदादित्य एष रुद्रो यदग्निः परिश्रित्य गृह्णाति रुद्रादेव पशूनन्तर्दधाति” (सं. का. ६ प्र. ५ अ. ६) इति।
अनेन ग्रहरूपाणां पशूनां घातकाद्रुद्राद्व्यवधानं भवति।
मन्त्रमादित्यपरं ग्रावपरं ग्रावपरतया व्याचष्टे —
“एष वै विवस्वानादित्यो यदुपाशुसवनः स एतमेव सोमपीथं परि शय आ तृतीयसवनाद्विवस्व आदित्यैष ते सोमपीथ इत्याह विवस्वन्तमेवाऽऽदित्य सोमपीथेन समर्थयति” (सं. का. ६ प्र. ५ अ. ६) इति।
विवस्वन्नामकस्याऽऽदित्यस्य ग्रहाभिमानित्वाद्ग्राव्णस्तद्रूपत्वम्। स च ग्रावैतमेवाऽऽदित्यग्रहगतं सोमं तृतीयसवनसमाप्तिपर्यन्तं परितः शेते। अतो ग्रावविषयत्यवं मन्त्रस्य युक्तम्।
काम्यदधिश्रयणं समन्त्रकं विधत्ते —
“या दिव्या वृष्टिस्तया त्वा श्रीणामीति वृष्टि कामस्य श्रीणीयाद्वृष्टिमेवाव रुन्धे यदि ताजक्प्रस्कन्देद्वर्षुकः पर्जन्यः स्याद्यदि चिरमवर्षुकः” (सं. का. ६ प्र. ५ अ. ६) इति।
अस्यार्थः पूर्वमेव सूत्रे स्पष्टमुदाहृतः।
ग्रहान्तरवत्सादनादिप्रसक्तौ प्रतिषेधति —
“न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते नानु वषट्करोति यदनुवषट्कुर्याद्रुद्रं प्रजा अन्ववसृजेन्न हुत्वाऽन्वीक्षेत यदन्वीक्षेत चक्षुरस्य प्रमायुकं स्यात्तस्मान्नान्वीक्ष्यः” (सं. का. ६ प्र. ५ अ. ६) इति।
एष ते योनिरिति मन्त्रस्यानाम्नातत्वान्नात्र गृहीतस्य सादनं सिद्धम्। किंतु तथैव प्रचारः। असन्नाद्गर्भाशयव्यतिरिक्तस्थानेऽपतितात्। यथा ग्रहान्तरं वषट्कारानुवषट्कारयोर्भिन्नं हूयते नात्र तथा किंतु सकृदेव। अनुवषट्कारे तु प्रजा अनुलक्ष्य रुद्रं क्रूरं प्रेरयेत्। अन्वीक्षणेऽध्वर्युरन्धो भवेत्।
सावित्रग्रहं विधत्ते — “अन्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति प्रजापतिर्वा एष यदाग्रयणः प्रजानां प्रजननाय” (सं. का. ६ प्र. ५ अ. ७) इति।
आग्रयणग्रहस्य कर्मनिष्पत्तिद्वारेण प्रजापालकत्वात्प्रजापतित्वादाग्रयणाद्ग्रहणं प्रजोत्पत्तये भवति।
सादनादिकं पूर्ववन्निषेधति – “न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते नानु वषट्करोति यदनुवषट् कुर्याद्रुद्रं प्रजा अन्ववसृजेत्” (सं. का. ६ प्र. ५ अ. ७) इति।
विहितं सावित्रग्रहं प्रशंसति –
“एष वै गायत्रो देवानां यत्सवितैष गायत्रियै लोके गृह्यते यदाग्रयणो यद-न्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति स्वादेवैनं योनेर्निर्गृह्णाति” (सं. का. ६ प्र. ५ अ. ७) इति।
तत्सवितुर्वरेण्यमित्याम्नातत्वाद्देवानां मध्ये सविता गायत्रीसंबद्धः। आग्रयणश्च गायत्र्याः स्थाने प्रातःसवने गृह्यते। अनेन संबन्धेनाऽऽग्रयणः सावित्रस्य स्वकीयो योनिः।
सावित्रस्य तृतीयसवनसंबन्धं विधत्ते —
“विश्वे देवास्तृतीय सवनं नोदयच्छन्ते सवितारं प्रातःसवनभाग सन्तं तृतीयसवनमभि पर्यणयन्ततो वै ते तृतीय सवनमुदयच्छन्यत्तृतीयसवने सावित्रो गृह्यते तृतीयस्य सवनस्योद्यत्यै” (सं. का. ६ प्र. ५ अ. ७) इति।
विश्वे देवाः स्वकीयं तृतीयसवनमुद्वोढं नाशक्नुवन्। प्रातःसवने भागः सवितुर्युक्तस्तस्य गायत्रत्वात्। तादृशमपि सहकारित्वेन समानीय तृतीयसवनमुदवहन्। अतोऽत्र सावित्रो युक्तः।
वैश्वदेवग्रहं विधत्ते —
“सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति वैश्वदेवयो वै प्रजा वैश्वदेवः कलशः सविता प्रसवानामीशे यत्सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति सवितृप्रसूत एवास्मै प्रजाः प्र जनयति” (सं. का. ६ प्र. ५ अ. ७) इति।
यद्यपि पूर्वमन्तर्यामपात्रं तथाऽपीदानीं सवितृपात्रं संपन्नम्। कलशाद्द्रोण-कलशात्। प्रजानां विश्वैर्देवैः पाल्यत्वेन वैश्वदेवत्वम्। सर्वदेवसाधारणसोमाधारत्वात्कलशस्य वैश्वदेवत्वम्।
“(सावित्रशेषे) सोमे सोममभि गृह्णाति रेत एव तद्दधाति”(सं. का. ६ प्र. ५ अ. ७) इति।
अत एव मन्त्रे सुप्रतिष्ठान इत्येतदुपपन्नमित्याह —
“सुशर्माऽसि सुप्रतिष्ठान इत्याह सोमे हि सोममभिगृह्णाति प्रतिष्ठित्यै” (सं. का. ६ प्र. ५ अ. ७) इति।
मन्त्रपदानां किंचिद्विशेषविषयत्वं दर्शयति —
“एतस्मिन्वा अपि ग्रहे मनुष्येभ्यो देवेभ्यः पितृभ्यः क्रियते सुशर्माऽसि सुप्रतिष्ठान इत्याह मनुष्येभ्य एवैतेन करोति बृहदित्याह देवेभ्य एवैतेन करोति मम इत्याह पितृभ्य एवैतेन करोत्येतावतीर्वै देवतास्ताभ्य एवैनं सर्वाभ्यो गृह्णाति”
(सं. का. ६ प्र. ५ अ. ७) इति। अपि वैतस्मिन्नेव वैश्वदेवग्रहे मन्त्रपदैर्मनुष्यादीनां सूचितत्वात्सर्वार्थमिदं ग्रहणम्। तत्र सुशर्मशब्देन समीचीनसुखार्थिनो मनुष्याः सूचिताः। बृहच्छब्देनाधिकमहिमोपेता देवाः। नमःशब्देन नमस्कारप्रियाः पितरः।
सादनमन्त्रे विश्वेभ्य इत्येतत्सर्वार्थत्वाद्युक्तमित्याह —
“एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्याह वैश्वदेवो ह्येषः” (सं. का. ६ प्र. ५ अ. ७) इति।
पात्नीवतस्य ग्रहस्य पात्रं विधत्ते —
“प्राणो वा एष यदुपांशुर्यदुपांशुपात्रेण प्रथमश्चोत्तमश्च ग्रहौ गृह्येते प्राणमेवानु प्रयन्ति प्राणमनूद्यन्ति” (सं. का. ६ प्र. ५ अ. ८) इति।
उपांशोः प्राणत्वं पूर्वमुक्तम्। वाचस्पतये पवस्वेत्यनेन गृहीतः प्रथमो ग्रहः। बृहस्पतिसुतस्येति गृह्यमाणश्चोत्तमो ग्रहः। यद्यपि दधिग्रहः पूर्वभावो तथाऽपि नासौ सोमग्रहः। अदाभ्यांशू सोमग्रहावपि न तौ नित्यौ। तस्मान्नित्येषु सामग्रहेषूपांशुरेव प्रथमः। हारियोजनस्य पश्चाद्भावित्वेऽप्यग्निष्टोमसाम्नि समाप्ते सति यज्ञशेषत्वेनानुष्ठानम्। तस्मादग्निष्टोमापेक्षया पात्नीवतस्योत्तमत्वम्।तयोः प्रथमोत्तमयोरुपांशुपात्रेण ग्रहणं कुर्यात्। तथा सति प्राणमेवानुसृत्य प्रयन्ति प्रारभन्ते। उद्यन्ति समापयन्ति।
पात्नीवतग्रहं विधत्ते —
“प्रजापतिर्वा एष यदाग्रयणः प्राण उपांशुः पत्नीः प्रजाः प्र जनयन्ति यदुपांशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति प्रजानां प्रजननाय तस्मात्प्राणं प्रजा अनु प्र जायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।
पत्नीरिति प्रथमा। प्राणमनु प्राणयुक्ताः प्रजा उत्पद्यन्ते।
विहितं ग्रहं प्रशंसति —
“देवा वा इतइतः पत्नीः सुवर्गं लोकमाजिगांसन्ते सुवर्गं लोकं प्राजानन्त एतं पात्नीवतमपश्यन्तमगृह्णत ततो वै ते सुवर्गं लोकं प्राजानन्यत्पात्नीवतो गृह्यते सुवर्गस्य लोकस्य प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ८) इति।
(देवाः) पत्नीरित इतः पात्नीवतग्रहमुपेक्ष्यान्यस्माद्ग्रहात् (स्वर्गं ज्ञातिमिच्छन्तोऽपि न प्रज्ञातवन्तः। पात्नीवतग्रहणेन तु प्रज्ञातवन्तः।) इत्येतद्ग्रहो गृह्यते।
एतद्गृहे घृतमेलनं विधत्ते —
“स सोमो नातिष्ठत स्त्रीभ्यो गृह्यमाणस्तं घृतं वज्रं कृत्वाऽघ्नन्तं निरिन्द्रियं भूतमगृह्णन्तस्मात्स्त्रियो निरिन्द्रिया अदायादीरपि पापात्पुस उपस्तितरं वदन्ति यद्घृतेन पात्नीवत श्रीणाति वज्रेणैवैनं वशे कृत्वा गृह्णाति”(सं. का. ६ प्र. ५ अ. ८) इति।
नातिष्ठत स्त्रीदेवताकत्वमसहमानः स्वात्मानं न प्रकाशितवान्। अघ्नन्नताड-यन्। निरिन्द्रियं भूतं निर्वीर्यं जातम्। यस्मात्स्त्रीदेवताभ्यो गृह्यमाणः सोमो निःसामर्थ्यस्तस्माल्लोके स्त्रियः सामर्थ्यरहिता अपत्येषु दायभाजो न भवन्ति। पापात्पतितादपि पुंसोऽप्युपस्तितरं क्षीणतरं स्त्रीस्वरूपं वदन्ति।
आम्नातस्य बृहस्पतिसुतस्येति मन्त्रस्य शेषं पूरयित्वा व्याचष्टे —
“उपयामगृहीतोऽसीत्याहेयं वा उपयामस्तस्मादिमां प्रजा अनु प्र जायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।
उपेताः प्रजा यच्छति उत्पादधारणादिना व्यवस्थापयतीत्युपयामो भूभागविशेषः।
बृहस्पतिशब्दस्यैव प्रयोगेऽभिप्रायमाह —
“बृहस्पतिसुतस्य त इत्याह ब्रह्म वै देवानां बृहस्पतिब्रर्ह्मणैवास्मै प्रजाः प्र जनयति” (सं. का. ६ प्र. ५ अ. ८) इति।
इन्दुशब्दो द्रवत्वसाम्येन रेत उपलक्षयतीत्याह —
“इन्दो इत्याह रेतो वा इन्दू रेत एव तद्दधाति” (सं. का. ६ प्र. ५ अ. ८) इति।
इन्द्रियशब्देन तत्कार्यभूताः प्रजा उपलक्षन्त इत्याह —
“इन्द्रियाव इत्याह प्रजा वा इन्द्रियं प्रजा एवास्मै प्र जनयति” (सं. का. ६ प्र. ५ अ. ८) इति।
अग्निशब्दपत्नीवच्छब्दयोरभिप्रायं दर्शयति —
“अग्ना३ इत्याहाग्निर्वै रेतोधाः पत्नीव इत्याह मिथुनत्वाय” (सं. का. ६ प्र. ५ अ. ८) इति।
त्वष्टृशब्दप्रयोजनमाह —
“सजूर्देवेन त्वष्ट्रा सोमं पिबेत्याह त्वष्टा वै पशूनां मिथुनाना रूपकृद्रूपमेव पशुषु दधाति” (सं. का. ६ प्र. ५ अ. ८) इति।
पात्नीवतग्रहस्य होममन्त्रे त्वष्टुः परामर्शो न युक्त इति शङ्कां वारयति —
“देवा वै त्वष्टारमजिघासन्त्स पत्नीः प्रापद्यत तं न प्रति प्रायच्छन्तस्मादपि वध्यं प्रपन्नं न प्रति प्र यच्छन्ति तस्मात्पात्नीवते त्वष्ट्रेऽपि गृह्यते”(सं. का. ६ प्र. ५ अ. ८) इति।
यस्मात्पत्नीः शरणं गतस्तस्मात्त्वष्टा पत्नीरनुभागी भवति।
सादनस्य प्रसक्तौ तद्वारयति —
“न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।
अनुवषट्कारे तूपांशुत्वगुणं विधत्ते —
“नानु वषट्करोति यदनुवषट्कुर्याद्रुद्रं प्रजा अन्ववसृजेद्यन्नानुवषट्कुर्यादशा-न्तमग्नीत्सोमं भक्षयेदुपाश्वनु वषट्करोति न रुद्रं प्रजा अन्ववसृजति शान्तम-ग्नीत्सोमं भक्षयति” (सं. का. ६ प्र. ५ अ. ८) इति।
अन्ववसृजेदनुप्राप्य सृष्टिं वारयेत्। अशान्तमनिष्टकरम्।
अग्नीन्नेष्ट्रोरध्वर्योः प्रैषमन्त्रमुत्पादयति —
“अग्नीन्नेष्टुरुपस्थमा सीद नेष्टः पत्नीमुदानयेत्याहाग्नीदेव नेष्टरि रेतो दधाति नेष्टा पत्नियाम्” (सं. का. ६ प्र. ५ अ. ८) इति।
हे आग्नीध्र नेष्टुः समीपमागत्योपविश। हे नेष्टः पत्नीमुत्थाप्येहाऽऽनय। अनेन प्रैषद्वयेन रेतः प्रजोत्पादनसामर्थ्योपेतं स्थापितं भवति।
नेष्टुकारयितृकमुद्गातृकर्तृकं पत्नीविषयं दर्शनं विधत्ते —
“उद्गात्रा सं ख्यापयति प्रजापतिर्वा एष यदुद्गाता प्रजानां प्रजननाय” (सं. का. ६ प्र. ५ अ. ८) इति।
पत्नीकर्तृकं पन्नेजनीसंज्ञकजलस्य प्रवर्तनं विधत्ते —
“अप उप प्र वर्तयति रेत एव तत्सिञ्चति” (सं. का. ६ प्र. ५ अ. ८) इति।
प्रवर्तनाय तज्जलप्रक्षेपस्य स्थानं विधत्ते –
“ऊरुणोप प्र वर्तयत्यूरुणा हि रेतः सिच्यते” (सं. का. ६ प्र. ५ अ. ८) इति।
ऊरुप्रदेशे वस्त्रापनयनं विधत्ते —
“नग्नंकृत्योरुमुप प्र वर्तयति यदा हि नग्न ऊरुर्भवत्यथ मिथुनी भवतोऽथ रेतः सिच्यतेऽथ प्रजाः प्र जायन्ते” (सं. का. ६ प्र. ४अ. ८) इति।
हारियोजनग्रहविधिमर्थवादेनोन्नयति —
“इन्द्रो वृत्रमहन्तस्य शीर्षकपालमुदौब्जत्स द्रोणकलशोऽभवत्तस्मात्सोमः सम-स्रवत्स हारियोजनोऽभवत्” (सं. का. ६ प्र. ५ अ. ९) इति।
उदौब्जदुत्तानमभवत्। तस्माद्वृत्रशिरसो निष्पन्नाद्द्रोणकलशात्सृतः सोमरसो हारियोजनोऽभवत्। तस्माद्द्रोणकलशेन हारियोजनं गृह्णीयात्।
धानामेलनं विधत्ते —
“तं व्यचिकित्सज्जुहवानी३ मा हौषा३मिति सोऽमन्यत यद्धोष्याम्यामहोष्यामि यन्न होष्यामि यज्ञवेशसं करिष्यामीति तमध्रियत होतु सोऽग्निरब्र-वीन्न मय्याम होष्यसीति तं धानाभिरश्रीणात्त शृतं भूतमजुहोद्यद्धानाभिर्हारि योजन श्रीणाति शृतत्वाय शृतमेवैनं भूतं जुहोति” (सं. का. ६ प्र. ५ अ. ९) इति।
तं हारियोजनं ग्रहं प्रति। आममपक्वम्। यज्ञवेशसं यज्ञविघातम्। स इन्द्रस्तं ग्रहं होतुमध्रियत निश्चयमकरोत्। न होष्यसि मा हौषीः। शृतं भूतं पक्वं जातम्।
धानानां बाहुल्यं विधत्ते —
“बह्वीभिः श्रीणात्येतावतीभिरेवास्यमुष्मिल्ँ लोके कामदुघा भवन्त्यथो खल्वा-हुरेता वा इन्द्रस्य पृश्नयः कामदुघा यद्धारियोजनीरिति तस्माद्बह्वीभिः श्रीणी-यात्” (सं. का. ६ प्र. ५ अ. ९) इति।
संख्यया यावत्यो धानास्तावत्यो यजमानस्य स्वर्गे कामधेनवो भवन्ति। किंच हारियोजनीर्धाना इन्द्रस्य कामधेनवः। पृश्नयोऽल्पतनवः।
सवनीयस्य पशोः परिधिषु प्रहृतेषु हारियोजनकाल इत्येतद्विधत्ते —
“ऋक्सामे वा इन्द्रस्य हरी सोमपानौ तयोः परिधय आधनं यदप्रहृत्य परि-धीञ्जुहुयादन्तराधानाभ्यां घासं प्र यच्छेत्प्रहृत्य परिधीञ्जुहोति निराधानाभ्यामेव घासं प्र यच्छति” (सं. का. ६ प्र. ५ अ. ९) इति।
ऋक्सामवेदात्मकाविन्द्रस्याश्वौ। तावप्यत्र सोमं पिबतः। अत एव हर्योर्धाना इत्युक्तम्। सवनीयपश्वङ्गभूता ये परिधयोऽग्निं परित आवृत्य तिष्ठन्ति ते तयो-रश्वयोराधानम्। आधीयते मुखे प्रक्षिप्यतेऽश्वं नियन्तुमित्याधानं खलीनम्। मुखस्यान्तः स्थितमाधानं ययोरश्वयोस्ताभ्यामन्तराधानाभ्याम्। परिधिप्रहरणादूर्ध्वं होमे निराधानत्वात्सुखेनैव घासमत्तुं शक्यते।
नात्राध्वर्योर्होमः किंतून्नेतुरित्यमुमर्थं विधत्ते —
“उन्नेता जुहोति यातयामेव ह्येतर्ह्यध्वर्युः स्वगाकृतो यदध्वर्युर्जुहुयाद्यथा विमुक्तं पुनर्युनक्ति तादृगेव तत्” (सं. का. ६ प्र. ५ अ. ९) इति।
एतस्मिन्कालेऽध्वर्युर्यस्मात्स्वगाकृतः स्वाधीनगतिः कृतः प्रधानग्रहाणां समाप्तत्वेन पारतन्त्र्याभावात्तस्मादयं गतसाररूप इव। तथा सत्यध्वर्योर्होमे विमुक्तस्य बलीवर्दस्य श्रान्तस्य पुनः शकटे योग इव भवति।
गृहीतस्य हारियोजनस्य होमात्पूर्वं शिरसि धारणं विधत्ते —
“शीर्षन्नधिनिधाय जुहोति शीर्षतो हि स समभवत्” (सं. का. ६ प्र. ५ अ. ९) इति।
होमकालेष्वाश्रावणदेशादीषत्पुरतो वलनं कृत्वा होतव्यमिति विधत्ते —
“विक्रम्य जुहोति विक्रम्य हीन्द्रो वृत्रमहन्त्समृद्ध्यै” (सं. का. ६ प्र. ५ अ. ९) इति।
भक्षणकाले हारियोजनधानानां मानसं चर्वणं विधत्ते —
“पशवो वै हारियोजनीर्यत्संभिन्द्यादल्पा एनं, पशवो भुञ्जन्त उप तिष्ठेरन्यन्न संभिन्द्याद्बहव एनं पशवोऽभुञ्जन्त उप तिष्ठेरन्मनसा सं बाधत उभयं करोति बहव एवैनं पशवो भुञ्जन्त उप तिष्ठन्ते” (सं. का. ६ प्र. ५ अ. ९) इति।
पशुप्राप्तिहेतुत्वाद्धानाः पशवः। संभिन्द्याद्दन्तैः खण्डयेत्। तथा सति कतिचिदेव पशव एनं यजमानं क्षीरदानादिभिः पालयन्ति। मानसचर्वणे तु संभेदनमसंभेदनं चेत्युभयस्य कृतत्वात्पशूनां नाल्पत्वं नापि क्षीरादिराहित्यम्।
उन्नेतृहस्तगतं हुतशेषं सर्वे भक्षयितुमुन्नेतुरनुज्ञामपेक्षेरन्निति विधत्ते –
“उन्नेतर्युपहवमिच्छन्ते य एव तत्र सोमपीथस्तमेवाव रुन्धते” (सं. का. ६ प्र. ५ अ. ९) इति।
सर्वभक्षितावशेषाणां द्रोणकलशगतसोमानां निनयनं विधत्ते —
“उत्तरवेद्यां नि वपति पशवो वा उत्तरवेदिः पशवो हारियोजनीः पशुष्वेव पशून्प्रति ष्ठापयन्ति” (सं. का. ६ प्र. ५ अ. ९) इति।
ग्रहहोमे परिसमाप्ते सति ग्रहान्प्रशंसति —
“ग्रहान्वा अनु प्रजाः पशवः प्र जायन्ते” (सं. का. ६ प्र. ५ अ. १०) इति।
एतदेव विस्पष्टयति —
“उपाश्वन्तर्यामावजावयः शुक्रामन्थिनौ पुरुषा ऋतुग्रहानेकशफा आदित्यग्रहं गावः” (सं. का. ६ प्र. ५ अ. १०) इति।
आदित्यग्रहस्य गवां च सादृश्यप्रकटनेन ग्रहमनु गवां जन्मोपपादयति —
“आदित्यग्रहो भूयिष्ठाभिग्भिर्गृह्यते तस्माद्गावः पशूनां भूयिष्ठाः” (सं. का. ६ प्र. ५ अ. १०) इति।
कदा चन स्तरीरसीत्यादिका ऋचो भूयिष्ठाः।
उपांशुग्रहमनु जातानामजानां ग्रहेण सह त्रित्वसाम्यं दर्शयति —
“यत्त्रिरुपाशु हस्तेन विगृह्णाति तस्माद्द्वौ त्रीनजा जनयति” (सं. का. ६ प्र. ५ अ. १०) इति।
द्वौ वा त्रीन्वा न तु त्रिभ्योऽधिकमपत्यं सा सह जनयति।
यस्मादन्तर्यामग्रहे संकोचसंख्याविशेषो न श्रुतस्तस्मात्तमनु जायमानानामवीनां भूयिष्ठत्वं युगपद्युक्तनित्याह — “अथावयो भूयसीः” (सं. का. ६ प्र. ५ अ. १०) इति।
अथ कथंचिदाग्रयणसोमः क्षीयेत तदा द्रोणकलशात्तद्ग्रहणं विधत्ते —
“पिता वा एष यदाग्रयणः पुत्रः कलशो यदाग्रयण उपदस्येत्कलशाद्गृ-ह्णीयाद्यथा पिता पुत्रं क्षित उपधावति तादृगेव तत्” (सं. का. ६ प्र. ५ अ. १०) इति।
प्रथमोत्पन्नत्वादाग्रयणः पिता। पश्चाद्भावितया कलशः पुत्रः। क्षितः क्षीणवृत्तिः। उपधावति जीवनार्थमुपसर्पति।
कलशसोमक्षये वैपरीत्यं विधत्ते —
“यत्कलश उपदस्येदाग्रयणाद्गृह्णीयाद्यथा पुत्रः पितरं क्षित उपधावति तादृगेव तत्” (सं. का. ६ प्र. ५ अ. १०) इति।
कलशन्यायं ग्रहेऽपि दर्शयति —
“आत्मा वा एष यज्ञस्य यदाग्रयणो यद्ग्रहो वा कलशो वोपदस्येदाग्रय-णाद्गृह्णीयादात्मन एवाधि यज्ञं निष्करोति” (सं. का. ६ प्र. ५ अ. १०) इति।
यज्ञमध्यवर्तित्वादाग्रयणो यज्ञस्याऽऽत्मा दृष्टान्तत्वेन कलशस्य पुनरुपादानम्। नष्टं यज्ञमनेन ग्रहणेनाऽऽत्मन उपरि पुनः संदधाति।
अथ स्थाल्या होमसाधनत्वाभावेन तां निन्दन्निव होमसाधनं दारुपात्रं प्रशंसति —
“अविज्ञातो वा एष गृह्यते यदाग्रयणः स्थाल्या गृह्णाति वायव्येन जुहोति तस्माद्गर्भेणाविज्ञातेन ब्रह्महा” (सं. का. ६ प्र. ५ अ. १०) इति।
आ वायो भूषेत्यादिग्रहणमन्त्रेषु यथा देवता स्वानामविशेषेण विज्ञायते न तथा ये देवा दिव्येकादश स्थेत्यत्र, नामविशेषाश्रुतेः। तस्मादविज्ञात आग्रयणः स्थाल्या मृन्मय्या गृह्णात्येव न तु जुहोति। वायव्येन तु दारुपात्रेण जुहोति। यस्माद्ये देवा इतिमन्त्रोक्ताविज्ञातनामकांस्त्रयस्त्रिंशतो देवानुद्दिश्य स्थाल्या गृहीतः सोमो ग्रहणमात्रेण तद्देवतातृप्तावपि होमाभावत्परित्यक्त इव तस्माल्लोकेऽप्यविज्ञातेन गर्भेण ब्रह्महा भवति। प्रोषिते भर्तरि जारजन्यो गर्भो भर्तारं प्रत्यविज्ञातस्तेन गर्भेणोत्पन्नं ब्रह्म जहाति परित्यजतीति ब्रह्महा। अविज्ञातयोर्गर्भाग्रयणयोः परित्यागस्तुल्यः। तं च स्थालीगतं सोमं पुनर्दारुमयेऽन्तर्यामपात्रे सवित्रर्थं गृहीत्वा जुहोति। ततो दारुपात्रं प्रशस्तम्।
प्रकारान्तरेण दारुपात्राणि प्रशंसति —
“अवभृथमव यन्ति परा स्थालीरस्यन्त्युद्वायव्यानि हरन्ति तस्मात्स्त्रियं जातां पराऽस्यन्त्युत्पुमास हरति” (सं. का. ६ प्र. ५ अ. १०) इति।
यदाऽवभृथं गच्छन्ति तदानीमाग्रयणोक्थ्यध्रुवादित्यस्थालीश्चतस्रो वेद्यामेव परास्यन्ति परित्यजन्ति। वायव्यानि दारुपात्राण्युद्धरन्त्यवभृथदेशे नयन्ति। तस्मात्स्थालीवल्लोकेऽपि स्त्रियं दुहितरं विवाहेन वरकुले परित्यजन्ति। पुमांसं वायव्यवदुद्धरन्ति सम्यक्पोषयन्ति।
पुरोरुचं ग्रहणं सादनं च क्रमेण प्रशंसति —
“यत्पुरोरुचमाह यथा वस्यस आहरति तादृगेव तद्यद्ग्रहं गृह्णाति यथा वस्यस आहृत्य प्राऽऽह तादृगेव तद्यत्सादयति यथा वस्यस उपनिधायापक्रामति तादृगेव तत्” (सं. का. ६ प्र. ५ अ. १०) इति।
उपयामगृहीतोऽसीत्येतस्मात्पूर्वं पठ्यमानत्वादा वायो भूषेत्यादिका पुरोरुक्। वस्यसे वसुमत्तमाय राजामात्यादिकाय। यथा लोके धनिकायोपायनमाहृत्यैतदेव ममेत्युक्त्वा पुरतो निधाय गच्छन्ति तथा पुरोरुगादित्रयं द्रष्टव्यम्।
यजुःसामनी निन्दन्निव पुरोरुचं प्रशंसति —
“यद्वै यज्ञस्य साम्ना यजुषा क्रियते शिथिलं तद्यदृचा तद्दृढं पुरस्तादुपयामा यजुषा गृह्यन्त उपरिष्टादुपयामा ऋचा यज्ञस्य धृत्यै” (सं. का. ६ प्र. ५ अ. १०) इति।
यज्ञसंबन्धि यदङ्गं यजुःसामभ्यां क्रियते तद्धि शिथिलमिव। वेदेषु सर्वत्र विश्वासाय तदेतदृचाऽभ्युक्तमित्यृच एवोदाहरणात्। उपयामगृहीतोऽस्यन्तर्यच्छ मघवन्नित्यादिमन्त्रैर्गृह्यमाणाः पुरस्तादुपयामाः। आ वायो भूषेत्यादिभिस्तूपरिष्टादुपयामाः। तत्र यजुषो दार्ढ्यार्थमुपयामपूर्वत्वम्। ऋचस्तु स्वयमेव दृढत्वान्न तत्पूर्वत्वम्। तदुभयं यज्ञस्य धृत्यै भवति।
सोमपात्राणि प्रशंसितुं द्वेधा विभजति —
“प्रान्यानि पात्राणि युज्यन्ते नान्यानि” (सं. का. ६ प्र. ५ अ. १०) इति।
कानिचित्पात्राणि प्रकर्षेण युज्यन्तेऽनुष्ठीयन्ते पुनरावर्त्यन्त इत्यर्थः। यथा - उपांश्वन्तर्यामपात्रयोः प्रातःसवने प्रयुक्तयोः पुनस्तृतीयसवनेऽपि प्रयोगः। “यदुपाशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति” “अन्तर्यामपात्रेण सावित्रमाग्र-यणाद्गृह्णाति” इत्याम्नातत्वात्। अन्यानि तु नाऽऽवर्त्यन्ते किंतु सकृदेवा-नुष्ठीयन्ते। तद्यथा — द्विदेवत्यग्रहादीनि तेषु सकृदनुष्ठितेषु स्वर्गजयः।
आवृत्तेस्त्वेतल्लोकजय इति प्रशंसति —
“यानि पराचीनानि प्रयुज्यन्तेऽमुमेव तैर्लोकमभि जयति पराङिव ह्यसौ लोको यानि पुनः प्रयुज्यन्त इममेव तैर्लोकमभि जयति पुनः पुनरिव ह्ययं लोकः” (सं. का. ६ प्र. ५ अ. १०) इति।
पराचीनान्यनिवृत्तानि। स्वर्गः पराङिवानावृत्त इव। स्वर्गे स्थितस्यापि पुनर्जन्मान्तरेऽपि स्वर्गं प्राप्तुमुद्योगासंभवात्। मनुष्यलोके स्थितस्य पुनरेतदर्थ-मुद्यमोऽस्तीति तस्य पौनःपुन्यम्।
प्रकारान्तरेण प्रशंसति —
“प्रान्यानि पात्राणि युज्यन्ते नान्यानि यानि पराचीनानि प्रयुज्यन्ते तान्यन्वोषधयः परा भवन्ति यानि पुनः प्रयुज्यन्ते तान्यन्वोषधयः पुनरा भवति” (सं. का. ६ प्र. ५ अ. १०) इति।
फलपाके विनाशः पराभवः। संवत्सरान्ते तदुत्पक्तिः पुनराभवनम्।
प्रकारान्तरेण प्रशंसति —
“प्रान्यानि पात्राणि युज्यन्ते नान्यानि यानि पराचीनानि प्रयुज्यन्ते तान्यन्वारण्याः पशवोऽरण्यमप यन्ति यानि पुनः प्रयुज्यन्ते तान्यनु ग्राम्याः पशवो ग्राममुपावयन्ति” (सं. का. ६ प्र. ५ अ. ११) इति।
आरण्या व्याघ्रादयोऽरण्यमेवो(वा)पयन्ति न कदाचिदपि ग्रामम्। ग्राम्यास्तु गवादयस्तृणमत्तुमरण्यं गत्वा पुनर्ग्रामं प्रत्यागच्छन्ति।
शस्त्रं प्रशंसति —
“यो वै ग्रहाणां निदानं वेद निदानवान्भवत्याज्यमित्युक्थं तद्वै ग्रहाणां निदानं यदुपाशु शसति तदुपाश्वन्तयार्मयोर्यदुच्चैस्तदितरेषां ग्रहाणामेतद्वै ग्रहाणां निदानं य एवं वेद निदानवान्भवति” (सं. का. ६ प्र. ५ अ. ११) इति।
आज्यमित्युक्थमाज्यप्रउगादिनामकं शस्त्रं, प्रशंसाद्वारा ग्रहानुष्ठानप्रयोजक-त्वाद्ग्रहाणां निदानं मूलकारणम्। तदेतद्यो वेद स निदानवांश्चिरजीविभिर्मा-तापितृस्वामिभिः संयुक्तो भवति। शस्त्रेष्वषि यदुपांशु शस्यते तद्द्वयोर्ग्रहयो-र्निदानं, यदुच्चैस्तदितरेषां सर्वेषामित्येवं विशेषं जानतोऽपि तदेव फलम्।
स्थालीवायव्यरूपं द्वंद्वं प्रशंसति —
“यो वै ग्रहाणां मिथुनं वेद प्र प्रजया पशुभिर्मिथुनैर्जायते स्थालीभिरन्ये ग्रहा गृह्यन्ते वायव्यैरन्य एतद्वै ग्रहाणां मिथुनं य एवं वेद प्र प्रजया पशुभिर्मिथुनैर्जायते” (सं. का. ६ प्र. ५ अ. ११) इति।
आग्रयणोक्थ्यादिग्रहाः स्त्रीरूपाभिर्मृन्मयस्थालीभिर्गृह्यन्ते। उपांश्वन्तर्यामा-दिग्रहास्तु पुरुषरूपैर्वायव्यैः। वेदने तु मनुष्यमिथुनैः पशुमिथुनैश्च प्रजायते युक्तो भवति। य एवं वेदेति पुनरभिधानमुपसंहारार्थम्।
“इन्द्रस्त्वष्टुः सोममभीषहाऽपिबत्स विष्वङ्व्यार्च्छत्स आत्मन्नारमणं नाविन्दत्स एताननुसवनं पुरोडाशानपश्यत्तान्निरवपत्तैर्वै स आत्मन्नारमणमकुरुत तस्मादनुसवनं पुरोडाशा निरुप्यन्ते तस्मादनुसवनं पुरोडाशानां प्राश्नीयादात्मन्नेवाऽऽरमणं कुरुते नैन सोमोऽति पवते” (सं. का. ६ प्र. ५ अ. ११) इति।
इन्द्रेण विश्वरूपाभिधे त्वष्टुः पुत्रे हते सति कुपितस्त्वष्टा विनेन्द्रं सोमयागं कर्तुं प्रवृत्तस्तदानीमिन्द्रोऽभीषहा बलादेवापिबत्। स इन्द्रः सहसा पीतस्य सोमस्योदरमध्य इतस्ततो विधावनाद्व्यर्च्छद्विविर्धार्तिमाप्नोत्। तेनाऽऽर्तः स इन्द्रः स्वात्मनि सुखं नालभत। ततस्त्रिष्वपि सवनेषु सवनीयपुरोडाशैः सुखं प्राप्तवान्। तस्मात्पुरोडाशान्निरुप्य तच्छेषभक्षणेन सुखं भवति। सोमश्चैनं नातिपवते नेतस्ततः संचारेण बाधते।
तेषु सवनीयपुरोडाशेषु पञ्चद्रव्यविधिमर्थवादेनोन्नयति —
“ब्रह्मवादिनो वदन्ति नर्चा न यजुषा पङ्क्तिराप्यतेऽथ किं यज्ञस्य पाङ्क्तत्वमिति धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पङ्क्तिराप्यते तद्यज्ञस्य पाङ्क्तत्वम्” (सं. का. ६ प्र. ५ अ. ११) इति।
पञ्चाक्षरा पङ्क्तिरित्याम्नानात्पञ्चसंख्यायोगेन पाङ्क्तत्वं वक्तव्यम्। ऋचो यजुषो वा नास्ति काचिन्नियता पञ्चसंख्या। न च मा भूत्पाङ्क्तत्वमिति वाच्यम्। पाङ्क्तो यज्ञ इति सर्वत्रोद्घोषणात्। अतः किं पाङ्क्तत्वमिति प्रश्नः। धानादिद्रव्येषु नियतया पञ्चसंख्यया पाङ्क्तत्वामित्युक्तरम्। (भृ) ष्टा यवा धानाः। आज्यसंयुक्ताः सक्तवः करम्भः। व्रीहिजन्या लाजाः परिवापः। पिष्टविकारःपुरोडाशः। क्षीरविकारः पयस्या।