उपयजो विधत्ते —
‘यज्ञेन वै प्रजापतिः प्रजा असृजत ता उपयड्भिरेवासृजत यदुपयज उपयजति प्रजा एव तद्यजमानः सृजते’ (सं. का. ६ प्र. ४ अ. १) इति।
ज्योतिष्टोमयज्ञस्य सृष्टिसाधनत्वेऽपि साक्षात्साधनत्वमुपयजामेव। अनूयाजसमीप इज्यन्त इत्युपयजः।
पशोः पाश्चात्यभागं द्रव्यत्वेन विधत्ते —
‘जघनार्धादव द्यति जननार्धाद्धि प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. ४) इति।
त्रेधा विभक्ते गुदकाण्डे स्थूलभागं विधत्ते–
‘स्थाविमतोऽव द्यति स्थविमतो हि प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. १) इति।
निर्गन्तुं सुकरात्स्थूलाच्छिद्रात्प्रजा उत्पद्यन्ते।
क्रमेण च्छिन्नानां भागानां सांकर्यं वारयति–
“असंभिन्दन्नव द्यति प्राणानामसंभेदाय” (सं. का. ६ प्र. ४ अ. १) इति।
अग्रभागं प्रथमतोऽवदाय पश्चान्मूलभागमित्येतादृशं विपर्यासं निषेधति –
‘न पर्यावर्तयति यत्पर्यावर्तयेदुदावर्तः प्रजा ग्राहुकः स्यात्’ (सं. का. ६ प्र. ४ अ. १) इति।
उदावर्तो रोगविशेषः।
समुद्रादिमन्त्राणां सर्वेषां प्रजोत्पत्तावुपयोगं विवक्षुः समुद्रजलस्य रेतःसाम्यमभिप्रेत्याऽऽह –
‘समुद्रं गच्छ स्वाहेत्याह रेत एव तद्दधाति’ (सं. का. ६ प्र. ४ अ. १) इति।
अन्तरिक्षशब्दस्यावकाशप्रदानेनोपयोगं दर्शयति–
‘अन्तरिक्षं गच्छ स्वाहेत्याहान्तरिक्षेणैवास्मै प्रजाः प्र जनयत्यन्तरिक्ष ह्यनु प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. १) इति।
प्रेरकत्वेन सवितुरुपयोग इत्याह –
देवसवितारं गच्छ स्वाहेत्याह सवितृप्रसूत एवास्मै प्रजाः प्र जनयति’ (सं. का. ६ प्र. ४ अ. १) इति।
उत्पत्तिकालत्वेनाहोरात्रोपयोगमाह –
‘अहोरात्रे गच्छ स्वाहेत्याहोरात्राभ्यामेवास्मै प्रजाः प्र जनयत्यहोरात्रे ह्यनु प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. १) इति।
प्राणापानप्रदत्वेन मित्रावरुणयोगमाह –
‘मित्रावरुणौ गच्छ स्वाहेत्याह प्रजास्वेव प्राजातासु प्राणापानौ दधाति’ (सं. का. ६ प्र. ४ अ. १) इति।
देवतात्वेन सोमोपयोगमाह –
‘सोमं गच्छ स्वाहेत्याह सौम्या हि देवतया प्रजाः’ (सं. का. ६ प्र. ४ अ. १) इति।
प्रजाप्रदत्वेन यज्ञस्योपयोगमाह –
‘यज्ञं गच्छ स्वाहेत्याह प्रजा एव यज्ञियाः करोति’ (सं. का. ६ प्र. ४ अ. १) इति।
पशुप्रदत्वेन च्छन्दसामुपयोगमाह –
‘छन्दांसि गच्छ स्वाहेत्याह पशवो वै छन्दांसि पशूनेवाव रुन्धे’ (सं. का. ६ प्र. ४ अ. १) इति।
धारणाय द्यावापृथिव्योरुपयोगमाह–
‘द्यावापृथिवी गच्छ स्वाहेत्याह प्रजा एव प्रजाता द्यावापृथिवीभ्यामुभयत परि गृह्णाति’ (सं. का. ६ प्र. ४ अ. १) इति।
वृष्टिप्रदानेन नभस उपयोगमाह –
‘नभो दिव्यं गच्छ स्वाहेत्याह प्रजाभ्य एव प्रजाताभ्यो वृष्टिं नि यच्छति’ (सं. का. ६ प्र. ४ अ. १) इति।
प्रतिष्ठाप्रदानेन वैश्वानरस्योपयोगमाह –
‘अग्निं वैश्वानरं गच्छ स्वाहेत्याह प्रजा एव प्रजाता अस्यां प्रति ष्ठापयति’ (सं. का. ६ प्र. ४ अ. ३) इति।
अद्भ्यस्त्वौषधीभ्य इति मन्त्र उपेक्षितः।
मनो मे हार्दि यच्छेति प्रार्थनायाः प्रसङ्गमाह –
‘प्राणानां वा एषोऽव द्यति योऽवद्यति गुदस्य मनो मे हार्दि यच्छेत्याह प्राणानेव यथास्थानमुप ह्वयते’ (सं. का. ६ प्र. ४ अ. ३) इति।
गुदस्य प्राणाधारत्वेन तदवदाने सति स्थानभ्रष्टाः प्राणाः पुनर्मन्त्रेण यथास्थानं स्थापिता भवन्ति।
शूलोद्वासनं विधत्ते –
‘पशोर्वा आलब्धस्य हृदयं शुगृच्छति सा हृदयशूलमभि समेति यत्पृथिव्या हृदयशूलमुद्वासयेत्पृथिवी शूचाऽर्पयेद्यदप्स्वपः शुचाऽर्यच्छुष्कस्य चाऽऽर्द्रस्य च संधावुद्वासयत्यिभयस्य शान्त्यै’ (सं. का. ६ प्र. ४ अ. १) इति।
उद्वासनकाले ध्यानं विधत्ते –
‘यं द्विष्यात्तं ध्यायेच्छुचैवैनमर्पयति’ (सं. का. ६ प्र. ४ अ. १) इति।
विधत्ते –
‘देवा वै यज्ञमाग्नीध्रे व्यभजन्त ततो यदत्यशिष्यत तदब्रुवन्वसतु नु न इदमिति तद्वसतीवरीणां वसतीवरित्वं तस्मिन्प्रातर्न समशक्नुवन्तदप्सु प्रावेशयन्ता वसतीवरीरभवन्वसतीवरीर्गृह्णाति यज्ञो वै वसतीवरीर्यज्ञमेवाऽऽरण्य गृहीत्वोप वसति’ (सं. का. ६ प्र. ४ अ. २) इति।
पुरा कदाचिद्देवा आग्नीध्रमण्डपे स्थित्वा यज्ञशालामंशेनेदं ममेदं ममेत्येवं व्यभजन्त। ततः सर्वैः स्वस्वभागेषु यदवशिष्टं तदुद्दिश्य परस्परमब्रुवन्निदमवशिष्टमिदानीं साधारण्येनास्माकमेव तिष्ठतु प्रातर्विभागं करिष्याम इति। यस्माद्वसत्विति देवैरुक्तं तस्मात्तस्यांशस्य देवोक्तियोगाद्वसतीवरीरिति नाम संपन्नम्। वसत्वित्युक्त्या यच्छेषभूतं तद्वत्य आपो वसतीवर्यः। ततः प्रातःकाले पुनः समागत्य तस्मिन्नवशिष्टे विभागं कर्तुं नाशक्नुवन्। तस्याल्पत्वेन बहूनामपर्याप्तत्वात्। तस्य साधारणस्यैकेन ग्रहीतुमशक्यत्वादप्सु परित्यक्तवन्तः। ताश्चाऽपो वसतीवर्योऽभवन्। ततो यज्ञांशत्वाद्वसतीवरीर्गृह्णीयात्। तद्ग्रहणेन यज्ञमेवोपक्रम्य दृढं धारयित्वा तत्समीपे वसति।
तस्य ग्रहणस्य सूर्यास्तमयात्पूर्वकालं व्यतिरेकमुखेन विधत्ते –
‘यस्यागृहीता अभि निम्रोचेदनारब्धोऽस्य यज्ञः स्याद्यज्ञं वि च्छिन्द्यात्’ (सं. का. ६ प्र. ४ अ. २) इति।
अगृहीता एता अभिलक्ष्य यन्निम्रोचेदस्तमियात्तदा पूर्वदिने यज्ञोऽनुपक्रान्तो भवेत्। तदाऽपरेद्युरनुष्ठितोऽपि विच्छिन्न एव स्यात्।
कथंचिदस्तमये सति त्रेधा प्रतीकारं विधत्ते–
‘ज्योतिष्या वा गृह्णीयाद्धिरण्यं वाऽवधाय सशुक्राणामेव गृह्णाति यो वा ब्राह्मणो बहुयाजी तस्य कुम्भ्यानां गृह्णीयात्स हि गृहीतवसतीवरीकः’ (सं. का. ६ प्र. ४ अ. २) इति।
उल्कया द्योतिता इत्याद्यः पक्षः। कुम्भे हिरण्यमवधाय तत्सहिता इति द्वितीयः पक्षः। सोमयाजिगृह कुम्भगता इति तृतीयः पक्षः।
उक्तमेव विधिमनूद्य प्रशंसति–
‘वसतीवरीर्गृह्णाति पशवो वै वसतीवरीः पशूनेवाऽऽरभ्य गृहीत्वोप वसति’ (सं. का. ६ प्र. ४ अ. २) इति।
पशुप्राप्तिहेतुतया पशुत्वम्।
ग्रहणकाले प्रवाहाभिमुख्यं विधात्ते–
‘यदन्वीपं तिष्ठन्गृह्णीयान्निर्मार्गुका अस्मात्पशवः स्युः प्रतीपं तिष्ठन्गृह्णाति प्रतिरुध्यैवास्मै पशून्गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।
प्रवाहो यन्मुखस्तन्मुखत्वेनावस्थानमन्वीपत्वं, तद्वैपरीत्यं प्रतीपत्वं,
निर्मार्गुका विनश्वराः, प्रतिरुध्य विनाशं निवार्य।
प्रवाहगतोदकं विधत्ते –
‘इन्द्रो वृत्रमहन्त्सोऽपोऽभ्यम्रियत तासां यन्मेध्यं यज्ञिय सदेवमासीत्तदत्यमुच्यत ता वहन्तीरभवन्वहन्तीनां गृह्णाति या एव मेध्या यज्ञियाः सदेवा आपस्तासामेव गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।
प्रवाहेष्वत्यन्तसमीपस्थं जलं व्यतिरेकमखेण विधत्ते –
‘नान्तमा वहन्तीरतीयाद्यदन्तमा वहन्तीरतीयाद्यज्ञमति मन्येत’ (सं. का. ६ प्र. ४ अ. २) इति।
अन्तमा अन्तिकतमाः। अतिमन्येतावजानीयात्।
वहन्तीष्वपि नदीषु या ह्रदवर्तिन्यः स्थावरा आपो याश्च तटाकादिस्थास्तासां ग्रहणं निषेधति–
‘न स्थावराणां गृह्णीयाद्वरुणगृहीता वै स्थावरा यत्स्थावराणां गृह्णीयाद्वरुणेनास्य यज्ञं ग्राहयेत्’ (सं. का. ६ प्र. ४ अ. २) इति।
अपां ग्रहणाय च्छायातपयोः संधिदेशं विधत्ते–
‘यद्वै दिवा भवत्यपो रात्रिः प्र विशति तस्मात्ताम्रा आपो दिवा ददृश्रे यन्नक्तं भवत्यपोऽहः प्र विशति तस्माच्चन्द्रा आपो नक्तं ददृश्रे छायायै चाऽऽतपतश्च संधौ गृह्णात्यहोरात्रयोरेवास्मै वर्णं गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।
अहर्यदा वर्तते तदानीमप्सु रात्रिः प्रविशति। तत्र जलवर्णस्य शुक्लस्य रात्रिवर्णस्य कृष्णस्य च मेलनादीषत्ताम्रा इवाऽऽपो दिने दृश्यन्ते। यथा राहुग्रस्ते चन्द्रे ताम्रत्वं तद्वत्। यदा तु रात्रिः प्रवर्तते तदानीमहोऽप्सु प्रविशति। तत्र शुक्लवर्णयोर्मेलनादापो रात्रौ चन्द्रवदतिश्वेता दृश्यन्ते। तस्माद्वर्णद्वयोपेते संधिदेशे गृह्णीयात्।
जलविशेषेण मन्त्रगतहविःशब्देन हविःसंपादकत्वं विवक्षितमित्याह–
‘हविष्मतीरिमा आप इत्याह हविष्कृतानामेव गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।
सूर्यशब्देनापां प्रकाशोपेतत्वं विवक्षितमित्याह–
‘हविष्मा अस्तु सूर्य इत्याह सशुक्रणामेव गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।
मन्त्रगतस्य च्छन्दस उपयोगमाह–
‘अनुष्टुभा गृह्णाति वाग्वा अनुष्टुग्वाचैवैनः सर्वया गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।
शालामुखीयोत्तरवेद्योः सादनं विधत्ते –
‘अस्मै वै लोकाय गार्हपत्य आ धीयतेऽमुष्मा आहवनीयो यद्गार्हपत्य उपसादयेदस्मिल्ँ लोके पशुमान्त्स्याद्यदाहवनीयेऽमुष्मिल्ँ लोके पशुमान्त्स्यादुभयोरुप सादयत्युभयोरेवैनं लोकयोः पशुमन्तं करोति’ (सं. का. ६ प्र. ४ अ. २) इति।
स्थानत्रये यत्सूत्रोक्तं परिभ्रामणं तद्विधत्ते–
‘सर्वतः परि हरति रक्षसामपहत्यै’ (सं. का. ६ प्र. ४ अ. ४) इति।
मन्त्रचतुष्टये स्पष्टार्थतां दर्शयति–
‘इद्राग्नियोर्भागधेयीः स्थेत्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. ४ अ. ४) इति।
विधत्ते–
‘आग्निध्र उप वासयत्येतद्वै यज्ञस्यापराजितं यदाग्नीध्रं यदेव यज्ञस्यापराजितं तदेवैना उप वासयति’ (सं. का. ६ प्र. ४ अ. २) इति।
तदेव तस्मिन्नेव। यद्विहितं वहन्तीनां गृह्णातीति तदेव प्रशंसति–
‘यतः खलु वै यज्ञस्य विततस्य न क्रियते तदनु यज्ञ रक्षांस्यव चरन्ति यद्वहन्तीनां गृह्णाति क्रियमाणमेव तद्यज्ञस्य शये रक्षासामनन्ववचाराय’ (सं. का. ६ प्र. ४ अ. २) इति।
विततस्य विस्तीर्णस्य यज्ञस्य यतो यदङ्गं विमृश्य न क्रियते तदेव च्छिद्रमनुप्रविश्य रक्षांस्यवचरन्ति अपकुर्वन्ति वहन्तीग्रहणेन तदङ्गं क्रियमाणमेव शये शेते भवति।
आग्नीध्रे सादितानां तृतीयसवनगताभिषवपर्यन्तं धारणं विधत्ते –
‘न ह्येता ईलयन्त्या तृतीयसवनात्परि शेरे यज्ञस्य संतत्यै’ (सं. का. ६ प्र. ४ अ. २) इति।
एता आपो न ह्यपगमयन्ति, किंतु परिशेरेऽवतिष्ठन्ते, स्थापयेदित्यर्थः।
अत्रोपावहरेदिति विधिं सूचयन्हृदयादिशब्दानां यथोक्तार्थं दर्शयति –
‘ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद्यः सोममुपावहरन्त्सर्वाभ्यो देवताभ्य उपावहरेदिति हृदे त्वेत्याह मनुष्येभ्य एवैतेन करोति मनसे त्वेत्याह पितृभ्य एवैतेन करोति दिवे त्वा सूर्याय त्वेत्याह देवेभ्य एवैतेन करोत्येतावतीर्वै देवतास्ताभ्य एवैन सर्वाभ्य उपावहरति’ (सं. का. ६ प्र. ४ अ. ३) इति।
यो हृदे त्वेति मन्त्रेण सर्वदेवतार्थमुपावहर्तुं जानाति स एव मुख्योऽध्वर्युरिति ब्रह्मवादिनामुक्तिः। सोम राजन्निति मन्त्र उपेक्षितः।
विधत्ते –
‘पुरा वाचः प्रवदितोः प्रातरनुवाकमुपाकरोति यावत्येव वाक्तामव रुन्धे’ (सं. का. ६ प्र. ४ अ. ३) इति।
रात्रौ निद्रां कुर्वन्तो मनुष्या उषःकाले प्रबध्य परस्परं वाक्प्रसरं कुर्वन्ति। पक्षिणः शब्दं कुर्वन्ति। तद्धि वाचः प्रवदनम्। प्रातःकालात्पूर्वं होत्राऽनुवाक्तव्य क्रक्समूहः प्रातरनुवाकः। उपाकरणं नाम होतारं प्रति प्रैषोक्तिः।
प्रातरनुवाकस्य प्रथमामृचं विधत्ते –
‘अपोऽग्रेऽभिव्याहरति यज्ञो वा आपो यज्ञमेवाभि वाचं वि सृजति’ (सं. का. ६ प्र. ४ अ. ३) इति।
अपोऽभिलक्ष्य तत्प्रतिपादिकामृचमग्रे प्रथमं व्याहरेत्। आपो रेवतीः क्षयथा हि वस्व इत्येतामृचमित्यर्थः।
तत ऊर्ध्वं वक्तव्या ऋचो विधत्ते –
‘सर्वाणि छन्दांस्यन्वाह पशवो वै छन्दांसि पशूनेवाव रुन्धे’ (सं. का. ६ प्र. ४ अ. ३) इति।
तत्तच्छन्दोयुक्ता ऋग्विशेषा ग्रन्थबाहुल्यभयाद्बह्वृचब्राह्मणे स्पष्टत्वाच्च नात्र प्रदर्श्यन्ते।
प्रातरनुवाकसमाप्तौ पठनीयामृचं कामनाभेदेन विकल्पितां विधत्ते –
‘गायत्रिया तेजस्कामस्य परि दध्यात्त्रिष्टुभेन्द्रियकामस्य जगत्या पशुकामस्यानुष्टुभा प्रतिष्ठाकामस्य पङ्क्त्या यज्ञकामस्य विराजाऽन्नकामस्य’ (सं. का. ६ प्र. ४ अ. ३) इति।
परिदध्यात्समापयेत्।
अग्न्यादिश्रवणप्रयोजनमाह –
‘शृणोत्वग्निः सभिधा हवं म इत्याह सवितृप्रसूत एव देवताभ्यो निवेद्यापोऽच्छैति’ (सं. का. ६ प्र. ४ अ. ३) इति।
एकधनसंज्ञकाः पन्नेजनीसंज्ञकाश्चाऽऽप आनेतव्याः। अतो मन्त्रेण देवताभ्यो विज्ञाप्य ता अपः प्राप्तुं गच्छति।
प्रैषमन्त्रमुत्पादयति –
‘अप इष्य होतरित्याहेषित हि कर्म क्रियते’ (सं. का. ६ प्र. ४ अ. ३) इति।
हे होतरानेतव्या अप उद्दिश्य प्र देवत्रा ब्रह्मणे गातुरेत्वित्यादिका ऋच इष्य पठेत्यर्थः। लोकेऽपीषितमभीष्टं कर्म सम्यक्क्रियते’
प्रैषान्तरमुत्पादयति –
‘मैत्रावरुणस्य चमसाध्वर्यवा द्रवेत्याह मित्रावरुणौ वा अपां नेतारौ ताभ्यामेवैना अच्छैति’ (सं. का. ६ प्र. ४ अ. ३) इति।
चमसिनामृत्विजां परिचारकाश्चमसाध्वर्यवः। तत्र मेत्रावरुणनाम्न ऋत्विजो यश्चमसाध्वर्युस्तं संबोध्याऽऽगच्छेति ब्रूयात्। तदनेन प्रैषेणोदकप्रवर्तकमित्रावरुणदेवद्वयेन सहैवैना अपः प्राप्तुं गच्छति।
ग्रहीष्यमाणानामपां मूल्यत्वेन हविष्ट्वसंपादनेन चेयमाहुतिरुपयुज्यत इत्याह –
‘देवीरापो अपां नपादित्याऽऽहाहुत्यैवैना निष्क्रीय गृह्णात्यथो हविष्कृतानामेवाभिघृतानां गृह्णाति’ (सं. का. ६ प्र. ४ अ. ३) इति।
एतमर्थं दर्शयति –
‘कार्षिरसीत्याह शमलमेवाऽऽसामप प्लावयति’ (सं. का. ६ प्र. ४ अ. ३) इति। शमलं मलिनांशम्।
अक्षितिं विशदयति –
‘समुद्रस्य वोऽक्षित्या उन्नय इत्याह तस्मादद्यमानाः पीयमाना आपो न क्षीयन्ते’ (सं. का. ६ प्र. ४ अ. ३) इति।
यथा चमसेन जलं गृहीतं तथा त्रिभिः कुम्भैरेकधना गृह्णीयात्पन्नेजनीश्च गृह्णीयात्।
विधत्ते –
‘योनिर्वै यज्ञस्य चात्वालं यज्ञो वसतीवरीर्होतृचमसं च मैत्रावरुणचमसं च सस्पर्श्य वसतीवरीर्व्यानयति यज्ञस्य सयोनित्वायाथो स्वादेवैना योनेः प्र जनयति’ (सं. का. ६ प्र. ४ अ. ३) इति।
उत्तरवेदिनिष्पादकतया चात्वालो यज्ञयोनिः। देवविभक्तयज्ञावशेषत्वाद्वसतीवरीणां यज्ञत्वम्। व्यानयति व्याप्ता अधिकाः करोति।
प्रश्नोत्तरमन्त्रावुत्पादयति –
‘अध्वर्योऽवेरपा ३ इत्याहोतेमनन्नमुरुतेमाः पश्येति वावैतदाह’ (सं. का. ६ प्र. ४ अ. ३) इति।
प्लुतिः प्रश्नार्था। हेऽध्यर्यो, अपः किमवेर्लब्धवानसि। सोऽयं होतुः प्रश्नः। उतेमनन्नमुरित्यध्वर्योरुत्तमन्त्रः। लब्धवानस्मीत्येतावदेव न भवति उतापि तु ई ता अनन्नमुरुसंप्राप्ताः। दूरवर्तित्वेऽपि सत्त्वमात्रेण लाभो भवति तदुपसंप्राप्ति–र्लाभादतिरिच्यते। उतेमा इति वाक्यं मन्त्रस्य व्याख्यानम्। हे होतर्न केवलं मद्वचनमात्रेण विश्वसिहि किंत्विमाः पुरोवर्तिनीः पश्येत्येवमेव सर्वमन्त्रेणाध्वर्युर्ब्रूते।
अस्य च क्रतुकरणाख्यस्य होमस्य विषयविशेषव्यवस्थितिं विधत्ते –
‘यद्यग्निष्टोमो जुहोति यद्युक्थ्यः परिधौ नि मार्ष्टि यद्यतिरात्रो यजुर्वदन्प्र पद्यते यज्ञक्रतूनां व्यावृत्त्यै’ (सं. का. ६ प्र. ४ अ. ३) इति।
अनुष्ठीयमानस्य कर्मणोऽग्निष्टोमत्वे मन्त्रेण क्रतुकरणं जुहुयात्। उक्थ्यत्वे परिधावाज्यलेपं निमृज्यात्। अतिरात्रत्वे मन्त्रं पठन्हविर्धानं प्राप्नुयात्। एवं सत्यग्निष्टोमादीनामनुष्ठास्यमानानां परस्परं व्यावृत्तिरिदानीमेवावगता। सक्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूप इत्युपनिषदि तत्क्रत्विति वैयासिकसूत्रे चोपास्तिष्वपि क्रतुशब्दस्य प्रयोगात्तद्व्यवच्छेदार्थं यज्ञशब्दः। द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपर इत्यादौ तपःप्रभृतिष्वपि यज्ञशब्दप्रयोगात्तद्व्यवच्छेदाय क्रतुशब्दप्रयोगः।
विधत्ते –
“देवस्य त्वा सवितुः प्रसव इति ग्रावाणमा दत्ते प्रसूत्या अश्विनोर्बाहुभ्यामित्याहाश्विनौ हि देवानामध्वर्यू आस्तां पूष्णो हस्ताभ्यामित्याह यत्यै” (सं. का. ६ प्र. ४ अ. ४) इति।
विधत्ते –
“पशवो वै सोमो व्यान उपांशुसवनो यदुपांशुसवनमभि मिमीते व्यानमेव पशुषु दधाति” (सं. का. ६ प्र. ४ अ. ४) इति।
पशुप्राप्तिहेतुत्वात्सोमस्य पशुत्वम्। “प्राणापानौ वा एतौ यदुपाश्वन्तर्यामौ व्यान उपाशुसवनः” इति रूपकं वक्ष्यति। अतोऽस्य व्यानत्वम्। उपांशुनामकग्रहार्थं सोमः सूयते येन पाषाणेन स उपांशुसवनः। तमभिलक्ष्य सोमो मातव्यः।
सर्वमन्त्रेष्विन्द्रशब्दप्रयोगस्य तात्पर्यमाह –
“इन्द्राय त्वेन्द्राय त्वेति मीमित इन्द्राय हि सोम आह्रियते” (सं. का. ६ प्र. ४ अ. ४) इति।
सौमिकदेवेष्विन्द्रस्य प्राधान्यमिन्द्रपीतस्येत्यादिमन्त्रस्य च प्रसिद्धिं हिशब्दो द्योतयति।
विधत्ते –
“पञ्च कृत्वो यजुषा मिमीते पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे पञ्च कृत्वस्तूष्णीं दश सं पद्यन्ते दशाक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव रुन्धे” (सं. का. ६ प्र. ४ अ. ४) इति।
सोमो यथा क्रीतस्तद्वदयमपि मातव्यः।
उपहूताः सोमस्य पिबतेत्यस्याभिप्रायमाह –
“श्वात्राः स्थ वृत्रतुर इत्याहैष वा अपा सोमपथिः” (सं. का. ६ प्र. ४ अ. ४) इति।
अस्मिन्मन्त्रे पिबतेति यदुच्यत एतदेवाब्देवतानां सोमपानम्।
वेदनं प्रशंसति –
“य एवं वेद नाप्स्वार्तिमार्च्छति” (सं. का. ६ प्र. ४ अ. ४) इति। जले मरणं न प्राप्नोति।
दिवीत्यादेस्तात्पर्यमाह –
“यत्ते सोम दिवि ज्योतिरित्याहैभ्य एवैनं लोकेभ्यः सं भरति” (सं. का. ६ प्र. ४ अ. ४) इति। लोकत्रयेणैनं सोमं सम्यक्पोषयति।
दिशामाधावनोक्तेस्तापर्यमाह –
“सोमो वै राजा दिशोऽभ्यध्यायत्स निशोऽनु प्राविशत्प्रागपागुदगधरागित्याह दिग्भ्य एवैन सं भरत्यथो दिश एवास्मा अव रुन्धे” (सं. का. ६ प्र. ४ अ. ४) इति।
अम्ब मातरित्यादयः शब्दाः स्त्रीणामुपलालनाय प्रयुज्यन्तेऽतोऽम्बशब्दप्रयोगेणात्र ध्यानविधिः सूच्यत इत्यभिप्रेत्य व्याचष्टे–
“अम्ब नि ष्वरेत्याह” (सं. का. ६ प्र. ४ अ. ४) इति।
यस्मादम्बेत्युपलालनमाह तस्माद्ध्यायेदित्यभिप्रायः।
वेदनं प्रशंसति –
“कामुका एन स्त्रियो भवति य एवं वेद” (सं. का. ६ प्र. ४ अ. ४) इति।
सोमायेत्युक्तेरभिप्रायमाह –
“यत्ते सोमादाभ्यं नाम जागृवीत्याहैष वै सोमस्य सोमपीथः” (सं. का. ६ प्र. ४ अ. ४) इति।
यथाऽग्नौ होममन्तरेणैवापां सोमपानमुक्तं तथा सोमस्याप्येष एव मन्त्रेणांशुद्वयप्रक्षेपः।
सोमपानवेदनं प्रशंसति –
“य एवं वेद न सौम्यामार्तिमार्च्छति” (सं. का. ६ प्र. ४ अ. ४) इति। सोमयागविनाशं न प्राप्नोति।
षण्णामंशूनां संघातात्पृथक्करणं विधत्ते –
“घ्नन्ति वा एतत्सोमं यदभिषुण्वन्त्यशूनप गृह्णाति त्रायत एवैनम्” (सं. का. ६ प्र. ४ अ. ४) इति। अंशूनामपनयनेनाभिषवरूपाद्वधादेनं सोमं पालयति।
महाभिषवे तत्संसर्गं विधत्ते –
“प्राणा वा अशवः पशवः सोमोऽशून्पुनरपि सृजति प्राणानेव पशुषु दधाति” (सं. का. ६ प्र. ४ अ. ४) इति।
त्रिषु सवनेषु पृथगंशुसंसर्गं विधत्ते –
“द्वौद्वावपि सृजति तस्माद्द्वौद्वौ प्राणाः” (सं. का. ६ प्र. ४ अ. ४) इति। चक्षुःश्रोत्रघ्राणेन्द्रियरूपाः प्राणाः प्रत्येकं द्वौ द्वौ भूत्वा तत्तच्छिद्रेषु वर्तन्ते।
विधत्ते –
“प्राणो वा एष यदुपाशुर्यदुपा श्वग्रा ग्रहा गृह्यन्ते प्राणमेवानु प्रयन्ति” (सं. का. ६ प्र. ४ अ. ५) इति।
यज्ञस्य प्राणस्थानीय उपांशुः। अपानवागादिस्थानीयास्त्वन्तर्यामैन्द्रवायवादयः। अतः प्राणत्वेन मुख्यत्वात्प्रथमतस्तद्ग्रहणं युक्तम्।
त्रिषु पर्यायेषु विलक्षणसंख्याविशिष्टमभिषवं विधत्ते –
“अरुणो ह स्माऽऽहौपवेशिः प्रातःसवन एवाहं यज्ञं सं स्थापयामि तेन ततः संस्थितेन चरामीत्यष्टौ कृत्वोऽग्रेऽभि षुणोत्यष्टाक्षरा गायत्री गायत्रं प्रातःसवनं प्रातःसवनमेव तेनाऽऽप्नोत्येकादशाक्षरा त्रिष्टुप् त्रैष्टुभं माध्यन्दिनं सवनं माध्यन्दिनमेव सवनं तेनाऽऽप्नोति द्वादश कृत्वस्तृतीयं द्वादशाक्षरा जगती जागतं तृतीयसवनं तृतीयसवनमेव तेनाऽऽप्नोत्येता ह वाव स यज्ञस्य संस्थितिमुवाचास्कन्दायास्कंन्न हि तद्यद्यज्ञस्य संस्थितस्य स्कन्दति” (सं. का. ६ प्र. ४ अ. ५) इति।
उपवेशस्य पुत्रः कश्चिदरुणनामा यथोक्तत्रिविधाभिपरूपामेव यज्ञस्य समाप्तिमुवाच। तदेतविनाशाय संपद्यते। समाप्तस्य यज्ञस्य संबन्धि यद्वस्तु नश्यति तदविनष्टमेव।
त्रिष्वपि पर्यायेष्वष्टसंख्यैवेति पक्षान्तरं विधत्ते –
“अथो खल्वाहुर्गायत्री वाव प्रातःसवने नातिवाद इत्यनतिवादुक एनं भ्रातृव्यो भवति य एवं वेद तस्मादष्टावष्टौ कृत्वोऽभिषुत्यम्” (सं. का. ६ प्र. ४ अ. ५) इति।
अतिवादे गायत्र्येव न वर्तते। त्रिष्टुब्जगत्यौ तु वर्तेते। अधिकाक्षरयुक्ततया पठ्यमानत्वमतिवादः। न चासावल्पाक्षरायां गायत्र्यां संभवति। यद्यपि प्रातःसवने छन्दोन्तराण्यपि संभवन्ति तथाऽपि गायत्र्येवाभिमानिदेवता। गायत्र्या अतिवादाभावं यो वेद तं प्रति शत्रुरप्यनतिवादुको भवति अनिन्दको भवतीत्यर्थः। यस्माद्गायत्र्येव सवनमभिमन्यते तस्मात्तदीययैव संख्यया प्रातःसवने त्रिष्वपि पर्यायेष्वभिषोतव्यम्।
मन्त्रस्य प्रथमभागे वाक्शब्दतात्पर्यमाह –
“ब्रह्मवादिनो वदन्ति पवित्रवन्तोऽन्ये ग्रहा गृह्यन्ते किंपवित्र उपांशुरिति वाक्पवित्र इति ब्रूयाद्वाचस्पते पवस्व वाजिन्नित्याह वाचैवैनं पवयति” (सं. का. ६ प्र. ४ अ. ५) इति।
उपांशुव्यतिरिक्ता ग्रहा दशापवित्रनामकेन वस्त्रेण शोधिता गृह्यन्ते न तूपांशुः। तस्य किं शोधकमिति प्रश्नः। मन्त्र एव शोधकमित्युत्तरम्।
भागान्तराणामर्थः प्रसिद्ध इत्याह –
“वृष्णो अंशुभ्यामित्याह वृष्णो ह्येतावंशू यौ सोमस्य गभस्तिपूत इत्याह गभस्तिना ह्येनं पवयति देवो देवानां पवित्रमसीत्याह देवो ह्येष सन्देवानां पवित्रं येषां भागोऽसि तेभ्यस्त्वेत्याह येषां ह्येष भागस्तेभ्य एनं गृह्णाति” (सं. का. ६ प्र. ४ अ. ५) इति।
दिव्यपार्थिवशब्देन जन्मद्वयमिति दर्शयति –
“स्वांकृतोऽसीत्याह प्रणभेव स्वमकृत मधुमतीर्न इषस्कृधीत्याह सर्वमेवास्मा इदं स्वदयति विश्वेभ्यस्त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्य इत्याहोभयेष्वेव देवमनुष्येषु प्राणान्दधाति” (सं. का. ६ प्र. ४ अ. ५) इति।
क्रमेण मन्त्रान्व्याचष्टे –
“मनस्त्वाऽष्ट्विवित्याह मन एवाश्नुत उर्वन्तरिक्षमन्विहीत्याहान्तरिक्षदेवत्यो हि प्राणः स्वाहा सुभवः सूर्यायेत्याह प्राणा वै स्वभवसो देवास्तेष्वेव परोक्षं जुहोति देवेभ्यस्त्वा मरीचिपेभ्य इत्याहाऽऽदित्यस्य वै रश्मयो देवा मरीचिपास्तेषां तद्भागधेयं तानेव तेन प्रीणाति” (सं. का. ६ प्र. ४ अ. ५) इति।
स्वभवसः स्वशरीरेऽवस्थिता देवाः प्राणवायवः। तत्र प्राणेभ्यः स्वाहेत्युक्ते तेषां प्रत्यक्षहोमो भवतीति तत्परित्यज्य सूर्यायेत्युक्तत्वादयं परोक्षहोमः। यद्वा स्वभवस इति वक्तव्ये सति सुभवस इत्युक्त्या परोक्षत्वम्। रश्मिनामकाश्चेतना देवा अचेतनानां मरीचीनां पालकाः।
लेपमार्जने हस्तस्याधोमुखत्वमूर्ध्वमुखत्वं च फलभेदेन विधत्ते –
“यदि कामयेत वर्षुकः पर्जन्यः स्यादिति नीचा हस्तेन नि मृज्याद्वृष्टिमेव नि यच्छति यदि कामयेतावर्षुकः स्यादित्युत्तानेन नि मृज्याद्वृष्टिमेवोद्यच्छति” (सं. का. ६ प्र. ४ अ. ५) इति।
वैरिणं प्रत्यभिचरता पुरुषेण होमात्पूर्वं पाठ्यं मन्त्रविशेषमुत्पादयति –
“यद्यभिचरेदमुं जह्यथ त्वा होष्यामीति ब्रूयादाहुतिमेवैनं प्रेप्सन्हन्ति” (सं. का. ६ प्र. ४ अ. ५) इति।
हे प्राणरूप सूर्यामुं देवदत्तनामकं वैरिणं प्रथमतो मारय पश्चात्त्वां प्रति होष्यामीति ब्रूयात्। एतन्मन्त्रं श्रुत्वा देव आहुतिमपेक्षमाण एनं वैरिणं मारयत्येव।
वैरिणो दूरदेशवर्तित्त्वे सत्यभिचरतोऽनुष्ठानविशेषं विधत्ते –
“यदि दूरे स्यादा तमितोस्तिष्ठेत्प्राणमेवास्यानुगत्य हन्ति” (सं. का. ६ प्र. ४ अ. ५) इति।
आ तमितोरा ग्लानेर्यावन्तं कालं निरुच्छ्वासः स्थातुं शक्नोति तावत्तिष्ठेत्। ततोऽयं निरोधोऽस्य वैरिणः प्राणमनुगत्य मारयत्येव।
अभिचरतः पात्रासादनाय मन्त्रान्तरमुत्पादयति –
“यद्यभिचरेदमुष्य त्वा प्राणे सादयामीति सादयेदसन्नो वै प्राणः प्राणमेवास्य सादयति” (सं. का. ६ प्र. ४ अ. ५) इति।
हे उपांशुपात्र प्राणरूपं त्वाममुष्य वैरिणः प्राणे स्थापयामीत्युक्ते सत्यसन्नो विनाशरहितो यजमानप्राणो वैरिणः प्राणं सादयति विनाशयति।
अभिषुतः सोमरसः प्रतिप्रस्थातृहस्तगत उपांशुपात्रे यदा गृह्यते तदा ग्रहान्तरवद्वस्त्रेण शोधनं न भवति किंत्वंशुभिरिति विधत्ते –
“षडिभिरशुभिः पवयति षड्वा ऋतव ऋतुभिरेवैनं पवयति” (सं. का. ६ प्र. ४ अ. ५) इति।
नात्र षण्णामंशूनां युगपत्प्रयोगः किंतु त्रिषु पर्यायेष्विति विधत्ते –
“त्रिः पवयति त्रय इमे लोका एभिरेवैनं लोकैः पवयति” (सं. का. ६ प्र. ४ अ. ५) इति।
नात्र वक्ष्यमाणग्रहेष्विव दशापवित्रनाभिस्रुतया धारया ग्रहणं किंतु त्रिष्वपि पर्यायेष्वध्वर्योरञ्जलिनेति विधत्ते – “ब्रह्मवादिनो वदन्ति कस्मात्सत्यात्त्रयः पशूनां हस्तादाना इति यत्त्रिरुपांशु हस्तेन विगृह्णाति तस्मात्त्रयः पशूनां हस्तादानाः पुरुषो हस्ती मर्कटः” (सं. का. ६ प्र. ४ अ. ५) इति। गोमहिषादयः सर्वे पशवो मुखादानाः। एते तु त्रयो हस्तादानाः।
अन्तर्यामपात्रे सोमरसग्रहणं विधत्ते –
“देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा उपांशौ यज्ञं संस्थाप्यमपश्यन्तमुपांशौ समस्थापयन्तेऽसुरा वज्रमुद्यत्य देवानभ्यायन्त ते देवा बिभ्यत इन्द्रमुपाधावन्तानिन्द्रोऽन्तर्यामेणान्तरधत्त तदन्तर्यामस्यान्तर्यामत्वं यदन्तर्यामो गृह्यते भ्रातृव्यानेव तद्यजमानोऽन्तर्धत्ते” (सं. का. ६ प्र. ४ अ. ६) इति।
देववद्यज्ञमनुतिष्ठतामसुराणां व्यामोहार्थमुपांशुग्रहे यज्ञं समापनीयं मत्वा रहसि देवास्तं तथा चक्रुः। तं प्रकारमज्ञात्वा क्रुद्धानसुरानिन्द्रोऽन्तर्यामग्रहेणान्तर्हितानकरोत्। ततो भ्रातृव्यान्तर्धानायान्तर्यामो ग्रहीतव्यः।
मन्त्रभागे द्यावापृथिव्युक्तेः प्रयोजनमाह –
“अन्तस्ते दधामि द्यावापृथिवी अन्तरुर्वन्तरिक्षमित्याहैभिरेव लोकैर्यजमानो भ्रातृव्यानन्तर्धत्ते” (सं. का. ६ प्र. ४ अ. ६) इति।
सजोषा इत्यादेः प्रयोजनमाह –
“ते देवा अमन्यन्तेन्द्रो वा इदमभूद्यद्वयं स्म इति तेऽब्रुवन्मघवन्ननु न आ भजेति सजोषा देवैरवरैः परैश्चेत्यब्रवीद्ये चैव देवाः परे ये चावरे तानुभयानन्वाभजत्सजोषा देवैरवरैः परैश्चेत्याह ये चैव देवाः परे ये चावरे तानुभयानन्वाभजत्” (सं. का. ६ प्र. ४ अ. ६) इति।
यदैश्वर्यं प्राप्तुं वयमिच्छावन्तः स्म इदं सर्वमिन्द्र एवाभूत्प्राप्तवानिति मत्वा ते देवा अब्रुवन्। हे मघवंस्त्वामन्वस्मानपि भागिनः कुर्विति। तत इन्द्रः सजोषा इत्यादि वाक्येनानुजज्ञौ। तयाऽनुज्ञया ये चोत्कृष्टा देवा ये च निकृष्टास्तान्सर्वान्भागिनोऽकरोत्। अतोऽत्रापि सजोषा इत्याद्युक्त्या सर्वान्भागिनः करोति।
मादयस्वेत्यत्र यथा भागलाभेन देवानां हर्षस्तथा यज्ञविघ्नाभावेन यजमानस्यापि हर्षं द्योतयति –
“अन्तर्यामे मघवन्मादयस्वेत्याह यज्ञादेव यजमानं नान्तरेति” (सं. का. ६ प्र. ४ अ. ६) इति।
मन्त्रोपक्रमगतस्य गृहीतशब्दस्य प्रयोजनमाह –
“उपयामगृहीतोऽसीत्याहापानस्य धृत्यै” (सं. का. ६ प्र. ४ अ. ६) इति।
अपानदेवताया अन्तर्यामाभिमानितया तस्मिन्गृहीते प्राणिनामपानो धृतो भवति।
नात्रोपांशोरिवाञ्जलिना ग्रहणं किंतु दशापवित्रनाभिस्रुतया धारयेत्यभिप्रेत्याऽऽह –
“यदुभावपवित्रौ गृह्येयातां प्राणमपानोऽनु न्यृच्छेत्प्रमायुकः स्यात्पवित्रवानन्तर्यामो गृह्यते प्राणापानयोर्विधृत्यै” (सं. का. ६ प्र. ४ अ. ६) इति।
प्राणवृत्तिः स्वभावतो बहिर्गच्छत्यतः प्राणरूपस्योपांशोः पवित्रेण नियमनं नापेक्षितम्। यद्यन्तर्यामोऽपि तद्वदपवित्रः स्यात्तर्ह्यनियमितत्वात्तद्रूपोऽपानोऽपि निर्गच्छन्तं प्राणमनु निर्गच्छेत्। ततः प्राणापानयोरभावान्म्रियेत। पवित्रेण नियमिते त्वपानेऽग्रे तदविनाभूतः प्राणो निर्गच्छन्नपि नात्यन्तं देहं परित्यजेत्। तस्मादुभयोर्धारणाय दशापवित्रेणान्तर्यामं गृह्णीयात्।
उपांश्वन्तर्यामपात्रयोरासादने मध्यगतेनोपांशुसवनेन सह स्पर्शं विधत्ते –
“प्राणापानौ वा एतौ यदुपाश्वन्तर्यामौ व्यान उपाशुसवनो यं कामयेत प्रमायुकः स्यादित्यासस्पृष्टौ तस्य सादयेद्व्यानेनैवास्य प्राणापानौ वि च्छिनत्ति ताजक्प्र मीयते यं कामयेत सर्वमायुरियादिति सस्पृष्टौ तस्य सादयेद्व्यानेनैवास्य प्राणापानौ सं तनोति सर्वमायुरेति” (सं. का. ६ प्र. ४ अ. ६) इति।
द्विदेवत्यग्रहेष्वस्य प्राथम्यं विधत्ते –
“वाग्वा एषा यदैन्द्रवायवो यदैन्द्रवायवाग्रा ग्रहा गृह्यन्ते वाचमेवानु प्रयन्ति” (सं. का. ६ प्र. ४ अ. ७) इति।
ऐन्द्रवायवमैत्रावरुणाश्विनग्रहाणामभिमानिदेवता वाक्चक्षुःश्रोत्राभिधाः। तस्मादैन्द्रवायवो वागित्युच्यते। तस्य प्राथम्ये सति वाचं पुरतः प्रयतीं चक्षुरादयोऽनुप्रयन्ति।
तत्प्राथम्यं प्रकारान्तरेण प्रशंसति–
“वायुं देवा अब्रुवन्त्सोम राजान हनामेति सोऽब्रवीद्वरं वृणै मदग्रा एव वो ग्रहा गृह्यान्ता इति तस्मादैन्द्रवायवाग्रा ग्रहा गृह्यन्ते तमघ्नन्” (सं. का. ६ प्र. ४ अ. ७) इति।
तदेव प्राथम्यं द्रढयितुं पुनरपि वायुं प्रशंसति, अथवा वायुस्तुत्या वायवे गृह्णीयादिति विधिरुन्नेयः —
“सोऽपूयत्तं देवा नोपाधृष्णुवन्ते वायुमब्रुवन्निमं नः स्वदयेति सोऽब्रवीद्वरं वृणै मद्देवत्यान्येव वः पात्राण्युच्यान्ता इति तस्मान्नानादेवत्यानि सन्ति वायव्यान्युच्यन्ते तमेभ्यो वायुरेवास्वदयत्तस्माद्यत्पूयति तत्प्रवाते वि षजन्ति वायुर्हि तस्य पवयिता स्वदयिता” (सं. का. ६ प्र. ४ अ. ७) इति।
अयं सोमो हतः सन्नपूयद्दुर्गन्धोऽभवत्। नोपाधृष्णुवन्स्वादुं कर्तुं नाशक्नुवन् मैत्रावरुणाश्विनादीन्यपि ग्रहपात्राणि वायव्यानीत्युच्यन्ते।
सर्वग्रहसाधारणमुपयामगृहीतोऽसीत्यमुं मन्त्रं व्याचष्टे –
“तस्य विग्रहणं नाविन्दन्त्साऽदितिरब्रवीद्वरं वृणा अथ मया वि गृह्णीध्वं मद्देवत्या एव वः सोमाः सन्ना असन्नित्युपयामगृहीतोऽसीत्याहादितिदेवत्यास्तेन यानि हि दारुमयाणि पात्राण्यस्यैतानि योनेः संभूतानि यानि मृन्मयानि साक्षात्तान्यस्यै तस्मादेवमाह” (सं. का. ६ प्र. ४ अ. ७) इति।
विविधदेवतार्थत्वेन गृह्यते येन मन्त्रेण तादृशं मन्त्रं नालभन्त। अदितिः पृथिवी। मया भूमिप्रतिपादकमन्त्रेण। ये युष्माकं सोमास्ते सर्वेऽपि होमकाले युष्मद्देवत्यत्वेऽप्यासादनकाले मद्देवत्याः सन्त्विति भूमेर्वचः। उपयामगृहीतोऽसी–त्येतादृशं मन्त्रं भूमिराह। उपयामेन भूमिसंबन्धिपात्रेण गृहीत इति मन्त्रार्थः। तेनैतन्मन्त्रप्रयोगेण पूर्वोक्तवरेण च सोमा अदितिदेवत्याः द्विविधानि सोमपात्राणि दारुमयाणि ग्रहरूपाणि मृन्मयानि चाऽऽग्रयणस्थाल्यादीनि। तत्रास्या भूमेः संबन्धिनी या वृक्षरूपा योनिस्तस्याः संभूतानि ग्रहादीनि, स्थाल्यादीनि तु साक्षादेव भूमेः कार्याणि। तस्मादुपयामगृहीत इत्येवं मन्त्रो ब्रूते।
ऐ(इ)न्द्रवाय्वोरेकस्मिन्पात्रे सह ग्रहणं विधत्ते –
“वाग्वै पराच्यव्याकृताऽवदत्ते देवा इन्द्रमब्रुवन्निमां नो वाचं व्याकुर्विति सोऽब्रवीद्वरं वृणै मह्यं चैवैष वायवे च सह गृह्याता इति तस्मादैन्द्रवायवः सह गृह्यते तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्तस्मादियं व्याकृता वागुद्यते” (सं. का. ६ प्र. ४ अ. ७) इति।
येयं वैदिकमन्त्ररूपा वाक्सा पूर्वं पराची समुद्रघोषवदैक्यरूपेण दण्डायमाना तस्यां वाच्येतावदेकं वाक्यं तस्मिन्वाक्येऽप्येतावदेकं पदं तस्मिन्पदेऽपीयं प्रकृतिरयं प्रत्यय इत्वेवं विभज्य सर्वतः करणं व्याकरणं तद्रहितत्वादव्याकृतैवावदत्प्रवृत्ता। तामिन्द्रो मध्यतोऽवक्रम्य वाक्यपदादिरूपेण तत्र तत्र विच्छिद्य विभिन्नां कृतवान्।
ऐन्द्रवायवग्रहणमुपसंहरति –
“तस्मात्सकृदिन्द्राय मध्यतो गृह्यते द्विर्वायवे द्वौ हि स वराववृणीत” (सं. का. ६ प्र. ४ अ. ७) इति।
यस्मादिन्द्र एकमेव सहग्रहणरूपं वरमवृणोत्तस्मात्सकृदेवेन्द्रस्य सोमग्रहणम्। यस्माच्च वाचं मध्यतो विभक्तवांस्तस्मादुभयोर्वाय्वर्थग्रहणयोर्मध्य इन्द्रर्थं ग्रहणम्। आ वायो भूषेति केवलस्य वायोरादौ ग्रहणम्, इन्द्रवायू इमे सुता इत्यत्र वायुः पश्चात्पठ्यते। तस्मादिन्द्रस्य मध्ये स्थानम्। तस्माद्वायोर्ग्रहाग्रत्वमेको वरः। सर्वपात्राणां वायव्यत्वं द्वितीयो वरः। तस्मात्तस्य द्विः सोमग्रहणम्। इत आरभ्य विनियोगसंग्रहः षट्त्रिंशानुवाकस्यान्त उदाहरिष्यते।
मन्त्रानुपेक्ष्य गृहीतस्य सोमरसस्य क्षीरमेलनं विधित्सुः प्रस्तौति –
‘मित्रं देवा अब्रुवन्त्सोमं राजानं हनामेति सोऽब्रवीन्नाह सर्वस्य वा अहं मित्रमस्मीति तमब्रुवन्हनामैवेति सोऽब्रवीद्वरं वृणै पयसैव मे सोमं श्रीणन्निति तस्मान्मैत्रावरुणं पयसा श्रीणन्ति तस्मात्पशवोऽपाक्रामन्मित्रः सन्क्रूरमकरिति’ (सं. का. ६ प्र. ४ अ. ८) इति।
हनाम त्वया सहिता वयमित्यर्थः। नाहं सोमं हन्मीति शेषः। सर्वमित्रत्वमहनने हेतुः। अत एवास्माकमपि मित्रत्वाद्धनामैवास्मदीयं कार्यं हननरूपं त्वया सहैव कुर्मः। श्रीणन्मिश्रयेयुः। क्रूरं सोमवधं कृतवतस्तस्मान्मित्राद्भीता पशवोऽपक्रान्ताः।
विधत्ते –
‘क्रूरमिव खलु वा एष करोति यः सोमेन यजते तस्मात्पशवोऽप क्रामन्ति यन्मैत्रावरुणं पयसा श्रीणाति पशुभिरेव तन्मित्रं समर्धयति पशुभिर्यजमानम्’ (सं. का. ६ प्र. ४ अ. ८) इति। तत्तेन श्रयणेन मित्रदेवयजमानयोः पशुसमृद्धिर्भवति।
अस्तु यजमानस्य पशुसमृद्धिर्मित्रस्य तु कुतस्त्येत्याशङ्क्य तदर्थमेव च तस्य वृतत्वादित्याह –
‘पुरा खलु वावैवं मित्रोऽवेदप मत्क्रूरं चक्रुषः पशवः क्रमिष्यन्तीति तस्मादेवमवृणीत’ (सं. का. ६ प्र. ४ अ. ८) इति।
क्रूरं सोमवधं कृतवतो मत्तोऽपक्रमिष्यन्तीत्यमुमर्थं मित्रः सोमवधात्पुरैव खल्ववेद्विदितवान्। तस्मादेव कारणात्पशुसमृद्धिहेतुं क्षीरमिश्रणमवृणीत।
अथ मित्रावरुणयोरेकेनैव पात्रेण ग्रहणं विधत्ते –
‘वरुणं देवा अब्रुवन्त्वयाऽंशभुवा सोमं राजानं हनामेति सोऽब्रवीद्वरं वृणै मह्यं चैवैष मित्राय च सह गृह्याता इति तस्मान्मैत्रावरुणः सह गृह्यते तस्माद्राज्ञा राजानमंशभुवा घ्नन्ति वैश्येन वैश्यं शूद्रेण शूद्रम्’ (सं. का. ६ प्र. ४ अ. ८) इति।
अंशं द्रव्यभागं भवते प्राप्नोतीत्यंशभूर्दायादः। सोमो वरुणश्च परस्परं दा यादौ। इन्द्रो वरुणः सोमो रुद्र इत्यादिना बृहदारण्यके क्षत्त्रियत्वेनैककुलवर्तित्वस्य समाम्नातत्वात्। यस्मादंशभुवा वरुणेन सह सोमं हनामेति देवैरुक्तं तस्माल्लोकेऽपि तथा कुर्वन्ति। तद्यथा रामो विभीषणेनांशभुवा सहितो रावणं जघान। वैश्यशूद्रयोरप्युदाहार्यम्।
मैत्रावरुणस्यैन्द्रवायवानन्तर्यं विधत्ते –
‘न वा इदं दिवा न नक्तमासीदव्यावृत्तं ते देवा मित्रावरुणावब्रुवन्निदं नो वि वासयतमिति तावब्रूतां वरं वृणावहा एक एवाऽऽवत्पूर्वो ग्रहो गृह्याता इति तस्मादैन्द्रवायवः पूर्वो मैत्रावरुणाद्गृह्यते’ (सं. का. ६ प्र. ४ अ. ८) इति।
इदं कालस्वरूपमव्यावृत्तमविभक्तं पूर्वमासीत्। एतावदहरिति दिवा नाऽऽसीत्। एतावती रात्रिरिति नक्तं नाऽऽसीत्। इदमविभक्तं कालस्वरूपं नोऽस्मदर्थं विवासयतं विभज्य स्थापयतम्। आवदावाभ्यामस्मदीयग्रहादित्यर्थः।
ननूपांश्वन्तर्यामावपि मैत्रावरुणात्पूर्वमेव गृहीतावित्याशङ्क्याऽऽह –
‘प्राणापानौ ह्येतौ यदुपांश्वन्तर्यामौ’ (सं. का. ६ प्र. ४ अ. ८) इति।
प्राणापानयोः सतोः पश्चादितरेन्द्रियस्थितिरिति तयोः पूर्वभावित्वमविवादम्। इतरेषु तु ग्रहेष्वैन्द्रवायव एक एव
मैत्रावरुणात्पूर्वः। वरं लब्ध्वाऽहोरात्रयोर्विभागमजनतामित्याह –
‘मित्रोऽहरजनयद्वरुणो रात्रिं ततो वा इदं व्यौच्छद्यन्मैत्रावरुणो गृह्यते व्युष्ट्यै’ (सं. का. ६ प्र. ४ अ. ८) इति।
सूर्योदयमारभ्य तदस्तमयपर्यन्तं कालोऽहरित्येवं मित्रः कल्पयामास। तदूर्ध्वं पुनः सूर्योदयपर्यन्ता रात्रिरित्येतद्वरुणस्य कल्पनम्। तत आरभ्योभयकालस्वरूपं व्यौच्छद्विभक्तमासीत्। व्युष्ट्या अहोरात्रविभागाय।
एतान्मन्त्रानपेक्ष्याऽऽश्विनग्रहणं विधत्ते –
‘यज्ञस्य शिरोऽच्छिद्यत ते देवा अश्विनावब्रुवन्भिषजौ वै स्थ इदं यज्ञस्य शिरः प्रति धत्तमिति तावब्रूतां वरं वृणावहै ग्रह एव नावत्रापि गृह्यतामिति ताभ्यामेतमाश्विनमगृह्णन्ततो वै तौ यज्ञस्य शिरः प्रत्यधत्तां यदाश्विनो गृह्यते यज्ञस्य निष्कृत्यै’ (सं. का. ६ प्र. ४ अ. ९) इति।
यज्ञपुरुषः पुरा कदाचिद्देवानां वस्तु गृहीत्वा देवैः सह योद्धुं सज्यं धनुर्वाम हस्ते धृत्वा धनुष एकां कोटिं भूमौ द्वितीयां कोटिं गले प्रतिष्कभ्यातिष्ठत्। तदानीमुपदीकानामभिर्जन्तुभिर्भूमिष्ठे ज्याभागे भक्षिते सति त्रुटितज्याकस्य धनुष ऊर्ध्वकोटिः स्वयमुद्गच्छन्ती यज्ञस्य शिरोऽपि च्छित्त्वा स्वात्मना सहोर्ध्वमुदगमयत्।
आश्विनग्रहणस्य स्तोत्रादूर्ध्वकालं विधत्ते —
‘तौ देवा अब्रुवन्नपूतौ वा इमौ मनुष्यचरौ भिषजाविति तस्माद्ब्राह्मणेन भेषजं न कार्यमपूतो ह्येषोऽमेध्यो यो भिषक्तौ बहिष्पवमानेन पवयित्वा ताभ्यामेतमाश्विनमगृह्णन्तस्माद्बहिष्पवमाने स्तुत आश्विनो गृह्यते’ (सं. का. ६ प्र. ४ अ. ९) इति।
छन्दोगानामुत्तरग्रन्थोपक्रमे सूक्तत्रयमुपास्मै गायता नर इत्यादिकमाम्नातं तच्च गायत्रसाम्ना गातव्यम्। तदिदं बहिष्पवमानस्तोत्रम्। यावश्विनौ चिकित्सारूपेण मनुष्यचारित्वेन युक्तत्वादपूतौ तयोः स्तोत्रेण शुद्धत्वात्तत्स्तोत्रादूर्ध्वं तदीयग्रहस्य कालः।
विधत्ते —
“तस्मादेवं विदुषा बहिष्पवमान उपसद्यः पवित्रं वै बहिष्पवमानं आत्मानमेव पवयते” (सं. का. ६ प्र. ४ अ. ९) इति।
एवं विदुषा स्तोत्रस्य शुद्धिहेतुत्वं जानतोपसद्योऽनुष्ठेयः।
अत्र द्विदेवत्यानामैन्द्रवायवमैत्रावरुणाश्विनग्रहाणां तत्तत्प्रतिनिग्राह्यपात्रैः सह होमविधिमर्थवादेनोन्नेतुकामः प्रश्नमुत्थापयति–
‘ब्रह्मवादिनो वदन्ति कस्मात्सत्यादेकपात्रा द्विदेवत्या गृह्यन्ते द्विपात्रा हूयन्त इति’ (सं. का. ६ प्र. ४ अ. ९) इति।
ग्रहणकाले सोमानामेकैकपात्रत्वमुक्तरीत्या द्रष्टव्यम्
प्रश्नस्योत्तरं दर्शयति–
‘यदेकपात्रा गृह्यन्ते तस्मादेकोऽन्तरतः प्राणो द्विपात्रा हूयन्ते तस्माद्द्वौद्वौ बहिष्ठात्प्राणाः’ (सं. का. ६ प्र. ४ अ. ९) इति।
चक्षुरादिप्राणानामन्तरेकात्मकत्वाद्बहिर्द्वारभेदेन द्वित्वात्तत्साम्यायैकपात्रत्वं द्विपात्रत्वं च कुर्यादित्यर्थः। अत्र सवनीयपुरोडाशानां स्विष्टकृति हुते सति द्विदेवत्यग्रहप्रचारो विहितः।
पुरोडाशसंबन्धिन इडोपाह्वानस्यापि स्विष्टकृदनन्तरभावी चोदकप्राप्तः कालस्तं बाधित्वा द्विदेवत्यशेषभक्षणादूर्ध्वमुपाह्वानस्योत्कर्षं विधत्ते–
‘प्राणा वा एते यद्द्विदेवत्याः पशव इडा यदिडां पूर्वां द्विदेवत्येभ्य उपह्वयेत पशुभिः प्राणानन्तर्दधीत प्रमायुकः स्याद्द्विदेवत्यान्भक्षयित्वेडामुप ह्वयते प्राणानेवाऽऽत्मन्धित्वा पशूनुप ह्वयते’ (सं. का. ६ प्र. ४ अ. ९) इति।
द्विदेवत्यशेषभक्षणेभ्यः प्रागिडायाः पशुरूपाया उपाह्वाने प्राणानां व्यवहितत्वाद्यजमानो म्रियेत, पश्चादाह्वाने तु नायं दोषोऽस्ति।
भक्षणे विशेषं विधत्ते –
‘वाग्वा ऐन्द्रवायवश्चक्षुर्मैत्रवरुणः श्रोत्रमाश्विनः पुरस्तादैन्द्रवायवं भक्षयति तस्मात्पुरस्ताद्वाचा वदति पुरस्तान्मैत्रावरुणं तस्मात्पुरस्ताच्चक्षुषा पश्यति सर्वतः परिहारमाश्विनं तस्मात्सर्वतः श्रोत्रेण शृत्रेण शृणोति’ (सं. का. ६ प्र. ४ अ. ९) इति।
पुरस्तादग्रतो यथागृहीतमेवेत्यर्थः। सर्वतः परिहारं शिरः प्रदक्षिणीकृत्येत्यर्थः।
पात्राणां सादने पुरोडाशशकलादिसहितत्वं विधत्ते–
‘प्राणा वा एते यद्द्विदेवत्या अरिक्तानि पात्राणि सादयति तस्मादरिक्ता अन्तरतः प्राणा यतः खलु वै यज्ञस्य विततस्य न क्रियते तदनु यज्ञ रक्षास्यव चरन्ति यदरिक्तानि पात्राणि सादयति क्रियमाणमेव तद्यज्ञस्य शये रक्षसामनन्वयचाराय’ (सं. का. ६ प्र. ४ अ. ९) इति।
सादनस्थानं विधत्ते–
‘दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्या सादयति वाच्येव वाचं दधाति’ (सं. का. ६ प्र. ४ अ. ९) इति।
उत्तरस्य चक्रस्य मार्गे सादयेत्। वर्त्मरूपायां वाच्येव ग्रहरूपां वाचं स्थापयति।
सादितानां ग्रहाणामवस्थानावधिं विधत्ते–
‘आ तृतीयसवनात्परि शेरे यज्ञस्य संतत्यै’ (सं. का. ६ प्र. ४ अ. ९) इति। शेरे वसन्तीत्यर्थः।
मन्त्रानुपेक्ष्य ग्रहौ विधत्ते –
‘बृहस्पतिर्देवानां पुरोहित आसीच्छण्डामर्कावसुराणां ब्रह्मण्वन्तो देवा आसन्ब्रह्मण्वन्तोऽसुरास्तेऽन्योन्यं नाशक्नुवन्नभिभवितुं ते देवाः शण्डामर्कावुपामन्त्रयन्त तावब्रूतां वरं वृणावहै ग्रहावेव नावत्रपि गृह्येतामिति ताभ्यमेतौ शुक्रामन्थिनावगृह्णन्तो देवा अभवन्पराऽसुरा यस्यैवं विदुषः शुक्रामन्थिनौ गृह्येते भवत्यात्मना पराऽस्य भ्रातृव्यो भवति’ (सं. का. ६ प्र. ४ अ. १०) इति। ब्रह्मण्वन्तः पुरोहितानुष्ठितमन्त्रसामर्थ्योपेताः। उपामन्त्रयन्त रहस्युपच्छन्दितवन्तः। यद्यप्यन्यत्र शण्डामर्कयोरवयोर्यज्ञभागो नास्ति तथाऽप्यत्राप्यग्निष्टोमे सोऽस्तु। तत्रापि ग्रहावेव व तु लेपादिः अत्र गृह्येतामित्येतावदेव शण्डामर्काभ्यां वृतं न तु हूयेतामिति। ततो देवा ग्रहणमात्रेण स्वकार्यं साधितवन्तः।
यथार्थवादेन ग्रहयोरधस्ताल्लग्नानां पांसूनामपध्वंसनं विधातुं विधिमुन्नयति —
‘तौ देवा अपनुद्याऽऽत्मान इन्द्रायाजुहवुरपनुत्तौ शण्डामर्कौ सहामुनेति ब्रूयाद्यं द्विष्याद्यमेव द्वेष्टि तेनैनौ सहाप नुदते’ (सं. का. ६ प्र. ४ अ. १०) इति।
देवा: स्वकार्यसिद्धेरूर्ध्वं तौ शण्डामर्कावपसार्य स्वकीयायेन्द्राय तौ शुक्रामन्थिग्रहावजुहवुः। तस्मद्ग्रहयोरधोलग्नां धूलिमपध्वंसयन्नन्यत्र समाम्नातमपनुत्ताविति मन्त्रं ब्रूयात्। अमुनेत्यत्र द्वेष्यस्य द्वेष्टुश्च नाम ध्यायेत्।
अन्यत्राऽऽम्नातेन मन्त्रेण ग्रहहोमस्य विधिमर्थवादेनोन्नयति —
‘स प्रथमः संकृतिर्विश्वकर्मेत्येवैनावात्मन इन्द्रायाजुहवुरिन्द्रो ह्येतानि रूपाणि करिक्रदचरत्’ (सं. का. ६ प्र. ४ अ. १०) इति।
मन्त्रपाठस्तुः –
‘स प्रथमः संकृतिर्विश्वकर्मा। स प्रथमो मित्रो वरुणो अग्निः। स प्रथमो बृहस्पतिश्चिकित्वान्। तस्मा इन्द्राय सुतमा जुहोमि’ इति।
स इन्द्र प्रथमो देवानां मुख्यः सर्वाधिपतित्वात्। समीचीना कृतिर्निर्माणं यस्यासौ संकृतिः। तादृशो विश्वकर्मनामको देवोऽपि स इन्द्र एव। मित्रो वरुणोऽग्निः स एव। चिकित्वानभिज्ञो बृहस्पतिरपि स एव। तादृशायेन्द्रायाभिषुतं सोमं सर्वतो जुहोमि। यस्मादिन्द्र एतानि विश्वकर्मत्वादीनि रूपाणि करिक्रदत्यर्थं कुर्वञ्जगदचरत्तस्मात्तत्प्रतिपादकेनानेनैव मन्त्रेण होमो युज्यते।
होमात्पुरा ग्रहावादायाऽऽच्छाद्याध्वर्युप्रतिप्रस्थातारौ प्राङ्मुखौ निर्गच्छेतामिति विधत्ते —
‘असौ वा आदित्यः शुक्रश्चन्द्रमा मन्थ्यपिगृह्य प्राञ्चौ निष्क्रामतस्तस्मात्प्राञ्चौ यन्तौ न पश्यन्ति’ (सं. का. ६ प्र. ४ अ. १०) इति।
पश्चिमदिश्यस्तं गत्वा पुनरुदयाय प्रङ्मुखतया गच्छन्तौ सूर्याचन्द्रमसौ द्रष्टुं केऽपि न शक्नुवन्ति। तस्माद्ग्रहयोराच्छादनं युक्तम्।
होमाय प्रत्यङ्मुखत्वं विधत्ते–
‘प्रत्यञ्चावावृत्य जुहुतस्तस्मात्प्रत्यञ्चौ यन्तौ पश्यन्ति’ (सं. का. ६ प्र. ४ अ. १०) इति।
उदयादूर्ध्वं प्रत्यङ्मुखतया गच्छन्तौ सूर्याचन्द्रमसौ सर्वे पश्यन्ति। अतो ग्रह-योराच्छादनमपनीय प्रत्यङ्मुखत्वेनाऽऽवृत्तिर्होमार्था युक्ता।
उत्तरवेदेरभितः परिक्रमणं विधत्ते —
‘चक्षुषी वा एते यज्ञस्य यच्छुक्रामन्थिनौ नासिकोत्तरवेदिरभितः परिक्रम्य जुहुतस्तस्मादभितो नासिकां चक्षुषी तस्मान्नासिकया चक्षुषी विधृते सर्वतः परि क्रामतो रक्षसामपहत्यै’ (सं. का. ६ प्र. ४ अ. १०) इति।
अत्र चसहोमे प्राङ्मुखत्वं ग्रहहोमे प्रत्यङमुखत्वं च विधत्ते —
‘देवा वै याः प्राचीराहुतीरजुहवुर्ये पुरस्तादसुरा आसन्तस्ताभिः प्राणुदन्त याः प्रतीचीर्ये पश्चादसुरा आसन्तास्ताभिरपानुदन्त प्राचीरन्या आहुतयो हूयन्ते प्रत्यञ्चौ शुक्रामन्थिनौ पश्चाच्चैव पुरस्ताच्च यजमानो भ्रतृव्यान्प्र णुदते तस्मात्पराचीः प्रजाः प्र वीयन्ते प्रतीचीर्जायन्ते’ (सं. का. ६ प्र. ४ अ. १०) इति।
सूत्रकारेणोदाहृतौ परिक्रमणमन्त्रौ प्रदेशान्तर आम्नाताविह व्याचष्टे —
‘शुक्रामन्थिनौ वा अनु प्रजाः प्र जायन्तेऽत्रीश्चाऽऽद्याश्च सुवीराः प्रजाः प्रजनयन्परीहि शुक्रः शुक्रशोचिषा सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्थिशौचिषेत्याहैता वै सुवीरा या अत्रीरेताः सुप्रजा या आद्याः’ (सं. का. ६ प्र. ४ अ. १०) इति।
अत्रीर्भोक्त्र्य उत्तमजातयो ब्राह्मणादय आद्या भोग्या नीचजातयो भृत्यकर्मकरादयः। मन्त्रार्थस्तु — शोभना वीरा उत्तमा यासां ताः सुवीराः। शोभनाः सेवाकुशलाः प्रजाः पुत्रादयो यासां ताः सुप्रजाः। हे शुक्रग्रह त्वं यजमानस्य शोभनभोक्तृयुक्ताः प्रजा उत्पादयन्नुत्तरवेदेर्दक्षिणतः परीहि। शुक्रग्रहस्त्वं शुक्रदेवतासंबन्धिना तेजसा रक्षसामपघातं कुर्विति शेषः। हे मन्थिग्रह त्वं यजमानस्य शोभनसेवकरूपाः प्रजा उत्पादयन्नुत्तरवेदेरुत्तरतः परीहि। मन्थिग्रहस्त्वं मन्थिदेवतासंबन्धिना तेजसा रक्षांस्यपजहि। एता वै सुवीरा इत्यादिकं मन्त्रव्याख्यानम्।
वेदनं प्रशंसति —
“य एवं वेदात्र्यस्य प्रजा जायते नाऽऽद्या” (सं. का. ६ प्र. ४ अ. १०) इति।
मन्थिपात्रस्य विकङ्कतवृक्षत्वं सक्तुमेलनं च विधत्ते —
“प्रजापतेरक्ष्यश्वयत्तत्पराऽपतत्तद्विकङ्कतं प्राविशत्तद्विङ्कते नारमत तद्यवं प्राविशत्तद्यवेऽरमत तद्यवस्य यवत्वं यद्वैकङ्कतं मन्थिपात्रं भवति सक्तुभिः श्रीणाति प्रजापतेरेव तच्चक्षुः सं भरति” (सं. का. ६ प्र. ४ अ. १०) इति। सक्तवो यवपिष्टानि।
आहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्तीति वचनादितरपात्रवन्मन्थिपात्रस्यापि सदःप्रवेशः प्राप्नोति तन्निषेधं
प्रश्नोत्तराभ्यामुन्नयति —
“ब्रह्मवादिनो वदन्ति कस्मात्सत्यान्मन्थिपात्र सदो नाश्नुत इत्यार्तपात्र हीति ब्रूयाद्यदश्नुवीतान्धोऽध्वर्युः स्यादार्तिमार्च्छेत्तस्मान्नश्नुते” (सं. का. ६ प्र. ४ अ. १०) इति। आर्तपात्रं रोगयुक्तचक्षुःस्वरूपमिदं पात्रम्।
मन्त्रान्व्याचिख्यासुराग्रयणस्य ग्रहणं विधत्ते —
“देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा आग्रयणाग्रान्ग्रहानपश्यन्तानगृह्णत ततो वै तेऽग्रं पर्यायन्यस्यैवं विदुष आग्रयणाग्रा ग्रहा गृह्यन्तेऽग्रमेव समानानां पर्येति” (सं. का. ६ प्र. ४ अ. ११) इति।
आग्रयणमग्रं (णोऽग्रः) प्रथमं (मो) येषां त आग्रयणाग्राः।
त्रिंशत्त्रयश्चेति मन्त्रस्य विषयं दर्शयति —
“रुग्णावत्यर्चा भ्रातृव्यवतो गृह्णीयाद्भ्रातृव्यस्यैव रुक्त्वाऽग्र समानानां पर्येति” (सं. का. ६ प्र. ४ अ. ११) इति।
रुग्णे रुजिधातुः, सोऽस्यामस्तीति रुग्णवती। गणिनो रुजन्त इति रुजिधातुर्मन्त्रे दृश्यते। रुक्त्वा रोगमुत्पाद्य।
तयोर्मन्त्रयोर्देवसंख्योक्तिस्तान्सर्वानुद्दिश्य ग्रहीतुमित्याह —
“ये देवा दिव्येकादश स्थेत्याहैतावतीर्वै देवतास्ताभ्य एवैन सर्वाभ्यो गृह्णाति” (सं. का. ६ प्र. ४ अ. ११) इति।
सादनमन्त्रे विश्वेभ्य इत्यभिधानं युक्तमित्याह —
“एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्याह वैश्वदेवो ह्येष देवतया” (सं. का. ६ प्र. ४ अ. ११) इति।
वाग्विसर्गं विधत्ते —
“वाग्वै देवेभ्योऽपाक्रामद्यज्ञायातिष्ठमाना ते देवा वाच्यपक्रान्तायां तूष्णीं ग्रहानगृह्णत साऽमन्यत वागन्तर्यन्ति वै मेति साऽऽग्रयणं प्रत्याऽगच्छत्तदाग्रय णस्याऽऽग्रयणत्वम्। तस्मादाग्रयणे वाग्विसृज्यते यत्तूष्णीं पूर्वे ग्रहा गृह्यन्ते” (सं. का. ६ प्र. ४ अ. ११) इति।
केनापि निमित्तेन वाग्देवता यज्ञार्थं स्वकीयं रूपमप्रकाशयमाना देवेभ्योऽ-पक्रम्य देवैर्विगृहीतैस्तूष्णीमेव गृहीतेषु सा वागित्थममन्यत — एते देवा वरदानादिना मां न समादधते किंतु मयि निरपेक्षा एव स्वकार्यं कुर्वन्तो मामन्तर्यन्ति परित्यजन्त्येवेति। ततो देवैरनाहूता सा वागाग्रयणं प्रति स्वयमागच्छत्। तस्मादग्रमभिमुखमेति गच्छति वागित्यग्रायणं (ग्यस्य सोऽग्रायणः)। तत्र दीर्घव्यत्ययादाग्रयणं (ण) नाम संपन्नम्। यद्यस्मात्पूर्वे तूष्णीं गृहीता वाक्चेदानीमागता तस्माद्वाचोऽस्मिन्काले समागमादाग्रयणे गृहीते वाचं विसृजेन्न तु पूर्वग्रहवदुत्तरग्रहांस्तूष्णीं गृह्णीयात्। ननु पूर्वग्रहेष्वपि प्रतिग्रहं मन्त्राणामाम्नातत्वात्कथं तूष्णीं ग्रहणम्। एवं तर्हि तूष्णींशब्दवाग्विसर्गशब्दाभ्यमुपांशूच्चौ ध्वनी विवक्ष्येयाताम्।
ध्वनिद्वयं लौकिकदृष्टान्तेन विशदयति —
“यथा त्सारीयति म आख इयति नाम रात्स्यामीत्युपावसृजत्येवमेव तदध्वर्युराग्रयणं गृहीत्वा यज्ञमारभ्य वाचं वि सृजते” (सं. का. ६ प्र. ४ अ. ११) इति।
त्सारी छद्मगतिर्व्याधः।त्सर च्छद्मगताविति धातुः। स व्याधो मनस्यादौ विचार्य पश्चाद्बाणानुपावसृजति नुञ्चति। वराहान्गजान्पातयितुं मार्गे यो गर्त आयामेन खन्यते स आखः। ममैतावति दूरमाखस्तिष्ठति अहं त्वीषत्पुरोगत इयति दूरे स्थितो नापरात्स्यामि। वराहादिभिः स्वस्य मारणमेकोऽपराधः। स्वात्मानं दृष्ट्वा वराहादेः पलायनमन्योऽपराधः। स्वेन मुक्तस्य बाणस्य स्खलनमपराधान्तरम्। एतत्सर्वमियति दूरे मम न भबिष्यतीति निश्चित्याऽऽगतिस्तत्र स्थित्वा पश्चादवसरे सति पश्चादुद्भूतो यथा बाणान्मुञ्चति तथैव तत्राध्वर्युर्गूढध्वनिः कांश्चिद्ग्रहान्गृहीत्वा यज्ञं दृढमवष्टभ्य पश्चाद्ध्वनिं प्रकटी करोतीत्येतदुपपद्यते।
विधत्ते —
“त्रिर्हि करोत्युद्गातॄनेव तद्वृणीते” (सं. का. ६ प्र. ४ अ. ११) इति।
हिंकारस्य सामसु प्रसिद्धत्वात्सामगानां तेन वरणं युक्तम्।
हिंकारस्य कालं विधत्ते —
“प्रजापतिर्वा एष यदाग्रयणो यदाग्रयणं गृहीत्वा हिं करोति प्रजापतिरेव तत्प्रजा अभि जिघ्रति तस्माद्वत्सं जातं गौरभि जिघ्रति” (सं. का. ६ प्र. ४ अ. ११) इति।
आग्रयणहिंकारयोः पौर्वापर्यं यदस्ति तत्तेन प्रजापतिरेव यजमानस्य प्रजानां मूर्धन्याघ्राणं करोति। अत एव पशुष्वप्येतद्वीक्ष्यते।
सवनत्रयेऽप्याग्रयणं विधत्ते —
“आत्मा वा एष यज्ञस्य यदाग्रयणः सवनेसवनेऽभि गृह्णात्यात्मन्नेव यज्ञ सं तनोति” (सं. का. ६ प्र. ४ अ. ११) इति।
दशापवित्रस्योपरि सोमरसस्याव (स्याऽऽ) नयनं विधत्ते —
“उपरिष्टादानयति रेत एव तद्दधाति” (सं. का. ६ प्र. ४ अ. ११) इति।
दशपवित्रस्याधस्तात्स्रवन्त्या धारया (यो) [प] ग्रहणं विधत्ते —
“अधस्तादुप गृह्णाति प्र जनयत्येव तत्” (सं. का. ६ प्र. ४ अ. ११) इति।
सवनत्रयगमाग्रयणं प्रशंसति —
“ब्रह्मवादिनो वदन्ति कस्मात्सत्याद्गायत्री कनिष्ठा छन्दसा सती सर्वाणि सवनानि बृहतीत्येष वै गायत्रियै वत्सो यदाग्रयणस्तमेव तदभिनिवर्त सर्वाणि सवनानि वहति तस्माद्वत्समपाकृतं गौरभि नि वर्तते” (सं. का. ६ प्र. ४ अ. ११) इति।
अल्पाक्षरत्वात्कनिष्ठा। प्रातःसवने बहिष्पवमानसूक्तानामुपास्मै गायतेत्यादीनां छन्दो गायत्री। माध्यंदिनसवने माध्यंदिनपवमानसूक्तस्योच्चा ते जातमन्धस इत्यस्य गायत्री। तृतीयसवनस्याऽऽर्भवपवमानसूक्तस्य स्वादिष्ठयेत्यस्य गायत्री। एवमुदाहर्तव्यम्। यथा गौरपाकृतं स्वीयं वत्समभिलक्ष्य तृणादिकमपि परित्यज्य निवर्तते तथा गायत्री स्ववत्समाग्रयणमभिलक्ष्य पुनः पुनर्निवृत्य सवनानि निर्वहति। ये देवास्रिशच्चेत्येते त्रिष्टुभौ।