तनेतान्सर्वानु(न)पेक्ष्यानुष्ठानं विधत्ते —
“चात्वालद्धिष्णियानुप वपति योनिर्वै यज्ञस्य चात्वालं यज्ञस्य सयोनित्वाय” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
ततः पुरिषमादायोत्तरवेद्याः करणाच्चात्वालं यज्ञस्य योनिः। तादृशाच्चात्वालाद्धिष्णियनामकानां स्थलविशेषाणां निवपने यज्ञः सर्वोऽपि स्वयोनियुक्तो भवति।
कालान्तरेऽनुष्ठेयान्यपि कानिचिद्धिष्णियप्रसङ्गादिह विधीयन्ते।
तत्राऽऽग्नीध्रीयधिष्णियस्थिताद्वह्नेर्होत्रीयादिधिष्णियेष्वग्निस्थापनं विधत्ते —
“देवा वै यज्ञं पराऽजयन्त तमाग्नीध्रात्पुनरपाजयन्नेतद्वै यज्ञस्यापराजितं यदाग्नीध्रं यदाग्नीध्राद्धिष्णियान्विहरति यदेव यज्ञस्यापराजितं तत एवैनं पुनस्तनुते” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
पराजयन्त पराजयमकुर्वत। यज्ञमसुरा अगृह्णन्। पुनस्तं यज्ञमाग्नीध्रदेवता-
सामर्थ्येनासुरेभ्योऽपच्छिद्य देवा अजयन्। आग्नीध्रस्यापराजितस्थानत्वात्ततो विहरणं युक्तम्।
प्रैषमन्त्रमुत्पादयति —
“पराजित्येव खलु वा एते यन्ति ये बहिष्पवमानं सर्पन्ति बहिष्पवमाने स्तुत आहाग्नीदग्नीन्वि हर बर्हिः स्तृणाहि पुरोडाशा अलं कुर्विति यज्ञमेवापजित्य पुनस्तत्वाना यन्ति” (सं॰ का॰ ६ प्र॰ ३॰ अ॰ १) इति।
बहिष्पवमानं नाम प्रातःसवने सामगैर्गीयमानमुपास्मै गायतेत्यादिकं स्तोत्रम्। तत्तु गायन्त ऋत्विजो धावन्ति यथा लोके पराजित्य पलायन्ते तद्वत्। ततः स्तोत्रे समापिते सत्याग्नीध्रं संबोध्याग्निविहरणादिप्रैष उक्ते यज्ञं पराजयादपावृत्य पुनः प्रसारितवन्तो भवन्ति।
विहरणे विशेषं विधत्ते —
“अङ्गारैर्द्वे सवने वि हरति शलाकाभिस्तृतीय सशुक्रत्वायाथो सं भरत्येवैनत्” (सं॰ का॰ ६ प्र॰ ३॰ अ॰ १) इति।
प्रातःसवनमाध्यंदिनसवनयोराग्नीध्रीयगतैर्दग्धकाष्ठैर्विहरेत्। तृतीयसवने तु शलाकभिर्दीप्ततृणमुष्टिभिर्विरहेत्। अत्र सोमस्य गायत्रीमुखेन(ण) पीतत्वान्नास्ति सोमे तेजः। दीप्तासु शलाकासु साररूपं तजोऽस्तीति सशुक्रत्वाय सतेजस्त्वाय तथा कुर्यात्। किंचैनत्तृतीयसवनमितरसदृशं कृत्वा संभरति सम्यक्पोषयति।
पूर्वोक्तं धिष्णियसंघं प्रशंसति —
“धिष्णिया वा अमुष्मिल्लोँके सोममरक्षन्तेभ्योऽधि सोममाहरन्तमन्ववायन्तं पर्यविशन्” (सं॰ का॰ ६ प्र॰ ३॰ अ॰ १) इति।
स्वानभ्राजादय इव धिष्णियदेवता अपि सोमं रक्षन्ति। आह्रियमाणं सोममनु स्वयमप्यागत्य परित उपविष्टाः।
तस्मात्प्रशस्ता धिष्णियाः।
एतद्वेदनं प्रशंसति —
“य एवं वेद विन्दते परिवेष्टारम्” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
सेवकयजनमित्यर्थः।
केषुचिद्धिष्णियेषु सोमाहुतिं विदधाति—
“ते सोमपीथेन व्यार्ध्यन्त ते देवेषु सोमपीथमैच्छन्त तान्देवा अब्रुवन्द्वेद्वे नामनी कुरध्वमथ प्र वाऽऽप्स्यथ न वेत्यग्नयो वा अथ धिष्णियास्तस्माद्द्विनामा ब्राह्मणोऽर्धुकस्तेषां ये नेदिष्ठं पर्यविशन्ते सोमपीथं प्राऽऽप्नुवन्नाहवनीय आग्नीध्रीयो होत्रीयो मार्जालीयस्तस्मात्तेषु जुह्वति” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
ते धिष्णियाः सोमपानेन वियुक्ताः। ततस्ते देवेषु मध्ये सोमपानमस्माकमस्त्वित्यैच्छन्त। एकैकनाममात्रधारणेन युष्माकं सोमपानयोग्यता सर्वथा नास्ति। नामद्वये तु स्वीकृते पाक्षिकी तद्योग्यतेति देवैरुक्ता अग्निनाम धिष्णियनाम च कृतवन्तः। यस्मान्नामद्वयमुत्कर्षहेतुस्तस्माल्लोकेऽपि देवदत्तादिनाम प्रथमं धृत्वा पश्चात्तपोविद्यादिभिराचार्योपाध्यायादिकं द्वितीयं नाम दधत्सत्कारेण समृद्धो भवति। नामद्वयधारिणां तेषां मध्ये ये चत्वार आवहनीयादयः सोमस्यात्यन्तसमीपे निविष्टस्ते समीपवर्तित्वेन सोमपानयोग्या इति तेषु सोमं जुहुयुः।
द्विनामधारित्वेनेतरेषामपि प्रसक्तं सोमपानं वारयति —
“अतिहाय वषट्करोति वि ह्येते सोमपीथेनाऽऽर्ध्यन्त” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
ये दूरवर्तिनो मैत्रावरुणधिष्णियादयस्तानतिलङ्घ्य समीपस्थेभ्य एव वषट्कारस्तथाऽपि अनुवषट्कारप्रदानाहुतिब्राह्मण ऐतरेयश्रुतौ तदाहुतिदेवतात्वेन चतुर्णामेव श्रवणात्तानतिहाय वषट्करोतीत्युक्तम्।
सोमाहुतीनां व्यवस्थां विधत्ते —
“देवा वै याः प्राचीराहुतीरजुहवुर्ये पुरस्तादसुरा आसन्तास्ताभिः प्राणुदन्त याः प्रतीचीर्ये पश्चादसुरा आसन्तास्ताभिरपानुदन्त प्राचीरन्या आहुतयो हूयन्ते प्रत्यङ्ङासीनो धिष्णियान्व्याघारयति पश्चाच्चैव पुरस्ताच्च यजमानो भ्रातृव्यान्प्र णुदते तस्मात्पराचीः प्रजाः प्र वीयन्ते प्रतीचीर्जायन्ते” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
प्राङ्मुखेग हूयमानाः प्राचीरुत्तरवेदिगताः। यस्मादाहुतिषु द्वैविध्यं तस्माल्लोकेऽपि प्रजाः पित्रा यन्मुखेन प्रवीयन्ते निषिच्यन्ते तद्विपरीतदिङ्मुखा उत्पद्यन्ते।
अध्वर्योः प्रत्यग्गमननिषेधं निन्दाभ्यामुन्नयति —
“प्राणा वा एते यद्धिष्णिया यदध्वर्युः प्रत्यङ्धिष्णियानतिसर्पेत्प्राणान्त्संकर्षेत्प्रमायुकः स्यान्नाभिर्वा एषा यज्ञस्य यद्धोतोर्ध्वः खलु वै नाभ्यै प्राणोऽवाङपानो यदध्वर्युः प्रत्यङ्होतारमतिसर्पेदपाने प्राणं दध्यात्प्रमायुकः स्यात्” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
अतिसर्पेदतिक्रम्य गच्छेत्। होता यज्ञस्य नाभिर्मध्यदेशे वर्तते। प्राणवत्प्राग्वर्तिनोरध्वर्योः प्रत्यग्गमनमयुक्तम्।
ऋत्विज उपगायन्तीति विधिप्राप्तगानमध्वर्योर्निषेधति —
“नाध्वर्युरुप गायेद्वाग्वीर्यो वा अध्वर्युर्यदध्वर्युरुपगायेदुद्गात्रे वाच सं प्रयच्छेदुपदासुकाऽस्य वाक्स्यात्” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
उद्गात्रा सामनि गीयमाने पृष्ठतदङ्गीकरणमुपगानम्। उपदासुकोपक्षयशीला। प्रकारन्तरेणाध्वर्योः प्रत्यग्गमनं विधातुं।
चोद्यमुद्भावयति —
“ब्रह्मवादिनो वदन्ति नासस्थिते सोमेऽध्वर्युः प्रत्यङ्सदोऽतीयादथ कथा दाक्षिणानि होतुमेति” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
अध्वर्योः सद उल्लङ्घ्य प्रत्यग्गमनं निषिद्धम्। दाक्षिणहोमस्तु प्राचीनवंशे नूतनगार्हपत्ये कर्तव्यः। तत्कथं घटते। असंस्थितेऽसमाप्ते। कथा केन प्रकारेण।
उक्तचोद्यस्य परिहारभासमाशङ्कते —
“यामो हि स तेषाम्” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
याम उपरमः। यस्मात्स दाक्षिणहोमस्तेषां देवानां संबन्धिनः कर्मण उपरमकालीनोऽतो लौकिकगमनत्वाद्देवा अनुज्ञास्यन्ति।
इत्थमुत्तराभासं दूषयति –
“कस्मा अह देवा यामं वाऽयामं वाऽनु ज्ञास्यन्तीति” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
अहेत्युक्तनिषेधे। यदुत्तरवादिनोक्तं भवति, देवाः कस्मै प्रयोजनाय कर्मण उपरतियनुपरतिं वाऽनुज्ञास्यन्ति, न हि तदनुज्ञया देवानां किंचित्प्रयोजनं पश्यामः। ततः प्रत्यग्गमनस्य निषिद्धत्वाद्दाक्षिणहोमो न घटत एवेति चोद्यं सुस्थितम्।
तस्य मुख्यं परिहारं दर्शयन्प्रत्यग्गमनं विधत्ते —
‘उत्तरेणाऽऽग्नीध्रं परीत्य जुहोति दाक्षिणानि न प्राणान्त्सं कर्षति’ [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
आग्नीध्रहविर्धानयोर्मध्ये गत्वा यत्सदोतिक्रमणं तदेव निषिद्धम्। अयं त्वाग्नीध्रं वामतः परित्यज्य तस्मादुत्तरतः प्रत्यङ्मुखो गत्वा प्राचीनवंशे दाक्षिणानि जुहुयात्। ततो नोक्तदोषः।
प्रासङ्गिकं परिसमाप्य प्रकृतमनुसरति। तत्र चात्वालाद्धिष्णियानुपवपतीति सामान्यशास्त्रेणाऽग्नीध्रादीनां प्राजहितान्तानां षोडशानामपि निवपने प्रसक्ते मार्जालीयान्तानामेवेति विशेषं विधत्ते —
‘न्यन्ये धिष्णिया उप्यन्ते नान्ये यान्निवपति तेन तान्प्रीणाति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
इतरेषामाहवनीयादीनां प्राजहितान्तानामष्टानामुपस्थानं विधत्ते —
‘यान्न निवपति यदनुदिशति तेन तान्’ (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति। प्रीणातीत्यनुवर्तते।
अनुदेशनं मन्त्रेणोपस्थानम्।
मन्त्रान्व्याचिख्यासुरादौ होमं विधत्ते —
“सुवर्गाय वा एतानि लोकाय हुयन्ते यद्वैसर्जनानि” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
अवान्तरदीक्षाविसर्जनार्थत्वादेतानि होमकर्माणि वैसर्जनानि।
विशेषान्क्रमेण विधत्ते —
“द्वाभ्यां गार्हपत्ये जुहोति द्विपाद्यजमानः प्रतिष्ठित्या आग्नीध्रे जुहोत्यन्तरिक्ष एवाऽऽक्रमत आहवनीये जुहोति सुवर्गमेवैनं लोकं गमयति” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
द्वाभ्यां त्व सोम जुषाण इत्येताभ्याम्। आग्नीध्रे होमस्य मन्त्रो विधास्यते। आहवनीय उरु विष्णो, इति मन्त्रः।
होमात्पूर्वमेव ब्रह्मणा सोम आदातव्य इति विधत्ते –
“देवान्वै सुवर्गं लोकं यतो रक्षांस्यजिघांसन्ते सोमेन राज्ञा रक्षांस्यपहत्याप्तुमात्मानं कृत्वा सुवर्गं लोकमायन्रक्षसामनुपलाभायाऽऽत्तः सोमो भवत्यथ वैसर्जनानि जुहोति रक्षसामपहत्यै” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
यतो गच्छतः। अप्तुं रक्षोभिरुपलब्धुमशक्यमल्पदेहम्। आत्तो भवति स्वीकृतो भवेत्। तत ऊर्ध्वं कृतो होमो रक्षांस्यपहन्ति।
प्रथममन्त्रस्य पूर्वभागोऽभिप्रेतं सोमस्य सामर्थ्यमुपपादयति —
“त्वं सोम तनूकृद्भ्य इत्याह तनूकृद्ध्येषः” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
तनुच्छिदां रक्षसामपि तनूं कृणत्ति च्छिनत्तीत्येष सोमोऽत्यन्तं तनुकृत्तस्माद्रक्षोभ्योऽस्मान्पालयितुं समर्थः।
द्वितीयभागे विशेष्यं पूरयति —
“द्वेषोभ्योऽन्यकृतेभ्य इत्याहान्यकृतानि हि रक्षासि” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
तृतीयभागस्योरु वरूथमित्यस्य वाक्यस्य शेषं पूरयति —
‘उरु यन्ताऽसि वरुथमित्याहोरु णस्कृधीति वावैतदाह’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
बहुलमस्मदर्थं कुर्वित्येतदेव स भागो ब्रूते।
द्वितीयमन्त्रेऽप्तुशब्दसूचितमाह —
‘जुषाणो अप्तुराज्यस्य वेत्वित्याहाप्तुमेव यजमानं कृत्वा सुवर्गं लोकं गमयति रक्षसामनुपलाभाय’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
प्राचीनवंशान्निष्क्रम्याऽऽग्नीध्रे जिगमिषुभिरनुष्ठेयानि सोमस्वीकारादीनि षड् विधत्ते —
‘आ सोमं ददत आ ग्राव्ण आ वायव्यान्या द्रोणकलशमुत्पत्नीमा नयन्त्यन्वना सि प्र वर्तयन्ति यावदेवास्यास्ति तेन सह सुवर्गं लोकमेति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
सोमं हविर्धाने नेतुमाददीरन्। ग्रावणोऽभिषवार्थाः। वायव्यान्युलूखलसदृशानि ग्रहपात्राणि। द्रोणकलशः प्रौढं काष्ठपात्रम्। एतान्याददीरन्। पत्नीं स्वस्थानादुत्थाप्याऽऽनयेयुः। व्रीह्याद्यौषधद्रव्यार्थं यत्तृतीयं शकटं तदेवासकृदावृत्तत्वादनांसीति बहुवचनेनोच्यते। तदनु पुनः पुनः प्रवर्तयेयुः। एवं सति यजमानस्य स्वं यावदस्ति तेन सर्वेण सह स्वर्गं प्राप्नोति।
विधत्ते — ‘नयवत्यर्चाऽऽग्नीध्रे जुहोति सुवर्गस्य लोकस्याभिनीत्यै’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
अग्ने नय सुपथेत्यसौ नयवती।
विधत्ते — ‘ग्राव्णो वायव्यानि द्रोणकलशमाग्नीध्र उप वासयति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
स्थापयेदित्यर्थः।
तद्वत्सोमस्यापि स्थापनप्राप्तौ तद्वारयितुं ग्रहणं विधत्ते —
‘वि ह्येनं तैर्गृह्णते यत्सहोपवासयेदपुवायेत्’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
एनं सोमं तैर्ग्रावादिभिर्वियुज्य नेतुं गृह्णीरन्। यदि कश्चित्तैः सह स्थापयेत्तदानीमभिषवभीत्या सोमस्योदरं पूति भवेत्। अत्राऽऽज्यशेषस्याऽऽहवनीये होमायोरु विष्णो, इति यो मन्त्रो यश्च ततः पूर्वोऽयं नो अग्निरिति मन्त्रस्तावुपेक्षितौ।
विधत्ते —
‘सौम्यर्चा प्र पादयति स्वयैवैनं देवतया प्र पादयति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
स्पष्टार्थतां दर्शयति —
‘अदित्याः सदोऽस्यदित्याः सद आ सीदेत्याह यथायजुरेवैतत्’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
सवितृसंबोधनतात्पर्यमाह —
‘यजमानो वा एतस्य पुरा गोप्ता भवत्येष वो देव सवितः सोम इत्याह सवितृमसूत एवैनं देवताभ्यः सं प्र यच्छति” [सं॰ का॰ ६ प्र॰ ३ अ॰ २] इति।
मन्त्रभागयोर्द्वयोः प्रसिद्धिं तृतीयभागे विपक्षबाधं च दर्शयति —
“एतत्त्व सोम देवो देवानुपागा इत्याह देवो ह्येष सन्देवानुपैतीदमहं मुनुष्यो मनुष्यानित्याह मनुष्यो ह्येष सन्मनुष्यानुपैति यदेतद्यजुर्न ब्रूयादप्रजा अपशुर्यजमानः स्यात्सह प्रजया सह रायस्पोषेणेत्याह प्रजयैव पशुभिः सहेमं लोकमुपावर्तते” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
मन्त्रद्वयार्थप्रसिद्धिं दर्शयति —
“नमो देवेभ्य इत्याह नमस्कारो हि देवानां स्वधा पितृभ्य इत्याह स्वधाकारो हि पितृणाम्” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
निर्वरुणस्य पाशादित्यत्र निर्मुञ्चामीत्यध्याहर्तव्यम्।
एतमेवाभिप्रायं दर्शयति —
“इदमहं निर्वरुणस्य पाशादित्याह वरुणपाशादेव निर्मुच्यते’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
अस्य तु मन्त्रस्य प्रतीकग्रहणपूर्वकं तात्पर्यमाह —
“अग्ने व्रतपत आत्मनः पूर्वा तनूरादेयेत्याहुः को हि तद्वेद यद्वसीयान्त्स्वे वशे भूते पुनर्वा ददाति न वेति” [सं॰ का॰ ६ प्र॰ ३ अ॰ २] इति।
अग्ने व्रतपत इत्येतावत्प्रतीकम्। स्वकीया पूर्वा तनूरग्निसकाशात्सहसा स्वीकार्येति बुद्धिमन्त आहुः। कुतः वसीयानत्यन्तधनिकः प्रभुः परकीये वस्तुनि स्ववशीभूते सति पुनर्ददाति वा न वेति यत्तत्को नाम वेद। ततो वशीभावात्प्रागेवाऽऽदेया।
ग्रावादीनामाग्नीध्रे स्थापनं यत्पूर्वमुक्तं तत्प्रशंसति —
“ग्रावाणो वै सोमस्य राज्ञो मलिम्लुसेना य एवं विद्वान्ग्राव्ण आग्नीध्र उपवासयति नैनं मलिम्लुसेना विन्दति” [सं॰ का॰ ६ प्र॰ ३ अ॰ २] इति।
मलिम्लुसेना विरोधितस्करसेना।
विधत्ते —
‘वैष्णव्यर्चा हुत्वा यूपमच्छैति वैष्णवो वै देवतया यूपः स्वयैवैनं देवतयाऽच्छैति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
उरु विष्णो वि क्रमस्वेति स्रुवेणाऽऽहवनीये यूपाहुतिं हुत्वा ततो यूपं प्राप्तुं गच्छेत्।
यथोक्तमन्त्रार्थे प्रसिद्धिं दर्शयति —
“अत्यन्यानगां नान्यानुपागामित्याहाति ह्यन्यानेति नान्यानुपैत्यर्वाक्त्वा परैरविदं परोऽवरैरित्याहार्वाग्घ्येनं परैर्विन्दति परोऽवरैस्तं त्वा जुषे वैष्णवं देवयज्याया इत्याह देवयज्यायै ह्येनं जुषते” [सं॰ का॰ ६ प्र॰ ३ अ॰ ३] इति।
एतदेवाभिप्रेत्याऽऽह –
“देवस्त्वा सविता मध्वाऽनक्त्वित्याह तेजसैवैनमनक्त्योषधे त्रायस्वैन स्वधिते मैन हिसीरित्याह वज्रो वै स्वधितिः शान्त्यै” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
विधत्ते — “स्वधितेर्वृक्षस्य बिभ्यतः प्रथमेन शकलेन सह तेजः परा पतति यः प्रथमः शकलः परापतेत्तमप्या हरेत्सतेजसमेवैनमा हरति” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
स्वधितिभयात्पतितस्य वृक्षतेजस आहरणायेहाऽऽद्यशकलाहरणम्।
अप्रसक्तप्रतिषेधबुद्धिं वारयति —
“इमे वै लोका यूपात्प्रयतो बिभ्यति दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन मा हिंसीरित्याहैभ्य एवैनं लोकेभ्यः शमयति” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
विरोहैवेत्याशीरर्थो विवक्षित इत्याह —
“सहस्रवल्शा वि वयं रुहेमेत्याहाऽऽशिषमेवैतामा शास्ते ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
योऽयं यूपार्थो वृक्षच्छेदः पूर्वमुक्तस्तत्र च्छेदे छेद्यं वृक्षस्य प्रदेशं विधत्ते –
“अनक्षसङ्गं वृश्चेत् ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
छिन्नावशिष्टस्य मूलस्योपरि गच्छतः शकटस्याक्षो यथा न प्रसज्यते तथा नीचं मूलमवस्थाप्य च्छिन्द्यात्।
विपक्षे बाधकमाह —
“ यदक्षसङ्गं वृश्चेदध ईषं यजमानस्य प्रमायुक स्यात् ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
यदि च्छिन्ने वृक्षमूले शकटस्याक्षः प्रसज्येत तदा यजमानस्य संबन्धि गोवत्सादिकमीषाया अधो मरणशीलं भवेत्। शकटस्य प्राचीनं दीर्घकाष्ठमीषा।
शाखाया यूपार्थं छेदनं निन्दति —
“यं कामयेताप्रतिष्ठितः स्यादित्यारोहं तस्मै वृश्चेदेष वै वनस्पतीनामप्रतिष्ठितोऽप्रतिष्ठित एव भवति ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ३] इति। वृक्षमारुह्य जायत इत्यारोहः शाखा। स च भूमावनुत्पन्नत्वादप्रतिष्ठितः। तस्य यूपत्वे यजमानोऽप्रतिष्ठित एव भवति।
अपर्णमपि निन्दति —
“यं कामयेतापशुः स्यादित्यपर्णं तस्मै शुष्काग्रं वृश्चेदेव वै वनस्पतीनामपशव्योऽपशुरेव भवति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
वनस्पतीनां मध्य एव पर्णरहितः शुष्काग्रश्चापशव्यः पशुभ्यो न हितः।
बहुपर्णं विधत्ते —
‘ यं कामयेत पशुमान्त्स्यादिति बहुपर्णं तस्मै बहुशाखं वृश्चेदेष वै वनस्पतीनां पशव्यः पशुमानेव भवति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
भूमौ समप्रदेशे स्वबीजादुत्पन्नं विधत्ते —
“ प्रतिष्ठितं वृश्चेत्प्रतिष्ठाकामस्यैष वै वनस्पतीनां प्रतिष्ठितो यः समे भूम्यै स्वाद्योने रूढः प्रत्येव तिष्ठति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
स्वाद्योनेरित्यनेन वृक्षजन्या शाखा व्यवर्त्यते।
पश्चिमदिश्यानतं विधत्ते —
“ यः प्रत्यङ्ङुपनतस्तं वृश्चेत्स हि मेधमभ्युपनतः ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
मेधो यज्ञः। स चोत्तरवेद्यां क्रियमाणो यूपस्थानात्प्रत्यङ् भवति। अतो मेधमभिलक्ष्यैवोपनतः।
यूपस्य काम्यानि परिमाणानि विधत्ते —
“ पञ्चारत्निं तस्मै वृश्चेद्यं कामयेतोपैनमुत्तरो यज्ञो नमेदिति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञ उपैनमुत्तरो यज्ञो नमति षडरत्निं प्रतिष्ठाकामस्य षड् वा ऋतव ऋतुष्वेव प्रति तिष्ठति सप्तारत्निं पशुकामस्य सप्तपदा शक्वरी पशवः शक्वरी पशूनेवाव रुन्धे नवारत्निं तेजस्कामस्य त्रिवृता स्तोमेन संमितं तेजस्त्रिवृत्तेजस्व्येव भवत्येकादशारत्निमिन्द्रियकामस्यैकादशाक्षरा त्रिष्टुगिन्द्रियं त्रिष्टुगिन्द्रियाव्येव भवति पञ्चदशारत्निं भ्रातृव्यवतः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै सप्तदशारत्निं प्रजाकामस्य सप्तदशः प्रजापतिः प्रजापतेराप्त्या एकविशत्यरत्नीं प्रतिष्ठाकामस्यैकविशः स्तोमानां प्रतिष्ठा प्रतिष्ठित्यै ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
चतुर्विंशतिरङ्गुलयोऽरत्निः। उत्तरो यज्ञः सोमविकृतिः।
विधत्ते —
“ अष्टाश्रिर्भवत्यष्टाक्षरा गायत्री तेजो गायत्री गायत्री यज्ञमुखं तेजसैव गायत्रिया यज्ञमुखेन संमितः ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
गायत्र्यास्तेजस्त्वमग्निना सहोत्पन्नत्वात्। यज्ञमुखत्वं प्रातःसवने प्रयोज्यत्वात्। अतोऽष्टसंख्याद्वारा तेजोगायत्रीयज्ञमुखैः समानो भवति। तस्मात्तक्षणेन यूपस्याष्टावश्रयः कार्याः।
लोकत्रयाभिमानिदेवताप्रीत्यर्थं प्रोक्षणमित्वाह —
“ पृथिव्यै त्वाऽन्तरिक्षाय त्वा दिवे त्वेत्याहैभ्य एवैनं लोकेभ्यः प्रोक्षति ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ४] इति।
नात्रौदुम्बर्या इवाग्रमारभ्याधोमुखप्रोक्षणं किंतु मूलमारभ्योर्ध्वमुखमिति विधत्ते —
‘ पराञ्चं प्रोक्षति पराङिव हि सुवर्गो लोकः ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
एतानर्थान्विधत्ते —
‘ क्रूरमिव वा एतत्करोति यत्खनत्यपोऽव नयति शान्त्यै यवमतीरव नयत्यूर्ग्वै यवो यजमानेन यूपः संमितो यावानेव यजमानस्तावतीमेवास्मिन्नूर्जं दधाति पितृणा सदनमसीति बर्हिरव स्तृणाति पितृदेवत्यं ह्येतद्यन्निखातं यद्बर्हिरनवस्तीर्य मिनुयात्पितृदेवत्यो निखातः स्याद्बर्हिरवस्तीर्य मिनोत्यस्यामेवैनं मिनोति, ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
यद्यप्यत्र यूपावटखननं नाऽऽम्नातं तथाऽप्यौदुम्बर्यामाम्नातं तस्येहानुवृत्तिमभिप्रेत्य यत्खनतीत्यनूद्यते। तदनुवृत्तये समानविषयत्वं प्रत्यभिज्ञापयितुं तत्र विहितमप्यवनयनादिकं पुनरत्र विधीयते।
विधत्ते —
“ यूपशकलमवास्यति सतेजसमेवैनं मिनोति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
यत्पूर्वोक्तं स्वधितेर्वृक्षस्य बिभ्यतः प्रथमेन शकलेन सह तेजः परापततीति शकले प्रक्षिप्ते सति तेन तेजसा सहितमेवैनं यूपं स्थापितवान्भवति।
तदिदं दर्शयति —
“ देवस्त्वा सविता मध्वाऽनक्त्वित्याह तेजसैवैनमनक्ति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
विधत्ते —
“ सुपिप्पलाभ्यस्त्वौषधीभ्य इति चषालं प्रति मुञ्चति तस्माच्छीर्षत ओषधयः फलं गृह्णन्ति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
यस्मात्फलार्थमग्रे चषालः प्रतिमुक्तस्तमस्माच्छिरस्यग्रे फलग्रहणम्।
विधत्ते — “ अनक्ति तेजो वा आज्यं यजमानेनाग्निष्ठाऽश्रिः संमिता यदग्निष्ठामश्रिमनक्ति यजमानमेव तेजसाऽनक्त्यान्तमनक्त्यान्तमेव यजमानं तेजसाऽनक्ति ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ४ ] इति।
तक्षणेन निष्पादितास्वष्टासु यूपाश्रिषु मध्ये येयमाहवनीयाग्निसमीपे स्थिता साऽग्निष्ठा तामाज्येनानक्ति। तदिदमञ्जनममन्त्रकमिति बौधायनस्य मतम्। अथ स्रुवेणाग्निष्ठामश्रिमभिघारयन्नाह यूपायाज्यमानायानुब्रूहीत्येतावत एवाभिधानात्।
विधत्ते —
“ सर्वतः परि मृशत्यपरिवर्गमेवास्मिन्तेजो दधाति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
यजमाने कमप्यवयवमवर्जयित्वा तेजो दधाति।
वाक्यत्रयप्रयोजनमाह —
“ उद्दिव स्तभानाऽन्तरिक्षं पृणेत्याहैषां लोकानां विधृत्यै ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
विधत्ते —
‘ वैष्णव्यर्चा कल्पयति वैष्णवो वै देवतया यूपः स्वयैवैनं देवतया कल्पयति ’ (सं॰ का॰ ६ प्र॰ २ अ॰ १०) इति।
ते ते धामानीत्यसौ वैष्णवी। कल्पयति उच्छ्रयेत्।
मन्त्रान्तरं त्वेवमाम्नातम् — विष्णोरिति। हे जना विष्णोः कर्माणि सृष्टिस्थितिसंहारचरितानि पश्यत, यतो यैः कर्मभिर्व्रतानि भवदीयलौकिकवैदिककर्माणि पस्पशे सृष्टवान्निर्मितवान्। स विष्णुरिन्द्रस्य युज्यो योग्यः सखा।
तद्विष्णोरिति। तद्विष्णोरिति मन्त्रस्यायमर्थः — सूरयो विद्वांसो वेदान्तपारंगता विष्णोस्तत्परमं पदं स्वरूपं सदा पश्यन्ति। कीदृशं दिव्याकाशे निरावरणे प्रसृतं चक्षुरिवाऽऽततं व्याप्तम्। तादृशस्य विष्णोरनुग्रहाद्वैष्णवस्य यूपस्याग्निष्ठामश्रिमाहवनीयेन संमितां स्थापयामीत्यर्थः।
अस्मिन्स्थापने विष्णोः कर्माणि तद्विष्णोरिति मन्त्रद्वयं विनियुङ्क्ते —
‘ द्वाभ्यां कल्पयति द्विपाद्यजमानः प्रतिष्ठित्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
ते ते धामानीत्यादीनां त्रयाणां मन्त्राणां पदार्था उपेक्षिताः।
अग्निष्ठाश्रिस्थापने पूर्वपक्षं दर्शयति —
‘यं कामयेत तेजसैनं देवताभिरिन्द्रियेण व्यर्धयेयमित्यग्निष्ठां तस्याश्रिमाहवनीयादित्थं वेत्थं वाऽति नावयेत्तेजसैवैनं देवताभिरिन्द्रियेण व्यर्धयति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
तक्षणवेलायामष्टास्वश्रिषु कांचिदाश्रिमियमाग्निष्ठेति प्रज्ञातां कुर्यात्। तामश्रिं यूपस्य पश्चिमभागे स्थितादा(तमा)हवनीयमतिलङ्घ्य दक्षिणत उत्तरतो वा नावयेत्प्रापयेत्। तथा सति तेजआदिभिर्व्यर्धयति वियोजयति।
सिद्धान्तं दर्शयति —
‘ यं कामयेत तेजसैनं देवताभिरिन्द्रियेण समर्धयेयमित्यग्निष्ठां तस्याश्रिमाहवनीयेन सं मिनुयात्तेजसैवैनं देवताभिरिन्द्रियेण समर्धयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति। संमिनुयात्संमुखां स्थापयेत्।
मन्त्रयोः स्पष्टार्थतां दर्शयति —
‘ब्रह्मवनिं त्वा क्षत्रवनिमित्याह यथायजुरेवैतत्” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
विधत्ते —
‘ परि व्ययत्यूर्ग्वै रशना यजमानेन यूपः संमिता यजमानमेवोर्जा समर्धयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
ओषधिविशेषैर्दर्भैरुत्पन्नत्वाद्रशनाया ऊर्ग्रूपत्वम्। तया यूपस्य संबन्धे सति यूपप्रमाणहेतुर्यजमान एवान्नेन समृद्धो भवति।
रशनाया मध्यमगुणस्य देशं विधत्ते —
‘नाभिदघ्ने परि व्ययति नाभिदघ्न एवास्मा ऊर्जं तधाति तस्मान्नाभिदघ्न ऊर्जा भुञ्जते’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति। अस्मा अस्य यजमानस्य नाभिदघ्न उदर ऊर्जं स्थापयति। ततः सर्वे तत्रोर्जा भुञ्जते भुक्तामूर्जं धारयन्ति।
नाभिदघ्नप्रशंसार्थं निन्द्यं पक्षमुपन्यस्यति —
‘यं कामयेतोर्जैनं व्यर्धयेयमित्यूर्ध्वां वा तस्यावाचीं वाऽवोहेदूर्जैवैनं व्यर्धयति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
उदरसदृशान्नाभिदघ्नादूर्ध्वमधो वा रशनावेष्टने यजमानमन्नेन वियोजयति।
कामनाभेदेन देशविशेषं विधत्ते —
‘यदि कामयेत वर्षुकः पर्जन्यः स्यादित्यवाचीमवोहद्वृष्टिमेव नियच्छति यदि कामयेतावर्षुकः स्यादित्यूर्ध्वामुदूहेद्वृष्टिमेवाद्यच्छति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
नाभिदघ्नदेशादवाचीनमधोदेशे बद्धां पुनरप्यवोहेदपकर्षेत्तेन वृष्टिं नियच्छति न्यग्भावेन प्रवर्तयति। ऊर्ध्वप्रदेशे बद्धां पुनरप्युदूहेदुत्कर्षेत्तेन वृष्टिमुद्यच्छति ऊर्ध्वं प्रवर्तयति निवारयतीत्यर्थः।
यूपं सर्वदेवताप्रीतिहेतुतया स्तौति —
‘ पितॄणां निखातं मनुष्याणामूर्ध्वं निखातादा रशनाया ओषधीना रशना विश्वेषां देवानामूर्ध्व रशनाया आ चषालादिन्द्रस्य चषाल साध्यानामतिरिक्त स वा एष सर्वदेवत्यो यद्यूपो यद्यूपं मिनोति सर्वा एव देवताः प्रीणाति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
निखातमुपरं पितॄणां प्रियं, निखातरशनादेशयोर्मध्यं मनुष्याणां रशनादेश ओषधीनां, तद्देशचषालयोर्मध्यं विश्वेषां देवानां चषालदेश इन्द्रस्य, अतिरिक्तं तु साध्यानाम्।
पुनरपि स्वर्गलोकावगतिहेतुतया यूपं स्तौति —
यज्ञेन वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति ते यूपेन योपयित्वा सुवर्गं लोकमायन्तमृषयो यूपेनैवानु प्राजानन्तद्यूपस्य यूपत्वं यद्यूपं मिनोति सुवर्गस्य लोकस्य प्रज्ञात्यै ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ४] इति।
देवाः पुरा कदाचिद्यज्ञं कृत्वा तेन यज्ञेन स्वर्गं गच्छन्तो मनुष्या अप्यस्मानन्वागत्यास्मत्सदृशास्ते भविष्यन्तीति मत्वा यूपेन मनुष्यान्योपयित्वा मोहयित्वा स्वयमेव स्वर्गं गताः। यूपः सर्वदेवत्य इत्यज्ञात्वा काष्ठमात्ररूप इति बुद्धिर्मोहः। ऋषयस्तु यूपमाहात्म्यस्यातीन्द्रियस्यापि द्रष्टारस्तेनैव विदिततत्त्वेन यूपेन देवाननु तं स्वर्गं प्रज्ञातवन्तः। तत्तस्मान्मनुष्यमोहनहेतुत्वाद्यूपस्य यूपत्वं यूपनाम संपन्नम्। ‘ यू(यु)प विमोहने ’ इत्यस्माद्धातोर्यूपशब्दो निष्पन्नः। एवं च सति विदतमाहात्म्यस्य यूपस्य स्थापनेन स्वर्गः प्रज्ञायते।
आहवनीयात्पूर्वदेशे यूपस्थापनाय विधत्ते —
‘ पुरस्तान्मिनोति पुरस्ताद्धि यज्ञस्य प्रज्ञायते प्रज्ञात हि तद्यदतिपन्न आहुरिदं कार्यमासीदिति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
यदुक्तं चषालादतिरिक्तं साध्यानामिति तत्समर्थ्यते —
“ साध्या वै देवा यज्ञमत्यमन्यन्त तान्यज्ञो नास्पृशत्तान्यद्यज्ञस्यातिरिक्तमासीत्तदस्पृशदतिरिक्तं वा एतद्यज्ञस्य यदग्नावग्निं मथित्वा प्रहरत्यतिरिक्तमेतद्यूपस्य यदूर्ध्वं चषालत्तेषां तद्भागधेयं तानेव तेन प्रीणाति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
साध्यनामका देवाः पुरा यज्ञं क्लृप्तं यज्ञभागमतिलङ्घ्याधिको भागोऽस्माकमस्त्वित्यमन्यन्त। तानधिकं लिप्समानान्यज्ञो नास्पृशत्। तर्हि किमस्पृशत्। यद्यज्ञस्यातिरिक्तमिहाऽऽसीत्तत्तानस्पृशत्। किमतिरिक्तम्। यदग्नावग्निं मथित्वा प्रहरणमस्ति एतदन्ययज्ञेऽभावादिहातिरिक्तम्। यदपि चषालादूर्ध्वं यूपाग्रमेतदपि यजमानपरिमाणादधिकत्वादतिरिक्तम्। तदुभयं साध्यानां प्रीतिहेतुः।
यूपप्रसङ्गात्स्वकाले स्वरुहोमं विधत्ते —
‘ देवा वै संस्थिते सोमे प्र स्रुचोऽहरन्प्र यूपं तेऽमन्यन्त यज्ञवेशसं वा इदं कुर्म इति ते प्रस्तर स्रुचां निष्क्रयणमपश्यन्त्स्वरुं यूपस्य सस्थिते सोमे प्र प्रस्तर हरति जुहोति स्वरुमयज्ञवेशसाय ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
पुरा देवाः समाप्ते सोमयज्ञे स्रुचो यूपं चाग्नौ प्राहरन्नग्नौ प्रहर्तुं संकल्पितवन्तः। ततो यज्ञविनाशो मा भूदिति विचार्य प्रस्तरेण स्रुचः स्वरुणा यूपं च निष्क्रीतवन्तः। तस्मात्सोमसमाप्तौ प्रस्तरमग्नौ प्रहरेत्स्वरुं च जुहुयात्। स्वरुर्यूपतक्षणे प्रथमः शकलः।
तद्विस्पष्टयितुमादावग्निमन्थनमन्त्रान्व्याचिख्यासुर्मन्थनविशिष्टमग्निप्रहरणं विधत्ते —
“ साध्या वै देवा अस्मिल्लोँक आसन्नान्यत्किंचन मिषत्तेऽग्निमेवाग्नये मेधायाऽऽलभन्त न ह्यन्यदालम्भ्यमविन्दन्ततो वा इमाः प्रजाः प्राजायन्त यदग्नावग्रिं मथित्वा प्रहरति प्रजानां प्रजननाय ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ५] इति।
मनुष्यपश्वादिसृष्टेः पुरा लोके साध्यनामका देवा एवाऽऽसन्। अन्यत्किमपि मिषत्प्राणिजातं नाऽऽसीत्। ते च साध्याः प्रजाकामास्तद्धेतवे यज्ञायाऽऽलभन्त(म्भन) योग्यमन्यत्पशुजातमलब्ध्वाऽग्निमेव पशुत्वेनाग्नये देवताया आलभन्त पुरुषारण्यपशुन्यायेन पर्यग्निकरणान्तासंस्कारानकुर्वत।
तत्र प्रथमपक्षे दोषमाह —
“ रुद्रो वा एष यदग्निर्यजमानः पशुर्यत्पशुमालभ्याग्निं मन्येद्रुद्राय यजमानमपि दध्यात्प्रमायुकः स्यात् ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ५) इति। रुद्रः क्रूरः। पशोर्यजमाननिष्क्रयणरूपत्वात्पशुरेव यजमानः। ततः आलम्भादूर्ध्वमग्निमन्थने हविर्भूतं यजमानमपि रुद्राय दद्यात्। ततो यजमानो मरणशीलः स्यात्।
तस्मिन्नेव पक्षे गुणमपि दर्शयति —
“ अथो खल्वाहुरग्निः सर्वा देवता हविरेतद्यत्पशुरिति यत्पशुमालभ्याग्निं मन्थति हव्यायैवाऽऽसन्नाय सर्वा देवता जनयति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ५) इति।
द्वितीयपक्षं सिद्धान्तत्वेनोपादत्ते —
“उपाकृत्यैव मन्थ्यस्तन्नेवाऽऽलब्धं नेवानालब्धम्” [सं॰ का॰ ६ प्र॰ ३ अ॰ ३] इति।
उपाकरणेनाऽऽलम्भ उपक्रान्तोऽतो यथोक्तगुणः सिध्यति। अमारणेनासमाप्तत्वाद्यथोक्तदोषो न भविष्यति।
द्वयोर्मन्त्रयोरर्थे प्रसिद्धिं दर्शयति —
“ अग्नेर्जनित्रमसीत्याहाग्नेर्ह्येतज्जनित्रं वृषणौ स्थ इत्याह वृषणौ ह्येतौ ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ५) इति।
स्त्रीमन्त्रपुरुषमन्त्रतत्समवधानमन्त्रैर्मिथुनत्वसिद्धिं दर्शयति —
“ उर्वश्यस्यायुरसीत्याह मिथुनत्वाय ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
वृषणशब्देन निषिक्तवीर्यस्थानीय उत्पाद्यो वह्निर्विवक्षित इत्याह —
“ घृतेनाक्ते वृषणं दधाथामित्याह वृषण ह्येते दधाते ये अग्निम् ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ५) इति।
ये अधरोत्तरारणी वह्निं धारयत एते वृषणं सिक्तवीर्यं दधाते इति मन्त्रेणोच्यते।
छन्दसां साधनत्वमनेन मन्त्रेण दर्शितमित्याह —
‘गायत्रं छन्दोऽनु प्र जायस्वेत्याह छन्दोभिरेवैनं प्र जनयति’ (सं० का० ६ प्र० ३ अ० ५) इति।
होतारं प्रत्यध्वर्योः प्रैषमन्त्रमुत्पादयति —
‘अग्नये मथ्यमानायानु ब्रूहीत्याह ’ (सं० का० प्र० ३ अ० ५) इति।
होतुरभि त्वा देव सवितरित्येतामृचं विधत्ते —
‘ सावित्रीमृचमन्वाह सवितृप्रसूत एवैनं मन्थति ’ (सं० का० ६ प्र० ३ अ० ५) इति।
पुनः प्रैषद्वयमुत्पादयति —
‘ जातायानु ब्रूहि प्रह्रियमाणायानु ब्रूहीत्याह काण्डेकाण्ड एवैनं क्रियमाणे समर्धयति ’ (सं० का० ६ प्र० ३ अ० ५) इति।
मन्थनकाण्ड एकः। मथितस्य जन्मकाण्डोऽपरः। जातस्य पूर्वाग्नौ प्रहरणकाण्डोऽन्यः। तत्र सर्वत्र प्रैषे सति मन्त्रैरग्निः समृद्धो भवति।
होतृमन्त्रान्विधत्ते —
‘ गायत्रीः सर्वा अन्वाह गायत्रछन्दा वा अग्निः स्वेनैवैनं छन्दसा समर्धयति ’ (सं० का० ६ प्र० ३ अ० ५) इति।
मन्थनकालेऽनुवचनीया अभि त्वा देव सवितरित्याद्याः। जाते सति उत ब्रुवन्तु जन्तव इत्यादिकमनुब्रूयात्। प्रहरणकाले प्र देवं देववीतय इत्यादिकमनुब्रूयात्। ताः सर्वा ऋचो गायत्र्यः। अग्निश्च गायत्र्या सहोत्पन्नत्वाद्गायत्रछन्दाः।
शिवौ भवतमिति प्रार्थनायाः प्रसक्तिं दर्शयति —
‘अग्निः पुरा भवत्याग्निं मथित्वा प्र हरति तौ संभवन्तौ यजमानमभि संभवतो भवतं नः समनसावित्याह शान्त्यै ’ [सं० का० ६ प्र० ३ अ० ५] इति।
यजमानं भक्षयितुमभिलक्ष्य परस्परसंयुक्तत्वात्तच्छान्त्यै प्रार्थनीयौ। अग्नाव-ग्निरिति मन्त्र उपेक्षितः।
विधत्ते—
‘ प्रहृत्य जुहोति जातायैवास्मा अन्नमपि दधात्याज्येन जुहोत्येतद्वा अग्नेः प्रियं धाम यदाज्यं प्रियेणैवैनं धाम्ना समर्धयत्यथो तेजसा ’ [सं० का० ६ प्र० ३ अ० ६] इति। समर्धयतीत्यन्वयः।
उत्तरभाविनोऽपि मन्थनमन्त्रा औत्सुक्येनाऽऽदौ व्याख्याताः।
अथ पूर्वभाविन उपाकरणमन्त्रान्व्याचिख्यासुर्विधत्ते—
‘ इषे त्वेति बर्हिरा दत्त इच्छत इव ह्येष यो यजते ’ [सं० का० प्र० ३ अ० ६] इति।
एष यजमानो देवेभ्यो दातुं पशुरूपं हविरिच्छत्येव। तस्मादिष इत्युच्यते।
पशुसमीपे देवानाह्वयतीति प्लक्षशाखोपवीरित्युच्यते, तदेतद्दर्शयति—
‘ उपवीरसीत्याहोप ह्येनानाकरोति ’ [सं० का० ६ प्र० ३ अ० ६] इति।
हृदयाद्यवयवा देवान्देवप्रजाश्च प्राप्ता इति यद्व्याख्यातं तत्प्रसिद्धमित्याह —
‘ उपो देवान्दैवीर्विशः प्रागुरित्याह दैवीर्ह्येता विशः सतीर्देवानुपयन्ति ’ (सं० का० ६ प्र० ३ अ० ६) इति।
यद्वा हृदयादय एव पदार्थत्वेन देवप्रजा भूत्वा देवान्प्राप्नुवन्ति।
वह्निशब्दो वाहकवाचीत्यभिप्रेत्य दर्शयति —
‘ वह्निरुशिज इत्याहर्त्विजो वै वह्नय उशिजस्तस्मादेवमाह ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
अत्र पशुप्रदत्वेन बृहस्पतिप्रार्थनमित्याह —
‘ बृहस्पते धारया वसूनीत्याह ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै पशूनव रुन्धे ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
हृदयादीनि स्वादूकर्तुमियमाशीरित्याह –
‘ हव्या ते स्वदन्तामित्याह स्वदयत्येवैनान् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
मिथुनरूपपशुप्रदत्वेन त्वष्टुः प्रार्थनमित्याह —
‘ देव त्वष्टर्वसु रण्वेत्याह त्वष्टा वै पशूनां मिथुनाना रूपकृद्रूपमेव पशुषु दधाति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
रेवतीशब्दः पशुपर इत्याह —
‘ रेवती रमध्वमित्याह पशवो वै रेवतीः पशूनेवास्मै रमयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
विधत्ते —
‘ देवस्य त्वा सवितुः प्रसव इति रशानामा दत्ते प्रसूत्या अश्विनोर्बाहुभ्यामित्याहाश्विनौ हि देवानामध्वर्यू आस्तां पूष्णो हस्ताम्यामित्याह यत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
ऋतशब्दार्थमाह —
‘ऋतस्य त्वा देवहविः पाशेनाऽऽरभ इत्याह सत्यं वा ऋत सत्येनैवैनमृतेनाऽऽरभते’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
अवश्यंभाविफलोपेतत्वाद्यज्ञस्वरूपं सत्यं, तेन निमित्तेनैनं पशुं बध्नाति।
बन्धनप्रकारं विधत्ते —
‘ अक्ष्णया परि हरति वध्य हि प्रत्यञ्चं प्रतिमुञ्चन्ति व्यावृत्त्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
अक्ष्णया पूर्वोक्तया दक्षिणपादादिशिरोभागपर्यन्तया वक्रया परिहरति वेष्टयति। लोके तु मांसभक्षिणो वध्यं पशुं प्रत्यञ्चं स्वाभिमुखमवस्थाप्य गले पाशं प्रतिमुञ्चन्ति। अतस्तद्व्यावृत्तये वक्रबन्धनम्।
विधत्ते —
‘धर्षा मानुषानिति नि युनिक्ति धृत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
नियुनक्ति निरन्तरं बध्नीयात्। तञ्च बन्धनं धृत्यर्थं पलायननिवारणार्थम्।
पातृस्वीकृताभ्यां तृणोदकाभ्यां पशोरुत्पन्नत्वेनोभयेन प्रोक्षणं युक्तमित्याह —
‘अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीत्याहाद्भ्यो ह्येष ओषधीभ्यः संभवति यत्पशुः ’ [का॰ ६ प्र॰ ३ अ॰ ६] इति।
पेरुशब्दः पातृवाचीत्याह —
‘ अपां पेरुरसीत्याहैष ह्यपां पाता यो मेधायाऽऽरभ्यते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
यज्ञार्थमालभ्यमानस्य पशोरित ऊर्ध्वमुदकपानाभावादिदानीमेव पातृत्वम्। हे आपो देव्यः स्वात्तं चित्स्वादुभूतमपि सदेवं देवतार्थं हव्यं होतुं योग्यमेनं पशुं स्वदत स्वादुं कुरुत।
अनेन मन्त्रेण स्वादुता भवतीत्याह —
‘ स्वात्तं चित्सदेव हव्यमापो देवीः स्वदतैनमित्याह स्वदयत्येवैनम् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
त्रिभिर्मन्त्रैरनुष्ठेयानि विधत्ते —
‘ उपरिष्टात्प्रोक्षत्युपरिष्टादेवैनं मेध्यं करोति पाययत्यन्तरत एवैनं मेध्यं करोत्यधस्तादुपोक्षति सर्वत एवैनं मेध्यं करोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ६] इति।
अथ होतारं प्रत्यध्वर्योः प्रैषमुत्पादयति –
‘अग्निना वै होत्रा देवा असुरानभ्यभवन्नग्नये सामिध्यमानायानु ब्रूहीत्याह भ्रातृव्याभिभूत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
अग्निः समिद्धो भ्रातृव्यानभिभवति।
अग्निसमिन्धनाय होत्राऽनूच्यमानानामृचां चोदकप्राप्तां पञ्चदशसंख्यामपोद्य सप्तदशसंख्यां विधत्ते —
‘ सप्तदश सामिधेनीरन्वाह सप्तदशः प्रजापतिः प्रजापतेराप्त्यै ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।
आश्रावयेत्यादिभिरक्षरैः प्रजापतेः सप्तदशत्वम्।
तमेव विधिमनूद्य प्रशंसति —
‘ सप्तदशान्वाह द्वादश मासाः पञ्चर्तवः स संवत्सरः संवत्सरं प्रजा अनु प्र जायन्ते प्रजानां प्रजननाय ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।
हेमन्तशिशिरयोः समासेनेति बह्वृचब्राह्मणाम्नानादृतूनां पञ्चसंख्या। प्रजाः संवत्सरं गर्भे स्थित्वा पश्चात्प्रजायन्ते।
अमन्त्रकं प्रथममाघारं विधत्ते —
‘ देवा वै सामिधेनीरनूच्य यज्ञं नान्वपश्यन्स प्रजापतिस्तूष्णीमाघारमाघारयत्ततो वै देवा यज्ञमन्वपश्यन्यत्तूष्णीमाघारामाघारयति यज्ञस्यानुख्यात्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
बहुनियमोपेते सामिधेन्यनुवचने व्यापृता बुद्धिः श्रान्ता सती पश्चात्कर्तव्यं यज्ञं नान्वपश्यत्। ततः प्रजापतिस्तूष्णीमाघारेण मन्त्रविषयव्यापारजन्यं बुद्धेः श्रममपनीतवान्।
तमेव विधियनूद्य प्रशंसति —
‘असुरेषु वै यज्ञ आसीत्तं देवास्तूष्णी होमेनावृञ्जत यत्तूष्णीमाघारमाघारयति भ्रातृव्यस्यैव तद्यज्ञं वृङ्क्ते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
असुरा गूढचारिणो भूत्वा देवैरनुष्ठितमवगत्य स्वयमपि तथैवानुतिष्ठन्ति।
तथा च श्रुत्यन्तरम् —
‘ देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ’ इति। तं वृत्तान्तमवगत्य देवा गूढचारिणां समीपे प्रथममाघारममन्त्रकं हुतवन्तः तं दृष्टवन्तोऽसुराः सहसा गत्वा कृत्स्नं यज्ञं तूष्णीं कृत्वा नाशितवन्तः। तमभिप्रेत्य तं देवास्तूष्णीं होमेनावृञ्जतेत्युच्यते।
त्रयाणां परिधीनां मार्जनं प्रत्येकं तदावृत्तिं च विधत्ते —
‘ परिधीन्त्सं मार्ष्टि पुनात्येवैनान्त्रिस्त्रिः सं मार्ष्टि त्र्यावृद्धि यज्ञोऽथो रक्षसामपहत्यै द्वादश सं पद्यन्ते द्वादश मासाः संवत्सरः संवत्सरमेव प्रीणात्यथो संवत्सरमेवास्मा उप दधाति सुवर्गस्य लोकस्य समष्ट्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
परिधिषु पतितस्य भस्मादेरपनयनेन ते शुद्धा भवन्ति। तिस्र आवृत्तयो यस्यासौ त्र्यावुत्। त्रिः प्रथमामन्वाहेत्यदिषु तत्प्रसिद्धम्। त्र्यावृत्त्या तदादरं दृष्टवा रक्षसां भयातिशयो भवति। त्रिषु परिधिषु नव संमार्जनान्युक्तानि।
अत्रानुक्तैस्त्रिभिर्वह्निसंमार्जनैः सह द्वादशसंपत्तिः।
अथ स्रुच्याघारं विधत्ते — ‘ शिरो वा एतद्यज्ञस्य यदाघारोऽग्निः सर्वा देवता यदाघारमाघारयति शीर्षत एव यज्ञस्य यजमानः सर्वा देवता अव रुन्धे ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
आघारस्य होमेषु प्रथमभावित्वेन शिरोरूपत्वम्। यद्यपि पशोरिष्टिर्विकृतिवदेवाऽऽघारद्वयं प्राप्नोति तथाऽपि तद्विकृतित्वमेव निश्चेतुं तदीयलिङ्गत्वेनात्र त्पुनर्विहितम्।
स्रुचाऽऽघारशेषेण पश्वञ्जनं विधत्ते —
‘ शिरो वा एतद्यज्ञस्य यदाघार आत्मा पशुराघारमाघार्य पशु समनक्त्यात्मन्नेव यज्ञस्य शिरः प्रति दधाति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति। आत्मा ग्रीवाया अधोवर्तिदेहः।
प्राणस्य बाह्ये वायुसंगमो युक्त इत्याह –
‘ सं ते प्राणो वायुना गच्छतामित्याह वायुदेवत्यो वै प्राणो वायावेवास्य प्राणं जुहोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।
अस्य यज्ञस्य फलेन वायुना यजमानो युज्यत इत्येतमर्थमन्त्यमन्त्रे दर्शयति –
‘ सं यजत्रैरङ्गानि सं यज्ञपतिराशिषेत्याह यज्ञपतिमेवाऽऽस्याशिषं गमयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
मध्यममन्त्रेण हृदयाद्यङ्गानि यागविशेषैर्योजयतीत्येतावदुन्नेयम्।
पूर्वं शिरस्यञ्जनं विहितम्।
इदानीं ककुदि श्रोण्यां चाञ्जनं विधत्ते। अथवा पूर्वविधेः साधारणत्वात्तमेवानूद्य प्रशंसति —
‘ विश्वरूपो वै त्वाष्ट्र उपरिष्टात्पशुमभ्यवमीत्तस्मादुपरिष्टात्पशोर्नावद्यन्ति यदुपरिष्टात्पशु समनक्ति मेध्यमेवैनं करोति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
त्वष्टुः पुत्रो विश्वरूपः पशुमभि प्राप्योपरिष्टात्पृष्ठभागे वमनमकरोत्। तस्माद्याज्ञिका हृदयादिवदुपरिभागान्नावद्यन्ति। तं भागमञ्जनेन शुद्धं करोति।
विधत्ते — ‘ ऋत्विजो वृणीते छन्दांस्येव वृणीते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
वक्ष्यमाणसंख्यासाम्यादृत्विजां छन्दस्त्वम्।
सप्तत्वसंख्यां विधत्ते —
‘ सप्त वृणीते सप्त ग्राम्याः पशवः सप्ताऽऽरण्याः सप्त छन्दास्युभयस्यावरुद्ध्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
होताऽऽग्नीध्रोऽध्वर्युर्मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टेति [ सप्तर्त्विजः ]। सप्तग्राम्यादिकं व्याख्यातम्।
चोदकप्राप्तेषु संख्यां विधत्ते —
‘ एकादश प्रयाजान्यजति दश वै पशोः प्राणा आत्मैकादशो यावानेव पशुस्तं प्र यजति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
प्राणशब्देन तदाधारभूतानि च्छिद्राण्युच्यन्ते। तानि च शिरसि सप्त, अधस्ताद् द्वे, नाभिर्दशमी। आत्मा देहः। अत एकादशसंख्याया कृत्स्नं पशुं प्रयजति।
अन्तिमप्रयाजस्य कालान्तरं विधत्ते —
‘ वपामेकः परि शय आत्मैवाऽऽत्मानं परि शये ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
वपां परि वपाहोमसमीपे शये शेते तस्मिन्काले यजेदित्यर्थः। चरमः प्रयाजो देहत्वेन निरूपितात्वात्पशोरात्मा, वपाऽपि मुख्यावयवत्वादात्माऽतस्तयोः सामीप्यं युक्तम्।
स्वरुस्वधितिघृतानामुपयोगं दर्शयति —
‘ वज्रो वै स्वधितिर्वज्रो यूपशकलो घृतं खलु वै देवा वज्रं कृत्वा सोममघ्नन्घृतेनाक्तौ पशुं त्रायेथामित्याह वज्रेणैवैनं वशे कृत्वाऽऽलभते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
विधत्ते —
‘ पर्यग्नि करोति सर्वहुतमेवैनं करोत्यस्कन्दयास्कन्न हि तद्यद्धुतस्य स्कन्दति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
आवृत्तिं विधत्ते —
‘ त्रिः पर्याग्ने करोति त्र्यावृद्धि यज्ञोऽथो रक्षसामपहत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
अत्र विचारं दर्शयति —
‘ ब्रह्मवादिनो वदन्त्यन्वारभ्य पशू३र्नान्वारभ्या३ इति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
प्रथमपक्षे दोषमाह —
‘ मृत्यवे वा एष नीयते यत्पशुस्तं यदन्वारभेत प्रमायुको यजमानः स्यात् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
द्वितीयपक्षे दोषमाह —
‘ अथो खल्वाहुः सुवर्गाय वा एष लोकाय नीयते यत्पशुरिति यन्नान्वारभेत सुवर्गाल्लोकाद्यजमानो हीयेत ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
दोषद्वयपरिहाराय प्रकारन्तरं विधत्ते —
‘ वपाश्रपणीभ्यामन्वारभते तन्नेवान्वारब्धं नेवानन्वारब्धम् ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।
याभ्यां दारुमयीभ्यां वपा पच्यते ते वपाश्रपण्यौ।
प्रैषमन्त्रमुत्पादयति —
‘ उप प्रेष्य होतर्हव्या देवेभ्य इत्याहेषित हि कर्म क्रियते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
हे होतर्देवेभ्यो वपादीनि हव्यानि कर्तुमुपप्रेष्य पशुसमीपे शमितॄन्प्रेरय। लोके हि प्रभुणा प्रेषितं कर्म सहसा क्रियते।
मन्त्रस्तु स्पष्टार्थ इत्याह —
‘ रेवतीर्यज्ञपतिं प्रियधाऽऽविशतेत्याह यथायजुरेवैतत् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
विधत्ते —
‘ अग्निना पुरस्तादेति रक्षसामपहत्यै ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।
उल्मुकेन सह पशोः पुरस्तादाग्नीध्रो गच्छेत्।
विधत्ते —
‘ पृथिव्याः संपृचः पाहीति बर्हिरुपास्यत्यस्कन्दायास्कन्न हि तद्यद्बर्हिषि स्कन्दत्यथो बर्हिषदमेवैनं करोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।
पशुसंबन्धि यदङ्गं बर्हिषि स्कन्देत्तद्भूमावपतनादस्कन्नमेव। अथ कथंचिदधः पतितेप्येनं बर्हिषदमेव करोति।
विधत्ते —
‘ पराङा वर्ततेऽध्वर्युः पशोः संज्ञप्यमानात्पशुभ्य एव तन्निह्नुत आत्मनोऽनाव्रस्काय ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
अध्वर्युर्मार्यमाणं पशुमदृष्ट्वा ततः पराङ्मुखः प्रत्यवर्तेत। तेन पशुभ्यो निह्नुते पशुं न मारयामीत्येवमपलपति। स चापलापः स्वस्य दोषाभावाय भवति।
वेदनं प्रशंसति —
‘ गच्छति श्रियं प्र पशुनाप्नोति य एवं वेद ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
एतदेव दर्शयति —
‘ पश्चाल्लोका वा एषा प्राच्युदानीयते यत्पत्नी नमस्त आतानेत्याहाऽऽदित्यस्य वै रश्मय आतानास्तेभ्य एव नमस्करोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।
पश्चात्प्रतीच्यां दिशि निर्मिता शाला लोको निवासस्थानं यस्याः सा पश्चाल्लोका। तादृशी यदा प्राचीं गच्छति तदानीमाभिमुख्येन सूर्यरश्मिर्भवतीति तन्नमस्कारो युक्तः।
एतौ मन्त्रौ व्याचष्टे —
‘ अनर्वा प्रेहीत्याह भ्रातृव्यो वा अर्वा भ्रातृव्यापनुत्त्यै घृतस्य कुल्यामनु सह प्रजया सह रायस्पोषेणेत्याहाऽऽशिषमेवैतामा शास्त आपो देवीः शुद्धायुव इत्याह यथायजुरेवैतत् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
शोकप्रसक्तिं दर्शयन्व्याचष्टे –
‘पशोर्वा आलब्धस्य प्राणाञ्छुगृच्छति वाक्त आ प्यायतां प्रणस्त आ प्यायतामित्याह प्राणेभ्य एवास्य शुच शमयति’ (सं. का. ६ प्र. ३ अ. ९) इति।
शुगव्यथां विधत्ते –
‘सा प्राणेभ्योऽधि पृथिवी शुक् प्र विशति शमहोभ्यामिति नि नयत्यहोरात्राभ्यामेव पृथिव्यै शुच शमयति’ (सं. का. ६ प्र. ३ अ. ९) इति।
प्राणेभ्योऽपनीता शुक्पृथिवीमधिष्ठाय तदीयदेवताशरीरे प्रविशति। एवं कालादौ प्रवेशः। प्रविष्टायाः शुचः शान्तिर्निनयनेन भवति।
मा हिसीरित्येतस्याभिप्रायमाह —
‘ओषधे त्रायस्वैन स्वधिते मैन हिसीरित्याह वज्रौ वै स्वधितिः शान्त्यै’ (सं. का. ६ प्र. ६ अ. ९) इति।
विधत्ते –
‘पार्श्वत आ च्छ्यति मध्यतो हि मनुष्या आच्छ्यन्ति तिरश्चीनमा च्छ्यत्यनूचीन हि मनुष्या आच्छ्यन्ति व्यावृत्त्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।
वपोत्खेदनार्थं दक्षिणपार्श्वे छिन्द्यात्। मांसाहारास्तु मनुष्या नाभिदेशे छिन्दन्ति। तत्राप्यनूचीनं पशोर्दैर्घ्यमनुसृत्य तदुभयवैलक्षण्यमिह कार्यम्।
विधत्ते –
‘रक्षसा भागोऽसीति स्थविमतो बर्हिरक्त्वाऽपास्यत्यस्नैव रक्षासि निरवदयते’ (सं. का. ६ प्र. ३ अ. ९) इति।
स्थूलस्य भावः स्थविमा तस्मात्सप्तम्यर्थे तसिल्। स्थविमतः। स्थविमशब्देन बर्हिषो मूलभागः स्थूलत्वादुपलक्ष्यते। तस्मिन्भागे रक्तेन बर्हिरङ्क्त्वा निरस्येत्। तथा सत्यसृजैव रक्षांसि निःशेषेण भागवन्ति कृत्वाऽपनयति।
द्वितीयमन्त्रं व्याचष्टे —
‘इदमह रक्षोऽधमं तमो नयामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तावुभावधमं तमो नयति’ (सं. का. ६ प्र. ३ अ. ९) इति।
अधमं तमो महद्दुःखम्।
विधत्ते —
‘इषे त्वेति वपामुत्खिदतीच्छत इव ह्येष यो यजते’ (सं. का. ६ प्र. ३ अ. ९) इति।
अत्र शूलाग्रेण वपां भिन्द्यान्न वेति विचारं हृदि निधाय पक्षद्वयेऽपि दूषणमुपन्यस्यति–
‘यदुपतृन्द्याद्रुद्रोऽस्य पशून्घातुकः स्याद्यन्नोपतृन्द्यादयता स्यात्’ (सं. का. ६ प्र. ३ अ. ९) इति।
भेदनमन्तरेण धृताऽपि नियन्तुमशक्यत्वादितस्ततः पतेत्।
दोषद्वयास्पृष्टं पक्षान्तरं विधत्ते–
‘अन्ययोपतृणत्यन्यया न धृत्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।
एकया शाखया भिन्द्यादितरया न भिन्द्यात्तथा सति धृताऽपि भवति रुद्रश्च न हिनस्ति।
वपाशब्दशूलशब्दौ परित्यज्य घृतशब्दप्रयोगस्य द्यावापृथिवीशब्दप्रयोगस्य च तात्पर्यमाह —
‘घृतेन द्यावापृथिवी प्रोर्ण्वाथामित्याह द्यावापृथिवी एव रसेनानक्ति’ (सं. का. ६ प्र. ३ अ. ९) इति।
स्पष्टार्थतामाह —
‘अच्छिन्नो रायः सुवीर इत्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. ३ अ. ९) इति।
इममेवार्थं दर्शयति –
‘क्रूरमिव वा एतत्करोति यद्वपामुत्खिदत्युर्वन्तरिक्षमन्विहीत्याह शान्त्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।
वपाश्रपण्योः स्पर्शं विधत्ते —
‘प्र वा एषोऽस्माल्लोकाच्च्यवते यः पशुं मृत्यवे नीयमानमन्वारभते वपाश्रपणी पुनरन्वारभतेऽस्मिन्नेव लोके प्रति तिष्ठति’ (सं. का. ६ प्र. ३ अ. ९) इति।
वपायाः पुरतः पशोरिव वह्निं विधत्ते —
‘अग्निना पुरस्तादेति रक्षसामपहत्या अथो देवता एव हव्येनान्वेति’ (सं. का. ६ प्र. ३ अ. ९) इति।
अग्नेः सर्वदेवतात्मकत्वात्तस्य पृष्ठतो वपानयने सर्वा अपि देवता हव्येनानुगता भवन्ति।
व्यतिरेकमुखेणाऽऽहवनीयस्योत्तरपार्श्ववर्तिष्वङ्गारेषु वपायाः श्रपणं विधत्ते– ‘नान्तममङ्गारमतिहरेद्यदन्तममङ्गारमतिहरेद्देवता अति मन्येत’ (सं. का. ६ प्र. ३ अ. ९) इति।
अङ्गारस्य सर्वदेवतात्मकत्वेन तदवज्ञया देवता एवावज्ञाता भवन्ति। तस्मादस्मिन्नेवाङ्गारे वपां श्रपयेत्।
वीहीत्यत्र विशब्दस्यार्थं दर्शयति —
‘वायो वीहि स्तोकानामित्याह तस्माद्विभक्ताः स्तोका अव पद्यन्ते’ (सं. ६ का. ६ प्र. ३ अ. ९) इति।
पतन्तीत्यर्थः
वपाया अधस्ताद्बर्हिरग्रस्थापनविधिमर्थवादेनोन्नयति —
‘अग्रं वा एतत्पशूनां यद्वपाऽग्रमोषधीनां बर्हिरग्रेणैवाग्र समर्धयत्यथो ओषधीष्वेव पशून्प्रति ष्ठापयति’ (सं. का. ६ प्र. ३ अ. ९) इति।
अग्रं श्रेष्ठम्। ओषध्यग्रेण बर्हिषा पश्वग्ररूपाया वपायाः समृद्ध्यर्थमोषधीषु पशुप्रतिष्ठापनार्थं बर्हिरग्रं वपाया अधः स्थापयेदित्यर्थः।
अथान्तिमप्रयाजार्थं मैत्रावरुणं प्रत्यध्वर्योः प्रैषमन्त्रमुत्पादयति–
‘स्वाहाकृतीभ्यः प्रेष्येत्याह यज्ञस्य समिष्ट्यै’ (सं. का. ६ प्र. अ. ९) इति।
स्वाहाशब्दबहुला कृतिर्मन्त्रप्रयोगो यासामन्तिमप्रयाजदेवतानां ताः स्वाहाकृतयस्तदर्थं हे मैत्रावरुण होतारं प्रेरय। मैत्रावरुणस्तु होता यक्षदग्निं स्वाहाऽऽज्यस्येत्यादिमन्त्रेण होतारं प्रेष्यति। स च होता सद्यो जातो व्यमिमीत यज्ञमित्यादिकां याज्यां पठति। ततोऽध्वर्युरन्तिमप्रयाजं यजति। एवमयं प्रैषो यज्ञस्य सम्यगिष्ट्यै संपद्यते।
प्रयाजशेषेण हविरभिघारणं विधत्ते —
‘प्राणापानौ वा एतौ पशूनां यत्पृषदाज्यमात्मा वपा पृषदाज्यमभिघार्य वपामभि घारयत्यात्मन्नेव पशूनां प्राणापानौ दधाति’ (सं. का. ६ प्र. ३ अ. ९) इति।
दधिमिश्रमाज्यं पृषदाज्यम्। पृषदाज्यस्य वपायाश्चाभिघारणेन वपारूपे पश्वात्मनि पृषदाज्यरूपौ पशूनां प्राणापानौ स्थापयति।
तत्प्राप्तावुपयोगं दर्शयति —
‘स्वाहोर्ध्वनभसं मारुतं गच्छतमित्याहोर्ध्वनभा ह स्म वै मारुतो देवनां वपाश्रपणी प्र हरति तेनैवैने प्र हरति’ (सं. का. ६ प्र. ३ अ. ९) इति।
व्यत्यस्ताग्रतां विधत्ते —
‘विषूची प्र हरति तस्माद्विष्वञ्चौ प्राणापानौ’ (सं. का. ६ प्र. ३ अ. ९) इति।
प्राण ऊर्ध्ववृत्तिरपानोऽधोवृत्तिरित्युभयोर्व्यत्यासः।
अभिघारणं विधित्सुरादौ वपोत्खेदप्रयुक्तच्छिद्रापिधानरूपं पश्वङ्गं पुरोडाशं विधत्ते —
‘पशुमालभ्य पुरोडाशं निर्वपति समेधमेवैनमा लभते’ (सं. का. ५ प्र. ३ अ. १०) इति।
मेधः सारः। पुरोडाशस्य व्रीहिसारत्वात्सारोपेतं पशुमालब्धवान्भवति।
निरुप्तस्य होमकालं विधत्ते —
‘वपया प्रचर्य पुरोडाशेन प्र चरत्यूर्ग्वै पुरोडाश ऊर्जमेव पशूनां मध्यतो दधात्यथो पशोरेव छिद्रमपि दधाति’ (सं. का. ६ प्र. ३ अ. १०) इति।
जातवेदो वपया गच्छ देवानिति मन्त्रेण वपां हुत्वा पश्चात्पुरोडाशहोमः। वपाहृदयादिहोमयोर्मध्यं पशूनामुदरस्थानमतस्तत्रैवोर्जं पुरोडाशरूपमन्नं स्थापितवान्भवति। किंच वपाछेदेन यत्पशोश्छिद्रं तत्पिहितं भवति।
उत्तरदेशे हृयादिहविः पचन्तं शमितारं प्रति प्रश्नमन्त्रमुत्पादयति —
‘पृषदाज्यस्यस्योपहत्य त्रिः पृच्छति शृत हवीः३ शमितरिति त्रिषत्या हि देवाः’ (सं. का. ६ प्र. ३ अ. १०) इति।
पृषदाज्यस्य पात्रगतस्यांशं स्रुवेणोपहत्य पृथक्स्वीकृत्य मन्त्रेण त्रिः पृच्छेत्। शृतं पक्वम्। प्लुतिः प्रश्नार्था। त्रिरुक्तं सत्यमिति बुद्धिर्येषां ते त्रिषत्याः।
व्यतिरेकमुखेणोत्तरविधिमुन्नयति —
‘योऽशृत शृतमाह स एनसा’ (सं. का. ६ प्र. ३ अ. १०) इति।
युज्यत इति शेषः। तस्माच्छृते सत्युत्तरं ब्रूयादिति विधिः।
अत्र सं ते मनसा मन इत्यस्य मन्त्रस्यार्थमुपेक्ष्याभिघारणं विधत्ते —
‘प्राणापानौ वा एतौ पशूनां यत्पृषदाज्यं पशोः खलु वा आलब्धस्य हृदयमात्माऽभि समेति यत्पृषदाज्येन हृदयमभिघारयत्यात्मन्नेव पशूनां प्राणापानौ दधाति’ (सं. का. ६ प्र. ३ अ. १०) इति।
अभिसमेत्याभिमुख्येनाऽऽत्मा हृदयदेशमागच्छति।
अथ प्लक्षनामकस्य शाखामवदानाधारत्वेन विधत्ते —
‘पशुना वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति तस्य शिरश्छित्त्वा मेधं प्राक्षारयन्त्स प्रक्षोऽभवत्तत्प्रक्षस्य प्रक्षत्वं यत्प्लक्षशाखोत्तरबर्हिर्भवति समेधस्यैव पशोरव द्यति’ (सं. का. ६ प्र. ३ अ. १०) इति। पशुना सह स्वर्गं गच्छन्तो देवा मनुष्याणां स्वैः सहाऽऽगमनं मा भूदित्यभिप्रेत्य तद्वारयितुं पशोः शिरश्छित्त्वा मेधं रसं प्राक्षारयन्नस्रावयन्। स रसो भूमौ पतित्वा प्लक्षवृक्षोऽभवत्। तस्मात्क्षरणादुत्पन्नस्य प्लक्षनाम संपन्नम्। तच्छाखा बर्हिष ऊर्ध्वं स्थापनादुत्तरबर्हिरित्युच्यते। तदावस्थापनेन सरसस्यैव पशोर्हविरवत्तं भवति।
पक्वस्य हृदयादिहविष आहवनीयं प्रत्यानयने मार्गविशेषं विधत्ते —
‘पशुं वै ह्रियमाण रक्षास्यनु सचन्तेऽन्तरा यूपं चाऽऽहवनीयं च हरति रक्षासामपहत्यै’ (सं. का. ६ प्र. ३ अ. १०) इति।
अनुसचन्तेऽनुगच्छन्ति। यूपस्याऽऽहवनीयस्य च रक्षोघातित्वात्तयोरन्तराले भयं नास्ति।
होतारं प्रति प्रैषमन्त्रमुत्पादयति –
‘पशोर्वा आलब्धस्य मनोऽप क्रामति मनोतायै हविषोऽवदीयमानस्यानु ब्रूहीत्याह मन एवास्याव रुन्धे’ (सं. का. ६ प्र. ३ अ. १०) इति।
संख्याविशिष्टान्यवदानानि विधत्ते —
‘एकादशावदानान्यव द्यति दश वै पशोः प्राणा आत्मैकादशा यावानेव पशुस्तस्याव द्यति’ (सं. का. ६ प्र. ३ अ. १०) इति।
नाभिसहितानि दश च्छिद्राणि प्राणा देह आत्माऽत एकादशसंख्यया कृत्स्नोऽपि पशुरवत्तो भवति।
क्रमं विधत्ते —
‘हृदयस्याग्रेऽव द्यत्यथ जिह्वाया अथ वक्षसो यद्वै हृदयेनाभिगच्छति तज्जिह्वया वदति यज्जिह्वया वदति तदुरसोऽधि निर्वदत्येतद्वै पशोर्यथापूर्वम्’ (सं. का. ६ प्र. ३ अ. १०) इति।
लोके प्रथमं हृदयेन यन्निश्चिनोति तत्पश्चाज्जिह्वया वदति। पुनरपि तदेव निःशेषेणोच्चध्वनिना यदा वदति तदानीमुरस ऊर्ध्वदेशगतबलेन वदति। तस्माद्धृदयादीनां त्रयाणामंशक्रमेणावद्येत्। एतदेव क्रमावदानं पशोरङ्गेषु यथापूर्वं भवति। यथा लोकेऽभिवदनव्यवहारः पूर्वं प्रवृत्तस्तथैव भवति।
उत्तरेष्वङ्गेषु हृदयादिवत्प्रसक्तं क्रमं वारयति — ‘यस्यैवमवदाय यथाकाममुत्तरेषामवद्यति यथापूर्वमेवास्य पशोरवत्तं भवति’ (सं. का. ६ प्र. ३ अ. १०) इति।
उक्तप्रकारेण यस्य पशोर्हृदयादीनि त्रीण्यङ्गान्यवदायोत्तरेषामैच्छिकक्रमेऽपि पूर्वं हृदयाद्यङ्गं यथा न दोषकारि तथैवोत्तरमपि भवति।
एकादशस्वङ्गेषु गुदकाण्डरूपमङ्गमुत्तममध्यमाधमभागैस्त्रेधा विभज्य त्रिषु तेषु भागेषु मध्यमोत्तमभागयोर्विकल्पेनावदानं विधत्ते —
‘मध्यतो गुदस्याव द्यति मध्यतो हि प्राण उत्तमस्याव द्यत्युत्तमो हि प्राणो यदीतरं यदीतरमुभयमेवाजामि’ (सं. का. ६ प्र. ३ अ. १०) इति।
प्राणवायुर्मुखमध्ये वर्तते, स्वयं जीवनहेतुत्वाच्चक्षुरादिषु सर्वेषूत्तमश्च। अतो यदीतरं मध्यमभागं स्वी कुर्यात्, यदीतरमुत्तमभागं तदुभयमपि जामिकृन्न भवति, किंत्वनालस्यं दोषरहितमित्यर्थः।
हृदयाद्यवदानानि प्रशंसति —
‘जायमानो वै ब्रह्मणस्त्रिभिणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी तदवदानैरेवाव दयते तदवदानानामवदानत्वम्’ (सं. का. ६ प्र. ३ अ. १०) इति।
ब्रह्मचर्येण वेदाभ्यासेन ब्रह्मचारित्वेन गुरुगृहे वसतीति ब्रह्मचारिवासी वेदाभ्यासादिभिरपाकर्तव्यं यदृणं तद्धृदयाद्यवदानैरेवापाकरोति। ऋणमवदयत एभिरित्यवदानत्वम्।
स्विष्टकृदर्थं त्र्यङ्गावदानं विधत्ते —
‘देवासुराः संयत्ता आसन्ते देवा अग्निमब्रुवन्त्वया वीरेणासुरानभिभवामेति सोऽब्रवीद्वरं वृणै पशोरुद्धारमुद्धरा इति स एतमुद्धारमुदहरत दोः पूर्वार्धस्य गुदं मध्यतः श्रोणिं जघनार्धस्य ततो देवा अभवन्पराऽसुरा यत्त्र्यङ्गाणा समवद्यति भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति’ (सं. का. ६ प्र. ३ अ. १०) इति।
उद्धारमुत्कृष्टं ध्रियमाणमुत्तमं भागमुद्धरै स्वी करवाणि। पशोः पूर्वार्धस्य संबन्धि दोर्हस्तम्। मध्यतः पशुमध्यभागसंबन्धि गुदम्। अपरार्धस्य संबन्धिनीं श्रोणिम्।
वक्रगतिं विधत्ते —
‘अक्ष्णयाऽव द्यति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै’ (सं. का. ६ प्र. ३ अ. १०) इति।
गवादयः शयनकालेऽङ्गानि पादानक्ष्णया वक्रत्वेनावस्थापयन्ति।
विधत्ते —
‘मेदसा स्रुचौ प्रोर्णोति मेदोरूपा वै पशवा रूपमेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।
जीर्णपटसदृशं हृदयवेष्टनं मेदः। स्रुचौ जुहूपभृतौ। उभयं मेदसाऽऽच्छादयेत्। सति मेदोबाहुल्ये पशवो रूपवन्तो भवन्ति।
तत्र कंचिद्विशेषं विधत्ते —
‘यूषन्नवधाय प्रोर्णोति रसो वा एष पशूनां यद्यू रसमेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।
यूषशब्देन मांसेन सह पक्वं जलमुच्यते। तस्मिञ्जले मेदः प्रक्षिप्य तेनाऽऽच्छादयेत्।
आलोडनं विधत्ते —
‘पार्श्वेन वसाहोमं प्र यौति मध्यं वा एतत्पशूनां यत्पार्श्व रसं दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।
आलोडनं विधत्ते —
‘पार्श्वेन वसाहोमं प्र यौति मध्यं वा एतत्पशूनां यत्पार्श्व रसं दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।
द्वितीयभागे त्वष्टृश्ब्दाभिप्रायमाह —
‘देव त्वष्टर्भूरि ते स समेत्वित्याह त्वाष्ट्रा हि देवतया पशवः’ (सं. का. ६ प्र. ३ अ. ११) इति।
चतुर्थभागेऽनुमदन्तुशब्दस्याभिप्रायमाह —
‘देवत्रा यन्तमवसे सखायोऽनु त्वा माता पितरो मदन्त्वित्याहानुमतमेवैनं मात्रा पित्रा सुवर्गं लोकं गमयति’ (सं. का. ६ प्र. ३ अ. ११) इति।
श्रीरसि वातस्य त्वेत्येतौ मन्त्रावुपेक्षितौ।
विधत्ते —
‘अर्धर्चे वसाहोमं जुहोत्यसौ वा अर्धर्च इयमर्धर्च इमे एव रसेनानक्ति दिशो जुहोति दिश एव रसेनानक्त्यथो दिग्भ्य एवोर्ज रसमव रुन्धे’ (सं. का. ६ प्र. ३ अ. ११ इति।
याज्यायाः पूर्वोत्तरयोरर्धर्चयोरभिमानिनौ देवौ द्यावापृथिव्याविति मध्ये होमेनोभे अपि रसेनाक्ते भवतः। उद्रेकहोमेन दिग्देवतास्तृप्यन्ति। यजमानस्यापि दिशां सकाशादन्नरसप्राप्तिर्भवति।
अवदानपूर्वकं द्वौ प्रैषमन्त्रौ मैत्रावरुणं प्रत्युत्पादयति —
‘प्राणापानौ वा एतौ पशूनां यत्पृषदार्ज्यं वानस्पत्याः खलु वै देवतया पशवो यत्पृषदाज्यस्पोपहत्याऽऽह वनस्पतयेऽनु ब्रूहि वनस्पतये प्रेष्येति प्राणापानावेवं पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।
पृषदाज्यस्योपहत्य पात्रगतं पृषदाज्यं स्रुवेण जुह्वामवदायेत्यर्थः।
अथेडार्थं तस्य तस्य हृदयाद्यङ्गस्यांशमेकत्र समवद्यतीति विधत्ते —
‘अन्यस्यान्यस्य समवत्त समवद्यति तस्मान्नानारूपाः पशवः’ (सं. का. ६ प्र. ३ अ. ११ इति।
समवत्तमवत्तशेषम्। अवदेयानामङ्गानां बहुविधत्वाद्धोमलभ्याः पशवोऽपि बहुविधाः।
सर्वेष्ववदानेषु मांसनिःस्रुतजलेनोपसेचनं विधत्ते —
‘यूष्णोप सिञ्चति रसो वा एष पशूनां यद्यू रसमेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११ इति।
हविःशेषस्येडाभागस्य भक्षणायेडोपाह्वानं होतुर्विधत्ते —
‘इडामुप ह्वयते पशवो वा इडा पशूनेवोप ह्वयते चतुरुप ह्वयते चतुष्पादो हि पशवः’ (सं. का. ६ प्र. ३ अ. ११) इति।
इडादेवताया गोरूपत्वात्पशव इडेत्युक्तम्। यद्यप्येतच्चोदकादेव प्रप्तं तथाऽऽप्याघारवदिष्टिविकृतित्वद्योतनाय पुनर्विधानम्।
अत्रेडावदाने मेदसोपस्तरणाभिघारणे विधातुं तद्व्यतिरेकं निन्दति —
‘यं कामयेतापशुः स्यादित्यमेदस्कं तस्मा आ दध्यान्मेदोरूपा वै पशवो रूपेणैवैनं पशुभ्यो निर्भजत्यपशुरेव भवति’ (सं. का. ६ प्र. ३ अ. ११ इति।
स्निग्धद्रवरहितं मांसममेदस्कम्। एनं यजमानं पशूनां (शुभ्यो) निर्भजति निरस्यति। अतो यजमानः पशुरहितो भवति।
विधत्ते —
‘यं कामयेत पशुमान्त्स्यादिति मदस्वत्तस्मा आ दध्यान्मेदोरूपा वै पशवो रूपेणैवास्मै पशूनव रुन्धे पशुमानेव भवति’ (सं. का. ६ प्र. ३ अ. ११ इति।
पृषदाज्येनानूयाजहोमं विधत्ते —
‘प्रजापतिर्यज्ञमसृजत स आज्यं पुरस्तादसृजत पशुं मध्यतः पृषदाज्यं पश्चात्तस्मादाज्येन प्रयाजा इज्यन्ते पशुना मध्यतः पृषदाज्येनानूयाजास्तस्मादेतन्मिश्रमिव पश्चात्सृष्ट हि’ (सं. का. ६ प्र. ३ अ. ११ इति।
यथा प्रथमसृष्टेनाऽऽज्येन प्रथमभाविनः प्रयाजा इज्यन्ते, यथा वा मध्यतः सृष्टेन पशुना मध्यतो यजते, तथा पश्चात्सृष्टेन पृषदाज्येन पश्चाद्भाविनोऽनूयाजा यष्टव्याः। यस्मादेकं द्रव्यं न पर्याप्तमिति बुद्ध्या पश्चाद्द्रव्यान्तेरेण सहैतद्विहितं तस्मादेतत्पृषदाज्यं दधिमिश्रमेव चोदकप्राप्तम्।
त्रित्वसंख्यामपोद्य संख्यान्तरं विधत्ते —
‘एकादशानूयाजान्यजति दश वै पशोः प्राणा आत्मैकादशो यावानेव पशुस्तमनु यजति’ (सं. का. ६ प्र. ३ अ. ११) इति।
पृषदाज्यं प्रशंसति —
‘घ्नन्ति वा एतत्पशुं यत्संज्ञपयन्ति प्राणापानौ खलु वा एतौ पशूनां यत्पृषदाज्यं यत्पृषदाज्येनानूयाजान्यजति प्राणापानावेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११ इति।