प्रश्नः-2

मन्त्रान्व्याचिख्यासुरादौ कालविशेषसहितमातिथ्यं कर्म विधत्ते —
“यदुभौ विमुच्याऽऽतिथ्यं गृह्णीयाद्यज्ञं विच्छिन्द्याद्यदुभावविमुच्य यथाऽनागतायाऽऽतिथ्यं क्रियते तादृगेव तद्विमुक्तोऽन्योऽनड्वान्भवत्यविमुक्तोऽन्योऽथाऽऽतिथ्यं गृह्णाति यज्ञस्य संतत्यै” (सं. का. ६ प्र. २ अ. १) इति।
द्वयोर्बलीवर्दयोर्विमुक्तयोः सतोः सोमगमनरूपं कर्म सर्वथा परित्यक्तं भवति। आतिथ्यकर्म तूपक्रान्तं, ततो यज्ञमध्ये यज्ञो विच्छिद्येत। अविमुक्तयोस्तु द्वयोर्गमनस्यासंपूर्णत्वादनागताय सोमायाऽऽतिथ्यं कृतं भवेत्। एकस्मिन्विमुक्ते च विमुक्तत्वादेव गमनं संपूर्णं भवति। इतरस्य विमोकाभावत्पूर्वकर्मापि न त्यक्तम्। अतस्तस्मिन्काले निर्वापाद्यज्ञः संततो भवति।
निर्वापकालेऽध्वर्युमनु पत्न्याः शकटस्पर्शं विधत्ते —
“पत्न्यन्वारभते पत्नी हि पारीणह्यास्यशे पत्नियैवानुमतं निर्वपति यद्वै पत्नी यज्ञस्य करोति मिथुनं तदथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै” (सं. का. ६ प्र. २ अ. १) इति।
परि(री)णद्गृहं त्र भवं व्रीह्यादिद्रव्यं पारीणह्यं तस्येशाना पत्नी। किंच यज्ञः पुमान्पत्नी स्त्रीत्येतन्मिथुनम्। किंच योऽयं पत्न्याः शकटस्य यज्ञाङ्गस्य स्पर्शः स यज्ञस्य विच्छेदराहित्याय भवति।
मन्त्रान्व्याचष्टे —
“यावद्भिर्वै राजाऽनुचरैरागच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते छन्दांसि खलु वै सोमस्य राज्ञोऽनुचराण्यग्नेरातिथ्यमसि विष्णवे त्वेत्याह गायत्रिया एवैतेन करोति सोमस्याऽऽतिथ्यमसि विष्णवे त्वेत्याह त्रिष्टुभ एवैतेन करोत्यतिथेरातिथ्यमसि विष्णवे त्वेत्याह जगत्या एवैतेन करोत्यग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वेत्याहानुष्टुभ एवैतेन करोति श्येनाय त्वा सोमभृते विष्णवे त्वेत्याह गायत्रिया एवैतेन करोति” [सं. का. ६ प्र. २ अ. १] इति।
सौमस्य भृत्यैरग्न्यादिर्भृत्यान्तराणि गायत्र्यादीन्युपलक्ष्यन्ते। उपलक्षकविशेषाणामग्न्यादीनामुपलक्ष्यविशेषैर्गायत्र्यादिभिः प्रातिस्विकसंबन्धविशेषे प्रमाणमिदं ब्राह्मणमेव।
निर्वापावृत्तिसंख्यां विधत्ते —
“पञ्च कृत्वो गृह्णाति पञ्चक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे” [सं. का. ६ प्र. २ अ. १] इति।
आद्यन्तयोर्मन्त्रयोर्गायत्र्या द्विरुपलक्षितत्वं प्रश्नोत्तराभ्यामुपपादयति —
“ब्रह्मवादिनो वदन्ति कस्मात्सत्याद्गायत्रिया उभयत आतिथ्यस्य क्रियत इति यदेवादः सोममाहरत्तस्माद्गायत्रिया उभयत आतिथ्यस्व क्रियते पुरस्ताच्चोपरिष्टाच्च” [सं. का. ६ प्र. २ अ. १] इति।
आतिथ्यं क्रियत इत्यर्थः।
निरुप्तैस्तण्डुलैर्नवकपालः पुरोडाशः कार्य इति विधत्ते —
“शिरो वा एतद्यज्ञस्य यदातिथ्यं नवकपालः पुरोडाशो भवति तस्मान्नवधा शिरो विष्यूतम्” [सं. का. ६ प्र. २ अ. १] इति।
आतिथ्येष्टेः सत्काररूपत्वेन शिरोवदुत्तमाङ्गत्वम्। यस्मादत्र कपालेषु नवसंख्या तस्माद्दृष्टान्तभूतं शिरोऽपि नवभिः कपालैर्विशेषेण स्यूतम्। पौरोडाशिकब्राह्मणे ह्येवमाम्नातम् — “तस्मादष्टाकपालं पुरुषस्य शिरः” इति। ततोऽष्टानां कपालानां परस्परमष्टधा स्यूतिस्ततस्तत्समूहरूपस्य शिरसोऽधस्तनेन कबन्धेन सहैकधा स्यूतिः।
उक्तमेव विधिमनूद्य प्रशंसति —
“नवकपालः पुरोडोशो भवति ते त्रयस्त्रिकपालास्त्रिवृता स्तोमेन संमिता-
स्तेजस्त्रिवृत्तेज एव यज्ञस्य शीर्षन्दधाति” [सं. का. ६ प्र. २ अ. १] इति।
त्रिवृन्नामके स्तोमे त्रीणि सूक्तानि। तेष्वेकैकस्मिन्सूक्ते तिस्रस्तिस्र ऋचः। अतः संख्यासाम्यान्नवकपालस्य त्रिवृद्रूपत्वम्। त्रिवृच्च प्रजापतेर्मुखादग्निना सह जातत्वात्तेजोरूपम्। तथा सति यज्ञशिरोरूप आतिथ्ये तेजः स्थापितं भवति।
पुनरप्यनूद्य प्रशंसति —
“नवकपालः पुरोडाशो भवति ते त्रयस्त्रिकपालास्त्रिवृता प्राणेन संमितास्त्रिवृद्धै प्राणस्त्रिवृतमेव प्राणमभिपूर्वं यज्ञस्य शीर्षन्दधाति” [सं. का. ६ प्र. २ अ. १] इति।
त्रिभिः कपालैः संस्कृतः पुरोडाशस्त्रिकपालः। तादृशाश्च पुरोडाशास्त्रयः। नवसंख्यायां विभज्यमानायामेवं संपद्यते। तथा सति यत्कपालगतं त्रिवृत्त्वं यच्च पुरोडाशगतं तेन सदृशी प्राणसंख्या प्राणस्योर्ध्वाधोमध्यवृत्तिभिस्त्रिगुणत्वात्। अथवा नवसु च्छिद्रेषु वर्तमानो नवसंख्याकः प्राणः। तस्य त्रेधा विभागे सति प्रकृतनवकपालसादृश्यं भवति। तादृशं प्राणमभिपूर्वमनुक्रमेण यज्ञस्य शिरस्यातिथ्ये स्थापयति।
प्रजापतेर्वा एतानि पक्ष्माणि यदश्ववाला ऐक्षवी तिरश्ची यदाश्ववालः प्रस्तरो भवत्यैक्षवी तिरश्ची प्रजापतेरेव तच्चक्षुः सं भरति” [सं. का. ६ प्र. २ अ. १] इति।
पक्ष्माण्यक्षिरोमाणि। अश्ववालाः काशाख्या दर्भविशेषाः। ऐक्षवी इक्षुपत्रिके। तिरश्ची चक्षुषश्चर्मपुटिके। यथा सोमपर्णस्य पलाशवृक्षरूपेणोत्पत्तिर्यथा चाप्सु मेध्यांशो दर्भरूपेणोत्पन्नस्तथैव प्रजापतेः पक्ष्मणां चर्मपुटयोश्च काशरूपेणेक्षुपत्ररूपेण चाऽऽविर्भावोऽर्थवादान्तरे द्रष्टव्यः। एवं सति प्रशस्तत्वादत्र प्रस्तराख्यस्तृणमुष्टिराश्ववालः कर्तव्यः। तस्याधस्तात्तिर्यक्त्वेन स्थापनीये विधृती ऐक्षव्यौ कुर्यात्। तावता प्रजापतेस्तच्चक्षुः संपादितं भवति।
परिधिषु श्रीपर्णीवृक्षं विधत्ते —
“देवा वै या आहुतीरजुहवुस्ता असुरा निष्कावमादन्ते देवाः कार्ष्मर्यमपश्यन्कर्मण्यो वै कर्मैनेन कुर्वीतेति ते कार्ष्मर्यमयान्परिधीनकुर्वत तैर्वै ते रक्षास्यपाघ्नत यत्कार्ष्मर्यमयाः परिधयो भवन्ति रक्षसामपहत्यै” (सं. का. ६ प्र. २ अ. १) इति।
निष्कावं निःशब्दं चर्वणादिशब्देन देवा ज्ञास्यन्तीति मत्वा चौर्येणाभक्षयन्। कार्ष्मर्यवृक्षो रक्षोनिवारकत्वेन कर्मण्यः। तस्मात्तेनैव कर्म कुर्वीतेति मत्वा तन्मयान्परिधीनकुर्वत। तथैवान्येनापि कर्म कर्तव्यम्।
मध्यमपरिधेर्दक्षिणोत्तरपरिधिभ्यां सह संस्पर्शं विधत्ते —
“सस्पर्शयति रक्षसामन्ववचाराय” (सं. का. ६ प्र. २ अ. १) इति।
स्पर्शाभावे परिध्योः संधौ रक्षसामन्तरनुप्रवेशः स्यात्।
पूर्वस्यां दिशि रक्षःप्रवेशनिवारणाय प्रसक्तं चतुर्थपरिधिं निषेधति —
“न पुरस्तात्परि दधात्यादित्यो ह्येवोद्यन्पुरस्ताद्रक्षास्यपहन्ति” (सं. का. ६ प्र. २ अ. १) इति।
आघारसमिधोर्द्वयोराहवनीयपूर्वभागे स्थापनं विधत्ते —
“ऊर्ध्वे समिधावा दधात्युपरिष्टादेव रक्षास्यप हन्ति” (सं. का. ६ प्र. २ अ. १) इति।
यद्युप्यूर्ध्वायां दिशि रक्षसां निवारणायोपरिष्टादेव समिधौ स्थापनीये तथाऽपि व्योम्नि स्थापयितुमशक्यत्वादूर्ध्वदिशि(गग्रे) स्थापनीये।
तत्र कंचिद्विशेषं विधत्ते —
“यजुषाऽन्यां तूष्णीमन्यां मिथुनत्वाय” (सं. का. ६ प्र. २ अ. १) इति।
वीतिहोत्रं त्वा कव इति मन्त्रेण दक्षिणामादध्यात्तूष्णीमुत्तराम्। समन्त्रकामन्त्रकयोः स्त्रीपुरुषलक्षणत्वान्मिथुनत्वम्।
समित्संख्यां विधत्ते —
“द्वे आ दधाति द्विपाद्यजमानः प्रतिष्ठित्यै” (सं. का. ६ प्र. २ अ. १) इति।
द्वित्वं पादद्वयप्रतिष्ठायै भवति। ननु संस्पर्शादिविधयः प्रकृतौ दर्शपूर्णमासेष्टावपि सन्तीत्यतिदेशादेव तदनुष्ठानस्यात्र प्राप्तत्वान्न पृथग्विध्यपेक्षेति चेन्न। उपसदर्थं विधेयत्वात्। तर्हि तत्रैव विधीयतामिति चेन्न। आतिथ्योपसदोः परिध्यादिभेदं वारयितुं साधारणत्वेनात्रैव विधेयत्वात्।
आतिथ्येष्टिमध्ये वह्निमन्थनपूर्वकमाहवनीये मथिताग्निप्रक्षेपं विधत्ते —
“ब्रह्मवादिनो वदन्त्यग्निश्च वा एतौ सोमश्च कथा सोमायाऽऽतिथ्यं क्रियते नाग्नय इति यदग्नावग्निं मथित्वा प्रहरति तेनैवाग्नय आतिथ्यं क्रियते” (सं. का. ६ प्र. २ अ. १) इति।
अग्निश्च सोमश्चेत्येतावुभावपि यागनिर्वाहकौ देवौ, तयोः साम्ये सति कथमग्नय आतिथ्यं नेति प्रश्नः। अग्निं मथित्वाऽऽहवनीये प्रहरेत्तदिदमाहवनीयाग्नेरातिथ्यम्।
मथनस्य कालं विधत्ते —
“अथो स्वल्वाहुरग्निः सर्वा देवता इति यद्धविरासाद्याग्निं मन्थति हव्यायै वाऽऽसन्नाय सर्वा देवता जनयति” (सं. का. ६ प्र. २ अ. १) इति।
अपि चैते ब्रह्मवादिनः कालविवक्षावन्तस्तदुपोद्घातत्वेन वह्नेः सर्वात्मकत्वमाहुः। तच्च सर्वदेवतात्मकत्वमेकद्वित्रितानामुत्पत्तौ विस्पष्टमाम्नातम्। यदातिथ्पपुरोडाशं वेद्यामासाद्य तस्मिन्कालेऽग्निं मथ्नीयात्तथा मथ्यमानाग्नावन्तर्भूताः सर्वा अपि देवता आसन्नहविर्मोक्तुमुत्पादिता भवन्ति तत्स एव काल इत्यर्थः। मथनमन्त्रास्त्वाध्वर्यवा अग्नीषोमीयपशुप्रस्तावे समाम्नास्यन्ते। हौत्रास्तु बह्वृचब्राह्मण आतिथ्येष्टिसमीपे एवोदाहृताः।
आपतय इति।

तनूनप्तृसंज्ञकजाठरवह्निविषयस्य शपथकर्मणो हेतुभूतमाज्यं तानूनप्त्रं तस्य ग्रहणं विधातुं प्रस्तौति —
“देवासुराः संयत्ता आसन्ते देवा मिथो विप्रिया आसन्तेऽन्योऽन्यस्मै ज्यैष्ठ्यायातिष्ठमानाः पञ्चधा व्यक्रामन्नग्निर्वसुभिः सोमो रुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यैर्बृहस्पतिर्विश्वैर्देवैस्तेऽमन्यन्तासुरेभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन्मिथो विप्रियाः स्मो या न इमाः प्रियास्तनुवस्ताः समवद्यामहै ताभ्यः स निच्छाद्यो नः प्रथमोऽन्योऽन्यस्मै द्रुह्यादिति तस्माद्यः सतानूनाप्त्रिणां प्रथमो द्रुह्यति स आर्तिमार्च्छति” (सं. का. ६ प्र. २ अ. १) इति।
संयत्ताः संग्रामं प्राप्ताः। मिथः परस्परं ते च देवाः सर्वेऽपि स्वातिरिक्तस्य ज्यैष्ठ्यमनङ्गीकुर्वाणाः पञ्चव्यूहा अभवन्। तेषु व्यूहेष्वग्न्यादयः पञ्च देवाः सेनान्यो वस्वादयः पञ्च गणाः। ततस्ते कंचित्कालं परस्परविरोधिनो भूत्वा पश्चादेवं विचारितवन्तो यदि वयमन्योन्यविरोधिनस्तदा वैरिणामसुराणामिदं जयरूपं कार्यं वयमेव साधयामः। ततस्तद्विरोधपरिहारहेतुं शपथं कर्तुमस्मदीयाः प्रियाः पुत्रभार्यादिरूपा इमास्तनूरेकत्र संघी कुर्म इति विचार्य संघीकृत्य शपथमेवं परिभाषितवन्तः। अस्माकं मध्ये यः प्रथमं द्रुह्यति स ताभ्यस्तनूभ्यो निर्गच्छेन्निर्भ्रष्टो भवत्विति। यस्माद्देवानामेवं वृत्तं तस्मान्मनुष्याणामपि शपथं कृतवतां मध्ये यः प्रथमं द्रुह्यति स विनाशं प्राप्नोति। समान एकस्मिन्विषये तानूनप्त्रिणः शपथवन्तः सतानूनप्त्रिणः।
इदानीं विधत्ते —
“यत्तानूनप्त्र समवद्यति भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति” (सं. का. ६ प्र. २ अ. २) इति।
समवद्यति संभूयावदानं कुर्यात्। स्वयं भूतिमान्भवति वैरी तु पराभवति। इयमेव भ्रतृव्याभिभूतिः।
अवदानसंख्यां विधत्ते —
“पञ्च कृत्वोऽव द्यति पञ्चधा हि ते तत्समवाद्यन्ताथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे” (सं. का. ६ प्र. २ अ. २) इति।
ते देवास्तत्तदानीं पञ्चधा विभक्ताः पश्चात्संभूयैकवत्प्रियतनूनवाद्य[न्त] स्थापितवन्तः।
मन्त्रान्व्याचष्टे —
“आपतये त्वा गृह्णामीत्याह प्राणो वा आपतिः प्राणमेव प्रीणाति परिपतय इत्याह मनो वै परिपतिर्मन एव प्रीणाति तनूनप्त्र इत्याह तनुवो हि ते ताः समवाद्यन्त शाक्वरायेत्याह शक्त्यै हि ते ताः समवाद्यन्त शक्मन्नोजिष्ठायेत्याहौजिष्ठ हि ते तदात्मनः समवाद्यन्त” (सं. का. ६ प्र. २ अ. २) इति।
[आपतिपरिपतितनूनप्तृशाक्वरशक्मन्नोजिष्ठशब्दैर्देववृत्तान्तः सूच्यते]।
तनूशाक्वरौजिष्ठशब्दैर्देव[वा]वृत्तान्तः सूच्यते। ते देवास्तदानीं स्वात्मसंबन्धं पुत्रादितनुरूपमोजः सारं समवाद्यन्त।
अनाधृष्टमिति।
मन्त्रस्य यथोक्तार्थः प्रसिद्ध इत्याह —
“अनाधृष्टमस्यधृष्यमित्याहाधृष्ट ह्येतदनाधृष्यं देवानामोज इत्याह देवाना ह्येतदोजोऽभिशस्तिपा अनभिशस्तेन्यमित्याहाभिशस्तिपा ह्येतदनभिशस्तेन्यम्” (सं. का. ६ प्र. २ अ. २) इति।
अन्विति।
मन्त्रस्य स्पष्टार्थतामाह —
‘अनु मे दीक्षां दीक्षापतिर्मन्यतामित्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. २ अ. २) इति।
एतन्मन्त्रं व्याख्यातुं प्रस्तौति —
“घृतं वै देवा वज्रं कृत्वा सोममघ्नन्नन्तिकमिव खलु वा अस्यैतच्चरन्ति यत्तानूनप्त्रेण प्रचरन्ति” (सं. का. ६ प्र. २ अ. २) इति।
पुरा कदाचित्स्वसामर्थ्याद्वज्रीकृतेन घृतेन सोमस्य देवैस्ताडितत्वात्सोमो घृताद्बिभेति। ऋत्विजश्च वेद्यां तानूनप्त्रेणाऽऽज्येन प्रचरन्तीति यदेतदस्य सोमस्यान्तिकं यथा भवति तथा चरन्ति। आहवनीयदक्षिणभागे सोमस्य स्थितत्वात्। अतो भीतः सोम आप्याययितव्यः।
आप्यायनस्यप्रसङ्गं दर्शयित्वा तन्मन्त्रं व्याचष्टे —
“अंशुरशुस्ते देव सोमाऽऽप्यायतामित्याह यदेवास्यापुवायते यन्मीयते तदेवास्यैतेनाऽऽप्याययत्या तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वेत्याहोभावेवेन्द्रं च सोमं चाऽऽप्याययत्या प्यायय सखीन्त्सन्या मेधयेत्याहर्त्विजो वा अस्य सखायस्तानेवाऽऽप्याययति स्वस्ति ते देव सोम सुत्यामशीयेत्याहाऽऽशिषमेवैतामा शास्ते” (सं. का. ६ प्र. २ अ. २) इति।
अस्य सोमस्य यदङ्गमपुवायते शुष्यति यच्च मीयते।
नायमकाण्डे नमस्कारः किंतु तस्य निमित्तमस्तीत्याह —
“प्र वा एतेऽस्माल्लोकाच्च्यवन्ते ये सोममाप्याययन्त्यन्तरिक्षदेवत्यो हि सोम आप्यायित एष्टा रायः प्रेषे भगायेत्याह द्यावापृथिवीभ्यामेव नमस्कृत्यास्मिल्ँ लोके प्रति तिष्ठन्ति” (सं. का. ६ प्र. २ अ. २) इति।
आप्यायितस्य सोमस्य नाभिदघ्न्यामासन्द्यां पर्यवस्थितत्वादन्तरिक्षदेवत्यत्वम्। तादृशस्य सोमस्याऽऽप्याययितारोऽपि तथाविधा इत्यास्माल्लोकात्प्रच्युता अतोऽस्मिल्ँ लोके प्रतिष्ठित्यै नमस्कारः क्रियते।
अग्ने व्रतपत इत्यस्य मन्त्रस्य स्पष्टार्थतामभिप्रेत्यावान्तरदीक्षारम्भं विधत्ते —
“देवासुराः संयत्ता आसन्ते देवा बिभ्यतोऽग्निं प्राविशन्तस्मादाहुरग्निः सर्वा देवता इति तेऽग्निमेव वरूथं कृत्वाऽतुरानभ्यभवन्नग्निमिव खलु वा एष प्र विशति योऽवान्तरदीक्षामुपैति भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्या भवति” (सं. का. ६ प्र. २ अ. २) इति।
परकायप्रवेशहेतुत्वाद्योगशास्त्रप्रसिद्धेन संयमविशेषण देवा अग्निमग्निशरीरं प्राविशन्। तपोरूपत्वेनाग्निसमानाऽवान्तरदीक्षा ततस्तामुपेयात्।
पूर्वोक्तां दीक्षामिदानीमुच्यमानावन्तरदीक्षां च प्रशंसति —
“आत्मानमेव दीक्षया पाति प्रजामवान्तरदीक्षया” (सं. का. ६ प्र. २ अ. २) इति।
अवान्तरदीक्षानियमान्विधत्ते —
“संतरां मेखलां समायच्छते प्रजा ह्यात्मनोऽन्तरतरा तप्तव्रतो भवति मदन्तीभिर्मार्जयते निर्ह्यग्निः शीतेन वायति समिद्ध्यै” (सं. का. ६ प्र. २ अ. २) इति।
सर्वो जनः स्वात्मानं क्लेशयित्वाऽप्यपत्यानि सम्यक्परिपालयति। अतः स्वस्मादपि प्रजाऽभ्यन्तरा। मेखलायास्तु प्रजास्थानीयत्वेनान्तरत्वात्संश्लिष्टतरं यथा भवति तथा समाच्छादयेत्। शीतेन क्षीरेण शीताभिरद्भिश्चाग्निर्निर्वायति। तस्मादुदराग्निसमिन्धनाय पेयस्य क्षीरस्य मार्जनहेतोरुदकस्य चौष्ण्यं कर्तव्यम्।
व्रतमन्त्रे रुद्रियाशब्दाभिप्रायमाह —
“या ते अग्ने रुद्रिया तनूरित्याह स्वयैवैनद्देवतया व्रतयति सयोनित्वाय शान्त्यै” (सं. का. ६ प्र. २ अ. २) इति।
स्वोदराग्नेरपरं रूपं रुद्रिया तनूस्तया दुग्धे तप्ते सति स्वया देवतया सहै(स्वयै)व दुग्धं व्रतयति भुङ्क्ते। तच्च भोजनं सयोनित्वाय योनिभूतेनाग्निना साहित्याय। तच्च साहित्यमुग्रस्याग्नेः शान्त्यै भवति।

त्रीनेतानुपसद्धोमान्विधातुं प्रस्तौति -
‘तेषामसुराणां तिस्रः पुर आसन्नयस्मय्यवमाऽथ रजताऽथ हरिणी ता देवा जेतुं नाशक्नुवन्ता उपसदैवाजिगीषन्तस्मादाहुर्यश्चैवं वेद यश्च नोपसदा वै महापुरं जयन्तीति त इषुं समस्कुर्वताग्निमनीकं सोमं शल्यं विष्णुं तेजनं तेऽब्रुवन्क इमामसिष्यतीति रुद्र इत्यब्रुवन्रुद्रो वै क्रूरः सोऽस्यत्विति सोऽब्रवीद्वरं वृणा अहमेव पशूनामधिपतिरसानीति तस्माद्रुद्रः पशूनामधिपतिस्ता रुद्रोऽवासृजत्स तिस्रः पुरो भित्त्वैभ्यो लोकेभ्योऽसुरान्प्राणुदत’ इति ।
ये पूर्वमग्निना वरूथेन पराभूता असुरास्तेषामसुराणां पृथिव्यन्तरिक्षद्युलोकेषु स्वरक्षार्थं तिस्रः पुरो दुर्गरूपा आसन् । तासु पृथिवीवर्तिनी लोहप्राकारवेष्टिता । अन्तरिक्षवर्तिनी रजतप्राकारवेष्टिता । द्युलोकवर्तिनी हिरण्यप्राकारवेष्टिता । तादृशीः पुरो देवा अग्निना वरूथेनापि जेतुमशक्ता युद्धं परित्यज्योपसदैव जेतुमैच्छन् । दुर्गं परितोऽवरुध्य चिरं तत्समीपेऽवस्थाय तमुप(पा)वसन् । चिरकालावस्थाने सति दुर्गमध्येऽन्नपानादिक्षयादन्तर्भेदाद्वा जयो भव[ती]ति । यस्माद्देवैश्चिरवासो जयोपायत्वेन विचारितस्तस्माल्लोकेऽप्याहुः । के किमाहुः? यश्च ब्राह्मणादिर्वेदाध्ययनेन वेदविचारं जानाति यश्च शूद्रादिर्न जानाति ते सर्वेऽपि युद्धेनाजेयं महापुरमुपसदा जेतुं शक्यमित्याहुः । ततो देवाः कालविलम्बो मा भूदिति विचार्य युद्धेनैव जेतुमिषुं संस्कृतवन्तः । अग्निं सोमं विष्णुं च संभूयैकबाणं कृत्वा तेन जेतुमुद्युक्ताः । अनीकशब्दो बाणस्य प्रथमभागकाष्ठमाचष्टे, शल्यशब्दो लोहं, तेजनशब्दस्तदग्रम् । तामिमां देवतात्रयसमष्टिरूपामिषुं स्त्रीबालसहितकृत्स्नासुरघातिनीं को नाम मोक्ष्यतीति विचार्य शक्तो निर्घृणश्च रुद्र एवेति निश्चित्य तस्मै वरं दत्तवन्तः । स रुद्रस्तामिषुं मुक्त्वा तया प्राकारत्रयं विभिद्य त्रिभ्यो लोकेभ्योऽसुरान्निःसारयामास ॥
विधत्ते - ‘यदुपसद उपसद्यन्ते भ्रातृव्यपराणुत्त्यै’ इति ।
वैरिदुर्गोपसदनकार्यकारित्वादेता आहुतय उपसद इत्युच्यन्ते । तत्राग्निः सोमो विष्णुरित्येवंरूपास्तिस्रो देवताः, तासां याज्यापुरोनुवाक्या हौत्र एवाऽऽम्नायन्ते । अयाशयादितनुधारी वह्निश्चतुर्थी देवता । तदीयमन्त्र आध्वर्यवत्वादत्रैवाऽऽम्नातः ।
उपसदामाज्यहविष्ट्वेनोपांशुयाजवत्प्रयाजाज्यभागाद्याहुतिप्रसक्तौ प्रतिषेधति — “नान्यामाहुतिं पुरस्ताज्जुहुयाद्यदन्यामाहुतिं पुरस्ताज्जुहुयादन्यन्प्रुखं कुर्यात्” इति ।
अग्निमनीकमिति बाणव्याजेनाग्नेः प्रथमभावित्वलक्षणं मुखत्वमुक्तम्। तत्र प्रयाजादिहोमे वह्नेर्मुखत्वं हीयेत ।
आहुत्यन्तराणां सर्वेषां निषेधप्राप्तौ कांचिदाहुतिं विधत्ते — “स्रुवेणाऽऽघारमा घारयति यज्ञस्य प्रज्ञात्यै” इति ।
दर्शपूर्णमासादियज्ञानामाघारोपेतत्वादुपसदामपि यज्ञत्वप्रत्यभिज्ञानाय स्रुवाघारः ।
तिसृणामुपसदां होमप्रकारं विधत्ते — “पराङतिक्रम्य जुहोति पराच एवैभ्यो लोकेभ्यो यजमानो भ्रातृव्यान्प्र णुदते” इति ।
पराङ्पुनरावृत्तिरहितो वेद्याहवनीययोर्मध्यमतिक्रम्य दक्षिणस्यां दिश्युदङ्गमुखः स्थित्वा क्रमेणाग्नेः सोमस्य विष्णोश्च तिस्र आहुतीर्जुहुयात् । तथा सति वैरिणोऽपि पुनरावृत्तिरहितानेव कृत्वा लोकत्रयान्निःसारयति ।
चतुर्थाहुतिप्रकारं विधत्ते — “पुनरत्याक्रम्योपसदं जुहोति प्रणुद्यैवैभ्यो लोकेभ्यो भ्रातृव्याञ्जित्वा भ्रातृव्यलोकमभ्यारोहति” इति ।
दक्षिणदेशादुत्तरस्यां दिशि समागत्य चतुर्थीमुपसद जुहुयात् । तथा सति वैरिणो निःसार्य स्वर्गं गत्वा वैरिस्थानं पुरत्रयमधितिष्ठति ।
कालद्वये तदनुष्ठानं विधत्ते — “देवा वै याः प्रातरुपसद उपासीदन्नह्नस्ताभिरसुरान्प्राणुदन्त याः साय रात्रियै ताभिर्यत्सायंप्रातरुपसद उपसद्यन्तेऽहोरात्राभ्यामेव तद्यजमानो भ्रातृव्यान्प्रणुदते” इति ।
उपासीदन्ननुष्ठितवन्तः । प्रातरनुष्ठिताभिरह्नो वैरिनिःसारणं सायमनुष्ठिताभिस्तु रात्रेः ।
कालद्वये याज्यानुवाक्ययोर्व्यत्यासं विधत्ते — “याः प्रातर्याज्याः स्युस्ताः सायं पुरोनुवाक्याः कुर्यादयातयामत्वाय” इति ।
यातयामत्वं गतरसत्वं तद्वर्जनाय व्यत्यासः ।
दिनत्रये तदनुष्ठानं विधत्ते — “तिस्र उपसद उपैति त्रय इमे लोका इमानेव लोकान्प्रीणाति” इति ।
त्रिषु दिनेषु कालद्वयेऽनुष्ठानं प्रशंसति — “षट्सं पद्यन्ते षड्वा ऋतव ऋतूनेव प्रीणाति” इति ।
प्रसङ्गादहीने द्विरात्रादावुपसद्दिनसंख्यां विधत्ते — “द्वादशाहीने सोम उपैति द्वादश मासाः संवत्सरः संवत्सरमेव प्रीणाति” इति ।
अहःसंघेन निष्पाद्यः सोमयागोऽहीनः । सत्रमप्यनेनोपलक्ष्यते । अहःसमूहस्य समानत्वात् ।
द्वादशदिनेषु कालद्वयानुष्ठानं प्रशंसति — “चतुर्विंशतिः संपद्यन्ते चतुर्विशतिरर्धमासा अर्धमासानेव प्रीणाति” इति ।
एतेषूपसद्दिनेष्ववान्तरदीक्षान्व्रतपाने स्तनसंख्यां विधत्ते — “आराग्रामवान्तरदीक्षामुपेयाद्यः कामयेतास्मिन्मे लोकेऽर्धुकं स्यादित्येकमग्नेऽथ द्वावथ त्रीनथ चतुर एषा वा आराग्राऽवान्तरदीक्षाऽस्मिन्नेवास्मै लोकेऽर्धुकं भवति” इति ।
बलीवर्दप्रतोदनं लोहमारं तद्वदल्पमग्रं मुखं यस्याः साऽऽराग्रा । अर्धुकं समृद्धिशीलं फलम् । सोमक्रयदिने सायमेकं स्तनं दुह्यात्, अपरेद्युः प्रातर्द्वौ स्तनौ, सायं त्रीन्स्तनान्, परेद्युः प्रातश्चतुरः ।
यस्तु परलोकसमृद्धिकामस्तस्योक्तवैपरीत्यं विधत्ते — “परोवरीयसीमवान्तरदीक्षामुपेयाद्यः कामयेतामुष्मिन्मे लोकेऽर्धुक स्यादिति चतुरोऽग्रेऽथ त्रीनथ द्वावथैकमेषा वै परोवरीयस्यवान्तरदीक्षाऽमुष्मिन्नेवास्मै लोकेऽर्धुकं भवति” इति ।
परःशब्देनात्र श्रेष्ठत्वादुपक्रमो विवक्षितः । उपक्रमे वरीयोऽधिकं यस्याः सा परोवरीयसी ।

अशक्तस्य क्षीरव्रतादूर्ध्वमाहारमल्पमनुजानाति —
“सुवर्गं वा एते लोकं यन्ति य उपसद उपयन्ति तेषां य उन्नयते हीयत एव स नोदनेषीति सून्नीयमिव” (सं. का. ६ प्र. २ अ. ४) इति।
उपसदां स्वर्गप्राप्तिहेतुत्वात्तदनुष्ठायिभिरवहितैर्भवितव्यम्। तेषां मध्ये यः कोऽपि हीनमनस्को यथोक्तव्रतादूर्ध्वमोदनादिकमन्तर्नयेत्स स्वर्गाद्धीयत एव। तस्मादशक्तोऽपि श्रद्धालुतया नोदनेषि न किंचिदपि व्रतादूर्ध्वमन्तर्नेष्यामीति यदि मन्येत तेन सून्नीयमिव शोभनं वाक्यान्तराभ्यनुज्ञातं वस्तून्नीतमिव कुर्यात्।
अशक्तिपरिहारमात्रोपयुक्तं किंचिदेव स्वीकार्तव्यम्।
अनुव्रते कृतेऽपि फलभ्रंशो नास्तीत्यस्मिन्नर्थे दृष्टान्तमाह —
“यो वै स्वार्थेतां यता श्रान्तो हीयत उत स निष्ट्याय सह वसति” (सं. का. ६ प्र. २ अ. ४) इति।
स्वार्थं यन्ति गच्छन्तीति स्वार्थेतस्तेषां स्वार्थेताम्। यतन्त इति यतस्तेषां यताम्। मकरमासे प्रयागस्नानं केषांचित्स्वार्थस्तं प्राप्तुं प्रयतमानानां स्वग्रामान्निर्गत्य गच्छतां मध्ये यः कश्चिच्छ्रान्तो गन्तुमशक्तः संक्रान्तिकालीनस्नानाद्धीयते सोऽपि निष्ट्याय परेद्युर्निर्गत्य तीर्थे गत्वा तैस्तीर्थवासिभिः सहावशिष्टं मासं वसति तद्वदयमप्येकेनानुव्रतेनाशक्तिं परिहृत्य शिष्टं नियममनुतिष्ठेत्।
तमिममर्थं निगमयति —
“तस्मात्सकृदुन्नीय नापरमुन्नयेत” (सं. का. ६ प्र. २ अ. ४) इति।
सकृदुन्नयने द्रव्यं विधत्ते —
“दध्नोन्नयेतैतद्वै पशूना रूप रूपेणैव पशूनव रुन्धे” (सं. का. ६ प्र. २ अ. ४) इति।
अथ सौमिकीं वेदिं विधातुं प्रस्तौति —
“यज्ञो देवेभ्यो निलायत विष्णू रूपं कृत्वा स पृथिवीं प्राविशत्तं देवा हस्तान्त्सरभ्यैच्छन्तमिन्द्र उपर्युपर्यत्यक्रामत्सोऽब्रवीत्को माऽयमुपर्युपर्यत्यक्रमीदित्यहं दुर्गे हन्तेत्यथ कस्त्वमित्यहं दुर्गादाहर्तेति सोऽब्रवीद्दुर्गे वै हन्ताऽवोचथा वराहोऽयं वाममोषः सप्तानां गिरीणां परस्ताद्वित्तं वेद्यमसुराणां बिभर्ति तं जहि यदि दुर्गे हन्ताऽसीति स दर्भपुञ्जीलमुद्वृत्य सप्तगिरीन्भित्त्वा तमहन्त्सोऽब्रवीद्दुर्गाद्वा आहर्ताऽवोचथा एतमा हरेति तमेभ्यो यज्ञ एव यज्ञमाऽहरद्यत्तद्वित्तं वेद्यमसुराणामविन्दन्त तदेकं वेद्यै वेदित्वम्” (सं. का. ६ प्र. २ अ. ४) इति।
स्वर्गलोके स्थितो यज्ञपुरुषस्तिरोधानाय विष्णुर्भूत्वा वैष्णवं रूपं संपूर्णं कृत्वा देवेभ्यः पलाय्य पृथिवीं प्राविशत्। देवाश्च पृष्ठत एव समागत्य हस्तान्प्रसार्य तं धर्तुमैच्छन्। अयं यज्ञो यत्र यत्र गच्छति तत्र तत्रेन्द्रस्तमतिक्रम्य पुरतो मार्गमवरुध्यातिष्ठत्। कोऽयं मामत्यक्रमीदिति यज्ञेनाऽक्षिप्त इन्द्रः केनाप्यगम्ये दुर्गे गत्वा विरोधिनं ताडयिष्यामीति स्वमहिमानं प्रतिजज्ञे। अथैवं मच्छक्तेः परीक्षकः को नाम त्वमसीतीन्द्रेणाऽऽक्षिप्तो यज्ञस्तादृशश्च दुर्गात्तं विरोधिनमाहरिष्यामीति स्वाशक्तिं प्रतिजज्ञौ(ज्ञे)। प्रतिज्ञाय स्वकीयं पूर्ववृत्तान्तमिन्द्रस्य पुरतः सर्वमवोचत्। पुरा कदाचिदसुरप्राबल्यं दृष्ट्वा मदङ्गभूतदीक्षाद्यभिमानिनः सर्वेऽपि स्वर्गलोकवासिनो मत्तो निर्गत्य पृथिवीं प्राविशन्। ते च के, चतुस्रो दीक्षास्तिस्र उपसद एका सुत्येत्यष्टदिवससाध्यानि कर्माणि।। तत्र दीक्षोपसदः सप्तपृथिव्यां गत्वा गिरयोऽभवन्। सुत्याभिमानी देवो वाममोषो वामं कमनीयं सौमिकवेदिग्रहचमसादिरूपं दैवं वित्तं मुष्णात्यपहरतीति वाममोषः। स च मुषितं तत्सर्वमसुरेभ्यो दत्त्वा स्वयं वराहो भूत्वा सप्तभ्यो गिरिभ्यः परस्तादसुराणां तद्वित्तं स्थितं विरोधिनं हन्ताऽसि तर्हि तं वराहं जहीत्युक्त इन्द्रो दर्भस्तम्बेनैव गिरीन्भित्त्वा वराहं ताडितवान्। तत इन्द्रो यज्ञमुवाच विरोधिनमाहरिष्यामीति यत्प्रतिज्ञातं तत्कर्तुं शक्नोषि चेदेनं विरोधिनं वराहमाहरेत्युक्तो यज्ञाभिमान्यवे तं वराहाकारं वेदिग्रहचमसादिवित्तोपेतं यज्ञमेभ्यो देवेभ्य आहृत्य ददौ। यस्माद्देवैर्लब्धव्यमसुराणां तद्वेदिरूपं वित्तं देवा अविन्दन्तालभन्त तस्माद्विद्यते लभ्यत इति व्युत्पत्त्या वेदेर्वेदिनाम संपन्नम्। वक्ष्यमाणमपेक्ष्यायमेकः प्रकारः। तस्मादेकं वेदित्वमित्युच्यते।
प्रकारान्तरेणापि वेदित्वं दर्शयति —
“असुराणां वा इयमग्र आसीद्यावदासीनः परापश्यति तावद्देवानां ते देवा अब्रुवन्नस्त्वेव नोऽस्यामपीति कियद्वो दास्याम इति यावदिय सलावृकी त्रिः परिक्रामति तावन्नो दत्तेति स इन्द्रः सलावृकी रूपं कृत्वेमां त्रिः सर्वतः पर्यक्रामत्तदिमामविन्दन्त यदिमामविन्दन्त तद्वेद्यै वेदित्वम्” (सं. का. ६ प्रं. २ अ. ४) इति।
दार्शिके वेदिब्राह्मणेऽप्येतदुपाख्यानं श्रुतम्। तत्र वसवस्त्वेति मन्त्रैर्यावान्प्रदेशः परिगृहीतस्तावत्येव वेदिः। अत्र तु कृत्स्नाऽपि भूमिर्वेदिरिति विशेषः।
कृत्स्नभूमेर्वेदित्वेऽपि यागोपयुक्तप्रदेशः पृथक्कल्पनीय इति विधत्ते —
“सा वा इय सर्वैव वेदिरियति शक्ष्यामीति त्वा अवमाय यजन्ते” (सं. का. ६ प्रं. २ अ. ४)इति।
भूमिः सर्वा यद्यपि वेदिरेव तथाऽपि न यत्र क्वापि यष्टव्यं किंत्वेतावति प्रदेशे सदोहविर्धानादिकं निर्मातुं शक्ष्यामीति निश्चित्य तावन्तं प्रदेशमवमाय पदैः परिमित्य तस्मिन्प्रदेशे यजेरन्।
तत्र पदसंख्यां विधत्ते —
“त्रिंशत्पदानि पश्चात्तिरश्ची भवति षट्त्रिशत्प्राची चतुर्विशतिः पुरस्तात्तिरश्ची दशदश सं पद्यन्ते दशाक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव रुन्धे” [सं. का. ६ प्रं. २ अ. ४] इति।
अत्रोक्तपदसंख्यायां सर्वस्यां मेलितायां नवसंख्याकानि दशकानि संपद्यन्ते। तदेवं वेदिप्रदेशप्रमाणं मध्यम उपसद्दिने प्रातःकालीनाया उपसद ऊर्ध्वं कर्तव्यम्।
यथोक्तपरिमाणवति प्रदेश उपरितनमृत्तिकाया अपनयनं विधत्ते —
“उद्धन्ति यदेवास्या अमेध्यं तदपहन्ति” (सं. का. ६ प्रं. २ अ. ४) इति।
निष्ठीवनादिकृतमशुचित्वमुद्धनेनापैति।
तमेव विधिमनूद्य प्रशंसति —
“उद्धन्ति तस्मादोषधयः परा भवन्ति बर्हिः स्तृणाति तस्मादोषधयः पुनरा भवन्ति” [सं. का. ६ प्रं. २ अ. ४] इति।
पूर्वं तस्मिन्प्रदेशे समुत्पन्नास्तृणविशेषा उद्धननेन पराभूता भवन्ति तस्मात्कृत्स्नवेद्यां बर्हिरास्तरणादोषधयः पुनरागता भवन्ति।
तस्य बर्हिष उपरि पुनरप्यग्नीषोमीयपश्वर्थं बर्हिरुत्तरवेदिप्रदेशे स्तृणीयादिति विधत्ते —
“उत्तर बर्हिष उत्तरबर्हिः स्तृणाति प्रजा वै बर्हिर्यजमान उत्तरबर्हिर्यजमानमेवायजमानादुत्तरं करोति तस्माद्यजमानोऽयजमानादुत्तरः” (सं. का. ६ प्रं. २ अ. ४) इति।
उत्कृष्ट इत्यर्थः।

यत्पूर्वं विहितं तिस्र उपसद उपैति द्वादशाहीने सोम उपैतीति तत्र विपक्षस्वपक्षयोर्बाधाबाधावुपन्यस्यति —
“यद्वा अनीशानो भारमादत्ते वि वै स लिशते यद्द्वादश साह्नस्योपसदः स्युस्तिस्रोऽहीनस्य यज्ञस्य विलोम क्रियेत तिस्त्र एव साह्नस्योपसदो द्वादशाही
नस्य यज्ञस्य सवीयंत्वायाथो सलोम क्रियते” (सं. का. ६ प्रं. २ अ. ५ ) इति।
लोके यद्यशक्तः कश्चित्प्रौढं भारं वोढुमाददीत तदा स विलिशते विशेषेणाल्पी भवति उत्थातुमप्यशक्तो भूमौ पतेत्। तद्वदत्रापि योज्यते। अह्ना सह वर्तत इति साह्न एकाहो ज्योतिष्टोमः। अहःसंघसाध्योऽहीनो द्विरात्रादिः। तत्र यद्यल्पस्य साह्नस्य द्वादश स्युर्यदि वाऽधिकस्याहीनस्य तिस्रः स्युस्तदा विलोम विपरीतं क्रियेत। तथा सति साह्नस्य वीर्यं हीयेत। स्वपक्षे तु नास्ति तदुभयम्।
यच्चान्यत्पूर्वं विहितमाराग्रामवान्तरदीक्षामुपेयादिति तत्प्रशंसति —
“वत्सस्यैकः स्तनो भागी हि सोऽथैक स्तनं व्रतमुपैत्यथ द्वावथ त्रीनथ चतुर एतद्वै क्षुरपवि नाम व्रतं येन प्र जातान्भ्रातृव्यान्नुदते प्रति जनिष्यमाणानथो कनीयसैव भूय उपैति” (सं. का. ६ प्रं. २ अ. ५) इति।
वत्सस्य भागो यः स्तनस्तस्मिन्नप्यल्पं पयो यजमानश्चतुर्थे पर्याये स्वी करोति। ततोऽस्य चतुस्तननियमः सिध्यति। तदेतदेकस्तनादिकं व्रतं क्षुरपवीत्युच्यते। पविर्वज्रं तेन तीक्ष्णत्वमुपलक्ष्यते। क्षुरवत्पविस्तैक्ष्णयं यस्याऽऽराग्राव्रतस्य तेन व्रतेन पूर्वमुत्पन्नान्वैरिणो विनाशयति जनिष्यमाणांश्च प्रतिबध्नाति। किंचात्यल्पेन कर्मणा भूयः फलं प्राप्नोति। यथोप्तेनाल्पेन बीजेन प्रौढं वृक्षं फलं प्राप्नोति तद्वत्।
यदन्यत्पूर्वं विहितं परोवरीयसीमवान्तरदीक्षामुपेयादिति तत्प्रशंसति —
“चतुरोऽग्रे स्तनान्व्रतमुपैत्यथ त्रीनथ द्वावथैकमेतद्वै सुजघनं नाम व्रतं तपस्य सुवर्ग्यमथो प्रैव जायते प्रजया पशुभिः” (सं. का. ६ प्रं. २ अ. ५) इति।
यथा रूपवत्या युवत्या योषितो जघनप्रदेशः स्थूलस्तस्योपरि देहमध्यप्रदेशः कृशस्तद्वदस्य व्रतस्याधोभागश्चतुस्तन उपरिभाग एकस्तन इति सुजघनमिति नाम। तपस्यमुत्तरोत्तरमाहारक्षयात्तपसो योग्यम्। अत एव स्वर्गसाधानम्। किंच सुजघनत्वादेव प्रजाः पशूंश्च प्रजनयति।
त्रैवर्णिकानां मध्ये क्षत्त्रियस्य द्रव्यं विधत्ते —
“यवागू राजन्यस्य व्रतं क्रूरेव वै यवागूः क्रूर इव राजन्यो वज्रस्य रूप समृद्ध्यै” (सं. का. ६ प्रं. २ अ. ५) इति।
यवाग्वा ओदनवत्तृप्तिहेतुत्वाभावात्क्रूरत्वम्। राज्यन्यो दुष्टशिक्षकत्वात्क्रूरः। उभयं मिलित्वा यद्वज्रसदृशं तच्चानिष्टनिवर्तकत्वेन समृद्ध्यै भवति।
विधत्ते —
‘आमिक्षा वैश्यस्य पाकयज्ञस्य रूपं पुष्ट्यै’ (सं. का. ६ प्रं. २ अ. ५) इति।
तप्ते पयसि दधिप्रक्षेपेण घनीभूतो भागोऽसावामिक्षा। पक्वेन पुरोडाशादिना कृतो यज्ञः पाकयज्ञः। आमिक्षायाः पक्वपयोनिष्पन्नत्वात्पाकयज्ञस्य रूपमतः पुष्ट्यै भवति।
विधत्ते —
‘पयो ब्राह्मणस्य तेजो वै ब्राह्मणस्तेजः पयस्तेजसैव तेजः पय आत्मन्धत्तेऽथो पयसा वै गर्भा वर्धन्ते गर्भ इव खलु वा एष यद्दीक्षितो यदस्य पयो व्रतं भवत्यात्मानमेव तद्वर्धयति’ [सं. का. ६ प्रं. २ अ. ५] इति।
ब्राह्मणोऽध्यापनादिरूपेण तेजसा युक्तः। पयसस्तेजोवत्स्वच्छरूपत्वात्स्वयमेव तेजस्वि। पयसि पीते सति स्वकीयेन तेजसा सह पयोरूपं तेज आत्मनि धृतं भवति। किंच दीक्षितस्य गर्भरूपत्वात्पयसा वृद्धिर्युज्यते।
मध्याह्नमध्यरात्रयोर्व्रतकालत्वं विधातुं प्रस्तौति —
“त्रिव्रतो वै मनुरासीद्द्विव्रता असुरा एकव्रता देवाः प्रातर्मध्यंदिने सायं तन्मनोर्व्रतमासीत्पाकयज्ञस्य रूपं पुष्ट्यै प्रातश्च सायं चासुराणां निर्मध्यं क्षुधोरूपं ततस्ते पराऽभवन्मध्यंदिने मध्यरात्रे देवानां ततस्तेऽभवन्त्सुवर्गं लोकमायन्” (सं. का. ६ प्रं. २ अ. ५) इति।
अहनि त्रिषु कालेषु व्रतं भोजनं कुर्वतो मनोरेकस्मिन्नेव काले व्रतं कुर्वतां देवानां च मध्याह्नकाले व्रतमस्ति। स च कालः क्षुधः स्वरूपम्। तस्मिन्व्रतरहिता असुराः पराभूताः। व्रतयुक्तास्तु मनुर्देवाश्च पुष्टिं स्वर्गं च प्राप्ताः। ततो मध्याह्नकालः प्रशस्तः।
विधत्ते —
“यदस्य मध्यंदिने मध्यरात्रे व्रतं भवति मध्यतो वा अन्नेन भुञ्जते मध्यत एव तदूर्जं धत्ते भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति” (सं. का. ६ प्रं. २ अ. ५) इति।
मुखमध्येऽन्नस्य भोजनमुदरमध्येऽन्नस्य च धारणं यथा लोके तथैवात्रापि मध्याह्ने मध्यरात्रे च व्रतं कर्तव्यम्।
दीक्षितस्य स्वनिवासस्थानात्प्रवासं निषेधति —
“गर्भो वा एष यद्दीक्षितो योनिर्दीक्षितविमितं यद्दीक्षितो दीक्षितविमितात्प्रवसेद्यथा योनेर्गर्भः स्यन्दति तादृगेव तन्न प्रवस्तव्यमात्मनो गोपीथाय” (सं. का. ६ प्रं. २ अ. ५) इति।
दीक्षितो विशेषेण मीयते प्रक्षिप्यते यस्मिञ्शालास्थाने तद्दीक्षितविमितं तस्य योनिरूपत्वात्। ततोऽस्य निर्गमनं गर्भस्रावसमम्। तत आत्मरक्षणार्थं न निर्गन्तव्यम्।
एतमेव निषेधं प्रकारान्तरेण प्रशंसति –
‘एष वै व्याघ्रः कुलगोपो यदग्निस्तस्माद्यद्दीक्षितः प्रवसेत्स एनमीश्वरोऽनूत्याय हन्तोर्न प्रवस्तव्यमात्मनो गुप्त्यै’ (सं. का. ६ प्रं. २ अ. ५) इति।
एष एवाऽऽहवंनीयोऽग्निः प्रवसतो व्याघ्रवद्धिंसको निवसतः कुलरक्षकः तस्मात्सोऽग्निः प्रवसन्तमेनमनु स्वयमुत्थाय हन्तुं समर्थः। प्रवासाभावस्त्वात्मनो रक्षणाय भवति।
आहवनीयस्य दक्षिणदेशं शयनार्थं विधत्ते —
‘दक्षिणतः शय एतद्वै यजमानस्याऽऽयतन स्व एवाऽऽयतने शये’ (सं. का. ६ प्रं. २ अ. ५) इति।
शेत इत्यर्थः।
शयनस्याऽऽहवनीयाभिमुख्यं विधत्ते —
‘अग्निमभ्यावृत्य शये देवता एव यज्ञमभ्यावृत्य शये’ (सं. का. ६ प्रं. २ अ. ५) इति।
अथ काम्यानि देवयजनानि विधीयन्ते। तत्र पुरोहविरादयः संज्ञाविशेषा उक्थ्यषोडश्यतिरात्राद्युत्तरयज्ञाः।

स्वर्गकामिनं(णं) प्रति विधत्ते —
“पुरोहविषि देवयजने याजयेद्यं कामयेतोपैनमुत्तरो यज्ञो नमेदभि सुवर्गं लोकं जयेदिति” (सं. का. ६ प्रं. २ अ. ६) इति।
अनेन प्रकरेण यं यजमानमुद्दिश्य कामयेत तं पुरोहविर्नामके याजयेत्।
तस्य लक्षणमाह —
‘एतद्वै पुरोहविर्देवयजनं यस्य होता प्रातरनुवाकमनुब्रुवन्नग्निमप आदित्यमभि विपश्यति’ (सं. का. ६ प्रं. २ अ. ६) इति।
यस्य देवयजनस्य हविर्धानमण्डप आसीनः प्राङ्मुखो होता प्रातरनुवाकनामकं शस्त्रं पठेत्(ठन्) पुरोवर्तिनमाहवनीयाग्निं ततः प्राग्वर्तिनं नदीतडागादिजलं ततोऽपि, प्राग्दिश्युद्यन्तमादित्यं चाऽऽभिमुख्येन युगपत्पश्यत्येतादृग्देवयजनं पुरोहविरित्युच्यते।
कामितफलसिद्धिं दर्शयति —
“उपैनमुत्तरो यज्ञो नमत्यभि सुवर्गं लोकं जयति” [सं. का. ६ प्रं. २ अ. ६] इति।
अन्यद्विधत्ते –
“आप्ते देवयजने याजयेद्भ्रातृव्यवन्तम्” [सं. का. ६ प्रं. २ अ. ६] इति।
आप्तनामकस्य लक्षणमाह —
“पन्थां वाऽधिस्पर्शयेत्कर्तं वा यावन्नानसे यातवै न रथायैतद्वा आप्तं देवयजनम्” (सं. का. ६ प्रं. २ अ. ६) इति।
प्रौढं राजमार्गं प्रौढं गर्तं वा विलोक्यऽऽधिक्येन तत्संस्पर्शो यथा भवति तथा देवयजनं निर्मातव्यम्। देवयजनगर्तयोर्मध्ये शकटस्य वा रथस्य वा यातवै गन्तुं यावदन्तरं न पर्याप्तं तावदेवान्तरं कर्तव्यम्। सोऽयमधिस्पर्शः। एतदेवाऽऽप्तनामकम्।
कामितार्थसिद्धिं दर्शयति —
“आप्नोत्येव भ्रातृव्यं नैनं भ्रातृव्य आप्नोति” (सं. का. ६ प्रं. २ अ. ६) इति। जयतीत्यर्थः।
विधत्ते —
“एकोन्नते देवयजने याजयेत्पशुकामम्” [सं. का. ६ प्रं. २ अ. ६] इति।
लक्षणमाह —
“अन्तरा सदोहविर्धाने उन्नत स्यादेतद्वा एकोन्नतं देवयजनम्” (सं. का. ६ प्रं. २ अ. ६) इति।
प्राचीनवंशात्पुरतः प्रत्यासन्नं सदः, उत्तरवेदेः पश्चात्प्रत्यासन्नं हविर्धानं, तयोर्मध्यमुन्नतं कुर्यात्।
फलमाह —
“पशुमानेव भवति” [सं. का. ६ प्रं. २ अ. ६] इति।
विधत्ते –
“त्र्युन्नते देवयजने याजयेत्सुवर्गकामम्” [सं. का. ६ प्रं. २ अ. ६] इति।
प्रशंसति —
“त्र्युन्नताद्वै देवयजनादाङ्गिरसः सुवर्गं लोकमायन्” [सं. का. ६ प्रं. २ अ. ६] इति।
लक्षणमाह —
“अन्तराऽऽहवनीयं च हविर्दानं चोन्नत स्यादन्तरा हविर्धानं च सदश्चान्तरा सदश्च गार्हपत्यं चैतद्वै त्र्यून्नतं देवयजनम्” [सं. का. ६ प्रं. २ अ. ६] इति।
उत्तरवेदिहविर्धानसदःप्राचीनवंशानां चतुर्णामन्तरालप्रदेशेषु त्रिषून्नतं कुर्यात्।
फलमाह —
“सुवर्गमेव लोकमेति” (सं. का. ६ प्रं. २ अ. ६) इति।
विधत्ते —
“प्रतिष्ठिते देवयजने याजयेत्प्रतिष्ठाकामम्” (सं. का. ६ प्रं. २ अ. ६) इति।
लक्षणमाह —
“एतद्वै प्रतिष्ठितं देवयजनं यत्सर्वतः समम्” (सं. का. ६ प्रं. २ अ. ६) इति।
फलमाह —
“प्रत्येव तिष्ठति” (सं. का. ६ प्रं. २ अ. ६) इति।
अथ नामविशेषमनुक्त्वा लक्षणपुरःसरं विधत्ते —
“यत्रान्या अन्या ओषधयो व्यतिषक्ताः स्युस्तद्याजयेत्पशुकामम्” (सं. का. ६ प्रं. २ अ. ६) इति।
यवगोधूमप्रियंगुकोद्रवादिबीजानि परस्परविलक्षणानि यस्मिन्प्रदेशे सहोत्पद्यन्ते तत्र पशुकामं याजयेत्।
प्रशंसति –
“एतद्वै पशूना रूप रूपेणैवास्मै पशूनव रुन्धे” (सं. का. ६ प्रं. २ अ. ६) इति।
फलमाह —
“पशुमानेव भवति” (सं. का. ६ प्रं. २ अ. ६) इति।
विधत्ते —
“नितिगृहीते देवयजने याजयेद्यं कामयेत नित्याऽस्य यज्ञं ग्राहयेयमिति” [सं. का. ६ प्रं. २ अ. ६] इति।
नितिर्यज्ञविघाती राक्षसः।
लक्षणमाह —
“एतद्वै नितिगृहीतं देवयजनं यत्सदृश्यै सत्या ऋक्षम्” (सं. का. ६ प्रं. २ अ. ६) इति।
निम्नोन्नतत्वराहित्येन सदृश्याः सत्या भूमेः संबन्धि यदृक्षं तृणादिशून्यं स्थानं तन्नितिगृहीतम्।
कामितार्थसिद्धिमाह —
“नित्यैवास्य यज्ञं ग्राहयति” (सं. का. ६ प्रं. २ अ. ६) इति।
विधत्ते —
“व्यावृत्ते देवयजने याजयेद्व्यावृत्कामं यं पात्रे वा तल्पे वा मीमासेरन्” [सं. का. ६ प्रं. २ अ. ६] इति।
पात्रोपलक्षिते सहपङ्क्तिभोजने तल्पोपलक्षिते विवाहे वा बन्धुमित्रादयो यं पुरुषमुद्दिश्य मीमांसेरन् संदिहीरन्स पुरुषः संदेहहेतोरपवादादेः पाप्मनो व्यावृत्तिं कामयते तं व्यावृत्ते याजयेत्।
व्यावृत्तस्य लक्षणमाह —
“प्राचीनमाहवनीयात्प्रवण स्यात्प्रतीचीनं गार्हपत्यादेतद्वै व्यावृत्तं देवयजनम्” (सं. का. ६ प्रं. २अ. ६) इति।
उभयतः प्रवणं निम्नम्।
फलसिद्धिमाह —
“वि पाप्मना भ्रातृव्येणाऽऽवर्तते नैनं पात्रे न तल्पे मीमांसन्ते” (सं. का. ६ प्रं. २ अ. ६) इति।
पापरूपेण वैरिणा व्यावर्तते वियुज्यते ततो न संदिहते।
विधत्ते —
“कार्ये देवयजने याजयेद्भूतिकायम्” (सं. का. ६ प्रं. २ अ. ६) इति।
कार्ये मृच्छिलादिभिरुन्नतीकरणीये।
प्रशंसति —
“कार्यो वै पुरुषः” (सं. का. ६ प्रं. २ अ. ६) इति।
उपनयनादिसंस्कारैरुन्नतीकरणीयः पुरुषस्ततस्तस्येदं योग्यम्।
फलसिद्धिं दर्शयति —
“भवत्येव” (सं. का. ६ प्रं. २ अ. ६) इति।
ऐश्वर्यं प्राप्नोत्येव। तदेतत्सर्वं या ते अग्नेऽयाशया रजाशयेत्यनेन मन्त्रेण साध्ययोः प्रातःकालीनसायंकालीनोपसदोर्मध्ये कर्तव्यम्।

मन्त्रान्व्याचिख्यासुः शम्यया वेदिपरिमाणं विधातुमाख्यायिकया वेदिं प्रस्तुवन्प्रसङ्गाद्व्याघारणमभिधत्ते —
“तेभ्य उत्तरवेदिः सिही रूपं कृत्वोभयानन्तरराऽपक्रम्यातिष्ठत्ते देवा अमन्यन्त यतरान्वा इयमुपावर्त्स्यति त इदं भविष्यन्तीति। तामुपामन्त्रयन्त साऽब्रवीद्वरं वृणै सर्वान्मया कामान्व्यश्नवथ पूर्वां तु माऽग्नेराहुतिरश्नवता इति तस्मादुत्तरवेदिं पूर्वामग्नेर्व्याघारयन्ति वारेवृत ह्यस्यौ” (सं. का. ६ प्र. २ अ. ७) इति।
अत्रोभयोरन्तरेणेत्यभिधानात्तेभ्यो देवासुरेभ्य इति लभ्यते। ते देवास्तामुपामन्त्रयन्त प्रार्थितवन्तः। मया मदनुग्रहेण भ्रातृव्याभिभवात्सर्वान्कामान्यूयं व्यश्नवथ विशेषेण प्राप्स्यथ। तदर्थं त्वाद्याऽऽहुतिर्व्याघारणरूपा युष्माभिर्हुता प्रणेष्यमाणादग्नेः पूर्वभाविनीं मां व्यश्नवदै विशेषेण व्याप्नोतु मामेवोद्दिश्य हूयताम्। सोऽयं वरः। यस्माद्वरो वृतस्तस्मात्तथा व्याघारयेयुः। तत्प्रकरस्तु सिहीरसि महिषीरसीत्यादिमन्त्रव्याख्यानावसरे वक्ष्यते।
विधत्ते —
“शम्यया परि मिमीते मात्रैवास्यै साऽथो युक्तेनैव युक्तमव रुन्धे” (सं. का. ६ प्र. २ अ. ७) इति।
गदया सदृशी बाहुपरिमिता शम्या तया चतुर्दिक्षूत्तरवेदिं परिमिमीते। अस्या उत्तरवेदेः सेयं भूमिः शम्यया निर्णीता मात्रैव न न्यूना ग्रहचमसादिप्रचारस्य पर्याप्तत्वात्। नाप्यधिका यथोक्तप्रचारानुपयुक्तभागस्याभावात्। किंच युक्तेनैव योग्येनैवोत्तरवेदिप्रमाणेन योग्यफलं प्राप्नोति।
मन्त्रान्व्याचष्टे —
“वित्तायनी मेऽसीत्याह वित्ता ह्येनानावत्तिक्तायनी मेऽसीत्याह तिक्तान्ह्येनानावदतान्मा नाथितमित्याह नाथितान्ह्येनानावदवतान्मा व्यथितमित्याह व्यथितान्ह्येनानावत्” (सं. का. ६ प्र. २ अ. ७) इति।
वित्तं वह्निरूपम्। वित्तार्थिन एतान्यज्ञक्रतून्वह्निप्रापणेनेयमुत्तरवेदिररक्षत्। तिक्तं वह्निज्वालारूपं तेजनं तदर्थिन एतान्यागकर्तॄन्।
विधत्ते —
‘विदेरग्निर्नभो नामाग्ने अङ्गिर इति त्रिर्हरति य एवैषु लोकेष्वग्नयस्तानेवाव रुन्धे तूष्णीं चतुर्थं हरत्यनिरुक्तमेवाव रुन्धे” (सं. का. ६ प्र. २ अ. ७) इति।
लोकत्रयवर्तिनां त्रयाणामग्नीनामवरोधाय त्रिर्हरणमेतल्लोकवर्तीति निश्चित्य वक्तुमशक्यत्वेनानिरुक्तस्याग्निसामान्यस्यावरोधाय तूष्णीं हरणम्।
वेदेः सिंहमृगत्वं दर्शयति —
‘सिंहीरसि महिषीरसीत्याह सिंहीर्ह्येषा रूपं कृत्वोभयानन्तराऽपक्रम्यातिष्ठत्’ (सं. का. ६ प्र. २ अ. ७) इति।
महिषीर्महनीया। ब्राह्मणान्तरे वा महिषीजातित्वं द्रष्टव्यम्।
व्याचक्षाणं क्रमेण विधत्ते —
“उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामित्याह यजमानमेव प्रजया पशुभिः प्रथयति ध्रुवाऽसीति सहन्ति धृत्यै देवेभ्यः शुन्धस्व देवभ्यः शुम्भस्वेत्यव चोक्षति प्र च किरति शुद्ध्यै’ (सं. का. ६ प्र. २ अ. ७) इति।
पुरस्तादित्यादिदिग्वाचकशब्दप्रयोगेण दिग्देवतातुष्टिकरं प्रोक्षणमित्याह —
‘इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्वित्याह दिग्भ्य एवैनां प्रोक्षति’ (सं. का. ६ प्र. २ अ. ७) इति।
प्रोक्षणं विधातुं प्रस्तौति —
देवा श्चेदुत्तरवेदिरुपावर्तीहैव वि जयामहा इत्यसुरा वज्रमुद्यत्य देवानभ्यायन्त तानिन्द्रघोषो वसुभिः पुरस्तादपानुदत मनोजवाः पितृभिर्दक्षिणतः प्रचेता रुद्रैः पश्चाद्विश्वकर्माऽऽदित्यैरुत्तरतः’ (सं. का. ६ प्र. २ अ. ७) इति।
अपक्रम्य देवासुरसेनयोर्मध्ये तिष्ठन्तीमुत्तरवेदिं यदा देवा उपामन्त्रयन्त तदानीमसुरा एवमचिन्तयन्। यद्येषा देवानुपावर्तेत तदा त एव विजयेरन्। तस्मादिहैवेदानीमेव तदुपावर्तनात्प्रागेव देवान्विजयामह इति विचिन्त्य वज्रमुद्यत्य देवानभिलक्ष्य प्रहर्तुमागताः। तानसुरानिन्द्रघोषादयो दिग्भ्योऽपाकुर्वन्।
विधत्ते —
‘यदेवमुत्तरवेदिं प्रोक्षति दिग्म्य एव तद्यजमानो भ्रातृव्यान्प्र णुदते’ (सं. का. ६ प्र. २ अ. ७) इति।
विधत्ते —
‘यदेवमुत्तरवेदिं प्रोक्षति दिग्भ्य एव तद्यजमानो भ्रातृव्यान्प्र णुदते’ (सं. का. ६ प्र. २ अ. ७) इति।
प्रोक्षणशेषस्य निनयनं विधत्ते —
इन्द्रो यतीन्त्सालावृकेभ्यः प्रायच्छत्तान्दक्षिणत उत्तरवेद्या आदन्यत्प्रोक्षणीनामुच्छिष्येत तद्दक्षिणत उत्तरवेद्यै नि नयेद्यदेव तत्र क्रूरं तत्तेन शमयति’ (सं. का. ६ प्र. २ अ. ७) इति।
(इन्द्रो) यतयो देवान्हन्तुं सर्वदा प्रयतमाना उत्तमाश्रयेण प्रच्छन्नवेषा असुरास्तान्हत्वा सालावृकेभ्यः श्वभ्यो दत्तवान्।
निनयनकाले ध्यानं विधत्ते —
‘यं द्विष्यात्तं ध्यायेच्छुचैवैनमर्पयति’ (सं. का. ६ प्र. २ अ. ७) इति।
शुचा शोकेनार्पयति योजयति।

उत्तरवेदेर्वरवाक्यमनुसृत्यैकैकं काममेकैकाहुत्या प्राप्नुवन्नित्येतं मन्त्रसूचितमर्थं दर्शयति —
‘सोत्तरवेदिरब्रवीत्सर्वान्मया कामान्व्यश्नवथेति ते देवा अकामयन्तासुरान्भ्रातृव्यानभि भवेमेति तेऽजुहवुः सिंहीरसि सपत्नसाही स्वाहेति तेऽसुरान्भ्रातृव्यानभ्यभवन्तेऽसुरान्भ्रातृव्यानभिभूयाकामयन्त प्रजां विन्देमहीति तेऽजुहवुः सिंहीरसि सुप्रजावनिः स्वाहेति ते प्रजामविन्दन्त ते प्रजां वित्त्वाऽकामयन्त पशून्विन्देमहीति तेऽजुहवुः सिंहीरसि रायस्पोषवनिः स्वाहेति ते पशूनविन्दन्त ते पशून्वित्त्वाऽकामयन्त प्रतिष्ठां विन्देमहीति तेऽजुहवुः सिंहीरस्यादित्यवनिः स्वाहेति त इमां प्रतिष्ठामविन्दन्त त इमां प्रतिष्ठां वित्त्वाऽकामयन्त देवता आशिष उपेयामेति तेऽजुहवुः सिंहीरस्या वह देवान्देवयते यजमानाय स्वाहेति ते देवता आशिष उपाऽयन्’ (सं. का. ६ प्र. २ अ. ८) इति।
आशिष इष्यमाणा हविःस्वीकारिणीर्देवता उपेयाम प्राप्नुयामेति कामयमाना यष्टारस्ते देवाश्चरमाहुत्या तथैव प्राप्नुवन्। कर्मफलानि वाऽत्राऽशीः शब्देनोच्यन्ते।
आहुतिसंख्यां विधत्ते —
‘पञ्च कृत्वो व्याघारयति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे’ (सं. का. ६ प्र. २ अ. ८) इति।
गुणं विधत्ते —
‘अक्ष्णया व्याघारयति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै’ (सं. का. ६ प्र. २ अ. ८) इति।
अक्ष्णया वक्रगत्या। दक्षिणेंऽस उत्तरश्रोणिरित्यादिका वक्रगतिः। पशवः शयनकाले पादाद्यङ्गानि वक्रत्वेन प्रहरन्ति संकोचयन्ति। अत आहुतिवक्रत्वं प्रतिष्ठित्यै भवति।
विधत्ते —
“भूतेभ्यस्त्वेति स्रुचमुद्गृह्णाति य एव देवा भूतास्तेषां तद्भागधेयं तानेव तेन प्रीणाति” (सं. का. ६ प्र. २ अ. ८) इति।
भूतोद्देशेन स्रुगुद्ग्रहणे सत्कृताः सन्तः प्रीयन्ते।
विधत्ते —
‘पौतुद्रवान्परिधीन्परि दधात्येषां लोकानां विधृत्यै’ (सं. का. ६ प्र. २ अ. ८) इति।
परिधित्रयेण त्रयो लोका विधृता भवन्ति। पूतुद्रुर्देवदारुः।
संभारान्विधातुं प्रस्तौति —
‘अग्नेस्त्रयो ज्यायासो भ्रातर आसन्ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त सोऽग्निरबिभेदित्थं वाव स्य आर्तिमाऽरिष्यतीति स निलायत स यां वनस्पतिष्ववसत्तां पूतुद्रौ यामोषधीषु ता सुगन्धितेजने यां पशुषु तां पेत्वस्यान्तरा शृङ्गे तं देवताः प्रैषमैच्छन्तमन्वविन्दन्तमब्रुवन्नुप न आ वर्तस्व हव्यं नो वहेति सोऽब्रवीद्वरं वृणै यदेव गृहीतस्याहुतस्य बहिःपरिधि स्कन्दात्तन्मे भ्रातृणां भागधेयमसदिति तस्माद्यद्गृहीतस्याहुतस्य वहिःपरिधि स्कन्दति तेषां तद्भागधेयं तानेव तेन प्रीणाति सोऽमन्यतास्थन्वन्तो मे पूर्वे भ्रातरः प्रामेषतास्थानि शातया इति स यान्यस्थान्यशातयत तत्पूतुद्र्वभवद्यन्मा समुपभृतं तद्गुल्गुलु” (सं. का. ६ प्र. २ अ. ८) इति।
भ्रातरो हविर्वहनप्रयासेन यथा मृता इत्थमेव सोऽन्योऽपि मृतिं प्राप्स्यतीति भीतोऽग्निर्निरूढो वनस्पत्योषधिपशुष्वेकैकां रात्रिमवसत्। देवदारुवृक्षे सुगन्धयुक्ततृणे पेत्वस्य मेषस्य शृङ्गयोर्मध्ये च क्रमेण तं वसन्तं देवा हविर्वहने प्रेरयितुमैच्छन् तमन्विष्यालभन्त। स्रुगुद्गृहीतस्य हविषो यल्लेशरूपं होमात्पूर्वं परिधिभ्यो बहिर्हविः स्कन्देत्स भ्रातृभागोऽस्त्वित्यग्नेर्वरः। अस्थन्वन्तस्त्वगस्थिमांसोपेताः प्रामेषत मृतास्तदीयान्यस्थीनि मांसानि च शातयै परित्यजानि। परित्यक्तानि तानि पूतुद्रु गुल्गुल्वभवताम्।
विधत्ते —
“यदेतान्त्संभारान्त्संभरत्यग्निमेव तत्सं भरति” (सं. का. ६ प्र. २ अ. ८) इति।
मन्त्रगतेन पुरीषशब्देन संभाररूपं वह्निपूरणं विवक्षितमित्याह —
‘अग्नेः पुरीषमसीत्याहाग्नेर्ह्येतत्पुरीषं यत्संभाराः’ (सं. का. ६ प्र. २ अ. ८) इति।
गुल्गुलुसुगन्धितेजनशुक्लोर्णास्तुकाः संभाराः।
किंच देवदारुपरिधिरूपेण वह्निना भ्रातरोऽस्य संनिधीयन्त इत्याह —
‘अथो स्वल्वाहुरेते वावैनं ते भ्रातरः परि शेरे यत्पौतुद्रवाः परिधय इति’ (सं. का. ६ प्र. २ अ. ८) इति।
एवमग्निं परितः शेरते।

एतं मन्त्रं विनियोक्तुमुपोद्घातत्वेनानुष्ठेयं विधत्ते —
“बद्धमव स्यति वरुणापाशादेवैने मुञ्चति प्र णेनेक्ति मेध्ये एवैने करोति” (सं. का. ६ प्र. २ अ. ९) इति।
हविर्धाननामकयोः शकटयोर्यत्पूर्वं बद्धमासत्तदवस्यति मुञ्चेत्। प्रणेनेक्ति प्राक्षालयेत्।
मन्त्रविनियोगपूर्वकं शकटप्रेरणं विधत्ते —
“सावित्रियर्चा हुत्वा हविर्धाने प्र वर्तयति सवितृप्रसूत एवैने प्र वर्तयति” (सं. का. ६ प्र. २ अ. ९) इति।
सुवाक्शब्दापेयोगं दर्शयति —
‘वरुणो वा एष दुर्वागुभयतो बद्धो यदक्षः स यदुत्सर्जेद्यजमानस्य गृहानभ्युत्सर्जेत्सुवाग्देव दुर्या आ वदेत्याह गृहा वै दुर्याः शान्त्यै’ (सं. का. ६ प्र. २ अ. ९) इति।
अक्षस्य बन्धनहेतुपाशोपेतत्वाद्वरुणत्वम्। वरुणश्च क्रूरत्वाद्दुर्वाक्। उत्सर्जेत्, शब्दं कुर्यात्।
अक्षोपाञ्जनं विधत्ते —
“पत्न्युपानक्ति पत्नी हि सर्वस्य मित्रं मित्रत्वाय यद्वै पत्नी यज्ञस्य करोति मिथुनं तदथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै” (सं. का. ६ प्र. २ अ. ९) इति।
विधत्ते —
‘वर्त्मना वा अन्वित्य यज्ञ रक्षांसि जिघांसन्ति वैष्णवीभ्यामृग्म्यां वर्त्म-
नोर्जुहोति यज्ञो वै विष्णुर्यज्ञादेव रक्षांस्यपहन्ति’ (सं. का. ६ प्र. २ अ. ९) इति।
वर्त्मना शकटमार्गेण। अन्वित्यानुप्रविश्य। यज्ञो देवेभ्यो निलायत विष्णूरूपं कृत्वेत्युक्तत्वाद्यज्ञस्य विष्णुत्वम्। अत एव वैष्णवमन्त्रोऽत्र न व्यधिकरणः। यज्ञादेव विष्णुरूपयज्ञद्वारेणैव।
होमाधारत्वेन हिरण्यप्रक्षेपं विधत्ते —
‘यदध्वर्युरनग्नावाहुतिं जुहुयादन्धोऽध्वर्युः स्याद्रक्षासि यज्ञ हन्युर्हिरण्यमुपास्य जुहोत्यग्निवत्येव जुहोति नान्धोऽध्वर्युर्भवति न यज्ञ रक्षासि घ्नन्ति’ (सं. का. ६ प्र. २ अ. ९) इति।
प्राक्शब्दतात्पर्यमाह —
‘प्राची प्रेतमध्वरं कल्पयन्ती इत्याह सुवर्गमेवैने लोकं गमयति’ (सं. का. ६ प्र. २ अ. ९) इति।
देवयजनरूपाया वेदेः पृथिवीशरीरत्वं यदिमामविन्दन्त तद्वेद्यै वेदित्वमित्येतस्मिन्ब्राह्मणे प्रसिद्धमाह —
‘अत्र रमेथां वर्ष्मन्पृथिव्या इत्याह वर्ष्म ह्येतत्पृथिव्या यद्देवयजनम्’ (सं. का. ६ प्र. २ अ. ९) इति।
मेथ्या निखननं विधत्ते —
‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं दिवो वा विष्णवुतं पृथिव्या इत्याशीर्पदयर्चा दक्षिणस्य हविर्धानस्य मेथीं नि हन्ति शीर्षत एव यज्ञस्य यजमान आशिषोऽव रुन्धे’ [सं. का. ६ प्र. २ अ. ९] इति।
यथा शिरसि चक्षुरादीनि गोलकानि निधीयन्ते तथा हविर्द्रव्याणि शकटे निधीयन्त इति हविर्धानस्य यज्ञशिरस्त्वम्। हस्तौ पृणस्वाऽऽप्रयच्छेत्याशीर्यस्या ऋचः पदेषु प्रतीयते सेयमृगाशीर्पदा। यद्यप्येषा मेथीं न प्रकाशयति तथाऽपि
वाचनिकोऽत्र विनियोगः। अनेन मन्त्रेण यज्ञशिरसो हविर्धानाद्यजमान आशिषः प्राप्नोति।
आच्छादकं विधत्ते —
‘दण्डो वा औपरस्तृतीयस्य हविर्धानस्य वषट्कारेणाक्षमच्छिनद्यत्तृतीयं छदिर्हविर्धानयोरुदाह्रियते तृतीयस्य हविर्धानस्यावरुद्ध्यै’ (सं. का. ६ प्र. २ अ. ९) इति।
दण्डो नाम कश्चिदसुर उपरनामकस्यासुरस्य पुत्रो वषट्कारदेवेन सह मैत्रीं कृत्वा तद्द्वारा प्रविश्य तृतीयस्य शकटस्याक्षमच्छिनत्। अतस्तृतीयस्य शकटस्य प्रतिनिधित्वेनैकैकस्य शकटस्योर्ध्वं तृणादिनिर्मितं छदिः स्थापयेत्। तत्र दक्षिणोत्तरपार्श्वयोः परिश्रयणार्थे द्वे छदिषी अपेक्ष्य तृतीयम्। अथ शकटे अन्तर्भाव्य हविर्धानाख्यं मण्डपं निर्मातव्यम्। तत्र दक्षिणशकटात्पुरतो ग्रहासादनायावकाशं शिष्ट्वा दक्षिणोत्तररूपेण षट्संख्याकाः स्थूणा निखातव्याः। एवं पश्चाद्भागे षट् स्थूणा निखातव्याः। तयोः स्थूणापङ्क्त्योरुदञ्चौ वंशावादधाति।
यज्ञपुरुषस्य हविर्धानाख्यं मण्डपं शिरस्तत्साम्यं मन्त्रैरुच्यत इत्याह —
‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं विष्णो रराटमसि विष्णोः पृष्ठमसीत्याह तस्मादेतावद्धा शिरो विष्यूतम्’ (सं. का. ६ प्र. २ अ. ९) इति।
एका रराटी, एकं छदिः, द्वौ रराट्यन्ताविति यावन्तो मण्डपस्य प्रकारा एतावद्धैतावत्प्रकारं शिरो विश्वकर्मणा विशेषेण स्यूतं, शिरस्याच्छादिका त्वमेव च्छदिः स्थापनीया।
अत्र विष्णोरिति पष्ठ्या देवतात्वलक्षणः संबन्धो विवक्षित इत्याह —
‘विष्णोः सयूरसि विष्णोर्ध्रुवमसीत्याह वैष्णव देवतया हविर्धानम्’ (सं. का. ६ प्र. २ अ. ९) इति।
प्रज्ञातग्रन्थेर्विस्रंसनं विधत्ते —
‘यं प्रथमं ग्रन्थिं ग्रथ्नीयाद्यत्तं न विस्रसयेदमेहेनाध्वर्युः प्र मीयेत तस्मात्स विस्रस्यः’ (सं. का. ६ प्र. २ अ. ९) इति।
अमेहेन मूत्रनिरोधेन।

अभ्र्यादानं विधत्ते —
“देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते प्रसूत्या अश्विनोबार्हुम्यामित्याहाश्विनौ हि देवातामध्वर्यू आस्तां पूष्णो हस्ताभ्यामित्याह यत्यै” [सं. का. ६ प्र. २ अ. १०) इति।
नारिशब्दप्रयोजनमाह —
“वज्र इव वा एषा यदभ्रिरभ्रिरसि नारिरसीत्याह शान्त्यै” (सं. का. ६ प्र. २ अ. १०) इति।
परिलिखितमिति। कल्पः — “तयौदुम्बर्या अवटं परिलिखति परिलिखितरक्षः परिलिखिता अरातय इदमह रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपि कृन्तामीति” इति।
परिलेखनप्रयोजनमाह —
“काण्डेकाण्डे वै क्रियमाणे यज्ञ रक्षासि जिघासन्ति परिलिखित रक्षः परिलिखिता अरातय इत्याह रक्षसामपहत्या इदमह रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तयोरेवानन्तरायं ग्रीवाः कृन्तति” (सं. का. ६ प्र. २ अ. १०) इति।
औदुम्बरीभागानां(णां) लोकत्रयात्मकत्वं मन्त्रेणाभिप्रेतमित्याह —
“दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेत्याहैभ्य एवैनां लोकेभ्यः प्रोक्षति” (सं. का. ६ प्र. २ अ. १०) इति।
अग्रमारभ्य मूलपर्यन्तं प्रोक्षणं विधत्ते —
“परस्तादर्वाचीं प्रोक्षति तस्मात्परस्तादर्वाचीं मनुष्या उर्जमुप जीवन्ति” (सं. का. ६ प्र. २ अ. १०) इति।
ऊर्ध्ववर्तिनो मुख्या(खा)दारभ्यार्वाचीमुदरावसानम्।
अवनयनं विधत्ते —
“क्रूरमिव वा एतत्करोति यत्खनत्यपोऽव नयति शान्त्यै” (सं. का. ६ प्र. २ अ. १०) इति।
पूर्वोक्तास्वप्सु यवप्रस्कन्दनं विधत्ते —
“यवमतीरव नयत्यूर्ग्वै यव ऊर्गुदुम्बर ऊर्जैवोर्ज समर्थयति” (सं. का. ६ प्र. २ अ. १०) इति।
औदुम्बर्या निखातभागादूध्वर्भागे प्रमाणं विधत्ते —
“यजमानेन संमितौदुम्बरी भवति यावानेव यजमानस्तावतीमेवास्मिन्नूर्जं दधाति” (सं. का. ६ प्र. २ अ. १०) इति।
यजमानस्य यावत्पर्याप्तं तावदन्नं भवतीत्यर्थः।
विधत्ते —
“पितृणा सदनमसीति बर्हिरव स्तृणाति पितृदेवत्यं ह्येतद्यन्निखातम्” ( सं. का. ६ प्र. २ अ. १०) इति।
निखातस्य पितरो देवतेत्यर्थवादान्तरादवगन्तव्यम्।
उच्छ्रयणं विधत्ते —
“यद्बर्हिरनवस्तीर्य मिनुयात्पितृदेवत्या निखाता स्याद्बर्हिरवस्तीर्य मिनोत्यस्यामेवैनां मिनोत्यथो स्वारुहमेवैनां करोति” [सं. का. ६ प्र. २ अ. १०] इति।
यदि बर्हिरस्तीर्त्वा प्रथमत एव तामुच्छ्रयेत्तदा पितृणां निखातं मनुष्याणामूर्ध्वं निखातादित्ययं विभागो न स्यात्किंतु कृत्स्ना पितृदेवत्यैव स्थापिता भवेत्। बर्हिषः पृथिवीजन्यत्वेन तत्पृथिव्यामेव कृतं भवति। किंच स्वसंबद्धामेवैनां करोतीति नोक्तदोषः।
मन्त्रे दिवमित्यादिपदानामुपयोगमाह —
“उद्दिव स्तभानाऽन्तरिक्षं पृणेत्याहैषां लोकानां विधृत्यै” (सं. का. ६ प्र. २ अ. १०) इति।
इतरपरित्यागेन द्युतानस्वीकारकारणमाह —
‘द्युतानस्त्वा मारुतो मिनोत्वित्याह द्युतानो ह स्म वै मारुतो देवानामौदुम्बरीं मिनोति तेनैवैनां मिनोति’ [सं. का. ६ प्र. २ अ. १०] इति।
मन्त्रस्य स्पष्टार्थतां दर्शयति —
‘ब्रह्मवनिं त्वा क्षत्रवनिमित्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. २ अ. १०) इति।
विधत्ते —
“घृतेन द्यावापृथिवी आ पृणेथामित्यौदुम्बर्यां जुहोति द्यावापृथिवी एव रसेनानक्ति” (सं. का. ६ प्र. २ अ. १०) इति।
अग्रे हुतस्याऽऽज्यस्य मूलपर्यन्तातां विधत्ते —
‘आन्तमन्वनस्रावयत्यान्तमेव यजमानं तेजसाऽनक्ति’ (सं. का. ६ प्र. २ अ. १०) इति।
यजमानस्य शिर आरभ्य पादपर्यन्तं तेजः संपादितं भवति।
विधत्ते —
‘एन्द्रमसीति छदिरधि नि दधात्यैन्द्र हि देवतया सदो विश्वजनस्य छायेत्याह विश्वजनस्य ह्येषा छाया यत्सदः’ (सं. का. ६ प्र. २ अ. १०) इति।
इन्द्रस्य सदोऽसीत्ययं मन्त्र उपेक्षितः।
सदस्थानां कामनाभेदेन च्छदिषां संख्यां विधत्ते —
‘नवछदि तेजस्कामस्य मिनुयात्त्रिवृता स्तोमेन संमितं तेजस्त्रिवृत्तेजस्व्येव भवत्येकादशछदीन्द्रियकामस्यैकादशाक्षरा त्रिष्टुगिन्द्रियं त्रिष्टुगिन्द्रियाव्येव भवति पञ्चदशछदि भ्रातृव्यवतः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै सप्तदशछदि प्रजा-
कामस्य सप्तदशः प्रजापतिः प्रजापतेराप्त्यै एकविशतिछदि प्रतिष्ठाकामस्यैकविंशः स्तोमानां प्रतिष्ठा प्रतिष्ठित्यै’ (सं. का. ६ प्र. २ अ. १०) इति।
नवसंख्याकानि च्छदींषि यस्य सदसस्तन्नवछदि मिनुयात्कुर्यात्। त्रिवृत्पञ्चदशसप्तदशैकविंशशब्दैः साम्न आवृत्तिभेदेन निष्पन्ना स्तोमा उच्यन्ते। त्रिवृत्स्तोमे सामावृत्त्यभावेऽपि ऋचां नवत्वात्संख्यासाम्यम्। प्रजापतिमुखादग्निना सहोत्पन्नत्वात्त्रिवृतस्तेजस्त्वम्। वीर्यवतः प्रजापतिबाहुत उत्पन्नतया पञ्चदशस्य वज्रत्वम्। आ श्रावयेत्यादिमन्त्राक्षराणां संख्यया समत्वात्सप्तदशस्य प्रजापतित्वम्। त्रिवृदादीनामन्तर्भावेनैकाविंशस्य प्रतिष्ठात्वम्।
औदुम्बरीस्थापनसदोमण्डपमध्यप्रदेशं विधत्ते —
“उदरं वै सद ऊर्गुदुम्बरो मध्यत औदुम्बरीं मिनोति मध्यत एव प्रजानामूर्जं दधाति तस्मान्मध्यत ऊर्जा भुञ्जते” [सं. का. ६ प्र. २ अ. १०] इति।
दक्षिणदिग्गतच्छदिषामग्राण्युत्तरदिग्गतच्छदिषामुपरि दृश्यमानतया स्थापनीयानीति विधत्ते —
‘यजमानलोके वै दक्षिणानि छदीपि भ्रातृव्यलोक उत्तराणि दक्षिणान्युत्तराणि करोति यजमानमेवायजमानादुत्तरं करोति तस्माद्यजमानोऽयजमानादुत्तरः’ [सं. का. ६ प्र. २ अ. १०] इति।
लोके स्थाने। उत्तर उत्कृष्टः।
छदिषामन्तरालच्छिद्रेषु तृणमूलैराधानं विधत्ते —
“अन्तर्वर्तान्करोति व्यावृत्त्यै तस्मादरण्यं प्रजा उप जीवन्ति” (सं. का. ६ प्र. २ अ. १०) इति।
मूलानां विलक्षणत्वाच्छदिर्भ्यो व्यावृत्तिर्भवति। यस्मात्तृणमरण्यजन्यं तस्मात्तृणकाष्ठलाभाय प्रजा अरण्यमुपजीवन्ति।
मन्त्रस्य स्पष्टार्थतां दर्शयति —
‘परि त्वा गिर्वणो गिर इत्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. २ अ. १०) इति।
व्याचष्टे —
‘इन्द्रस्य स्यूरसीन्द्रस्य ध्रुवमसीत्याहैन्द्र हि देवतया सदः’ (सं. का. ६ प्र. २ अ. १०) इति।
प्रज्ञातग्रन्थेर्विस्त्रंसनं विधत्ते —
‘यं प्रथमं ग्रन्थिं ग्रथ्नीयाद्यत्तं न विस्त्रसयेदमेहेनाध्वर्युः प्र मीयेत तस्मात्स विस्रस्यः’ (सं. का. ६ प्र. २ अ. १०) इति।

विधत्ते —
‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवा हविर्धाने खायन्त तस्माच्छीर्षन्प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।
उपरवबिलानां श्रोत्रनासिकादिच्छिद्रगतप्राणस्थानीयत्वाच्छिरःस्थानीये हविर्धाने खननं युक्तम्।
विधत्ते —
‘अधस्तात्खायन्ते तस्मादधस्ताच्छीर्ष्णः’ [सं. का. ६ प्र. २ अ. ११] इति।
यस्माद्धविर्धानस्याधोभागे भूमावुपरवास्तस्माल्लोकेऽपि शिरस्यूर्ध्वकपालदध एव प्राणसंचारः।
वैष्णवानिति तद्धितो देवतावाचीत्याह —
‘रक्षोहणो वलगहनो वैष्णवान्खनामीत्याह वैष्णवा हि देवतयोपरवाः’ (सं. का. ६ प्र. २ अ. ११) इति।
वितस्तित्रयप्रमाणं विधत्ते –
‘असुरा वै निर्यन्तो देवानां प्राणेषु वलगान्न्यखनन्तान्बाहुमात्रेऽन्वविन्दन्तस्माद्बाहुमात्राः खायन्ते’ (सं. का. ६ प्र. २ अ. ११) इति।
निर्यन्तः पलायनोद्युक्ताः। प्राणविनाशनिमित्तम्। न्यखनन्निति नितरां भूमावन्तर्धापितवन्तः।
अशेषशात्रुसंग्रहाय समानासमानशब्दावुभावप्युपादेयावित्याह —
‘इदमहं तं वलगमुद्वपामि यं नः समानो यमसमानो निचखानेत्याह द्वौ वाव पुरुषौ यश्चैव समानो यश्चासमानो यमेवास्मै तौ वलगं निखनतस्तमेवोद्वपति” (सं. का. ६ प्र. २ अ. ११) इति।
चतुर्णामुपरवाणामधस्तादेकीकरणं विधत्ते —
‘सं तृणत्ति तस्मात्संतृण्णा अन्तरतः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।
प्राणापानचक्षुःश्रोत्रादयः सर्वेऽपि शरीरस्याभ्यन्तरे हृद्येकीभूय वर्तन्ते।
तदुपरि चतुर्णां पृथक्करणं विधत्ते —
‘न सं भिनत्ति तस्मादसंभिन्नाः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।
संभेद एकीभावस्तं न कुर्यात्। प्राणाश्च बहिः स्वस्वगोलकेषु तिष्ठन्तो नैकी भवन्ति।
प्रोक्षणशेषस्य जलस्योपरवदेशेऽवनयनं विधत्ते —
‘अपोऽव नयति तस्मादार्द्रा अन्तरतः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।
मुखनासिकाचक्षुरादिगोलकेषु द्रवदर्शनात्प्राणानामार्द्रत्वम्।
अवनीते जले यवप्रक्षेपं विधत्ते —
‘यवमतीरव नयत्यूर्ग्वै यवः प्राणा उपरवाः प्राणेष्वेवोर्जं दधाति’ (सं. का. ६ प्र. २ अ. ११) इति।
या अपोऽवनयति ता यवयुक्ताः कुर्यादिति योजना।
उपरवेषु दर्भप्रक्षेपणं विधत्ते —
‘बर्हिरव स्तृणाति तस्माल्लोमशा अन्तरतः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।
अक्षिपक्ष्मनासिकादिषु लोमदर्शनाल्लोमशत्वम्।
होमं विधत्ते —
‘आज्येन व्याघारयति तेजो वा आज्यं प्राणा उपरवाः प्राणेष्वेव तेजो दधाति’ (सं. का. ६ प्र. २ अ. ११) इति।
फलकयोरत्यन्तसंश्लेषं निषेधति —
‘हनू वा एते यज्ञस्य यदधिषवणे न सं तृणत्त्यसंतृण्णे हि हनू’ [सं. का. ६ प्र. २ अ. ११] इति।
हनू मुखस्याऽऽधारफलके सोमाभिषवाधारफलके। संतर्दनं रज्जुबन्धनादिना दृढसंश्लेषस्तमत्र न कुर्यात्।
तद्द्विरात्रादौ प्रसङ्गाद्विधत्ते –
‘अथो खलु दीर्घसोमे संतृद्ये धृत्यै’ (सं. का. ६ प्र. २ अ. ११) इति। आवृत्तत्वात्सोमस्य दीर्घत्वम्। अभिषवबाहुल्याद्दार्ढ्यार्थं तत्र संतर्दनम्।
अथ रूपकेणोपरवान्प्रशंसन्प्रसङ्गात्सनिमित्तं सदसि सोमभक्षणं विधत्ते —
‘शिरो वा एतद्याज्ञस्य यद्धविर्धानं प्राणा उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ता मुखमाहवनीयो नासिकोत्तरवेदिरुदर सदो यदा खलु वै जिह्वया दत्स्वधि खादत्यथ मुखं गच्छति यदा मुखं गच्छत्यथोदरं गच्छति तस्माद्धविर्धाने चर्मन्नधि ग्रावभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति’ [सं. का. ६ प्र. २ अ. ११] इति।
अत्राभिषवहोमौ विधेयस्य भक्षणस्य निमित्तम्।
पुनरप्युपरवस्तुत्यै प्रकारान्तरेण रूपकं परिकल्प्य तद्वेदनं प्रशंसति —
‘यो वै विराजो यज्ञमुखे दोहं वेद दुह एवैनामियं वै विराट्तस्यै त्वक्चर्मोधोऽधिषवणे स्तना उपरवा ग्रावाणो वत्सा ऋत्विजो दुहन्ति सोमः पयो य एवं वेद दुह एवैनाम्’ (सं. का. ६ प्र. २ अ. ११) इति।
अग्निष्टोमे द्वादशसु स्तोत्रेषु विद्यमाना ऋच आवर्त्यमानाः सत्यो नवतिः संपद्यन्ते। तत्र नवसु दशकेषु प्रत्येकं विराट्छन्दोऽक्षरसंख्याऽस्तीत्ययं यज्ञो विराडित्युच्यते। एतदेवाभिप्रेत्य सप्तमकाण्डस्य प्रथमानुवाके समाम्नायते ‘विराजमभिसंपद्यते’ इति। सोऽयं यज्ञो विराडत्र कामधेनुत्वेन निरूप्यते। इयं च महावेदिरेव विराडाख्या धेनुस्तस्या धेनोर्या त्वक्तदिदमास्तृतं चर्म। ऊध आपीनभारः। तद्रूपं फलकद्वयम्। एवमन्यद्योज्यम्। परेद्युः कर्तव्यस्य यज्ञस्यायं कल्पः प्रारम्भोऽन्तःपातित्वान्मुखं, तस्मिन्मुखे विराजो धेनोर्दोहनप्रकारं यो वेद स एनां कामधेनुं सर्वथा दुग्धे। य एवं वेद दुह एवैनामिति पुनर्वचनमुपसंहारार्थम्। सेयमुपरवप्रशंसेति केचित्। स्वतन्त्रोपास्तिविधिरित्यन्ये। यथा सप्तमकाण्डान्तेऽश्वमेधप्रकरणे — ‘उषा वा अश्वस्य मेध्यस्य शिरः’ इति स्वतन्त्रोपास्तिराम्नाता तद्वत्। तस्याश्च स्वातन्त्र्यं बृहदारण्यकस्याऽऽदौ विस्पष्टम्। एतादृशानां वाक्यानां कर्मप्रकरणादुत्कर्ष उत्तरमीमांसायां गुणोपसंहारे मनश्चिदाद्यधिकरणे निर्णीतः। तस्मात्दुत्कर्षे स्वातन्त्र्यमनुत्कर्षे तु स्तुतित्वेनोपरववाक्याङ्गत्वमित्याकारद्वयमभ्युपेयम्। अवेष्टेश्चातुर्मास्यानां च राजसूयान्तःप्रयोगबहिष्प्रयोगो(गौ) यथा तद्वदेतद्द्रष्टव्यम्।