{(अथ षष्ठाष्टके प्रथमः प्रपाठकः) । (तत्र प्रथमोऽनुवाकः)।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥१॥
तदिदं सौम्यकाण्डम् । तथा चानुक्रमणिकायामुक्तम् —
“अध्वरप्रभृतित्रीणि तद्विधिर्वाजपेयकौ । सवाः शुक्रियकाण्डे च नवेन्दोरिति धारणा” इति ॥
आप उन्दन्त्वित्यादिकमध्वरकाण्डम् । आ ददे ग्रावाऽसीत्यादिकं ग्रहकाण्डम् । उदु त्यं जातवेदसमित्यादिकं दक्षिणाकाण्डम् । तान्येतानि त्रीणि । प्राचीनवंशं करोतीत्यादिकं त्रयाणामेतेषां विधिः । देव सवितः प्र सुवेत्यादिकं वाजपेयस्य मन्त्रकाण्डम् । देवा वै यथादर्शं यज्ञानाहरन्तेत्यादिकं वाजपेयस्य विधिकाण्डम् । त्रिवृत्स्तोमो भवतीत्यादिकाः सवाः । नमो वाचे या चोदितेत्यादिकं शुक्रियमन्त्रकाण्डम् । देवा वै सत्रमासतेत्यादिकं तद्विधिकाण्डम् । तान्येतानि नवसंख्याकानि चन्द्रस्य काण्डानि । अतस्तेषु चन्द्र ऋषिरिति ध्यायेत् ।
“सोमाङ्गे दीक्षणीयादौ दर्शमन्त्रातिदेशनात् । दर्शोर्ध्वत्वं तत्र युक्तमग्निष्टोमोऽत्र वर्ण्यते” ॥
त्रिविधः सोमयाग एकाहाहीनसत्रनामकः । एकस्मिन्नेवाहनि सवनत्रयेण निष्पाद्य एकाहः । द्विरात्रमारभ्यैकादशरात्रपर्यन्ता अहीनाः । त्रयोदशरात्रमारभ्य सहस्रसंवत्सरपर्यन्तानि सत्राणि । द्वादशाहस्तु द्विरूपः । तत्राहीनरूपेण द्विरात्रादीनां प्रकृतिः, सत्ररूपेण त्रयोदशरात्रादीनाम् । तस्य च द्वादशाहस्यैकाहरूपो ज्योतिष्टोमः प्रकृतिः । अत एवाऽऽम्नायते — “एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमः” इति । यद्यपि सप्तसंस्थो ज्योतिष्टोमोऽग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामो वाजपेयश्चेति, तथाऽप्यग्निष्टोमे कृत्स्नाङ्गजातस्योपदिष्टत्वात्स एवेतरेषां प्रकृतिः । अतः प्रथमं स एवाभिधीयते ।
तत्र प्रथमानुवाके क्षौरादिभिः संस्कृतस्य यजमानस्य प्राचीनवंशाख्यशालाप्रवेशोऽभिधीयते । आप उन्दन्त्वित्यादयः क्षौरमन्त्राः । क्षौरात्प्रागेव शाला निर्मातव्या । ततो बौधायनो दीक्षासाधनद्रव्यसंपादनपूर्वकं शालानिर्माणमाह – “अग्निष्टोमेन यक्ष्यमाणो भवति स उपकल्पयते कृष्णाजिनं च कृष्णविषाणं च वासश्च मेखलां च” इति । “जुष्टे देवयजने शाला कारिता भवति” इति च ।
आपस्तम्बोऽपि “सोमेन यक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीते” इत्युपक्रम्य वरणं देवयजनाध्यवसानं दीक्षणीयेष्टिं चाभिधायेदमाह — “प्राचीनवंशं करोति पुरस्तादुन्नतं पश्चान्निनतं सर्वतः परिश्रितम्” इति ।}
एतदेवाभिप्रेत्य वपनविधेः पूर्वं शालां विधत्ते – “प्राचीनवंशं करोति देवमनुष्या दिशो व्यभजन्त प्राचीं देवा दक्षिणा पितरः, प्रतीचीं मनुष्या उदीचीं रुद्रा यत्प्राचीनवंशं करोति देवलोकमेव तद्यजमान उपावर्तते” (सं. का.६ प्र.१ अ.१) इति ।
प्रागायतः पृष्ठवंशो यस्य गृहविशेषस्य स प्राचीनवंशः । केचित्तु यस्य देवयजनस्येति विगृह्य कृत्स्नदेवयजनविधिमेतमाहुः । देवयजनैकदेशरूपगृहसंबद्धो वंशो देवयजनसंबद्धो भवति । वंशस्य प्रागग्रत्वेन तद्गृहं यजमानो देवलोकं करोति ।
गृहस्य कुड्यस्थानीयमावरणं विधत्ते — ‘परिश्रयत्यन्तर्हितो हि देवलोको मनुष्यलोकात्” (सं. का.६ प्र.१ अ.१) इति ।
स्वर्गस्य मनुष्यैरदृश्यत्वादत्रापि तदर्थं परिश्रयणम् ।
द्वाराणि विधत्ते — ‘नास्माल्लोकात्स्वेतव्यमिवेत्याहुः को हि तद्वेद यद्यमुष्मिल्ँ लोकेऽस्ति वा न वेति दिक्ष्वतीकाशान्करोत्युभयोर्लोकयोरभिजित्यै’ (सं. का.६ प्र.१ अ.१) इति ।
इहलोके तावत्सुखं प्रत्यक्षसिद्धम् । गृहक्षेत्रपुत्रमित्रादिभिस्तदुत्पादात् ॥ स्वर्गे तु संदिग्धम् । यद्यविघ्नेनेदं कर्म साङ्गं समाप्येत तदा सुखमस्ति नान्यथा । भवदपि तत्सुखं नेदानीं भवति किंतु मरणादूर्ध्वम् । तदाऽपि प्रबलेन केनचिन्नरकप्रदेन कर्मणा प्रतिबन्धे सति ततोऽपि विलम्ब्येत । तस्मादिदानीमेवास्माल्लोकान्न सर्वात्मना निर्गन्तव्यमिति बुद्धिमन्त आहुः । तत एतल्लोकदर्शनाय द्वारेषु कृतेषु लोकद्वयजयो भवति । (#TS 1.2.1.0)
विधत्ते — केशश्मश्रु वपते नखानि निकृन्तते मृता वा एषा त्वममेध्या यत्केशश्मश्रु मृतामेव त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेधमुपैति’ (सं. का.६ प्र.१ अ.१) इति ।
विधत्ते — ‘अङ्गिरसः सुवर्गं लोकं यन्तोऽप्सु दीक्षातपसी प्रावेशयन्नप्सु स्नाति साक्षादेव दीक्षातपसी अवरुन्धे’ (सं. का.६ प्र.१ अ.१) इति ।
मुण्डनादिसंस्कारो दीक्षा । आहारादिनियमस्तपः । अप्सु स्नानेन तदुभयमव्यवधानेनैव प्राप्नोति ।
अवतरणप्रदेशं विधत्ते — ’तीर्थे स्नाति तीर्थे हि ते तां प्रावेशयन्’ (सं. का.६ प्र.१ अ.१) इति ।
उक्तमेवार्थमनूद्य स्तौति – ‘तीर्थे स्नाति तीर्थमेव समानानां भवति’ (सं. का.६ प्र.१ अ.१) इति । सख्यादीनां समानानां तीर्थवत्सेव्यो भवति ।
आचमनं विधत्ते – ‘अपोऽश्नात्यन्तरत एव मेध्यो भवति’ (सं. का.६ प्र.१ अ. १) इति ।
‘वाससा दीक्षयति सौम्यं वै क्षौमं देवतया सोममेष देवतामुपैति यो दीक्षते’ (सं. का.६ प्र.१ अ.१) इति । दीक्षयति संस्करोति ।
‘सोमस्य तनूरसि तनुवं मे पाहीत्याह स्वामेव देवतामुपैत्यथो आशिषमेवैतामाशास्ते’ (सं. का.६ प्र.१ अ.१) इति । वस्त्रपरिहितस्य सोम एव स्वा देवता ।
प्रकारान्तरेण प्रस्तौति — ‘अग्नेस्तूषाधानं वायोर्वातपानं पितृणां नीविरोषधीनां प्रघात आदित्यानां प्राचीनतानो विश्वेषां देवानामोतुर्नक्षत्राणामतीकाशास्तद्वा एतत्सर्वदेवत्यं यद्वासो यद्वाससा दीक्षयति सर्वाभिरेवैनं देवताभिर्दीक्षयति’ (सं. का.६ प्र.१ अ.१) इति ।
शलाकोपधानं तूषाः । तत्र तन्तूनां पूरणं तूषाधानम् । वायुना शोषणं वातपानम् । नीविर्बन्धविशेषः । प्रघातो दण्डेन शलाकोपधानेन वा प्रहारः । प्राचीनतानो दीर्घतन्तुप्रसारणम् । ओतुस्तिर्यक्तन्तुप्रसारणम् । अतीकाशाश्छिद्राणि । एतेषु क्रमेणाग्न्यादयोऽभिमानिदेवताः ।
भोजनं विधत्ते — ‘बहिःप्राणो वै मनुष्यस्तस्याशनं प्राणोऽश्नाति सप्राण एव दीक्षते’ (सं. का.६ प्र.१ अ.१) इति । प्राणस्थितिहेतुत्वादशनस्य प्राणत्वम् । मित्रबन्ध्वादिभिः प्रार्थितो बहु भुञ्जीतेति ।
विधत्ते — ‘आशितो भवति यावानेवास्य प्राणस्तेन सह मेधमुपैति” (सं. का.६ प्र.१ अ.१) इति ।
अभ्यङ्गं विधत्ते — ‘घृतं देवानां मस्तु पितृणां निष्पक्वं मनुष्याणां तद्वा एतत्सर्वदेवत्यं यन्नवनीतं यन्नवनीतेनाभ्यङ्क्ते सर्वा एव देवताः प्रीणाति’ (सं. का.६ प्र.१ अ.१) इति ।
नवनीतस्य पाकजन्यास्तिस्रोऽवस्थाः पक्वं किंचित्पक्वं निःशेषपक्वं च । द्रव्यान्तरप्रक्षेपेण सुरभि निःशेषपक्वम् । अत एव बह्वृचाः पठन्ति – ‘आज्यं वै देवानां सुरभि घृतं मनुष्याणामायुतं पितॄणां नवनीतं गर्भाणाम्’ इति ।
‘प्रच्युतो वा एषोऽस्माल्लोकादतो देवलोकं यो दीक्षितोऽन्तरेण नवनीतं तस्मान्नवनीतेनाभ्यङ्क्ते” (सं. का.६ प्र.१ अ.१) इति ।
दीक्षितस्य स्वर्गसाधने प्रवृत्तत्वादेतल्लोकप्रच्युतिः । यागस्यासमाप्तत्वाद्देवलोकप्राप्त्यभावः । नवनीतमपि क्षीरभावात्प्रच्युत्य घृतभावं न प्राप्नोति । अतोऽन्तरालवर्तित्वसाम्यात्तेन तस्याभ्यङ्गो युक्तः ।
‘अनुलोमं यजुषा व्यावृत्त्यै’ (सं. का.६ प्र.१ अ.१) इति ।
मनुष्याणां नास्त्यानुलोम्ये नियमः न वाऽभ्यङ्गे मन्त्रोऽस्ति । तस्माद्व्यावृत्त्यै तदुभयमत्रेति नियम्यते ।
‘इन्द्रो वृत्रमहन्तस्य कनीनिका पराऽपतत्तदाञ्जनमभवद्यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते” (सं. का.६ प्र.१ अ.१) इति । विनाशयतीत्यर्थः ।
‘दक्षिणं पूर्वमाऽङ्क्ते सव्यं हि पूर्वं मनुष्या आञ्जते न नि धावते नीव हि मनुष्या धावन्ते पञ्चकृत्व आऽङ्क्ते पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवावरुन्धे परिमितमाऽङ्क्तेऽपरिमितं हि मनुष्या आञ्जते सतूलयाऽऽङ्क्तेऽपतूलया हि मनुष्या आञ्जते व्यावृत्त्यै” (सं. का.६ प्र.१ अ.१) इति ।
मनुष्यस्य योषितामञ्जने वामभागपूर्वत्वं प्रसिद्धम् । अञ्जनोपेताङ्गुलेश्चक्षुषि सहसा पुनः पुनः पर्यावर्तनं निधावनं तच्च मनुष्याः कुर्वन्ति । यज्ञे सवनीयपुरोडाशद्रव्याणां पञ्चसंख्यया पङ्क्तिच्छन्दोगताक्षरसाम्याद्यज्ञस्य पाङ्क्तत्वम् ।
तथा च पञ्चमप्रपाठके वक्ष्यति – ‘ब्रह्मवादिनो वदन्ति नर्चा न यजुषा पङ्क्तिराप्यतेऽथ किं यज्ञस्य पाङ्क्तत्वमिति धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पङ्क्तिराप्यते तद्यज्ञस्य पाङ्क्तत्वम्’ (सं. का.६ प्र.५ अ.१०) इति ।
परिमितमल्पं पञ्चसंख्यानियमो वा । न ह्ययं नियमो मनुष्येष्वस्ति । अग्रसहिता शरेषीका सतूला । मनुष्याणामिषीकानियम एव नास्ति कृतः सतूलत्वनियमः ।
‘यदपतूलयाऽऽञ्जीत वज्र इव स्यात्सतूलयाऽऽङ्क्ते मित्रत्वाय’ (सं. का.६ प्र.२ अ.१) इति ।
तूलरहितशरकाष्ठस्य तीक्ष्णाग्रत्वाद्वज्रसमत्वम् ।
“इन्द्रो वृत्रमहन्त्सोऽपोऽभ्यम्रियत तासां यन्मेध्यं यज्ञियं सदेवमासीत्तदपोदक्रामत्ते दर्भा अभवन्यद्दर्भपुञ्जीलैः पवयति या एव मेध्या यज्ञियाः सदेवा आपस्ताभिरेवैनं पवयति” (सं. का.६ प्र.१ अ.१) इति ।
मेध्यं शुद्धं, यज्ञियं यज्ञार्हं, सदेवं देवताप्रियम् । उत्पवनब्राह्मणे दर्भोत्पत्तिर्व्याख्याता ।
“द्वाभ्यां पवयत्यहोरात्राभ्यामेवैनं पवयति, त्रिभिः पवयति त्रय इमे लोका एभिरेवैनं लोकैः पवयति, पञ्चभिः पवयति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञायैवैनं पवयति, षड्भिः पवयति षड्वा ऋतव ऋतुभिरेवैनं पवयति, सप्तभिः पवयति सप्त छन्दासि छन्दोभिरेवैनं पवयति, नवभिः पवयति नव वै पुरुषे प्राणाः सप्राणमेवैनं पवयत्येकविंशत्या पवयति दश हस्त्या अङ्गुलयो दश पद्या आत्मैकविंशो यावनेव पुरुषस्तमपरिवर्गं पवयति” (सं. का.६ प्र.१ अ.१) इति ।
“गायत्री त्रिष्टुब्जगत्यनुष्टुप्पङ्क्त्या सह । बृहत्युष्णिहा ककुत्सूचीभिः शिम्यन्तु त्वा” इति कश्चिन्मन्त्र आम्नायते । तत्रोष्णिक्ककृभोरवान्तरभेदपरित्यागेन सप्त च्छन्दांसि । संचारस्थानभूतच्छिद्राभिप्रायेण प्राणानां नवत्वम् । अपरिवर्गं निःशेषम् । एकविंशतिपक्ष एवात्रानुष्ठेयः । “एकविंशत्या दर्भपुञ्जीलैः पवयति” इति बह्वृचब्राह्मण आम्नातत्वात् । तत्प्रशंसार्थमितरे पक्षा अवयुत्यानुवादः ।
“चित्पतिस्त्वा पुनात्वित्याह मनो वै चित्पतिर्मनसैवैनं पवयति वाक्पतिस्त्वा पुनात्वित्याह वाचैवैनं पवयति देवस्त्वा सविता पुनात्वित्याह सवितृप्रसूत एवैनं पवयति” (सं. का.६ प्र.१ अ.१) इति ।
“तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयमित्याहाऽऽशिषमेवैतामाशास्ते” (सं. का.६ प्र.१ अ.१) इति ।
आ व इति ।
“यावन्तो वै देवा यज्ञायापुनत त एवाभवन्य एवं विद्वान्यज्ञाय पुनीते भवत्येव बहिः पवयित्वाऽन्तः प्रपादयति मनुष्यलोक एवैनं पवयित्वा पूतं देवलोकं प्रणयति” (सं. का. ६ प्र. १ अ. २) इति।
अभवन्नैश्वर्यं प्राप्तः। भवत्येवैश्वर्यं प्राप्नोत्येव।
“अदीक्षित एकयाऽऽहुत्येत्याहुः स्रुवेण चतस्रो जुहोति दीक्षितत्वाय स्रुचा पञ्चमीं पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवावरुन्धे” (सं. का. ६ प्र. १ अ. २) इति।
“आकूत्यै प्रयुजेऽग्नये स्वाहेत्याहाऽऽकूत्या हि पुरुषो यज्ञमभि प्रयुङ्क्ते यजेयेति” (सं. का. ६ प्र. १ अ. २) इति ।
यदा मनसाऽऽकूतिस्तदा पुरुष क्रत्विजामग्रे यज्ञमभिलक्ष्य यजेयेति वाचं प्रयुङ्क्ते।
“मेधायै मनसेऽग्नये स्वाहेत्याह मेधया हि मनसा पुरुषो यज्ञमभिगच्छति” (सं. का. ६ प्र. १ अ. २) इति ।
श्रुतयोः फलसाधनयोरविस्मरणेन धृतयोर्मनसा यज्ञकर्तव्यतां प्रतिपद्यते। तपोभिमानिनो वह्नेरनुग्रहेण दीक्षासिद्धिः स्पष्टेत्यभिप्रेत्य तृतीयमन्त्रो न व्याख्यातः।
“सरस्वत्यै पूष्णेऽग्नये स्वाहेत्याह वाग्वै सरस्वती पृथिवी पूषा वाचैव पृथिव्या यज्ञं प्रयुङ्क्ते” (सं. का. ६ प्र. १ अ. २) इति।
वाचा मन्त्रोच्चारणसिद्धिः। पृथिव्या यज्ञस्य देवयजनव्रीह्यादिद्रव्यसिद्धिः।
“सरस्वत्यै पूष्णेऽग्नये स्वाहेत्याह वाग्वै सरस्वती पृथिवी पूषा वाचैव पृथिव्या यज्ञं प्रयुङ्क्ते” (सं. का. ६ प्र. १ अ. २) इति।
वाचा मन्त्रोच्चारणसिद्धिः। पृथिव्या यज्ञस्य देवयजनव्रीह्यादिद्रव्यसिद्धिः।
“आपो देवीर्बृहतीर्विश्वशंभुव इत्याह या वै वर्ष्यास्ता आपो देवीर्बृहतीर्विश्वशंभुवः” (सं. का. ६ प्र. १ अ. २) इति।
वर्षे भवा वर्ष्याः।
“यदेतद्यजुर्न ब्रूयाद्दिव्या आपोऽशान्ता इमं लोकमागच्छेयुः” (सं. का. ६ प्र. १ अ. २) इति।
दिव्यत्वादशनिवदपामशान्तत्वम्।
“आपो देवीर्बृहतीर्विश्वशंभुव इत्याहास्मा एवैना लोकाय शमयति तस्माच्छान्ता इमं लोकमागच्छन्ति” (सं. का. ६ प्र. १ अ. २) इति।
द्यावापृथित्री इत्याह द्यावापृथिव्योर्हि यज्ञ उर्वन्तरिक्षमित्याहान्तरिक्षे हि यज्ञः” (सं. का. ६ प्र. १ अ. २) इति।
भूमौ देवयजनमन्तरिक्षेऽनुष्ठानाय संचारो दिवि फलमिति यज्ञस्य लोकत्रयवर्तित्वम्।
“बृहस्पतिर्नो हविषा वृधात्वित्याह ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै यज्ञमवरुन्धे” (सं. का. ६ प्र. १ अ. २) इति।
देवानां मध्ये बृहस्पतेर्गुरुत्वेन परब्रह्मस्वरूपत्वम्।
“यद्ब्रूयाद्विधेरिति यज्ञस्थाणुमृच्छेद्वृधात्वित्याह यज्ञस्थाणुमेव परिवृणाक्ति” (सं. का. ६ प्र. १ अ. २) इति।
बृहस्पतिर्विदधात्वित्युक्ते सत्यभिवृद्धेरसूचितत्वाद्यज्ञविघ्नं यजमानः प्राप्नुयाद्वृधात्वित्युक्त्या तत्परिहारः।
“प्रजापतिर्यज्ञमसृजत सोऽस्मात्सृष्टः पराङैत्सप्रयजुव्लीनात्प्र साम तमृगुदयच्छद्यदृगुदयच्छत्तदौद्ग्रहणस्यौद्ग्रहणत्वम्” (सं. का. ६ प्र. १ अ. २) इति।
पलायमानं यज्ञपुरुषं गृहीतुं प्रजापतिना प्रेरितानां त्रिविधमन्त्रपुरुषणां मध्ये यजुःसामपुरुषौ स यज्ञः प्रकर्षेणाव्लीनादावृणोत्। ऋग्देवता तु तं यज्ञमुदगृह्णात्तस्मादेतदृक्साध्यमनुष्ठानमौद्ग्रहणम्।
“ऋचा जुहोति यज्ञस्योद्यत्यै” (सं. का. ६ प्र. १ अ. २) इति।
“द्वादश वात्सबन्धनान्युदयच्छन्नित्याहुस्तस्माद्द्वादशभिर्वात्सबन्धविदो दीक्षयन्ति” (सं. का. ६ प्र. १ अ. २) इति।
यथा वत्स एकैकेन पाशेन प्रबध्यते तथा विश्वे देवस्येत्यादिषु द्वादशसु पदेष्वेकैकेन पदेन यज्ञो बध्यतेऽतस्तानि पदानि वात्सबन्धानि। वत्सस्येव बन्धो वत्सबन्धः। तदीयानि पदानि यज्ञमुदगृह्णन्तीत्याहुः पूर्वेऽभिज्ञाः। तद्विदोऽध्वर्यव इदानीमपि तैः पदैर्जुह्वति।
“सा वा एषर्गनुष्टुग्वागनुष्टुग्यदेतयर्चा दीक्षयति वाचैवैन सर्वथा दीक्षयति” (सं. का. ६ प्र. १ अ. २) इति।
अनुष्टुभो वाग्विशेषत्वेन वाग्रूपत्वम्। छन्दोऽन्तरस्यापि तत्सममिति चेत्तर्हि प्रसङ्गे सति तदपि तथा स्तोतव्यम्।
“विश्वे देवस्य नेतुरित्याह सावित्र्येतेन मर्तो वृणीत सख्यमित्याह पितृदेवत्यैतेन विश्वे राय इषुध्यसीत्याह वैश्वदेव्येतेन द्युम्नं वृणीत पुष्यस इत्याह पौष्ण्येतेन सा वा एषर्क्सर्वदेवत्या यदेतयर्चा दीक्षयति सर्वाभिरेवैनं देवताभिर्दीक्षयति” (सं. का. ६ प्र. १ अ. २) इति।
प्रथमपादे सवितृपर्यायस्य नेतृशब्दस्य प्रयोगेण सावित्रत्वम्। द्वितीयपादे मर्तशब्देन मृतपितृसूचनात्पितृदेवत्यत्वम्। तृतीयपादे विश्वशब्दस्य प्रयोगाद्वैश्वदेवत्वम्। चतुर्थपादे पुष्यस इत्युक्तत्वात्पौष्णत्वम्।
“सप्ताक्षरं प्रथमं पदमष्टाक्षराणि त्रीणि यानि त्रीणि तान्यष्टावुपयन्ति यानि चत्वारि तान्यष्टौ यदष्टाक्षरा तेन गायत्री यदेकादशाक्षरा तेन त्रिष्टुग्यद्द्वादशाक्षरा तेन जगती सा वा एषर्क्सर्वाणि च्छन्दासि यदेतयर्चा दीक्षयति सर्वेभिरेवैनं छन्दोभिर्दीक्षयति” (सं. का. ६ प्र. १ अ. २) इति।
प्रथमं पदमृचि प्रथमः पादः। द्वितीयादिषु त्रिषु पादेष्वस्ति प्रत्येकमक्षरगताष्टत्वसंख्या। द्वितीयपादे सखियमित्यक्षरत्रयेणाष्टत्वं पूरणीयम्। प्रथमपादं द्वेधा विभज्य त्रिण्यक्षराणि तृतीयपादे चत्वारि चतुर्थपादे गणनीयानि। तथा सति द्वितीयतृतीयचतुर्थपादा अक्षरसंख्याभिर्गायत्र्यादिसमा इति च्छन्दस्त्रयसंपत्तिः। गायत्र्यदीनां त्रयाणां सवनत्रये प्राधान्यात्सर्वच्छन्दःसंपत्तिः।
“सप्ताक्षरं प्रथमं पद सप्तपदा शक्वरी पशवः शक्वरी पशुनेवावरुन्धे” (सं. का. ६ प्र. १ अ. २) इति।
विश्वे देवस्य नेतुरित्यत्र सप्ताक्षराणि। प्रोष्वस्मै पुरो रथमित्यस्यां च शक्वर्यामृचि सप्त पादाः। शक्वर्याः पशुप्रदत्वात्पशुरूपत्वम्।
“एकस्मादक्षरादनाप्तं प्रथमं पदं तस्माद्यद्वाचोऽनाप्तं तन्मनुष्या उपजीवन्ति पूर्णया जुहोति पूर्ण इव हि प्रजापतिः प्रजापतेराप्त्यै न्यूनया जुहोति न्यूनाद्धि प्रजापतिः प्रजा असृजत प्रणाना सृष्ट्यै” (सं. का. ६ प्र. १ अ. २) इति।
यस्मादस्यामृचि प्रथमः पाद एकेनाक्षरेण न्यूनस्तस्मान्मनुष्या वाचः स्वरूपमनाप्तमसंपूर्णमुपजीवन्ति। मूलाधारादुत्पन्नो वायुर्मूर्धपर्यन्तं प्रसृतो वक्त्रे तत्तत्स्थानेषु वर्णानुत्पादयति। तदिदं वर्णाभिव्यक्तिलक्षणं वाचश्चतुर्थं पदम्। पूर्वाणि तु त्रीणि कण्ठादध एव रूढत्वान्नाभिव्यञ्जयितुं शक्यन्ते । तथा चाऽऽम्नायते — “गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति” इति। एतेनासंपूर्णवाग्व्यवहारसाम्यं दर्शितम्। किंचेयमृगुत्तरेवु पादेष्वक्षरपूर्णा तेन सृष्टिपूर्णप्रजापतिसाम्यात्तत्प्राप्तये भवति। प्रथमपादे यदक्षरन्यूनत्वं तेन सृष्टिशून्यजगद्वीजसाम्यात्प्रजोत्पत्तये भवति।
“ऋक्सामे वै देवेभ्यो यज्ञायाऽऽतिष्ठमाने कृष्णो रूपं कृत्वाऽपक्रम्यातिष्ठतां तेऽमन्यन्त यं वा इमे उपावर्त्स्यतः स इदं भविष्यतीति ते उपामन्त्रयन्त ते अहोरात्रयोर्महिमानमपनिधाय देवानुपावर्तेतामेष वा ऋषो वर्णो यच्छुक्लं कृष्णाजिनस्यैष साम्नो यत्कृष्णम्” (सं. का. ६ प्र. १ अ. ३) इति।
ऋक्सामे देवते केनापि निमित्तेन देवयज्ञार्थमात्मानमप्रकाशयमाने आत्मतिरोघानाय कृष्णमृगो भूत्वा तदीयं संपूर्णं रूपं कृत्वा देवेभ्योऽपक्रम्य क्वचिद्गूढे अतिष्ठताम्। देवा विचारितवन्तो यं पुरुषमिमे ऋक्सामे प्राप्स्यतः स इदं यज्ञफलं प्राप्स्यतीति। देवास्तु ऋक्सामे रहसि केनाप्युपायेनोपच्छन्दितवन्तः। ते उभे अहोरात्रमहिमानं शुक्लकृष्णवर्णद्वयं स्वकीये मृगशरीरे स्थापयित्वा देवसमीपमागच्छताम्। कृष्णाजिनस्य यच्छुक्लं स एष ऋचा स्वीकृतोऽह्नो वर्णः। यत्कृष्णं स एष साम्ना स्वीकृतो रात्रेर्वर्णः।
“ऋक्सामयोः शिल्पे स्थ इत्याहर्क्सामे एवावरुन्धे” (सं. का. ६ प्र. १ अ. ३) इति।
“एष वा अह्नो वर्णो यच्छुक्लं कृष्णाजिनस्यैष रात्रिया यत्कृष्णं यदेवैनयोस्तत्र न्यक्तं तदेवावरुन्धे” (सं. का. ६ प्र. १ अ. ३) इति।
एनयोरहोरात्रयोः संबन्धि यत्सारं तत्रर्क्सामयोर्न्यक्तं गूढं तदपि प्राप्नोति।
“कृष्णाजिनेन दीक्षयति ब्रह्मणो वा एतद्रूपं यत्कृष्णाजिनं ब्रह्मणैवैनं दीक्षयति” (सं. का. ६ प्र. १ अ. ३) इति ।
ब्रह्म वेदस्तद्रूपत्वं कृष्णाजिनस्य। ऋक्सामशिल्पधारित्वात्तदुपपन्नम्। दीक्षयति कृष्णाजिनेन यजमानं योजयति । योजनं द्विविधम्। आस्तीर्णस्य कृष्णाजिनस्याऽऽरोहणमन्यस्य कृष्णाजिनस्य प्रावरणं च।
मन्त्रस्य स्पष्टार्थतामाह —
“इमां धिय शिक्षमामस्य देवेत्याह यथायजुरेवैतत्” (सं. का. ६ प्र. १ अ. ३) इति।
वस्त्रप्रावरणं विधत्ते —
“गर्भो वा एष यद्दीक्षित उल्बं वासः प्रोर्णुते तस्माद्गर्भाः प्रावृता जायन्ते” (सं. का. ६ प्र. १ अ. ३) इति।
विपक्षे बाधकपुरःसरमाच्छादनस्यापनयनकालं विधत्ते —
“न पुरा सोमस्य क्रयादपोर्ण्वीत यत्पुरा सोमस्य क्रयादपोर्ण्वीत गर्भाः प्रजानां परापातुकाः स्युः क्रीते सोमेऽपोर्णुते जायत एव तदथो यथा वसीयासं प्रत्यपोर्णुते तादृगेव तत” (सं. का. ६ प्र. १ अ. ३) इति।
सोमे क्रीते तत्तदैव जायते ततो वस्त्रापनयनं युक्तम्। किंचात्यन्तधनवन्तं राजादिकं प्रति जनानां दिदृक्षायं पार्श्वस्थैर्याष्टिकादिभिः सभाया आवरणपटो यथाऽपनीयते तादृगेव तदिति द्रष्टव्यम्।
ऊर्गस्याङ्गिरसीत्यस्यार्थमाख्यायिकया दर्शयन्मेखलां विधत्ते –
“अङ्गिरसः सुवर्गं लोकं यन्त ऊर्जं व्यभजन्त ततो यदत्यशिष्यत ते शरा अभवन्नूर्ग्वै शरा यच्छरमयी मेखला भवत्यूर्जमेवावरुन्धे” (सं. का. ६ प्र. १ अ. ३) इति।
अङ्गिरोनामकानामृषीणां परस्परमन्नरसे विभज्यमाने यदवशिष्टं तच्छरनामकतृणविशेषरूपेणाऽविर्भूतं तस्मादूर्गसीत्यादिमन्त्र उपपन्नः।
मेखलाबन्धनप्रदेशं विधते —
“मध्यतः संनह्यति मध्यत एवास्मा ऊर्जं दधाति तस्मान्मध्यत ऊर्जा भुञ्जते” (सं. का. ६ प्र. १ अ. ३) इति।
अस्य यजमानस्य शरीरमध्ये रसं स्थापयति। तस्मात्सर्वेऽपि मध्य ऊर्जा भुञ्जते रसं धारयन्तीत्यर्यः।
प्रकारान्तरेण मध्यदेशं स्तौति –
“ऊर्ध्वं वै पुरषस्य नाभ्यै मेध्यमवाचीनममेध्यं यन्मध्यतः संनह्यति मेध्यं चैवास्यामेध्यं च व्यावर्तयति” (सं. का. ६ प्र. १ अ. ३) इति।
शरमयत्वं प्रशंसति —
‘इन्द्रो वृत्राय वज्र प्राहरत्स त्रेधा व्यभवत्स्फ्यस्तृतीयं रथस्तृतीयं यूपस्तृतीयं येऽन्तःशरा अशीर्यन्त ते शरा अभवन्तच्छराणा शरत्वं वज्रो वै शराः क्षुत्खलु वै मनुष्यस्य भ्रातृव्यो यच्छरमयी मेखला भवति, वज्रेणैव साक्षात्क्षुधं भ्रातृव्यं मध्यतोऽपहते’ (सं. का. ६ प्र. १ अ. ३) इति।
ये वज्रस्यान्तः शीर्णाः क्षुद्रावयवास्ते शराख्यास्तृणरूपाः शरा अभवन्।
गुणं विधत्ते —
‘त्रिवृद्भवति त्रिवृद्वै प्राणस्त्रिवृतमेव प्राणं मध्यतो यजमाने दधाति’ (सं. का. ६ प्र. १ अ. ३) इति।
प्राणापानव्यानवृत्तिभिः प्राणस्य त्रिगुणत्वम्।
गुणान्तरं विधत्ते —
‘पृथ्वी भवति रज्जूनां व्यावृत्त्यै’ (सं. का. ६ प्र. १ अ. ३) इति।
रज्जूनां सूक्ष्माणां खट्वादिस्थितानाम्।
मेखलायोक्त्रयोर्व्यवस्थां विधत्ते –
“मेखलया यजमानं दीक्षयति योक्त्रेण पत्नीं मिथुनत्वाय” (सं. का. ६ प्र. १ अ. ३) इति।
मेखला यजमानस्य स्त्री योक्त्ररूपः पत्न्याः पुमानिति प्रत्येकं मिथुनत्वम्।
‘यज्ञो दक्षिणामभ्यध्यायत्तां समभवत्तदिन्द्रोऽचायत्सोऽमन्यत यो वा इतो जनिष्यते स इदं भविष्यतीति तां प्राविशत्तस्या इन्द्र एवाजायत सोऽमन्यत यो वै मदितोऽपरो जनिष्यते स इदं भविष्यतीति तस्या अनुमृश्य योनिमाच्छिनत्सा सूतवशाऽभवत्तत्सूतवशायै जन्म तां हस्ते न्यवेष्टयत तां मृगेषु न्यदधात्सा कृष्णविषाणाऽभवदिन्द्रस्य योनिरसि मा मा हिसीरिति कृष्णविषाणां प्रयच्छति सयोनिमेव यज्ञं करोति सयोनिं दक्षिणां सयोनिमिन्द्रं सयोनित्वाय’ (सं. का. ६ प्र. १ अ. ३) इति।
यज्ञदेवस्य दक्षिणादेव्या सह योगमिन्द्रोऽवगम्य ततो जातः सर्वमिदमैश्वर्यं प्राप्स्यतीति निश्चित्य स्वयमेव दक्षिणां प्रविश्य ततोऽजायत। पुनरपि स्वस्मादपरस्तया जनिष्यमाणः सर्वं प्राप्स्यतीति मत्वा मातुर्योनिमाच्छिनत्। सा च माता सकृत्प्रसूता पश्चाद्वियोनित्वेन वन्ध्याऽभवत्। ततो लोके पश्चान्नष्टबीजा सूतवशा संपन्ना। ततस्तां योनिं हस्ते वेष्टयित्वा पश्चाद्बलिभिर्युक्तां तां योनिं कृष्णमृगेषु निदधौ। तत इयं कृष्णविषाणा यज्ञस्य भोग्या योनिर्दक्षिणाया अवयवभूता योनिरिन्द्रस्य कारणभूता योनिः।
मन्त्रसामर्थ्यं दर्शयति —
‘कृष्यै त्वा सुसस्याया इत्याह तस्मादकृष्टपच्या ओषधयः पच्यन्ते’ (सं. का. ६ प्र. १ अ. ३) इति।
नीवारादयोऽकृष्टपच्याः।
पिप्पलशब्दसूचितमाह —
‘सुपिप्पलाभ्यस्त्वौषधीभ्य इत्याह तस्मादोषधयः फलं गृह्णन्ति’ (सं. का. ६ प्र. १ अ. ३) इति।
विपक्षबाधपुरःसरं द्वयं विधत्ते —
‘यद्धस्तेन कण्डूयेत पामनंभावुकाः प्रजाः स्युर्यत्स्मयेत नग्नंभावुकाः कृष्णविषाणया कण्डूयतेऽपिगृह्य स्मयते प्रजानां गोपीथाय” (सं. का. ६ प्र. १ अ. ३) इति।
पामाख्यरोगयुक्ता दारिद्र्येण वस्त्ररहिताश्चेत्यर्थः।
विपक्षबाधपूर्वकं कृष्णविषाणायास्त्यागं विधत्ते –
‘न पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणामवचृनतेद्यत्पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणामवचृतेद्योनिः प्रजानां परापातुका स्यन्नीतासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति योनिर्वै यज्ञस्य चात्वालं योनिः कृष्णविषाणा योनावेव योनिं दधाति यज्ञस्य सयोनित्वाय’ (सं. का. ६ प्र. १ अ. ३) इति।
दक्षिणाभ्यो नेतोर्दक्षिणानामृत्विग्भिरपनयनात्। अवचृतेत्परित्यजेत्। चात्वालाद्धिष्णियानुपवपतीति चात्वालनामकाद्गर्ताद्धिष्णियानामुत्पत्तेर्विधास्यमानत्वाच्चात्वालस्य यज्ञयोनित्वम्।
यजमानाय दण्डप्रदानं विधत्ते —
‘वाग्वै देवेभ्योऽपाक्रामद्यज्ञायातिष्ठमाना सा वनस्पतीन्प्राविशत्सैषा वाग्वनस्पतिषु वदति या दुंदुभौ या तूष्णवे या वीणायां यद्दीक्षितदण्डं प्रयच्छति वाचमेवावरुन्धे’ (सं. का. ६ प्र. १ अ. ४) इति।
तूणवो वेणुः।
क्रमेण गुणौ विधत्ते —
‘औदुम्बरो भवत्यूर्ग्वा उदुम्बर ऊर्जमेवावरुन्धे मुखेन संमितो भवति मुखत एवास्मा ऊर्जं दधाति तस्मान्मुखत ऊर्जा भुञ्जते’ (सं. का. ६ प्र. १ अ. ४) इति।
यजमानस्य दण्डत्यागं विधत्ते —
‘क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति मैत्रावरुणो हि पुरस्तादृत्विग्भ्यो वाचं विभजति तामृत्विजो यजमाने प्रतिष्ठापयन्ति’ (सं. का. ६ प्र. १ अ. ४) इति।
मैत्रावरुणस्तत्र तत्र प्रैषैस्तेभ्य ऋत्विग्भ्यो मन्त्रान्विभजति। ते च ऋत्विजो यजमानार्थं तान्मन्त्रन्पठन्ति। अतो मैत्रावरुणस्य वाग्रूपो दण्डो युक्तः।
तदेतद्दर्शयति —
‘स्वाहा यज्ञं मनसेत्याह मनसा हि पुरुषो यज्ञमभिगच्छति। स्वाहा द्यावापृथिवीभ्यामित्याह द्यावापृथिव्यार्हि यज्ञः स्वाहोरोरन्तरिक्षादित्याहान्तरिक्षे हि यज्ञः स्वाहा यज्ञं वातादा रभ इत्याहायं वाव यः पवते स यज्ञस्तमेव साक्षादारभते’ (सं. का. ६ प्र. १ अ. ४) इति।
वातस्य क्रियाहेतुत्वाद्यज्ञरूपत्वम्।
अत्र द्वयोर्हस्तयोः कनिष्ठिकामारभ्य चतसृणामङ्गुलीनां चतुभिर्मन्त्रैर्न्यग्भावः। पञ्चमेन मन्त्रेणाङ्गुष्ठाभ्यां दृढमुष्टिबन्धौ वाङ्नियमश्च।
तदेतद्विधत्ते —
‘मुष्टी करोति वाचं यच्छति यज्ञस्य धृत्यै’ (सं. का. ६ प्र. १ अ. ४) इति।
अप्रमत्तत्वं यज्ञधृतिः।
अध्वर्योः कंचिन्मन्त्रमुत्पाद्य विनियुङ्क्ते —
‘अदीक्षिष्टायं ब्राह्मण इति त्रिरुपाश्चाह देवेभ्य एवैनं प्राह त्रिरुच्चैरुभयेभ्य एवैनं देवमनुष्येभ्यः प्राह’ (सं. का. ६ प्र. १ अ. ४) इति।
स्वीकृतवाङ्नियमस्य नक्षत्रोदयात्पुरा विमोकं निषेधति —
‘न पुरा नक्षत्रेभ्यो वाचं विसृजेद्यत्पुरा नक्षत्रेभ्यो वाचं विसृजेद्यज्ञं विच्छिन्द्यात्’ (सं. का. ६ प्र. १ अ. ४) इति।
कालविशेषे वाग्विमोकं विधत्ते, विमोककाले च वक्तव्यं कंचित्प्रैषमन्त्रमुत्पादयति —
‘उदितेषु नक्षत्रेषु व्रतं कृणुतेति वाचं विसृजति यज्ञव्रतो वै दीक्षितो यज्ञमेवाभि वाचं विसृजति’ (सं. का. ६ प्र. १ अ. ४) इति।
यज्ञार्थं स्वीकृतं वाङ्नियमादिरूपं व्रतं यस्यासौ यज्ञव्रतः। तथा सत्यस्य क्षीरसंपादनप्रैषस्यापि यज्ञार्थत्वान्नायं वाग्विमोको दोषकारी।
नक्षत्रोदयात्पुरा लौकिकवागुच्चारणे प्रायश्चित्तमाह —
‘यदि विसृजेद्वैष्णविमृचमनुब्रूयाद्यज्ञो वै विष्णुर्यज्ञेनैव यज्ञ संतनोति’ (सं. का. ६ प्र. १ अ. ४) इति।
वैष्णवी विष्णो त्वं नो अन्तम इति केचित्। इदं विष्णुरित्यन्ये।
सुमृडीकामिति पदस्याभिप्रायमाह —
“दैवीं धियं मनामह इत्याह यज्ञमेव तन्म्रदयति” (सं. का. ६ प्र. १ अ. ४) इति।
मृदू करोतीत्यर्थः।
सुपारेति पदेन यत्सूचितं तदाह —
“सुपारा नो असद्वश इत्याह व्युष्टिमेवावरुन्धे” (सं. का. ६ प्र. १ अ. ४) इति।
व्युष्टिः सुप्रभातं कृत्स्नयज्ञप्रकाशनमित्यर्थः।
विचारपुरःसरं व्रतं विधत्ते —
“ब्रह्मवादिनो वदन्ति होतव्यं दीक्षितस्य गृहा३इ न होतव्या३मिति हविर्वै दीक्षितो यज्जुहुयाद्यजमानस्यावदाय जुहुयाद्यन्न जुहुयाद्यज्ञपरुरनन्तरियाद्ये देवा मनोजाता मनोयुज इत्याह प्राणा वै देवा मनोजाता मनोयुजस्तेष्वेव परोक्षं जुहोति तन्नेव हुतं नेवाहुतम्” (सं. का. ६ प्र. १ अ. ४) इति।
भयप्रसक्तिं दर्शयन्मन्त्रं व्याचष्टे —
“स्वपन्तं वै दीक्षित रक्षासि जिघासन्त्यग्निः खलु वै रक्षोहाऽग्ने त्वसु जागृहि वयसु मन्दिषीमहीत्याहाग्निमेवाधिपां कृत्वा स्वपिति रक्षसामपहत्यै” (सं. का. ६ प्र. १ अ. ४) इति।
व्रतभ्रंशप्रसक्तिं दर्शयन्प्रथमं पादं व्याचष्टे —
‘अव्रत्यमिव वा एष करोति यो दीक्षितः स्वपिति त्वमग्ने व्रतपा असीत्याहाग्निर्वै देवानां व्रतपतिः स एवैनं व्रतमालम्भयति’ (सं. का. ६ प्र. १ अ. ४) इति।
अविकलं करोतीत्यर्थः।
मनुष्येषु च्छिन्नं व्रतं मनुष्यावतारेण पालयतीति शङ्का वारयन्द्वितीयपादं व्याचष्टे —
‘देव आ मर्त्येष्वेत्याह देवो ह्येष सन्मर्त्येषु’ (सं. का. ६ प्र. १ अ. ४) इति।
अतो व्रतं समाधातुं शक्नोति।
अग्निर्मूर्धा दिवः ककुदित्यादियाज्यापुरोनुवाक्यादिमन्त्रेष्वाग्नेः स्तूयत इत्यभिप्रायं तृतीयपादे स्वयं दर्शयति —
‘त्वं यज्ञेष्वीड्य इत्याहैत हि यज्ञेष्वीडते’ (सं. का. ६ प्र. १ अ. ४) इति।
प्रबुद्धो जपेदित्येतद्व्याचष्टे —
“अप वै दीक्षितात्सुषुपुष इन्द्रियं देवताः क्रामन्ति विश्वे देवा अभि मामाऽववृत्रन्नित्याहेन्द्रियेणैवैनं देवताभिः संनयति” (सं. का. ६ प्र. १ अ. ४) इति।
सुषुपुषः सुप्तात्। अतीन्द्रियसामर्थ्येन तदभिमानिदेवताभिश्चायं मन्त्रः संयोजयति।
विपक्षबाधपुरःसरमाऽऽभूयो भरेत्यमुं मन्त्रभागं व्याचष्टे —
‘यदेतद्यजुर्न ब्रूयाद्यावत एव पशूनभिदीक्षेत तावन्तोऽस्य पशवः स्यू रास्वेयत्सोमाऽऽभूयो भरेत्याहापरिमितानेव पशूनवरुन्धे’ (सं. का. ६ प्र. १ अ. ४) इति।
‘दीक्षाकाले विद्यमानान्यावतः पशूनभिप्राप्य दीक्षेत मन्त्रानुक्तौ तावन्त एव स्युः। मन्त्रोक्तौ तु तत्सामर्थ्यादपरिमिताः परलोके भवन्ति। पशुभिर्द्रव्यान्तराण्युपलक्ष्यन्ते। चन्द्रमसि मम भोगाय भव वस्त्रमसि मम भोगाय भवोस्राऽसि मम भोगाय भव हयोऽसि मम भोगाय भव च्छागोऽसि मम भोगाय भव मेषोऽसि मम भोगाय भवेत्येभिर्मन्त्रैर्यथालिङ्गं वसु स्वीकर्तव्यम्। चन्द्रं हिरण्यम्। उस्रा गौः।
तेन तेन मन्त्रेण तत्तद्द्रव्याभिमानिदेवतास्तुष्यन्तीत्याह —
‘चन्द्रमसि मम भोगाय भवेत्याह यथादेवतमेवैनाः प्रतिगृह्णाति’ (सं. का. ६ प्र. १ अ. ४) इति।
एना हिरण्यादिरूपा दित्सिता दक्षिणाः।
विपक्षस्वपक्षयोर्दूषणभूषणे दर्शयति —
“वायवे त्वा वरुणाय त्वेति यदेवमेता नानुदिशेदयथादेवतं दक्षिणा गमयेदा देवताभ्यो वृश्च्येत यदेवमेता अनुदिशति यथादेवतमेव दक्षिणा गमयति न देवेताभ्य आ वृश्च्यते” (सं. का. ६ प्र. १ अ. ४) इति।
हविष्यशब्दाभिप्रायमाह —
“देवीरापो अपां नपादित्याह यद्वो मेध्यं यज्ञिय सदेवं तद्वो माऽव क्रमिषमिति वावैतदाह” (सं. का. ६ प्र. १ अ. ४) इति।
इति वाव, इत्येव।
तन्तुशब्दाभिप्रायमाह —
“अच्छिन्नं तन्तुं पृथिव्या अनुगेषमित्याह सेतुमेव कृत्वाऽत्येति” (सं. का. ६ प्र. १ अ. ४) इति।
“देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्तेऽन्योन्यमुपाधावन्त्वया प्रजानाम त्वयेति तेऽदित्याँ समध्रियन्त त्वया प्रजानामेति साऽब्रवीद्वरं वृणै मत्प्रायणा एव वो यज्ञा मदुदयना असन्निति तस्मादादित्यः प्रायणीयो यज्ञानामादित्य उदयनीयः” (सं. का. ६ प्र. १ अ. ५) इति।
देवयजनार्थमयं प्रदेशः समीचीनो न त्वितर इति निश्चेतुं परिभ्रम्य तं प्रदेशं निश्चित्य परिभ्रमणेन दिग्भ्रमं प्राप्य प्राचीनवंशादावसमर्थाः संपन्नाः। ततस्त्वमेव दिशं ज्ञापयेत्येवं परस्परं वदन्तो दिग्बोधकशक्तिमदित्यां निश्चितवन्तः। सो चादितिः सोमयागारम्भसमाप्त्योरहमेव देवता भूयासमिति वरमयाचत। प्रयन्ति प्रारभन्तेऽनेन देवतारूपेणेति प्रायणम्। उद्यन्त्युत्तिष्ठन्ति समापयन्त्यनेनेति उदयनम्। अहमेव प्रायणमारम्भदेवता येषां यज्ञानां ते मत्प्रायणाः। अहमेवोदयनं समाप्तिदेवता येषां यज्ञानां ते मदुदयनाः।
तस्मादेवं वृतत्वाददितिदेवताकः प्रायणीययागः कर्तव्यः। तत्प्रसङ्गादुदयनयागोऽपि विधीयते।
अदितिरेका प्रधानदेवता चतस्रस्त्वङ्गदेवता इत्यभिप्रेत्य संख्यां विधत्ते —
“पञ्च देवता यजति पञ्च दिशो दिशां प्रज्ञात्या अथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवावरुन्धे” (सं. का. ६ प्र. १ अ. ५) इति।
दिग्विशेषेषु देवताविशेषान्विधातुं प्रस्तौति —
“पथ्या स्वस्तिमयजन्प्राचीमेव तया दिशं प्राजानन्नग्निना दक्षिणा सोमेन प्रतीची सवित्रोदीचीमदित्योर्ध्वाम्” (सं. का. ६ प्र. १ अ. ५) इति।
स्वस्तिसंज्ञा देवता पथ्या पथि साधुः।
दिग्विशेषबोधनरूपे मार्गे कुशलान्विधत्ते —
“पथ्या स्वस्तिं यजति प्राचीमेव तया दिशं प्रजानाति पथ्या स्वस्तिमिष्ट्वाऽग्नीषोमौ यजति चक्षुषी वा एते यज्ञस्य यदग्नीषोमौ ताभ्यामेवानुपश्यत्यग्नीषोमाविष्ट्वा सवितारं यजति सवितृप्रसूत एवानुपश्यति सवितारमिष्ट्वाऽदितिं यजतीयं वा अदितिरस्यामेव प्रतिष्ठायानुपश्यति” (सं. का. ६ प्र. १ अ. ५) इति।
अर्थानुसारेण होमविशेषा दिग्विशेषून्नेयाः। चक्षुर्द्वयरूपेण प्रशंसितुमग्नीषोमयोः सह निर्देशः। होमस्तु तयोः क्रमभावी दिग्भेदाद्याज्यानुवाक्याभेदाच्च। ततोऽग्निमिष्ट्वा सोमं यजतीत्यपि वाक्यं द्रष्टव्यम्। तयोश्चक्षुष्ट्वं दार्शिकाज्यभागाब्राह्मणे प्रपञ्चितम्। अत्रादितेश्चरुहोमः। “आदित्यः प्रायणीयः। पयसि चरुः” इति शाखान्तरे समाम्नानात्। आज्येन तु देवतान्तराणाम्। तथा च सूत्रम् — “चतुर आज्यभागान्प्रतिदिशं यजति” इति।
ऋगनुवचनमध्वर्योर्विधत्ते —
“अदितिमिष्ट्वा मारुतीमृचमन्वाह मरुतो वै देवानां विशो देवविशं खलु वै कल्पमानं मनुष्याविशमनुकल्पते यन्मारुतीमृचमन्वाह विशां कॢप्त्यै” [सं. का. ६ प्र. १ अ. ५] इति।
मरुतो यद्धव इत्येषा मारुती। तथा च सूत्रम् — “मारुतीमृचमन्वाह मरुतो यद्धवो दिव इति” इति। एकोनपञ्चाशत्संख्याकाः सप्तगणरूपा मरुतो मनुष्यवैश्यवद्देवानां धनसंपादकाः प्रजाः। अनेन मन्त्रानुवचनेन देवविशां समूहः स्वव्यपारे कॢप्तो भवति। तं च कल्पमानमनुसृत्य मनुष्यप्रजासंघः कल्पते। अतो मन्त्रानुवचनं प्रजानां कॢप्त्यै भवति।
पूर्वपक्षत्वेन चोदकप्राप्तं किं चिदङ्गमपवदति —
“ब्रह्मवादिनो वदन्ति प्रयाजवदननूयाजं प्रायणीयं कार्यमनुयाजवदप्रयाजमुदयनीयमितीमे वै प्रयाजा अमी अनूयाजाः सैव सा यज्ञस्य संततिः” [सं. का. ६ प्र. १ अ. ५] इति।
प्रमुखे यष्टव्याः समिदादिनामकाः पञ्च प्रयाजा अनु पश्चात्समाप्तौ यष्टव्या बर्हिरादिनामकास्त्रयोऽनूयाजाः। तदुभयं प्रायणीयोदयनीययोरिष्ट्योरतिदेशतः प्राप्तम्। तत्र प्रायणीमेष्ट्यामनुयाजानुष्ठाने यागः समाप्येत तद्वदुदयनीयायां प्रयाजानुष्ठाने यागान्तरं प्रारभ्येत। तथा सति सोमयागो मध्ये विच्छिद्येत। उभयवर्जने तु सोमयागस्य प्रारम्भरूपायां प्रायणीयेष्टाविदानीमनुष्ठीयमाना इमे प्रत्यक्षाः प्रयाजाः समाप्तिरूपायामुदयनीयेष्टावनुष्ठीयमाना अमी परोक्षा अनुयाजाः। तथा सति प्रयाजानूयाजद्वयेन दर्शयागस्य या संततिः सैवास्य सोमयागस्य मध्ये विच्छेदराहित्यलक्षणा सा संततिः संपद्यते।
पूर्वपक्षं दूषयति —
“तत्तथा न कार्यमात्मा वै प्रयाजाः प्रजाऽनूयाजा यत्प्रयाजानन्तरियादात्मानमन्तरियाद्यदनूयाजान्तरियात्प्रजामन्तरियाद्यतः खलु वै यज्ञस्य विततस्य न क्रियते तदनु यज्ञः पराभवति यज्ञं पराभवन्तं यजमानोऽनु पराभवति” (सं. का. ६ प्र. १ अ. ५) इति।
आत्मनो वा पुत्रादेर्वा नान्तरायः सोढुं शक्यते यतो द्वयं तदङ्गमित्यर्थः सिद्धान्तमाह —
“प्रयाजवदेवानुयाजवत्प्रायणीयं कार्य प्रयाजवदनूयाजवदुदयनीयं नाऽऽत्मानमन्तरेति न प्रजां न यज्ञः पराभवति न यजमानः” (सं. का. ६ प्र. १ अ. ५) इति।
विच्छेदपरिहाराय विधत्ते –
“प्रायणीयस्य निष्कास उदयनीयमभिनिर्वपति सैव सा यज्ञस्य संततिः” (सं. का. ६ प्र. १ अ. ५) इति।
प्रायणीययागसंबन्धि चरुपात्रमप्रक्षाल्य निष्कासे पात्रलिप्तेऽन्ने निर्वापान्नलेपस्य या संततिः सैव सोमयागस्याविच्छेदरूपा सा संततिर्भवति।
प्रायणीयोदयनीययोर्दैवतैक्येन याज्याया अप्येकत्वप्राप्तौ व्यत्यासं विधत्ते –
“याः प्रायणीयस्य याज्या यत्ता उदयनीयस्य याज्याः कुर्यात्पराङमुं लोकमारोहेत्प्रमायुकः स्याद्याः प्रायणीयस्य पुरोनुवाक्यस्ता उदयनीयस्य याज्याः करोत्यस्मिन्नेव लोके प्रतितिष्ठति” ( सं. का. ६ प्र. १ अ. ५) इति।
स्वस्तिरिद्धि प्रपथे श्रेष्ठेत्याद्याः प्रायणीयस्य याज्या उदयनीयस्यपि तथेत्येवं केचिदाहुः। तथा सति प्रतिनिवृत्तेरभावद्यजमानोऽस्माल्लोकात्पराङ्मुखः स्वर्गमारोढुं सहसा म्रियेत। तस्मात्तेषां पक्षो न युक्तः। यास्तु स्वस्ति नः पथ्येत्याद्याः प्रायणीयस्य पुरोनुवाक्यास्तासां याज्यत्वे सति स्वस्तिरिद्धीत्यादीनां पूर्वोक्तानां पुरोनुवाक्यत्वाय प्रतिनिवृत्तेर्यजमानोऽप्यस्मिल्ँ लोके प्रतितिष्ठत्येव।
इत्थं प्रायणीयेष्टिगुक्त्वा सोमक्रयाणीं वक्तुं सोमाहरणं सोपाख्यानमाह —
“कद्रूश्च वै सुपर्णी चाऽऽत्मरूपयोरस्पर्धेताँ सा कद्रूः सुपर्णीमजयत्साऽब्रवीत्तृतीयस्यामितो दिवि सोमस्तमाहर तेनाऽऽत्मानं निष्क्रीणीष्वेति” (सं. का. ६ प्र. १ अ. ६) इति।
कद्रूः सुपर्णी चोमे सपत्न्यौ पराजये दासीत्वमभ्युपेत्य ममैव सौन्दर्यं ममैवेत्यस्पर्धेताम्। तत्र मध्यस्थाः कद्र्वा जयमूचिरे। सा च कद्रूः सपत्नीं दासीत्वेन परिगृह्य तन्मोचनोपायं स्वयमेवोपदिदेश। इतोऽस्माल्लोकादारभ्य गणनायां तृतीया द्यौः स्वर्गलोकस्तस्मिन्सोमो वर्तते। महर्जनस्तपः सत्यमित्येतेऽपि लोका द्युशब्दाभिधेयास्तस्मादितस्तृतीयस्यामिति विशेष्यते। सोम आहृत्य दत्ते सति त्वां मुञ्चामीति।
सोमाहरणं संभावयितुं श्रुतिराह —
“इयं वै कद्रूरसौ सुपर्णी छन्दासि सौपर्णेयाः” (सं. का. ६ प्र. १ अ. ६) इति।
भूलोकरूपत्वात्कद्रूः स्वयमाहर्तुं न शक्नोति। सुपर्णी तु द्युलोकरूपत्वादुत्पतनसमर्थानां गायत्र्यादिरूपाणामपत्यानां सद्भावाच्च शक्नोति।
अथ सा सुपर्णी स्वपुत्राणां गायत्र्यादीनामग्रे स्ववृत्तान्तं स्पष्टी करोतीत्याह —
“साऽब्रवीदस्मै वै पितरौ पुत्रान्विभृतस्तृतीयस्यामितो दिवि सोमस्तमाहर तेनाऽऽत्मानं निष्क्रीणीष्वेति मा कद्रूरवोचदिति” (सं. का. ६ प्र. १ अ. ६) इति।
पुंनामनरकोपलक्षितादशेषाद्दुःखात्त्रायन्त इति पुत्रास्तास्तान्पुत्रानस्यमा एतादृशोपद्रवपरित्राणाय मातापितरौ पुष्णीतः। हे गायत्र्यादिपुत्राः कद्रूवचनमवगत्य यदुचितं तत्कुरुध्वम्। गायत्र्यादीनामैच्छिकशरीरधारित्वात्पुत्रत्वमविरुद्धम्।
तत्र प्रौढत्वादादौ जगती प्रववृत इत्याह —
“जगत्युदपतच्चतुर्दशाक्षरा सती साऽप्राप्य न्यवर्तत तस्यै द्वे अक्षरे अमीयेता सा पशुभिश्च दीक्षया चाऽऽगच्छत्तस्माज्जगती छन्दसां पशव्यतमा तस्मात्पशुमन्तं दीक्षोपनमति” (सं. का. ६ प्र. १ अ. ६) इति।
पुरा जगतीपादस्य चतुर्दशाक्षराण्यासन्। तादृशी जगती द्युलोकं गत्वास्वानभ्राजादिसोमरक्षकैः सह युद्ध्वा सोममप्राप्याग्नीषोमीयसवनीयानूबन्ध्याख्यपशूनिष्टिसाध्यां दीक्षां च गृहीत्वा स्वकीये चाक्षरद्वये स्वानादिभिर्गृहीते सति पराजित्य समागता। यस्माज्जगती पशूनानयत्तस्मात्सैवात्यन्तं पशुप्रदा। यतः पशुभिः सह दीक्षाऽऽनीता ततः स्वाधीनसंपत्तौ सत्यां दीक्षायां प्रवर्तते।
तथैव त्रिष्टुभो युद्धं दर्शयति —
“त्रिष्टुगुदपतत्त्रयोदशाक्षरा सती साऽप्राप्य न्यवर्तत तस्यै द्वे अक्षरे अमीयेता सा दक्षिणाभिश्च तपसा चाऽऽगच्छत्” (सं. का. ६ प्र. १ अ. ६) इति।
गौश्चाश्वश्चेत्यादयो दक्षिणाः। अशनपरित्यागमुष्टिबन्धवाग्यमनवनीताभ्यङ्गकृष्णाजिनप्रावरणादिक्लेशसहिष्णुत्वं तपः। प्राणवत्प्रियस्य गवाश्वादेर्दानमधिकं तपः।
त्रिष्टुभा तदानयनमुपपादयति —
“तस्मात्त्रिष्टुभो लोके माध्यंदिने सवने दक्षिणा नीयन्त एतत्खलु वाव तप इत्याहुर्यः स्वं ददाति” (सं. का. ६ प्र. १ अ. ६) इति।
माध्यंदिनसवनस्य त्रिष्टुगभिमानिनी देवता। ततस्तदेतत्त्रिप्टुभो लोकः स्थानं, शरीरप्रयासादपि धनहानिकृतस्य मानसप्रयासस्याधिकत्वाद्दत्तेन धनेन परोपजीवनाच्च दानमेव महत्तप इत्यभिज्ञानां मतम्।
गायत्र्या युद्धे जयं दर्शयति —
“गायत्र्युदपतच्चतुरक्षरा सत्यजया ज्योतिषा तमस्या अजाऽभ्यरुन्ध तद जाया अजत्व सा सोमं चाऽहरच्चत्वारि चाक्षराणि साऽष्टाक्षरा समपद्यत” ( सं. का. ६ प्र. १ अ. ६) इति।
सहायरहितयोः पूर्वयोः पराजयं दृष्ट्वा गायत्री स्वयमजया सहोदपतत्। सा त्वजा गायत्र्यर्थं स्वकीयेन तेजसा तं सोममभितो रुरोध। तस्माद्रोधनपर्यायक्षेपणार्थादजधातोरजेति नाम निष्पन्नम्।
प्रश्नोत्तराभ्यां गायत्रीं प्रशंसति —
“ब्रह्मवादिनो वदन्ति कस्मात्सत्याद्गायत्री कनिष्ठा छन्दसा सती यज्ञमुखं परीयायेति यदेवादः सोममाहरत्तस्माद्यज्ञमुखं पर्यैत्तस्मात्तेजस्विनीतमा” (सं. का. ६ प्र. १ अ. ६) इति।
सत्यात्कारणात्। कनिष्ठा न्यूनाक्षरा। यज्ञमुखं प्रातःसवनम्। तत्र बहिष्पवमाननाम्नि प्रथमस्तोत्र उपास्मै गायता नर इत्याद्या ऋचो गायत्र्यः। सेयं यज्ञमुखप्राप्तिः। ब्रह्मवादिष्वेव बुद्धिमन्तो यदेवेत्याद्युत्तरमाहुः। यस्मादियमदोऽमुष्माल्लोकात्सोममाहरत्तस्मादस्या मुखप्राप्तिर्युक्ता। मुखत्वादेवास्यास्तेजोबाहुल्यम्।
आहरणप्रकारं दर्शयति —
“पद्भ्यां द्वे सवने समगृह्णान्मुखेनैकं यन्मुखेन समगृह्णात्तदधयत्तस्माद्द्वे सवने शुक्रवती प्रातःसवनं च माध्यंदिनं च तस्मात्तृतीयसवन ऋजीषमभिषुण्वन्ति धीतमिव हि मन्यन्ते” (सं. का. ६ प्र. १ अ. ६) इति।
पक्षिरूपा गायत्री सवनद्वयपर्याप्तौ सोमभागो पद्भ्यां संगृह्य तृतीयसवनपर्याप्तं सोमभागं चञ्चुपुटाभ्यां संदश्य तदीयं रसं पपौ। यस्मात्पद्भ्यां धृतौ सोमभागौ न पीतौ तस्मात्प्रातःसवनमाध्यंदिनसवने शुक्रशब्दाभिधेयेन सोमरसेनोपेते।
यस्मात्तृतीये भागः पीतस्तस्मात्पीतत्वं मन्यमानास्तत्सादृश्यार्थमृजीषमभिषुणुयुरिति प्रासङ्गिके किंचिद्विधाय तत्रापरं
विशेषं विधत्ते —
“आशिरमवनयति सशुक्रत्वायाथो संभरत्येवैनत्” [सं. का. ६ प्र. १ अ. ६] इति।
आशिरं क्षीरम्। सशुकत्वं सरसत्वम्। किंच क्षीरसेचनादृजीषगतसोमरसरूपहविः संभरति सम्यक्पोषयत्येव।
पुनरप्यन्यद्विधत्ते —
‘त सोममाह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात्स तिस्त्रो रात्रीः परिमुषितोऽवसत्तस्मात्तिस्रो रात्रीः क्रीतः सोमो वसति’ (सं. का. ६ प्र. १ अ. ६) इति।
उपसद्दिवसेषु त्रिष्वभिषवमकृत्वा सोमं निवासयेदित्यर्थः।
इत्थं सोमाहरणं निरूप्य सोमक्रयणीं निरूपयितुमारभते —
‘ते देवा अब्रुवनस्त्रीकामा वै गन्धर्वाः स्त्रिया निष्क्रीणामेति ते वाच स्त्रियमेकहायनीं कृत्वा तया निरक्रीणन्’ (सं. का. ६ प्र. १ अ. ६) इति।
एकसंवत्सरवयस्कया स्त्रीरूपया वाग्देवतया सोमस्य निष्क्रयः कृतः।
गन्धर्वेष्वपरक्तायास्तस्याः स्त्रिया रोहितगोरूपतां दर्शयति —
‘सा रोहिद्रूपं कृत्वा गन्धर्वेभ्योऽपक्रम्यातिष्ठत्तद्रोहितो जन्म’ (सं. का. ६ प्र. १ अ. ६) इति।
देवेष्वनुरक्तायाः पुनर्देवताप्राप्तिं दर्शयति –
‘ते देवा अब्रुवन्नप युष्मदक्रमीन्नास्मानुपावर्तते विह्वयामहा इति ब्रह्म गन्धर्वा अवदन्नगायन्देवाः सा देवान्गायत उपावर्तत तस्माद्गायन्त स्त्रियः कामयन्ते’ (सं. का. ६ प्र. १ अ. ६) इति।
विह्वयामहै विलक्षणं यथा भवति तथैवाऽऽकारयामः। ब्रह्म वेदः।
एतद्वृत्तान्तवेदनं प्रशंसति —
‘कामुका एन स्त्रियो भवन्ति य एवं वेदाथो य एवंविद्वानपि जन्येषु भवति तेभ्य एव ददत्युत यद्बहुतया भवन्ति’ (सं. का. ६ प्र. १ अ. ६) इति।
वरस्य स्निग्धा वरार्थं कन्यामन्वेष्टुं प्रवृत्ता बान्धवा जन्याः। तादृशानां जन्यानां द्वौ वर्गौ। तत्रैकस्मिन्वर्गे यथोक्तवेदनरहिता अनेकगुणान्तरोपेता बहवोवरा यद्यपि सन्ति तथाऽपि तं वर्गमुपेक्ष्य येषु जन्येष्वेकोऽप्येवं विद्वान्वरो भवति तेभ्य एव जन्येभ्यः कन्यां तत्पितरो ददति।
सोमक्रयण्यां गुणं विधत्ते —
“एकहायन्या क्रीणाति वाचैवैन सर्वया क्रीणाति तस्मादेकहायना मनुष्या वाचं वदन्ति” (सं. का. ६ प्र. १ अ. ६) इति।
वाग्देवतायाः सोमक्रयणीरूपस्वीकारात्सर्वया वाचा क्रय उपपद्यते। एकसंवत्सरस्वीकारश्च तस्मिन्वयसि सति वदनव्यवहारोपक्रमात्।
वर्ज्यदोषान्विशदयति —
‘अकूटयाऽकर्णयाऽकाणयाऽश्लोणयाऽसप्तशफया क्रीणाति” (सं. का. ६ प्र. १ अ. ६) इति।
कूटा कुटिलशृङ्गी। कर्णा छिन्नकर्णोपेता। काणा त्वेकाक्षी। श्लोणा कुष्ठादिदूषिता। सप्तशफा न्यूनाङ्गी। एता वर्ज्याः।
उपादेयां दर्शयति —
‘सर्वयैवैनं क्रीणाति’ (सं. का. ६ प्र. १ अ. ६) इति।
सर्वाऽवयवसंपूर्णेत्यर्थः।
विपक्षबाधपुरःसरं स्वपक्षं विधत्ते —
‘यच्छ्वेतया क्रीणीयाद्दुश्चर्मा यजमानः स्याद्यत्कृष्णयाऽनुस्तरणी स्यात्प्रमायुको यजमानः स्याद्यद्द्विरूपया वार्त्रघ्नी स्यात्स वाऽन्यं जिनीयात्तं वाऽन्यो जिनीयादरुणया पिङ्गाक्ष्या क्रीणात्येतद्वै सोमस्य रूप स्वयैवैनं देवतया क्रीणाति’ (सं. का. ६ प्र. १ अ. ६) इति।
मृतं पुरुषमनु हन्यमाना गौरनुस्तरणी। कृष्णायास्तादृक्त्वेन यजमानो म्नियेत। वर्णद्वयोपेता यद्यापि विरोधिघातिनी तथाऽपि यजमानतद्वैरिणोरन्योन्यविरोधित्वात्को हन्ति को वा हन्यत इति न ज्ञायते। अरुणत्वं पिङ्गाक्षत्वं च सोमदेवतायाः स्वरूपम्। अतस्तादृशी गौः सोमक्रयाय सदृशी भवति।
इत्थं चतुर्थानुवाकोक्तमन्त्रव्याख्यानस्योपोद्घातत्वेन ब्राह्मणेन प्रायणीयासोमक्रयण्यावनुवाकभ्यामभिहिते। अथ मन्त्रा व्याख्यातव्याः।
आधानब्राह्मणोक्तं हिरण्यस्य महिमानं तत्रत्यपदत्रयोच्चारणेन प्रत्यभिज्ञाप्य प्रशंसति —
“तद्धिरण्यमभवत्तस्मादद्भ्यो हिरण्यं पुनन्ति” [सं. का. ६ प्र. १ अ. ७] इति।
आधानब्राह्मणे त्वेवमाम्नायते —
आपो वरुणस्य पत्नय आसन्। ता अग्निरभ्यध्यायत्। ताः समभवन्। तस्य रेतः परापतत्। तद्धिरण्यमभवत्” इति।
तस्माद्धिरणस्य वह्निः पिता आपो मातरः। तस्मात्स्वतःशुद्धं हिरण्यं यदि कदाचिद्रजस्वलादिस्पर्शेन शोधनीयं भवति तदाऽद्भ्यः पुनन्ति जलेनैव शोधयन्ति न तु कांस्यताम्रादेरिव भस्माग्न्यदिकमपेक्षन्ते।
जुह्वां हिरण्यप्रक्षेपेण विशिष्टं होमं विधत्ते —
“ब्रह्मवादिनो वदन्ति कस्मात्सत्यादनस्थिकेन प्रजाः प्र वीयन्तेऽस्थन्वतीर्जायन्त इति यद्धिरण्यं घृतेऽवधाय जुहोति तस्मादनस्थिकेन प्रजाः प्र वीयन्तेऽस्थन्वतीर्जायन्ते” [सं. का. ६ प्र. १ अ. ७] इति।
तस्मादनस्थिकेन वीर्येण प्रजाः प्रवीयन्ते गर्भाः क्रियन्ते। उत्पत्तिकाले त्वस्थियुक्ता जायन्ते। तत्र वीर्यसदृशमाज्यमस्थिसदृशं हिरण्यम्। तदिदं सादृश्यं निर्वोढुमीश्वरेणास्थि निर्मीयत इत्यर्थः।
वह्निसंबन्धबोधनपरतया मन्त्रं व्याचष्टे —
“एतद्वा अग्नेः प्रियं धाम यद्घृतं तेजो हिरण्यमियं ते शुक्र तनूरिदं वर्च इत्याह सतेजसमैवैन सतनुं करोत्यथो स भरत्येवैनम्” [सं. का. ६ प्र. १ अ. ७] इति।
एनमग्निं संभरति सम्यक्करोत्येव। वह्निसंबोधनेन तदीयतेजोरूपेण हिरण्यमत्र प्रकाश्यते।
हिरण्यस्य सूत्रेण बन्धनं विधत्ते —
“यदबद्धमवदध्याद्गर्भाः प्रजानां परापातुकाः स्युर्बद्धमव दधाति गर्भाणां धृत्यै” [सं. का. ६ प्र. १ अ. ७] इति।
सूत्राग्राकर्षणेन यथा सहसा मुच्यते तथा बध्नीयादिति विशेषं विधत्ते —
“निष्टर्क्यं बध्नाति प्रजानां प्रजननाय” (सं. का. ६ प्र. १ अ. ७) इति।
निःशेषेण सहसा मोचनयोग्यं निष्टर्क्यम्।
यथोक्तार्थं मन्त्रे दर्शयति —
“वाग्वा एवा यत्सोमक्रयणी जूरसीत्याह यद्धि मनसा जवते तद्वाचा वदति धृता मनसेत्याह मनसा हि वाग्धृता जुष्टा विष्णव इत्याह यज्ञो वै विष्णुर्यज्ञायैवैनां जुष्टां करोति तस्यास्ते सत्यसवसः प्रसव इत्याह सवितृप्रसूतामेव वाचमवरुन्धे” (सं. का. ६ प्र. १ अ. ७) इति।
जवते तूर्णं कर्तव्यमित्यवगच्छति।
एतदभिप्रायं दर्शयति —
“काण्डेकाण्डे वै क्रियमाणे यज्ञ रक्षासि जिघासन्त्येषु खलु वा अरक्षोहतः पन्था योऽग्नेश्च सूर्यस्य च सूर्यस्य चक्षुराऽरुहमग्नेरक्ष्णः कनीनिकामित्याह य एवारक्षोहतः पन्थस्त समारोहति” (सं. का. ६ प्र. १ अ. ७) इति।
काण्डेकाण्डे तत्तदुपाङ्गयुक्त एकैकस्मिन्यज्ञाङ्गे।
यथोक्तमर्थं मन्त्रे दर्शयति —
“वाग्वा एषा यत्सोमक्रयणी चिदसि मनाऽसीत्याह शास्त्येवैनामेतत्तस्माच्छिष्टाः प्रजा जायन्ते” (सं. का. ६ प्र. १ अ. ७) इति।
एतेन मन्त्रेण वागात्मिकां सोमक्रयणीं चिदादिशब्दवाच्या भवेत्येवमनुशास्ति। यस्मादेवं तस्माल्ँ लोकेऽपि प्रजा अनुशिष्यन्ते।
कृत्स्नशस्तात्पर्यमुक्त्वा प्रत्यवयवं व्याचष्टे —
चिदसीत्याह यद्धि मनसा चेतयते तद्वाचा वदति मनाऽसीत्याह यद्धि मनसाऽभिगच्छति तत्करोति धीरसीत्याह यद्धि मनसा ध्यायति तद्वाचा वदति दक्षिणाऽसीत्याह दक्षिणा ह्येषा यज्ञियाऽसीत्याह यज्ञियामेवैनां करोति क्षत्त्रियाऽसीत्याह क्षत्त्रिया ह्येषाऽदितिरस्युभयतःशीर्ष्णीत्याह यदेवाऽऽदित्यः प्रायणीयो यज्ञानामादित्य उदयनीयस्तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ७) इति।
मनसा वृत्तित्रयसाधारणेनान्तःकरणेन चेतयते सामान्यतो जानात्यभिगच्छति विचारयति ध्यायति निश्चिनोति। उत्तरमन्त्रस्यायमर्थः। हे सोमक्रयणि मित्रो हितकारी देवस्त्वां दक्षिणे पादे बध्नातु।
एतन्मन्त्रविरुद्धं पक्षत्रयं व्यावर्तयन्मन्त्रं व्याचष्टे —
“यदबद्धा स्यादयता स्याद्यत्पदिबद्धाऽनुस्तरणी स्यात्प्रमायुको यजमानः स्याद्यत्कर्णगृहीता वार्त्रघ्नी स्यात्स वाऽन्यं जिनीयात्तं वाऽन्यो जिनीयान्मित्रस्त्वा पदि बध्नात्वित्याह मित्रो वै शिवो देवानां तेनवैनां पदि बध्नाति” (सं. का. ६ प्र. १ अ. ७) इति।
अत्र पादबन्धनं कर्णग्रहणं चामन्त्रकमङ्गी चकरेत्यविरोधः। अथवा, अकर्णगृहीता, अपदिबद्धेति पदच्छेदः। तृतीयमन्त्रस्यायमर्थः — हे सोमक्रयणि त्वां पूषा पोषको देवो भयोपेतान्मार्गात्पालयतु। यागध्यक्षायेन्द्राय त्वां सोमक्रयसाधनेन मातृ(ता)पित्रादयोऽनुमन्यन्ताम्। सगर्भ्यस्त्वया सहैकस्मिन्गर्भेऽवस्थितः। हे देवि सा त्वमिन्द्रार्थं सोमं देवमनुगच्छ। तां त्वां रुद्रो देवोऽस्मान्प्रति पुनरावर्तयतु। आवर्तयन्नपि न रौद्रेण मार्गेण किंतु मित्रस्य पथा। ततस्ते स्वस्ति सुखं भवतु। सोमः सखा यस्यास्तव सा त्वं सोमसखा भूत्वा धनेन सहास्मान्प्रति पुनरागच्छ। अत्र रुद्रस्त्वेत्यादिना पृथङ्मन्त्रेण सोमक्रयादूर्ध्वमेतस्याः प्रत्यावर्तनमिति केचित्।
मन्त्रस्य भागान्क्रमेण व्याचष्टे —
“पूषाऽध्वनः पात्वित्याहेयं वै पूषेमामेवास्या अधिपामकः समष्ट्या इन्द्रायाध्यक्षायेत्याहेन्द्रमेवास्या अध्यक्षं करोति अनु त्वा माता मन्यतामनु पितेत्याहानुमतयैवैनया क्रीणाति सा देवि देवमच्छेहीत्याह देवी ह्येषा देवः सोम इन्द्राय सोममित्याहेन्द्राय हि सोम आह्रियते यदेतद्यजुर्न ब्रूयात्पराच्येव सोमक्रयणीयाद्रुद्रस्त्वाऽऽवर्तयत्वित्याह रुद्रो वै क्रूरो देवानां तमेवास्यै परस्ताद्दधात्यावृत्त्यै क्रूरमिव वा एतत्करोति यद्रुद्रस्य कीर्तयति मित्रस्य पथेत्याह शान्त्यै वाचा वा एष वि क्रीणीते यः सोमक्रयण्या स्वस्ति सोम सखा पुनरेहि सह रय्येत्याह वाचैव विक्रीय पुनरात्मन्वाचं धत्तेऽनुपदासुकाऽस्य वाग्भवति य एवं वेद” (सं. का. ६ प्र. १ अ. ७) इति।
समष्ट्यै सम्यक्प्राप्तये। एतद्रुद्रस्ये(स्त्वे)ति यजुः। तमेव क्रूरं रुद्रम्। अस्याः सोमक्रयण्या आवृत्तये परस्तात्तामतिलङ्घ्य परभागे स्थापयति। अनुपदासुका क्षयरहिता तदेतद्वेतनस्य प्रशंसनम्।
मन्त्रान्व्याख्यातुमादावनुष्ठानं विधत्ते —
‘षट्पदान्यनु नि क्रामति षडहं वाङ्नाति वदत्युत संवत्सरस्यायने यावत्येव वाक्तामवरुन्धे’ (सं. का. ६ प्र. १ अ. ८) इति।
आस्ति कश्चित्पृष्ठ्यः षडहाख्यो यागः। तत्र षड्विधानि स्तोत्राणि बृहद्रथंतरवैरूपवैराजशक्वररैवतनामकैः सामभिः साध्यानि। तानि च क्रमेण षट्सु दिनेषु गीयन्ते। न तु सप्तमं पृष्ठ्यस्तोत्रं किंचिदप्यस्ति। ततः प्रधानभूतपृष्ठ्यस्तोत्ररूपा वाग्देवता षडहगतां संख्यामतीत्य न क्वापि वदति। अपि च संवत्सरकालसंबन्धिनि गवामयनेऽपि नाधिकं पृष्ठ्यस्तोत्रं वदति। तस्माद्वाग्रूपायाः सोमक्रयण्याः षट्पदानामनुक्रमणं युक्तम्। तस्माद्वाग्रूपत्वादेव सर्वं वाचमवरुन्धे।
विधत्ते —
“सप्तमे पदे जुहोति सप्तपदा शक्वरी पशवः शक्वरी पशूनेवाव रुन्धे सप्त ग्राम्याः पशवः सप्ताऽऽरण्याः सप्त छन्दास्युभयस्यावरुद्ध्यै” (सं. का. ६ प्र. १ अ. ८) इति।
गवादयो ग्राम्याः। कृष्णमृगादय आरण्याः। तथा च बौधायनः – “सप्त ग्राम्याः पशवोऽजाश्वो गौर्महिषी वराहो हस्त्यश्वतरी चेत्यथ सप्ताऽऽरण्या द्विखुराश्चैकखुराश्च पक्षिणश्च सरीसृपाश्च श्वापदश्च शरभाश्च मर्कटाश्च” इति। गायत्री त्रिष्टुबित्यीदीनि सप्त छन्दांसि। पशुजातीयं छन्दोजातीयं चेत्युभयमपि सप्तसंख्ययाऽवरुध्यते।
प्रथममन्त्रगतशब्दस्वरूपेणैव सोमक्रयण्या महिमाऽऽख्यायत इत्याह —
“वस्व्यसि रुद्राऽसीत्याह रूपमेवास्या एतन्महिमानं व्याचष्टे” (सं. का. ६ प्र. १ अ. ८) इति।
द्वितीयमन्त्रे बृहस्पतिशब्दमा चिकेत्विति शब्दं व्याचष्टे —
“बृहस्पतिस्त्वा सुम्ने रण्वत्वित्याह ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै पशूनव रुन्धे रुद्रो वसुभिरा चिकेत्वित्याहाऽऽवृत्त्यै” (सं. का. ६ प्र. १ अ. ८) इति।
तृतीयमन्त्रार्थस्य प्रसिद्धिं दर्शयति-
“पृथिव्यास्त्वा मूर्धन्ना जिघर्मि देवयजन इत्याह पृथिव्या ह्येष मूर्धा यद्देवयजनमिडायाः पद इत्याहेडायै ह्येतत्पदं यत्सोमक्रयण्यै घृतवति स्वाहेत्याह यदेवास्यै पदाद्घृतमपीड्यत तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ८) इति।
सोमक्रयणीपदे हिरण्यप्रक्षेपं विधत्ते —
“यदध्वर्युरनग्नावाहुतिं जुहुयादन्धोऽध्वर्युः स्याद्रक्षासि यज्ञ हन्युर्हिरण्यमुपास्य जुहोत्यग्निवत्येव जुहोति नान्धोऽध्वर्युर्भवति न यज्ञ रक्षासि घ्नन्ति” (सं. का. ६ प्र. १ अ. ८) इति।
रक्षसः प्रसक्तिं पूर्वोक्तां स्मारयन्मन्त्रं व्याचष्टे –
“काण्डेकाण्डे वै क्रियमाणे यज्ञ रक्षासि जिघासन्ति परिलिखित रक्षः परिलिखिता अरातय इत्याह रक्षसामपहत्या इदमह रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तयोरेवानन्तरायं ग्रीवाः कृन्तति” (सं. का. ६ प्र. १ अ. ८) इति।
अनन्तरायं द्वयोर्मध्य एकतरस्याप्यन्तरायो यथा न भवति तथेत्यर्थः।
अनुष्ठानविधिपुरःसरं मन्त्रान्व्याचष्टे —
“पशवो वै सोमक्रयण्यै पदं यावत्त्मूत सं वपति पशूनेवाव रुन्धेऽस्मे राय इति सं वपत्यात्मानमेवाध्वर्युः पशुभ्यो नान्तरेति त्वे राय इति यजमानाय प्र यच्छति यजमान एव रयिं दधाति तोते राय इति पत्निया अर्थो वा एष आत्मनो यत्पत्नी यथा गृहेषु निधत्ते तादृगेव तत्” (सं. का. ६ प्र. १ अ. ८) इति।
“त्वष्टीमती ते सपेयेत्याह त्वष्टा वै पशूनां मिथुनाना रूपकृद्रूपमेव पशुषु दधाति” (सं. का. ६ प्र. १ अ. ८) इति।
एतस्य सोमक्रयणीपदरजसस्तृतीयं भागं गार्हपत्ये प्रक्षिपेत्, भागान्तरमाहवनीय इति विधत्ते —
“अस्मै वै लोकाय गार्हपत्य आ धीयतेऽमुष्मा आहवनीयो यद्गार्हपत्य उपवपेदस्मिल्ँ लोके पशुमान्त्स्याद्यदाहवनीयेऽमुष्मिल्ँ लोके पशुमान्त्स्यादुभयोरुप वपत्युभयोरेवैनं लोकयोः पशुमन्तं करोति” (सं. का. ६ प्र. १ अ. ८) इति।
एतं मन्त्रं व्याचिख्यासुरादौ सोमविक्रियणं प्रत्यध्वर्योः प्रैषमन्त्रमुत्पादयति — “ब्रह्मवादिनो वदन्ति। विचित्यः सोमा३ न विचित्या३ इति। सोमो वा ओषधीना राजा तस्मिन्यदापन्नं ग्रसितमेवास्य तद्यद्विचिनुयाद्यथाऽऽस्याद्ग्रसितं निष्खिदति तादृगेव तद्यन्न विचिनुयाद्यथाऽक्षन्नापन्नं विधावति तादृगेव तत्क्षोधुकोऽध्वर्युः स्यात्क्षोधुको यजमानः सोमविक्रयिन्त्सोम शोधयेत्येव ब्रूयाद्यदीतरं यदीतरमुभयेनैव सौमविक्रयिणमर्पयति तस्मात्सोमविक्रयी क्षोधुकः” [सं. का. ६ प्र. १ अ. ९] इति।
विचयो नाम सोमस्य तृणादेरपनयनम्। तस्मिन्नोषधीनां राज्ञि सोमे यत्तृणादिकमापन्नं पतितं तत्तृणादिकमस्य सोमस्य ग्रसितमेव ग्रास एव भवति। तथा सति यदि विचिनुयात्तृणादिकमपनयेत्तदानीं यथा लोके ग्रसितमन्नं निष्खिदति मक्षिकाद्युपद्रवेण वमति तत्तृणाद्यपनयनं तादृक्स्यात्। यदि न विचिनुयात्तदानीं यथा चक्षुषि पतितमितस्ततो विधावनेन व्यथां जनयति तदविवेचनं तादृक्स्यात्। ततो दोषद्वयपरिहाराय सोमविक्रयिन्नित्यादिप्रैषमन्त्रं ब्रूयात्। तस्मिन्नुक्ते सति यदीतरमितरो विचयदोषः, यदीतरं त्वविचयदोषस्तेनोभयेन दोषेण सोमविक्रयिणमेव योजयति। तस्मादसौ क्षोधुको न रक्षितो भवेत्।
यथोक्तं कर्म विधत्ते —
“अरुणो ह स्माऽऽहौपवेशिः सोमक्रयण एवाहं तृतीयसवनमव रुन्ध इति पशूनां चर्मन्मिमीते पशुनेवाव रुन्धे पशवो हि तृतीय सवनम्” (सं. का. ६ प्र. १ अ. ९) इति।
अरुणनामकः कश्चिदुपवेशस्य पुत्रः पशुचर्मणि सोम मिमीते। अत्रैव हि तृतीयसवनं संपदयिष्यामिति तस्याभिप्रायः। सवनीयानुबन्ध्याख्ययोः पश्वोस्तृतीयसवने सद्भावात्पशवस्तृतीयसवम्। अतः पशुचर्मणा तत्प्राप्तिः सोमोन्मानं तत्र कुर्यादित्यर्थः।
चर्मण उत्तरलोमास्तरणं विधत्ते —
“यं कामयेतापशुः स्यादित्यृक्षतस्तस्य मिमीतर्क्षं वा अपशव्यमपशुरेव भवति यं कामयेत पशुमान्त्स्यादिति लोमतस्तस्य मिमीतैतद्वै पशूना रूप रूपेणैवास्मै पशूनव रुन्धे पशुमानेव भवति” (सं. का. ६ प्र. १ अ. ९) इति।
ऋक्षतो रूक्षे परुषे निर्लोमभागे। लोमतः सलोमभागे।
उदकुम्भसंनिधिं विधत्ते —
“अपामन्ते क्रीणाति सरसमेवैनं क्रीणाति” (सं. का. ६ प्र. १ अ. ९) इति।
मन्त्रे दुर्बोधभागं व्याचष्टे —
“अमात्योऽसीत्याहामैवैनं कुरुते शुक्रस्ते ग्रह इत्याह शुक्रो ह्यस्य ग्रहः” (सं. का. ६ प्र. १ अ. ९) इति।
अमैव सहैव स्थित इत्यर्थः सोमस्वीकारः शुक्रो हि सुवर्णसाध्यो हीत्यर्थः।
शकटेन सह सोमं प्राप्तुं गच्छेदिति विधत्ते —
“अनसाऽच्छ याति महिमानमेवास्याच्छ याति” (सं. का. ६ प्र. १ अ. ९) इति।
शकटरूपेण बहुमानेन सोमस्य महिमा प्रकाशितो भवति।
तमेव विधिमनूद्य प्रशंसति —
“अनसाऽच्छ याति तस्मादनोवाह्य समे जीवनम्” (सं. का. ६ प्र. १ अ. ९) इति।
समे प्रदेशे जीवनसाधनं धान्यं शकटवाह्यं तद्वत्सोमः।
विषमे तु प्रदेशे शिरसा सोमवाहनं विधत्ते —
“यत्र खलु वा एत शीर्ष्णा हरन्ति तस्माच्छीर्षहार्यं गिरौ जीवनम्” (सं. का. ६ प्र. १ अ. ९) इति।
यत्र यदा पर्वते सोमलतोत्पत्तिप्रदेशे सोमं क्रीणन्ति तदेति शेषः। लोकेऽपि दुर्गमे गिरौ धान्यं शिरसा वहन्ति।
एतस्यामृचि वर्तमानं छन्दः प्रशंसति —
“अभित्यं देव सवितारमित्यतिच्छन्दसर्चा मिमीतेऽतिच्छन्दा वै सर्वाणि छन्दासि सर्वेभिरेवैनं छन्दोभिर्मिमीते वर्ष्म वा एषा छन्दसां यदतिच्छन्दा यदतिच्छन्दसर्चा मिमीते वर्ष्मैवैन समानानां करोति” (सं. का. ६ प्र. १ अ. ९) इति।
अक्षराधिक्येन गायत्र्यादीनि च्छन्दांस्यतिक्रम्य वर्तत इत्यतिच्छन्दाः वर्ष्म शरीरम्।
अङ्गुलीषु प्रकारविशेर्ष विधत्ते —
“एकयैकयोत्सर्गं मिमीतेऽयातयाम्नियायातयाम्नियैवैनं मिमीते तस्मान्नानावीर्या अङ्गुलयः” [सं. का. ६ प्र. १ अ. ९] इति।
उत्सर्गमुत्सृज्योत्सृज्य कनिष्ठिकैव प्रथमपर्यायेऽनामिकैव द्वितीये मध्यमैव तृतीये तर्जन्येव चतुर्थे। एवं सति सकृत्प्रवृत्ताया अङ्गुल्याः पुनः प्रवृत्त्यभावाद्यातयामत्वं गतरसत्वं न भविष्यति। यस्मात्पर्यायेण प्रवृत्तास्तस्मात्प्रत्येकमङ्गुष्ठेन संयोक्तुं पृथक्सामर्थ्येऽर्पिताः।
अङ्गुष्ठस्य पर्यायो नास्तीत्यमुमर्थं विधत्ते —
“सर्वास्वङ्गुष्ठमुप निगृह्णाति तस्मात्समावद्वीर्योऽन्याभिरङ्गुलिभिस्तस्मात्सर्वा अनु सं चरति” (सं. का. ६ प्र. १ अ. ९) इति।
कनिष्ठिकादिषु सर्वास्वङ्गुलीषु प्रत्येकमङ्गुष्ठं संयोजयेत्। समावद्वीर्यस्तुल्यसामार्थ्यः। तस्माल्लोकव्यवहारेऽपि प्रत्येकं सर्वा अङ्गुलीरनुसंचरति।
विपक्षबाधकपूर्वकं पूर्वोक्तं स्वपक्षमुपसंहरति —
“यत्सह सर्वाभिर्मिमीत सश्लिष्टा अङ्गुलयो जायेरन्नेकयैकयोत्सर्गं मिमीते तस्माद्विभक्ता जायन्ते” (सं. का. ६ प्र. १ अ. ९) इति।
समन्त्रकामन्त्रकयोः सोमोन्मानयोरावृत्तिसंख्यां विधत्ते —
“पञ्च कृत्वो यजुषा मिमीते पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे पञ्च कृत्वस्तूष्णीं दश सं पद्यन्ते दशाक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव रुन्धे यद्यजुषा मिमीते भूतमेवाव रुन्धे यत्तूष्णीं भविष्यत्” (सं. का. ६ प्र. १ अ. ९) इति।
यद्यपि अतिच्छन्दसर्चेत्याम्नानात्पदार्थरूपस्य लक्षणस्य सद्भावाच्चाभित्यमित्येषर्गेव तथाऽपि युज्यते प्रयुज्यत इति व्युत्पत्तिमभिप्रेत्य यजुषेत्युक्तम्। अङ्गुष्ठस्य क्रमेण कनिष्ठिकादिभिः सह चत्वारः पर्यायाः। समन्त्रके प्रयोगे
कनिष्ठिकाव्यतिरिक्तया कयाचित्सह पञ्चमः पर्यायः अमन्त्रके तु कनिष्ठिकयैव सह।
अवशेषणे बाधं ब्रुवन्यथोक्तं समूहनादिकं विधत्ते —
“यद्वै तावानेव सोमः स्याद्यावन्तं मिमीते यजमानस्यैव स्यान्नापि सदस्यानां प्रजाभ्यस्त्वेत्युप समूहति सदस्यानेवान्वाभजति वाससोप नह्यति सर्वदेवत्यं वै वासः सर्वाभिरेवैनं देवताभिः समर्थयति पशवो वै सोमः प्राणाय त्वेत्युपनह्यति प्राणमेव पशुषु दधाति व्यानाय त्वेत्यनु शृन्थति व्यानमेव पशुषु दधाति तस्मात्स्वपन्तं प्राणा न जहति” (सं. का. ६ प्र. १ अ. ९) इति।
दशकृत्वोङ्गुलिभिर्मितात्सोमस्यानाधिक्ये सत्येतस्मिन्सदस्यवस्थितानामपि सोमो न स्यान्मन्त्रेण समूहने तु यजमानमनु सदस्यान्सोमं प्रापयति। प्राणव्यानयोः पशुषु स्थापितत्वात्स्वापेऽपि नास्ति प्राणपरित्यागः।
मन्त्रान्व्याचिख्यासुरादावनभिमतं निराकृत्य स्वाभिमतं पणनमन्त्रमुत्पाद्य विनियुङ्क्ते —
‘यत्कलया ते शफेन ते क्रीणानीति पणेतागोअर्घ सोमं कुर्यादगोअर्घं यजमानमगो अर्घमध्वर्युं गोस्तु महिमानं नाव तिरेद्गवा ते क्रीणानीत्येव ब्रूयाद्गोअर्घमेव सोमं करोति गोअर्घं यजमानं गोअर्घमध्वर्युं न गोर्महिमानमव तिरति” [सं. का. ६ प्र. १ अ.१०] इति।
कलाऽल्पादप्यल्पो यः गोऽप्यवयवलेशः। कलया शफेन वा पणने दोषत्रयं स्यात्। सोमो गोरूपं मूल्यं नार्हति। यजमानस्तद्दातुं न शक्नोति। अध्वर्युश्च न दापयतीत्येवं सोमयजमानाध्वर्यवो गोअर्घरहिता इति दोषत्रयम्। किंच सोमो गोमूल्य इत्युक्ते गोर्महिमाऽधिको भवेत्। तं नावजानीयात्। परमते त्वसाववज्ञातो भवेत्। गवा ते क्रीणानीत्यनेन मन्त्रेण सर्वं समाहितं भवति।
यथेयं सोमक्रयणी गौस्तथैवाजादीनि नव द्रव्याणि क्रयसाधनाति क्रमेण विधत्ते —
“अजया क्रीणाति सतपसमेवैनं क्रीणाति हिरण्येन क्रीणाति सशुक्रमेवैनं क्रीणाति धेन्वा क्रीणाति वह्निर्वा अनड्वान्वह्निनैव वह्निं यज्ञस्य क्रीणाति मिथुनाभ्यां क्रीणाति मिथुनस्यावरुद्ध्यै वाससा क्रीणाति सर्वदेवत्यं वै वासः सर्वाभ्य एवैनं देवताभ्यः क्रीणाति दश संपद्यन्ते दक्षाक्षरा विराडन्नं विराड्विराजैवान्नद्यमव रुन्धे” (सं. का. ६ प्र. १ अ.१०) इति।
मन्त्रत्रयं स्पष्टार्थत्वबुद्ध्योपेक्ष्य चतुर्थमन्त्रस्याभिप्रायमाह —
“तपसस्तनूरसि प्रजापतेर्वर्ण इत्याह पशुभ्य एव तदध्वर्युर्निह्नुत आत्मनोऽनाव्रस्काय” (सं. का. ६ प्र. १ अ.१०) इति।
तत्तेन मन्त्रपाठेन पशुभ्योऽजाप्रभृतीन्निह्नुतेऽपलपति। न ह्यजा परमार्थतस्तपसस्तनूर्भवति, नापि प्रजापतेर्वर्णर्णो रूपम्। तेनापलापेनाजोपचरिता भवति। स चोपचारः स्वस्यापराधराहित्याय क्रियते।
पशूपचारवेदनं प्रशंसति –
‘गच्छति श्रियं प्र पशूनाप्नोति य एवं वेद” (सं. का. ६ प्र. १ अ.१०) इति।
दत्तस्य हिरण्यस्य पुनरादानं विधित्सुर्हिरण्यप्रकाशकं द्वितीयमन्त्रं स्पष्टार्थमपि पुनरनुसंधत्ते —
“शुक्रं ते शुक्रेण क्रीणामीत्याह यथायदुरेवैतत्” (सं. का. ६ प्र. १ अ. ५) इति।
पुनरादानं विधत्ते —
“देवा वै येन हिरण्येन सोममक्रीणन्तदभीषहा पुनराऽददत को हि तेजसा विक्रेष्यत इति येन हिरण्येन सोमं क्रीणीयत्तदभीषहा पुनरा ददीत तेज एवाऽऽत्मन्धत्ते” (सं. का. ६ प्र. १ अ. ११) इति।
अभीषहा बलात्कारेण। को हीत्यादिर्तेवाभिप्रायः।
मन्त्रद्वयं व्याचष्टे –
अस्मे ज्योतिः सोमविक्रयिणि तम इत्याह ज्योतिरेव यजमाने दधाति तमसा सोमविक्रयिणमर्पयति” (सं. का. ६ प्र. १ अ. १०) इति।
विपक्षे बाधपुरःसरं ग्रथनमन्त्रमुत्पादयति —
“यदनुपग्रथ्य हन्याद्दन्दशूकास्ता सर्पा स्युरिदपह सर्पाणां दन्दशूकानां ग्रीवा उप ग्रथ्नामीत्याहादन्दशूकास्ता समा सर्पा भवन्ति तमसा सोमविक्रयिणं विध्यति” (सं. का. ६ प्र. १ अ. ५) इति।
कृष्णया विध्येत्। तां समां तं संवत्सरं कृत्स्नम्। इदमहमित्यादिमन्त्रेण सर्पदंशस्य परिहारः।
इमं मन्त्रं व्याचष्टे —
“स्वान भ्राजेत्याहैते वा अमुष्मिल्ँ लोके सोममरक्षन्तेभ्योऽधि सोममाऽहरन्” (सं. का. ६ प्र. १ अ. १०) इति।
अधि अधिकं प्रभूतम्।
विपक्षस्वपक्षयोर्दोषतत्समव[मा]धाने दर्शयति —
“यदेतेभ्यः सोमक्रयणान्नानुदिशेदक्रीतोऽस्य सोमः स्यान्नास्यैतेऽमुष्मिल्ँ लोके सोम रक्षेयुर्यदेतेभ्यः सोमक्रयणाननुदिशति क्रीतोऽस्य सोमो भवत्येतेऽस्यामुष्मिल्ँ लोके सोम रक्षन्ति” (सं. का. ६ प्र. १ अ. १०) इति।
सोमं सोमयागफलम्।
अथ सोमस्वीकारस्य प्राप्तावसरत्वान्मन्त्रं व्याचष्टे —
“वारुणो वै क्रीतः सोम उपनद्धो मित्रो न एहि सुमित्रधा इत्याह शान्त्यै” (सं. का. ६ प्र. १ अ. ११) इति।
बन्धनस्य वरुणपाशरूपत्वात्तद्युक्तः सोमो वारुणः अतो वरुणावक्त्रूरत्वप्राप्तौ तच्छान्तये मित्रत्वं प्रतिपादयति।
ऊरुस्थानं पूर्वाचारप्राप्तमित्याह —
“इन्द्रस्योरुमा विश दक्षिणमित्याह देवा वै य सोममक्रीणन्तमिन्द्रस्योरौ दक्षिण आऽसादयन्नेष खलु वा एतर्हीन्द्रो यो यजते तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ११) इति।
अमृतशब्दानुशब्दयोरर्थमाह —
‘उदायुषा स्वायुषेत्याह देवता एवान्वारभ्योत्तिष्ठति’ (सं. का. ६ प्र. १ अ. ११) इति।
उत्थापनमारभ्य पुनर्भूमौ स्थापनपर्यन्तं सोमोऽन्तरिक्षाधार इत्यभिप्रायं दर्शयति —
‘उर्वन्तरिक्षमन्विहीत्याहान्तरिक्षदेवत्यो ह्येतर्हि सोमः’ (सं. का. ६ प्र. १ अ. ११) इति।
प्रथमद्वितीयमन्त्रयोः स्पष्टार्थतां दर्शयति —
“अदित्याः सदोऽस्यदित्याः सद आ सीदेत्याह यथायजुरेवैतत्” (सं. का. ६ प्र. १ अ. ११) इति।
द्वितीयमन्त्रसाध्यं यदासादनं तदेव तृतीयमन्त्रेणापि कर्तव्यमित्यमुमर्थं हेतूपन्यासपुरःसरं विधत्ते —
“वि वा एनमेतदर्धयति यद्वारुण सन्तं मैत्रं करोति वारुण्यर्चाऽऽसादयति स्वयैवैनं देवतया समर्धयति” (सं. का. ६ प्र. १ अ. ११) इति।
उपनद्धः सोमो वरुणो यद्विषये मित्रो न एहीति मन्त्रं पठन्मैत्रं करोतीति यदस्ति एतैनैनं सोमं व्यर्धयति समृद्धिहीनं करोति, वारुण्यर्चा तु समर्धयति।
अनेन मन्त्रेण कर्तव्यं विधत्ते —
“वाससा पर्यानह्यति सर्वदेवत्यं वै वासः सर्वाभिरेवैनं देवताभिः समर्धयत्यथो रक्षसामपहत्यै” (सं. का. ६ प्र. १ अ. ११) इति।
मन्त्रार्थो लोकप्रसिद्ध इत्याह —
“वनेषु व्यान्तरिक्षं ततानेत्याह वनेषु हि व्यन्तरिक्षं ततान वाजमर्वत्स्वित्याह वाज ह्यर्वत्सु पयो अघ्नियास्वित्याह पयो ह्यघ्नियासु हृत्सु क्रतुमित्याह हृत्सु हि क्रतुं वरुणो विक्ष्वग्निमित्याह वरुणो हि विक्ष्वग्निं दिवि सूर्यमित्याह दिवि हि सूर्य सोममद्रावित्याह ग्रावाणो वा अद्रयस्तेषु वा एष सोमं दधाति यो यजते तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ११) इति।
अद्रिशब्देनात्र पाषाणबहुलो गिरिर्विवक्षितः। पाषाणसंधिषु सोमस्योत्पत्तेः। यजमानस्तेषु सोमं प्राप्नोति।
सौर्यमन्त्रेण रक्षांसि निवार्यन्त इत्याह —
“उदु त्यं जातवेदसमिति सौर्यर्चा कृष्णाजिनं प्रत्यानह्यति रक्षसामपहत्यै” (सं. का. ६ प्र. १ अ. ११) इति।
मन्त्रस्य स्पष्टार्थतामाह —
“उस्रावेतं धूर्षाहावित्याह यथायजुरेवैतत्” (सं. का. ६ प्र. १ अ. ११) इति।
प्रथममन्त्रे यथोक्तमर्थं प्रसिद्धतया स्पष्टयति —
“प्र च्यवस्व भुवस्पत इत्याह भूताना ह्येष पतिर्विश्वान्यभि धामानीत्याह विश्वानि ह्येषोऽभि धामानि प्रच्यवते मा त्वा परिपरी विददित्याह यदेवादः सोममाह्रियमाणं गन्धर्वो विश्ववसुः पर्यमुष्णात्तस्मादेवमाहापरिमोषाय” (सं. का. ६ प्र. १ अ. ११) इति।
पूर्वं गन्धर्वेण सोमस्यापहृतत्वादस्ति तस्करप्रसक्तिस्तस्मान्मा त्वेत्यादिकं वक्तव्यम्।
द्वितीयमन्त्रे स्वस्त्ययनी(नि)शब्देन यज्ञप्राप्तिर्विवक्षितेत्याह —
“यजमानस्य स्वस्त्ययन्यसीत्याह यजमानस्यैवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै” (सं. का. ६ प्र. १ अ. ५) इति।
तृतीयमन्त्रो ब्राह्मणेनोपेक्षितः।
अस्मिन्मन्त्रे वरुणशब्दाभिप्रायमाह —
“वरुणे वा एष यजमानमभ्यैति यत्क्रीतः सोम उपनद्धो नमो मित्रस्य वरुणस्य चक्षस इत्याह शान्त्यै” (सं. का. ६ प्र. १ अ. ११) इति। यः सोम उपनद्ध एव वरुणरूपः सन्यजमानमभिलक्ष्य समागच्छत्यतो वरुणनमस्कारेण तत्त्वत उपद्रवः शाम्यति।
यद्यप्यग्नीषोमीयस्य पशोर्नायमनुष्ठानकालस्तथाऽपि प्रसङ्गात्तं पशुं विधित्सुः प्रसङ्गं तावद्दर्शयति —
“आ सोमं वहन्त्यग्निना प्रति तिष्ठते तौ संभवन्तौ यजमानमभि सं भवतः पुरा खलु वावैष मेधायाऽऽत्मानमारभ्य चरति यो दीक्षितः” (सं. का. ६ प्र. १ अ. ११) इति।
ऋत्विजः प्राचीनवंशगतस्याऽऽहवनीयस्याग्नेः समीपं प्रति सोममानयन्ति। स च सोमोऽग्निना समेत्य प्रतिष्ठितो भवति। तौ चाग्नीषोमौ परस्परं यदा संगच्छेते तदा यजमानमभिलक्ष्य संगतौ भवतः। तदेतदवगम्य किल पुरा यो दीक्षितः स एष यज्ञार्थं स्वात्मानमेवाऽऽलभ्य पशुत्वेनोपाकृत्य प्रचरति। सोऽयं प्रसङ्गः।
इदानीं विधत्ते —
“यदग्नीषोमीयं पशुमालभत आत्मनिष्क्रयण एवास्य सः” (सं. का. ६ प्र. १ अ. ११) इति।
अस्य यजमानस्य पश्वालम्भ आत्मनिष्क्रमणः। पशुं मूल्यत्वेनाग्नीषोमाभ्यां दत्त्वा तेन तयोः स्वभूतमात्मानं निष्क्रीणाति।
अत्र हविःशेषभक्षणं पूर्वपक्षतया निषेधति —
“तस्मात्तस्य नाऽऽश्यं पुरुषनिष्क्रयण इव हि” (सं. का. ६ प्र. १ अ. ११) इति।
यस्मादयं पशुः पुरुषस्य मूल्यमिव तस्मात्तस्य पशोः संबन्धि हविर्न भक्षणीयं तद्भक्षणे मूल्यनाशप्रसङ्गात्।
सिद्धान्तमाह –
“अथो खल्वाहुरग्नीषोमाभ्यां वा इन्द्रो वृत्रमहन्निति यदग्नीषोमीयं पशुमालभते वार्त्रघ्न एवास्य स तस्माद्वाश्यम्” (सं. का. ६ प्र. १ अ. ११) इति।
अथोशब्दः पूर्वपक्षव्यावृत्त्यर्थः। अभिज्ञास्त्वग्नीषोमार्थमिन्द्रो वृत्रं हतवानित्याहुः। अयं वृत्तान्तो द्वितीयकाण्डस्य पञ्चमप्रपाठके त्वष्टा हतपुत्र इत्यस्मिन्ननुवाके प्रपञ्चितः। यस्मादग्नीषोमार्थमिन्द्रो वृत्रं हतवांस्तस्मादग्नीषोमीयपश्वालम्भो यः सोऽस्य यजमानस्य वैरिघाती। तस्मात्तदीयं हविर्भक्षणीयमेव।
प्रासङ्गिकं परिसमाप्य प्रकृतमेव नमो मित्रस्येति मन्त्रं विनियुङ्क्ते —
“वारुण्यर्चा परि चरति स्वयैवैनं देवतया परि चरति” (सं. का. ६ प्र. १ अ. ११) इति।
उपनद्धस्य सोमस्य वरुणो देवता। परिचरणं नमस्काराद्युपचारः। ततो वरुणमन्त्रेण तदनुष्ठानं युक्तम्। अथ प्राग्वंशे सोमपासन्द्यां प्रतिष्टाप्य तस्मिन्काल एवा वन्दस्व वरुणं बृहन्तमित्येतया तत्त्वा यामीत्यनयो वा वारुण्यर्चोपस्थानरूपं परिचरणं कर्तव्यम्।