अग्निचयनार्थानां चतुर्थकाण्डगतानां मन्त्राणं पञ्चमकाण्डे क्रमेणैव ब्राह्मणमाम्नातम् । तत्राऽऽदौ युञ्जान इत्यादिभिर्मन्त्रैर्होमं विधत्ते — “सावित्राणि जुहोति प्रसूत्यै” इति । सविता येषु मन्त्रेषु प्रतीयते तानि सावित्राणि, तैर्होमे सति यजमानं सविता कर्मणि प्रसौति । द्रव्यं विधत्ते — “चतुर्गृहीतेन जुहोति चतुष्पादः पशवः पशूनेवाव रुन्धे” इति । चतुःसंख्यां पुनः प्रशंसति - “चतस्रो दिशो दिक्ष्वेत प्रतितिष्ठति” इति ।
पुनरपि प्रकारान्तरेण प्रशंसति — “छन्दाँसि देवेभ्योऽपाक्रामन्न वोऽभागानि हव्यं वक्ष्याम इति । तेभ्य एतच्चतुर्गृहीतमधारयन्पुरोनुवाक्यायै याज्यायै देवतायै वषट्काराय यच्चतुर्गृहीतं जुहोति छन्दाँस्येव तत्प्रीणाति तान्यस्य प्रीतानि देवेभ्यो हव्यं बहन्ति” इति । नानाविधच्छन्दोयुक्तपुरोनुवाक्याद्यभिमानिनो देवा हविर्भाग्म्यो देवेभ्योऽपरक्ताः सन्तोऽन्यत्रागच्छन् । किं ब्रुवन्तो गता इति, तदुच्यते — हे देवा भागरहितानि वयं छन्दांसि वो युष्मदीयानि हवींषि न वक्ष्यामो हविर्वहनं न करिष्याम इति ब्रुवन्तः । तदानीं देवा विचार्य होमकाले यच्चतुर्ग्रहणं तच्छन्दसां प्रीतिकरं भवत्विति तेषां भागमकल्पयन् । तत्र प्रथमग्रहणं पुरोनुवाक्याख्याया गायत्रीदेवतायास्तुष्टिकरं, द्वितीयग्रहणं याज्याख्यायास्त्रिष्टुब्देवतायास्तुष्टिकरं, तृतीयग्रहणं देवताख्याया जगतीदेवतायास्तुष्टिकरं, चतुर्थग्रहणं वषट्काराख्याया अनुष्टुब्देवतायास्तुष्टिकरम् । अतश्चतुर्गृहीतेन होमे सति च्छन्दोदेवताः प्रीणयति । ताश्च प्रीताः सत्यो हव्यं वहन्ति । सूत्रकारेण तु शाखान्तरमाश्रित्याष्टगृहीतत्वमुक्तम् ।
अत्रेदं चिन्तनीयम् - किमेकैकं मन्त्रमुच्चार्य जुहुयात्, आहोस्वित्सर्वाणि मन्त्राण्युच्चार्येति । तत्र हेयोपादेयावुभौ पक्षौ क्रमेण दर्शयति “यं कामयेत पापीयान्त्स्यादित्येकैकं तस्य जुहुयादाहुतीभिरेवैनमप गृह्णाति पापीयान्भवति, यं कामयेत वसीयान्त्स्यादिति सर्वाणि तस्यानुद्रुत्य जुहुयादाहुत्यैवनैमभि क्रमयति वसीयान्भवत्यथो यज्ञस्यैवैषाऽभिक्रान्तिः” इति ।
पापीयानतिशयेन पापो दरिद्र इत्यर्थः । एकैकं मन्त्रमुच्चार्य होमे सति संश्लेषाभावात्परस्परमपरक्ताभिराहुतीभिरेनं यजमानमगृह्णाति धनादपेतं करोति । ततो दरिद्रो भवति । वसीयान्वसुमत्तरः । सर्वाण्युच्चार्य होमे तु मन्त्राणां परस्परसंश्लेषादेकयैवाऽऽहुत्या यजमानमभिक्रमयति अभिव्याप्तं करोति । ततो धनिको भवति । अपि च येयमभिक्रमणहेतुरेकाऽऽहुतिरेषा यज्ञस्यैवाग्निचयनरूपस्यैवाभिक्रान्तिः स्वाधीनो यज्ञो भवति । मन्त्रागतामष्टसंख्यां प्रशंसति — “एति वा एष यज्ञमुखादृद्ध्या योऽग्नेर्देवताया एत्यष्टावेतानि सावित्राणि भवन्त्यष्टाक्षरा गायत्री गायत्रोऽग्निस्तेनैव यज्ञमुखादृद्ध्या अग्नेर्देवतायै नैति” इति ।
यो यजमानोऽग्निरूपाया देवताया एत्यपगच्छति एष यजमानो यज्ञोपक्रमादारभ्य यज्ञफलरूपाया ऋद्ध्या एत्यपगच्छति । अग्निर्वै यज्ञमुखमिति श्रुत्यन्तरादग्नेरपगम एव यज्ञमुखादपगमः । कस्तर्ह्यग्नेः सकाशादपगमस्य परिहार इति, तदुच्यते — प्रारम्भे सावित्राणां मन्त्राणामष्टत्वे सत्यष्टाक्षरा गायत्री संपद्यते । अग्निश्च गायत्रः । उभयोर्मुखजन्यत्वात् । ततो गायत्रीसंपत्तिरेवाग्निसंपत्तिरिति यज्ञमुखादग्निरूपादनपेतः सन्समृद्धेरपि नापैति ।
अष्टमन्त्रोपेतामेकामाहुतिं प्रशंसति “अष्टौ सावित्राणि भवन्त्याहुतिर्नवमी त्रिवृत्तमेव यज्ञमुखे वि यातयति” इति ।
त्रिवृत्स्तोमे ह्यृचो नवसंख्याका अतोऽत्राष्टमन्त्रविशिष्टाहुतिगतया नवसंख्याया त्रिवृत्स्तोममेव यज्ञमुखे वियातयति विशेषेण प्रसारितवान्भवति ।
अत्रेदमपरं चिन्तनीयम् - किमृग्रूपान्षण्मन्त्रानुच्चार्येमं नो देव सवितरिति यजुः सप्तमं कृत्वा पश्चाद्देव सवितरित्यृचमन्तमां कुर्यात् । किं वैतामृचं सप्तमीं कृत्वा तद्यजुरन्तमं कुर्यादिति । हेयोपादेयपक्षौ क्रमेण दर्शयति — “यदि कामयेत छन्दाँसि यज्ञयशसेनार्पयेयमित्यृचमन्तमां कुर्याच्छन्दाँस्येव यज्ञयशसेनार्पयति यदि कामयेत यजमानं यज्ञयशसेनार्पयेयमिति यजुरन्तमं कुर्याद्यजमानमेव यज्ञयशसेनार्पयति” इति ।
यज्ञयशसं यज्ञफलमर्पयेयम् संप्रोजयेयम् । छन्दोबद्धाया ऋचस्त्वन्तिमत्वे यज्ञफलं छन्दःसु गच्छेत् । यजुषस्तु च्छन्दोरहितत्वेन यज्ञफलं छन्दोगामि न भवति, किंतु यजमानगाम्येव भवति । तस्माद्यजुरेवान्तमं कुर्यादित्यर्थः ॥
”ऋचा स्तोमँ समर्थयेत्याह समृद्ध्यै” इति ।
एतैर्मन्त्रैरभ्र्यादानं विधत्ते — “चतुर्भिरभ्रिमा दत्ते चत्वारि छन्दाँसि छन्दोभिरेव” इति ।
गायत्री त्रिष्टुब्जगत्यनुष्टुबिति च्छन्दसां चतुष्टयम् । मन्त्रेषु तेषां सहकारित्वेनाभिधानाच्छन्दोभिरेवाभ्रेरादानं कृतवान्भवति ।
मन्त्रे प्रसवशब्दस्याभिप्रायं दर्शयति — “देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै” इति । वंशनिर्मिताया अभ्रेरन्तःसुषिरत्वं विधत्ते — “अग्निर्देवेभ्यो निलायत स वेणुं प्राविशत्स एतामूतिमनु समचरद्यद्वेणोः सुषिरँ सुषिराऽभ्रिर्भवति सयोनित्वाय” इति ।
पुरा कदाचित्केनापि निमित्तेनापरक्तोऽग्निर्देवेभ्यो निरगच्छन्निर्गत्य देवानां दर्शनं वारयितुं वेणुं प्राविशत् । वेणोर्मध्ये सुषिरं स्थानं यदस्त्येषैव मूषिकस्य भूबिलवदूतिस्तामेतामूतिं वेणुमध्यगतच्छिद्ररूपामनुक्रमेण सम्यगचरत् । अतोऽग्नेः सुषिरवेणुप्रियत्वादभ्रिः सुषिरा कार्या । तच्च सुषिरत्वं सयोनित्वाय संपद्यते । योनिरग्नेः स्थानं तत्सहितत्वं सयोनित्वम् ।
अथाभ्रेः कृष्णविन्दुलाञ्छितत्वं विधत्ते — “स यत्रयत्रावसत्तत्कृष्णमभवत्कल्माषी भवति । रूपसमृद्ध्यै” इति ।
वेणुमध्ये संचरन्नग्निर्यस्मिन्यस्मिन्स्थाने वासमकरोत्तत्स्थानं दाहेन कृष्णमभवत् । अतोऽग्निनिवासद्योतनायाभ्रिः कल्माषी कृष्णबिन्दुलाञ्छिता कर्तव्या । तथा सत्यभ्रिरूपस्य चित्रत्वात्समृद्धिर्दृश्यते । यजमानस्य च रूपसमृद्धिर्भवति । अभ्रेरुभयोरन्तयोस्तीक्ष्णत्वं विधत्ते — “उभयतःक्ष्णूर्भवतीतश्चामुतश्चार्कस्यावरुद्ध्यै” इति ।
क्ष्णु तेजन इत्यस्माद्धातोरुत्पन्नः क्ष्णुशब्दस्तीक्ष्णत्वमाचष्टे । उभयोरग्रमूलयोस्तीक्ष्णाभ्रिरुभयतःक्ष्णूस्तादृशी कार्या । तदेतदुभयतस्तीक्ष्णत्वमितश्चामुतश्चलोकद्वयेऽप्यर्कस्यावरुद्ध्यै पूजायाः संपत्त्यै भवति ।
अभ्रेर्दैर्ध्यपरिमाणं विधत्ते — “व्याममात्री भवत्येतावद्वै पुरुषे वीर्यं वीर्यसंमिता” इति ।
चतुर्भिररत्निभिस्तुल्यो व्यामः । एतावती कार्या । उत्थिते पुरुषे वीर्यमेतावदेव । अत इयं वीर्यसंमिता भवति ।
पक्षान्तरं विधत्ते — “अपरिमिता भवत्यपरिमितस्यावरुद्ध्यै” इति ।
नियतपरिमाणरहितत्वमपरिमितत्वम् । तच्चापरिमितस्य बहुलस्यान्नादेः संपत्त्यै भवति । तादृश्या अभ्रेर्वेणुकार्यत्वं विधत्ते — “यो वनस्पतीनां फलग्रहिः स एषां वीर्यवान्फलग्रहिर्वेणुर्वैणवी भवति वीर्यस्यावरुद्ध्यै” इति ।
फलानि बहूनि गृह्णातीति फलग्रहिः । वनस्पतीनां मध्ये यः फलग्रहिरस्ति - एषां फलग्रहीणामपि मध्ये स वेणुरतिशयेन फलग्रहिः । ब्रीह्याद्यग्रवद्वेणूनां समाप्तिसंवत्सरे गोधूमसदृशैर्बहुभिर्वीजैरुपेतत्वात् । त्वचि सारोपेतत्वेन वीर्यवांश्च । तस्मादियमभ्रिर्वैणवी कार्या । तच्च वैणवत्वं वीर्यसंपत्त्यै भवति ।