तृतीयकाण्डे सोमस्य शेषः प्रायेण वर्णितः । चतुर्थे त्वग्निचित्यङ्गमन्त्राणां पाठ ईर्यते ॥
अवान्तरविशेषास्तु विनियोगे प्रदर्शिताः । चतुर्थकाण्डमग्न्याख्यं सप्तभिः पाठकैर्युतम् ॥
उखासम्भरणे मन्त्राः प्रथमे पाठके श्रुताः । एकादशानुवाकाः स्युस्तदर्थाः स्युः क्रमादमी ॥
अभ्र्यादानं मृदाक्रान्तिः खननं हरणं तथा । उखानिर्माणसंस्कारौ सामिधेन्यस्तथाऽऽप्रियः । अग्न्युत्पादो धारणं च याज्या इत्यनुवाकगाः ॥
अथ चतुर्थकाण्डप्रारम्भः - वैश्वदेवं काण्डम्
राजसूयः, पशुबन्धः, इष्टयो, नक्षत्रेष्टयो, दिवःश्येनयो, अपाघाः, सात्रायणमुपहोमाः, कौलकी सूक्तान्यौपानुवाक्यं याज्या अश्वमेधः पुरुषमेधः सौत्रामणी अच्छिद्राणि पशुहौत्रम् उपनिषदः इति सब्राह्मणानि सानुब्राह्मणानि वैश्वदेवानि (सूत्रम्) ॥
राजसूयः तद्ब्राह्मणम्, पशुबन्धः उपानुवाक्यं याज्याः अश्वमेधः तद्ब्राह्मणम् सात्रायणम् उपहोमाः सूक्तानि नक्षत्रेष्टयः सौत्रामणी अच्छिद्राणि पशुहौत्रं परशुमेधश्चेति षोडश वैश्वदेवानीत्यर्थः ॥
अग्निचित्यङ्गमन्त्रपाठाभिधानम्
अनुवाकः १ अभ्र्यादानम् । ३,९ गायत्री, १-२,१३ अनुष्टुप्, ५ त्रिष्टुप्, ४, ६ जगती । अग्निर्ऋषिः
अथ स(सायण)भाष्यकृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थं काण्डम् ।
(तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः)।
यस्य निःश्वसितं वेदा यो वेदोभ्योऽखिलं जगत् । निर्मेमे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
तृतीयकाण्डे सोमस्य शेषः प्रायेण वर्णितः । चतुर्थे त्वग्निचित्यङ्गमन्त्राणां पाठ ईर्यते ॥
अवान्तरविशेषास्तु विनियोगे प्रदर्शिताः । चतुर्थकाण्डमग्न्याख्यं सप्तभिः पाठकैर्युतम् ॥
उखासंभरणे मन्त्राः प्रथमे पाठके श्रुताः । एकादशानुवाकाः स्युस्तदर्थाः स्युः क्रमादमी ॥
अभ्र्यादानं मृदाक्रान्तिः खननं हरणं तथा । उखानिर्माणसंस्कारौ सामिधेन्यस्तथाऽऽप्रियः ॥
अग्न्युत्पादो धारणं च याज्या इत्यनुवाकगाः ॥ इति ।
(इति भाष्यकारोपोद्घातः) ।
चतुर्थकाण्डे प्रथमप्रपाठके प्रथमोऽनुवाकः
मन्त्रः
यु॒ञ्जा॒नᳶ प्र॑थ॒मम्मन॑स्त॒त्वाय॑ सवि॒ता धियः॑ । अ॒ग्निञ्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याभ॑रत् ।
टीका
(तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः)
तत्राभ्र्यादानप्रतिपादके प्रथमानुवाके प्रथमं तावद्धोममन्त्रा उच्यन्ते ।
कल्पः — “जुह्वामष्टगृहीतं गृहीत्वा युञ्जानः प्रथमं मन इति यजुरष्टमाभिर्ऋग्भिरेकामाहुतिं जुहोति” इति । तत्र प्रथमामृचमाह — युञ्जान इति । सविता प्रेरकः परमेश्वरः प्रथममग्निचयनविषये मनो युञ्जानः समादधानो धिय इष्टकादिविषयाणि ज्ञानानि तत्वाय तनित्वा विस्तार्याग्निं ज्योतिर्निचाय्य चीयमानमग्निं सफलानां कर्मणां प्रकाशनसाधनभूतं निश्चित्य पृथिव्या अध्याभरद्भूमेरुपर्यानीतवान् । अनन्तरं तमग्निमुखालक्षणपृथिव्यां स्थापयितुमुखानिर्माणादाविमं होमं करोमीति भावः ।
मन्त्रः
यु॒क्त्वाय॒ मन॑सा दे॒वान्त्सुव॑र्य॒तो धि॒या दिव॑म् । बृ॒हज्ज्योति॑ᳵ करिष्य॒तस्स॑वि॒ता प्र सु॑वति॒ तान् ।
टीका
अथ द्वितीयामाह — युक्त्वाय मनसेति । सविता तानिन्द्रियविशेषान्प्रकर्षेण सुवाति प्रेरयति । किं कृत्वा, देवान्क्रीडापरत्वेन चपलानिन्द्रियविशेषान्मनसा युक्त्वाय विषयेभ्यो नियम्य । कीदृशानिन्द्रियविशेषान्, सुवर्यतः स्वर्गं मच्छतः स्वर्गप्राप्त्यर्थमुद्यतानित्यर्थः । बृहज्ज्योतिः प्रौढं चीयमानमग्निं धिया दिवं करिष्यतस्तत्तदिष्टकादिविषयया प्रज्ञया द्योतमानं कर्तुमुद्यतान् ।
मन्त्रः
यु॒क्तेन॒ मन॑सा व॒यन्दे॒वस्य॑ सवि॒तुस्स॒वे । सु॒व॒र्गेया॑य॒ शक्त्यै॑ ॥
टीका
अथ तृतीयमाह — युक्तेन मनसेति । यस्मात्पूर्वोक्तरीत्या सवितेन्द्रियाणि प्रेरयति तस्माद्वयं सवितुर्देवस्य प्रेरणे सति युक्तेन विषयेभ्यो नियमितेन मनसा सुवर्गेयाय स्वर्गलोके गीयमानस्याग्नेः संपादनाय शक्त्यै शक्ता भूयास्मेति शेषः ।
मन्त्रः
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इत् [1] म॒ही दे॒वस्य॑ सवि॒तुᳶ परि॑ष्टुतिः ।
टीका
अथ चतुर्थीमाह — युञ्जते मन इति । विप्रस्य ब्राह्मणस्य यजमानस्य संबन्धिनो विप्रा ऋत्विजो मनो युञ्जते प्रथमं स्वकीयं मनो विषयेभ्यो निवर्त्य समाहितं कुर्वन्ति । उतापि च धिय इष्टकादिविषयज्ञानानि युञ्जते संपादयन्ति । कीदृशस्य विप्रस्य । बृहतः प्रभूताग्निचयनोद्योगेनाभिवृद्धस्य विपश्चितो विदुषः प्रयोगाभिज्ञस्य । कीदृशा विप्राः । होत्रा होमशीलाः । कर्मण्यालस्यरहिता इत्यर्थः । एक इदेक एव सविता विदधे सर्वमिदं निर्मितवान् । कीदृशः सविता । वयुनावित्, ऋत्विग्यजमानाभिप्रायाभिज्ञः । कथमेक एव सर्वमिदं कृतवानिति न विस्मेतव्यम् । यतः सतितुर्देवस्य परिष्टुतिर्मही परितः सर्वेषु वेदेषु श्रूयमाणा स्तुतिर्महती ।
मन्त्रः
यु॒जे वा॒म्ब्रह्म॑ पू॒र्व्यन्नमो॑भि॒र्वि श्लोका॑ यन्ति प॒थ्ये॑व॒ सूराः॑ । शृ॒ण्वन्ति॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ।
टीका
अथ पञ्चमीमाह — युजे वां ब्रह्मेति । यजमानः पत्नी चेत्येतौ हे दंपती वां युवयोरर्थे पूर्व्यं पुरातनैर्महर्षिभिरनुष्ठितं ब्रह्म परिवृढमग्निचयनाख्यं कर्म नमोभिर्नमस्कारपूर्वकैरिष्टकोपधानादिभिर्युजे संपादयामि । तस्मिन्संपादिते सति श्लोका यजमानस्य कीर्तयो वियन्ति भूमौ विविधं प्रसरन्ति । तत्र दृष्टान्तः — पथ्या सूरा इव गीर्वाणमार्गेऽन्तरिक्षे सूर्यरश्मयो यथा प्रसरन्ति तद्वत् । किंच, अमृतस्य प्रजापतेः पुत्रा ये देवा दिव्यानि धामान्यातस्थुः प्राप्तवन्तस्तेऽपि विश्वे सर्वे शृण्वन्ति । यजमानस्य कीर्तिमिति शेषः ।
मन्त्रः
यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मर्च॑तः । यᳶ पार्थि॑वानि विम॒मे स एत॑शो॒ रजाँ॑सि दे॒वस्स॑वि॒ता म॑हित्व॒ना ।
टीका
अथ षष्ठीमाह — यस्य प्रयाणमिति । यस्य सवितुः प्रयाणं प्रवृत्तिमन्ये सर्वे देवा अनुययुरिदवश्यमनुगच्छन्त्येव । किं कुर्वन्तः । अस्य देवस्य महिमानमर्चतोऽर्चयन्तः । किंच, यः सविता पार्थिवानि रजांसि विममे पृथिवीगतान्परमाणून्विशेषेण गणयित्वा निश्चितवान्स सविता देवो महित्वना महत्त्वेनैतशो व्याप्तवानेति सर्वत्र गच्छतीत्येतशः ।
मन्त्रः
देव॑ सवित॒ᳶ प्र सु॑व य॒ज्ञम्, प्र सु॑व [2] य॒ज्ञप॑ति॒म्भगा॑य दि॒व्यो ग॑न्ध॒र्वः । के॒त॒पूᳵ केत॑न्नᳶ पुनातु वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति नः ।
टीका
अथ सप्तमीमाह — देव सवितरिति । हे सवितर्देव यज्ञं प्रसुव प्रकर्षेण प्रेरय, यज्ञपतिं यजमानं च प्रसुव । किमर्थम् । भगाय सौभाग्याय । दिव्यो दिवि स्वर्गे भवः कश्चिद्गन्धर्वः केतपूः केतं परकीयचित्ते वर्तमानं ज्ञानं पुनाति शोधयतीति केतपूः । स च नोऽस्माकं केतं चित्तवर्तिज्ञानं पुनातु भ्रान्तिपरिहारेण शोधयतु । वाचस्पतिरद्यास्मिन्कर्मणि नोऽस्मदीयां वाचं स्वदाति स्वदयतु ।
संयुक्तमन्त्रः
इ॒मन्नो॑ देव सवितर्य॒ज्ञम्प्र सु॑व देवा॒युवँ॑ सखि॒विदँ॑ सत्रा॒जित॑न्धन॒जितँ॑ सुव॒र्जित॑म् ।
मन्त्रः
इ॒मन्नो॑ देव सवितर्य॒ज्ञम्प्र सु॑व ।
टीका
इत्थमृचः सप्तोक्त्वाऽष्टमं यजुराह — इमं नो दवेति । हे सवितर्देव नोऽस्मदीयमिमं यज्ञं प्रसुव ।
मन्त्रः
देवा॒युवँ॑ सखि॒विदँ॑ सत्रा॒जित॑न्धन॒जितँ॑ सुव॒र्जित॑म् ।
टीका
कीदृशं, देवैर्योति मिश्री भवतीति देवायुस्तं देवायुवं, सखायं स्वनिष्पादकं यजमानं वेत्तीति सखिवित्तम् । सत्राणि द्वादशाहादीनि जयति वशीकरोतीति सत्राजित्तम् । तानि हि चीयमानमग्निमपेक्षन्ते । धनं जयति फलरूपेण संपादयतीति धनजित्तम् । सुवः स्वर्गं जयति फलरूपेण संपादयतीति सुवर्जित्तम् ।
अग्निचयनार्थानां चतुर्थकाण्डगतानां मन्त्राणं पञ्चमकाण्डे क्रमेणैव ब्राह्मणमाम्नातम् । तत्राऽऽदौ युञ्जान इत्यादिभिर्मन्त्रैर्होमं विधत्ते — “सावित्राणि जुहोति प्रसूत्यै” (सं.का.५ प्र.१ अ.१) इति । सविता येषु मन्त्रेषु प्रतीयते तानि सावित्राणि, तैर्होमे सति यजमानं सविता कर्मणि प्रसौति । द्रव्यं विधत्ते — “चतुर्गृहीतेन जुहोति चतुष्पादः पशवः पशूनेवाव रुन्धे” (सं.का.५ प्र.१ अ.१) इति । चतुःसंख्यां पुनः प्रशंसति- “चतस्रो दिशो दिक्ष्वेत प्रतितिष्ठति” (सं.का.५ प्र.१ अ.१) इति ।
पुनरपि प्रकारान्तरेण प्रशंसति — “छन्दाँसि देवेभ्योऽपाक्रामन्न वोऽभागानि हव्यं वक्ष्याम इति । तेभ्य एतच्चतुर्गृहीतमधारयन्पुरोनुवाक्यायै याज्यायै देवतायै वषट्काराय यच्चतुर्गृहीतं जुहोति छन्दाँस्येव तत्प्रीणाति तान्यस्य प्रीतानि देवेभ्यो हव्यं बहन्ति” [सं.का.५ प्र.१ अ.१] इति । नानाविधच्छन्दोयुक्तपुरोनुवाक्याद्यभिमानिनो देवा हविर्भाग्म्यो देवेभ्योऽपरक्ताः सन्तोऽन्यत्रागच्छन् । किं ब्रुवन्तो गता इति, तदुच्यते — हे देवा भागरहितानि वयं छन्दांसि वो युष्मदीयानि हवींषि न वक्ष्यामो हविर्वहनं न करिष्याम इति ब्रुवन्तः । तदानीं देवा विचार्य होमकाले यच्चतुर्ग्रहणं तच्छन्दसां प्रीतिकरं भवत्विति तेषां भागमकल्पयन् । तत्र प्रथमग्रहणं पुरोनुवाक्याख्याया गायत्रीदेवतायास्तुष्टिकरं, द्वितीयग्रहणं याज्याख्यायास्त्रिष्टुब्देवतायास्तुष्टिकरं, तृतीयग्रहणं देवताख्याया जगतीदेवतायास्तुष्टिकरं, चतुर्थग्रहणं वषट्काराख्याया अनुष्टुब्देवतायास्तुष्टिकरम् । अतश्चतुर्गृहीतेन होमे सति च्छन्दोदेवताः प्रीणयति । ताश्च प्रीताः सत्यो हव्यं वहन्ति । सूत्रकारेण तु शाखान्तरमाश्रित्याष्टगृहीतत्वमुक्तम् ।
अत्रेदं चिन्तनीयम् - किमेकैकं मन्त्रमुच्चार्य जुहुयात्, आहोस्वित्सर्वाणि मन्त्राण्युच्चार्येति । तत्र हेयोपादेयावुभौ पक्षौ क्रमेण दर्शयति “यं कामयेत पापीयान्त्स्यादित्येकैकं तस्य जुहुयादाहुतीभिरेवैनमप गृह्णाति पापीयान्भवति, यं कामयेत वसीयान्त्स्यादिति सर्वाणि तस्यानुद्रुत्य जुहुयादाहुत्यैवनैमभि क्रमयति वसीयान्भवत्यथो यज्ञस्यैवैषाऽभिक्रान्तिः” [सं.का.५ प्र.१ अ.१)] इति ।
पापीयानतिशयेन पापो दरिद्र इत्यर्थः । एकैकं मन्त्रमुच्चार्य होमे सति संश्लेषाभावात्परस्परमपरक्ताभिराहुतीभिरेनं यजमानमगृह्णाति धनादपेतं करोति । ततो दरिद्रो भवति । वसीयान्वसुमत्तरः । सर्वाण्युच्चार्य होमे तु मन्त्राणां परस्परसंश्लेषादेकयैवाऽऽहुत्या यजमानमभिक्रमयति अभिव्याप्तं करोति । ततो धनिको भवति । अपि च येयमभिक्रमणहेतुरेकाऽऽहुतिरेषा यज्ञस्यैवाग्निचयनरूपस्यैवाभिक्रान्तिः स्वाधीनो यज्ञो भवति । मन्त्रागतामष्टसंख्यां प्रशंसति — “एति वा एष यज्ञमुखादृद्ध्या योऽग्नेर्देवताया एत्यष्टावेतानि सावित्राणि भवन्त्यष्टाक्षरा गायत्री गायत्रोऽग्निस्तेनैव यज्ञमुखादृद्ध्या अग्नेदर्वैतायै नैति” [सं.का.५ प्र.१ अ.१] इति ।
यो यजमानोऽग्निरूपाया देवताया एत्यपगच्छति एष यजमानो यज्ञोपक्रमादारभ्य यज्ञफलरूपाया ऋद्ध्या एत्यपगच्छति । अग्निर्वै यज्ञमुखमिति श्रुत्यन्तरादग्नेरपगम एव यज्ञमुखादपगमः । कस्तर्ह्यग्नेः सकाशादपगमस्य परिहार इति, तदुच्यते — प्रारम्भे सावित्राणां मन्त्राणामष्टत्वे सत्यष्टाक्षरा गायत्री संपद्यते । अग्निश्च गायत्रः । उभयोर्मुखजन्यत्वात् । ततो गायत्रीसंपत्तिरेवाग्निसंपत्तिरिति यज्ञमुखादग्निरूपादनपेतः सन्समृद्धेरपि नापैति ।
अष्टमन्त्रोपेतामेकामाहुतिं प्रशंसति “अष्टौ सावित्राणि भवन्त्याहुतिर्नवमी त्रिवृत्तमेव यज्ञमुखे वि यातयति” (सं.का.५ प्र.१ अ.१) इति ।
त्रिवृत्स्तोमे ह्यृचो नवसंख्याका अतोऽत्राष्टमन्त्रविशिष्टाहुतिगतया नवसंख्याया त्रिवृत्स्तोममेव यज्ञमुखे वियातयति विशेषेण प्रसारितवान्भवति ।
अत्रेदमपरं चिन्तनीयम् - किमृग्रूपान्षण्मन्त्रानुच्चार्येमं नो देव सवितरिति यजुः सप्तमं कृत्वा पश्चाद्देव सवितरित्यृचमन्तमां कुर्यात् । किं वैतामृचं सप्तमीं कृत्वा तद्यजुरन्तमं कुर्यादिति । हेयोपादेयपक्षौ क्रमेण दर्शयति — “यदि कामयेत छन्दाँसि यज्ञयशसेनार्पयेयमित्यृचमन्तमां कुर्याच्छन्दाँस्येव यज्ञयशसेनार्पयति यदि कामयेत यजमानं यज्ञयशसेनार्पयेयमिति यजुरन्तमं कुर्याद्यजमानमेव यज्ञयशसेनार्पयति” (सं.का.५ प्र.१ अ.१) इति ।
यज्ञयशसं यज्ञफलमर्पयेयम् संप्रोजयेयम् । छन्दोबद्धाया ऋचस्त्वन्तिमत्वे यज्ञफलं छन्दःसु गच्छेत् । यजुषस्तु च्छन्दोरहितत्वेन यज्ञफलं छन्दोगामि न भवति, किंतु यजमानगाम्येव भवति । तस्माद्यजुरेवान्तमं कुर्यादित्यर्थः ।
मन्त्रः
ऋ॒चा स्तोमँ॒ सम॑र्धय गाय॒त्रेण॑ रथन्त॒रम् । बृ॒हद्गा॑य॒त्रव॑र्तनि ।
टीका
कल्पः — ”ऋचा स्तोमँ समर्धयेत्यपरं चतुर्गृहीतं गृहीत्वा” इति । जुहोतीत्यनुवर्तते । पाठस्तु — ऋचा स्तोममिति । हेऽग्ने स्तोत्रहेतुसामाधारभूतयर्चा स्तोमं स्तोत्रमृगावृत्तिरूपं संघातं वा समर्धय समृद्धं कुरु । गायत्रेण साम्ना सह रथंतरं साम समर्धय । गायत्रसामैव वर्तनी मार्गो यस्य बृहत्साम्नस्तद्रायत्रवर्तनि, गायत्रसामसहितं बृहत्साम समर्धय । अस्मिन्मन्त्रे समर्धयेति पदस्य तात्पर्यं दर्शयति— ”ऋचा स्तोमँ समर्थयेत्याह समृद्ध्यै” [सं.का.५ प्र.१ अ.१] इति ।
संयुक्तमन्त्रः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्या॑म्पू॒ष्णो हस्ता॑भ्याङ्गाय॒त्रेण॒ छन्द॒साऽऽद॑दे ऽङ्गिर॒स्वदभ्रि॑रसि॒ नारिः॑ [3] अ॒सि॒ पृ॒थि॒व्यास्स॒धस्था॑द॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदा भ॑र॒ त्रैष्टु॑भेन त्वा॒ छन्द॒साऽऽद॑देऽङ्गिर॒स्वद्बभ्रि॑रसि॒ नारि॑रसि॒ त्वया॑ व॒यँ स॒धस्थ॒ आग्निँ श॑केम॒ खनि॑तुम्पुरी॒ष्य॑ञ्जाग॑तेन त्वा॒ छन्द॒साऽऽद॑देऽङ्गिर॒स्वत् ।
मन्त्रः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्या॑म्पू॒ष्णो हस्ता॑भ्याङ्गाय॒त्रेण॒ छन्द॒साऽऽद॑दे ।
टीका
कल्पः —“देवस्य त्वा सवितुः प्रसव इति चतुर्मिरभ्रिमादत्ते वैणवीं कल्माषीं सुषिरामसुषिरां बोभयतःक्ष्णूमन्यतरःक्ष्णूं वा प्रादेशमात्रीमरत्निमात्रीं व्याममात्रीमपरिमितां वा” इति । पाठस्तु — देवस्य त्वेति । अत्रोखां निर्मातुं मृत्खननीया । खननहेतुः काष्ठविशेषोऽग्निः । हेऽभ्रे सवितुर्देवस्य प्रेरणे सत्यश्विनोः संबन्धिभ्यां मणिबन्धपर्यन्ताभ्यां बाहुभ्यां पूष्णः संबन्धिभ्यां साङ्गुलिभ्यां हस्ताभ्यां साधनभूताभ्यां सहायभूतेन गायत्रेण च्छन्दसा युक्तः संस्त्वामाददे स्वी करोमि ।
मन्त्रः
अङ्गिर॒स्वदभ्रि॑रसि ।
टीका
तत्र दृष्टान्तः — अङ्गिरस्वदङ्गिरस ऋषयः पूर्वं यथा स्वीकृतवन्तस्तद्वत् । त्वं चाभ्रिरसि खननहेतुः काष्ठविशेषोऽसि ।
मन्त्रः
नारिः॑ [3] अ॒सि ।
तथा नारिरसि न विद्यतेऽरिर्यस्यास्तव सेयं नारिः खननकाले पाषाणादिना तव नास्ति कुण्ठीभाव इत्यर्थः । अङ्गिरस्वच्छब्देन प्रथमयजुषः समाप्तत्वादभ्रिरसीत्यादिकं द्वितीयं यजुः ।
मन्त्रः
पृ॒थि॒व्यास्स॒धस्था॑द॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदा भ॑र ।
शत्रुरहिते हेऽभ्रे पृथिव्याः सधस्थादुत्सङ्गात्पुरीष्यमग्निमाभर । पुरीषशद्वेन पांसुरूपा शुष्का मृदुच्यते, तदर्हतीति पुरीष्योऽग्निः । मृदमादायोखां कृत्वा तस्यामग्निरवस्थाप्यते । अतो मृदाग्न्योरभेदोपचारेण मृदाहरणमेवाग्न्याहरणमिति विवक्षितत्वात्पुरीष्यमग्निमाहरेत्युच्यते । अयं चोपचारोऽग्निचयनप्रकरणे सर्वत्रानुवर्तिष्यते ।
अत एव पञ्चमकाण्डान्ते चोद्यपरिहारौ भविष्यतः — “ब्रह्मवादिनो वदन्ति यन्मृदा चाद्भिश्चाग्निश्चीयतेऽथ कस्मादग्निरुच्यत इति यच्छन्दोभिश्चिनोत्यग्नयो वै छन्दाँसि तस्मादग्निरुच्यते” [सं.का.५ प्र.७ अ.९] इति ।
मन्त्रः
त्रैष्टु॑भेन त्वा॒ छन्द॒साऽऽद॑दे ।
टीका
अतः पांसुरूपमग्निमाहर्तुं त्रैष्टुभेन च्छन्दसा सहकारिणा युक्तस्त्वामाददे । अङ्गिरस्वदिति दृष्टान्तः पूर्ववत् ।
मन्त्रः
अ॒ङ्गि॒र॒स्वत् बभ्रि॑रसि॒, नारि॑रसि ।
त्वया॑ व॒यँ स॒धस्थ॒ आग्निँ श॑केम॒ खनि॑तुम्पुरी॒ष्य॑ञ्जाग॑तेन त्वा॒ छन्द॒साऽऽद॑दे । अ॒ङ्गि॒र॒स्वत् । मृदाहरणेऽभ्र्यादाने च दृष्ठान्तत्वाय द्विरङ्गिरस्वदित्युक्तम् ।
अथ तृतीयं यजुरुच्यते । हेऽभ्रे त्वं बभ्रिर्भरणकुशला मृत्संपादनकुशलाऽसि । नारिरसीति पूर्ववत् त्वया वयं सधस्थे पृथिव्या उत्सङ्ग आ समन्तादग्निं पुरीष्यं खनितुं शकेम शक्ता भवेम, अतो जागतेन छन्दसा सहकारिणा युक्तस्त्वामाददे । अङ्गिरस्वदिति दृष्टान्तः पूर्ववत् ।
संयुक्तमन्त्रः
हस्त॑ आ॒धाय॑ सवि॒ता बिभ्र॒दभ्रिँ॑ हिर॒ण्ययी॑म् । तया॒ ज्योति॒रज॑स्र॒मिद॒ग्निङ्खा॒त्वी न॒ आ भ॒रानु॑ष्टुभेन त्वा॒ छन्द॒साऽऽद॑देऽङ्गिर॒स्वत् ॥ [4]
मन्त्रः
हस्त॑ आ॒धाय॑ सवि॒ता बिभ्र॒दभ्रिँ॑ हिर॒ण्ययी॑म् ।
टीका
अथ चतुर्थं यजुरुच्यते । सविता प्रेरकः परमेश्वरः पुरा हिरण्ययीं सुवर्णनिर्मितामभ्रिं हस्ते स्थापयित्वा विभ्रत्पोषितवान् ।
तया॒ ज्योति॒रज॑स्र॒मित् +अ॒ग्निङ्खा॒त्वी न॒ आ भ॒र ।
अतस्तया हिरण्मयाभ्र्या युक्ता त्वजस्रमित्सर्वदैव ज्योतिः प्रकाशमानमग्निं खात्वी, अग्नित्वेनोपचरितां मृदं खनित्वा नोऽस्मदर्थमाभराऽऽनय ।
मन्त्रः
आनु॑ष्टुभेन त्वा॒ छन्द॒साऽऽद॑दे । अ॒ङ्गि॒र॒स्वत् ॥
आनुष्टुभेन च्छन्दसा सहकारिणा युक्तेऽहं त्वामाददे । अङ्गिरस्वदिति दृष्टान्तः पूर्ववत् । एतैर्मन्त्रैरभ्र्यादानं विधत्ते — “चतुर्भिरभ्निमा दत्ते चत्वारि छन्दाँसि छन्दोभिरेव” (सं.का.५ प्र.१ अ.१) इति ।
गायत्री त्रिष्टुब्जगत्यनुष्टुबिति च्छन्दसां चतुष्टयम् । मन्त्रेषु तेषां सहकारित्वेनाभिधानाच्छन्दोभिरेवाभ्रेरादानं कृतवान्भवति ।
मन्त्रे प्रसवशब्दस्याभिप्रायं दर्शयति — “देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै” (सं.का.५ प्र.१ अ.१) इति । वंशनिर्मिताया अभ्रेरन्तःसुषिरत्वं विधत्ते — “अग्निर्देवेभ्यो निलायत स वेणुं प्राविशत्स एतामूतिमनु समचरद्यद्वेणोः सुषिरँ सुषिराऽभ्रिर्भवति सयोनित्वाय” [सं.का.५ प्र.१ अ.१] इति ।
पुरा कदाचित्केनापि निमित्तेनापरक्तोऽग्निर्देवेभ्यो निरगच्छन्निर्गत्य देवानां दर्शनं वारयितुं वेणुं प्राविशत् । वेणोर्मध्ये सुषिरं स्थानं यदस्त्येषैव मूषिकस्य भूबिलवदूतिस्तामेतामूतिं वेणुमध्यगतच्छिद्ररूपामनुक्रमेण सम्यगचरत् । अतोऽग्नेः सुषिरवेणुप्रियत्वादभ्रिः सुषिरा कार्या । तच्च सुषिरत्वं सयोनित्वाय संपद्यते । योनिरग्नेः स्थानं तत्सहितत्वं सयोनित्वम् ।
अथाभ्रेः कृष्णविन्दुलाञ्छितत्वं विधत्ते — “स यत्रयत्रावसत्तत्कृष्णमभवत्कल्माषी भवति । रूपसमृद्ध्यै” [सं.का.५ प्र.१ अ.१] इति ।
वेणुमध्ये संचरन्नग्निर्यस्मिन्यस्मिन्स्थाने वासमकरोत्तत्स्थानं दाहेन कृष्णमभवत् । अतोऽग्निनिवासद्योतनायाभ्रिः कल्माषी कृष्णबिन्दुलाञ्छिता कर्तव्या । तथा सत्यभ्रिरूपस्य चित्रत्वात्समृद्धिर्दृश्यते । यजमानस्य च रूपसमृद्धिर्भवति । अभ्रेरुभयोरन्तयोस्तीक्ष्णत्वं विधत्ते — “उभयतःक्ष्णूर्भवतीतश्चामुतश्चार्कस्यावरुद्ध्यै” (सं.का.५ प्र.१ अ.१) इति ।
क्ष्णु तेजन इत्यस्माद्धातोरुत्पन्नः क्ष्णुशब्दस्तीक्ष्णत्वमाचष्टे । उभयोरग्रमूलयोस्तीक्ष्णाभ्रिरुभयतःक्ष्णूस्तादृशी कार्या । तदेतदुभयतस्तीक्ष्णत्वमितश्चामुतश्चलोकद्वयेऽप्यर्कस्यावरुद्ध्यै पूजायाः संपत्त्यै भवति ।
अभ्रेर्दैर्ध्यपरिमाणं विधत्ते — “व्याममात्री भवत्येतावद्वै पुरुषे वीर्यं वीर्यसंमिता” (सं.का.५ प्र.१ अ.१) इति ।
चतुर्भिररत्निभिस्तुल्यो व्यामः । एतावती कार्या । उत्थिते पुरुषे वीर्यमेतावदेव । अत इयं वीर्यसंमिता भवति ।
पक्षान्तरं विधत्ते — “अपरिमिता भवत्यपरिमितस्यावरुद्ध्यै” [सं.का.५ प्र.१ अ.१] इति ।
नियतपरिमाणरहितत्वमपरिमितत्वम् । तच्चापरिमितस्य बहुलस्यान्नादेः संपत्त्यै भवति । तादृश्या अभ्रेर्वेणुकार्यत्वं विधत्ते — “यो वनस्पतीनां फलग्रहिः स एषां वीर्यवान्फलग्रहिर्वेणुर्वैणवी भवति वीर्यस्यावरुद्ध्यै” (सं.का.५ प्र.१ अ.१) इति ।
फलानि बहूनि गृह्णातीति फलग्रहिः । वनस्पतीनां मध्ये यः फलग्रहिरस्ति - एषां फलग्रहीणामपि मध्ये स वेणुरतिशयेन फलग्रहिः । ब्रीह्याद्यग्रवद्वेणूनां समाप्तिसंवत्सरे गोधूमसदृशैर्बहुभिर्वीजैरुपेतत्वात् । त्वचि सारोपेतत्वेन वीर्यवांश्च । तस्मादियमभ्रिर्वैणवी कार्या । तच्च वैणवत्वं वीर्यसंपत्त्यै भवति ।
अत्र विनियोगसंग्रहः — युञ्जाष्टकेनैकहोम ऋचा स्तोमं पुनर्हुतिः । देवेत्यभ्रिं चतुष्केणाऽऽदत्ते मन्त्रास्त्रयोदश ॥
अत्र मीमांसा ।
द्वादशाध्यायस्य तृतीयपादे चिन्तितम् — चतुर्बिरभ्रिमित्यत्र विकल्पो वा समुच्चयः । विकल्पः पूर्ववन्मैवं समूहे करणत्वतः ॥
अग्नौ श्रूयते - “चतुर्भिरभ्रिमादत्ते” इति ।
अत्र पूर्वोक्तविभागमन्त्रवत्प्रतिमन्त्रं पृथक्करणत्वं नास्ति । चतुःसंख्यया समूहे करणत्वप्रतीतेः । तस्मान्मन्त्रान्ते कर्मसंनिपातस्य बाधेनैव समुच्चयः स्यात् । न च पूर्वस्यैकैकमन्त्रस्यान्ते संनिपातेन(नै)(व समुच्चयः) स्यादिति शङ्कनीयम् । वाचनिकसंख्यया न्यायसिद्धस्य तस्य बाधितत्वात् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके प्रथमोऽनुवाकः ॥१॥
चतुर्थकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः - मृदाक्रमणम्
त्रिष्टुप् - ३,४,१९ गायत्री, ११-१२, २० अनुष्टुप्, २ उपरिष्टाद् बृहती, १३ पुरस्ताद् बृहती, ५ प्रस्तारपङ्क्तिः, १,१०, १४-१५,१७-१८, २१ मध्ये ज्योतिः । अग्निर्ऋषिः ।
मन्त्रः
इ॒माम॑गृभ्णन्रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑ दे॒वास्सु॒तमा ब॑भूवुर्ऋ॒तस्य॒ साम॑न्त्स॒रमा॒रप॑न्ती ।
टीका
[अथ चतुर्थकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः] ।
प्रथमेऽनुवाकेऽभ्र्यादानमुक्तम् । अथ द्वितीये मृदाक्रान्तिरुच्यते ।
कल्पः — “इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीँ रशनामादाय” इति ।
पाठस्तु — इमामगृभ्णन्निति । कवयो विद्वांस ऋत्विजस्तानर्हन्तीति कव्या यज्ञाः । कव्या विदथेषु कव्येषु यज्ञेषु ज्योतिष्टोमादिषु ऋतस्याऽऽयुषि आयुरागमनमश्वस्याऽऽगमने निमित्तमूते सति । ऋतशब्दो यज्ञवाची सन्नत्र तत्साधनमश्वमुपलक्षयति । पूर्वे महर्षय इमां रशनामगृभ्णन्स्वीकृतवन्तः । अयमर्थः रशनया बद्धमश्वमानीय मृत्खननस्थाने तमश्वमाक्रमय्य तया मृदा निष्पन्नायामुखायामग्निमुत्पाद्येष्टकाचिते देशे ज्योतिष्टोमादय ऋत्विग्भिरनुष्ठेयाः । एतत्सर्वं मनसि निधाय पूर्वे महर्षयोऽश्वागमनं निमित्तीकृत्य रशनां स्वीकृतवन्त इति । षोऽन्तकर्मणीत्यस्माद्धातोरुत्पन्नत्वात्सामञ्शब्दोऽवसानवाची । ऋतस्य सामन्यज्ञस्य परिसमाप्तये सरं सरणमृत्विग्यजमानानां प्रवृत्तिमारपन्ती कथयन्ती प्रापयन्तीत्यर्थः । या रशना पूर्वोक्तरीत्या यज्ञसमाप्तिपर्यन्तं प्रवृत्तिकारिणी भवति तया रशनया पुरा देवाः सुतमाबभूवुः सोमयागं प्राप्नुयुः । तादृशीमिमां रशनां गृहीतवन्तः । तमिमं मन्त्रं विनियुङ्क्ते — “व्यृद्धं वा एतद्यज्ञस्य यदयजुष्केण क्रियत इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते यजुष्कृत्यै यज्ञस्य समृद्ध्यै” (सं.का.५ प्र.१ अ.२) इति ।
यदङ्गमयजुष्केण मन्त्ररहितेन व्यापारेण निष्पाद्यते यज्ञस्य संबन्धि तदेतदङ्गं समृद्धिहीनमेव । तस्मादिमामिति मन्त्रमुच्चार्य रशनामाददीत । अश्वोऽभिधीयते वद्ध्वा धार्यते यया रशनया सेयमश्वाभिधानी । यद्यपीमामगृभ्णन्नित्यृगेवैषा तथाऽपि यजुर्वेदपठितत्वाद्यजुष्ट्वोपचारः । तस्मिन् मन्त्रे पठिते सति रशनादानं सयजुष्कत्वात्समृद्धं भवति ।
मन्त्रः
प्रतू॑र्तव्ँवाजि॒न्ना द्र॑व॒ वरि॑ष्ठा॒मनु॑ सव्ँ॒वत॑म् । दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒ नाभि॑ᳶ पृथि॒व्यामधि॒ योनिः॑ ।
टीका
कल्पः — “प्रतूर्तं वाजिन्ना द्रवेत्यश्वमभिदधाति” इति । पाठस्तु — प्रतूर्तं वाजिन्निति । संवन्यते सम्यग्भज्यते मृद्ग्रहणार्थं सेब्यत इति खननयोग्या भूमिः संवत् । सा च पाषाणाद्यभावेनातिप्रशस्तत्वाद्वरिष्ठेत्युच्यते । हे वाजिन्नश्व वरिष्ठां संवतमनुलक्ष्य प्रतूर्तमाद्रवातिशीघ्रमागच्छ । ते तवाश्वस्य दिवि द्युलोके परममुत्कृष्टं जन्म रोहितादिदेवाश्वरूपेण द्युलोके जन्म प्रसिद्धम् । “रोहितेन त्वाऽग्निर्देवतां गमयत्वित्याहैते वै देवाश्वाः” इति ह्यन्यत्राऽऽम्नातम् । तथा तव नाभिरन्तरिक्षे वर्तते । नियुन्नामका हि वायोरश्वास्तदीयं रथं वहन्तोऽन्तरिक्षे संचरन्ति, तद्रूपेणास्यान्तरिक्षवर्तित्वम् । नाभिशब्देन कृत्स्रशरीरमुपलक्ष्यते । तथा पृथिव्यामधि योनिर्भूमेरुपरि तव निवासस्थानं, तत्तु प्रत्यक्षमेव दृश्यते । एवंमहिमा त्वं शीघ्रमागच्छेति पूर्वत्रान्वयः । एनं मन्त्रं विनियुङ्क्ते — ‘प्रतूर्तं वाजिन्ना द्रवेत्यश्वमभि दधाति रूपमेवास्यैतन्महिमानं व्याचष्टे” (सं.का.५ प्र.१ अ.२) इति ।
वाजिन्नाद्रवेत्येवं शीघ्रमागमनमश्वस्य स्वरूपभूतमेव महिमानमेतन्मन्त्रवाक्यं प्रकाशयति । अथवाऽस्य मन्त्रस्यैतद्रूपं वाक्यजातं द्युजन्मादिरूपं महिमानमेनं व्याचष्टे । वस्तुतो द्युजन्माभावेऽपि प्रशंसनार्थमेवमुच्यत इत्यर्थः ।
मन्त्रः
यु॒ञ्जाथाँ॒ रास॑भय्ँयु॒वम॒स्मिन् यामे॑ वृषण्वसू । अ॒ग्निम्भर॑न्तमस्म॒युम् ।
टीका
कल्पः — ‘‘तूष्णीं गर्दभरशनामादाय युञ्जाथाँ रासभं युवमिति गर्दभम्” इति मन्त्रमन्तरेणैव गर्दभस्य रशनामादाय युञ्जाथामिति मन्त्रेण गर्दभमभिदध्यात् ।
पाठस्तु — युञ्जाथाँ रासभमिति । यजमानाः पत्नी चेत्येतौ हे दंपती युवं रासभमस्मिन्यामे युञ्जाथाम् । यामो मृद्वहनरूपो नियमविशेषस्तस्मिन्निमित्तभूते सति युवामुभौ गर्दभं रशनया बध्नीतम् । कीदृशौ युवाम् । वृषण्वसू यागनिष्पादनद्वारा फलाभिवर्षणनिमित्तभूतं वसु धनं ययोस्तौ वृषण्वसू । कीदृशं रासभम् । अग्निं भरन्तमग्निहेतुं मृदं वोढुं समर्थम् । अस्मयुमस्मानात्मन इच्छन्तमस्मद्धितैषिणमिति यावत् । एतं मन्त्रं विनियुङ्क्ते — “युञ्जाथाँ रासभं युवमिति गर्दभभसत्येव गर्दभं प्रतिष्ठापयति तस्मादश्वाद्गर्दभोऽसत्तरः” [सं.का.५ प्र.१ अ.२] इति ।
गर्दभमित्यत्राभिदधातीति शेषोऽनुवर्तते । अस्मिन्याम इति मन्त्रेऽभिहितं मृद्वहनमसदित्युच्यते । भारवहनस्य निकृष्टव्यापारत्वात् । अत एतन्मन्त्रपाठेनासत्येव निकृष्ट एव व्यापारे गर्दभं स्थापितवान्भवति । यस्मादत्र निकृष्टकार्ये स्थापितस्तस्माल्लोकेऽपि गर्दभोऽश्वान्निकृष्टतरः । रजकादय एव हि तमाद्रियन्ते न तु राजामात्यादयः ।
मन्त्रः
योगे॑योगे त॒वस्त॑रव्ँ॒वाजे॑वाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒तये॑ ।
टीका
कल्पः — “योगेयोगे तवस्तरमिति तिसृभिरश्वप्रथमा अभिप्रव्रजन्ति यत्र मृदं खनिष्यन्तः स्युः” इति । तत्र प्रथमामाह — योगेयोगे इति ।
युज्यतेऽनुष्ठीयत इति योगः कर्म । योगेयोगे तत्तत्कर्मणि तवस्तरं वलवत्तरमश्वमिन्द्रमिन्द्रियप्रदभूतये रक्षणाय वाजेवाजे तत्तदन्नप्राप्तिनिमित्तं सखायः परस्परं सख्यं प्राप्ता ऋत्विग्यजमाना वयं हवामह आह्वयामः ।
मन्त्रः
प्र॒तूर्व॑न् [5] एह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यान्मयो॒भूरेहि॑ । उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन् ।
टीका
अथ द्वितीयामाह — प्रतूर्वन्नेहीति । हेऽश्व त्वमेहि आगच्छ किं कुर्वन् । प्रतूर्वन्, विरोधिनः शत्रून्हिंसन्नशस्तीरवक्रामन्भ्रातृव्यः क्रियमाणा अपकीर्तीर्निवारयन् । किंच रुद्रस्य क्रूरदेवस्य यद्गाणपत्यं पशूसमूहपतित्वं तस्माद्गाणपत्यादागत्य मयोभूरस्माकं सुखं भावयन्ने (न्नि) हि । उरु विस्तीर्णमन्तरिक्षमनु वीक्ष्येहि विश्रम्भेण गच्छ । किं कुर्वन् । गव्यूतौ गोसमूहे स्वस्ति श्रेयो यथा भवति तथा वर्तमानः स्वस्तिगव्यूतिस्तादृशस्त्वमभयानि कृण्वन्व्याघ्रादिभ्यो भयपरिहारं कुर्वन् ।
मन्त्रः
पू॒ष्णा स॒युजा॑ स॒ह ।
टीका
अथ तृतीयामाह — पूष्णा सयुजेति । सह युज्यते सहायभूतो वर्तत इति सयुक् । तादृशेन पूष्णा पोषकेण देवेन सह हेऽश्व पृथिव्याः सधस्थात्पुरीष्यमग्निमच्छेहि प्राप्तुं गच्छ । खनितुं योग्या कृत्स्नाऽपि मृत्तिका सह तिष्ठति मिलित्वा वर्ततेऽत्रेति सधस्थः प्रदेशविशेषः । तस्मात्प्रदेशादाप्तुमित्यन्वयः । अङ्गिरस्वदिति दृष्टान्तः पूर्ववत् । अत्र प्रथमायामृचि प्रथमभागे वीप्सायास्तात्पर्यं दर्शयति — “योगेयोगे तवस्तरमित्याह योगेयोगे एवैनं युङ्क्ते” (सं.का.५ प्र.१ अ.२) इति ।
रथवहनं योद्धृवहनं वा यद्यदश्वस्य योग्यं कर्म तत्र सर्वत्रैनमश्वं योजयत्येव लौकिकः । तस्मादत्रापि योगेयोगे इति वीप्सोच्यते ।
द्वितीयभागे वाजशब्दार्थं दर्शयति — “वाजेवाजे हवामह इत्याहान्नं वै वाजोऽन्नमेवाव रुन्धे” [सं.का.५ प्र.१ अ.२] इति ।
तृतीयभाग इन्द्रशब्दतात्पर्यं दर्शयति — “सखाय इन्द्रमूतय इत्यहेन्द्रियमेवाव रुन्धे” [सं.का.५ प्र.१ अ.२] इति ।
अनेन मन्त्रेण साध्यमश्वपुरःसरं गमनं विधत्ते — ‘अग्निर्देवेभ्यो निलायत तं प्रजापतिरन्वविन्दत्प्राजापत्योऽश्वोऽश्वेन सं भरत्यनुवित्त्यै’ [सं.का.५ प्र.१ अ.२] इति ।
केनाप्यपराधेन देवेभ्यो निर्गतमग्निं प्रजापतिरन्विष्य लब्धवान् । अश्वश्च प्रजापतिजन्यत्वात्प्राजापत्यः । तस्मादश्वेन सहाग्निहेतुं मृदं संभरितुं गच्छेत् । तच्च गमनमग्नेरनुवेदनाय भवति ।
तत्राश्वस्य गर्दभात्पुरतो गमनं विधत्ते — ‘पापवस्यसं वा एतत्क्रियते यच्छ्रेयसा च पापीयसा च समानं कर्म कुर्वन्ति पापीयान्ह्यश्वाद्गर्दभोऽश्वं पूर्वं नयन्ति पापवस्यसस्य व्यावृत्त्यै तस्माच्छ्रेयाँसं पापीयान्पश्चादन्वेति’ [सं.का.५ प्र.१ अ.२] इति ।
श्रेयसोत्तमेन च साधनेन पापीयसा निकृष्टेनापि साधनेन समानं तुल्यमेकं कार्यं कुर्वन्तीति यत्तदेतत्पापवस्यसमेव क्रियते । पापमेव वसु धनं यस्य कर्मणस्तत्पापवसु, अतिशयेन पापवसु तत्पापवस्यसमत्यन्तं निकृष्टप्रित्यर्थः । गर्दभोऽश्वात्पापीयानिति प्रसिद्धम् । अत उभयोः समानं मा भूदित्यश्यं पूर्वं पुरतो नयेयुः । तथा सति पापवस्यसं निवारितं भवति । यस्मादेवं तस्माल्लोकेऽपि विद्याधनादिभिः श्रेयान्पुरुषः पुरतो गच्छति, निकृष्टः शिष्यो दरिद्रो वा पश्चादनुगच्छति ।
द्वितीयमन्त्रगतस्याशस्तीरवक्रामन्नित्यस्य तात्पर्यं दर्शयति — ‘बहुर्वै भवतो भ्रातृव्यो भवतीव खलु वा एष योऽग्निं चिनुते वज्र्यश्वः प्रतूर्वन्नेह्यवक्रामन्नशस्तीरित्याह वज्रेणैव पाप्मानं भ्रातृव्यमव क्रामति’ [सं.का.५ प्र.१ अ.२] इति ।
भवतो भूतिमैश्वर्यं प्राप्नुवतः पुरुषस्य भ्रातृव्यो विघ्नकारी बहुर्भवत्येव । श्रेयांसि बहुविघ्नानीति न्यायात् । अतोऽत्र योऽग्निं चिनुत एष भवतीव खलु श्रेयः प्राप्नोत्येव खलु । अतोऽनेन भ्रातृव्यपरिहारोऽन्वेषणीयः । अश्वश्च वज्रयुक्तेन्द्रसमानः । अतोऽश्वं संबोध्याशस्तीरवक्रामन्नित्युक्त्याऽश्वरूपेण वज्रेणैव विघ्नकारिणं पाप्मानं भ्रातृव्यं निराकरोति ।
तन्मन्त्रगतस्यैव गाणपत्यादित्यस्य तात्पर्यं दर्शयति — ‘रुद्रस्य गाणपत्यादित्याह रौद्रा वै पशवो रुद्रादेव पशून्निर्याच्याऽऽत्मने कर्म कुरुते’ [सं.का.५ प्र.१ अ.२] इति । पशूनां रौद्रत्वं वरादवगम्यते । ‘सोऽब्रवीद्वरं वृणा अहमेव पशूनामधिपतिरसानिति’ इत्यत्र रुद्रस्य वर आम्नातः । तस्मादत्र रुद्रस्य गाणपत्यान्मयोभूरेहीत्युक्त्या पशुस्वामिनो रुद्रादेव तान्पशून्निःशेषेण याचित्वा तैः पशुभिः स्वार्थं कर्म करोति । तृतीयमन्त्रे सयुजेत्यस्य तात्पर्यं दर्शयति — ‘पूष्णा सयुजा सहेत्याह पूषा वा अध्वनाँ संनेता समष्ट्यै’ [सं.का.५ प्र.१ अ.२] इति ।
पोषको देव एवोपद्रवपरिहारेण मार्गाणां सम्यङ्नेता भवति । अतस्तेन सह समष्ट्यै संगत्यै पूष्णा सयुजेत्युच्यते ।
मन्त्रः
पृ॒थि॒व्यास्स॒धस्था॑त् .. अ॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑हि ।
टीका
तस्मिन्नेव मन्त्रे पुरीष्यमिति विशेषणस्याङ्गिरस्वदिति दृष्टान्तस्य च तात्पर्यं दर्शयति — ‘पुरीषायतनो वा एष यदग्निरङ्गिरसो वा एतमग्रे देवतानाँ समभरन्पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदच्छेहीत्याह सायतनमेवैनं देवताभिः सं भरति । [सं.का.५ प्र.१ अ.२] इति ।
पुरीषस्य पांसोः पूर्वोक्तरीत्या परम्परयाऽग्न्यायतनत्वम् । अतः पुरीष्यशब्देनाग्निं सायतनमेव संपादयति । अङ्गिरसश्च पुरा तमेतमग्निं देवतानां पुरतः संपादितवन्तः । अतोऽङ्गिरस्वदित्युक्त्या देवताभिः सहितमेनं संपादितवान्भवति ।
मन्त्रः
अ॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑मः ।
टीका
अग्निं पुरीष्यमिति । कल्पः — ‘अग्निं पुरीष्यमङ्गिरस्वदच्छेम इति येन द्वेष्येण संगच्छते तमभिमन्त्रयतेऽपश्यन्निर्दिशति’ इति ।
मृत्खनं प्रति गच्छन्तः पुरुषा मार्गमध्ये यदि केनापि द्वेप्येण संगच्छेरन् । तदानीमिमं मन्त्रं पठेत् । इमो गच्छाम इत्यर्थः । शेषं पूर्ववत् । यदि द्वेष्यं न पश्यति तदाऽपि तं मनसा निर्दिश्य पठेत् ।
अनेन पाठेन द्वेष्यस्यान्नं विनाश्यत इत्येतद्दर्शयति — ‘अग्निं पुरीष्यमङ्गिरस्वदच्छेम इत्याह येन संगच्छते वाजमेवास्य वृङ्क्ते’ (सं.का.५ प्र.१ अ.२) इति ।
मन्त्रः
अग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रिष्यामः ।
टीका
अग्निं पुरीष्यमिति । कल्पः — ‘अग्निं पुरीष्यमङ्गिरस्वद्भरिष्याम इति वल्मीकवपा या सूर्यस्योदेतोस्तामुद्धृत्योपतिष्ठते’ इति ।
वल्मीकस्य योऽवयव उन्नतत्वेनाभिवृद्धः सेयं वपा, तथाविधासु वपासु मध्ये या वपा सूर्योदयस्याभिमुखा तस्या अग्रं किंचिदुद्धृत्य तां वपामनेन मन्त्रेणोपतिष्ठते । भरिष्यामः संपादयिष्यामः । शेषं पूर्ववत् ।
अनेन मन्त्रेण वपोपस्थानं विधत्ते — ‘प्रजापतये प्रतिप्रोच्याग्निः संभृत्य इत्याहुरियं वै प्रजापतिस्तस्या एतच्छ्रोत्रं यद्वल्मीकोऽग्निं पुरीष्प्रमङ्गिरस्वद्भरिष्याम इति । वल्मीकवपामुपतिष्ठते साक्षादेव प्रजापतये प्रतिप्रोच्याग्निंँ सं भरति’ (सं.का.५ प्र.१ अ.२) इति ।
प्रजापतेः सकाशादनुज्ञां लब्ध्वाऽयमग्निः संपादनीय इत्येवमभिज्ञा आहुस्तच्चोपपन्नम् । प्रजापतिना पूर्वमग्नेर्लब्धत्वात् । तं प्रजापतिरन्वविन्ददिति पूर्वत्रोक्तम् । कथं तर्हि प्रजापतये वक्तव्यमिति चेत्तदुच्यते प्रजापतिना सृष्टत्वादियं पृथिव्येव प्रजापतिः । तस्याश्च वल्मीकवपैव श्रोत्रम् । अत एवाऽऽधानब्राह्मणे समाम्नातम् — ‘श्रोत्रँ ह्येतत्पृथिव्याः । यद्वल्मीकः । इति । तस्मात्तां वपामनेन मन्त्रेणोपतिष्ठते । तेनोपस्थानेन व्यवधानमन्तरेणैव प्रजापतये कथयित्वाऽग्निं संभरति ।
मन्त्रः
अग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रामः ।
टीका
अग्निं पुरीष्यमिति । कल्पः — ‘अत्वरमाणाः प्रत्यायन्त्यग्निं पुरीष्यमङ्गिरस्वद्भराम इति येन द्वेष्येण संगच्छते तमभिमन्त्रयतेऽपश्यन्निर्दिशति’ इति ।
यद्वद्गमनकाले तद्वदागमनकालेऽपि । तत्र भरिष्याम इति पाठः । अत्र तु भराम इति विशेषः । यद्यप्यागमनस्य नायं कालस्तथाऽपि प्रसङ्गाद्बुद्धिस्थमन्त्रोऽयमाम्नातस्तं चोपरिष्टादुत्कर्षेत् ।
गमनकालीनमन्त्रवदस्यापि तात्पर्यं दर्शयति — ’अग्निं पुरिष्यमङ्गिरस्वद्भराम इत्याह येन संगच्छते वाजमेवास्य वृङ्क्ते’ (सं.का.५ प्र.१ अ.२) इति ।
मन्त्रः
अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य [6] पु॒रु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ त॑तान ।
टीका
कल्पः ‘अन्वग्निरुषसामग्रमख्यदिति वल्मीकवपायाः प्रक्रामति’ इति ।
पाठस्तु — अन्वग्निरुषसामिति । अयमग्निरुषसामुषःकालानामग्रमुपक्रममन्वख्यत्’ अनुक्रमेण प्रकाशितवान् । अयं जातवेदाः प्रथमो मुख्यः सन्नहान्यप्यन्वख्यत् । किंच सूर्यस्य पुरुत्रा पुरून्बहून्रश्मीननुक्रमेणाख्यत् । किंच द्यावापृथिवी उभे अप्यनुक्रमेणाऽऽततान सर्वतो व्याप्तवान् ।
अनेन मन्त्रेणोषःकालादीनां क्रमेणाऽऽविर्भावः सिध्यतीत्येतद्दर्शयति - “अन्वग्निरुषसामग्रमख्यदित्याहानुख्यात्यै” (सं.का.५ प्र.१ अ.२) इति ।
मन्त्रः
आ॒गत्य॑ वा॒ज्यध्व॑न॒स्सर्वा॒ मृधो॒ वि धू॑नुते । अ॒ग्निँ स॒धस्थे॑ मह॒ति चक्षु॑षा॒ नि चि॑कीषते ।
टीका
कल्पः — “आगत्य वाज्यध्वन आक्रम्य वाजिन्पृथिवीमिति द्वाभ्यां मृत्खनमश्वमाक्रमय्य” इति । तत्र प्रथमायाः पाठस्तु — आगत्येति । अयं वाज्यध्वनो मार्गादागत्य प्राप्य सर्वा मृधो मार्गश्रमादीन्सर्वान्बाधकान्विधूनुते विविधं कम्पयति । विनाशयतीत्यर्थः । यत्र पांसवः सहावतिष्ठन्त तत्स्थानं सधस्थं, महति विस्तीर्णे सधस्थेऽयमश्वश्चक्षुषा दृष्ट्वाऽग्निमग्निहेतुं मृदं निचिकीषते नितरां चेतुं संपादयितुमिच्छति ।
मन्त्रः
आ॒क्रम्य॑ वाजिन्पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम् । भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒ यत॒ᳵ खना॑म॒ तव्ँव॒यम् ।
टीका
अथ द्वितीयामाह — आक्रम्येति । हे वाजिन्पृथिवीमाक्रम्य पादस्पर्शेन परीक्ष्य त्वं रुचा स्वकीयेन तेजसा मानसज्ञानेनेत्यर्थः । अग्निमिच्छाग्निहेतुं मृदं निश्चिनु । भूम्या वृत्त्वाय पृथिव्या सह वरणं कृत्वा पृथिवीं पृष्ट्वेत्यर्थः । नोऽस्माकं ब्रूहि अयं प्रदेशोऽग्निहेतुमृद्योग्य इति कथय । यस्मात्प्रदेशात्तादृशी मृल्लभ्यते तं प्रदेशं वयं खनाम ।
अत्रैतयोर्द्वयोर्मन्त्रयोः पृथगुपयोगं दर्शयति — “आगत्य वाज्यध्वन आक्रम्य वाजिन्पृथिवीमित्याहेच्छत्येवैनं पूर्वया विन्दत्युत्तरया” (सं.का.५ प्र.१ अ.२) इति ।
पूर्वस्यामृचि निचिकीषत इत्यभिधानादिच्छामात्रं तया संपद्यते । उत्तरस्यामृचि नो ब्रूहीत्युक्तत्वात्तया तं प्रदेशं लभते । विधत्ते — “द्वाभ्यामा क्रमयति प्रतिष्ठित्या अनुरूपाभ्यां तस्मादनुरूपाः पशवः प्रजायन्ते” (सं.का.५ प्र.१ अ.२) इति ।
मन्त्रयोर्द्वित्वं हि द्वाभ्यां प्रतिष्ठित्यै संपद्यते । तत्र पूर्वो मन्त्र इच्छाया अनुरूपः । उत्तरमन्त्रो लाभस्यानुरूपः । तच्च पूर्वमुदाहृतम् । यस्मादनुरूपाभ्यां मन्त्राभ्यामाक्रमयति तस्माद्यजमानस्याग्निहोत्राद्यनुष्ठानस्यानुरूपा एव गवाद्याः पशवः प्रजायन्ते ।
मन्त्रः
द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्षँ समु॒द्रस्ते॒ योनिः॑ । वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ [7] पृ॒त॒न्य॒तः ।
टीका
कल्पः — “द्यौस्ते पृष्ठमित्यश्वस्य पृष्ठं संमार्ष्टि” इति । पाठस्तु — द्यौस्ते पृष्ठमिति । हेऽश्व द्युलोकस्तव पृष्ठं, पृथिवी सधस्थं तवाग्निना सहावस्थानप्रदेशः । अन्तरिक्षलोकस्तव मध्यशरीरवर्ती जीवात्मा । समुद्रस्तव जन्मकारणम् । ‘अप्सुयोनिर्वा अश्वः’ इति श्रुतेः । एवं स्तूयमानस्त्वं चक्षुषा विख्याय, उखायोग्यां मृदं विलोक्य पृतन्यतः संग्रामं कर्तुमिच्छतः शत्रून्राक्षसादींस्तस्यां मृदि गूढरूपेणावस्थितानभितिष्ठ पादेनाऽऽक्रम्य विनाशय ।
मन्त्रोक्तं द्युलोकदिसंबन्धमुपपादयति — “द्यौस्ते पृष्ठं पृथिवी सधस्थमित्याहैभ्यो वा एतं लोकेभ्यः प्रजापतिः समैरयद्रूपमेवास्यैतन्महिमानं व्याचष्टे” [सं.का.५ प्र.१ अ.२] इति ।
पुरा कदाचित्प्रजापतिरेतमश्वमेतेषु लोकेष्वन्विष्य समानीतवान् । तस्माद्विद्यमानमेव द्युलोकादिसंबन्धरूपं महिमानं मन्त्रो व्याचष्टे । अतो नास्माभिर्वक्तव्यं किंचिदस्ति ।
मृदाक्रमणवेलायामश्वपादस्याधस्ताद्द्वेष्यविषयध्यानं विधत्ते — ‘वज्री वा एष यदश्वो दद्भिरन्यतोदद्भ्यो भूयाल्ँलोमभिरुभयादद्भ्यो यं द्विष्यात्तमधस्पदं ध्यायेद्वज्रेणैवैनँ स्तृणुते’ [सं.का.५ प्र.१ अ.२] इति ।
वज्रसमानं दन्तपङ्क्तिद्वयमस्यास्तीत्यश्वो वज्री, तस्मादन्यतोदद्भ्य एकदन्तपङ्क्तियुक्तेभ्यो गवादिभ्योऽयमश्वो दद्भिर्भूयान्दन्तैरधिकः । उभयादद्भ्यो दन्तपङ्क्तिद्वययुक्तेभ्यश्च गर्दभादिभ्योऽयमश्वो लोमभिः केसरैः पुच्छगतैश्च भूयान् । अतस्तादृशस्याश्वस्याधस्पदं पादस्याधस्ताद्द्वेष्ये ध्याते सति, अश्वखुररूपेण वज्रेणैवैनं द्वेष्यं हिनस्ति ।
मन्त्रः
उत्क्रा॑म मह॒ते सौभ॑गाया॒स्मादा॒स्थाना॑द्द्रविणो॒दा वा॑जिन् । व॒यँ स्या॑म सुम॒तौ पृ॑थि॒व्या अ॒ग्निङ्ख॑नि॒ष्यन्त॑ उ॒पस्थे॑ अस्याः ।
टीका
कल्पः ‘उत्क्रामोदक्रमीदिति द्वाभ्यां मृत्खनादुदञ्चमश्वमुखत्क्रमय्य’ इति ।
मृद्यस्मिन्प्रदेशे खन्यते स प्रदेशो मृत्खनः । तस्मादश्वमुदङ्मुखत्वेन निर्गमयेत् । तत्र प्रथमामृचमाह — उत्क्रामेति । हे वाजिन्द्रविणोदा धनप्रदस्त्वं यजमानस्य महते सौभगाय सौभाग्याभिवृद्ध्यर्थमस्मादास्थानात्खननप्रदेशादुत्क्रामोद्गतो भव । वयं पृथिब्याः सुमतावनुग्रहचित्ते स्याम तिष्ठेम । कीदृशा वयम् । अस्या उपस्थे पृथिव्या उपरि अग्निमग्निहेतुं मृदं खनिष्यन्तः खनितुमुद्युक्ताः ।
मन्त्रः
उद॑क्रमीद्द्रविणो॒दा वा॒ज्यर्वाक॒स्स लो॒कँ सुकृ॑तम्पृथि॒व्याः । तत॑ᳵ खनेम सु॒प्रती॑कम॒ग्निँ सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे ।
टीका
अथ द्वितीयामाह — उदक्रमीदिति । द्रविणोदा यामद्वारेण धनप्रदो वाजी तथैवान्नप्रद इयर्तीत्यर्वा गमनकुशल इत्यर्थः । तादृशोऽयमश्वः स्थानादस्मादुदक्रमीत् । स उत्कान्तोऽश्वः सुकृतमाक्रमणेन विरुद्धान्राक्षसादीनपहत्य सुष्ठु कृतं पृथिव्याः संवन्धिनं लोकं खननप्रदेशमकः कृतवान्। ततः प्रदेशादग्निमग्नियोग्यां भूमिं मृदं खनेम कीदृशमग्निं सुप्रतीकं सुमुखम्। ये खनितारो वर्य ते कीद्दशाः, सुवरधिरुहाणाः स्वर्गेऽधिरोहणकामाः। कीदृशे स्वर्गे, उत्तमे सुखयुक्ते नाके कं सुखमकं दुःखं तद्रहिते। तदिदं मन्त्रद्वयं विनियुङ्क्ते— “उत्क्रामोदक्रमीदिति द्वाभ्यामुत्क्रमयति प्रतिष्ठित्या अनुरूपाभ्यां तस्मादनुरूपाः पशवः प्र जायन्ते” [सं. का. ५ प्र. १ अ. ३] इति।
मन्त्रयोरादावुत्क्रमणाभिधानादनुष्ठेयार्थं प्रत्यनुरूपत्वम्।
मन्त्रः
अ॒पो दे॒वीरुप॑ सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्यः॑ ।
तासाँ॒ स्थाना॒दुज्जि॑हता॒मोष॑धयस्सुपिप्प॒लाः ।
टीका
कल्पः—“अपो देवीरुप सृजेत्यश्वस्य पदेऽप उपसृज्य” इति। पाठस्तु– अपो देवीरिति। देवीर्दवनशीला अप उपसृज्य। अस्मिन्खननप्रदेशेऽ-हमुपसृजामि। कीदृशीरपः। मधुमतीर्मधुराः। किमर्थम्। अयक्ष्माय प्रजाभ्यः १७६९ प्रजानामारोग्याय। तासां प्रक्षिप्तानामपां स्थानादस्मात्प्रदेशात्सुपिप्पलाः शोभन फला ओषधय उज्जिहतामुत्पद्यान्ताम्। अनेन मन्त्रेणोदकसेचनं विधत्ते— “अप उप सृजति यत्र वा आप उपगच्छन्ति तदोषधयः प्रति तिष्ठन्त्योषधीः प्रतीतिष्ठन्तीः पशवोऽनु प्रति तिष्ठन्ति पशून्यज्ञो यज्ञं यजमानो यजमानं प्रजास्तस्मादप उप सृजति प्रतिष्ठित्यै” [सं. का. ५ प्र. १ अ. ३] इति।
अपामोषधीनां पशूनां यज्ञस्य यजमानस्य प्रजानां चोत्तरोत्तरप्रतिष्ठा पूर्वपूर्वाधीनेति प्रसिद्धम्। तस्मात्सर्वप्रतिष्ठार्थमप उपसृजेत्।
मन्त्रः
जिघ॑र्मि [8] अ॒ग्निम्मन॑सा घृ॒तेन॑ प्रति॒क्ष्यन्त॒म्भुव॑नानि॒ विश्वा॑ ।
पृ॒थुन्ति॑र॒श्चा वय॑सा बृ॒हन्त॒व्व्ँयचि॑ष्ठ॒मन्नँ॑ रभ॒सव्ँविदा॑नम् ।
टीका
कल्पः—“ पदे हिरण्यं निधाय जिघर्म्यग्निमा त्वा जिघर्मीति मनस्वतीभ्यामे कामाहुतिं हिरण्ये हुत्वा ” इति। तत्र प्रथमामृचमाह— जिघर्म्यग्निमिति। अहमग्निं मनसा घ्यायन्घृतेन जिघार्मि क्षारयामि दीपयामि वा। कीदृशमग्निम्। विश्वा भुवनाति प्रतिक्ष्यन्तं सर्वषु लोकेषु प्रत्येक निवसन्तम्। तिरश्चा पृथुं तिर्यक्प्रमाणेन विस्तृतं, वयसा बृहन्तं वयउपलक्षितेन कालेन प्रौढम्। पृथुंमित्यनेन बहुदेशव्याप्तिः, वयसेत्यनेन च बहुकालव्याप्तिरुक्ता। किंच, यदन्नं व्यचिष्ठमतिशयेन विविधमञ्चनं गमनं पूजनं वा यस्य तद्व्याचिष्ठं भक्ष्यभोज्यादिरूपेण बहुविधं स्वादुत्वेन पूज्यं चेत्यर्थः। तादृशमन्नं रभसं शीघ्रमेव विदानं लभमानम्। अथ द्वितीयामाह— आ त्वा जिघर्मीति। हेऽग्ने त्वामाजिघर्मि वचसा मन्त्रेणानेन घृतेन सर्वतः क्षारयामि। अरक्षसा मनसा क्रौर्यरहितेन चित्तेन तद्घृतं जुषस्व। अप-मग्निमर्यश्रीर्मर्यैराश्रयणीयः। स्पृहयद्वर्णो यजमानैः स्पृहणीयरूपः। नाभिमृशे-ऽभिमर्शनं कर्तुं न शक्यः। तनुवा जर्हृषाणो घृतपानपुष्टेन शरीरेणात्यन्तं हृष्टः। ईदृशमग्निं त्वामाजिघर्मीति योजना। आभ्यां मन्त्राभ्यां हिरण्ये होमं विधत्ते— “यदध्वर्युरनग्नावाहुतिं जुहुयादन्धोऽध्वर्युः स्याद्रक्षाँसि यज्ञँहन्युर्हिर-ण्यमुपास्य जुहोत्यग्निवत्येव जुहोति नान्धोऽध्वर्युर्भवति न यज्ञँ रक्षाँ सि घ्नन्ति” [सं. का. ५ प्र. १ अ. ३] इति।
अग्निरहितभूप्रदेशे होमेनाध्वर्युरन्धो भवति। होमाधिकरणस्याग्नेर-दर्शनात्। १७७० एतदेव च्छिद्रमुपलभ्य रक्षांसि यज्ञं विनाशयेयुः। अत एतद्दोषपरिहाराय भूमौ हिरण्यं निधाय तस्मिञ्जुहुयात्। तथा सति हिरण्यस्याग्निसदृशत्वादयं प्रदेशोऽ–ग्निमानेव भवतीति नोक्तदोषद्वयम्।
प्रथममन्त्रस्य प्रथमपादे मनःशब्दस्योपयोगं दर्शयति— “जिघर्म्यग्निं मनसा घृतेनेत्याह मनसा हि पुरुषो यज्ञमाभिगच्छति” (सं. का. ५ प्र. १ अ. ३) इति।
मनसा यज्ञाभिगमनं नाम यज्ञं करिष्य इत्येवंरूपः संकल्पः।
द्वितीयपादस्य तात्पर्यं दर्शयति— “प्रतिक्ष्यन्तं भुवनानि विश्वेत्याह सर्वँह्येष प्रत्यङ्क्षेति” (सं. का. ५ प्र. १ अ. ३) इति।
एषोऽग्निः सर्वं यजमानमुद्दिश्य प्रत्यङभिमुखः क्षेति निवसति।
तृतीयपादे पृथुं बृहन्तमित्यनयोस्वात्पर्यं दर्शयति— “पृथुं तिरश्चा वयसा बृहन्तामित्याहाल्पो ह्येष जातो महान्भवति” (सं. का. ५ प्र. १ अ. ३) इति।
एषोऽग्निर्जातमात्रेणाल्पः पश्चादाहुतिभिर्वर्धमानो देशव्याप्त्या कालव्याप्त्या च महान्भवति।
चतुर्थपादे व्यचिष्ठमिति पदेन सूचितं पूजार्थत्वलक्षणं स्वादुत्वं दर्शयति— “व्यचिष्ठमन्नँ रभसं विदानमित्याहान्नमेवास्मै स्वदयति” (सं. का. ५ प्र. १ अ. ३) इति। वेदनं प्रशंसति— सर्वमस्मै स्वदते य एवं वेद ” (सं. का. ५ प्र. १ अ. ३ ) इति।
मन्त्रः
आ त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेना॑र॒क्षसा॒ मन॑सा॒ तज्जु॑षस्व ।
मर्य॑श्रीस्स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒नुवा॒ जर्हृ॑षाणः ।
टीका
द्वितीयमन्त्रस्य प्रथमपादे वचसेतिपदस्याभिप्रायं दर्शयति— “आ त्वा जिघर्मि वचसा घृतेनेत्याह तस्माद्यत्पुरुषो मनसाऽभिगच्छति तद्वाचा वदति” (सं. का. ५ प्र. १ अ. ३) इति।
यस्मात्प्रथममन्त्रे मनसेत्युक्त्वा द्वितीयमन्त्रे वचसेत्युक्तं तस्माल्लोकेऽपि पुरुषो यत्कार्यं मनसा चिन्तयति तत्पश्चाद्वाचा वदति।
१७७१ द्वितीयपादे रक्षोनिषेधवाचिशब्दस्य तात्पर्यमाह— “अरक्षसेत्याह रक्षसामपहत्यै” [सं. का. ५ प्र. १ अ. ३] इति।
तृतीयपादे मनुष्यैराश्रयणीयत्वेन वर्णस्य स्पृहणीयत्वेन चाग्नौ पूज्यत्वं संपाद्यत इति दर्शयति— मर्यश्रीः स्पृहयद्वर्णो अग्निरित्याहापचितिमेवास्मिन्दधाति ” (सं. का. ५ प्र. १ अ. ३ ) इति। वेदनं प्रशंसति “अपचितिमान्भवति य एवं वेद” [सं. का. ५ प्र. १ अ. ३] इति।
मन्त्रयोरुभयोर्मनः शब्दोपेतत्वे प्रशंसति— “मनसा त्वै तामाप्तुमर्हति यामध्वर्युरनग्नावाहुतिं जुहोति मनस्वतीभ्यां जुहोत्याहुत्योराप्त्यै” (सं. का. ५ प्र. १ अ. ३) इति।
अनग्नौ हूयमानाऽऽहुतिर्मनसैव प्राप्तुमर्हति। अग्नौ हुतेत्येवं मनसा संकल्पयितुं शक्यवात्। तस्मादाहुत्योः प्राप्तये मनःशब्दयुक्ताभ्यामृग्भ्यां जुहुयात्। मन्त्रद्वित्वं प्रशंसति— “द्वाभ्यां प्रतिष्ठित्यै” [सं. का. ५ प्र. १ अ. ३] इति।
मन्त्रः
परि॒ वाज॑पतिᳵ क॒विर॒ग्निर्ह॒व्या न्य॑क्रमीत् ।
दध॒द्रत्ना॑नि दा॒शुषे॑ ।
टीका
कल्पः—“ अपादाय हिरण्यं परि वाजपतिः कविरिति तिसृभिरभ्रिया मृत्खनं परिलिखति बाह्यां वर्षीयसीम् ” इति। तत्र प्रथमामाह— परि वाजपतिरिति। अयमग्निर्हव्यानि परितोऽक्रमीत्स्वीकृतवान्। कीदृशोऽग्निः, वाजपतिरन्नस्य पालयिता। किं कुर्वन्, दाशुषे हविर्दत्तवते यजमानाय रत्नानि दधद्रमणीयानि धनानि संपादयन्।
मन्त्रः
परि॑ त्वाग्ने॒ पुरव्ँ॑व॒यव्ँविप्रँ॑ सहस्य धीमहि ।
धृ॒षद्व॑र्णन्दि॒वेदि॑वे भे॒त्तार॑म्भङ्गु॒राव॑तः ।
टीका
अथ द्वितीयामाह— परि त्वाऽग्न इति। सहसि बले भवः सहस्यः । “सहसस्पुत्रो अद्भुतः” इति श्रुत्यन्तरात्। तादृशबलवन्हेऽग्ने वयं त्वां परिघीमाही परितः स्वी कुर्मः। कीदृशं त्वां, पुरमसकृदपेक्षितफलानां पूरयितारं, विप्रं ब्राह्मणजात्यभिमानिनं देवं, घृषद्वर्णं घृषन्वैरिणां घर्षयिता वर्णः स्वरूपविशेषो यस्यासौ घृषद्वर्णस्तं, १७७२ दिवेदिवे प्रतिदिने भङ्गुरावतो भेत्तारं भञ्जनीयं पापं भङ्गुरं तदस्यास्तीति भङ्गुरावन्विघातको रक्षसादिस्तस्य विनशयितारम्।
मन्त्रः
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ ।
त्वव्ँवने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वन्नृ॒णान्नृ॑पते जायसे॒ शुचिः॑ ॥ [9]
टीका
अथ तृतीयामाह– त्वमग्ने द्युभिरिति। हेऽग्ने त्वं द्युभिः स्वर्गैर्निमित्तभूतैस्तव तत्र यागशालासु जायसे। किंच, त्वमाशुशुक्षणिरार्द्रां भूमिं शीघ्रमेव शोषयिता जायसे। त्वमद्भ्यो वर्षधाराभ्योऽशनिरूपेण जायसे। त्वमश्मनस्परि पाषाणस्यो पाषाणान्तरसंघट्टनेन जायसे। त्वं वनेभ्यो दावाग्निरूपेण जायसे। ओषधिकार्येभ्यो भेषजेभ्यस्त्वं जायसे। यद्वा वंशद्वयसंघर्षणादिभ्यो जायसे। नृणां नृपते सर्वेषामपि मनुष्याणां पालक त्वं गृहेगृहे शुचिःशद्धिहेतुः सञ्जायसे। ‘पुर्नदाहेन मृन्मयम्’ इत्यादिस्मृतेः । एतैर्मन्त्रैः साध्यं परिलेखनं विधत्ते— “यज्ञमुखेयज्ञमुखे बै क्रियमाणे यज्ञँ रक्षाँ सि जिघाँ सन्त्येतर्हि खलु वा एतद्यज्ञमुखं यर्ह्येनदाहुतिरश्नुते परि लिखति रक्षासामपहत्यै ” [सं. का. ५ प्र. १ अ. ३ ] इति।
यज्ञस्य मुखं प्रारभ्भो यज्ञमुखं, यदा यदा यज्ञः प्रारभ्यते तदा तदा रक्षांस्यागत्य यज्ञं हन्तुमिच्छन्ति। एवं च सत्यत्राप्यश्वपदाङ्कितमेतत्स्थानमाहुति-र्यदा प्राप्नेति तदानीमेतदेवाश्वपदस्थानं यज्ञप्रारम्भरूपं भवति। अतोऽत्र प्राप्तानां रक्षसामपहत्यै परिलेखनं कुर्यात्। तत्र मन्त्रत्रयं विनियुङ्क्ते— “तिसृभिः परि लिखति त्रिवृद्वा अग्निर्यावानेवाग्निस्तस्माद्रक्षाँ स्यप हन्ति” [सं. का. ५ प्र. १ अ. ३] इति।
आहवनीयगार्हपत्यदक्षिणाग्निरूपेणाग्निस्त्रिगुणत्वम्। सर्वस्मादप्ये-तस्मादग्ने रक्षसामपघातो मन्त्रत्रित्वेन संपद्यते।
षरिवाजपतिरित्येतां विशेषाकारेण विधत्ते— “गायत्रिया परि लिखति तेजो वै गायत्री तेजसैवैनं परि गृह्णाति” (सं. का. ५ प्र. १ अ. ३) इति।
पादत्रयोपेतत्वादियं गायत्री। तस्याश्चाग्निना सह प्रजापतिमुखादुत्पन्न- त्वात्तेजस्त्वम्। एनमाग्निपदेशम्। त्वमग्ने द्युभिरित्येतां विधत्ते— १७७३ “त्रिष्टुभा परिलिखतीन्द्रियं वै त्रिष्टुगिन्द्रियेणैवैनं परि गृह्णाति” [सं. का. ५ प्र. १ अ. १] इति। परि त्वाऽग्न इत्येतां विधत्ते— “अनुष्टुभा परि लिखत्यनुष्टप्सर्वाणि छन्दाँसि परिभूः पर्याप्त्यै” (सं. का. ५ प्र. १ अ. ३) इति।
वाग्रूपेयमनुष्टुत्सर्वाणि च्छन्दांसि परितो भवति व्याप्नोतीति परिभूः। अतः सेयं पर्याप्त्यै संपद्यते।
अस्या अनुष्टुभः पाठप्राप्तं मन्त्रद्वयमध्यवर्तित्वं प्रशंसति— “मध्यतोऽनुष्टुभा वाग्वा अनुष्टुप्तस्मान्मध्यतो वाचा वदामः” (सं. का. ५ प्र. १ अ. ३) इति।
अनुष्टुभा परिलिखतीति शेषः। यस्माद्वाग्रूपाऽनुष्टुब्मध्यतः पठिता तस्माद्वयमपि मुखमध्यवर्तिजिह्वासाध्यया वाचा संभाषणं कुर्मः।
गायत्रीत्रिष्टुभोः पाठप्राप्तमाद्यन्तरूपत्वं प्रशंसति— “गायत्रिया प्रथमया परि लिखत्यथानुष्टुभाऽथ त्रिष्टुभा तेजौ वै गायत्री प्रज्ञोऽनुष्टुगिन्द्रियं त्रिष्टुप्तेजसा चैवेन्द्रियेण चोभयतो यज्ञं परि गृह्णाति” (सं. का. ५ प्र. १ अ. ३) इति।
पूर्व प्रशस्ताऽपि मध्यवर्तिन्यनुष्टुप्पुनरपि पार्श्वस्थाभ्यां सह प्रशस्यते। यज्ञनिष्पादकवाग्रूपत्वादनुष्टुभो यज्ञत्वम्। तस्मादुभयतो गायत्रीत्रिष्टुभोः पाठेन मध्यवर्तिनं यज्ञमेव तेजसा चैवेन्द्रियेण चोभयतः परिगृहतिवान्भवति।
अत्र विनियोगसंग्रहः— इमां रज्जुं समादाय प्रतू तुरगबन्धनम्।
युञ्जा गर्दभमाबन्ध्य योगे यान्ति त्रिभिर्मृदम्॥
इमोन्तादग्निमित्यादेर्गमने द्वेष्यमन्त्रणम्।
ष्यामोन्तेन वपा जप्या रामोन्ताद्द्वेष्यमन्त्रणम्॥
अन्वग्नि गच्छेदागत्य द्वाभ्यामाक्रमयेद्भुवम्।
द्यौस्तेऽश्वपृष्ठं संमार्ष्टि ह्युत्क्रा द्वाभ्यी तदुत्क्रमः॥
१७७४ अपः पदेऽपो निनयेज्जिघद्वाभ्यां जुहोति हिः।
परित्रिभिः परिलिखेदेकविंशतिरिरिताः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥
अनुवाकः ३ मृत्खनननम्
२ स्वरडभिसारिणी , ३, १०-११,१३ त्रिष्टुप्, ६ प्रतिष्ठा ७-८ गायत्री, ४-५ अनुष्टुप् , १२ बृहती , अग्निर्ऋषिः ।
चतुर्थकाण्डे प्रथमप्रपाठके तृतीयोऽनुवाकः
मन्त्रः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्या॑म्पू॒ष्णो हस्ता॑भ्याम्पृथि॒व्यास्स॒धस्थे॒ऽग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वत्ख॑नामि ।
टीका
[अथ चतुर्थाष्टके प्रथमप्रपाठके तृतीयोऽनुवाकः]।
***द्वितीये मृदाक्रमणमुक्तम्। अथ तृतीये खननमभिधीयते।
कल्पः — ‘ देवस्य त्वा सवितुः प्रसव इति द्वाभ्यां खनति ” इति।
प्रथममन्त्रपाठस्तु देवस्य त्वेति। स्पष्टोऽर्थः ।
मन्त्रः
ज्योति॑ष्मन्तन्त्वाग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्या॑नम् ।
शि॒वम्प्र॒जाभ्योऽहिँ॑सन्तम्पृथि॒व्यास्स॒धस्थे॒ऽग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वत्ख॑नामि ।
टीका
द्वितीयमन्त्रपाठस्तु— ज्योतिष्मन्तमिति। हेऽग्ने पृथिव्याः सघस्थ उपरिप्रदेशे पुरीष्यं पांसुयोग्यमाग्निं त्वामङ्गिरस इवाहं खनामि। कीदृशं त्वां ज्योतिष्मन्तं ज्वालायुक्तं, सुप्र- १७७६ तीकं सुमुखम्, अजस्रेण भानुना दीद्यानं निरन्तरं वर्तमानेन रश्मिना प्रकाशमानं प्रजाम्यः प्रजोपकारार्थं शिवं शान्तमत एवाहिंसन्तं हिंसामकुर्वन्तम्।
एतन्मन्त्रद्वयसाध्यं स्वननं विधत्ते— ‘देवस्य त्वा सवितुः प्रसव इति खनति प्रसूत्या अथो धूममेवैतेन जनयति ज्योतिष्मन्तं त्वाऽग्ने सुप्रतीकमित्याह ज्योतिरेवैतेन जनयति’ (सं. का. ५ प्र. १ अ. ४) इति।
प्रथममन्त्रे सवितुः प्रसव इत्युच्चारणं प्रेरणाय संपद्यते। किंचैतेन मन्त्रेण धूममेवोत्पादयति न तु ज्वालां, तस्माद्द्वितीयमन्त्रादौ ज्योतिष्मन्तमित्येतेन शब्देन ज्योतिर्जनयत्येव।
तस्य मन्त्रस्य द्वितीयार्धे शिवशब्दतात्पर्यं दर्शयति— ‘सोऽग्निजातः प्रजाः शुचाऽपर्यंत्तं देवा अर्धर्चेनाशमयञ्छिवं प्रजाभ्योऽहिँ सन्तमित्याह प्रजाभ्य एवैनँ शमयति’ [सं. का. ५ प्र. १ अ. ४] इति।
ज्वालासहित उत्पन्नमात्रेणैव प्रजाः सर्वाः संतापेनायोजयत्तं तादृशमाग्निं शिवमित्याद्यर्धर्चेन देवाः शान्तमकुर्वन्। तस्मादस्यार्धर्चस्य पाठेन प्रजोपकारायैवैनं शान्तं करोति। मन्त्रद्वित्वं प्रशंसति— ‘द्वाभ्यां खनति प्रतिष्ठित्यै’ [सं. का. ५ प्र. १ अ. ४] इति।
मन्त्रः
अ॒पाम्पृ॒ष्ठम॑सि स॒प्रथा॑ उ॒र्व॑ग्निम्भ॑रि॒ष्यदप॑रावपिष्ठम् ।
वर्ध॑मानम्म॒ह आ च॒ पुष्क॑रन्दि॒वो मात्र॑या वरि॒णा प्र॑थस्व ।
टीका
कल्पः—‘ अपां पृष्ठमसीति पुष्करपर्णमाहृत्यैव विवेष्ट्य ’ इति।
मृदं प्रक्षेप्तुं पुटिकां कृत्वेत्यर्थः। पाठस्तु— अपां पृष्ठमिति। हे पुष्करपर्ण त्वमपां पृष्ठमसि पृष्ठवदुपरिभागे वर्तमानमसि। कीदृशं त्वम्। सप्रथाः सविस्तारमत एवोर्वग्निं भरिष्यदग्नि-साधनमृदं बहुलं यथा भवति तथा भरितुं समर्थम। अपरावपिष्ठं परावपो विनाशः अतिशयेन तद्रहितम्। वर्धमानमप्संबन्धाद्दिने दिने वृद्धियुक्तं, महो निर्लेपत्वाद्युक्त्या पूजनीयं, पुष्करमग्निनिष्पादनद्वारा पुष्टिकरं, तादृशं त्वं मात्रया परिमाणेन दिवो वरिणाऽऽकाशादप्याधिक्येनाऽऽसमन्तात्प्रथस्व विस्तृतो भव।
तमेतं मन्त्रं विनियुङ्क्ते— १७७७ “अपां पृष्ठमसीति पुष्करपर्णमा हरत्यपां वा एतत्पृष्टं यत्पुष्करपर्णँ रूपेणैवनदा हरति” (सं. का. ५ प्र. १ अ. ४) इति।
अपामुपरिवर्तमानत्वस्य विद्यमानस्यैवार्थस्याभिधायित्वादनुरूपेणैव मन्त्रेणैनत्पुष्करपर्णमाहरति।
मन्त्रः
शर्म॑ च स्थः [10] वर्म॑ च स्थो॒ अच्छि॑द्रे बहु॒ले उ॒भे ।
व्यच॑स्वती॒ सव्ँव॑साथाम्भ॒र्तम॒ग्निम्पु॑री॒ष्य॑म् ।
टीका
कल्पः—“ शर्म च स्थो वर्म च स्थ इति द्वाभ्यामुत्तरेण मृत्खनं कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणात्युपरिष्टात्पुष्करपर्णमुत्तानम् ” इति।
प्रथममन्त्रपाठस्तु— शर्म च स्थ इति। हे कृष्णाजिनपुष्करपर्णे उभे युवां शर्म च स्थः सुखकारिणी अपि भवथः। तथा वर्म च स्थः कवचवद्रक्षके अपि भवथः। कीदृशे, अच्छिद्रे छिद्ररहिते बहुले विस्तीर्णे व्यचस्वती आच्छादनप्रकारवती पुटिकादिसदृशे इत्यर्थः। तथाविधे युवां संवसाथां सम्यङ्मृदमाच्छादयतम्। ततः पुरिष्यमग्निं भर्तं धारयतम्।
मन्त्रः
सव्ँव॑साथाँ सुव॒र्विदा॑ स॒मीची॒ उर॑सा॒ त्मना॑ ।
अ॒ग्निम॒न्तर्भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित् ।
टीका
द्वितीयमन्त्रपाठस्तु— सं वसाथामिति। हे कृष्णाजिनपुष्करपर्णे युवां त्मना स्वयमेव परनिरपेक्षे सती उरसोरःसदृशेन भवतीयस्वरूपेण संवसाथां सम्यगाच्छ-वयतम्। कीदृशे, युवां, सुवर्विदा स्वर्गविदे स्वर्गलाभसाधने इत्यर्थः। समीची मृद्धन्धनायानुकूले अजस्रमिन्निरन्तरमेव ज्योतिष्मन्तमग्निमन्तः स्वोदरे भरिष्यन्ती धारयिष्यन्ती।
अनेन मन्त्रद्वयेन साध्यं पुष्करपर्णस्य प्रसारणमुत्तरत्र विधातुमादौ पुष्करपर्णे मृदः संभरणं विधत्ते— “पुष्कस्पर्णेन सं भरति योनिर्वाऽग्नेः पुष्करपर्णँ सयोनिमेवाग्निँ सं भरति” [सं. का. ५ प्र. १ अ. ४] इति।
पुष्करपर्णस्याग्निस्थानत्वमारुणकेतुकचयने समाम्नातम् – “जानुद-घ्नीमुत्तर वेदीं खात्वा। अपां पूरयित्वा गुल्फदघ्नम्। पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च सँस्तीर्य। तस्मिन्विहायसे। अग्निं प्रणीयोपसमाधाय” इति। अतः पुष्करपर्णस्याग्नियोनित्वात्सयोगनिमेवाग्निं संभृतवान्भवति।
२२३ १७७८ पुष्करपर्णवत्तेनैव मन्त्रद्वयेन कृष्णाजिनस्याऽऽस्तरणं विधातुमादौ कृष्णाजिने मृदः स्थापनं विधत्ते– ‘कृष्णाजिनेन सं भरति यज्ञो वै कृष्णाजिनं यज्ञेनैव यज्ञँ सं भरति’ (सं. का. ५ प्र. १ अ. ४) इति।
कृष्णजिनस्य यज्ञरूपत्वं दर्शपूर्णमासप्रकरणेऽवगम्यते—‘ यज्ञो देवेभ्यो निलायत। कृष्णो रूपं कृत्वा। यत्कृष्णाजिने हविरध्यवहन्ति। यज्ञादेव तद्यज्ञं प्रयुङ्क्ते’ इति। तद्वदत्रापि कृष्णाजिनरूपेण यज्ञेनैवाग्निरूपं यज्ञं संभरति।
चर्मान्तरपरित्यागेन कृष्णाजीनस्वीकारे कारणं दर्शयति— ‘यद्ग्राम्याणां पशूनां चर्मणा संभरेद्ग्राम्यान्पशूञ्छुचाऽर्पयेत्कृष्णा-जिनेन सं भरत्यारण्यानेव पशूञ्छुचाऽर्पयति तस्मात्समावत्पशूनां प्रजायमानानामारण्याः पशवः कनीयाँसः सुचा ह्यर्ताः’ (सं. का. ५ प्र. १ अ. ४) इति।
ग्राम्यपशूनां गवादीनां चर्मण्यग्निसंभरणे गवादयः संतापेन संयोजिता भवन्ति। कृष्णाजिनेन संभरणे त्वारण्या एवं पशवः संतापेन योज्यन्ते । यस्मादेवं तस्माल्लोकेऽपि चतुष्पात्त्वाद्याकारसाम्येन प्रजायमानानां पशूनां मध्ये ग्राम्यः श्रेष्ठा आरण्या एव कनिष्ठाः । यस्मात्ते शुचर्ता शुचं प्राप्तास्तस्मात्तेषां कनिष्ठत्वं युक्तम्। नहि ग्राम्यगवादय इव शालाप्रवेशनभक्ष्य प्रदानादिभिरारण्या पोष्यन्ते सेयं तेषां शोकप्राप्तिः।
तस्य कृष्णाजिनस्य लोम्नामुपरि संभरणं विधत्ते— ‘लोमतः सं भरत्यतो ह्यस्य मेध्यम’ [सं. का. ५ प्र. १ अ. ४] इति।
यस्मादस्य कृष्णाजिनस्थात इदं लोमयुक्तं स्थानं मध्यं तस्मात्तत्र संभरेत्।
इदानीमुक्तसंभरणसिद्धये पूर्वोक्तमन्त्रद्वयसाध्यमुभयास्तरणं विधत्ते— ‘कृष्णाजिनं च पुष्करपर्णं च सँस्तृणातीयं वै कृष्णाजिनमसौ पुष्कर-पर्णमाभ्यामेवैनमुभयतः परि गृह्णाति’ (सं. का. ५ प्र. १ अ. ४) इति।
१७७९ कृष्णाजिनपुष्करपर्णयोरधरोत्तरभावेन लोकद्वयरूपत्वम्।
मन्त्रः
पु॒री॒ष्यो॑ऽसि
टीका
कल्पः—‘ पुरीष्योऽसि विश्वभरा इति मृत्खनमभिमन्त्र्य ’ इति। पाठस्तु— पुरीष्योऽसीति। हे खननप्रदेश त्वं पुरीप्योऽसि पुरीषस्य बहुलस्य पांसोर्योग्योऽसि।
Mantra वि॒श्वभ॑राः ( असि)।
२२२
अत एव विश्वभरा असि। विश्वं कृत्स्नमुखारूपं विभर्ती विश्वभराः । हेऽग्नेऽथर्वाख्य ऋषिः प्रथम इतरेभ्यः पूर्वभावी संस्त्वां मिरमन्थन्निःशेषेण मथितवान्।
Mantra अथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने ।
२२२
अत्राथर्वणः प्रथमनिर्मथनं नाम प्रथमदर्शनमित्यभिप्रायं दर्शयति— ‘अग्निर्देवेभ्यो निलायत तमथर्वाऽन्वपश्यदथर्वा त्वा प्रथमो निरमन्थदग्न इत्याह य एवैनमन्वपश्यत्तेनैवैनँ सं भरति’ (सं. का. ५ प्र. १ अ. ४) इति।
अन्वपश्यदन्विष्य दृष्टवान् कल्पः—‘ त्वामग्ने पुष्करादधीति कृष्णाजिने पुष्करपर्णे च संभरति चतसृभिस्तिसृभिर्वा गायत्रीमिर्ब्राह्मणस्य त्रिष्टुग्मी राजन्यस्य ’ इति।
यद्यप्यत्र त्वामग्न इत्यादिकास्तिस्र एव गायत्र्यः समाम्नाता तथाऽपि चतुष्ट्वपक्षे पुरीष्योऽसि विश्वभरा इत्यनेन पूर्वोक्तेन मन्त्रेण सह संख्या पूरणीया। पुरीष्योऽसीत्ययं मन्त्रः पूर्वं व्याख्यातः।
मन्त्रः
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत ।
मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ।
टीका
द्वितीयमन्त्रपाठस्तु— त्वामग्न इति। हेऽग्नेऽथर्वाख्य ऋषिः पुष्करादधि पद्मपत्रस्योपरि त्वां निरमन्थत निःशेषेण मथितवान्। अत एव पञ्चमकाण्डे ब्राह्मणमाम्नातम्—‘पुष्करपर्णे ह्येनमुपश्रितमविन्दत्’ इति। कीदृशात्पुष्करात्। मूर्ध्न उत्तमाङ्गव-त्प्रशस्ताद्विश्वस्य वाधतः सर्वस्य जगतो वाहकात्। इदं हि पुष्करपर्णमग्नि-मन्थनयज्ञनिष्पादनादिद्वारा सर्वं जगन्निर्वहति।
मन्त्रः
तमु॑ त्वा द॒ध्यङ्ङृषि॑ᳶ पु॒त्र ई॑धे [11] अथ॑र्वणः । वृ॒त्र॒हण॑म्पुरन्द॒रम् ।
टीका
तृतीयमन्त्रपाठस्तु— तमु त्वा दघ्यङ्ङिति। हेऽग्नेऽथर्वणः पुत्रो दध्यङ्नामक ऋषिस्तमु त्वेधे तमेव त्वां प्रज्वलितवान्। कीदृशं त्वाम्। वृत्रहणं वैरिनाशनं पुरंदरं रुद्ररूपेणासुरसंबन्धिनां त्रयाणां पुराणां विदारयितारम्।
मन्त्रः
तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् ।
ध॒न॒ञ्ज॒यँ रणे॑रणे ।
टीका
चतुर्थमन्त्रपाठस्तु— तमु त्वा पाथ्य इति। हेऽग्ने पाथ्यनामकः कश्चिदृषिस्तमु त्वा समीधे १७८० तमेव त्वां प्रज्वालितवान्। कीदृशः पाथ्यः। वृषा श्रेष्ठः। कीदृशं त्वाम्। दस्युहन्तमं तस्कराणामतिशयेन हन्तारं, रणेरणे धनंजयं तेषु तेषु संग्रामेषु धनस्य जेतारम्।
इत्थमिमा गायत्र्य उक्ताः ।
मन्त्रः
सीद॑ होत॒स्स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञँ सु॑कृ॒तस्य॒ योनौ॑ ।
दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ।
टीका
अथ त्रिष्टुभां चतसृणां मध्ये प्रथमामाह— सीद होतरिति। हे होतर्होमनिष्पादक चिकित्वानभिज्ञस्त्वं स्वकीय एव स्थान उत्तरवेदिरूपे सीदोपविश । यज्ञं चेमं सुकृतस्य योनौ पुण्यकर्मणो योग्यस्थाने सादय स्थापय। देवान्वेति कामयत इति देवावीर्देवप्रिय इत्यर्थः। तादृशस्त्वं देवान्हविषा यजासि पूजयसि। हेऽग्ने यजमाने बृहद्वयो दीर्घमायुर्धाः स्थापय।
मन्त्रः
नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ अ॑सदत्सु॒दक्षः॑ ।
अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठस्सहस्रम्भ॒रश्शुचि॑जिह्वो अ॒ग्निः ।
टीका
अथ द्वितीयामाह— नि होतेति। होतृषदने होमनिष्पादकस्य योग्यस्थान उत्तरवेदिरूपेऽग्नि- र्नितरामसदत्सम्यगुपविष्टवान्। कीदृशोऽग्निः । होता देवानामाहवाता, विदानः स्थानाभिज्ञः, त्वेषो दीतीप्तिमान, दीदिवान्देवेभ्यो हविषो दाता, सुदक्षोऽत्यन्त-कुशलः। अदब्धव्रतप्रमतिरदब्धेऽविनाशिते व्रते कर्मणि प्रकृष्टा मतिर्यस्य स तथा विधः। वसिष्ठोऽतिशयेन वासयिता। सहस्रसंख्याकानि हवींपि भरति पोषयतीतिसहस्रंभरः। शुचिः शुद्धा होमयोग्या जिह्वा ज्वाला यस्यासौ शुचिजिह्वः।
मन्त्रः
सँ सी॑दस्व म॒हाँ अ॑सि॒ शोच॑स्व [12] दे॒व॒वीत॑मः ।
वि धू॒मम॑ग्ने अरु॒षम्मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ।
टीका
अथ तृतीयामाह— सँसीदस्वेति। हेऽग्ने त्वमस्मिन्पुष्करपर्णे संसीदस्व सम्यगुपविश। त्वमनेकक्रतुत्वान्महानसि, देवान्वेति गच्छतीति देववीरतिशयेन देववीर्देव-वीतमः। ता दृशस्त्वं शोचस्व दीप्यस्व। हे मियेध्य मेधार्ह प्रशस्तोत्कृष्टाग्नेऽ-रुषभरोषणमनुग्रं दर्शतं द्रष्टुं शक्यं शान्तं धूमं विशेषेण सृज।
मन्त्रः
जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्नाँ॑ हि॒तो हि॒तेष्व॑रु॒षो वने॑षु ।
दमे॑दमे स॒प्त रत्ना॒ दधा॑नो॒ऽग्निर्होता॒ नि ष॑सादा॒ यजी॑यान् ॥ [13]
टीका
अथ चतुर्थीमाह— जनिष्वा हीति। हेऽग्ने त्वमह्नामग्रे प्रभातकाले जनिष्वोत्पद्यस्व। कीदृशस्त्वम्। जेन्यो जयशीलः। हितेषु हितो हविर्भुजो हे देवास्तुभ्यं हितमाचर- न्ति, ये च मनुष्या ऋत्विग्यजमानास्तुभ्यं हितमाचरन्ति, तेषु सर्वेषु हितेषु त्वमपिहितो भवसि। वनेष्वरुषो नानाविधफलवृक्षोपेतेषु वनेषु कोपरहितो दावाग्निरूपेण वनानि न दहती(सी) त्यर्थः। अयमग्निर्दमेदमे यजमानाञ्ज्वाला-विशेषान्सप्त संख्याकान्धारयमाणः। अत एव सप्तजिह्व इति सर्वत्र प्रसिद्धः।
१७८१ आथर्वणिकाश्चाऽऽमनन्ति— “काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा।
स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः” ॥ इति॥
स चाग्निर्होता देवानामाह्वाता यजीयानतिशयेन यष्टा।
उक्तासु गायत्रीषु त्वामग्न इत्येतस्यां पुष्करादधीत्यस्यांशस्य तात्पर्यं दर्शयति— ‘त्वामग्ने पुष्करादधीत्याह षुष्करपर्णे ह्येनमुपश्रितमविन्दत्’ (सं. का. ५ प्र. १ अ. ४) इति।
अथर्वा यदाऽग्निमन्विष्टवांस्तदानीं कस्मिंश्चित्पुष्करणर्णेऽवस्थितमेन-मग्नि लब्धवान्। तस्मात्पुष्करादधीत्युक्तिर्युक्ता।
अनन्तरमन्त्रे परित्यज्यान्यमृषिं दधीच एव स्वीकारे कारणं दर्शयति— ‘तमु त्वा दध्यङ्ऋषिरित्याह दध्यङ्वा आथर्वणस्तेजस्तेजस्व्यासीत्तेज एवस्मिन्दधाति’ (सं. का. ५ प्र. १ अ. ४) इति।
अन्यत्र मन्त्रान्तरे दधीचो महिमा प्रपञ्चितः—‘ दघ्यङ्ह यन्मध्वाथर्व-णो वामश्वस्य शीर्ष्णा’ इत्यादौ। तस्माद्दधीचस्तेजस्वित्वम्।
उपरितनमन्त्रेण पाथ्यशब्देन दध्यङ्ङेव विवक्षितो नान्य इत्येतद्दर्शयति— ‘तमु त्वा पाथ्यो वृषेत्याह पूर्वमेवोदितमुत्तरेणाभि गृणाति’ [सं. का. ५ प्र. १ अ. ४] इति।
यः पूर्वमन्त्रोक्तो दध्यङ्स एवात्र सन्मार्गवर्तित्वात्पाथ्य इत्युच्यते। अतः पूर्वमन्त्रोदितमेवार्यमुत्तरेण मन्त्रेण प्रतिपादयति।
एतैर्मन्त्रेः साध्यमग्निसंभरणं विधत्ते— ‘चतसृभिः सं भरति चत्वारि छन्दाँसि छन्दोभिरेव’ [सं. का. ५ प्र. १ अ. ४] इति।
त्वामग्न इत्याद्यास्तिस्रस्ततः। पूर्वा पुरीष्योऽसीत्येका, तदेवं चतस्रः। गायत्री १७८२ त्रिष्टुब्जगत्यनुष्टुगिति च्छन्दसां चतुष्ट्वम्। अतः संख्यासाम्याच्छन्दोभिरेवाग्निः संभृतो भवति। सीद होतरित्यादीनां त्रिष्टुभां चतुष्ट्वम्। अत्रापि चतसृभिः संभरतीति विधिर्योजनीयः।
गायत्रीणां त्रिष्टुभां चाधिकारिभेदेन व्यवस्थां विधत्ते— ‘गायत्रीभिर्ब्राह्मणस्य गायत्रो हि ब्राह्मणस्रिष्टुग्भी राजन्यस्य त्रैष्टूभो हि राजन्यः’ [सं. का. ५ प्र. १ अ. ४] इति।
मुखजत्वसाम्येन ब्राह्मणो गायत्रो बाहुजत्वसाम्येन राजन्यस्रै टुभः।
अथ काम्यं समुञ्चयं विधत्ते— ‘यं कामयेत वसीयान्त्स्यादित्युभयीभिस्तस्य सं भरेत्तेजश्चैवास्मा इन्द्रियं च समीची दधाति’ [सं. का. ५ प्र. १ अ. ४] इति।
तत्र गायत्रीभिस्तेजः प्राप्तिस्त्रिष्टुग्भिरिन्द्रियप्राप्तिः।
संमुञ्चितमन्त्रगतामष्टत्वसंख्यां प्रशंसति— ‘अष्टामिः सं भरत्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्निस्तँ सं भरती’ [सं. का. ५ प्र. १ अ. ४] इति।
चतस्रस्रिष्टुभः इत्येकं क्रमेण प्रशंसति— ‘सीद होतरित्याह देवता एवास्मै सँ सादयति नि होतेति मनुष्यान्त्सँ सीदस्वेति वयाँसि जनिष्ट्वा हि जेन्यो अग्रे अह्नामित्याह देवमनुष्यानेवास्मै सँ सन्नान्त्र जनयति’ (सं. का. ५ प्र. १ अ. ४) इति।
सीद होतरित्येतस्यां प्रथमायां त्रिष्टुभि देवावीरिति पदेन वेवतानां संसादनं सूचितम्। यद्वा देवान्हविषा यजासीत्यनेन तत्सूचितम्। निहोतेत्यस्यां द्वितीयायां त्रिष्ठुभि होतृषदन इति पदेन होत्रादीनां मनुष्याणां संसादनं सूचितम्। सँ सीदस्वेत्यस्यां तृतीयायां त्रिष्टुभि धूमं विसृचेत्बेवमन्तरिक्षगामिना (णा) धूमेनान्तरिक्षचारिणां पक्षिणां सृचितत्वात्तेषां संसादनमुक्तम्। जनिष्वेत्यस्यां चतुर्थ्यां त्रिष्टुभि जनिष्वेत्युत्पादनस्य सूचितत्वात्पूर्वोक्तान्संसन्नान्देवान्मनुष्यां-स्तदुपलक्षितानि वयांसि च प्रकर्षेण जनयति।
अत्र विनियोगसंग्रह— १७८३ देव द्वाभ्यां खनेच्चापां पद्मपत्रं समाहरेत्।
शमं द्वाभ्यां चर्मपत्रे स्तृणात्यथ पुरीष्यतः॥
चतुष्टय्या संभरति विप्रस्य क्षत्त्रियस्य तु।
सीदत्यादिचतुष्केण मन्त्रा द्वादश वर्णिताः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥
अनुवाकः ४ मृदाहरणम्
१,५,११ त्रिष्टुप्, ६ प्रतिष्ठा ७-८ गायत्री, २,६,८-९,१२ अनुष्टुप् , ३,७ बृहती , ४ उपरिष्ठाद् बृहती १० उष्णिक्
अग्निर्ऋषिः ।
चतुर्थकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः
मन्त्रः
सन्ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नायै॒ हृद॑यय्ँ॒यद्विलि॑ष्टम् ।
दे॒वानाय्ँ॒यश्चर॑ति प्रा॒णथे॑न॒ तस्मै॑ च देवि॒ वष॑डस्तु॒ तुभ्य॑म् ।
टीका
[अथ चतुर्थकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः]।
तृतीयानुवाके मृत्खननमुक्तम्। अथ चतुर्थे मृदाहरणमुच्यते।
कल्पः—“ स ते वायुरिति मृत्खनेऽप आनीय ” इति। पाठस्तु— १७८५ सं ते वायुरिति। हे पृथिवि उत्तानाया ऊर्ध्वाभिमुखेनावस्थितायास्तव हृदयं हृदयसदृशं यत्खननस्थानं विलिष्टं विशेषेणाल्पीकृतं तत्खननस्थानं वायुः संदधातु तृणादिपूरणसहितेनानेन जलप्रक्षेपणेन वायुर्यथापूर्व सम्यक्करोतु। कीदृशो वायुः। मातरिश्वा मातर्यन्तरिक्षे सर्वप्राणिनामियत्तापरिच्छेदकारिणि शेतेऽवतिष्ठत इति मातरिश्वा। यो वायुर्देवानां प्राणथेन प्राणभावेन चरति व्यवहरति। हे देवि पृथिवि तुभ्यं तस्मै वायवे च वषडस्तु। इदं तृणसहितं जलं हुतमस्तु। अनेन मन्त्रेण साध्यमञ्जलिजलप्रक्षेपं विधत्ते— “क्रूरमिवा वा अस्या एतत्करोति यत्खनत्यप उप सृजत्यापो वै शान्ताः शान्ताभिरेवास्यै शुचँ शमयति” (सं. का. ५ प्र. १ अ. ५) इति।
भूप्रदेशं खनतीति यत्तदेतत्पृथिव्याः क्रूरमेव करोति। हस्तादिच्छेदव-द्व्यथाहेतुत्वात्। तत्क्रौर्यपरिहाराय मृत्खननप्रदेशेऽपोऽवनयेत्। आपश्च शीतल-त्वेनां शान्ताः। एतादृशीभिरेवास्याः पृथिव्याः खननजन्यं शोकं शमयति।
मन्त्रे देवतान्तरपरित्यागेन वायुकथने प्रयोजनमाह— “सं ते वायुर्मातरिश्वा दधात्वित्याह प्राणो वै वायुः प्राणेनैवास्यै प्राणँ सं दधाति” (सं. का. ५ प्र. १ अ. ५) इति।
वायोर्देवप्राणत्वात्तेनैवास्याः पृथिव्याः प्राणसंधानं संपद्यते।
पुनरपि वायोरन्यत्प्रयोजनमाह— “सं ते वायुरित्याह तस्प्राद्वायुप्रच्युता दिवो वृष्टिरीर्ते” (सं. का. ५ प्र. १ अ. ५) इति।
यस्मात्प्रयोजनान्तरमपि विवक्षितमिति वायुशब्दः प्रयुक्तस्वस्मादेव कारणाद्वृष्टिर्दिवः सकाशाद्वायुप्रच्युता सति प्रवर्तते।
मन्त्रस्य चतुर्थपादे वषट्शब्दान्तगतेन षट्शब्देन स्मारितामृतुसंख्या-मुपजीव्य प्रशंसति— “तस्मै च देवि वषडस्तु तुभ्यमित्याह षड्वा ऋतव ऋतुष्वेव वृष्टिं दधाति तत्मात्सर्वानृतून्वर्षति” (सं. का. ५ प्र. १ अ. ५) इति।
१७८६ आत्राऽऽम्नातपाठानुसारेण षकारमभ्युपेत्य षड्वा ऋतव इति व्याख्यातम्।
अथ शाखान्तरपाठानुसारेण षकारं परित्यज्य व्याचष्टे— “यद्वपट्कुर्याद्यातयामाऽस्य वषऽट्कारः स्याद्यन्न वषट्कुर्याद्रक्षाँ सि यज्ञँ हन्युर्वडित्याह परीक्षमेव वषठ्करोति नास्य यातयामा वषट्कारो भवति न यज्ञँ रक्षाँ सि घ्नन्ति” (सं. का. ५ प्र. १ अ. ५) इति।
अत्रेदं चिन्तनीयम्। किमस्मिन्मन्त्रे वषट्शब्दः प्रयोक्तव्यो न वेति। नाऽऽद्यः। अत्रैव वषट्कारस्य प्रयोगे सति गतसारत्वेन वक्ष्यमाणे वायव्यपश्वादौ वषट्कारासंभवप्रसङ्गात्। न द्वितीयः वज्ररूपस्य वषट्कारस्याभावे रक्षोभिर्यज्ञ-विघातप्रसङ्गात्। एतद्दोषद्वयपरिहाराय षकारं परित्यज्य वडित्येव ब्रूयात्। तथा सति वषट्कारस्य संपूर्णस्यानुक्तत्वान्न गतसारत्वमेकदेशस्योक्तत्वान्न यज्ञघातोऽपि। तदेवं ब्राह्मणेनैव पाठविकल्पस्य व्याख्यातत्वान्नित्यकाम्यप्रयोगविषयतया पाठद्वयं व्यवस्थापनीयम्।
मन्त्रः
सुजा॑तो॒ ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒मास॑द॒स्सुवः॑ ।
वासो॑ अग्ने वि॒श्वरू॑पँ॒ सव्व्ँय॑यस्व विभावसो ।
टीका
कल्पः—“ समुद्यम्य कृष्णाजिनस्यान्तान्सुजातो ज्योतिषा सहेति क्षौमेण मौञ्जेनार्कमयेण वा दाम्नोपनह्यति” इति। पाठस्तु— सुजातो ज्योतिषेति। हेऽग्ने सुजातः सुष्ठ्त्पन्नस्त्वं ज्योतिषा त्वदीयेन ज्योतिषा सह शर्म सुखं यथा भवति तथा सुवः स्वर्गसदृशं वरुथं कृष्णाजिन-निर्मितं गृहमासदः प्राप्नुहि। हे विभावसो विभव दीप्तिरेव वसु धनं यस्यासौ विभावसुस्तादृश हेऽग्ने विश्वरूपं बहुप्रकाररूपं वासः कृष्णाजिनरूपं वस्त्रं संव्यय-स्व सम्यक्परिधत्स्व। तमेतं मन्त्रं विनियुङ्क्ते— “सुजातो ज्योतिषा सहेत्यनुष्ठुभोप नह्यत्यनुष्टुप्सर्वाणि छन्दाँ सि छन्दाँसि खलु वा अग्नेः प्रिया तनूः प्रिययैवैनं तनुवा परि दधाति” (सं. का. ५ प्र. १ अ. ५) इति।
श्रुत्यन्तरे वाग्वा अनुष्टुवित्युक्तत्वाद्वाग्द्वारा सर्वच्छन्दोरूपत्वम्। शाखान्तर आधानप्रकरणे या ते अग्ने पशुषु पवमाना प्रिया तनूरित्यारभ्य या गायत्रे या १७८७ त्रैष्ठुभे या जागत इति च्छन्दःसु प्रिवशरीरावस्थानकथनेन च्छग्दसामाग्निप्रिय-शरीरत्वम्। अतः प्रिययैवानयाऽनुष्टुब्रूपया तनुवा परिधानं कृतवान्भवति।
एतद्वेदनं प्रशंसति— “वेदुको वासो भवति य एवं वेद” (सं. का. ५ प्र. १ अ. ५) इति।
वेदुको लाभशीलो वासः पर्ति भवति। एतद्वेदिता वस्त्रं प्राप्नोतीत्यर्थः।
मन्त्रः
उदु॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या कृ॒पा ।
दृ॒शे च॑ भा॒सा बृ॑ह॒ता सु॑शु॒क्वनि॒राग्ने॑ याहि सुश॒स्तिभिः॑ । [14]
टीका
कल्पः—“ उदु तिष्ठ स्वध्वरोर्ध्व उ षु ण ऊतय इति सावित्रीभ्यामुतिष्ठति ” इति। तयोः प्रथमामाह— उदु तिष्ठेति। हे स्वध्वर सुष्ठु यागनिवांहकाग्न उदु तिष्ठोत्तिष्ठैवोत्थाय च नोऽस्मान्देव्या कृपा देवनस्वभावनया क्रीडापरया कृपयाऽव पालय। हेऽग्ने बृहता भासा प्रौढेन तेजसा सुशुक्ननिः सुष्ठु शुचां रश्मीनां वनिता यः सोऽयं सुशुक्वनिः। तादृशः सन्सुशस्तिभिः शोभगकीर्तिभिः सह दृशे सर्वैः प्राणिभिर्द्रष्टुमा-याहि।
मन्त्रः
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता ।
ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ।
टीका
अथ द्वितीयागाह— उर्ध्व ऊ ष्विति। हेऽग्ने नोऽस्माकमूतये रक्षणायोर्ध्व ऊ षु तिष्ठोर्ध्व एव कन्नवस्थितो भव। क इव। देवो न सविता, यथा सविता देव ऊर्ध्व एव सन्न-स्मान्रक्षति तद्वत्। यस्त्वमूर्ध्वः स त्वं वाजस्य सनिताऽन्नस्य दाता भव। यद्यस्मा-त्कारणादञ्जिभिमन्त्राभिव्यञ्जकैर्वाधद्भिर्हव्यवाहकैर्ऋत्विग्भिर्विह्वयामहे वयं त्वां विविधमाह्वयामस्तस्मादूर्ध्व एव तिष्ठेति सर्वत्रान्वयः। एतन्मन्त्रद्वयं विनियुङ्क्ते— “वारुणो वा अग्निरुपनद्ध उदु तिष्ठ स्वध्वरोर्ध्व ऊ षु ण ऊतय इति सावित्रीम्यामुत्तिष्ठति सवितृप्रसूत एवास्योर्ध्वां यरुणमेनिमुत्सृजति” (सं. का. ५ प्र. १ अ. ५) इति।
योऽयमग्निरत्र कृष्णाजिंनेनोपनद्धः सोऽयं वारुण उपद्रवकारिणो वरुणस्याधीनः। अतस्तत्परिहाराय सवितृलिङ्गकाभ्यामेताभ्यामृग्भ्यां वद्धमग्निं गृहीत्वोत्तिष्ठेत्। द्वितीयमन्त्रे देवो न सवितेत्युक्तत्वादेते सावित्र्यौ, एताभ्यामुत्थाने सवित्रैवानुज्ञातोऽस्याग्नेर्वर्रुणमेनिं वरुणकृतां वाधां परिहरति।
१७८८ मन्त्रद्वित्वं प्रशंसति— ‘द्वाभ्यां प्रतिष्ठित्यै’ [सं. का. ५ प्र. १ अ. ५] इति।
मन्त्रः
स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु ।
चि॒त्रश्शिशु॒ᳶ परि॒ तमाँ॑स्य॒क्तᳶ प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ।
टीका
कल्पः—‘स जातो गर्भो असीति हरति’ इति। पाठस्तु स जातो गर्भ इति। हेऽग्ने स त्वं द्यावापृथिव्योर्गर्भः सन्निदानीं जातोऽसि। कीदृशस्त्वं, चारुः पूजनीयः। ओषधिषु विभृतो भुज्यमानास्वोषधीषु जाठ-राग्निरूपः सन्विशेषेण पोषितः। चित्रो नानावर्णाभिर्ज्वालाभिर्विचित्ररूपः। इदानीमुत्प-न्नत्वाच्छिशुः। तमांसि पर्यक्तः परिहर्तुमभिव्यक्तः । तादृशस्त्वं मातृभ्य ओवघ्यर्थमधिक-निक्रददधिकं क्रन्दन्प्रगाः प्रकर्णेण गच्छ। यथा लोके शिशुमार्तर मुद्दिश्य क्रन्दन्नादरेण स्वसदने गच्छति तद्वदित्यर्थः।
अस्य मन्त्रस्य प्रथमपादेऽभिहितं द्यावापृथिवीगर्भत्वं विशदयति— ‘स जातो गर्भो असि रोदस्योरित्याहेमे वै रोदसी तयोरेष गर्भो यदग्निस्त-स्मादेवमाह’ (सं. का. ५ प्र. १ अ. ५) इति।
इमे द्यावापृथिव्यावेव रोदःशब्दाभिधेये, तयोर्मध्ये समुत्पन्नत्वात्तद्वर्भत्वम्। यस्मादेवं तस्मान्मन्त्रो युक्तमेवाऽऽह।
द्वितीयपादे विभृतश्चारुरिति पदयोर्निमित्तनैमित्तिकभावेनान्वयं दर्शयति— अग्ने चारुर्विभुत ओषधीष्वित्याह यदा ह्येतं विभरन्त्यथ चारुतरो भवति’ (सं. का. ५ प्र. १ अ. ५) इति।
यस्मिन्काले जठरे प्रविष्टा ओषधय एतमुदराग्निं विशेषेण पोषयन्ति तदानीमयमग्निश्चारुतरः पटुतरो भवति।
चतुर्थपादे प्र मातृभ्य इत्येतस्य तात्पर्यं दर्शयति— ‘प्र मातृभ्यो अधि कनिक्रद्द्गा इत्याहौषधयो वा अस्य मातरस्ताभ्य एवैनं प्र च्यावयति’ [सं. का. ५ प्र. १ अ. ५] इति।
ओषधीनामुक्तरीत्या जठरग्निजनकत्वान्मातृत्वम्। अतो मात्रर्थमेवैनमग्निं प्रकर्षेण गमयति। अत एवोत्तरत्रौषधयः प्रतिगृह्णीतेति मन्त्रेणौषधीषु स्थापनं विधास्यति।
मन्त्रः
स्थि॒रो भ॑व वी॒ड्व॑ङ्ग आ॒शुर्भ॑व वा॒ज्य॑र्वन् ।
पृ॒थुर्भ॑व सु॒षद॒स्त्वम॒ग्नेᳶ पु॑रीष॒वाह॑नः ।
टीका
कल्पः—“स्थिरो भव वीड्वङ्ग इति गर्दभस्य पृष्ठ आदघाति” इति।
१७८९ पाठस्तु— स्थिरो भवेति। अग्नेर्हेतुभूतं पुरीषं यो गर्दभो वहति * तादृश ह्रे गर्दभ, इयर्ति गच्छतीत्यार्वा। हेऽर्वन्गमनकुशल त्वं स्थिरश्चलनरहितो भव। वीड्वङ्गो दृढकाय आयुर्वेगवान्वाज्यन्नहेतुश्च भव। तथा पृथुर्विस्तीर्णपृष्ठः सुषदोऽग्नेः सुखासनश्च भव। तमेतं मन्त्रं विनियुङ्क्ते — “स्थिरो भव वीड्वङ्ग इति गर्दभ आ सादयति सं नह्यत्येवैनमेतया स्थेग्ने” (सं. का. ५ प्र. १ अ. ५) इति।
गर्दभस्योपरि स्थैर्यार्थमेतयर्चैनमग्निं सम्यग्बद्धवान्भवति। अग्निरूपा मृद्यथा भूमौ न पतति तथा स्थापनीया । गर्दभे स्थापनं प्रशंसति— “गर्दभेन सं भरति तस्माद्गर्दभः पशूनां भारभारितमः” [सं. का. ५ प्र. १ अ. ५] इति।
यस्मादत्र बलीवर्दादिकमनादृत्य गर्दमेनवै मृदं वाहयन्ति तस्माल्लोकेऽपि गवादीनां पशूनां मध्ये गर्दभ एव भारभारितमः। वाडव्यो द्रव्यविशेषो भारस्तं भरति वारयतीति भारभारी, अतिशयेन भारभारी भारभारितमः प्रौढं भारं वहतीत्यर्थः। प्रकारान्तरेण तदेव प्रशंसति— “गर्दभेन सं भरति तस्माद्गर्दभोऽप्यनालेशेऽत्यन्यान्पशून्मेद्यात्यन्नँ ह्येनेनार्कँ संभरति” [सं. का. ५ प्र. १ अ. ५] इति।
यस्मादेनेन गर्दभेनाक्रमन्नं संभरन्ति, यागद्वाराऽन्नहेतुत्वादियं मृदेवान्नम्। तचच्चार्चनीयत्वादर्कशब्दामिधेयम्। यस्मादन्नं वहति तस्माल्लोके गर्दभो भक्ष्यस्या ल्पत्वेऽप्यन्यान्पशूनतिक्रभ्य भेदस्वी भवति। अनाशब्दो वर्णविकारेणान्नवाची तस्य लेशोऽल्पत्वम्। जीर्णतुषतृणादिभक्षणेनैव गर्दभो जीवति, न तु बलीवर्दाश्वादीनामिव तत्तत्काले घृततैलादिपानं वा चणककुलित्थादिखाद्यभक्षणं वा तस्यास्ति, तथाऽपि मेदस्वित्वम्। एतदन्नसंभरणाल्लभ्यते।
पुनरपि प्रकारान्तरेण तदेव प्रशंसति— * मन्त्रे पुरीषवाहन इति संबुद्ध्यर्ये प्रथमेत्यभिप्रायेणेदं व्याख्यानम्।
१७८० “गर्दभेन सं भरति तस्माद्गर्दभो द्विरेताः सन्कनिष्ठं पशूनां प्र जायतेऽ-ग्निर्ह्यस्य योनिं निर्दहति” [सं. का. ५ प्र. १ अ. ५] इति।
यस्मादुपरि धार्यमाणो मृद्रूपोऽग्निरस्य गर्दभस्य प्रजोत्पादनसामर्थ्य निर्दग्वं करोति तस्माल्लोके गर्दभो द्विरेता अपि सन्पशूनां मध्ये कनिष्ठमपत्यमुत्पादयति। अश्वादिबद्धहुमूल्यानर्हत्वात्कनिष्ठत्वम्। गर्दभस्य स्वकीयं रेत एकमश्वतरस्य रेतो द्वितीयमिति द्विरेतस्त्वम्। एतच्च सप्तमकाण्डे स्पष्टमाम्नातम् – “ तासां परिगृहीतानामश्वतरोत्यप्रवत तस्यानुहाय रेत आऽदत्त तद्गर्दमे न्यमार्ट् तरमाद्गर्दभो द्विरेताः ” इति। यद्यपि कनिष्ठोत्पादनं निन्दाहेतुस्तथाऽप्यग्निभरणस्य लिङ्गत्वेन प्रशंसैव संपद्यते।
मन्त्रः
शि॒वो भ॑व [15] प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिरः ।
मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒ मान्तरि॑क्ष॒म्मा वन॒स्पती॑न् ।
टीका
कल्पः—“शिवो भव प्रजाभ्य इत्याहितमभिमन्त्रयते” इति। पाठस्तु— शिवो भवेति। आङ्गरोभिर्ऋषिभिः पूर्वं संपादितत्वादङ्गसौष्ठवाद्वाऽय-मग्निरङ्गिराः। हेऽङ्गिरोऽग्ने त्वं मानुषीभ्याः प्रजाभ्यः शिवः शान्तो भव। किंच, त्वं द्यावापृथिवी अभिलक्ष्य मा शूशुचः शोकं संतापं मा कार्षीः। तथाऽन्तरिक्षमभि मा शूशुचः। तथा वनस्पतीनभि मा शूशुचः।
प्रजानामर्थे शिवो भवेत्पुक्तायाः शान्तेः प्रसङ्गं दर्शयति— “प्रजासु वा एष एतर्ह्यारूढः स ईश्वरः प्रजाः शुचा प्रदहः शिवो भव प्रजाभ्य इत्याह प्रजाभ्य एवैनँ शमयति” [सं. का. ५ प्र. १ अ. ५] इति।
यदाऽयमग्निर्गर्दभमारोहत्येतर्हि एतस्मिन्काल एषोऽग्निः प्रजास्वेवाऽरूढो भवति। गर्दभस्य प्रजान्तः पातित्वान्मनुष्यवच्चेतनत्वेन प्रजापतेरुत्पन्नत्वात्तदन्तः—पातित्वम्। ततः प्रजास्वारूढोऽग्निस्ताः प्रजाः संतापेन प्रदग्धुं समर्थः स्यात्। तस्माच्छिवो भवेति प्रार्थनेन प्रजार्थमेवैनमग्निं शान्तं करोति।
तस्य मन्त्रस्य द्वितीयपादे मानुषभ्यि इति विशेषणं मनुत्पादितमृगगवादि कृत्स्नप्रजाविषयमित्येतद्दर्शयति— “मानुषीभ्यस्त्वमङ्गिर इत्याह मानव्यो हि प्रजाः” [सं. का. ५ प्र. १ अ. ५] इति।
१७९१ यथ प्रथमार्धे चेतनविषया शान्तिः प्रार्थिता तथोत्तारर्धेप्यचेदनविषया शान्तिः प्रार्थितेत्येतद्दर्शयति— “मा द्यावापृथिवी अभि शूशुचो माऽन्तरिक्षं मा वनस्पतीनित्याहैभ्य एवैनं लोकेभ्याः शमयति” [सं. का. ५ प्र. १ अ. ५] इति।
मन्त्रः
प्रैतु॑ वा॒जी कनि॑क्रद॒न्नान॑द॒द्रास॑भ॒ᳶ पत्वा॑ ।
भर॑न्न॒ग्निम्पु॑री॒ष्य॑म्मा पा॒द्यायु॑षᳶ पु॒रा ।
टीका
कल्पः “ प्रैतु वाजी कनिक्रददिति तिसृभिरत्वरमाणा अश्वप्रथमाः प्रत्यायन्ति” इति। तत्र प्रथमामाह— प्रैतु वाजीति। अयं वाजी तुरगः कनिक्रदद्धर्षेण हेषाशब्दं कर्वन्प्रैतु प्रथमं गच्छतु। अथ रासभो गर्दभो नानदद्धर्षेण शब्दं कुर्वन्पत्वा गमनशीलः पुरीष्यमग्निं दाहकं भरन्नपि स्वकीयादायुपः पुरा मा पाद्यपमृत्युना मृतो मा भूत्।
मन्त्रः
रास॑भो वा॒ङ्कनि॑क्रद॒त्सुयु॑क्तो वृषणा॒ रथे॑ ।
स वा॑म॒ग्निम्पु॑री॒ष्य॑मा॒शुर्दू॒तो व॑हादि॒तः ।
टीका
अथ द्वितीयामाह— रासभो वामिति। हे वृषणा सेचनसमर्थावश्वगर्दभौ वां युवयोर्मध्ये रासभो गर्दभोऽयं कनिक्रदद्धर्षेण भृशं क्रन्दन्रथे सुयुक्तो रथसदृशे भृद्भारे सुष्ठु प्रयुक्तः। वा युवयोर्मध्ये स तादृशो गर्दभो दूतो राजप्रेषितदूतवदाशुः शीघ्रगामी सन्नितोऽस्मात्स्था-नात्पुरीष्यमग्निं वहाद्वहतु।
मन्त्रः
वृषा॒ग्निव्ँवृ॑षण॒म्भर॑न्न॒पाङ्गर्भँ॑ समु॒द्रिय॑म् ।
अग्न॒ आ या॑हि [16] वी॒तय॑ ऋ॒तँ स॒त्यम् ।
टीका
अथ तृतीयामाह— वृषाऽग्निमिति। वृषां वर्षणे सेचने समर्थो वृषणं फलाभिवर्षणसमर्थमग्निं भरन्वहन्गच्छत्विति शेषः। कीदृशमग्मिम्, अपां गर्भं मेघस्थानां जलानां मध्ये विद्युद्रूपं, समुद्रियं समुद्रे वडवाग्निरूपेणोत्पन्नम् । तादृश हेऽग्ने वतिये प्रजनाद्यर्थमृतं सत्यं च प्रत्यायाहि । ऋतसत्यशब्दाभ्यां मन्त्रब्राह्यणानुसारेण द्यावापृथिव्यौ विवक्ष्येते । अवश्यंभाविनः कृष्यादिफलस्य हेतुत्वात्पृथिव्या ऋतत्वम्। अवश्यंभाविनः कर्मफल-स्य हेतुत्वात्स्वर्गस्य सत्यत्वम्।
अत्र प्रथममन्त्रस्य प्रथमपादे वाजिशब्देनाश्वो विवक्षित इत्येतद्दर्शयति— “प्रैतु वाजी कनिक्रददित्याह वाजी ह्येषः” [सं. का. ५ प्र. १ अ. ५] इति। हिशब्देन लोकप्रसिद्धिर्दर्शिता।
१७९२ द्वितीयपादे गर्दभशब्दपरित्यागेन रासभशब्दप्रयोग ऋषिव्यवहारानु-सारीत्येत द्दर्शयति— “नानदद्रासभः पत्वेत्याह रासभ इति ह्येतमृषयोऽवदन्” [सं. का. ५ प्र. १ अ. ५] इति। तृतीयपादार्थे प्रत्यक्षप्रसिद्धिं दर्शयति— चतुर्थपादेऽग्निवहनप्रयुक्ताप मृत्युपरिहारायाऽऽयुष्प्रार्थनं दर्शयति— “मा पाद्यायुषः पुरेत्याहाऽऽयुरेवास्मिन्दधाति तस्माद्गर्दभः सर्वमायुरेति तस्माद्गर्दभे पुराऽऽयुषः प्रमीते विभ्यति” [सं. का. ५ प्र. १ अ. ५] इति।
यस्मादनेन मन्त्रेणाऽऽयुः स्थापितं तस्मात्तृणादिदुराहारं भक्षयन्नपि गर्दभोऽश्वादिवच्छूलादिना न म्रियते, किंतु सर्वमायुरेति। यस्माच्च गर्दभस्य सर्वायुः प्राप्तिः स्वाभाविकी तस्माल्लोके तिर्यग्विषयवैद्यशास्त्रे प्रसिद्धादायुषः पुरा कदाचि दकस्माद्गर्दभे मृते सत्युत्पातोऽयमिति प्रजा। बिभ्यति।
तृतीयमन्त्रस्य प्रथमपादे गर्दभस्यापत्योत्पादकत्वेन वृषत्वमग्नेश्च फलाभि-वर्षकत्वेन वृषत्वं प्रसिद्धमित्येदद्दर्शयति— “वृषाऽग्निं वृषणं भरन्नित्याह वृषां ह्येष वृषाऽग्निः” [सं. का. ५ प्र. १ अ. ५] इति।
तृतीयपादे वीतय इतिशब्देन प्रजननाद्यार्थः साक्षाद्विवक्षितः द्यावापृथि-व्योर्वियोगस्त्वग्निकृतप्रजननार्थ इत्येतदभिप्रायं दर्शयति— “अग्न आ याहि वीयत इति वा इमौ लोकौ व्यैतामग्न आ याहि वतिय इति यदाहानयोर्लोकयोर्वीत्यै” [सं. का. ५ प्र. १ अ. ५] इति।
पुरा द्यावापृथिव्याख्यौ लोकावेकीभावमापन्नौ सन्तो यदा वियुक्तौ भवत- १७९३ स्तदानीमावयोर्गध्ये प्रजननाद्यर्थं हेऽग्ने समायहीत्यनेनाभिप्रायेणाग्निकृतप्रजन-नादिव्यापारस्यावकाशं दातुं वियुक्तावभूताम् । तस्मादयं मन्त्रः प्रजननाद्यर्थमग्न्यागमनं वदंस्तदवकाशप्रदात्र्योर्द्यावापृथिव्योर्वियोगाय संपद्यते।
अस्य मन्त्रस्य चरमभागे गन्तव्यत्वेन निर्दिष्टयोर्ऋतसत्ययोस्तात्पर्यं दर्शयति— ‘प्रच्युतो वा एष आयतनादगतः प्रतिष्ठाँ स एरर्ह्यध्वर्युं च यजमानं च घ्यायत्यृतँ सत्यमित्याहेयं वा ऋतमसौ सत्यमनयोरेवैनं प्रति ष्ठापयति नाऽऽर्तिमार्छत्य-ध्वर्युनं यजमानः’ (सं. का. ५ प्र. १ अ. ५) इति।
एषोऽग्निः खननप्रदेशात्स्वकीयादायतनात्प्रच्युतोऽनयत्रापि न क्वचित्प्रतिष्ठांगतः। सोऽग्निरेतस्मिन्काले कुपितोऽध्वर्युयजमानौ हन्तुं ध्यायति। अतोऽस्य प्रतिष्ठार्थ द्यावापृथिवीविवक्षया मन्त्र ऋतसत्यशब्दौ प्रयुङ्क्ते। तेनानयो-र्लोकयोरग्नेः स्थापनादध्वर्युयजमानौ न विनश्यतः।
मन्त्रः
ओष॑धय॒ᳶ प्रति॑ गृह्णीता॒ग्निमे॒तँ शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्मान् ।
व्यस्य॒न्विश्वा॒ अम॑ती॒ररा॑तीर्नि॒षीद॑न्नो॒ अप॑ दुर्म॒तिँ ह॑नत् ।
टीका
कल्पः — ‘उत्तरेण विहारं परिश्रत औषधयः प्रतिगृह्णीताग्निमेतमिति द्वाभ्यामोषधीषु पुष्पवतीषु फलवतीषूपावहरति’ इति। तत्र प्रथमामाह— ओषधय इति । हे ओषधयोऽत्रास्मिन्परिश्रते देशे युष्मानभिमुखीकृ-त्याऽऽयन्तमागच्छन्तं शिवं शान्तमेतमग्रिं प्रतिगृह्णीत स्वी कुरुत। अयं चाग्नियुंष्मासु निषीदन्नोऽस्माकं दुर्मतिमपहनत्प्रमादालस्यादियुक्तां बुद्धिमपहन्तु। किं कुर्वन्, विश्वा अरातीरमतीर्व्यस्याञ्शत्रुसमाना रोगजन्या बाधाः सर्वाः परिहरन्।
मन्त्रः
ओष॑धय॒ᳶ प्रति॑ मोदध्वमेन॒म्पुष्पा॑वतीस्सुपिप्प॒लाः ।
अ॒यव्ँवो॒ गर्भ॑ ऋ॒त्विय॑ᳶ प्र॒त्नँ स॒धस्थ॒मास॑दत् ॥ [17]
टीका
अथ द्वितीयामाह— ओषधयः प्रतीति। पुष्पावतीः प्रशस्तपुष्पोपेताः सुपिप्पलाः शोभनफलो-पेता हे ओषधय एवमग्निं प्रति मोदध्वं हृष्टा भवत। अयमग्निर्यो युष्माकमृत्विय ऋतु-कालीनो गर्मो भूत्वा प्रत्नं पुरातनं सधस्थं गर्भयोग्यं स्थानमासदत्प्राप्तवान् ।
अथ प्रथममन्त्रस्य प्रथमपाद ओषधिप्रतिग्रहप्रार्थनायां कारणं दर्शयति— ‘वरुणो वा एष यजमानमभ्यैति यदग्निरुपनद्ध ओषधयः प्रति गृह्णीता-ग्निमेतमित्याह शान्त्यै’ (सं. का. ५ प्र. १ अ. ५) इति।
१७९४ कृष्णाजिने बद्धो योऽग्निः स ए, बन्धकेन वरुणपाशेन युक्तत्वाद्वरुणः सन्यजमानमभिलक्ष्य बाधितुमागच्छति। अतस्तच्छान्त्यर्थमोषधिप्रतिग्रहः।
तृतीयपादेऽरातिशब्देम राक्षसाः सूचिता इति दर्शयति— ‘व्यस्यन्विश्व अमतीररातीरित्याह रक्षसामपहत्यै’ (सं. का. ५ प्र. १ अ. ५) इति।
चतुर्थपादे दुर्बुद्धिपरिहारोऽनुष्ठाप्रतिष्ठार्थ इति दर्शयति— ‘निषीदन्नो अप दुर्भतिँ हनदित्याह प्रतिष्ठित्यै’ (सं. का. ५ प्र. १ अ. ५) इति।
द्वितीयमन्त्रस्य प्रथमपाद ओषधिप्रतिमोदप्रार्थनया जाठराग्निसमृद्धिरित्येत-द्दर्शयति— ‘ओषधयः प्रति मोदध्वमेनमित्याहौषधयो वा अग्नेभार्गथेयं ताभिरेवैनँ समर्धयति’ (सं. का. ५ प्र. १ अ. ५) इति।
ओषधिस्थापनेनाग्निद्वयस्य समृद्धिः।
द्वितीयपादे सुपिप्पलशब्दतात्पर्यं दर्शयति— ‘पुष्पावतीः सुपिप्पला इत्याह तस्मादोषधयः फलं गृह्णन्ति’ [सं. का. ५ प्र. १ अ. ५] इति।
यस्मादत्र सुपिप्पला इत्युक्तं तस्माल्लोकेऽप्योषधयः स्वकाले संपूर्णं फलं गृह्णन्ति।
द्वितीयार्धे सघस्थमाऽसददित्यस्य तात्पर्यं दर्शयति— ‘अयं वो गर्भ ऋत्वियः प्रत्नँ सधस्थमासददित्याह याभ्य एवैनं प्रच्यावयति तास्वेवैनं प्रति ष्ठायति’ (सं. का. ५ प्र. १ अ. ५) इति।
मृत्खननभूमौ पूर्वमुत्पन्नाभ्यो याभ्य ओषधीभ्यः प्रच्याव्यायमग्निरानीतस्तम-ग्निमुपावहरणप्रदेशे तास्वेवौषधिजातिषु स्थापितवान्भवति।
ओषधयः प्रतिगृह्णीतेत्यादिकं मन्त्रद्वयं विनियुङ्क्ते— १७९५ “द्वाम्यामुपावहरति प्रतिष्ठित्यै” ’ (सं. का. ५ प्र. १ अ. ५) इति।
अत्र विनियोगसंग्रहः— सं मृत्खनेऽपो निनयेत्सृजो संभृतबन्ध (न) म् ।
उदुद्वाभ्यां समुत्थाय सजातस्त्वाहरेन्मृदम॥
स्थिरो गर्दभ आधाय शिव आहितमन्त्रणम्।
प्रैतुत्रिभिः शनैर्याति ह्योषद्वाभ्यामिमां मृदम्॥
उपाहरेदोषधीषु मन्त्रा द्वादश वर्णिताः ॥ इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥
अनुवाकः ५ उस्रानिर्माणम्
१ त्रिष्टुप्, २-४ गायत्री, ५,७-१०, १९ अनुष्टुप् , ३,७ बृहती , ६ महाबृहती अग्निर्ऋषिः ।
चतुर्थकाण्डे प्रथमप्रपाठकेपञ्चमोऽनुवाकः
मन्त्रः
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः ।
सु॒शर्म॑णो बृह॒तश्शर्म॑णि स्याम॒ग्नेर॒हँ सु॒हव॑स्य॒ प्रणी॑तौ ।
टीका
[अथ चतुर्थकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः]।
चतुर्थेऽनुवाके मृदाहरणमुक्तम्। अथ पञ्चम उखानिमीणमुच्यते— कल्पः—‘वि पाजसेति विस्रस्य’ इति। पाठस्तु— वि पाजसेति । हेऽग्ने पृथुना विस्तृतेन पाजसा बलेन शोशुचानो दीप्यमानस्त्वं द्विषः शत्रुन्रक्षसो राक्षसानमीवा रोगांश्च विशेषेण बाधस्व। अहं सुशर्मणः शोभनसुखस्य बृहतः प्रौढस्य सुवहस्य सुखेनाऽऽह्वातुं शक्यस्याग्नेः प्रणीतौ परिचर्यायां सत्यां यच्छर्म सुखं तस्मिन्सुखे स्यां सर्वदाऽवतिष्ठेय। तमिमं मन्त्रं विनियुङ्क्ते— ‘वारुणो वा अग्निरुपनद्धो वि पाजसेति वि स्रँ सयति सवितृप्रसूत एवास्य विषूचीं वरुणमेनिं वि सृजति’ (सं. का. ५ प्र. १ अ. ६) इति।
यद्यप्यमन्त्रकेण लौकिकविस्रंसनेन लौकिकबन्धो निवर्तते तथाऽपि सवितृप्रेरणन्तरेण वरुणपाशस्य निवृत्त्यभावात्सवितृप्रेरणाय मन्त्रपाठः। अस्य मन्त्रस्य बन्धविमोचनायैव सवित्रा परमेश्वरेण निर्मितत्वात्तत्पाठे सति सवितृमेरितो भवति। वरुणस्या संबन्धिनो पाशबन्धकृता बाधा वरुणमेनिः। सा च विषूची सर्वतः प्रसृता बहुधा रज्जुभिरावेष्ट्याऽऽहृतत्वात्। अस्याग्नेस्तादृशीं वरुणमेनिं मन्त्रेण विमोचितवान्भवति।
मन्त्रः
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ।
टीका
कल्पः — ‘आपो हि ष्ठा मयोभुव इति तिसृभिरप उपसृज्य’ इति।
तत्र प्रथमामाह— १७९८ आपो हि ष्ठेति। हिशब्द एवकारार्थः प्रसिद्ध्यर्थो वा। हे आपो यूयमेव मयोभुवः स्थ सुखस्य भावयित्र्यो भवत। स्नानपानादिहेतुत्वेन सुखोत्पादकत्वं प्रसिद्धम्। तास्तादृश्यो यूयं नोऽस्मानूर्जे रसाय भवदीयरसानुभवार्थं दधातन स्थापय-त। किंच महे महते रणाय रमणीयाय चक्षसे दर्शनाय दधातन, अस्मान्परतत्त्वसा-क्षात्कारयोग्यान्कुरुतेत्यर्थः।
मन्त्रः
यो व॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ ।
उ॒श॒तीरि॑व मा॒तरः॑ ।
टीका
अथ द्वितीयामाह— यो वः शिवतम इति। यो युष्माक्रं शिवतमः शान्ततमः सुखैकहेतुर्यो रसोऽस्ति, इहास्मिन्कर्मणि नोऽस्मांस्तस्य भाजयत (तं) रसं प्रापयत। तत्र दृष्टान्तः—उशतीरिव मातर इति। कामयमानाः प्रीतियुक्ता मातरो यथा वत्सान्स्वकीयस्तन्यरसं प्रापयन्ति तद्वत्।
मन्त्रः
तस्मा॒ अर॑ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
टीका
अथ तृतीयामाह— तस्मा अरमिति। यस्य रसस्य क्षयाय क्षयेण निवासेन जिन्वथ यूयं प्रीता भवथ, तस्मै रसाय वौ युष्मानरं गमामालं भृशं प्राप्नुमः । किंच हे आपो यूयं नोऽस्माञ्जनयथ प्रजोत्पादकन्कुरुथ। एतैर्मन्त्रैः साध्यं जलमेलनं विधत्ते— ‘अप उप सृजत्यापो वै शान्ताः शान्ताभिरेवास्य शुचँ शमयति’ (सं. का. ५ प्र. १ अ. ६) इति। अस्याग्नेः शुचं शोकं दाहमित्यर्थः।
आपो हि ष्ठेत्याद्युचस्तत्र विनियुङ्क्ते— ‘तिसृभिरुप सृजति त्रिवृद्वा अग्निर्यावानेवाग्निस्तस्य शुचँ शमयति’ (सं. का. ५ प्र. १ अ. ६) इति।
आहवनीयादिरूपेणाग्नेस्त्रैगुण्यम्। तस्य सर्वस्याग्नेर्मन्त्रत्रयेण दाहशान्तिः।
मन्त्रः
मि॒त्रः [18] सँ॒सृज्य॑ पृथि॒वीम्भूमि॑ञ्च॒ ज्योति॑षा स॒ह ।
सुजा॑तञ्जा॒तवे॑दसम॒ग्निव्ँ वै॑श्वान॒रव्ँवि॒भुम् ।
टीका
कल्पः—‘मित्रः सँ सृज्य पृथिवीमिति द्वाभ्यां संजर्जनीयैः संसृजत्यर्मक-पालैः पित्रैः पिष्टैर्वेण्वङ्गारैर्व्रीहितुषैः पलाशकषायेण शर्कराभिः पिष्टाभिः कृष्णाजिन लोमभिरजलोमभिः ’ इति। तत्र प्रथमामाह— मित्रः सँसृज्येति। मित्रनामकः सर्वेषामाप्तो देवः पृथिवी भूमिं विस्तृता-मिमां भृदं, चशब्दादस्यां मुद्युपसृष्टा जपश्च ज्योतिषा ज्योतिःशब्दोपलक्षितेदार्ढ्यहेतु-ना वक्ष्यमाणार्मकपालादिना संसृज्याग्निं सुजातमकरोदिति शेषः। अग्निशब्दोपल-क्षितामुखां निर्मितवानित्यर्थः। कीदृशमग्निं, जातवेदसमुत्पन्नप्राण्यभिज्ञं १७९९ वैश्वानरं सर्वपुरुषोपकारकत्वेन तत्संबन्धिनं विभुं सर्वेषु यजमानगृहेषु व्याप्तम।
मन्त्रः
मि॒त्रः [18] सँ॒सृज्य॑ पृथि॒वीम्भूमि॑ञ्च॒ ज्योति॑षा स॒ह ।
सुजा॑तञ्जा॒तवे॑दसम॒ग्निव्ँ वै॑श्वान॒रव्ँवि॒भुम् ।
टीका
अथ द्वितीयामाह— अयक्ष्माय त्वेति। हेऽग्ने त्वां प्रजाभ्यः प्रजानामयक्ष्माय रोगाभावय संसृजामि अर्मकपालादिभिः संयोजयामि। वैश्वानराः सर्वपुरुषोपकारिणो विश्वे सर्वेऽपि देवा आनुष्टुभेन च्छन्दसा सहकारिणा युक्तास्त्वां संसृजन्तु। किंवत्। अङ्गिरस्वत। यथाऽङ्गिरसः पूर्वं संयोजितवन्तस्तद्वत्।
मन्त्रे देवतान्तरपरित्यागेन मित्रस्यैव स्वीकारे कारणं दर्शयति— “मित्रः सँ सृज्य पृथिवीमित्याह मित्रो वै शिवो देवानां तेनैवैनँ सँ सृजति शान्त्यै” (सं. का. ५ प्र. १ अ. ६) इति।
देवानां मध्ये मित्रः शिवः शान्तः । अतोऽग्नेः शान्त्यै मित्रास्य स्वीकारः।
अथ दार्ढ्यहेतुभिः कपालैः संसर्गं विधत्ते— यद्ग्राभ्याणां पात्राणां कपालैः सँ सृजेद्ग्राम्याणि पात्राणि शुचाऽर्पयेदर्भ-कपालैः सँ जत्येतानि वा अनुपजीवनीयानि तान्येव शुचाऽर्पयति” (सं. का. ५ प्र. १ अ. ६) इति।
पाकसाधनानां भाणडानां कपालैः संसर्गे सति सर्वाण्यति भाण्डानि शुचाऽर्पयेत्, गृहदाहादिकृतेन भङ्गेन योजितानि भवेयुः। अतस्तन्मा भूदित्यर्मक-पालैः संयोजयेत् । चिरकालशून्यग्रामभूमाववस्थिनानि पुरातनान्यर्मकपालानि, तेषां प्राणिभिरनुपजीवनीयत्वात्तान्येव भङ्गेन योजितानि भवति, न तु गृहोपकार णानि भाण्डानि। अथ भूमिष्ठैः क्षुद्रपाषाणैश्चूर्णीकृतेः संसर्ग विधत्ते— “शंर्कराभिः सँसृजति धृत्या अथो शंत्वाय” (सं. का. ५ प्र. १ अ. ६) इति।
घृत्यै निर्माणकाले भङ्गराहित्येन दार्ढ्याय। अथो शंत्वाय पाककालेऽपि भङ्गराहित्येन सुखावस्थानाय। द्रव्यान्तरसंसर्गं विधत्ते— ‘अजलोमैः सँ सृजत्येषा वा अग्नेः प्रिया तूर्यदजा प्रिययैवेनं तनुवं सँ सृजत्यथो तेजसा” (सं. का. ५ प्र. १ अ. ६) इति।
अजत्वाजातेरग्नेश्च प्रजापतिमुखजत्वसाम्यादजेयमग्नेः प्रिया तनूः । न केवलं १८०० प्रियत्वं किंत्वग्निसंबन्धात्तेजोरूपत्वमपि। अतः प्रियया तन्वा तेजसा चाग्निं समर्धयति । पुनरपि द्रव्यान्तरसंसर्गं विधत्ते— “कृष्णाजिनस्य लोमभिः सँ सृजति यज्ञो वै कृष्णाजिनं यज्ञेनैव यज्ञँसँसृजति” [सं. का. ५ प्र. १ अ. ६] इति।
अन्यत्र “यज्ञो देवेभ्यो निलायत कृष्णो रूपं कृत्वा” इत्युक्तत्वाद्यज्ञस्य कृष्णाजिनत्वम् । अतः कृष्णाजिनरूपेण यज्ञेनाग्निरूपं यज्ञं संसृजति।
मन्त्रः
रु॒द्रास्स॒म्भृत्य॑ पृथि॒वीम्बृ॒हज्ज्योति॒स्समी॑धिरे ।
तेषा॑म्भा॒नुरज॑स्र॒ इच्छु॒क्रो दे॒वेषु॑ रोचते ।
टीका
कल्पः—“रुद्राः संभृत्य पृथिवीमिति मृदं संक्षिप्यं” इति। पाठस्तु— रुद्राः संभृत्येति। रुद्रनामका देवाः पृथिवीमुखानिष्पादिकां मृदं संभृत्य सम्यग्भरणं कृत्वोखाकरणाय मृदु यथा भवति तथा हस्ताभ्यां संघट्टनं कृत्वेत्यर्थः। तथा कृत्वा बृहज्ज्योतिः समीधिरे प्रौढमग्निं दीपितवन्तः । तेषां रुद्राणामयमग्निर्भानु-र्भासमानोऽजस्र इन्निरन्तर एव शुक्रो दीप्तियुक्तो देवेषु रोचते शोभते। मन्त्रः
सँसृ॑ष्टाव्ँ॒वसु॑भी रु॒द्रैर्धीरैः॑ कर्म॒ण्या॑म्मृद॑म् ।
हस्ता॑भ्याम्मृ॒द्वीङ्कृ॒त्वा सि॑नीवा॒ली क॑रोतु [19] ताम् ।
टीका
कल्पः — “सँ सृष्टां वसुभिरिति तिसृभिः कर्त्रे प्रयच्छति” (सं. का. ५ प्र. १ अ. ६) इति। तत्र प्रथमामाह— सँसृष्टां वसुभिरिति। पूर्वमन्त्रे रुद्रशब्देन वसवोऽप्युपलक्षिताः । अतो धीरैर्बुद्धिर्वसुभी रुद्रैश्च या मृदर्मकपालादिभिः संयोजिता सती कर्मण्योखा कर्मयोग्या संपन्ना जाता तां मृदं सिनीवाली देवी पुनरपि हस्ताभ्यां मृद्वीं कृत्वा करोतु, उखां निष्पादयतु।
मन्त्रः
सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा ।
सा तुभ्य॑मदिते मह॒ ओखान्द॑धातु॒ हस्त॑योः ।
टीका
अथ द्वितीयामाह— सिनिवालीति। या सिनीवाली सुकपर्दा, कपर्दोऽत्र स्त्रीणामुचितः केशब-न्धविशेषः। शोभनः कपर्दो यस्याः सा सुकपर्दा । कुरीरशब्देन स्त्रीभिः शृङ्गारार्थं शिरसि धार्यमाणं जालकमुच्यते। शोभनं कुरीरं यस्याः सुकुरीरा । उपशेते सम्य-क्शयनं करोति यैरवयवविशेषैस्ते सर्व उपशास्तोषां समूह औपशः। शोभन औपशो यस्याः सा स्वौपशा। हे महे प्रौढेऽदिते भूमिदेवि सा सिनीवाली तुभ्यं तव हस्तयोरु-खामादधातु।
मन्त्रः
उ॒खाङ्क॑रोतु॒ शक्त्या॑ बा॒हुभ्या॒मदि॑तिर्धि॒या ।
मा॒ता पु॒त्रय्ँयथो॒पस्थे॒ साग्निम्बि॑भर्तु॒ गर्भ॒ आ ।
टीका
अथ तृतीयामाह— १८०१ उखां करोत्विति। इयमदितिर्धिया बुद्धिकौशलेन बाहुभ्यां हस्तकौशलेन शक्त्या शरीरबलेन चेमामुखां करोतु। यथा लोके माता स्वकीयं पुत्रमुपस्थ उत्सङ्गे बिभर्ति तथा साऽदितिर्गर्भे स्वोत्सङ्गे तमग्निमा कर्मसमाप्तेर्विभर्तुं।
उक्तस्य मन्त्रचतुष्ठयस्य तात्पर्यं दर्शयति— ‘रुद्राः संभृत्य पृथिवीमित्याहैता वा एतं देवता अग्रे समभरन्ताभिरेवैनँ सं भरति’ [सं. का. ५ प्र. १ अ. ६] इति।
रुद्राः वसवः सिनिवाल्यदितिश्चेत्येतच्छब्दपरामृष्टा देवताः।
मखस्येति ।
मन्त्रः
म॒खस्य॒ शिरो॑ऽसि
टीका
कल्पः—‘मखस्य शिरोऽसीति पिण्डं कृत्वा’ इति।
हे मृत्पिण्ड त्वं मखस्य यज्ञस्य शिरः स्थानमसि।
तत्र मखशब्दार्थे दर्शयति— ‘मखस्य शिरोऽसीत्याह यज्ञो वे मखस्तस्यैनच्छिरो यदुखा तस्मादेवमाह’ (सं. का. ५ प्र. १ अ. ६) इति।
[सं. का. ५ प्र. १ अ. ६] इति।
यज्ञस्येति।
मन्त्रः
य॒ज्ञस्य॑ प॒दे स्थः॑ ।
टीका
कल्पः—‘यज्ञस्य पदे स्थ इति कृष्णाजिनं पुष्करपर्णे चाभिमृ-शति’ इति।
हे कृष्णाजिनपुष्करपर्णे युवामुभे यज्ञस्य पादरूपे स्थः ।
कृष्णाजिनपुष्करपर्णयोर्यज्ञप्राप्तिहेतुत्वाद्यज्ञपदत्वं प्रसिद्धमित्यतेद्दर्शयति— ‘यज्ञस्य पदे स्थ इत्याह यज्ञस्य ह्येते अथो प्रतिष्ठित्यै’ (सं. का. ५ प्र. १ अ. ६) इति।
संयुक्तमन्त्रः
वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वत्पृ॑थि॒व्य॑सि रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वद॒न्तरि॑क्षमसि [20]
आ॒दि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्द्यौर॑सि॒ विश्वे॑ त्वा दे॒वा वै॑श्वान॒राᳵ कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वद्दिशो॑ऽसि ध्रु॒वासि॑ धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोष॑ङ्गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान्यज॑माना॒य
मन्त्रः
वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑सा ।
अ॒ङ्गि॒र॒स्वत्पृ॑थि॒व्य॑सि (ध्रु॒वासि॑ । धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोष॑ङ्गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान्यज॑माना॒य । )।
रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा ।
अ॒ङ्गि॒र॒स्वद॒न्तरि॑क्षमसि [20] (ध्रु॒वासि॑ । धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोष॑ङ्गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान्यज॑माना॒य । ) ।
आ॒दि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑सा ।
अ॒ङ्गि॒र॒स्वद्द्यौर॑सि (ध्रु॒वासि॑ । धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोष॑ङ्गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान्यज॑माना॒य । )।
टीका
कल्पः—“वसवस्त्वा कृण्वन्तु गायत्रेण छन्दसेति चतुर्भिर्महिष्युख करोति बहुभार्यस्याध्वर्युरेकभारस्य क्रियमाणामेतैरेव यजमानोऽनुमन्त्रयते” इति।
पाठस्तु— वसवस्त्वा कृण्वन्त्विति । हे उखे वस्वाख्या देवाः सहकारिणा गायत्रेण च्छन्दसा सहाङ्गिरस इव त्वां कृण्वन्तु निष्पादयन्तु । त्वं च पृथिवीरूपाऽसि। एवमुत्तरेषु त्रिष्वपि योज्यम् ।
Mantra
विश्वे॑ त्वा दे॒वा वै॑श्वान॒राᳵ कृ॑ण्व॒न्तु , आनु॑ष्टुभेन॒ छन्द॑सा ।
२२२ वैश्वानराः सर्वमनुष्योपकारिणः ।
मन्त्रः
अ॒ङ्गि॒र॒स्वद्दिशो॑ऽसि ।
ध्रु॒वासि॑ ।
धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोष॑ङ्गौप॒त्यँ सु॒वीर्यँ॑ सजा॒तान्यज॑माना॒य ।
टीका
हे उखे त्वं १८०२ घ्रुवाऽसि दृढाऽसि । अतो मय्यध्वर्यावन्यस्मिन्वोखाकर्तरि प्रजादिकं धारय स्थापय। यजमानार्थमपि प्रजादिकं संपादय। सोऽयं घ्रुवाऽत्यादिरन्त्यभागः पूर्वेष्वपि त्रिष्वनुषज्यते।
संसृष्टामित्याद्यृग्भिः कत्र प्रदानं वसवास्त्वेत्यादिभिर्यजुर्भिर्यजमानानुमन्त्रणं च क्रमेण विधत्ते— ‘प्रान्याभिर्यच्छत्यन्वन्यैर्मन्त्रयते मिधुनत्वाय’ [सं. का. ५ प्र. १ अ. ६] इति।
अन्याभिर्मसवस्त्वेत्यादियजुर्भ्यो विलक्षणाभिर्ऋग्भिरन्यैः संसृष्टमित्या-दिभ्य ऋग्भ्यो विलक्षणैर्वसवस्त्वेत्यादिभिर्यजुर्भिर्ऋचां स्त्रीलिङ्गत्वाद्यजुषामतथा-त्वान्मिथुनत्वम् । निर्मातव्याया उखाया कक्ष्यात्रयं विधत्ते— ‘त्र्युद्धिं करोति त्रय इम लोका एषां लोकानामाप्त्यै’ [सं. का. ५ प्र. १ अ. ६] इति।
उद्धिरूर्ध्वभवस्थितोऽवयवविशेषः यथा भाण्डस्योपर्यन्यद्भाण्डं तस्याप्यु-परि पुनरप्यन्यद्भाण्डमिति कक्ष्यात्रयं तथेयमेकैवोखा कक्ष्यात्रयबुक्ता कार्या ।
वसवस्त्वेत्यादिभिर्मन्त्रैर्यजमानस्यानुमन्त्रणं पूर्वं विहितमिदानीं तैरेव मन्त्रै कर्तुः कर्मनिष्पादनं विधत्ते— ‘छन्दोभिः करोति वीर्यं वै छन्दाँसि वीर्योणैवैनां करोति’ (सं. का. ५ प्र. १ अ. ६) इति। छन्दोभिश्छन्दोलिङ्गकैर्वसवस्त्वेत्यादिभिर्मन्त्रैः। अदित्या इति ।
मन्त्रः
अदि॑त्यै॒ रास्ना॑ऽसि ,
टीका
कल्पः– ‘अदित्यै रास्नाऽसीति रास्नां करोति’ इति ।
रशनासदृशी भाण्डस्य बलगता रेखा रास्ना । हे रेखे त्वमदित्यै भूमिरू-पाया उखाया रास्ना काञ्चीगुणस्थानीया रशनाऽसि।
मन्त्रः
अदि॑तिस्ते॒ बिल॑ङ्गृह्णातु॒ पाङ्क्ते॑न॒ छन्द॑साऽङ्गिर॒स्वत् ।
टीका
कल्पः–‘अदितिस्ते बिलं गृह्णात्विति बिलं कृत्वा’ इति। पाठस्तु– अदितिस्ते बिलमिति । हे उखेऽदितिर्भूमिः सहकारिणा पाङ्क्तेन च्छन्दसा सहाङ्गिरस इव ते तव बिलमन्तश्छिद्रं गृह्वातु करोतु। एतं मन्त्रं विनियुङ्क्ते— १८०३ “यजुषा बिलं करोति व्यावृत्यै” (सं. का. ५ प्र. १ अ. ६) इति।
लौकिकस्य हि भाण्डस्य मन्त्रमन्तरणैव बिलं क्रियते। अत्र तु समन्त्रक-मिति व्यावृत्तिः। उखायाः प्रादेशपरिमाणं विधत्ते— ‘इयतीं करोति प्रजापतिना यज्ञमुखेन संमिताम्’ (सं. का. ५ प्र. १ अ. ६) इति।
यज्ञपुरुषस्य मुखं मूर्धचु (चि) बुकयोर्मध्यवर्ति प्रादेशमात्रं, तच्च प्रजाप-तिसृष्टत्वात्प्रजापतिस्वरूपं, तेन मुखेन परिमिता भवति। तत्परिमाणं हस्तेनाभिनीय प्रदर्शनार्थमियतीत्युच्यते। अथ विधत्ते— “द्विस्तानां करोति द्यावापृथिव्योर्दोहाय” (सं. का. ५ प्र. १ अ. ६) इति।
यथा योषितः स्तनावेवमस्या उखाया द्वौ स्तनाकारौ मृदा निष्षाद्यौ।
तथा सति द्वित्वसाम्याद्द्यावापृथिव्योः सारांशदोहनं संपद्यते।
पक्षान्तरं विधत्ते— ‘चतुस्तनां करोति पशूनां दोहाय’ [सं. का. ५ प्र. १ अ. ६] इति।
‘अष्टास्तगां करोति छन्दसां दोहाय’ [सं. का. ५ प्र. १ अ. ६] इति।
अष्टौ छन्दांसि मन्त्रान्तरे समाम्नातानि— ‘गायत्री त्रिष्टुब्जगत्यनुष्टुक्प-ङ्क्त्या सह । बृहत्युष्णिहा ककुत्’ इति।
अष्टत्वसंख्यासाम्याच्छन्दसां सारदोहनं संपद्यते। तदेतत्सर्वं सूत्रकारेण संगृहीतम्— ‘अश्रीणां रास्नायाश्च संधौ द्वौ चतुरः षडष्टौ वा स्तनान्करोति’ इति। अधिकारिविशेषेणाश्रिषु संख्याविशेषं विधत्ते— ‘नवाश्रिमभिचरतः कुर्यात्त्रिषृतमेव वज्रँ संभृत्य भ्रातृव्याय प्र हरति स्तृत्यै’ [सं. का. ५ प्र. १ अ. ६] इति।
त्रिवृत्स्तोमस्य नवभिर्ऋग्भिरुपेतत्वादश्रिसंख्या त्रिवृत्संपद्यते । स च त्रिवृ १८०४ त्स्तोमो वैरिविनाशकत्वाद्वज्रसमानः । अतो नवसंख्या भ्रातृव्याय वज्रप्रहरणं संपद्यते । अभिचाराभावे त्वश्रिसंख्यां सूत्रकारो दर्शयति– ‘कुर्वं श्चतस्त्रोऽश्री प्रति-दिशमुन्नयत्यष्टाश्रीर्वा’ इति।
मन्त्रः
कृ॒त्वाय॒ सा म॒हीमु॒खाम्मृ॒न्मयीय्ँ॒योनि॑म॒ग्नये॑ ।
ताम्पु॒त्रेभ्य॒स्सम्प्राय॑च्छ॒ददि॑तिश्श्र॒पया॒निति॑ ॥ [21]
टीका
कल्पः—‘कृत्वाय सा महीमुखामित्युत्तरसः सिकतासु प्रतिष्ठाप्य’ इति। पाठस्तु— कृत्वाय सेति । सेयमदितिर्मृन्मयीं मृत्कार्यामग्नये योनिमग्नेः कारणभूतां महीं महतीमुखां कृत्वाय निष्पाद्य ततस्तामुखां पुत्रेभ्यः स्वपुत्रसदृशेभ्यः श्रपणका-रिम्यः संप्रायच्छत्सम्यग्दत्तवती। किं ब्रुवतीति ततुच्यते— श्रपयानिति अपयन्तु भवन्त इति ब्रुवती । तमेतं मन्त्रं विनियुङ्क्ते ‘कृत्वाय सा महीमुखामित नि दधाति देवतास्वेनैनां प्रति ष्ठापर्यति’ [सं. का. ५ प्र. १ अ. ६] इति।
अदितिपुत्राणां देवतारूपत्वाद्देवतासु प्रतिष्ठापनं संपद्यते।
अत्र विनियोगसंग्रहः— वि पा विस्रंसयेदापस्त्रिभिर्मृदि जलं क्षिपेत्।
मित्रोद्वाभ्यां शर्करादियोगो रुद्रेति संक्षिपेत्॥
संसृत्त्रिभिर्मृत्तिकां तामुखाकर्त्रे प्रयच्छति।
मख पिण्डकृतिर्यज्ञ चर्मपर्णाभिमर्शनम्॥
कुर्याद्वसचतुर्भिस्तां घ्रुवासीत्यनुषज्यते।
अदि रा नामदि बिलं कुर्यात्कृत्वाय तामुखाम्॥
सिकतासु स्थापयीत मन्त्रा एकोनविंशतिः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥
अनुवाकः ६ उखासंस्कारः
१४ शख्गुमत्यनुष्टुप्, १८ अनुष्टुप्, १५-१७८ गायत्री अग्निर्ऋषिः
चतुर्थकाण्डे प्रथमप्रपाठके षष्ठोऽनुवाकः
संयुक्तमन्त्रः
वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्रु॒द्रास्त्वा॑ धूपयन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वदा॑दि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वदिन्द्र॑स्त्वा धूपयत्वङ्गिर॒स्वद्विष्णु॑स्त्वा धूपयत्वङ्गिर॒स्वद्वरु॑णस्त्वा धूपयत्वङ्गिर॒स्वत् ।
मन्त्रः
वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वत् ,
रु॒द्रास्त्वा॑ धूपयन्तु, त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वत् ,
आ॒दि॒त्यास्त्वा॑ धूपयन्तु, जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वत् ।
विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा धू॑पय॒न्तु , आनु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत् ।
इन्द्र॑स्त्वा धूपयतु, अ॒ङ्गि॒र॒स्वद्विष्णु॑स्त्वा धूपयत्वङ्गिर॒स्वत्
वरु॑णस्त्वा धूपयतु , अ॒ङ्गि॒र॒स्वत् ।
टीका
(अथ चतुर्थाष्टके प्रथमप्रपाठके षष्ठोऽनुवाकः) ।
पञ्चमेऽनुवाक उखानिर्माणमुक्तम् । अथ षष्ठे तत्संस्कारोऽभिधीयते।
कल्पः — ‘वसक्स्त्वा धृपयन्तु गायत्रेण छन्दसेति सप्तयिरश्वशकेनोखां धूपयन्ति’ इति। पाठस्तु— वसवस्त्वेति। हे उखे त्वामष्टौ वसवः सहकारिणा गायत्रेण च्छन्द्रसा सहाङ्गिरस इव धूपयन्तु अश्वशकजन्येन धूमेन संस्कृर्वन्तु। एवमुत्तरेष्धषि षट्सु योजनीयम्। एतान्मन्त्रान्विनियुङ्क्ते— ‘सप्तभिर्धूपयति सप्त वै शीर्षण्याः प्राणाः शिर एतद्यज्ञस्य यदुखा शीर्पेन्नेव यज्ञस्य प्राणान्दधाति तस्मात्सप्त शीर्षन्प्राणाः’ [सं. का. ५ प्र. १ अ. ७] इति ।
शिरोवर्तिषु सप्तसु च्छिद्रेषु संचरन्तः प्राणाः सप्तसंख्याकाः । उखा च यज्ञशिरःस्थानीया । तस्मात्सप्तभिर्धूपने सति यज्ञस्य शिरस्येत्र प्राणानवस्थापयति । यस्मादेवं तस्मात्प्रतिपुरुषं शिरसि च्छिद्रभेदेन सप्त प्राणा वर्तन्ते।
१८०७ धूपसाधनं विधत्ते— ‘अश्वशकेन धूपयति प्राजापत्यो वा अश्वः सयोनित्वाय’ [सं. का. ५ प्र. १ अ. ७] इति।
अश्वस्य अशोऽश्वशकृत् । अश्वस्य प्राजापत्यत्वमसकृदुक्तम्। अग्निरपि प्राजापत्यः। ‘प्रजापतिरग्निमचिनुत’ इति श्रवणात् । अत उभयोः समानयोनित्वम्।
संयुक्तमन्त्रः
अदि॑तिस्त्वा दे॒वी वि॒श्वदे॑व्यावती पृथि॒व्यास्स॒धस्थे॑ऽङ्गिर॒स्वत्ख॑नत्ववट दे॒वाना॑न्त्वा॒ पत्नीः॑ [22] दे॒वीर्वि॒श्वदे॑व्यावतीᳶ पृथि॒व्यास्स॒धस्थे॑ऽङ्गिर॒स्वद्द॑धतूखे
मन्त्रः
अदि॑तिस्त्वा दे॒वी वि॒श्वदे॑व्यावती पृथि॒व्यास्स॒धस्थे॑ऽङ्गिर॒स्वत्ख॑नत्ववट ।
टीका
कल्पः—‘अदितिस्त्वा देवात्यिग्रेण गार्हपत्यमवटं खात्वा’ इति। पाठस्तु– अदितिस्त्वेति। विश्वेषां देवानां योग्या उपचारा विश्वदेव्यास्तेऽस्या सन्ती-ति विश्वदेव्यावती। तादृशीयमदितिर्देवी पृथिव्याः सधस्थे भूम्या उपरि हेऽवट त्वाम ङ्गिरस इव खनतु। अस्मिन्मन्त्रे खननकर्तृत्वमदितेरुपपादयति— ‘अदितिस्त्वेत्याहेयं वा अदितिरदित्यैवादित्यां खनत्यस्या अक्रूरकाराय न हि स्वः स्वँ हिनस्ति’ (सं. का. ५ प्र. १ अ. ७) इति।
इयं भूमिरेवात्रादितिशब्देन विवक्षिता । अवटखननं हि भूम्यामेव। ततोऽदितेः खननकर्तुत्वे सति भूमेर्हिंसा न भवति । न हि लोके कश्चिदपि स्वयं स्वात्मानं हिनस्ति ।
तस्मात्खननलक्षणक्रूरकार्यकरणाभावायेदमदितिकर्तृत्वं संपाद्यते।
Mantra दे॒वाना॑न्त्वा॒ पत्नीः॑ [22] दे॒वीर्वि॒श्वदे॑व्यावतीᳶ पृथि॒व्यास्स॒धस्थे॑ऽङ्गिर॒स्वद्द॑धतूखे । २२२
कल्पः—‘लोहितपचनीयैः संभारैरवस्तीर्य देवानां त्वा पत्नीरिति तस्मिन्नु-खामवदधाति’ इति। पाठस्तु— देवानां त्वेति। विश्वदेव्यावतीः कृत्स्नदेवार्होपचारयुक्ता या देवानां पत्न्या देव्यस्ताः पृथिव्याः सधस्थ उपर्यङ्गिरस इव हे उखे त्वां दधतु स्थापयन्तु।
देवपत्नीनामुखाकर्तृत्वं पुरातनमित्येतद्दर्शयति— ‘देवानां त्वा पत्नीरित्याह देवानां वा एतां पत्नयोऽग्रेऽकुर्वन्ताभिरेवैन दधाति’ [सं. का. ५ प्र. १ अ. ७] इति।
पुरा देवपत्नीभिरुखागाः कृतस्वादिदानीमपि ताभिरेव स्थापिता भवति।
संयुक्तमन्त्रः
धि॒षणा॑स्त्वा दे॒वीर्वि॒श्वदे॑व्यावतीᳶ पृथि॒व्यास्स॒धस्थे॑ऽङ्गिर॒स्वद॒भीन्ध॑तामुखे॒ ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे॑व्यावतीᳶ पृथि॒व्यास्स॒धस्थे॑ऽङ्गिर॒स्वच्छ्र॑पयन्तूखे॒ वरू॑त्रयो॒ जन॑यस्त्वा दे॒वीर्वि॒श्वदे॑व्यावतीᳶ पृथि॒व्यास्स॒धस्थे॑ऽङ्गिर॒स्वत्प॑चन्तूखे ।
मन्त्रः
धि॒षणा॑स्त्वा दे॒वीर्वि॒श्वदे॑व्यावतीᳶ पृथि॒व्यास्स॒धस्थे॑ऽङ्गिर॒स्वद॒भीन्ध॑तामुखे ।
ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे॑व्यावतीᳶ पृथि॒व्यास्स॒धस्थे॑ऽङ्गिर॒स्वच्छ्र॑पयन्तूखे ।
टीका
१८०८ कल्पः ‘लोहितपचनैः संभारैः प्रच्छाद्य धिषणास्त्वा देवीरिति चतुर्भिरुखा-यामग्निमभ्यादधाति’ इति। पाठस्तु— धिषणास्त्वेति। विद्याभिमानिन्यो देवता धिषणाः। हे उखे, त्वां ता देवता अभीन्धतामभितो ज्वालयन्तु। छन्दोभिमानिन्यो देवता ग्नास्तास्त्वां अपयन्तु तव पच्यमानतां संपादयन्तु। वरूत्रयो जनय इति पदभेदेन मन्त्रभेदः। होतृप्रशास्रादिषु सप्तसु होत्रकेष्वभिमानिन्यो देवता वरूत्रयः। सेनेन्द्रस्यत्याद्य नुवाकेनोक्ता देवपत्न्यो जनयः।
Mantra वरू॑त्रयः {त्वा दे॒वीर्वि॒श्वदे॑व्यावतीᳶ पृथि॒व्यास्स॒धस्थे॑ऽङ्गिर॒स्वत्प॑चन्तूखे ।}
जन॑यस्त्वा दे॒वीर्वि॒श्वदे॑व्यावतीᳶ पृथि॒व्यास्स॒धस्थे॑ऽङ्गिर॒स्वत्प॑चन्तूखे ।
टीका
तत्र वरूत्रयस्त्वां पचन्तु तव पक्वतां संपादयन्तु। तथा जनयस्त्वां पचन्तु पक्वत्वपरीक्षां कुर्वन्तु । वरूत्राय इति मन्त्रे त्वा देवीरित्याद्युत्तरभागोऽनुषज्यते।
एषु मन्त्रेषु धिषणादिशब्दानामस्तदुक्तार्थपरतां दर्शयति— ‘धिषणास्त्वेत्याह विद्या वै धिषणा विद्याभिरेवैनामभीन्धे ग्नास्त्वेत्याह छन्दाँसि वै ग्नाश्छन्दोभिरेवैनाँ श्रपयति वरूत्रयस्त्वेत्याह होत्रा वै वरूत्रयो होत्रा-भिरेवैनां पचति जनयस्त्वेत्याह देवानां वै पत्नीर्जनयस्ताभिरेवैनां पचति’ [सं. का. ५ प्र. १ अ. ७] इति। स्पष्टोऽर्थः।
अदितिस्त्वा देवीत्यादीनामुक्तानां मन्त्राणां संख्यां प्रशंसति— ‘षडभिःमचति षड्वा ऋतव ऋतुभिरेवैनां पचति’ [सं. का. ५ प्र. १ अ. ७] इति।
अवटखननादीनामपि पाकाङ्गत्वेन षड्भिः पचतीत्युच्यते।
वरूत्रयो जनय इत्यनयोः स्वाभिप्रेतं मन्त्रभेदं दर्शयितुं पचन्त्वित्येवम-न्तस्य भागस्यानुषङ्गरूपामावृत्तिं दर्शयति— ‘द्विः पचन्त्वित्याह तस्माद्द्विः संवत्सरस्य सस्यं पच्यते’ (सं. का. ५ प्र. १ अ. ७) इति।
वरूत्रयः पचन्तु जनयः पचन्त्वित्येवं द्विः प्रयोगः।
मन्त्रः
मित्रै॒तामु॒खाम्प॑च ।
टीका
कल्पः — ‘मित्रैतामुखां पचेति पच्यमानां तिसृभिर्मैत्रीभिरुपचरति’ इति। तत्र प्रथमामाह— १८०९ मित्रैतामुखामिति । हे मित्र सर्वप्राणिहितकारिन्देव त्वमेतामुखां पचपक्वां कुरु ।
मन्त्रः
ए॒षा मा भे॑दि ।
टीका
एषां चोखा मा भेदि भिन्ना मा भवतु।
मन्त्रः
ए॒तान्ते॒ परि॑ ददा॒म्यभि॑त्त्यै ।
टीका
एतामुखामभित्यै भेदाभावाय ते तुभ्यं परिददामि परित्राणाय ददामि।
मन्त्रः
अ॒भीमाम् [23] म॒हि॒ना दिव॑म्मि॒त्रो ब॑भूव स॒प्रथाः॑ ।
उ॒त श्रव॑सा पृथि॒वीम् ।
टीका
अथ द्वितीयामाह— अभिमामिति। मित्र इमामुखामभिबभूवाभितः प्राप्तवान् । कीदृशो मित्रः, सप्रथाः सविस्तारः प्रचुरकीर्तिरित्यर्थः । कीदृशीमिमां, महिनां दिवं महिम्ना द्युलोक-सदृशीम् । उतापि च श्रवसा पृथिवीं श्रवणेन पृथिवीसदृशीम्।
मन्त्रः
मि॒त्रस्य॑ चर्षणी॒धृत॒श्श्रवो॑ दे॒वस्य॑ सान॒सिम् ।
द्यु॒म्नञ्चि॒त्रश्र॑वस्तमम् ।
टीका
अथ तृतीयामाह— मित्रस्येति । चर्षणीधृतो मनुष्याणां धारयितुर्मित्रस्य देवस्य श्रवः श्रोतुं योग्यं यशो महदस्तीति शेषः। सानसिं फलदानशीलं द्युम्नं द्रविणप्रदं चित्रश्रवस्तमं चित्रं श्रवः कीर्तिर्यस्यासौ चित्रश्रवाः, अतिशयेन तादृशस्तमेतादृशमुखारूपं स मित्रः पचत्विति शेषः।
देवान्तरपरित्यागेन मित्रदेवताकमन्त्रस्वीकारे कारणं दर्शयति— “वारुण्युखाऽसीद्धा मैत्रियोपैति शान्त्यै” (सं. का. ५ प्र. १ अ. ७) इति।
अभिद्धा प्रज्वलिता येयमुखा सेयमुग्रत्वाद्वारुणी, तस्या मैत्र्यच शान्तिर्भ-वति।
मन्त्रः
दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिस्स्व॑ङ्गु॒रिः ।
सु॒बा॒हुरु॒त शक्त्या॑ ।
टीका
कल्पः – “पक्वां देवस्त्वा सवितोद्वपत्वित्युद्वास्य” इति। पाठस्तु— देवस्त्वेति । हे उखे सविता देवस्त्वां स्वकीयया शक्त्योद्वपतु, अवटादूर्ध्वमानयतु। कीदृशः सविता, सुषाणिः शोभनौ पाणी यस्यासौ सुपाणिः। शोभना अङ्गुलयो यस्यासौ स्वङ्गुलीः । छान्दसो रेफः । उतापि च शोभनौ बाहू यस्यासौ सुवाहुः । मणिबन्धस्योभयतोऽवस्थितौ भागौ पाणिशब्देन बाहुशब्देन चोच्येते । अस्मिन्मन्त्रे सवितृशब्दतात्पर्यं दर्शयति— “देवस्त्वा सवितोद्वपत्वित्याह सवितृप्रसूत एवैनां ब्रह्मणा देवताभिरुद्वपति” [सं. का. ५ प्र. १ अ. ७] इति।
१८१० सवित्रा प्रेरितः सन्नेनां ब्रह्मणा मन्त्रेण देवताभिश्च सहो (द्वपत्यु) द्वपनं कृतवान्भवति।
मन्त्रः
अप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॑ण ।
उत्ति॑ष्ठ बृह॒ती भ॑वो॒र्ध्वा ति॑ष्ठ ध्रु॒वा त्वम् ।
टीका
कल्पः—“अपद्यमाना पृथिव्याशा दिश आ पृणेत्युत्तरतः सिकतासु प्रति-ष्ठाप्य” इति। पाठस्तु— अपद्यमानेति। हे उखे पृथिवि पृथिव्यां भूमौ त्वमपद्यमाना भङ्गमप्राप्नु- वती, आशा दिश आपृण प्राच्याद्या दिश आग्नेयादिविदिशश्च सर्वतः पूरय उत्तिष्ठाव-टाद्वहिरागत्योत्थिता भव, उत्थाय च बृहती प्रौढा भव। तादृशी त्वमूर्ध्वा सती ध्रुवा स्थिरा भव ऊर्ध्वोर्ध्वमुखी स्थिरा तिष्ठ।
अस्मिन्मन्त्रे यद्दिशामापूरणमुक्तं सेयमग्नेः प्रभया व्याप्तिरित्येतत्तात्पर्यं दर्शयति— “अपद्यमाना पृथिव्याशा दिश आ पृणेत्याह तस्मादाग्निः सर्वा दिशोऽनुवि भाति” (सं. का. ५ प्र. १ अ. ७) इति।
यस्मादुखायाः सर्वदिक्पूर्तिः प्रार्थ्यते तस्मादुखया मिश्रितोऽग्निः स्वतेजसाः सर्वा दिशः प्रकाशयति।
उत्तरार्धेन स्थिरप्रतिष्ठा प्रार्थ्यत इति दर्शयति— “उत्तिष्ठ बृहती भावोर्ध्वा तिष्ठ घ्रुवा त्वमित्याह प्रतिष्ठित्यै” ’ [सं. का. ५ प्र. १ अ. ७] इति।
संयुक्तमन्त्रः
वस॑व॒स्त्वाच्छृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्रु॒द्रास्त्वाच्छृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वदा॑दि॒त्यास्त्वाच्छृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा आच्छृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत् ॥ [24]
मन्त्रः
वस॑व॒स्त्वाच्छृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वत् ,
रु॒द्रास्त्वाच्छृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वत्,
आ॒दि॒त्यास्त्वाच्छृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वत् , ।
विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा आच्छृ॑न्द॒न्तु, आनु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत् ॥
टीका
कल्पः—“वसवस्त्वाऽऽच्छृन्दन्तु गायत्रेण छन्दसेति चतुर्भिरजाक्षीरेणो-खामा च्छृणत्ति” इति । पाठस्तु— वसवस्त्वेति । हे उखे वसुनामका देवा अङ्गिरस इव त्वां सिञ्चन्तु। एवमुत्तरत्रापि योज्यम्। एतैर्मन्त्रैः साध्यं सेचनं विधत्ते— ‘असुर्यं पात्रमनाच्छृण्णमां च्छृणत्ति देवत्राऽकः” [सं. का. ५ प्र. १ अ. ७] इति।
यज्ञसाधनं पावमग्निदग्धं तद्द्रवद्रव्येण यदा न सिक्तं भवति तदानीमसुर-योग्यं भवेत्, तत्परिहारायाऽऽसिञ्चेत् । सिक्तं पात्रं देवत्रा देवेष्वकः करोति । देवयोग्यं भवतीत्यर्थः । सेचनसाधनं विधत्ते— १८१२ “अजक्षीरेणाऽऽच्छृणत्ति परमं वा एतत्पयो यदजक्षीरं परमेणैवैनां पयसा-ऽऽच्छृणत्ति” (सं. का. ५ प्र. १ अ. ७) इति।
लोकेऽऽजाक्षीरस्य सर्वव्याधिपरिहारहेतुत्वाद्वेदेऽपि “आग्नेयी वा एषा। यदजा” इत्युक्तत्वात्परमत्वम् ।
लोके दग्धस्य पात्रस्य मन्त्रमन्तरेणैव सेचनं कुर्वन्ति। अतस्तद्व्यावृत्त्यर्थ-मिह मन्त्रेण सेचनं विधत्ते— “यजुषा व्यावृत्त्यै” [सं. का. ५ प्र. १ अ. ७] इति।
सामान्येन मन्त्रं विधाय विशेषेण च्छन्दोलिङ्गकान्मन्त्रान्विधत्ते— “छन्दोभिरा च्छृणत्ति छन्दोभिर्वा एषा क्रियते छन्दोभिरेव छन्दाँ स्या च्छृणत्ति” (सं. का. ५ प्र. १ अ. ७) इति।
पूर्वं वसवस्त्वा कृण्वन्तु गायत्रेण च्छन्दसेति च्छन्दोलिङ्गकैर्मन्त्रेरेषा क्रियते । अत इयं च्छन्दोरूपा । तस्मादुखारूपाणि च्छन्दांसि मन्त्ररूपैश्छन्दोभिरेवा-ऽऽसिक्तानि भवन्ति । अत्र विनियोगसंग्रहः—
वसवः सप्तभिर्धूपोऽदितिस्त्वेत्यवटं खनेत्।
देवोखां तत्र संस्थाप्य धिषणेति चतुष्टयात्।
अग्निं क्षिपेन्मन्त्रभेदो वरूजनपदद्वयात्।
मित्रत्रयेणोपचारो देव उद्वासयेदुखाम्॥
अपेति सिकतास्वेतां निधाय वसवेत्यतः।
चतुष्टयादजाक्षीरं सिच्चेद्द्वाविं शतिर्मताः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥
अनुवाकः ७ अग्निचयनाङ्गपशुसामिधेन्यः
१-५ त्रिष्टुप्, ६ विराड्रूपा, १० अनुष्टुप् । अग्निर्ऋषिः
चतुर्थकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः
मन्त्रः
समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु सव्ँवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या ।
सन्दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिश॑ᳶ पृथि॒व्याः ।
टीका
[अथ चतुर्थकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः] षष्ठेऽनुवाक उखासंस्कार उक्तः । अथ सप्तमेऽनुवाके पञ्चपश्वङ्गभूता आग्निक्यः सामिधेन्य उच्यन्ते।
कल्पः—‘एकर्विंशतिं चतुर्विशतिं वा पराचीः सामिधेनीरन्वाहैकादश प्राकृतीः समास्त्वाऽग्न इति दशाऽऽग्निकीः’ इति । तत्राऽऽद्यामाह— समास्त्वाऽग्न इति । समाशब्दः संवत्सरवाची । संवत्सरशब्देन तु तदव यवा मासा अर्धमासाश्चोपलक्ष्यन्ते । हेऽग्ने संवत्सर ऋतवो मासा अर्धमासाश्चेत्येते कालविशेषाः । तथर्पयो मन्त्रद्रष्टारः । तथा यानि सत्यानि सत्यवचनानि सन्ति ते सर्वेऽपि त्वां वर्धयन्तु । तैर्वर्धितस्त्वं दिव्येन द्युलोकार्हेण रोचनेन तेजसा संदीदिहि सभ्यग्दीप्यस्व । किंच त्वदीयया दीप्त्या पृथिव्याः संबन्धिनीः प्रदिशः सर्वा दिशो विदिशश्चाऽऽभाहि सर्वतो भासय ।
मन्त्रः
सञ्चे॒ध्यस्वा॑ग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौभ॑गाय ।
मा च॑ रिषदुपस॒त्ता ते॑ अग्ने ब्र॒ह्माण॑स्ते य॒शस॑स्सन्तु॒ माऽन्ये ।
टीका
अथ द्वितीयामाह— सं चेध्यस्वाग्न इति । हेऽग्ने त्वं समिध्यस्व च स्वयमपि दीप्तो भव । एनं प्रबोधय च यजमानं कर्मानुष्ठानाय प्रबुद्धं कुरु । महते सौभगायोत्तिष्ठ १८१४ च यजमानस्यात्यन्तसौभाग्यार्थमुद्युक्तोऽपि भव । हेऽग्ने ते तवोपसत्ता परिचारकश्च मत्परिषन्मा हिंस्यताम् । किंच ते त्वदीया ब्रह्माणो ब्राह्मणा ऋत्विग्यजमाना यशसः सन्तु यशरिवनो भवन्तु । अन्ये त्वत्परिचर्याविमुका यशस्विनो मा भूवन् ।
मन्त्रः
त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने [25] सव्ँ॒वर॑णे भवा नः ।
स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे गये॑ जागृ॒ह्यप्र॑युच्छन् ।
टीका
अथ तृतीयामाह— त्वामग्न इति । हेऽग्न इमे ब्राह्मणा ऋत्विग्यजमानास्त्वां वृणते संभजन्त आराधयन्ति । हेऽग्ने नोऽस्माकं संवरणेऽपराधानामाच्छादने निमित्तभूते सति शिवः शान्तो भव, अपराधं मा प्रकटयेत्यर्थः । किंच नोऽस्माकं सपत्नहा वीरघाती, अभिमातिजित्पापजयकारी च भूत्वा स्वे गये स्वकीये गृहेऽप्रयुछन्प्रमादमकुर्वन्ञ्जागृहि सावधानो भव । अस्माद्धितं विचारयेत्यर्थः ।
मन्त्रः
इ॒हैवाग्ने॒ अधि॑ धारया र॒यिम्मा त्वा॒ नि क्र॑न्पूर्व॒चितो॑ निका॒रिणः॑ ।
क्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतान्ते॒ अनि॑ष्टृतः ।
टीका
अथ चतुर्थीमाह— इहैवाग्न इति । हेऽग्न इहैव गृह एव रयिं धनमधिधारयाधिक्येन संषा-दय । पूर्वचितो येऽस्मत्तोऽपि पूर्वमग्नेश्चेतारस्तेऽस्मान्प्रति निकारिणो निराकर्तारो भृत्वा त्वामस्मामिश्चीयमानमग्निं मा निक्रन्मेमैव निराकुर्वन्तु । हेऽग्ने तुभ्यं तव क्षत्रं बलं सुयममस्तु सुस्थितं भवतु । ते तत्रोपसत्ता परिचारकोऽनिष्टृतः केनापि नित रामहिंसितः सन्वर्धताम् ।
मन्त्रः
क्ष॒त्रेणा॑ग्ने॒ स्वायु॒स्सँ र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धेये॑ यतस्व ।
स॒जा॒ताना॑म्मध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॑ दीदिही॒ह ।
टीका
अथ पञ्चमीमाह— क्षत्त्रेणाग्न इति । हेऽग्ने क्षत्रेण त्वदीयेन बलेन स्वायुरस्मदीयं शोभनमायुः संरभस्व संरक्षाऽऽयुःसंरक्षणेऽप्रमत्तो भव । हेऽग्ने मित्रधेये मित्राणामस्माकं धारणे मित्रेणानुग्रहयुक्तेन चित्तेन यतस्व प्रतस्व प्रयत्नं कुरु । अग्निना सह प्रजापतेर्मुखतो जातत्वाद्ब्राह्मणा अग्नेः सजातास्तेषां मध्यमस्था एधि मध्यमे प्रदेशेऽवस्थितो भव । सर्वदा ब्राह्मणान्पूजयेत्यर्थः । हूयतेऽत्रेति हवा यज्ञा विविधाश्च ते हवाश्च विहवाः विहवानर्हतीति विहव्यः । हेऽग्ने त्वमिह भूमौ राज्ञां विहव्यो विविधयज्ञप्रवर्तकः सन्दीदिहि, अतिशयेन दीप्यस्व ।
मन्त्रः
अति॑ [26] निहो॒ अति॒ स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने ।
विश्वा॒ ह्य॑ग्ने दुरि॒ता सह॒स्वाथा॒स्मभ्यँ॑ स॒हवी॑राँ र॒यिन्दाः॑ ।
टीका
अथ षष्ठीमाह— अति निहो अतीति । निकृष्टानि श्वशुकरादिजन्मानि जिहीते प्राप्नोति यैर्दुरितैस्तानि दुरितानि हकारान्तेन निहशब्देनोच्यन्ते । शरीरशोषणादिहेतवो रोग-विशेषाः स्रिधुशब्दनोच्यन्ते । हेऽग्ने निहो दुरितान्यतिसहस्वातिशयेन विना १८१५ शय । स्त्रिधो रोगांश्चातिसहस्व । अचित्तिं कर्मानुष्ठानविषयज्ञानं चातिसहस्व । अरातिं कर्मविघ्नकारिणं शत्रु चातिसहस्व । हिशब्दोऽपिशब्दार्थः । किंबहुना, हेऽग्ने विश्वान्यपि दुरितान्यनिष्टकारणानि सहस्व विनाशय । अथानन्तरमस्मभ्यं सहवीरां वीरैः पुत्रैः सहितां सयिं धनं दा देहि ।
मन्त्रः
अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ अनि॑ष्टृतो वि॒राड॑ग्ने क्षत्र॒भृद्दी॑दिही॒ह ।
विश्वा॒ आशाः॑ प्रमु॒ञ्चन्मानु॑षीर्भि॒यश्शि॒वाभि॑र॒द्य परि॑ पाहि नो वृ॒धे ।
टीका
अथ सप्तमीमाह— अनाधृष्य इति । हेऽग्ने त्वमिह कर्मणि दीदिहि दीप्यस्व । कीदृशस्त्वम् । अनाधृष्य इतः परं केनाप्यधर्षणीयः । जातवेदा उत्पन्नसमस्तजगदभिज्ञः । अनिष्टृत इतः पूर्वमपि केनाप्यहिंसितः । विराड्विविधं राजमानः । क्षत्रं बलं बिभर्तीति क्षत्र-भृत् किंच यथोक्तविशेणषविशिष्टस्त्वं शिवाभिः शान्ताभिरनुग्रह दृष्टिभिरद्यास्मिन्क-र्मणि नोऽस्मान्वृधेऽभिवृद्धये परिपाहि सर्वतः पालय । किं कुर्वत् । बिश्वा आशा निषिद्धाचरणविषयाः सर्वास्तृष्णा मानुषीर्भियो मनुष्येषु प्रसक्ता व्याध्यादिभीतीश्च प्रमुञ्चन्प्रकर्षेण निवारयन् ।
मन्त्रः
बृह॑स्पते सवितर्बो॒धयै॑नँ॒ सँशि॑तञ्चित्सन्त॒राँ सँ शि॑शाधि ।
व॒र्धयै॑नम्मह॒ते सौभ॑गाय [27] विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ।
टीका
अथाष्टमीमाह— बृहस्पत इति । अत्र बृहस्पतिसवितृशब्दावग्निपरौ । सामिधेनीनामाग्नेय-त्वात् । बृहस्पतिसवितृभ्यां तुल्य हेऽग्ने एनं यजमानं बोधय कर्मणि बुद्धिमन्तं कुरु। संशितंचित्पूर्वमेव निशितबुद्धिमप्येनं संतरां संशिशाधि पुनरप्यतिशयेन सम्यगनुशा-सनवन्तं कुरु । एनं यजमानं महते सौभगाय वर्धय । विश्वे सर्वेऽपि देवा एनं यज-मानमनुमदन्तु समीचीनोऽयमिति हृष्यन्तु ।
मन्त्रः
अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः ।
प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ।
टीका
अथ नवमीमाह— अमुत्रभूयादिति । भूयो भावः । अमुत्र स्वर्गे भूयोऽमुत्रभूयः । स्वर्गे चिरावस्थानमित्यर्थः । पञ्चमी निमित्तार्था । अधशब्दो धकारयुक्त इदानीमित्येतस्मिन्नर्थे वर्तते । हे बृहस्पतितुल्याग्नेऽमुत्रभूयात्स्वर्गे चिरावस्थानं निमित्तीकृत्याथेदानीं यम-स्याभिशस्तेर्यमसंबन्धिहिंसानिमित्तात्पापादस्मानमुञ्चो मोचितवानसीति यत्तेनास्माकं परलोकविषये चिन्ता नास्तीति शेषः । हेऽग्ने देवानां भिषजावश्विनौ देवौ शचीभिः । स्वकीयशक्तिभिरस्माद्यजमानान्मृत्युं प्रत्यौहताम्, अपमृत्युमिह लोके निराकुरुताम् ।
मन्त्रः
उद्व॒यन्तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् ।
दे॒वन्दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ [28]
टीका
अथ दशमीमाह— उद्वयं तमस इति । वयं तमस उत्तरं ज्योतिस्तमसो विनाशकत्वेनोत्कृष्ट- १८१६ मग्निसंबद्धं ज्योतिरुत्परि पश्यन्त उत्कर्षेण सर्वतोऽवलोकयन्तो देवत्रा देवेषु मध्ये सूर्यं देवं सृर्यरूपेण वर्तमानमग्निसंबद्धमेवोत्तयं ज्योतिरगन्म प्राप्तास्म ।
अत्र विनियोगसंग्रहः— समास्त्वा सामिधेन्यः स्युर्दशैता आग्निके पशौ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
अनुवाकः ८ आप्रियो याज्यापुरोनुवाक्याः
१-६ पिपीलिकामध्या अनुष्टुप् ७, १०-१२ पिपीलिकामध्योष्णिक्, ८ पुर उष्णिक् ९ शङ्कुमती गायत्री , १३-२० त्रिष्टुप अग्निर्ऋषिः
चतुर्थकाण्डे प्रथमप्रपाठकेऽष्टमोऽनुवाकः
मन्त्रः
ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चीँष्य॒ग्नेः ।
द्यु॒मत्त॑मा सु॒प्रती॑कस्य सू॒नोः ।
टीका
( अथ चतुर्थकाण्डे प्रथमप्रपाठकेऽष्टमोऽनुवाकः )।
सप्तमेऽनुवाकेऽग्निचयनाङ्गभूते पशौ सामिधेन्योऽभिहिताः । अथाष्टमे प्रयाजयाज्या आप्रीनाम(मि)का उच्यन्ते ।
कल्पः—‘ऊर्ध्वा अस्य समिधो भवन्तीति प्रयाजानामाप्रियो भवन्ति’ इति।
तत्र प्रथमामाह— ऊर्ध्वा अस्येति । प्रयाजानां सर्वेषामग्निविशेषा एव देवताः । तत्र प्रथम-प्रयाजदेवतामग्निविशेषरूपामयं समिच्छब्द आचष्टे । सम्यगि धे प्रकाशत इति व्युत्पत्तेः । बहुवचनं पूजार्थम् । अस्याग्नेः स्वरूपविशेषभूताः समिधः समिन्नामिका १८१९ देवता ऊर्ध्वा भवन्ति, अस्मच्छ्रेयोर्थमुद्युक्ता भवन्तु । तदुद्योगाच्छोचींषि ज्वालास्व-रूपाण्यूर्ध्वा भवन्तुत्तमानि भवन्तु । कीदृशानि शोचींषि, शुक्रा भास्वराणि द्युमत्त-माऽतिशयेन दीप्तिमन्ति । कीदृशस्याग्नेः, सुप्र॑तीकस्य सुमुखस्य सूनोः पुत्रवद्धित-कारिणः ।
मन्त्रः
तनू॒नपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः ।
प॒थ आन॑क्ति॒ मध्वा॑ घृ॒तेन॑ ।
टीका
अथ द्वितीयामाह— तनूनपादसुर इति । तनूर्न पातयति न विनाशयतीति तनूनपात्, शरीर-पालक इत्यर्थः । एतन्नामकः कश्चिदग्निविशेषो मध्वा मधुरेण घृतेन पथ आनक्ति स्वर्गसाधनत्वेन तन्मार्गभूतानि हवींषि घृतेनाऽऽक्तानि करोतु । कीदृशस्तनूनपात् । असू प्राणान्राति ददातीत्यसुरः । अत एव शरीरपालक इति युक्तम् । विश्वं वेत्तीति विश्ववेदाः । देवो द्योतनात्मको मनुष्यैः पूजनीयो वा । न केवलं मनुष्येष्वेव देवो-ऽपि तु देवेष्वप्यधिको देवः ।
मन्त्रः
मध्वा॑ य॒ज्ञन्न॑क्षसे प्रीणा॒नो नरा॒शँसो॑ अग्ने ।
सु॒कृद्दे॒वस्स॑वि॒ता वि॒श्ववा॑रः ।
टीका
अथ तृतीयामाह— मध्वा यज्ञमिति । नरैः शंसनीयो नरशंसः । एतन्नामकः कश्चिदग्निवि-शेषः। हेऽग्ने त्वं नराशंसो भूत्वा मध्वा मधुरेण घृतेन प्रीणानस्तृप्यन्निमं यज्ञं नक्षसे प्राप्नोषि निर्वर्तयसीत्यर्थः । कीदृशो नराशंसः । सुष्ठु करोति वैकल्यं परिहरतीति सुकृत् । देवो द्योतनात्मकः सविता कर्मण्यस्माकं प्रेरकः । विश्वानि दुरितानि वार-यतीवि विश्ववारः ।
मन्त्रः
अच्छा॒यमे॑ति॒ शव॑सा घृ॒तेने॑डा॒नो वह्नि॒र्नम॑सा ।
अ॒ग्निँ स्रुचो॑ अध्व॒रेषु॑ प्र॒यत्सु॑ ।
टीका
अथ चतुर्थीमाह— अच्छायमेतीति । ईडान इत्यग्निविशेषस्य नामधेयम् । स्तुतिप्रियत्वादीडान इत्युच्यते । एतन्नामकोऽयं वह्निः शवसा बलेन युक्तः सन्नच्छ यज्ञं प्राप्तुमेति गच्छति। तमग्निमध्वरेषु प्रयत्सु यज्ञेषु प्रवर्तमानेषु स्रुचो घृतेन जुहूनिष्ठेनाऽऽज्येन नमसा नम-स्कारेण च परिचरेमेति शेषः ।
मन्त्रः
स य॑क्षदस्य महि॒मान॑म॒ग्नेस्सः [29] ई॒ म॒न्द्रासु॑ प्र॒यसः॑ । वसु॒श्चेति॑ष्ठो वसु॒धात॑मश्च ।
टीका
अथ पञ्चमीमाह— स यक्षदस्येति । बर्हिर्नामकः कश्चिदग्निविशेषः प्राकृते बर्हिरग्न आज्यस्य वेत्वित मन्त्रे प्रसिद्धत्वादिह प्रसिद्धवाचकेन तच्छब्देन परामृश्यते । स तादृशो बर्हि-र्नामकोऽग्निविशेषोऽस्य सामान्यरूपस्याग्नेर्महिमानं यक्षद्यजतु पूजयतु । स *ईं स एव बर्हिर्नामकोऽग्निर्मन्द्रासु हर्षजनिकासु स्तुतिरूपासु ऋक्षु प्रयसः प्रयासवान्, * मन्त्रेऽनुस्वारलोपश्छान्दसः ।
१८२० अधिकपरिचर्यायुक्त इत्यर्थः । किंचायं बर्हिर्नामकोऽग्निर्वसुः प्राणिनां वासयिता चेतिष्ठोऽतिशयेनाभिज्ञो वसुधातमश्च यजमानार्थं द्रव्यस्यातिशयेन धारयिता ।
मन्त्रः
द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे॑ व्र॒ता द॑दन्ते अ॒ग्नेः ।
उ॒रु॒व्यच॑सो॒ धाम्ना॒ पत्य॑मानाः ।
टीका
अथ षष्ठीमाह— द्वारो देवीरन्वस्येति । द्वार्शब्देन स्त्रीमूर्तिधरः कश्चुदग्निविशेष उच्यते । पूजार्थं बहुवचनम् । या देव्यो द्वार्शब्दाभिधेयाः प्रथममग्नेर्व्रतमाचरन्ति ता द्वारो देवीरनु विश्वे सर्वे यजमाना अस्याग्नेः संबन्धीनि व्रतानि कर्माणि ददन्ते हविः प्रयच्छन्ति । कीदृशीर्द्वारः । उरुव्यचसो विस्तीर्णगतीर्धाभ्ना तेजसा प्रत्यमानाः प्राप्य- माणास्तेजास्विनीरित्यर्थः ।
मन्त्रः
ते अ॑स्य॒ योष॑णे दि॒व्ये न योना॑वु॒षासा॒नक्ता॑ ।
इ॒मय्ँ य॒ज्ञम॑वतामध्व॒रन्नः॑ ।
टीका
अथ सप्तमीमाह— ते अस्येति । उषासेत्युषःकालरूपा काचिदग्नेमूर्तिः, नक्तेति च रात्रिरूपा काचिदग्नेर्मूर्प्तिः । उषासा च नक्ता चोषासानक्ता । एतन्नामिके ये अस्याग्नेर्मूर्ती ते नोऽस्मदीयमिमं यज्ञं योनावस्मिन्स्थानेऽध्वरं हिंसारहितं यथा भवति तथाऽवतां रक्षताम् । कीदृश्यौ ते, योषणे परस्परमिश्रिते । तत्र दृष्टान्तः— दिव्ये न, यथा द्युलोकस्थे मूर्ती भासमाने भवत एवमेते मूर्ती ।
मन्त्रः
दैव्या॑ होतारावू॒र्ध्वम॑ध्व॒रन्नो॒ऽग्नेर्जि॒ह्वाम॒भि गृ॑णीतम् ।
कृ॒णु॒तन्न॒स्स्वि॑ष्टिम् ।
टीका
अथाष्टमीमाह— दैव्या होताराविति । होतृशब्दाभिधेयौ द्वावग्निविशेषौ । होतृत्वं च विविधं दैव्यं मानुषं च । तत्रैतौ होतारौ दैव्यौ । हे दैव्या होतारावग्नेर्जिह्वां ज्वालामभिलक्ष्य प्रवृत्तमूर्ध्वमत्युच्छ्रितं नोऽध्वरमस्मदीयमिमं यज्ञं गृणीतं प्रख्या पयतम् । किंच नोऽस्मदर्थं स्विष्टिं कृणुतं वैगुण्यं परिहत्येतामिष्टिं शोभनां कुरुतम् ।
मन्त्रः
ति॒स्रो दे॒वीर्ब॒र्हिरेदँ स॑द॒न्त्विडा॒ सर॑स्वती [30] भार॑ती ।
म॒ही गृ॑णा॒ना ।
टीका
अथ नवमीमाह— तिस्रो देवोरिति । इडा सरस्वती भारतीत्यादिशब्दवाच्यास्तिस्रो देव्योऽ-ग्निमूर्तयो याः सन्ति ता इदं बर्हिरिमं यज्ञमासदन्तु । प्राप्नुवन्तु । तासां प्रत्येके विशेषणमाह—मही महती गृणाना यज्ञं प्रख्यापयन्ती ।
मन्त्रः
तन्न॑स्तु॒रीप॒मद्भु॑तम्पुरु॒क्षु त्वष्टा॑ सु॒वीर॑म् ।
रा॒यस्पोषव्ँ॒वि ष्य॑तु॒ नाभि॑म॒स्मे ।
टीका
अथ दशमीमाह— तन्नस्तुरीपमिति । त्वष्टेति कश्चिदग्निविशेषः । सोऽयमस्मे अस्मासु तदैश्वर्यं, विष्यतु विशेषेणावंसितं करोतु संपूर्ण करोत्वित्यर्थः । कीदृशमैश्वर्यं, नोऽ-स्मदर्थं तुरीपं तूर्णमेव प्राप्यमाणम् । अद्भुतं गवाश्वादिबाहुल्येऽऽश्चर्यरूपं, पुरुक्षु पुरुभिर्बहुभिमर्नुष्यैः क्षूयते शब्द्यते प्रशस्यत इति पुरुक्षु ( तादृशम् ) । शोभना १८२१ वीराः पुत्रा यस्मिंस्तत्सुवीरं, रायो धनस्य पोषः पुष्टिर्यस्मिंस्तद्रायस्पोपं, नाभिं रथचक्रगतानामराणां नाभिरिव सर्मेषां बन्धूनामाश्रयभूतं [ तादृशम् ] ।
मन्त्रः
वन॑स्प॒तेऽव॑ सृजा॒ ररा॑ण॒स्त्मना॑ दे॒वेषु॑ ।
अ॒ग्निर्ह॒व्यँ श॑मि॒ता सू॑दयाति ।
टीका
अथैकादशीमाह वनस्पतेऽवेति । वनस्पतिनामकः कश्चिदुग्निविशेषः । हे वनस्पते त्वं रणाणो दानशीलः सन्रममाणो वा देवेष्वस्माभिर्यष्टव्येषु त्मनाऽवसृजास्मद्दत्तं हविः स्वयमेव स्थापय । अस्माभिः प्रार्थितोऽयमग्निः शमिता दुरितापशमस्य कर्ता सन्हव्यं सूदयाति, अस्मदीयं हर्विर्देवेषु सूदयतु ।
मन्त्रः
अग्ने॒ स्वाहा॑ कृणुहि जातवेद॒ इन्द्रा॑य ह॒व्यम् ।
विश्वे॑ दे॒वा ह॒विरि॒दञ्जु॑षन्ताम् ।
टीका
अथ द्वादशीमाह— अग्ने स्वाहेति । स्वाहाकाराभिमानी कश्चिदग्निविशेषः । तादृश हे जात-वेदोऽग्न इन्द्रार्थमिदं हव्यं स्वाहा कृणुहि स्वाहुतं कुरु ।
विश्वे देवाः सर्वेऽपि देवा-स्तदा तदा मया दीयमानमिदं हविर्जुषन्ताम् । यद्यप्येकादशेव प्रयाजास्तथाऽपि द्वितीयतृतीययोर्मन्त्रयोः पुरुषभेदेन व्यवस्थियत्वान्मन्त्राणां द्वादशसंख्या न विरुद्यते । सा च व्यवस्था सूत्रकारेण दर्शिता– “नराशंसो द्वितीयः प्रयाजो वसिष्ठशुनकानां तनूनपादितरेषां गोत्राणाम्” इति।
मन्त्रः
हि॒र॒ण्य॒ग॒र्भस्सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तᳶ पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीन्द्याम् [31] उ॒तेमाङ्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।
टीका
कल्पः—हिरण्यगर्भः समवर्तताग्र इति स्रुच्यमाघारयति” इति। पाठस्तु— हिरण्यगर्भ इति । हिरण्ये ब्रह्माण्डरूपे गर्भरूपेणावस्थितः प्रजापतिर्हिर-ण्यगर्भः । स च भूतस्य प्राणिजातस्याग्रे समवर्तत प्राणिजातोत्पत्तेः पुरा स्वयं शरीरधारी बभूव । स च जात उत्पन्नमात्र एक एवोत्पत्स्यमानस्य सर्वस्य जगतः पतिरासीत् । क एव पृथिवी द्यां विस्तीर्णो दिवं दाधार धृतवान् । उतापि चेमां भूमिं दाधार । तादृशाय कस्मै प्रजापतये देवायाऽऽधाररूपेण हविषा विधेम परिचरेम् ।
मन्त्रः
यᳶ प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒ᳵ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।
टीका
कल्पः—“यः प्राणतो य आत्मदा इति प्राजापत्यस्य” इति।
यः पशुः प्राजापत्यस्तस्यैते याज्यानुवाक्ये इत्यर्थः । तत्र वपायां द्वे ऋचौ पुरोडाशे द्वे ऋचौ हविषि द्वे ऋचाविति षडृचो याज्यानुवाक्याः ।
तत्र प्रथमामाह— यः प्राणत इति । यः प्रजापतिरेक इदेक एव प्राणतः श्वासयुक्तस्य १८२२ निमिषतश्चक्षूर्निमेषयुक्तस्य च सर्वस्य जगतो महित्वा स्वमहिम्ना राजा बभूव । अत एव यः प्रजापतिरस्य द्विपदो मनुष्यादेश्चतुष्पदो गवादेश्चेसे नियमनाव समर्थो भवति। तादृशाय कस्यै देवाय हविषा विधेम ।
मन्त्रः
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषय्ँ॒यस्य॑ दे॒वाः ।
यस्य॑ छा॒यामृतय्ँ॒यस्य॑ मृ॒त्युᳵ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।
टीका
अथ द्वितीयामाह— य आत्मदा इति । यः प्रजापतिरात्मदाः शरीरेषु जीवरूपेणऽऽत्मप्रद बलदाः सामर्थ्यप्रदश्च, यस्य प्रजापतेः प्रशिषमाज्ञां विश्वे सर्वे मनुष्या उपासते नातिवर्तन्ते । किंच यस्य प्रशिषं देवा अप्युपासते । अमृतममरणं मोक्षरूपं यस्य च्छाया, यस्य प्रजापतेश्छायावत्स्वाधीने, मृत्युः प्राणिनां मरणमपि यस्य च्छायेव स्वाधीनस्तादृशाय कस्मै देवाय हविषा विधेम ।
मन्त्रः
यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रँ र॒सया॑ स॒ह [32] आ॒हुः ।
यस्ये॒माᳶ प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।
टीका
अथ तृतीयमाह— यस्येमे हिमवन्त इति । इमे हिमवन्तो हिमवत्प्रमुखाः पर्वता यस्य महित्वा महिम्ना वर्तन्ते । रसया भूभ्या सहावस्थितं समुद्रं यस्य स्वाधीनमाहुः । इमादृश्य-मानाः प्रदिशः प्राच्यादिदिशो यस्याधीना आहुः । यस्य प्रजापतेर्बाहू धर्माधर्माविति शेषः । तादृशाय कस्मा इत्यादि ।
मन्त्रः
यङ्क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑ता॒म्मन॑सा॒ रेज॑माने ।
यत्राधि॒ सूर॒ उदि॑तौ॒ व्येति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।
टीका
अथ चतुर्थीमाह— यं क्रन्दसी इति । प्रजापतेः क्रन्दनाद्रोदनादुत्पन्ने द्यावापृथिव्यौ क्रन्दसी अत एवान्यत्राऽऽम्नातम्—‘यदरोदीत्तदनयो रोदस्त्वम्’ इति । ते च द्यावापृथिव्या-ववसा रक्षणेन निमित्तेन यं प्रजापतिं मनसाऽभ्यैक्षेतामभित ईक्षणं कृतवत्यौ अय-मावां रक्षत्वित्याशासनं कृतवत्यावित्यर्थः । कीदृशौ द्यावापृथिव्यौ, तस्तभाने देवानां मनुष्याणां चावस्थानाय स्तम्भिते, रेजमाने दीप्यमाने सूरः सूर्यो यत्राधि यस्मिन्प्रजाप-तावधिश्रित्योदितौ व्येति उदयविषये विविधं गच्छति, तादृशाय कस्मै देवाय हविषा विधेम ।
मन्त्रः
येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ढे येन॒ सुव॑स्स्तभि॒तय्ँयेन॒ नाकः॑ ।
यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मान॒ᳵ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।
टीका
अथ पञ्चमीमाह— येन द्यौरुग्रेति । उग्रा पुण्यरहितैः प्राणिमिर्दुष्प्रामा द्यौः पृथिवी चेत्येते उभे येन प्रजापतिना दृढे कृते । सुवः स्वर्गसुखं येन प्रजापतिना स्तभितं पुण्य कृत्सु व्यवस्थापितम् । नाको दुःखरहितो मोक्षो येन प्रजापतिना ज्ञानिषु स्तभितः । यश्च प्रजापतिरन्तरिक्षे लोके रजसो राजसस्व यक्षगन्धर्वादेर्विमानो विमाता निर्माता, तादृशाय कस्मा इत्यादि ।
मन्त्रः
आपो॑ ह॒ यन्म॑ह॒तीर्विश्व॑म् [33] आय॒न्दक्ष॒न्दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।
ततो॑ दे॒वाना॒न्निर॑वर्त॒तासु॒रेक॒ᳵ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।
टीका
अथ षष्ठीमाह— १८२३ आपो ह यदिति । यद्यस्य प्रजापतेरनुग्रहान्महतीर्महत्य आपो विश्वमाय-न्विश्वाकार प्राप्ताः । अत एव स्मर्यते— “अप एव ससर्जाऽऽदौ तासु वीर्यमवासृजत्।
तदण्डमभवद्धैमम्” इति।
कीदृश्य आपः, दक्षमग्निचयने कुशलं यजमानं दधाना धारयन्त्य उत्पाद यन्त्यः । तथा चेतव्यमग्निं जनयन्तीरुत्पादयन्त्यः । ततस्तस्मात्प्रजापतेर्देवानां सर्वे-षामसुर्जीवनमेतुः प्राण एको निरवर्तत निष्पन्नः। तादृशाय कस्मा इत्यादि । सेयमृक्षष्ठी हविष याज्या ।
मन्त्रः
यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्ष॒न्दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।
यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ [34]
टीका
तत्रैवान्यां विकल्पितां याज्यामाह— यश्चिदाप इति । आपइति द्वितीयाबहुवचनम् । यश्चिद्य एव प्रजापतिः पूर्वोक्तरीत्या विश्वाकारेण परिणता महतीरपो महिता स्वामहिम्ना पर्यपश्यदपां तथा-विधसामर्थ्याय कटाक्षेण वीक्षितवान् । कीदृशीरपः । दक्षं दधाना अग्निं जनयन्तीः। पूर्ववद्व्याख्येयम् । यः प्रजापतिर्देवेषु सर्वेष्वधिको देव आसीत्तादृशाय कस्मा इत्यादि।
एतस्मिन्नूर्ध्वा अस्येत्यादावष्टमानुवाके प्रयाजयाज्या आप्रीनामिका आद्या-रमन्त्रो याज्यानुवाक्याश्चोक्ताः । पूर्वस्मिंस्तु सप्तमेऽनुवाके सामिधेन्योऽभिहिताः । तासामेतासामुभयविधानामृचां पशुप्रयोगान्तः पातित्वेन पशुविधिमन्तरेण व्याख्या-तुमशक्यत्वात्पशुविधिरादौ वक्तव्यः । तेभ्योऽपि पशुभ्यः पुरुषशीर्षस्य पूर्वं संपादनी-यत्वादादौ तत्संपादनं विधत्ते— ‘एकविँ शत्या माषैः पुरुषशीर्षमच्छैत्यमेध्या वै माषा अमेध्यं पुरुषशीर्ष-ममेध्यैरेवास्यामेध्यं निरवदाय मेध्यं कृत्वाऽहरीत’ (सं. का. ५ प्र. १ अ. ८) इति।
एकविशतिसंख्याकानि माषबीजानि स्वीकृत्य तैर्युक्तः पुरुषशीर्षं प्राप्तुं गच्छेत् । तथा च सूत्रकारेणोक्तम् “सप्तैकविंशतिं वा माषानादाय पुरुषशिरोऽच्छैति वैश्यस्य राजन्यस्य चेषुहतस्याशनिहतस्य वा माषानुपन्युप्यायं योऽसि यस्य त इंद शिर इति पुरुषशिरः प्रच्छिद्यैतेन त्वमत्र शीर्षण्यानेधीति सप्तधा १८२४ वितृण्णां वल्मीकवपां शिरसां स्थाने प्रति निदधाति” इति । माषास्तावदपूतत्वाद्य-ज्ञानर्हाः । पुरुषशीर्षं चास्पृश्यत्वाद्यज्ञानर्हम् । ततो यथा रजका मलरूपेणोषेण वस्त्रमलमपनीय शोधयन्ति, एवमत्राप्यमेध्यैर्माषैः शिरोनिष्ठममेध्यभागं निःसार्य तच्छिरो यज्ञयोग्यं कृत्वा समानयति ।
माषसंख्यां प्रशंसति— “एकविँ शतिर्भवन्त्येकविँशो वै पुरुषः पुरुषस्याप्त्यै” (सं. का. ५ प्र. १ अ. ८) इति।
एकविंशतिसंख्यापूरकत्वं पुरुषस्यान्मत्राऽऽम्नातम्—“दश हस्त्या अङ्गु-लयो दश पद्या आत्मैकविँशः” इति। अतोऽत्र माषसंख्या पुरुषप्राप्त्यै संपद्यते। शिरश्छेदादूर्ध्वं शिरोरहिते कबन्धे वल्मीकवपास्थापनं विधत्ते— “व्यृद्धं वा एतत्प्राणैरमेध्यं यत्पुरुषशीर्षँ सप्तधा वितृण्णां वल्मीकवप” प्रति नि दधाति सप्त वै शीर्षण्याः प्राणाः प्राणैरेवैनत्समर्धयति मेध्यत्वायां” (सं. का. ५ प्र. १ अ. ८) इति।
यच्छिन्नं शिरस्तदेतत्प्राणैर्वियुक्तत्वादमेध्यम् । अतस्तदपनीयान्तःस्थितस-प्तच्छिद्रोपेतां वल्मीकस्या कांचिद्वपाकारां मृत्संहतिं शिरसः स्थाने प्रतिनिदधाति । जीवतः पुरुषस्य शिरोगतच्छिद्रेषु संचरन्तः प्राणा अपि सप्तैव । अतः सप्तच्छिद्रो-पेताया वयायास्तत्र स्थापनेनैतच्छिरोऽपि प्राणेः समृद्धं भवत्येवं तच्च प्राणोपतेत्वं मेध्यत्वाय संपद्यते ।
तत्र सूत्रकारेण योऽस्य कोष्ठस्य जगत इति तिस्र ऋचः पठित्वाऽन्ते यदुक्तं “तिसृभिर्यमगाथाभिः परिगायति” इति, तदेतद्विधत्ते— “यावन्तो वै मृत्युबन्धवस्तेषां यम आधिपत्यं परीयाय यमगाथाभिः परिगायति यमादेवैनद्वृङ्क्ते” (सं. का. ५ प्र. १ अ. ८) इति।
हिरण्यकक्ष्यान्तुधुरादित्यादिमन्त्रेणाऽऽम्नाता अन्यत्रापि कालान्तकादिश-ब्दैराम्नाता मृत्युबन्धवो यावन्तः सन्ति तेषां सर्वेषामाधिपत्यं यमः प्राप्तवान् । यमो गीयते यास्वृक्षु ता यमगाथाः । तासां पाठेन यमसकाशादेनत्पुरुपादिरो वृङ्क्ते १८२५ वर्जितं करोति । ताश्च यमगाथा योऽस्य कौष्ठ्येत्पाद्या आरण्यकाण्डे पितृमेधप्रपाठके सामाम्नाताः । अत्रापेक्षितानां यमगाथानां संख्यां विधत्ते— “तिसृभिः परि गायति त्रय इमे लोका एभ्य एवैनल्लोकेभ्यो वृङ्क्ते” (सं. का. ५ प्र. १ अ. ८) इति।
एनच्छिरो लोकेभ्यः पृथक्कृत्य स्वाधीनं करोतीत्यर्थः ।
प्रसङ्गात्पुरुषार्थं क्वंचिन्निषेधं दर्शयति— “तस्माद्रायते ने देयं गाथा हि तदवृङ्क्ते” (सं. का. ५ प्र. १ अ. ८) इति।
यस्तु ब्राह्मणो याजनाध्यापनप्रतिग्रहान्परित्यज्य गानेनैव जीविकां संपा दयति तादृशाय ब्राह्मणाय शास्त्रीयं देयं किमपि न दद्यात् । हि यस्माद्गाथा गानवि-द्यवै तद्द्रव्यममेध्यं कृत्वा वृङ्क्ते देवपितृकार्येभ्यो वर्जयति, तस्मात्तादृशाय न देयम्।
यदुक्तं सूत्रकारेण—“अग्निभ्यः कामाय पशूनालभते मुष्करान्प्राजापत्यमजं तूपरमुपाकृत्याश्वऋषभवृष्णिवस्तान्” इति । तदेतद्विधत्ते— “अग्निभ्यः पशूनालभते कामा वा अग्नयः कामानेवाव रुन्धे” (सं. का. ५ प्र. १ अ. ८) इति।
काम्यन्त इति कामा पुत्रपश्वादयः, तद्धेतवोऽग्नयः तस्मात्कामान्प्रामो-त्येव । एतेषु पशुषु कंचिद्विशेषं विधत्ते— “यत्पसून्नाऽऽलभेतानवरुद्धा अस्य पशवः स्युर्यत्पर्यग्निकृतानुत्सृजेद्यज्ञवे-शसं कुर्याद्यत्सँ स्थापयेद्यातयामानि शीर्षाणि स्युर्यत्पशूना लभते तेनैव पशूनव रुन्धे यत्पर्यग्निकृतानुत्सृजति शीर्ष्णामयातयामत्वाय प्राजापत्येन सँ स्थाप यति यज्ञो वै प्रजापतियंज्ञ एव यज्ञं प्रति ष्ठापयति” (सं. का. ५ प्र. १ अ. ८) इति।
अत्रेदं चिन्तनीयम्– किमाग्नेयाः पशव एव नाऽऽलभ्याः किंवा तान्वशूनु १८२६ पाकृत्य पर्यग्निकरणादूर्ध्वमुत्सृजेत्, आहोस्वित्समाप्तिपर्यन्तमनुतिष्ठेदिति । नाऽऽद्यः। न तृतीयाः । अत्रैवाश्ववृषभवृष्णिबस्ताशिरसां गतसारत्वेन भविष्यन्त्ययां चित्यामनु-पधेयत्वप्रसङ्गात् । एतद्दोषत्रयपरिहारयेत्थं कर्तव्यम्—आलम्भेनोत्सर्गेण च प्रथम-तृतीयदोषौ न भविष्यतः । प्रजापत्येन तूपरेण समापनाद्यज्ञभ्रंशरूपो मध्यमदोषोऽपि न भविष्यति। यज्ञोत्पादकत्वात्प्रजापतिर्यज्ञ एव । ततो यज्ञरूपे प्रजापतावेव क्रिय-माणं यज्ञं प्रतिष्ठापयति समापयति ।
इत्थमुपोद्घातत्वेन पशवो विहिताः । अथानुवाकद्वयोक्ता मन्त्रा व्याख्या-तव्याः ।
यद्यपि सामिधेन्यः पूर्वानुवाकोक्ताः पूर्वमेवानुष्ठेयाश्च तथाऽप्यभ्यर्हितं पूर्व-मिति वैयाकरणोक्तन्यायेन प्रयाजयाज्यानां प्रीतिहेतूनामभ्यर्हितत्वाद्वा सूची कटाह-न्यायेनाल्पवक्तव्यत्वाद्वा ता एवाऽऽप्रीः प्रथमं विधत्ते— “प्रजापतिः प्रजा असृजत स रिरिचानोऽमन्यत स एता आप्ररिपश्यत्ता-भिर्वै स मुखत आत्मानमाऽप्रीणीत यदेता आप्रियो भवन्ति यज्ञो वै प्रजापति र्यज्ञमे-वैताभिर्मुखत आप्रीणाति” (सं. का. ५ प्र. १ अ. ८) इति।
प्रजासृष्टौ सामर्थ्यस्योपक्षीणत्वाद्रिक्तोऽहमिति स प्रजापतिरमन्यत । ततः सामर्थ्यपूरिका एता आप्रीर्मनसा विचार्य निश्चितवान् । ततस्ताभिरेवाऽऽप्रीभिः स प्रजापतिर्यज्ञप्रारम्भ एव स्वात्मानं प्रतिमकरोत् । तस्मात्प्रयाजानुष्ठानार्थं एता आप्री-नामिका ऋचो भवेयुः। आत्मानमाप्रीणात्येताभिरित्युर्ध्वा अस्येत्याद्या ऋच आप्रियः। प्रजापतिजन्यत्वाद्यज्ञः प्रजापतिरेव । अतः प्रजापतिवदेतमेव यज्ञेमताभिर्ऋग्भिर्मु-खत एव प्रीतं करोति ।
तासामाप्रीणां बहुप्रकारच्छन्दस्त्वं पाठप्राप्तं प्रशंसति— “अपरिमितछन्दसो भवन्त्यपरिमितः प्रजापतिः प्रजापतेराप्त्यै” (सं. का. ५ प्र. १ अ. ८) इति।
१८२७ बहुप्रकारच्छन्दस्त्वं चैवं द्रष्टव्यम् सर्वाश्चैतास्त्रिपदाः । आसामाद्या अन्त्याश्च पादा एकादशाक्षराः । मध्यमः पञ्चाक्षरः षडक्षरः सप्ताक्षरोऽष्टाक्षरश्च पादः। ता एता पिपीलिकामध्यास्त्रिपदा उष्णिहः । दैव्या होतारावूर्ध्वं तिस्त्रो देवीरिति च गायत्र्याविति।
एषां छन्दसां मध्यमपादेषु यदेतत्तारतम्यं तदिदं प्रशंसति— “ऊनातिरिक्ता मिथुनाः प्रजात्यै” (सं. का. ५ प्र. १ अ. ८) इति।
पञ्चाक्षरात्वमारभ्याष्टाक्षरत्वपर्यन्तेषूत्तरोत्तरोपेक्षया पूर्वपूर्वस्योनत्वं पूर्वपूर्वापेक्षया तूत्तरोत्तरस्यातिरिक्तत्वम् ।
एवं कोटिद्वयात्मकत्वान्प्रिथुनत्वं तच्च प्रजननाय संपद्येत ।
आद्यन्तपादापेक्षया मध्यमपादस्य यदल्पत्वं तदिदं प्रशंसति— ‘लोमशं वै नामैतच्छन्दः प्रजापतेः पशवो लोमाशाः पशूनेवाव रुन्धे” (सं. का. ५ प्र. १ अ. ८) इति।
लोमसदृशं सूक्ष्म मध्यमस्य च्छन्दसस्तदिदं लोमशं, यथा हस्तपादतदङ्गु- ल्याद्यपेक्षया लोम्नः सूक्ष्मत्वम्, एवमाद्यन्तपादापेक्षया मध्यमपादस्य सूक्ष्मत्वमित्य-र्थः । प्रजापतेः सृष्टा एते पशवस्ते सर्वे लोमशाः । अतोऽस्य च्छन्दसो लोमशत्वसा-म्येन पशुप्राप्तिर्भवति।
एतास्वाप्रीषु च्छन्दसां नानाविधत्वं प्रशंसति— ‘सर्वाणि वा एता रूपाणि सर्वाणि रूपाण्यग्नौ चित्ये क्रियन्ते तस्मादेता अग्नेश्चित्यस्य भवन्ति” [सं. का. ५ प्र. १ अ. ८] इति।
‘सर्वाणि वा एता रूपाणि सर्वाणि रूपाण्यग्नौ चित्ये क्रियन्ते तस्मादेता अग्नेश्चित्यस्य भवन्ति” [सं. का. ५ प्र. १ अ. ८] इति।
ऊर्ध्वा अस्येत्याद्या या आप्रियस्ताः सर्वाणि रूपाणि न्यूनातिरिक्तभावेन विविधरूपयुक्ता भासन्ते । यश्च वक्ष्यमाणप्रकारेण चेतव्योऽग्निस्तस्मिन्नप्यग्नौ सर्वा-णि रूपाणि क्रियन्ते । पक्षित्वानिष्पत्तये पक्षपुच्छादीनि बहुनि रूपाणी कामानाभेदेन श्वेनकङ्कादिरूपाणि च । यस्मादाप्रीणां चित्याग्नेश्चस्ति सादृश्यं तस्मादेता अग्नेश्चि-त्यस्याऽऽप्रियो भवितुं योग्याः।
१८२८ तदेवमष्टमानुवाकोक्ता आप्रीर्व्याख्याय बहुवक्तव्यतया पूर्वमुपेक्षिताः सप्तमानुवाको-क्ताः सामिधेन्यः प्राप्तावसरतया व्याख्यायन्ते । तत्रैतासां सामिधे नीनां प्राकृतीभीः सामिधेनीभिः समुच्चयमभ्युषेत्य संख्याविशिष्टाः सामिधेनी र्विधत्ते— “एकविँशतिँ सामिधेनीरन्वाह रुग्वा एकविँ शो रुचमेव गच्छत्यथो प्रतिष्ठामेव प्रतिष्ठा ह्योकविँ शः” (सं. का. ५ प्र. १ अ. ८) इति।
सूत्रकारेण—“एकादश प्राकृतीः समास्त्वाग्न इति दशाऽऽग्निकीः” इति । ह्युक्तम् । सप्तमकाण्डे “य एवं विद्वाँ स एकविँशतिरात्रमासते रोचन्त एव” इत्ये-कविंशतिसंरूपाया दीप्तिहेतुत्वश्रावणादत्रत्यया संख्यया बुद्धिस्थ एकविंशस्तोमो दीप्तिरूपः। तथा प्रकृतौ काम्यसामिधेनीप्रस्ताव एकविंँशस्तोंमानां प्रतिष्ठेत्युक्तत्वा-त्प्रीतष्ठारूपश्च । अतस्तया संख्याया रुचं प्रतिष्ठां च प्राप्नोति । तत्रैव विकल्पितं पक्षान्तरं विधत्ते— “चतुर्विँशतिमन्वाह चतुर्विँशतिरर्धमासाः संवत्सरः संवत्सरोऽग्निर्वे-श्वानरः साक्षादेव वैश्वानरमव रुन्धे” (सं. का. ५ प्र. १ अ. ८) इति।
तत्र शाखान्तरोक्ता उपेमसृक्षि वाजयुरित्याद्यास्तिस्त्रो धाय्याः प्रक्षिप्य चतु-र्विशतिसंख्या पूरणीया । विश्वेषां नराणां हितो वैश्वानरः । दाहपाकादिकारित्वाद्धि-तत्वम् । तादृशोऽग्निः संवत्सररूपः । ‘संवत्सरं मुख्यं भृत्वा’ इत्यग्नेः संवत्सरसंब-न्धस्य वक्ष्यमाणत्वात् । ततश्चतुर्विशतिसंख्याया अर्धम संसवत्सरद्वारेण मुख्यमेव वैश्वानरं प्राप्नोति ।
प्रकृतौ यदुक्तं ‘त्रिः प्रथमाभन्वाह त्रिरुत्तमाम’ इति, तदेतदपवदितुं विधत्ते— ‘पराशरिन्वाह पराडिव हि सुवर्गो लोकः” (सं. का. ५ प्र. १ अ. ८) इति।
पराचीरनावृताः । स्वर्गलोकेऽपि पराङेव न कदाचिदावर्तते । तदेतत्सर्वं सूत्रकारेण संगृहीतम् “एकविंशति चतुर्विशतिं वा पराचीः सामिधेनीर न्वाह” इति।
१८२९ तत्राऽऽग्निकीषु प्रथमाया ऋचः प्रथमपादे संवत्सरवाचिनः समाशब्दस्य ऋतु शब्दस्य( च ) तात्पर्यं दर्शयति— “समास्त्वाऽग्न ऋतवो वर्धयन्त्वित्याह समाभिरेवाग्निं वर्धयत्यृतुभिः संवत्सरम्” (सं. का. ५ प्र. १ अ. ८) इति।
ऋतवः प्रवर्तमानाः संवत्सरं पूरयन्ति । सवंत्सरश्चोखाग्निधारणेनाग्निं वर्धयति ।
एवमृतूनां संवत्सरस्य चाभिवृद्धिसाधनत्वं प्रतिपाद्य चतुर्थपादे ‘आ भाहि, इत्यस्य तात्पर्यं दर्शयति— ‘विश्वा आ भाहि प्रदिशः पृथिव्या इत्याह तस्मादग्निः सर्वा दिशोऽनु विभाति’ (सं. का. ५ प्र. १ अ. ८) इति।
नवम्या ऋचस्तृतीयपादे प्रत्यौहतामितिपदस्य तात्पर्यं दर्शयति— ‘प्रत्यौहनामश्विनां मृत्युमस्मादित्याह मृत्युमेवास्मादप नुदति’ [सं. का. ५ प्र. १ अ. ८] इति।
दशम्या ऋचः प्रथमपादे तमः शब्दार्थं दर्शयति— ‘उद्वयं तमसस्परीत्याह षाप्मा वै तमः पाप्मानमेवास्मादष हन्ति” (सं. का. ५ प्र. १ अ. ८) इति।
चतुर्थपादे ज्योतिःशब्दार्थं दर्शयति— ‘अगन्म ज्योतिरुत्तममित्याहासा वा आदित्यो ज्योतिरुत्तममादित्यस्यैव सायुज्यं गच्छति’ (सं. का. ५ प्र. १ अ. ८) इति।
सायुज्यं सहभावम् ।
उद्वयं तमसस्परीत्यस्या ऋचः पाठप्राप्तं चरमभावित्वं प्रशंसति— न संवत्सरस्तिष्ठति नास्य श्रीस्तिष्ठति यस्यैताः क्रियन्ते ज्योतिष्मतीमुत्त मामन्वाह ज्योतिरेवास्मा उपरिष्टाद्दधाति सुवर्गस्य लोकस्यानुख्यात्यै’ ( सं. का. ५ प्र. १ अ. ८) इति।
यस्य यजमानस्यैताः समास्त्वाऽग्न इत्याद्याः सामिधेन्यः क्रियन्ते तस्य स्व-र्गाधिगत्यर्थमुख्याग्निधारणहेतुः संवत्सरो वा, एतदग्निसाधनसमूहरूपा श्रीर्वा न १८३० तिष्ठति न पर्यामोति, ज्योतिर्विरहात्ताभ्यां स्वर्गो नाधिगम्यत इत्यर्थः । अथ स्वर्गाधि-गतिक्षमां ज्योतिष्मतीमृचमुत्तमां बूयात् । पश्यन्तो ज्योतिरित्येवं ज्योतिःशब्दस्य विद्यमानत्वादुद्वयं तमसत्परीत्येषा ज्योतिष्मती । अस्मै यजमानार्थं ज्योतिष उपरि धारणादर्ध्वदशेवर्ती स्वर्गलोकोऽनुख्याता भवति ।
अत्र विनियोग संग्रह— ऊर्ध्वाः प्रयाजयाज्याः स्युर्द्वादशाऽऽप्रीतिनामिकाः ।
हिर स्रुवाधारहोमो यः प्राणेति द्वयं द्वयम् ॥
याज्यानुवाक्ये हि वपापुरोडाशहविःषु ताः ।
यश्चिद्विकल्पितो मन्त्र इति विंशतिरीरिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके अष्टमोऽनुवाकः ॥ ८ ॥
अनुवाकः ९ अग्न्युत्पादनम्
९, १४ त्रिष्टुप्, ११-१३गायत्री, ७-८, १५-१६ अनुष्टुप् , १० पिपीलिकामध्योष्णिक् अग्निर्ऋषिः ।
चतुर्थाष्टके प्रथमप्रपाठके नवमोऽनुवाकः
संयुक्तमन्त्रः
आकू॑तिम॒ग्निम्प्र॒युजँ॒ स्वाहा॒ मनो॑ मे॒धाम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ चि॒त्तव्ँविज्ञा॑तम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ग्नये॑ वैश्वान॒राय॒ स्वाहा॒ विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वृणीत स॒ख्यव्ँविश्वे॑ रा॒य इ॑षुध्यसि द्यु॒म्नव्ँवृ॑णीत पु॒ष्यसे॒ स्वाहा
मन्त्रः
आकू॑तिम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ ।
टीका
(अथ चतुर्थाष्टके प्रथमप्रपाठके नवमोऽनुवाकः)।
अष्टमेऽनुवाक आप्रियो याज्यानुवाक्याः प्रोक्ताः । अथ नवमेऽनुवाकेऽ-ग्न्युत्पादनमभिधत्ते— १८३२ कल्पः—“यत्प्रग्दीक्षाहुतीभ्यस्तत्कृत्वाऽऽकूत्यै प्रयुजेऽग्नये स्वाहेति पञ्चाऽ-ऽध्वरिकीर्हत्वाऽऽकूतिमग्निमिति षडाग्निकीर्विश्वे देवस्य नेतुरिति पूर्णाहुतिं सप्तमीम्’ इति। पाठस्तु— आकूतिमग्निमिति । आकूतिः संकल्पोऽस्मदीयानुष्ठानविषयस्तां प्रयुजं प्रेरकमग्निमुद्दिश्य स्वाहुतमिदमस्तु ।
Mantra मनो॑ मे॒धाम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ ।
टीका
अनुष्ठेयस्मरणसाधनं यन्मनः स्मृतस्य धारणसा-मर्थ्यरूपा या मेधा तदुभयं प्रति प्रयुजं प्रेरकमद्दिश्य स्वाहुतमिदमस्तु । Mantra चि॒त्तव्ँविज्ञा॑तम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ ।
टीका
अविज्ञातस्या-नुष्ठानस्य ज्ञानसाधनं यच्चित्तं यदपि तेन चित्तेन ज्ञातु ( तु ) मनुष्ठानं यदुभयं प्रति प्रेरकमग्निमुद्दिश्य स्वाहुतमिदमस्तु ।
Mantra वा॒चो विधृ॑तिम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ ।
टीका
वाचो मन्त्रपाठरूपाया विधृतिर्विधारणं तां प्रति प्रेरकमग्निमुद्दिश्य स्वाहुतामिदमस्तु । Mantra प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॑ ।
टीका
मनवे मनुष्याणां जनकाय प्रजापतये स्वाहुत-मिदमस्तु ।
Mantra अ॒ग्नये॑ वैश्वान॒राय॒ स्वाहा॑ ।
टीका
विश्वेषां नराणामनुग्रहीतृत्वेन वैश्वानरायाग्नये स्वाहुतमिदमस्तु । विश्वे विश्वात्मकस्य नेतुर्जगन्निर्वाहकस्य देवस्य सख्य मनुग्रहं मर्तो मरणवान्यजमानः सहसा वृणीत याचेत । तच्च मुख्यमद्दिशेन स्तोत्रेण लभ्यते ।
मन्त्रः
विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वृणीत स॒ख्यव्ँविश्वे॑ रा॒य इ॑षुध्यसि ।
द्यु॒म्नव्ँवृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ।
टीका
विश्वे विश्वात्मकस्य रायो धनस्येषुध्यसीशिषे त्वं नियन्ताऽसीति स्तुत्यां पुष्यसे यज्ञपोषणाय द्युम्नं धनं वृणीत याचेत । इदं हविस्तव हुतमस्तु ।
आकूतिमित्यादिभिर्वैश्वानराय स्वाहेत्यन्तैर्मन्त्रैः साध्यं होमं विधत्ते— “षड्भिदर्क्षियति षड्वा ऋतव ऋतुभिरेवैनं दक्षियति” [सं. का. ५ प्र. १ अ. ९] इति । होमेन दीक्षाख्यं संस्कारं कुर्यादित्यर्थः । विश्वे देवस्य नेतुरिति पूर्णाहुतिं सप्तमीमिति विधिमभिप्रेत्य विधेयगतां सप्तसंख्यां प्रशंसति ।
“सप्तभिर्दीक्षयति सप्त छन्दाँ सि छन्दोभिरेवैनं दीक्षयति” (सं. का. ५ प्र. १ अ. ९) इति।
गायत्री त्रिष्टुब्जगतीत्यादिमन्त्रोक्तेषु च्छन्दःस्वष्टस्वन्त्ययोरुष्णिक्ककुभोरेकी-कारेण च्छन्दसां सप्तत्वम् ।
विश्वे देवस्येतिमन्त्रे यजनुष्टुप्छन्दो यच्चास्य मन्त्रस्योत्तमत्वं चष्मरूपत्वं तदुभयं प्रशंसति— १८३३ “विश्वे देवस्य नेतुरित्यनुष्टुभोत्तमया जुहोति वाग्वा अनुष्टुप्तस्मात्प्राणानां वात्तगुमा” [सं. का. ५ प्र. १ अ. ९] इति।
यस्मादिहानुष्टुब्वाग्रूपा सर्वमन्त्रेष्वन्त्या च तस्माल्लोकेऽपि प्राणानां चक्षुरा-दीन्द्रियाणां मध्ये वागुत्कृष्टा । वाचा हि विद्वत्सभायां राजसभायां च पूज्यो भवति ।
अशेषजगद्व्यवहारसमर्थत्वेन मन्त्रौ प्रस्तौति।
“एकस्मादक्षरादनाप्तं प्रथमं पदं तस्माद्यद्वाचोऽनाप्तं तन्मनुष्या उपजीवन्ति पूर्णया जुहोति पूर्ण इव हि प्रजापतिः प्रजापतेराप्त्यै न्यूनया जुहोति न्यूनाद्धि प्रजापतिः प्रजा असृजत प्रजानाँ सृष्ट्यै” (सं. का. ५ प्र. १ अ. ९) इति।
यस्मादस्यामृचि प्रथमं पदं प्रथमः पाद एकेनाक्षरेण न्यूनं तस्मान्मनुष्या वाचः स्वरूपमनाप्तमसंपूर्णमुपजीवन्ति । मूलाधारादुत्पन्नो वायुर्मूर्धपर्यन्तं प्रसृता वक्त्रे तत्तत्स्थानेषु वर्णानुत्पादयति । तदिदं वर्णाभिव्यक्तिलक्षणं वाचश्चतुर्थं पदम् । पूर्वाणि तु त्रीणि पदानि कण्ठादध एव गृढत्वान्नाभिव्यञ्जयितुं शक्यन्ते । तथा चाऽऽन्नयते—“गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति” इति। तुरीयं वैखर्याख्यवाचो रूपम् । एते नासंपूर्णे वाग्व्यवहारसामर्थ्थे दर्शितम् । किंचेय-मृगुत्तरेषु पादेष्वक्षरसंपूर्णा । तेन सृष्टिपूर्णप्रजापतिसाम्यात्तत्प्राप्तये भवति । प्रथम-पादे यदक्षरऱ्यूनत्वं तेन सृष्टिशून्यजगद्वीजसाम्यात्तत्प्राप्तये भवति । हि यस्मान्नितरा-मूनात्प्रलीनविकारादुपादानात्प्रजा असृजत ।
मन्त्रः
मा सु भि॑त्था॒ मा सु रि॑षो॒ दृँह॑स्व वी॒डय॑स्व॒ सु ।
अम्ब॑ धृष्णु वी॒रय॑स्व [35] अ॒ग्निश्चे॒दङ्क॑रिष्यथः ।
टीका
कल्पः—“यत्प्राङ्मुष्टिकर्मणस्तत्कृत्वा शृणकुलायेन मुञ्जकुलायेन वौखां प्रच्छाद्य मा सु मित्था इति द्वाभ्यामाहवनीये प्रवृणक्ति” इति।
तत्र प्रथमामाह— मा सु मित्थेति । हे उखे त्वं मा भित्था भिन्ना मा भव । तदिदमाभिन्नत्वं सुष्टु कर्तव्यम् । तथा मा रिषः स्फुटितेनापि हिंसिता मा भव । तदेतदफुटनं सुष्टु कर्तव्यम् । सर्वात्मना द्वैधीभावो भेदः । लेशस्य पृथग्भावः स्फुटनं, १८३४ तदुभयं तव मा भूदित्यर्श्चः । दृंहस्य भेदाभावाय दृढा भव । सुवीडयस्व स्फुठना-भावाय स्वाङ्गानि सुष्ठु दृढी कुरु । हे धृष्णु घर्षणयुक्ते हेऽम्ब मातृसदृशि वीरयस्व वीरवदाचर । अग्निश्च त्वं च मिलित्वेदमस्मदीयं कर्म करिष्यथः ।
मन्त्रः
दृँह॑स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑ ।
जुष्ट॑न्दे॒वाना॑मि॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञे अ॒स्मिन् ।
टीका
अथ द्वितीयामाह— दृँहस्य देवीति । हे पृथिवि देवि, मृत्कार्यत्वात्पृथिवीरूपत्वं, मन्त्रैर्निष्पा-द्यवाद्देवतात्वं, तथाविधे हे उखे स्वस्तये यजमानार्थं दृंहस्व दृढा भव । आसुरी माया शम्बराद्युसुरनिर्मितमायेव स्वधया कृताऽसि, कव्यप्रदानवाचिना स्वधाशब्देनान्नमात्र-मुपलक्ष्यते, अन्नेन निमित्तभूतेन तद्धेतुयागसिद्ध्यर्थेत्वं निष्पादिताऽसि । आसुरी माया यद्वदचिन्त्यरचनारूपं चित्रं वस्तु सहसा भूत्वा प्रतिभाति तद्वत्त्वमपि द्विस्तन-त्वादिरचनायुक्ता निष्पन्ना सीत्यर्थः । त्वन्मुखान्निष्पत्स्यमानमिदं हव्बं देवानां जुष्ठं प्रियमस्तु । त्वमप्यरिष्टा केनाप्यहिंसिता सत्यस्मिन्यज्ञ उदिह्युद्गता भव । अस्यामुखा-यां परितोऽङ्गारानोप्य तापनं विधत्ते— “यदर्चिषि प्रवृञ्ज्याद्भूपमव रुन्धति यदङ्गारेषु भविष्यदङ्गारेषु प्र वृ-णक्ति भविष्यदेवाव रुन्धे भविष्यद्धि भूयो भूतात्” (सं. का. ५ प्र. १ अ. ९) इति।
यदि ज्वालायामुखां प्रतपेत्तदानीं यदस्य गृहे भूतं पूर्वे विद्यमानं धनमस्ति तदेव स्वाधीनं भवति, न तु भविष्यत् । यदि, अङ्गारेषु प्रतपेत्तदानीं गृहे भविष्यद-विद्यमानं धनं प्राप्नोति । हि यस्माज्जना भविष्यद्धनं भूताद्भूयोऽधिकं मन्यन्ते । न खलु कश्चिदपि भूतार्थं प्रति यतते भविष्यदर्थं तु सवोऽपि प्रयतते । अङ्गारेषु काष्ठै समिन्धनेन ज्वाला भाविनी । अतोऽङ्गाराणां भाविधनहेतुत्वं युक्तम् । वस्मिन्प्रताप-ने मा सु भित्था इत्यादिमन्त्रद्वयं विनियुङ्क्ते— “द्वाभ्यां प्र वृणक्ति द्विपाद्यजमानः प्रतिष्ठित्यै” [सं. का. ५ प्र. १ अ. ९] इति।
मन्त्रः
मित्रै॒तामु॒खान्त॑प ।
टीका
कल्पः—“मित्रैतामुखां तपेति प्रदक्षिणमङ्गारैः परीन्धे” इति। पाठस्तु— १८३५ मित्रैतामुखामिति । हे मित्रैतामुखां तप तप्तां कुरु ।
Mantra ए॒षा मा भे॑दि ।
२२२
एषोखा मा भेदि मा भिद्यताम् ।
Mantra ए॒तान्ते॒ परि॑ ददा॒म्यभि॑त्त्यै । २२२
अभि ये भङ्गाबावार्थंमेतामुखां ते तव हस्ते परितो ददामि ।
देवतान्तरपरित्यागेन मित्रायैवोखायाः परिदाने कारणं दर्शयति— “ब्राह्मण वा एषा यजुषा संभृता यदुखा सा यद्भिद्येताऽऽर्तिमार्छेद्याजमानो हन्येतास्य यज्ञो मित्रैतामुखां तपेत्याह ब्रह्म वै मित्रौ ब्रह्मन्नेवैनां प्रतिष्ठापयति नाऽऽ-र्तिमार्छति यजमानो नास्य यज्ञो हन्यते” [सं. का. ५ प्र. १ अ. ९] इति।
येयमुखा सैषा परब्रह्मस्वरूपेण वसवस्त्वा कृण्वन्वित्यादिना यजुषा संपा-दिता। परब्रह्मण उत्पन्नत्वाद्यजुषो ब्रह्मत्वम् । तथाविधेन यजुवोत्पन्नाया उखायाः—कदाचिदपि भेदो न युक्तः । कुलालेन निर्मितादयजुऽकाद्घटाद्विलक्षणत्वात् । एवं सति यदि कदाचित्प्रमादाद्भिद्येत तदानीं यजमानो म्रियेत यज्ञोऽपि विनश्येत् । मि-त्रायोखायाः परिदाने तु मित्रस्य परब्रह्मरूपत्वाद्ब्रह्मण्येवोखा प्रतिष्ठापिता भवति । ततो यजमानस्य यज्ञस्य च नास्ति हानिः ।
अथ भेदे सति प्रायश्चितं विधत्ते— “यदि भिद्येत तैरेव कपालै सँ सृजेत्सैव ततः प्रायाश्चित्तिः” (सं. का. ५ प्र. १ अ. ९) इति।
षक्वाया उखाया भेदे तदीयैरेव कपालैमृंदन्तरं मिश्रीयत्वा पुनरप्युखां निष्पादयेत् । सैव पुनर्निष्पादितोखा ततो भेदरूपादपराधात्प्रायश्चिर्त्तिर्विमोचनहेतुः । पूर्व सामान्याकारेणोखायाः प्रतपनमाहवतीये विहितम् ।
अथ गतश्रियो विशेषं विधत्ते— “यो गतश्रीः स्यान्मथित्वा तस्याव दध्यादभूतो वा एष स स्वां देवतामुपैति” [सं. का. ५ प्र. १ अ. ९] इति।
योऽग्निचयने प्रवृत्तो गतश्रीः शुश्रुवान्ग्रामणी राजन्यो वा भवेत्तस्य मथित-मग्निमुखायामवदध्यात् । न त्वाहवनीय उखायाः प्रवृञ्जनं कार्यम् । एष त्रयाणां १८३६ गतश्रियां मध्येऽन्यतमो भूतो भूतिमानैश्वर्योपेतः । अतः प्रभुत्त्वात्स स्वकीयामेव मथितारिनरूपां देवतागुपैतुमर्हति न त्वाहवनीयदेवतान्तराम् ।
यस्तु गतश्रीः सन्पुनर्भूतिं कामयेत तस्य मथिताग्निमपोद्य पूर्ववत्प्रवृञ्जन-मपि विधत्ते— “यो भूतिकामः स्याद्य उखायै संभवेत्स एव तस्य स्यादतो ह्येष संभवत्यषे वै स्वयंभूर्नाम भवत्येव” (सं. का. ५ प्र. १ अ. ९) इति।
आहवनीये प्रतप्तायामुखायां योऽग्निः संभवेत्स एव तस्य भूतिकामर्स्यं गत श्रियः कार्यो न तु मथितः । हि यस्मादत उखायामेष संभवति तस्मान्मथनापेक्षा मन्तरेण स्वयमेवोत्पन्नत्वादेष स्वयंभूरित्युच्यते । एवं सति यजमानो भवत्येव भूतिं प्राप्नोत्येव । यजमानद्वेषिणोऽध्वर्योः प्रकारान्तरं विधत्ते “यं कामयेत भ्रातृव्यमस्मै जनयेयमित्यन्यस्तस्याऽऽहत्याव दघ्यात्साक्षादे-वास्मै भ्रातृव्यं जनयति” [सं. का. ५ प्र. १ अ. ९] इति।
यमुद्दिश्य शत्रुमस्मै जनयेयमिति कामयेताध्वर्युस्तस्यान्यतो गृहान्तरादिप्रदे-शादग्रिमानीयोखायां प्रक्षिपेत् । तथा सति विलम्बमन्तरेणैव भ्रातृव्यं जनयति । अथ कामनाविशेषेणान्यमग्निं विधत्ते— “अम्बरीषादन्नकामस्याव दध्यादम्बरीषे वा अन्नं भ्रियते सयोन्येवान्नमव रुन्धे” [सं. का. ५ प्र. १ अ. ९] इति।
घृतादिना शाकादिभर्जनार्थे यल्लौकिकं लोहदिपात्रं तदम्बरीषं तस्मिन्प्रतप्ते घृतप्रक्षेषेण प्रौढा ज्वालोत्पद्यते । ततोऽग्निमाहृत्योखायामवदध्यात् । लोके हि तस्मिन्नम्बरीषे शाकादिकमन्नं धार्यते । अतः काम्यमानेनान्नेनैतस्याग्नेः समानयोनि-त्वाद्यजमानोऽन्नं प्राप्नोत्येव।
तदेवं प्रवृञ्जनप्रसंङ्गागतान्विधन्पिरिसमाप्य प्रकृतप्रवृञ्जनोपयुक्तं द्रव्यं विधत्ते— “मुञ्चानव तधात्यूर्ग्वै मुञ्जा ऊर्जमेवास्मा अपि दधाति” (सं. का. ५ प्र. १ अ. ९) इति।
१८३७ शुष्कान्मुञ्जाख्यांस्तृणविशेषानुखायां प्रक्षिपेत् । महिष्यादिभिर्भक्ष्यत्वान्मुञ्जा ऊर्ग्रूपाः । अन्नमेव यजमानाय संपादयति ।
मन्त्रः
द्र्व॑न्नस्स॒र्पिरा॑सुतिᳶ प्र॒त्नो होता॒ वरे॑ण्यः ।
सह॑सस्पु॒त्रो अद्भु॑तः ।
टीका
कल्पः—“दूब्रन्नः सर्पिरासुतिरिति तस्यां क्रुमुकमुल्लिखितं घृतेनाङ्क्त्वाऽ-वदधाति मुञ्जश्चि” इति । पाठस्तु— द्ब्रन्नः सर्पिरिति । अत्रोत्पत्स्यमानोऽग्निरेतैर्विशषेणैः प्रशस्यते । द्रुशब्देन वृक्षा उच्यन्ते । “द्रुषदमित्याह । वनस्पतयो वै द्रु । वनस्पतीनामेवैतेन सूयते” इति श्रुत्यन्तरात् । द्रुशब्दाभिधेया वृक्षा अन्नं यस्यासौ द्ब्रन्नः । सर्पिरेवाऽऽहारत्वेन सूयते प्रक्षिप्यतेऽस्मिन्निति सर्पिरासुतिः । प्रत्नः पुरातनः । होता देवानामाह्वाता । वरेण्यो वरणीयः । सहसो बलस्य पुत्रः । मथनहेतुना बलेनोत्पद्यमानत्वात् । अद्भुत आश्चर्यरूपः ।
अनेन मन्त्रेण साध्यं क्रुमुकावधानं विधत्ते— “अग्निर्देवेभ्यो निलायत स क्रुमुक्तं प्राविशत्क्रुमुकमव दधाति यदेवास्य तत्र न्यक्तं तदेवाव रुन्धे” [सं. का. ५ प्र. १ अ. ९] इति।
क्रुमुकमल्पं काष्ठशकलम् । न्यक्तं विलीनमग्निरूपम् । तत्र तस्मिन्नेव शकलेऽस्याग्नेर्यदेव रूपं न्यक्तं विलीनं तत्प्राप्नोति । चूर्णरूपं क्रुमुकमिति सूत्रका-रेणोक्तम् । अस्य क्रमुकस्य घृताक्तत्वं विधत्ते— “आज्येन सं यौत्येतद्वा अग्नेः प्रियं धाम यदाज्यं प्रियेणैवैनं धाम्ना समर्ध-यत्यथो तेजसा” [सं. का. ५ प्र. १ अ. ९] इति।
संयौति तत्क्रुमुकं संमिश्रयेत् । आज्यस्याग्निस्थानत्वम् “आ प्यायत। घुतयोनिरग्निः” इत्यादिमन्त्रवर्णाद्घृतेन ज्वालोत्पत्तेश्चावगन्तव्यम् । ज्वालेत्पत्तिरेवा-त्राथो तेजसा समर्धयतीत्युच्यते ।
मन्त्रः
पर॑स्या॒ अधि॑ सव्ँ॒वतोऽव॑राँ अभ्या [36] त॒र॒ ।
यत्रा॒हमस्मि॒ ताँ अ॑व ।
टीका
कल्पः—“परस्या अधि संवत इति वैकङ्कतीं समिधमादधाति” इति ।
पाठस्तु— परस्या अधीति । सम्यग्वनुते देवान्भजते यस्यां क्रियायां सा क्रिया संवत्। परस्याः संवतोऽध्युत्कृष्टाया इष्ठेरधीष्ठानं त्वमवरान्निकृष्ठानप्यस्मानभ्यात- १८३८ राऽऽभिमुख्येनाऽऽगत्य दुःखात्तारय । यत्र येषु बन्धुष्वमहस्मि तानपि बन्धूनव रक्ष। अनेन मन्त्रेण साध्यं समिदाधानं विधत्ते— “वैकङ्कतीमा दधाति मा एवाव रुन्धे” [सं. का. ५ प्र. १ अ. ९] इति।
मन्त्रः
प॒र॒मस्याः॑ परा॒वतो॑ रो॒हिद॑श्व इ॒हा ग॑हि ।
पु॒री॒ष्य॑ᳶ पुरुप्रि॒योऽग्ने॒ त्वन्त॑रा॒ मृधः॑ ।
टीका
आग्नेयी दीप्तिर्विकङ्कतवृक्ष एवावतिष्ठते । अत एवाऽऽधानब्राह्मणे स्तूयते— “अग्नेः सृष्टस्य यतः । विकङ्कतं मा आर्छत्” इति । पाठस्तु— परमस्या इति । परायच्छब्दो तूरदेशवाची । हेऽग्ने परमस्याः परावतोऽ-त्यन्तदूरदेशादिहास्मिकर्मणि त्वमागहि आगच्छ । कीदृशस्त्वं, रोहिदश्वो लोहित-वर्णोऽश्वो यस्यासौ रोहिदश्व । अत एवान्यत्राप्याग्नायते “रोहितेन त्वाऽग्निर्देवतां गमयतु” इति । पुरीषमुखाहेतुभूतं पांसुमर्हतीति पुरीष्यः । पुरूणां यजमानानां प्रियः पुरुप्रियः । तादृशस्त्वं मृधः शत्रूंस्तरातिलङ्घय ।
अनेन मन्त्रेण साध्यं समिदाधानं विधत्ते— “शमीमयीमा दधाति शान्त्यै” (सं. का. ५ प्र. १ अ. ९) इति।
शमीवृक्षस्याग्निदाहशमनहेतुत्वात्तदीया समिधा शान्तिर्भवति । अत एषाऽऽधानब्राह्मणे पाठ्यते—“प्रजापतिरग्निमसृजत । सोऽबिमेत्प्र मा धक्ष्यतीति । तँश म्याँशमयत् । तच्छम्यै शमित्वम्” इति।
मन्त्रः
सीद॒ त्वम्मा॒तुर॒स्या उ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान् ।
मैना॑म॒र्चिषा॒ मा तप॑सा॒भि शू॑शुचो॒ऽन्तर॑स्याँ शु॒क्रज्यो॑ति॒र्वि भा॑हि ।
टीका
कल्पः—“सीद त्वं मातुरस्या उपस्थ इति तिसृमिर्जातमुख्यमुपतिष्ठते” इति। तत्र। प्रथमामाह— सीद त्वं मातुरिति । हेऽग्ने त्वं मातृसगानाया अस्या उखाया उपस्थ उत्सङ्गे सीदोपविश । कीदृशस्त्वं, विश्वानि वयुनानि सर्वाञ्ज्ञानोपायान्विद्वानेना मुखामाचषा त्वदीयदीप्त्या मा शूशुचोऽत्यन्तं मा दीपय । तपसा संतापेनाभि मा शूशुचः । अर्चिः कारणं तपः कार्ये, कारणेनेपत्तापो भवति, कार्येण तु भूयान् । तदुभयं मा कुर्वित्यर्थः । अस्यामुखायामन्तः शुक्रज्योतिर्निर्मलप्रकाशः सन्विमाहि विशेषेण दीप्यस्व ।
मन्त्रः
अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे ।
तस्या॒स्त्वँ हर॑सा॒ तप॒ञ्जात॑वेदश्शि॒वो भ॑व ।
टीका
अथ द्वितीयामाह— १८३९ अन्तरग्ने रुचेति । हेऽग्ने उखायै तस्या उखाया अन्तर्मध्ये स्वे सदने स्वकीये स्थाने रुचा दीप्त्यां युज्यस्वेति शेषः । हे जातवेदस्त्वं तस्या उखायाः शिवो भव सुखप्रदो भव । किं कुंर्वन् । हरसा तेजसा तपञ्ज्वलन् ।
मन्त्रः
शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वम् ।
शि॒वाᳵ कृ॒त्वा दिश॒स्सर्वा॒स्स्वाय्ँयोनि॑मि॒हास॑दः ॥ [37]
टीका
अथ तृतीयामाह। शिवो भूत्वेति । हेऽग्ने मह्यं मदर्थं शिवः शान्तो भूत्वा थो अनन्तरं त्वं शिवः सन्सीद सर्वान्प्रत्ति शान्तः सन्नुपविश । सर्वा दिशः शिवाः शान्ताः कृत्वेहा-स्यामुखायां स्वां योनिं स्वकीयं स्थानमासद आगत्योपविश ।
एतान्मन्त्रान्विनियुङ्क्ते— “सीद त्वं मातुरस्या उपस्थ इति तिसृभिर्जातमुप तिष्ठते त्रय इमे लोका एष्वेव लोकेष्वाविदं गच्छत्यथो प्राणानेवाऽऽत्मन्धत्ते” (सं. का. ५ प्र. १ अ. ९) इति।
आविदं ख्यातिम् । किंच प्राणापानव्यानानां त्रित्वात्तानपि त्रिसंख्यया स्वात्मनि स्थापयति ।
अत्र विनियोगसंग्रहः— आकूतिं सप्तभिर्दीक्षाहुतिर्मा स्विति च द्वयात् ।
पूर्वाग्नौ प्रवृणक्त्योखां मित्राङ्गारैः समिध्यते ॥
द्व्नन्नः क्रुमुकमाधत्ते परं वैकङ्कतीं परम् ।
शमीमयीं सीद जातं तिसृभिश्चोपतिष्ठते ॥
नवमे त्वनुवा॑केऽस्मिन्मन्त्राः षोडश वर्णिताः ॥
अत्र मीमांसा।
दशमाध्यायस्य तृतीयपादे चिन्तितम्— षड्भिर्दीक्षयतीत्यग्निगतं प्राकृतबाधकम् ।
समुच्चितं वा बाधः स्यात्कार्यैक्यात्पाठवाक्यतः ॥
अग्नौ होमाङ्गता क्लृप्तेरतिदिष्टेन तुल्यता ।
विनाऽऽवृत्तिं द्वादशत्वसिद्ध्ये स्यात्समुच्चयः ॥
अग्निचयने दीक्षाहुतयः श्रूयन्ते– ‘षड्भिर्दीक्षयति” इति। प्रकृतावपि- १८४० “स्त्रुषेण चतस्त्रो जुहोति दीक्षितत्वाय” इत्यादिना दीक्षाहुतयः षड् विहिताः । तत्र मन्त्रा भिन्नाः- “आकूत्यै प्रयुजेऽग्नये स्वाहा” इत्यादयः प्राकृता मन्त्राः, “आकूति-माग्निं प्रयुजँ स्वाहा” इत्यादयो वैकृताः । तत्र वैकृतमाहुतिम त्रषद्कं प्राकृतस्य वाधकं किंवा प्राकृतेन समुच्चितमिति संशये बाधकमिति तावत्प्राप्तम् । कुतः । कार्यैक्यात् । दीक्षणीयाङ्गभूताहुत्युपकारलक्षणं यत्कार्यं प्राकृतानां मन्त्राणां तदेव वैकृतानामपि । न च विकृतौ तन्न प्रतीयत इति शङ्कनीयम् । स्वाहान्तपाठरूपेण लिङ्गेन मन्त्राणामाहुत्युषकारकत्वप्रतीतेः । आहुतीनां च षड्भिर्दीक्षयतीति वाक्येन दीक्षणीयाङ्गत्वप्रतीतेः । तस्माच्छूयमाणैर्मन्त्रैरतिदिष्टानां बाध इति पूर्वः पक्षः । अग्नौ मन्त्राणां स्वरूपं यद्यपि श्रुतिसिद्धं तथाऽपि होमाङ्गत्वं लिङ्गेन कल्पनीयम् । तथा चातिदेशकल्प्यैर्मन्त्रैस्तुल्यबलत्वान्न बाध्य बाधकता । एवमपि न समुच्चये प्रमाणमस्तीति चेत् । अस्त्येव । द्वादश जुहोतीति संख्याविधानेन तत्सिद्धेः । न च वैकृतानामेव षण्णामावृत्त्या संख्या सिघ्वतीति वाज्यम् । आवृत्तेरश्रुतत्वात् । न च सा कल्पयितुं शक्यतेऽन्यथाऽपि संख्योपपत्तेः । तस्मात्समुच्चय इति राद्धान्तः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
अनुवाकः १० अग्निधारणम्
१-३, ५-१०,अनुष्टुप् , ३-४,११, १३ त्रिष्टुप्, १२ जगती अग्निर्ऋषिः ।
चतुर्थकाण्डे प्रथमप्रपाठके दशमोऽनुवाकः
मन्त्रः
यद॑ग्ने॒ यानि॒ कानि॒ चा ते॒ दारू॑णि द॒ध्मसि॑ ।
तद॑स्तु॒ तुभ्य॒मिद्घृ॒तन्तज्जु॑षस्व यविष्ठ्य ।
टीका
( अथ चतुर्थकाण्डे प्रथमप्रपाठके दशमोऽनुवाकः ) ।
नवमऽनुवाकेऽग्न्युत्पादनमुक्तम । अथ दशमेऽग्निधारणमुच्यते ।
कल्पः—“यदग्ने यानि कानि चेति पञ्चभिरौदुम्बरमपरशुवृक्णमुख्य इध्म मभ्यादधाति” इति । तत्र प्रथमामाह— यदग्ने यानि कानीति । हेऽग्ने ते त्वदर्थं यानि कानि च दारूणि, दारु-शब्देन कुठारच्छेदरहितमविदारितं काष्ठमुच्यते । तादृशानि यानि कान्यप्यरण्ये पतितानि काष्ठान्यानीय दध्मसि धारयाम इति यत्तत्सर्वं तुभ्यं त्वदर्थं घृतमिद्घृतमेव घृतवत्प्रियमस्तु । हे यविष्ठ्य युवतम तद्दारुजातं जुषस्व ।
मन्त्रः
यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति ।
सर्व॒न्तद॑स्तु ते घृ॒तन्तज्जु॑षस्व यविष्ठ्य ।
टीका
अथ द्वितीयामाह— यदत्त्युपजिह्विकेति । जिह्वाः प्रधानज्वालाः । तत्समीपवर्तिनी क्षुद्रज्वा- १८४३ लोपजिह्विका । अस्माभिररण्यादानीतेषु दारुषु मध्ये यद्दारु महारण्ये दावाग्ने-रुपजिह्विका स्वल्पज्वालाऽत्ति भक्षयतीषद्दहतीत्यर्थः । वम्रशब्दः पिपीलिकासदृशं क्षुद्रजीवमाचष्टे । स च यत्काष्ठमतिसर्पति अतिशयेन सर्पति प्राप्नोति । काष्ठावय-वेषु तत्र तत्र सारं भक्षयतीत्यर्थः । तत्सर्वमित्यादि पूर्ववत् ।
मन्त्रः
रात्रिँ॑रात्रि॒मप्र॑याव॒म्भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒समस्मै ।
रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम ।
टीका
अथ तृतीयामाह— रात्रिँरात्रिमिति। हेऽग्ने ते तव प्रतिवेशा प्रत्यासन्ना वयं मा रिषाम हिंसा न प्राप्नुमः । किं कुर्वन्तः। रायस्पोषेण धनपुष्ट्या धनपोषेणेषाऽन्नेन चसम्यङ्मदन्तः। तथा रात्रिं रात्रिमप्रयावं प्रतिदिनं पृथग्मावमकृत्वा । एकमपि दिनमवर्जयित्वेत्यर्थः। अस्मा अग्नये घासं समिद्रूपं भक्ष्यं भरन्तः संपादयन्तः । तत्र दृष्टान्तः—तिष्ठतेऽ-श्वायेव वाजिशालायां बद्ध्वा स्थापिताय प्रौढायाश्वायैकमपि दिनमवर्जयित्वा यथा घासं प्रयच्छन्ति तद्वत् ।
मन्त्रः
नाभा॑ [38] पृ॒थि॒व्यास्स॑मिधा॒नम॒ग्निँ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे ।
इ॒र॒म्म॒दम्बृ॒हदु॑क्थय्ँ॒यज॑त्र॒ञ्जेता॑रम॒ग्निम्पृ॑तनासु सास॒हिम् ।
टीका
अथ चतुर्थीमाह— नाभा पृथिव्या इति । बृहते प्रौढाय रायस्पोषायाग्निमिमं वयं हवामह आह्वयामः । कीदृशमग्निं, पृथिव्या नाभा समिधानमुखाया मध्ये सम्यग्दीप्यमानम् । इरया समिद्रूपेणान्नेन माद्यतीतीरंमदस्तम् । बृहन्ति प्रौढान्युक्थानि प्रशंसनानि यस्या-सौ बृहदुक्थस्तम् । यजत्रं यागहेतुं, जेतारं राक्षसादिविषये जयशीलं पृतनास्वाग्निं संग्रामेष्वग्रे गच्छन्तं, सासहिमस्मदपराधानामतिशयेन सोढारम् ।
मन्त्रः
यास्सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त ।
ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताँस्ते॑ अ॒ग्नेऽपि॑ दधाम्या॒स्ये॑ ।
टीका
अथ पञ्चमीमाह— याः सेना इति । याः काश्चित्परकीयाः सेना अभीत्वरीरस्मदाभिमुख्येन गमनशीला आव्याधिनीः सर्वतोऽस्मान्पीडयन्त्य उगणा उत्कृष्टगणोपेता बहुस्तोमा इत्यर्थः । एवंविधा याः सेनाः सन्ति, उतापि च ये स्तेना गुप्तचोरा ये च तस्कराः प्रकटचोरास्तान्सर्वांस्तवाऽऽस्ये मुखेऽपिदधामि प्रक्षिपामि ।
एतान्मन्त्रान्विनियुङ्क्ते— “न ह स्म वै पुराऽग्निरपरशुवृक्णं दहति तदस्मै प्रयोग एवर्षिरस्वदयद्यग्ने यानि कानि चेति समिधमा दधात्यपरशुवृक्णमेवास्मै स्वदयति” [सं. का. ५ प्र. १ अ. १०] इति।
पुरैतन्मन्त्रयोगात्पूर्वं कदाचिदप्यग्निरपरशुवृक्णं परशुच्छेदरहितं काष्ठं न ***१८४४ ह स्म वै दहति सर्वथा न दहति। अविदारितं काष्ठमग्नौ प्रक्षिप्तमपि न भस्मी भव-ति, किंतु ज्वालया क्वचित्कृष्णं भवतीत्यर्थः । एवं सति प्रयोगः प्रयुज्यमान क्रषि-रेव यदग्ने यानीति मन्त्र एवास्मा अग्नये तत्काष्ठमविदारितमस्वदयत्स्वादूकृतवान्। एतदर्थमेव यद्दारु तद्धृतमस्त्विति मन्त्रे पठ्यते। तस्माद्यदग्न इत्यादिमन्त्रैः समिध-मादध्यात्तेनास्मां अग्नये परशुच्छेदरहितं काष्ठं स्वदयत्येव ।
एतद्वेदनं प्रशंसति— “सर्वमस्मै स्वदते य एवं वेद” (सं. का. ५ प्र. १ अ. १०) इति।
यत्काष्ठमपरशुवृक्णमभ्याधेयं तस्य जातीविशेषं विधत्ते— “औदुम्बरीमा दधात्यूर्ग्वा उदुम्बर ऊर्जमेवास्मा अपि दधाति” (सं. का. ५ प्र. १ अ. १०) इति।
यदग्न इत्यादिमन्त्रसंघरूपं सूक्तं प्रशंसति— “प्रजापतिरग्निमसृजत तँ सृष्टँ रक्षाँ स्यजिघाँ सन्त्स एतद्राक्षोघ्नम-पश्यत्तेन वै स रक्षाँ स्यपाहत यद्राक्षोघ्नं भवत्यग्नेरेव तेन जाताद्रक्षाँस्यप हन्ति” (सं. का. ५ प्र. १ अ. १०) इति।
रक्षोघ्नोऽयमाग्निस्तत्सूक्तं राक्षोघ्नं यदग्ने यानि कानि चेत्यारभ्यामित्रा-नुन्नयामि स्वाँ अहमित्येतदन्तम् । अनेन सूक्तेन रक्षांसि प्रजापतिर्हतवान् । तस्माद-त्राप्यनेन सूक्तेन तथैव भवितव्यम् । तेन सूक्तेनोत्पन्नागदग्नेः सकाशाद्रक्षांसि विना-शयति।
मन्त्रः
दँष्ट्रा॑भ्याम्म॒लिम्लू॒ञ्जम्भ्यै॒स्तस्क॑राँ उ॒त ।
हनू॑भ्याँस्ते॒नान्भ॑गव॒स्ताँस्त्वङ्खा॑द॒ सुखा॑दितान् ।
टीका
कल्पः—“दँ ष्ट्राभ्यां मलिम्लूनित्याश्वत्थीं समिधमादधाति” इति।
पाठस्तु— दँष्ट्राभ्यामिति। गुप्ताः प्रकटाश्चेति द्विविधाश्चोराः। प्रकटा अपि द्विविधाः, अरण्येषु मार्गमध्येऽपहृत्य प्रत्यक्षमेव पलायमानाः प्रकटाः । ततोऽप्यतिप्रकटा निर्भ-या ग्रामेष्वेवाऽऽगत्य बन्दिकराः । त एतेऽत्र मलिम्लब इत्युच्यन्ते मलं पापाधिक्य-मेषामस्तीति मलिनाः । तथाविधा भूत्वा म्लोचयन्ति चौर्य कुर्व- १८४५ न्तीति मलिम्लवस्तान् । दन्तपङ्क्तिमध्ये याभ्यां तीक्ष्णदन्ताम्यां क्रमुकादिकं भक्ष्यते ते दंष्ट्रे । ततः पुरोवर्तिनो बहिर्दृश्यमाना दन्ता जम्भ्याः । अन्तलर्नि तु हनू । तत्र मलिम्लून्दष्ट्राभ्यां पडियित्वा जम्भ्यैस्तस्करानपि पडियित्वा हनूभ्यां स्तेनान्पीडयित्वा हे भगवः पूजानीयाग्ने तान्सर्वान्सुखादितान्पुनर्जीवनरहिता यथा भवन्ति तथा त्वं खाद भक्षय । एतन्मन्त्रसाध्यं समिदाधानं विधत्ते— “आश्वत्थीमा दधात्यश्वत्थो वै वनस्पतीनाँ सपत्नसाहो विजित्यै” [सं. का. ५ प्र. १ अ. १०] इति।
सपत्नान्सहतेऽभिभवतीत सपत्नसाहः। अश्वरूपधारिणोऽग्नेरस्मिन्वृक्षेऽ-वस्थितत्वादश्वत्थस्य सपत्नसाहत्वम् । तत्रावस्थानमाधानब्राह्मणे श्रूयते-‘अग्निर्दे-वेभ्यो निलायत । अश्वो रूपं कृत्वा । सोऽश्वत्थे संवत्सरमतिष्ठत् । तदश्वत्थस्याश्व-त्थत्वम्” इति। अतस्तदीया समिद्विजयाय संपद्यते।
मन्त्रः
ये जने॑षु म॒लिम्ल॑वस्स्ते॒नास॒स्तस्क॑रा॒ वने॑ ।
ये [39] कक्षे॑ष्वघा॒यव॒स्ताँस्ते॑ दधामि॒ जम्भ॑योः ।
टीका
कल्पः—“ये जनेषु मलिम्लव इति वैकङ्कन्तीम्” इति। आदधातीति शेषः पाठस्तु— ये जनेष्विति। ग्रामवर्तिषु जनेषु वनेषु गच्छत्सु च ये त्रिविधाः पूर्वोक्ता-श्चोराः सन्ति, ये चान्ये व्याघ्रादयः कक्षे, स्थित्वाऽघायवो भवन्ति, अघं पापं हिंसन-मिच्छन्तीत्यघायवः, तान्सर्वांस्तव जम्भयोर्दधामि ।
एतन्मन्त्रसाध्यं समिदाधानं विधत्ते— “वैकङ्कतीमा दधाति भा एवाव रुन्धे” [सं. का. ५ प्र. १ अ. १०] इति।
मन्त्रः
यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जनः॑ ।
निन्दा॒द्यो अ॒स्मान्दिप्सा॑च्च॒ सर्व॒न्तम्म॑स्म॒सा कु॑रु ।
टीका
कल्पः—“यो अस्मभ्यमरातीयादिति शमीमयीम्” इति। पाठस्तु— यो अस्मभ्यमिति। पूर्वं चोरभेदा दर्शिताः। इदानीं शत्रुभेदा उच्यन्ते। ते च त्रिविधा अरातयो द्वेषिणो निन्दकाश्चेति। तत्र दातव्यत्येन प्राप्तं धनं यो न ददाति सोऽयमरातिः । कार्यविघातं यः करोति स द्वेषी । वाग्दौर्जन्यमात्रं यः करोति स निन्दकः । हन्तुकामश्चतुर्थः । तत्र योऽस्मभ्यमस्माकमरातीयादरातित्व मिच्छति, यो यजमानानस्मान्द्वेषते कार्यनाशेन बाधते, योऽप्यन्योऽस्मान्निन्दान्निन्दति, यश्चापरोऽ-स्मान्दिप्साद्दम्भितुं हिंसितुमिच्छति, तं सर्वं जनं मस्मसा कुरु। चूर्णजन्यशब्दस्यानुक-रणं मस्मसेति, चूर्णी कुर्वित्यर्थः।
१८४६ एतन्मन्त्रसाध्यं समिदाधानं विधत्ते— शमीमयीमा दधाति शान्त्यै” (सं. का. ५ प्र. १ अ. १०) इति।
मन्त्रः
सँशि॑तम्मे॒ ब्रह्म॒ सँशि॑तव्ँवीर्य॑म्बल॑म् ।
सँशि॑तङ्क्ष॒त्रञ्जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः ।
टीका
कल्पः “ सँ शितं मे ब्रह्मोदेषां बाहू अतिरमित्युत्तमे यजमानं वाचयं-स्तूष्णीमौदुम्वर्यौ समिधावादधाति” इति। तत्र प्रथमामाह— सँ शितं मे ब्रह्मेति। मे मदीयं ब्रह्म ब्राह्मण्यं संशितं सम्यक्तक्ष्णिकृतं शास्त्रीयमार्गवर्ति कृतमित्यर्थः। तथा वीर्यमिन्द्रियशक्तिः। बलं शरीरजशक्तिः। तदुभयं संशितं सम्यक्स्वकार्यक्षमं, तथा यस्य क्षत्त्रस्य राज्ञोऽहं पुरोहितोऽस्मि मे मदीयं तत्क्षत्त्रं जिष्णु जयशीलं यथा भवति तथा संशितम्। अस्त्विति शेषः।
मन्त्रः
उदे॑षाम्बा॒हू अ॑तिर॒मुद्वर्च॒ उदू॒ बल॑म् ।
क्षि॒णोमि॒ ब्रह्म॑णा॒ऽमित्रा॒नुन्न॑यामि [40] स्वाँ अ॒हम् ।
टीका
अथ द्वितीयामाह— उदेषां बाहू इति। एषां स्वकीयानां राजब्राह्मणादीनां मध्य एकैकस्य वाहूं उदतिरमुत्कर्षेण वर्वितवानस्मि। लौकिकोक्तिरियम्। लोके हि योऽन्यस्मादुत्कृष्टो भवति तं जना एवमाहुः-स्वकीयहस्तमुपरितनं कृतवानिति। वर्चः कान्तिः। तामप्युदतिरम्। बलं शरिरं तदव्युदतिरम्। ब्रह्मणा मन्त्रसामर्थ्येनामित्राञ्शत्रून्क्षिणोमि क्षीणान्करोमि। स्वान्स्वकीयान्पुरुषानहमुन्नयाम्युत्कर्षं प्रापयामि।
एतन्मन्त्रसाध्यं यजमानवाचनं विधत्ते— “सँ शितं मे ब्रह्मोदेषां बाहू अतिरमित्युत्तमे औदुम्बरी वाचयति ब्रह्मणैव क्षत्त्रँसँ श्यति क्षत्त्रेण ब्रह्म तस्माद्ब्राह्मणो राजन्यवानत्यन्यं ब्राह्मणं तस्माद्राजन्यो ब्राह्मणवानत्यन्यँ राजन्यम्” [सं. का. ५ प्र. १ अ. १०] इति।
उत्तमे राक्षोघ्न सूक्तस्यान्तिमे ऋचौ यजमानं वाचयेत्। औदुम्बर्यौ द्वे समि-धौ तूष्णीमादध्यादिति शेषः । प्रथममन्त्रे ब्रह्मक्षत्त्रयोः संशितत्वं यदुक्तं तत्र परस्परो-पकारो विज्ञायते। ब्राह्मणेनैव पुरोहितेन राजा धर्मे तीक्ष्णीकृतो भवति। राज्ञा निया-मकेन ब्रह्म-णोऽपि संशितः स्वाचारे नियमितो भवति। यस्मादेवं तस्माद्रा- १८४७ जन्येन स्वामिना युक्तो ब्राह्मणः स्वामिरहितं ब्राह्मणमत्येति। राजाऽपि धर्मबोधकेन पुरोहितेन ब्राह्मणेन युक्तस्तद्रा हितमधार्मिकं राजन्यं राजानमत्येति।
मन्त्रः
दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायु॑श्श्रि॒ये रु॑चा॒नः ।
अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑न॒न्द्यौरज॑नयत्सु॒रेताः॑ ।
टीका
कल्पः—“एकविंशतिनिर्बाधो रुक्मः सूत्रोतस्तं दृशानो रुक्म इति समासीनो यजमानोऽन्तर्निर्बाधं प्रतिमुच्य बहिर्निर्बाधान्कुरुते” इति । पाठस्तु— दृशानो रुक्म इति। दृशानो दर्शनीयरूपो रुक्मः सुवर्णनिर्मितः फलका कार आभरणविशेष उर्व्या महत्या दीप्त्या व्यद्यौद्विद्योतते स्म । किं कुर्वन् । दुर्मर्ष-मतिरस्कार्यमायुर्जीवनं श्रिये श्रयितुं रुचानो वाञ्छन् । तथाविधोऽग्निर्वयोभिरन्नैर्हवि-र्भिरमृतोऽभवत् । यद्यस्मादेनमग्निं द्यौर्द्युलोकवासिदेवगणः सुरेताः सन्नजनयत्तस्मादभृतत्वं युक्तम् । अत्र रुक्मस्यग्निधारणाङ्गत्वादग्नित्वमुपचरितम् । अनेन मन्त्रेण साध्यं रुक्मप्रतिमाकं विधत्ते— “मृत्युर्वा एष यदग्निरमृतँ हिरण्यँ रुक्ममन्तरं प्रति मुञ्चतेऽमृतमेव मृत्योरन्तर्धत्ते” (सं. का. ५ प्र. १ अ. १०) इति।
अग्नेर्दाहेन विनाशुकत्वान्मृत्युत्वं, हिरण्यस्याग्निसंपर्केऽपि भस्मीभावदर्श-नादमृतत्वम् । एवं सति धारयिष्यमाणस्याग्नेः स्वकीयस्योरसश्चान्तरं मध्यवर्ती यथा भवति तथा रुक्मं दीर्घसूत्रेण प्रोतं गले प्रतिमुञ्चत् । तेन प्रतिमुक्तेन दाहकादग्निरू-पान्मृत्योरमृतं रुक्मं व्यवधानरूपं कृतवान्भवति ।
तस्य रुक्मस्य बिन्दुसदृशानाकारविशेषान्विधत्ते— “एकवीँ शतिनिर्बाधो भवत्येकविँ शतिर्वै देवलोका द्वादश माताः पञ्चर्तंवस्त्रय इमे लोका असावादित्य एकविँश एतावन्तो वै देवलोकास्तभ्ये एव भ्रातृव्यमन्तरेति” (सं. का. ५ प्र. १ अ. १०) इति।
सुवर्णफलके निम्नोन्नतभावमापद्य स्पर्शकारिणं पुरुषं निःशेषेण बाधन्त इति निर्बाधाः स्फोटसदृशा अवयवविशेषाः । ते चैकावॅशतिसंख्याका यस्निरुक्मे सोऽयमेकविंशतिनिर्बाधः । तादृशं रुक्मं कुर्यात् । लोक्यन्ते भज्यन्ते यैर्देशकाला-दिसाधनविशेषैस्ते लोकाः। मासादयश्च वेदानां भोगसाधनानीति त एव लोका- १८४८ इत्युच्यन्ते । अतो निर्बाधगतयैकविंशतिसंख्यया मासादिकेम्य आदित्यान्तेभ्य एकविंशतिलोकेभ्यो भ्रातृव्यमन्तरितं करोति।
विहितान्निर्बाधान्प्रशंसति— “निर्बाधैर्वै देवा असुरान्निर्बाधेऽकुर्वत तन्निर्बाधानां निर्बाधत्वं निर्बाधी भवती भ्रातृव्यानेव निर्बाधे कुरुते” [सं. का. ५ प्र. १ अ. १०] इति।
चर्मखड्गधारिणो देवाश्चर्मणो बहिर्भागे शचितैः कंस्यादिमयैः प्रौढस्फोटा-कारैर्निर्बाधैः । स्वग्रहणार्थमागतानसुरानास्फाल्या भूमिपतनादिरूपे निर्वाधे स्थितान-कुर्वत । यस्मान्निश्चितबाधा एते तस्मान्निर्बाधाः । अतोऽत्र रुक्मस्य निर्बाधित्वेन भ्रातृव्यान्सर्वान्निश्चितबाधे पतितान्कुरुते।
मन्त्रः
विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विᳶ प्रासा॑वीद्भ॒द्रन्द्वि॒पदे॒ चतु॑ष्पदे ।
वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ।
टीका
कल्पः—“विश्वा रूपाणीति शिक्यपाशं प्रतिमुञ्चते” इति। पाठस्तु— विश्व रूपाणि प्रतीति। कविर्विद्वान्वरेण्यः श्रेष्ठः सविता विश्वा रूपाणि समस्तानि जगद्रूपाणि प्रतिमुञ्चते स्वस्मिन्स्वी करोति। प्रकाशयतीत्यर्थः। द्विपदे चतु-ष्पदे मनुष्याणां पशूनां च भद्रं स्वस्वव्यवहारप्रकाशनरूपं श्रेयः प्रासावी त्संपादितवा-न् । नाकं स्वर्गं विशेषेणाख्यत्प्रकाशितवान्। उषसः प्रयाणमनूषः कालेऽतीते सति विराजति विशेषेण प्रकाशते।
अनेन मन्त्रेण साध्यं शिक्यपाशप्रतिमोकं विधत्ते— “सावित्रिया प्रति मुञ्चते प्रसूत्यै” [सं. का. ५ प्र. १ अ. १०] इति ।
सविता वरेण्य इति मन्त्रलिङ्गादियं सावित्री सम्यक्प्ररेणाय संपद्यते ।
मन्त्रः
नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकँ॑ समी॒ची ।
द्यावा॒ क्षामा॑ रु॒क्मः [41] अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निन्धा॑रयन्द्रविणो॒दाः ।
टीका
कल्पः — ‘नक्तोषासेति कृष्णाजिनमुत्तरम्” इति। प्रतिमुञ्चत इत्यनुव र्तते। पाठस्तु— नक्तोषासेति। नक्तं चोषाश्च नक्तोवासा रात्रिदिवसावित्यर्थः समनसा परस्परमेकमतियुक्ते, विरूपे रात्रिः कृष्णा दिवसस्तु शुक्ल इत्येवं विलक्षणरूपे, समीची समीच्यावनूकूले सत्यै, एकं शिशुमग्निं धापयेते यजमानकर्तृकमग्निधारणं संपादयतः । द्यावा द्युलोके क्षामा क्षितौ भूलोकेऽन्तस्तदुभयमध्यवर्तिन्यन्तरिक्षे रुक्मो विभाति । अयमग्निर्विशेषेण प्रकाशते । दीव्यन्ति विहरन्तीति देवाःप्राणाः । ते च द्रविणोदा यागद्वोरण द्रविणं धनरूपं फलं प्रायच्छन्ति । तादृशा यजमानस्य प्राणा अग्निमेतं धारयन्धृतवन्तः।
१८४९ एतन्मन्त्रसाध्यं कृष्णाजिनप्रतिमोकं विधत्ते— “नक्तोषासेत्युत्तरयाऽहोरात्राभ्यामेवैनमुद्यच्छते” [सं. का. ५ प्र. १ अ. १०] इति।
पूर्वां सावित्रीमृचमपेक्ष्येयमुत्तरा तया कृष्णाजिनं प्रतिमुञ्चत इति शेषः । तथा सति तन्मन्त्रप्रतिपादिताभ्यामेवैनमूर्ध्वं धृतवान्भवति।
तस्य मन्त्रस्य चतुर्थपादे देवशब्देन प्राणा विवक्षिता इति दर्शयति— “देवा अग्निं धारयन्द्रविणोदा इत्याह प्राणा वै देवा द्रविणोदा अहोरात्रा-भ्यामेवैनमुद्यत्य प्राणैर्दाधार” [सं. का. ५ प्र. १ अ. १०] इति।
उद्यमनमात्रमहोरात्रयोः कृत्यं, धारणं तु प्राणानामित्यर्थः।
रुक्मशिक्यपाशकृष्णाजिनानां यः प्रतिमोकस्तस्य काल उपवेशनं विधत्ते ‘आसीनः प्रति मुञ्चते तस्मादासीनाः प्रजाः प्र जायन्ते’ (सं. का. ५ प्र. १ अ. १०) इति।
तस्मादासीनप्रतिमोकाल्लोकेऽपि प्रजाः आसीना एवोत्पद्यन्ते न तूत्थिताः।
कृष्णाजिनस्य शिक्याद्वहिर्देशर्वीतत्वं विधत्ते— ‘कृष्णाजिनमुत्तरं तेजो वै हिरण्यं ब्रह्म कृष्णाजिनं तेजसा चैवैनं ब्रह्मणा चोभयतः परि गृह्णाति’ (सं. का. ५ प्र. १ अ. १०) इति।
शिक्यस्यैकतो रुक्ममन्यतः कृष्णाजिनमिति तेजोरूपेण रुक्मेण वेदरूपेण कृष्णाजिनेन चोभयतः शिक्यं परिगृहीतं भवति। कृष्णाजिनस्य ब्रह्मरूपत्वं दीक्षाप्रकरणे समाम्नातम्—‘ब्रह्मणो वा एतद्रूपम् । यत्कृष्णाजिनम्’ इति । शिक्यस्योद्यमनहेतुरज्जुसंख्यां विधत्ते— ‘षडुद्यामँ शिवये भवति षड्वा ऋतव ऋतुभिरेवैनमुद्यच्छते’ [सं. का. ५ प्र. १ अ. १०] इति।
‘यद्द्वादशोद्यामँ संवत्सरेणैव’ [सं. का. ५ प्र. १ अ. १०] इति।
द्वादश मासाः संवत्सर इत्युक्तत्वात्संवत्सरेणैवैनमुद्यच्छते।
१८५० शिक्यस्य प्रकृतिद्रव्यं विधत्ते— “मौञ्जं भवत्यूर्ग्वै मुञ्जा ऊर्जैवनँ समर्धयति” [सं. का. ५ प्र. १ अ. १०] इति।
संयुक्तमन्त्रः
सु॒प॒र्णो॑ऽसि ग॒रुत्मा॑न्त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रञ्चक्षु॒स्स्तोम॑ आ॒त्मा साम॑ ते त॒नूर्वा॑मदे॒व्यम्बृ॑हद्रथन्त॒रे प॒क्षौ य॑ज्ञाय॒ज्ञिय॒म्पुच्छ॒ञ्छन्दाँ॒स्यङ्गा॑नि॒ धिष्णि॑याश्श॒फा यजूँ॑षि॒ नाम॑ ।
मन्त्रः
सु॒प॒र्णो॑ऽसि ग॒रुत्मा॑न् , त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रञ्चक्षु॒स् स्तोम॑ आ॒त्मा साम॑ ते त॒नूर्वा॑मदे॒व्यम् बृ॑हद्रथन्त॒रे प॒क्षौ, य॑ज्ञाय॒ज्ञिय॒म्पुच्छ॒ञ्, छन्दाँ॒स्यङ्गा॑नि॒, धिष्णि॑याश्श॒फा, यजूँ॑षि॒ नाम॑ ।
टीका
कल्पः—“सुपर्णोऽसि गरुत्मानित्युख्यमवेक्षते” इति। पाठस्तु— सुपर्णोऽसि गरुत्मानिति । हेऽग्ने त्वं सुपर्णः पक्षिरूपोऽसि। पक्ष्याकारेण चेष्यमाणत्वात् । अत एवाऽऽम्नायते—‘वयसां वा एष प्रतिमया चीयते यदग्निः” इति । तत्र दृष्टान्तः—यथा गरुत्मान्पक्षिराजस्तद्वत्। पक्ष्याकारस्यावयवाः संप (पा) द्यन्ते त्रिवृत्ते शिरो बहिष्पवमानस्तोत्रे योऽयं त्रिवृत्स्तोमः स एव स्तोमस्तव शिर-स्थानीयः । प्रजापतिमुखजन्यत्वेनोक्तत्वात्।
यद्रायत्राख्यं साम तच्छिदीयं चक्षुः।
यः पञ्चदशादिस्तोमस्तव स जीवात्मा ।
यद्गायदेव्यं साम तच्छिरोव्यतिरिक्ततनुस्थानीयम्।
ये बृहद्रथंतराख्ये सामनी ते तव पक्षस्थानीये ।
यद्यज्ञायज्ञियाख्यं साम तत्तव पुच्छस्थानीयम् ।
यानि गायत्र्यादीनि च्छन्दांसि तानि हृदयाद्यङ्गस्थानीयानि ।
ये सौमिकवेद्यां होत्रियादिधिष्णियास्ते तव शफस्थानीयाः। यानि यजूंषि तानि तव नामस्थानीयानि। एतं मन्त्रं विनियुङ्क्ते— ‘सुपर्णोऽसि गरुत्मानित्यवेक्षते रूपमेवास्यैतन्महिमानं व्याचष्टे’ (सं. का. ५ प्र. १ अ. १०) इति।
अवेक्षते, उख्यमिति शेषः। मन्त्रस्वरूपेणैवार्थप्रतीतेर्नात्र पृथग्व्याख्यात-व्यमस्ति ।
मन्त्रः
सु॒प॒र्णो॑ऽसि ग॒रुत्मा॒न् ,
टीका
कल्पः—‘सुपर्णोऽसि गरुत्मानित्यादायोत्थाय’ इति। पाठस्तु— सुपर्णोऽसि गरुत्मानिति। हेऽग्ने त्वं गरुड इव पक्षिरूपोऽसि ।
मन्त्रः
दिव॑ङ्गच्छ॒ सुव॑ᳶ पत ॥ [42]
टीका
अत आकाशं प्रति गच्छ । ततोऽपि स्वर्गलोकं प्राप्नुहि । मन्त्रस्य स्वर्गप्राप्तिपरत्वं दर्शयति— “दिवं गच्छ सुवः पतेत्याह सुवर्गमेवैनं लोकं गमयति’ (सं. का. ५ प्र. १ अ. १०) इति । एवं यजमानमात्मानम्।
अत्र विनियोगसंग्रहः — यदग्ने पञ्चभिः काष्ठं वन्हावोदुम्बरं क्षिपेत् ॥
१८५१ दँष्ट्राऽऽश्वत्थीमादधाती ये ज वैकङ्कर्तों॑ तथा ॥
यो अस्मभ्यं शमीकाष्ठं संशितद्वयवाचनम् ।
दृशा रुक्मं निजे कण्ठे बद्ध्वा विश्वेतिमन्त्रतः ॥
साग्न्युखाशिक्यपाशं तु स्वाम्यत्र प्रतिमुञ्चते ।
नक्तोऽजिनं चोपरिष्टात्सुपर्णोऽग्निमवेक्षते ।
सुपर्णः साग्निरुत्तिष्ठेन्मन्त्राः पञ्चदशेरिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके दशमोऽनुवाकः ॥ १० ॥
अनुवाकः ११ चातुर्मास्यगतवैश्वदेवपर्वणि विहित याज्यापुरोनुवाक्याः
१-७, ११,१७, १९-२० गायत्री, १०, १२,१४, १८, त्रिष्टुप् ८, १३ जगती विश्वेदेवा ऋषयः
चतुर्थकाण्डे प्रथमप्रपाठके एकादशोऽनुवाकः
मन्त्रः
अग्ने॒ यय्ँ य॒ज्ञम॑ध्व॒रव्ँवि॒श्वत॑ᳶ परि॒भूरसि॑ ।
स इद्दे॒वेषु॑ गच्छति ।
सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तय॒स्सन्ति॑ दा॒शुषे॑ ।
ताभि॑र्नोऽवि॒ता भ॑व ।
टीका
[चतुर्थकाण्डे प्रथमप्रपाठके एकादशोऽनुवाकः] दशमेऽनुवाके वहूनिधारणमुक्तम्। अथैकादशे चातुर्मास्यगते वैश्वदेवाख्ये प्रथमपर्वणि विहितानां हविषां याज्यानुवाक्या उच्यन्ते।
तत्र प्रथमस्याऽऽज्यभागस्य चोदकप्राप्तामपवदितुमन्यां पुरोनुवाक्या-माह— अग्ने यं यज्ञमिति। हेऽग्नेऽध्वरं हिंसारहितं यं यज्ञं विश्वतः परिभूरसि सर्वतः प्राप्तवानसि, स इत्स एव यज्ञो देवेषु गच्छति।
अथ द्वितीयस्याऽऽज्यभागस्य पुरोनुवाक्यामाह— सोम यास्त इति । हे सोम दाशुषे हविर्दत्तवते यजमानाय मयोभुवः सुखं भावयितुस्ते तव या ऊतयो रक्षणप्रकाराः सन्ति ताभिरूतिभिर्नोऽस्माकमविता रक्षको भव।
मन्त्रः
अ॒ग्निर्मू॒र्धा भुवः॑ ।
टीका
अथाऽऽग्नेयमष्टाकपालं निर्वपतीत्यस्मिन्हविषि याज्यापुरोनुवाक्ययोः प्रतीके दर्शयति– अग्निर्मूर्धेति । अग्निमूर्धेति पुरोनुवाक्या । भुवो यज्ञस्येति याज्या। एत-च्चोभयमैष्टिके होत्रकाण्डे समाम्नातं, तच्चास्माभिरुदाहृत्य चक्षुषी वा एते यज्ञस्येत्य-स्मिन्ननुवाके व्याख्यातम्।
(मन्त्रः) - अ॒ग्निर्मू॒र्धा दि॒वᳵ क॒कुत्पति॑ᳶ पृथि॒व्या अ॒यम् ।
अ॒पाँ रेताँ॑सि जिन्वति ॥
(टीका) तृतीया - अग्निरिति गायत्री ॥ अयमग्निर्मूर्धा प्रधानभूतः दिवः द्युलोकस्य ककुत् उच्छ्रितः आत्मेत्यर्थः अर्यमात्मना दिवो मूर्धत्वेन वतत इति । अयमेव पृथिव्याः पतिः पाता; अग्निर्हि पृथिव्यात्मना वर्तते । सोयमपां रेतांसि कार्यभूतानि स्थावरजङ्गमाख्यानि माध्यमिकाग्निरूपेण जिन्वति वृष्ट्या तर्पयति । ‘ऊडिदम्’ इति षष्ठ्या उदात्तत्वम् । ‘उदात्तयणः’ इति पृथिव्याः ॥]
अन्या त्वग्निकाण्डे व्याख्यास्यते, यत्राम्नायते । ‘अग्निर्मूर्धा’ इत्यत्रानुवाके । इह तु प्रतीके अनयोर्गृह्येते । अयमग्निर्देवो दिवो मूर्धा प्रधानभूतः, पृथिव्याश्च ककुत् प्रधानः पतिः, अपां रेतांसि कार्यभूतानि भुवनानि जिन्वति प्रीणयतीति प्रथमा ॥
‘आग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालमग्निमुद्वासयिष्यन्’ इति द्विहविष्कस्याग्नेयस्य याज्यानुवाक्ये - अग्निर्मूर्धा दिवः ककुत्, भुवो यज्ञस्येति गायत्रीत्रिष्टुभौ ॥ एतयोराद्या ‘उपप्रयन्तः’ इत्यत्र व्याख्याता ।
[कल्पः “ अग्निर्मूर्धेति तिस्रो गायत्रीः षुरस्तादुपदधात्यवेमुत्तराणि त्रीणि त्रीणि त्रिष्ठुभो दक्षिणतो जगतीः पश्वादनुष्टुभ उत्तरतो बृहतीरुष्णिहाः पङ्क्तीरक्षरपङ्क्तीरिति विषुरूपाणि छन्दाँसि यथावकाशमतिच्छन्दसं मध्ये द्विपदा अन्ततः ” इति। तत्र त्रिसृषु गाबत्रीषु पर्थमां गायत्रीमाह— अग्निर्मूर्धेति। अयमग्निरादित्यरूपेण दिवो द्युलोकस्य ककुदुच्छ्रितो मूधां शिरःस्थानीयः, पृथिव्याः पतिर्दाहपकादिकारित्वेन पालकोऽप्ययम्। किंच, अप रेतांस्युदककायांणिस्थात्वरजङ्गमशरीराणि जाठराग्निरूपेण जिन्वति प्रीणयति। ]
पूर्णमन्त्रपाठः
-[भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒स्सच॑से शि॒वाभिः॑ ।
दि॒वि मू॒र्धान॑न्दधिषे सुव॒र्षाञ्जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ॥
भुवो यज्ञस्य रजस उदकस्य च नेता प्रापयिता भवसि तदानीम् । कदा? यत्र शिवाभिः नियुद्भिरश्वैस्सचसे सम्बध्यसे । मरुतामश्वा नियुतस्तद्वन्तो वायव इह गृह्यन्ते । तदानीं यज्ञं च प्रवर्तयसि उदकं चावपातयसि । दिवि च मूर्धानं प्रधानभूतं यज्ञं च दधिषे स्थापयसि सुवर्षां स्वर्गीणां सम्भक्तारम् । स त्वं हे अग्ने तव जिह्वां हविषो वोध्रीं चकृषे कुरुष्वेति द्वितीया ॥]
मन्त्रः
त्वन्न॑स्सोम॒ या ते॒ धामा॑नि ।
टीका
१८५४ अथ सौम्यं चरुमित्यस्मिन्हविषि याज्यापुरोनुवाक्ययोः प्रतीके दर्शयति— त्वं न सोमेति। त्वं नः सोम विश्वत इति पुरोनुवाक्या।
पूर्णमन्त्रपाठः
[ त्वन्न॑स्सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः ।
न रि॑ष्ये॒त्त्वाव॑त॒स्सखा॑ ।
अस्य सौम्यस्य पुरोनुवाक्या - त्वन्न इति गायत्री ॥ हे सोमराजन् अः अस्मान् विश्वतः विश्वस्मात् अघायतः अघं पापमस्माकमिच्छतो जनात् रक्ष । ‘छन्दसि परेच्छायामपि’ इति क्यच्, ‘अश्वाघस्यात् ’ इत्यात्वम्, ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । त्वावतः त्वत्सदृशस्य । ‘युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसङ्ख्यानम्’ इति वतिः, ‘आ सर्वनाम्नः’ इत्यात्वम् । त्वावतो हि सखा कश्चिदपि न रिष्येत् यज्ञविभ्रेषादिभिः हिंस्यो भवितुं नार्हति । तस्मात्तदनुरूपमस्मान्रक्ष । ‘द्व्यचोतस्तिङः’ इति संहितायां रक्षेत्यस्य दीर्घत्वम् ॥]
मन्त्रः
या ते॒ धामा॑नि ।
टीका
या ते धामानीति याज्या। एतच्योभयं स प्रत्नवन्नि काव्येत्यनुवाके व्याख्यातम्।
पूर्णमन्त्रपाठः
[या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्याय्ँ या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु ।
तेभि॑र्नो॒ विश्वैः॑ सु॒मना॒ अहे॑ड॒न्राज॑न्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ।
तत्रैव याज्या - या त इति त्रिष्टुप् ॥ हे सोमराजन् या यानि ते तव धामानि स्थानानि नामानि वा, जन्मानि वा, तेजांसि वा दिवि सन्ति, यानि च पृथिव्यां सन्ति, यानि च पर्वतेषु यानि ओषधीषु, यानि वाप्सु तेभिः तैर्विश्वैर्धामभिः ना मभिः सर्वात्मनास्मभ्यमुपकुर्वद्भिः, स्थानैर्वा सवर्त्र सन्निधानहेतुभिः, जन्मभिर्वा नानोपकारहेतुभिः, तेजोभिर्वा सर्वदोषक्षाळनैः अहेडन् अक्रुद्ध्यन् अस्या नादिकः [अज्ञानादिकं] सहमानः, अपि तु सुमना सानुग्रहमना एव भूत्वा । ‘सोर्मनसी’ इत्युत्तरपदाद्युदात्तत्वम् । हेदृ अनादरे । अस्माकं हव्यानि प्रतिगृभाय प्रतिगृहाण । ‘छन्दसि शायजपि’, ‘हृग्रहोर्भः’ इति भत्वम् । प्रतिगृह्य चास्माकं भ्रेषदोषं अपनयेति ॥]
मन्त्रः
तत्स॑वि॒तुर्वरे॑ण्य॒म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑ᳶ प्रचो॒दया॑त् ।
टीका
अथ सावित्रं द्वादशकपालमित्येतस्य हविषः पुरोनुवाक्यामाह— तत्सवितुर्वरेण्यभिति। यः सवितास्माकं बुद्धीः प्रेरयति तस्य सवितुर्देवस्य वरणीयं भर्गस्तेजो ध्यायेम।
मन्त्रः
अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑ दी॒नैर्दक्षै॒ᳶ प्रभू॑ती पूरुष॒त्वता॑ । [43]
दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वन्नो॒ अत्र॑ सुवता॒दना॑गसः ।
टीका
तत्रैव याज्यामाह— अचित्ती यदिति। पूरुषस्य भावः पूरुषत्वं पुरुषत्वमेव पूरुषत्वता। सा च प्रभूत्यतिवहुला देहेन्द्रियादिसंघातेषु पुरुषोऽहमस्मीतितादात्म्याभिधानभ्रान्तिरत्यन्तं दृढेत्यर्थः। तथा सत्यचित्ती कर्तव्याकर्तव्योरज्ञानेन दीनैदक्षैर्विषयलम्पटतया दीनत्वं प्राप्तैः स्वस्वव्यापारकुशलैरिन्द्रियैर्दैव्य जने देवतासंबन्धिनि शरीरे यच्चकृम यत्पापं वयं कृतवन्तः, हे सवितस्त्वं देवेषु मनुष्येषु चात्रास्मिन्कर्मणि नोऽस्माननागसः पापरहिता यथा भवामस्तथा सुवतात्प्रेरय।
मन्त्रः
चो॒द॒यि॒त्री सू॒नृता॑ना॒ञ्चेत॑न्ती सुमती॒नाम् ।
य॒ज्ञन्द॑धे॒ सर॑स्वती ।
टीका
अथ सारस्वतं चरुमित्यस्य पुरोनुवाक्यामाह— चोदयित्रीति। स्नृतानां प्रियवाक्यानां [णा] चोदयित्री प्रेरयित्री सुमतीनां शोभनबुद्धीनामस्माकं कृत्यं चेतन्ती जानन्ती सरस्वती यज्ञमिमं दधे धारितवती।
मन्त्रः
पावी॑रवी क॒न्या॑ चि॒त्रायु॒स्सर॑स्वती वी॒रप॑त्नी॒ धिय॑न्धात् ।
ग्नाभि॒रच्छि॑द्रँ शर॒णँ स॒जोषा॑ दुरा॒धर्ष॑ङ्गृण॒ते शर्म॑ यँसत् ।
टीका
तत्रैव याज्यामाह— पावीरवी कन्येति। सरस्वती धियं धादस्मदीये कर्मणि सावधानां बुद्धिं धारयतु । कीदृशी, पावीरवी पातॄन्वीरांश्च वयति जनयतीति पावीरवी । कन्या कमनीया। चित्रायुर्विचित्रं जीवनं यस्याः सा। वीरपत्नी वीराणां पालयित्री । ग्नाभिश्छन्दोभिर्युक्ता सरस्वती सजोषा यजमानेन समानप्रीतिः सतीगृणते स्तुवते यजमानाय शर्म यंसत्सुखं प्रयच्छतु । कीदृशं शर्म, अच्छिद्रमविछिन्नं शरण रक्षकं दुराधर्षमन्यैर्धर्षयितुमशक्यम् ।
मन्त्रः
पू॒षा गा अन्वे॑तु नᳶ पू॒षा र॑क्ष॒त्वर्व॑तः ।
पू॒षा वाजँ॑ सनोतु नः ।
टीका
अथ पौष्णं चरुमित्यस्य पुरोनुवाक्यामाह— पूषा गा अन्वेत्विति। अयं पूषा नोऽस्माकं गा अन्वेतु रक्षणाय पृष्ठतो गच्छतु। किंचायं पूषाऽर्वतोऽश्वान्रक्षतु। पूषा नोऽस्मभ्यं वाजमन्नं सनोतु संपादयतु।
मन्त्रः
शु॒क्रन्ते॑ अ॒न्यद्य॑ज॒तन्ते॑ अ॒न्यत् [44] विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।
विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ।
टीका
तत्रैव याज्यामाह— १८५५ शुक्रं ते अन्यदिति। हे पूषंस्ते तव शुक्रं शुद्धस्वरूपमन्यदनेकप्रकारम्, उदयकाले रक्तवर्णं रूपमन्यत्, मध्याह्नकाले श्वेतवर्णं रूपमन्यत्, इत्येवमनेक-प्रकारत्वम् । तथा ते तव यजतं पूजनमप्यन्यत्। प्रातःकाले मित्रस्य चर्षणीधृत इत्यादिभिर्मन्त्रैः पूज्यसे। मध्याह्ने त्वा सत्येनेत्यादिभिः । तथा त्वया निष्पादिते अहनी अपि, विषुरूपे नानारूपे। अहःशब्दश्छत्रिन्यायेन रात्रिमप्युपलक्षयति। अहः प्रकाशोपेतं रात्रिस्तमोयुक्तेति नानारूपत्वम् । एवं हि चित्रकार्यकृदपि त्वं द्यौरि-वासि। आकाशं यथैकरूपं तद्वत्त्वमपि पक्षपातराहित्यादेकरूपोऽसि । मीयन्ते पदार्था याभिश्चत्तवृत्तिभिस्ताश्चित्तवृत्तयो मायाः । कव्यदानवाचिना च स्वधाशब्देन कृत्स्नमप्यन्नमुपलक्ष्यते । हे स्वधावोऽन्नवन्विश्वा हि मायाः सर्वां अपि अन्यदीयचित्त-वृत्तीरवसि रक्षसि । हे पूषन्निह कर्मणि ते तव रातिर्भद्राऽस्तु फलप्रदानं समीचीनं भवतु ।
मन्त्रः
ते॑ऽवर्धन्त॒ स्वत॑वसो महित्व॒नाऽऽनाक॑न्त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑ ।
विष्णु॒र्यद्धाव॒द्वृष॑णम्मद॒च्युतव्ँ॒वयो॒ न सी॑द॒न्नधि॑ ब॒र्हिषि॑ प्रि॒ये ।
टीका
अथ मारुतं सप्तकपालमित्यस्य पुरोनुवाक्यामाह— तेऽवर्धन्तेति। तवो बलं, स्वं, स्वाधीनं तवो येषां ते स्वतवसः। तादृशास्ते मरुतो महीत्वना महत्त्वेन स्वकीयेनावर्धन्त । ते मरुतो नाकं स्वर्गमातस्थुः प्राप्तवन्तः। उरु सदश्चक्रिरे स्वर्गे यजमानाय स्थानं कृतवन्तः। वृषणं कामानां वषंकं, मदच्युतं हर्षक्षारकमत्यन्तं हर्षकारणमित्यर्थः। तादृशं यद्वर्हिर्मरु-त्संबन्धि कर्म विष्णुर्ह विष्णुरेवाऽऽवत्पालितबांस्तस्मिन्प्रिये बर्हिषि मरुतोऽधिष्ठाय वयो न वय इव सीदन्। यथा पक्षिणः सायंकाले वृक्षे सीद्रन्ति तद्वदेव तिष्ठन्तीति।
मन्त्रः
प्र चि॒त्रम॒र्कङ्गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् ।
ये सहाँ॑सि॒ सह॑सा॒ सह॑न्ते [45] रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ।
२२ तत्रैव याज्यामाह— प्र चित्रमर्कमिति। हे ऋत्विग्यजमानाश्चित्रमर्कं विविधमर्चनं मारुताय मरुत्समूहाय प्रभरध्वं प्रकर्षेण संपादयत। कीदृशाय मारुताय, गृणते हविर्दानाय गृणते, तुराय शीघ्रमामिने(णे), स्वतवसे स्वाधीनबलाय। हे ऋत्विग्यजमाना ये भवन्तः सहसा मरुतां बलेन सहांसि वैरिबलानि सहन्तऽभिभवन्ति ते यूयं भरध्व-मिति पूर्वत्रान्वयः । हेऽग्ने त्वमेव तत्पश्येत्यध्याहारः। किं द्रष्टव्यं तदाश्चर्य- १८५६ मिति तदुच्यते इयं पृथिवी मखेभ्यो मारुतयज्ञेभ्यो रेजते कम्पते। कथं नामैतदीया यज्ञा निर्विघ्नेन समाप्यन्त इति प्रयत्नं करोति एतदिदमिति।
मन्त्रः
विश्वे॑ दे॒वा विश्वे॑ देवाः ।
टीका
अथ वैश्वदेवीमामिक्षामित्येतस्मिन्हविषि याज्यानुवाक्ययोः प्रतीके दर्शयति — विश्वे देवा इति । विश्वे देवा ऋतावृध इति पुरोनुवाक्या । विश्वे देवाः शृणुतेति याज्या । एतच्चोभयं नवोनवो भवतीत्येतस्मिन्ननुवाके व्याख्यातम् ।
पूर्णमन्त्रपाठः
विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑ । जु॒षन्ताय्ँ॒युज्य॒म्पयः॑ ।
अथ ‘वैश्वदेवीं सांग्रहणीं निर्वपेद्ग्रामकामः’ इत्यस्य पुरोनुवाक्या - विश्वे देवा ऋतावृध इति गायत्री ॥ विश्वेदेवाः ऋतावृधः ऋतस्य यज्ञस्य सत्यस्य वा वर्धयितारः । ण्यन्तात्क्विप्, ‘बहुलमन्यत्रापि’ इति णिलुक्, ‘अन्येषामपि दृश्यते’ इति पूर्वपदस्य दीर्घत्वम् । हवनश्रुतः आह्वानस्य श्रोतारः आह्वानप्रयोजनस्य कर्तार इति । ह्वयतेर्लेटि ‘बहुलं छन्दसि’ इति संप्रसारणम् । ते ऋतुभिः कालावयवैः पर्वादिभिस्सह जुषन्तां सेवन्तां युज्यं योग्यं पयः पयसि चरुम् अत एव वचनादिति ॥
पूर्णमन्त्रपाठः
विश्वे॑ देवाश्शृणु॒तेमँ हव॑म्मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ ।
ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥
तत्रैव याज्या - विश्वे देवाः शृणुतेति त्रिष्टुप् ॥ हे विश्वेदेवाः मे मम इमं हवमाह्वानं शृणूत । ये यूयमन्तरिक्षे स्थ, ये च उप समीपे पृथिव्यां स्थ, ये च दिवि द्युलोके स्थ, ये चाग्निजिह्वाः ये चाग्नेः जिह्वायां स्थिताः हविर्भाजः । तात्स्थ्यात्ताछब्द्यम् । यद्वा - अग्निर्जिह्वास्थानीयो येषाम् । छान्दसमन्तोदात्तत्वम् । उतवा अपिवा ये यजत्राः यजनीयाः पूजामात्रभाजः । ते सर्वेपि यूयं अस्मिन् बर्हिषि यज्ञे आसाद्य आसित्वा मादयध्वं तृप्यत । मद् तृप्तियोगे, चौरादिकः, अनुदात्तेत्, तृप्ताश्चास्माकं ग्रामं साधयतेति ॥
मन्त्रः
द्यावा॑ नᳶ पृथि॒वी इ॒मँ सि॒ध्रम॒द्य दि॑वि॒स्पृश॑म् ।
य॒ज्ञन्दे॒वेषु॑ यच्छताम् ।
टीका
द्यावापृथिव्यमेककपालमित्यस्य पुरोनुवाक्यामाह— द्यावा नः पृथिवीति। द्यावापृथिवी द्युदेवता पृथिवीदेवता चेत्युभे अद्या-स्मिन्दिने नोऽस्मदीयमिमं यज्ञं देवेषु समर्पयेताम्। कीदृशं यज्ञं, फलस्य साधकं, दिविस्पृशम् अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठत इति न्यायेन स्वर्गस्पर्शयुक्तम्।
मन्त्रः
प्र पू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिᳵ कृ॑णुध्वँ॒ सद॑ने ऋ॒तस्य॑ ।
आ नो॑ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यात॒म्महि॑ वाव्ँ॒वरू॑थम् ।
टीका
तत्रैव याज्यामाह— प्र पूर्वजे पितरेति। प्रपूर्वजे प्रथमोत्पन्ने द्यावापृथिव्यौ पितरा मातापितृ-समाने। ‘द्यौः पिता । पृथिवी माता’ इति श्रुत्यन्तरात् । हे ऋत्विग्यजमाना ऋतस्य सदने यज्ञस्य स्थाने नव्यसीभिरतिशयेन नूतनाभिर्गीर्भिर्मन्त्ररूपाभिर्वाग्भिः कृणुध्वं द्यावापृथिव्योः स्तुतिं कुरुध्वम् । हे द्यावापृथिव्यौ दैव्येन जनेन देवसंबन्धिना पुरुष-समूहेन सह नोऽस्मान्प्रत्यायातम्। वां युवयोः संबन्धि त्ररूथं यज्ञगृहं महि पूज्यम् ।
मन्त्रः
अ॒ग्निँ स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यम् । ह॒व्या दे॒वेषु॑ नो दधत् ।
टीका
अथ तत्रैव स्विष्टकृतः पुरोनुवाक्यामाह— अग्निँ स्तोमेनेति । हे यजमान त्वं समिधानोऽग्निं दीपयन्नमर्त्यं मरण-रहितमग्निं स्विष्टकृद्रूपं स्तोमन स्तोत्रेण तोषयित्वाऽनेन प्रकारेण बोधय। केन प्रकारे-णेति तदुच्यतेनोऽस्मदीयानि हव्या हवींषि देवेषु दधत्स्थापयेति।
मन्त्रः
स ह॑व्य॒वाडम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः । अ॒ग्निर्धि॒या समृ॑ण्वति ।
टीका
तत्रैव याज्यामाह— स हव्यवाडिति। स्विष्टकृद्रूपोऽग्निर्धिया करुणायुक्तेन चेतसा समृण्वति सम्यगिह प्राप्नोतु । कीदृशोऽग्निः । हव्यं वहतीति हव्यवाट् । अमर्त्यो मरणरहितः । उशिगनुग्रहपूर्वमस्मान्कामयमानः । दूतो देवानामाज्ञाकारी । चनोहितः, चनसां मनुष्याणां यजमानानां हितोऽभीष्टकारी ।
मन्त्रः
शन्नो॑ भवन्तु
टीका
१८५७ अथ वाजिनो यजतीति विहिते कर्मणि याज्यानुवाक्ययोः प्रतीके दशंयति - शं नो भवन्न्विति।
शं नो भवन्तु वाजिन इति पुरोनुवाक्या ।
पूर्णमन्त्रपाठः
[ शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वस्स्व॒र्काः ।
ज॒म्भय॒न्तोऽहिव्ँ॒वृकँ॒ रक्षाँ॑सि॒ सने॑म्य॒स्मद्यु॑यवन्नमी॑वाः ॥
शं नो भवन्त्विति त्रिष्टुप् । आस्तारपङ्क्तिपक्षे देवतातेत्यादिः त्रिपदा त्रिष्टुप् ॥ नोस्माकं शं भवन्तु सुखहेतवो भवन्तु हवेषु आह्वानेषु । पूर्ववदप् । वाजिनोश्वाः देवताता देवास्तायन्ते विस्तार्यन्ते पृथक्पृथगाराध्यन्तेस्मिन्निति देवतातिर्यज्ञः । परमप्यनुनासिकलोपं बाधित्वा व्यत्ययेन ‘अनुनासिकस्य क्विझलोः’ इति पूर्वपदस्य दीर्घत्वम्, तत्रानुनासिकलोपः, पूर्ववत्सप्तम्या डादेशः । दासीभारादिः । मितद्रवः व्याख्यातम् । स्वर्काः शोभनगमनाः शोभनस्तुतयो वा । ‘नञ्सुभ्याम्’ इति स्वरः । जम्भयन्तः भञ्जयन्तः अहिमागत्य हन्तारं वृकं हिंसकं चोरादिकं रक्षांसि च । यद्वा - अहिमागत्य हन्तारं वृकमपहर्तारम् । कुक वृक आदाने, इगुपधात्कः । रक्षांसि धर्मविघ्नकारीणि । सनेमि क्षिप्रमित्येके, पुराणमित्यन्ये । अस्मदस्मत्तः युयवन् यावयन्तु पृथक्कुर्वन्तु ।
किञ्च - अमीवाः रोगांश्च युयवन्नित्येव । आगत्य हिंसन्तीत्यमीवाः । मीयतेराङ्पूर्वाद्वप्रत्ययः, उपसर्गस्य च ह्रस्वत्वं निपात्यते । यौतेर्लेटि शपश्लुः, ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वात् ङित्त्वाभावे गुणः ॥]
अथामिक्षानिष्पादिनो वाजिनहविषो याज्यानुवाक्ययोः प्रतीके दर्शयति — शं नो भवन्त्विति । शं नो भवन्तु वाजिनो हवेष्विति पुरोनुवाक्या ।
मन्त्रः
वाजे॑वाजे ।
टीका
वाजेवाजेऽवत वाजिन इति याज्या । एतच्चोभयं देवस्याहंँ सवितुरित्यनुवाके व्याख्यातम् ।
पूर्णमन्त्रपाठः
[ वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ॥
अ॒स्य मध्व॑ᳶ पिबत मा॒दय॑ध्वन्तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥
अश्वान् धावतोनुमन्त्रयते - वाजेवाज इत्यादिभिश्चतसृभिः । आद्या त्रिष्टुप् । ‘वाजिनो नः’ इति प्रथमपादान्तः ॥ वाजेवाजे अन्नेऽन्ने साध्ये वाजिनः अश्वाः अस्मानवत रक्षत तल्लम्भयित्वा । किञ्च - धनेषु अवतेति वनानि चास्मान् लम्भयत । हे विप्रा मेधाविनः यथा तद्रागिणः अमृताः अमरणाः ऋतज्ञाः सत्यज्ञास्सत्यवन्तः अस्य मध्वः मधुसदृशस्य घृतस्य पिबत । पूर्ववत्कर्मणि षष्ठी । नुमभावश्छान्दसः । पीत्वा च मादयध्वं तृप्यत । मद तृप्तियोगे, चुरादिरनुदात्तेत् । तृप्ताश्च यात गच्छत । पथिभिर्मार्गैर्देवयानैः देवा यैर्गच्छन्ति, तैर्मनोहरैः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘लिति’ इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥]
अत्र विनियोगसंग्रहः— अथ याज्या वैश्वदेवे चातुर्मास्यादिपर्वणि।
अग्ने सो अनुवाक्ये ते अग्नीषोमाज्यभागयोः॥
अग्निर्भुवस्तथाऽऽग्नेये त्वं नो या ते च सौमिके।
तत्सेति युग्मं सावित्रे चोद सारस्वते तथा॥
पूषा पौष्णो मारुते ते विश्वे द्वे वैश्वदेविके।
द्यावा द्यावापृथिव्ये स्यादग्निं स्विष्टकृतो यजेः।
शं वाजे वाजिने मन्त्रा द्वात्रिंशतिरुदीरिताः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशेकृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्॥
पुमार्थांश्चतुरो देवाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमः प्रपाठकः ॥ १॥