(अथ तृतीयाष्टके पञ्चमः प्रपाठकः) ।
(तत्र प्रथमोऽनुवाकः)
यस्य निःश्विसितं वेदा यो वेदेभ्योऽशिलं जगत ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
प्रपाठके चतुर्थे हि काम्या नैमित्तिकाः श्रुताः ।
प्रपाठके पञ्चमे तु सोमेष्ट्योः शेष उच्यते ॥
तत्र प्रथमानुवाके दर्शपूर्णमासेष्ट्यङ्गभूतान्वारम्भणीयेष्टिर्विधातव्या ।
कल्पः — “पूर्णा पश्चाद्यत्ते देवा अदधुरिति सारस्वतौ होमो हुत्वाऽन्वारम्भणीयामिष्टिं निर्वपति” इति । पाठस्तु —
पूर्णा पश्श्चादिति । पूर्णा पौर्णमास्यभिमानिदेवता पश्चाद्यज्ञभूमेः पश्चिमायां दिश्युज्जिगायोत्कर्षेण जयं प्राप्तवती । अपि च पूर्वस्यां दिशि तयोर्दिशोर्मध्यदेशेऽप्यु-ज्जिगाय तस्यां पौर्णमास्यामधिष्टायेह यज्ञे सम्यग्वसन्तः सर्वे देवा उत्तमे नाके भोग-बहुले स्वर्गे मादयन्तामस्मान्हर्षयन्तु । हेऽमावस्ये यद्यस्मात्कारणात्ते महित्वा महिम्ना सम्यङ्निवसन्तो देवा भागधेयमदधुर्हविर्भागं प्राप्तवन्तस्तस्मात्कारणाद्धे विश्ववारे सर्वानिष्टनिवारिकेऽमावास्याभिमानिदेवते सा त्वं नोऽस्मदीयं यज्ञं पिपृहि पूर्णं कुरु । हे सुभगे सौभाग्ययुक्ते नोऽस्मभ्यं रयिं धनं सुवीरं शोभनपुत्रं च धेहि संपादय । अथ तत्रैव विकल्पितावन्यौ मन्त्रावाह —
निवेशनीति । सा तादृशी देवता नोऽस्मान्प्रत्यागन्नागच्छतु । कीदृशी तदुच्यते, निवेशनी समीचीनेषु गृहेषु नितरामस्मान्प्रवेशयन्ती । वसूनां संगमनी धनानां प्रापयित्री । रूप्यन्ते मणिमुक्तादिभिर्बहुभिः प्रकारैर्निरूप्यन्त इति रूपाणि वसूनीत्यर्थः । तानि वसूनि धनानि विश्वा सर्वाण्यप्यावेशयन्ती, अस्मद्गृहेषु प्रवेशंयंन्ती । सहत्वपोष रराणा सहस्रलक्षादिधनपुष्टिं प्रयच्छन्ती । सुभगा सौभाग्ययुक्ता । वर्चसा संविदाना बलेन संयोजयन्ती । हेऽग्नीषोमौ युवा प्रथमौ देवानां मध्ये मुख्यावतो वीर्येणातो (ण) भवदीयसामर्थ्येनेह कर्मणि वस्तवादीञ्जिन्वतं प्रणियतम् । माध्यं पश्चात्पुरस्ताञ्च पौर्णमासीदेवतया रक्षिते मध्यदेशे क्रियमाणा-
मिदं पौर्णमासं पौर्णमासीसंबन्धि हविर्जुषेथाम् । कीदृशौ युवां, ब्रह्मणा वृद्धौ स्तुतिरूपेण संतुष्टो सुकृतेन सातौ सम्यगनुष्ठितेनानेन कर्मणा फलस्य दातारौ हविःसेवनानन्तरमस्मभ्यं सहवीरां पुत्रसाहितां रयिं नियच्छतं नितरां प्रयच्छतम् । अथ होमं विधातुं प्रस्तौति —
आदित्याश्चेति । आदित्या देवा अङ्गिरस ऋषयश्चाऽऽधानादूर्ध्वं यदा दर्शपूर्णमासौ प्राप्तुमैच्छंस्तदा तेषामुभयेषां मध्ये येऽङ्गिरसऽऋषयस्ते सारस्वतहो-मावज्ञात्वा प्रथममेवान्वारम्भणीयेष्ट्यर्थं हविर्निर्वापं कृतवन्तः ।अथ तदानीमादित्या देवा एतावन्वारम्भणीयेष्ट्यङ्गभूतौ सारस्वतहोमौ कर्तव्याविति निश्चित्य तावजुहवः । ततोऽन्वारम्भणीयेष्टेः साङ्गत्वादाङ्गिरोभ्यः पूर्वभाविन एव सन्तौ दर्शपू-र्णमासावुपक्रान्तवन्तः । इदानीं विधत्ते —
दर्शपूर्णासविति । दर्शपूर्णमासावारब्धुमिच्छन्पुरुष आरम्भणीयेष्टेरुपपक्रमे पूर्ण पश्चादिति मन्त्राभ्यां जुहुयात् । तेन होमेन विलस्बमन्तरेणैव दर्शपूर्णमासावारब्धुं योग्यो भवति । उक्तयोर्होमयोर्देवताविशेषं विधातुं प्रस्तौति —
ब्रह्मवादिन इति । अयेदं चिन्त्यते — किं पौर्णमासी प्रथमालब्धव्या आहो-स्विदमावास्येति । तदर्थमन्यदप्येतच्चिन्तनीयम्-कालस्य स्वरूपं कीदृशमनुलोमं कीदृशं च प्रतिलोममिति । न चेयमप्रस्तुता चिन्ता । यो यजमान एतयोदर्शपूर्णमासासंब-न्धिकालयारेनुलोमं प्रतिलोमं च स्वरूपं वेद स एव दर्शपूर्णमासारम्भे मुख्योऽधिकारी नान्य इति ब्रह्मवादिनः परस्परमाहुः । तत्र कश्चिद्धिमाननुलोमप्रतिलोमभागमेवं ब्रूते । अमावास्याया ऊर्ध्वं शुक्लप्रतिपदमारभ्यानुलोमं कालस्वरूपं दिने दिने चन्द्रस्य वर्धमानत्वात् । पौर्णमास्याः प्रतीचीनमुपरितनं कृष्णप्रतिपदमारभ्य कासस्य यत्स्वरूपं तत्प्रतिलोमं दिने दिने चन्द्रस्यापक्षीयमाणत्वात् । एवं सति यदि पौर्णमासीं पूर्वगामिनीं कृत्वा यागारम्भं कुर्यात्तदा प्रतिलोमस्तरूपेणैव तौ दर्शपूर्णमासावारब्धवान्भवति । तथा सति पौर्णमास्यामारब्धायां सत्यां समनन्तरेव चन्द्रोऽपक्षीयते । तं चापक्षीयमाणमनु यजमानोऽप्यपक्षीयते । अतः प्रातिलोम्यशेषपरिहारकृते देवता-विशेषौ विधत्ते —
सारस्वताविति । आरम्भणीयेष्टेः पुरस्ताद्यौ होमौ तौ सारस्वतौ । सर-
स्वती च सरस्वांश्च ययोर्होमयोस्तौ । एतदीयहोमेन प्रातिलोभ्यदोषस्य परिहृतत्वा-दानुलोम्येनैव तौ दर्शपूर्णमासयागावारब्धवान्भवति । तथा वर्धमानचन्द्रमनु यजमानो वर्धते ।
प्राच्याङ्गरूपौ होमौ विधायाङ्गिरूपष्मन्वारम्भणीयेष्टिं त्रिहत्वेष्कां पिधत्ते —
अग्नावैष्णवमिति । पूर्वत्रामावस्यायाः प्रथमारम्भे सत्यानुलोम्येन भावेऽपि तत्प्राथम्यमुक्ष्य प्रातिलोम्यदोषपरिहारप्रयत्नो विहितस्तदन्यथानुपपत्त्या पौर्णमास्येव प्रथममालब्धव्येति गम्यते । तादृशपौर्णमास्यारम्भात्पुरस्तादिदं हविस्त्रयं निर्वपेत् । तत्राऽऽग्नावैष्णवं प्रशंसति —
यदाग्नेय इति । अग्निमन्तरेण यज्ञस्यानिष्पत्तेरग्निरेव यज्ञस्य मुखमत आग्नेयेन हविषा यज्ञमुखमेवोद्दिश्य प्रथमतः समृद्धिं संपादयति । यज्ञस्य सर्वाङ्ग-व्यापित्वाद्विष्णुत्वमतो वैष्णवेत हविषा यज्ञमेवोपक्रम्य प्रकर्षेण विस्तृतवान्भवति । उत्तरं हविर्द्वयं प्रशंसति —
सरस्वत्या इति । स्त्रीलिङ्गनिर्दशादमावास्यायाः सरस्वतीत्वम् । तथा पुलि-ङ्गशब्दनिर्देशात्पूर्णमासः सरस्वान् । तथा सत्यनेन देवताद्वयेन तदात्प्रकौ दर्शपूर्णमासौ यागावेव व्यवधानमन्तरेणोपक्रान्तवान्भवति । किंचाऽऽभ्यां देवताभ्यां यजमानः समृद्धिं प्राप्नोति ।
तृतीये हविषि सारस्वतीं परित्यज्य सरस्वत्स्वीकारं प्रशंसति —
द्वादशकपाल इति । द्वितीयहविषः स्त्रीदेवताकत्वादितरस्य पुंदेवताकत्वं यजमानस्य मिथुनत्वाय संपद्यते । तच्च प्रजोत्पत्त्यर्थं भवति । तत्र दक्षिणां विधत्ते-मिथुनौ गावाविति । अत्र विनियोगसंग्रहः —
पूर्णेत्यारम्भणीयेष्टौ द्वौ सारस्वतहोमयोः ।
मन्त्रौ विकल्पितावन्याविति चत्वार ईरिताः ॥
अत्र मिमांसा ।
नवमाध्यायस्य प्रथमे पादे चिन्तितम् —
“अन्वाधानाङ्गभारम्भो यद्वा पुरु संस्कृतिः ।
फलवत्त्वादादिमोऽन्त्यः पुंयोगान्न पृथक्फलम्” इति ।
दर्शपूर्णमासयोरन्वाधानस्य प्रथमपदार्थत्वेनाऽऽरम्भरूपत्वात् । आरम्भपयु क्तेयमिष्टिरन्वाधानस्याङ्गम् । तथा सति यागफलेनैव फलवती स्यात् । कर्तुः संस्कारपक्षे तु पृथक्फलं कल्प्येत । तस्मात्प्रतिप्रयोगमन्त्राधानावृत्तौ तदङ्ग भूतेयमिष्टिरिति प्राप्ते ब्रूमः — आरम्भो नाम पुरुषस्य प्रथमप्रवृत्तिर्नत्वाधानपदार्थः । अतो नाग्न्यन्वाधानाङ्गं किंत्वारप्स्यमानो निर्वपेदिति पुरुषयोगात्तत्संस्कारोऽयम् । न च चलकल्पनाप्रसङ्गः । कृतारम्भस्य पुरषस्य प्रयोगपरिगृहीतत्वेन पृथक्फलाकाङ्क्षाया अभावात् । नन्वेवमति तत्तत्प्रयोगमारप्स्यमानस्य संस्कारायाऽऽवृत्तिः स्यान्मैवम् । प्रयोगमारप्स्यमान इत्यश्रुतत्वात् । दर्शपूर्ण मासावारप्स्यमान इति श्रूयते । तयोश्चैक एवाऽऽरम्भः । तस्मान्नास्त्यावृत्तिः । तत्रैवान्यच्चिन्तितम् —
प्रतिप्रयोग आ (मा) रम्भयजिरास्ते न वाऽस्त्यसौ ।
अङ्गत्वेन तत्स्वधर्म आधानवद्भवेत् ॥
“आग्नावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासावारप्स्यमानः” इति विहितेयमारम्भणीयेष्टिदर्शपूर्ण (* मासयोर्यावज्जीवमावर्त्यमानयोः प्रतिप्रयोग-मावर्तनीया । कुतः । प्रयाजादिवदङ्गत्वादिति चेत् । नैतद्युक्तम् । कुतः । सर्वप्रयोगसाधा-रणत्वात् । यावज्जीवं मया दर्शपूर्ण) मासौ कर्तव्यावित्यध्यवसाय आरम्भः । स चैक एव । तेन चाऽऽरम्भेण प्रयुक्तेयमिष्टिः । तस्मान्नाऽऽवर्तनीया । यथाऽऽधानं सर्वक्रतुसाधारणत्वात्सकृदेव कर्तव्यं तद्वत् । आधानस्य सकृदनुष्ठानमेकादशस्य तृतीयपादे वक्ष्यते ।
दशमाध्यायस्य प्रथमपादे चिन्तितम् —
तस्यां साऽस्ति नऽवाङ्गत्वेऽप्यस्याः पृथगुपक्रमात् ।
अस्ति मैवं वचोऽशक्तेर्विधाने चातिदेशने ॥
येयमारम्भणीया साऽपीष्टि्वाद्दर्शपूर्णमासप्रकृतिः । अतस्तस्यामपि दर्शपूर्ण मासयोरिवाऽऽप्स्यमानपुरुषसंस्काराय साऽनुष्ठेया न वेति संशयः । चोदक-प्राप्तत्वादनुष्ठेया । ननु सोमाङ्गदीक्षणीयादिवदस्या दर्शपूर्णमासाङ्गत्वेनाऽऽरम्भद्वारं
लुप्यते । न । वैषम्यात् । ऋत्विग्वरणादिना सोममारभ्यानुतिष्ठतः पुरुषस्यानुष्ठानमध्ये दीक्षणीया प्रवर्तते । दर्शपूर्णमासारम्भस्त्वन्वारम्भणयीयायामनुष्ठितायां पश्चात्संपद्यते । ततो दर्शपूर्णमासोपक्रमादन्य आरम्भणीयापक्रम इति द्वारसद्भावादार-म्भणीयामारप्स्यमानस्य(न स्व) संस्कारार्थमन्यामारम्भणीयां कुर्यात् । अनवस्था तु लोकेसिद्धबीजाङ्कुरादिदृष्टान्तेन समाधेयेत्येवं प्राप्ते ब्रूमः आरम्भणीयायामारम्भणीयान्तरं न कर्तव्यम् । कुतः । अङ्गान्तरवदतिदेष्टुमशक्यत्वात् । तथा ही-प्रकृतौ समिधो यजतीत्यादिवाक्यैः प्रयाजाद्यङ्गानां स्वरूपमतिदिश्यते । प्रकरणेन चाङ्गाङ्गिभावो बोध्यते । ततः सौर्यं चरुं निर्वपेदुब्रह्मवर्चसकाम इत्यादिकायां विकृतां निर्वापातुमितं चोदकवाक्यमेवं प्रवर्तते । इष्टिवच्चरौ प्रयाजाद्येङ्गोन्यनुष्ठेयानि । एवं सत्यरम्भणीयायामिदं वक्तव्यं किमाग्नावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासावारप्स्यमान इत्येदद्वाक्यं समिदादिवदङ्गभूतामारम्भणीयां विदधातु, किंवा यथा सौर्यादिवाक्य-मङ्गातिदेशमनुमापयति तथा दर्शपूर्णमासाङ्गभूतायामारम्भणीयायामन्यस्या आर-म्भणीयाया अतिदेशमनुमापयतु, उत्तोमयं करोत्विति । नाऽऽद्योऽङ्गविधावुपक्षीण-त्वेनातिदेशानुमाने शक्त्यभावात् । न द्वितीयोऽविहितत्वेनातिदेष्टुमयोग्यस्याङ्गस्यातिदेशे शक्त्यभावात् । न तृतीयो वाक्यभेदापत्तेः । नन्वनेन न्यायेन सोर्यवाक्येऽपि वाक्यभेदः प्रसज्येतैकस्यैव वाक्यस्य यागबिध्यङ्गातिदेशयोः प्रवृत्तत्वात् । मैवम् वाक्यद्वयसद्भावात् । प्रत्यक्षं वाक्यं यागविधायकमनुमितं वाक्यमङ्गातिदेशकम् । तर्ह्यत्रापि तादृशे वाक्यद्वयं भवत्विति चेद्वाढम् । अत एवाऽऽरम्भणीयायां प्रयाजा-द्यङ्गान्यनुष्ठीयन्ते तद्वदारम्भणीयान्तररूपमप्यङ्गमनुष्ठीयतामिति चेन्न । दर्शपूर्णमा-सप्रकरणे प्रयाजाद्यङ्गविधायकसमिदादिवाक्यवदारम्भणीयान्तररूपाङ्गविधायिनः कस्यचिद्वाक्यस्याभावात् । नहि प्रकृतावविद्यमानमङ्गं विकृतावातिदेशमर्हति । तस्मात्संप्रतिपन्नस्यैवाऽऽरम्भणीयाविधायिनो वाक्यस्याङ्गस्वरूपविधानाय समिदादिवाक्यस्थानीयत्वमतिदेशाय सौर्य वाक्यस्थानीयत्वं चेत्याकारद्वयं वर्णनीयम् । तथा सत्यावृत्तिलक्षणो वाक्यभेदः केन वार्येत । तस्मादारम्भणी-यायामारप्स्यमानपुरुषसंस्कारायाऽऽरम्भणीया न कर्तव्या ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके
प्रथमोऽनुवाकः ॥ १ ॥
( अथ तृतीयकाण्डे पञ्चमप्रपाठके द्वितीयोऽनुवाकः) ।
इष्टरन्वारम्भणीया समन्त्रा प्रथमे श्रुता ।
अथ द्वितीयानुवाके सौमिकब्रह्मत्वाविधिरुच्यते ।
यदुक्तं सूत्रकारेण “वासिष्ठो ब्रह्मा ज्योतिष्टोमे यो वा कश्चित्स्तौमभागान्विद्यात्” इति । तदेतद्विधातुं प्रस्तौति-ऋषयो वा इति । वसिष्ठप्रमुखाः सर्वेऽप्यृषयः कदाचिदिन्द्रमुखा मन्त्रविशेषानवगन्तुमागतास्तदानीमिन्द्रोऽनधिकारिभ्यो मन्त्रा न वक्तव्या यत्यभिप्रेत्यान्तर्हितोऽभूत् । अन्त
र्धानं प्राप्यावस्थितं तमिन्द्रमृषयश्चक्षुषा नापश्यन् । तदानीं योगसामर्थ्ययुतो वसिष्ठो दिव्येन चक्षुषा तमिन्द्रमपश्यत् । स इन्द्रस्तं वसिष्ठं प्रत्येवमब्रवीत् । सौमिकब्रह्मत्वो-पयोगिमन्त्रजातं यस्मिन्प्रतिपाद्यते तादृशं ब्राह्मणमहं तुभ्यं वक्ष्यामि । त्वमेव पुरोहितो मन्त्रोपदेष्टा यासां प्रजानां तास्त्वत्पुरोहितास्तथाविधाः प्रजा यथो त्पत्स्यन्ते यथा-विधमेतद्वक्ष्यमाणस्य ब्राह्मणस्य सामर्थ्यात् । तादृशं ब्राह्मणं श्रुत्वाऽथानन्तरं त्वं मामितरेभ्यो मन्त्रानधिकारिभ्य ऋषिभ्यो मा प्रवोच इत्युक्त्वा तस्मै वसिष्ठायैता-न्रश्मिरसीत्यादिकान्स्तोमभागनामकान्मन्त्रानब्रवति् । स्तोमा बहिष्पवमानादीनि स्तोत्राणि तान्त्सतोमान्भजन्त इति स्तोमभागाः । एतान्हि मन्त्रानुच्चार्य ब्रह्मा स्तोत्राण्यभ्यनुजानाति । तस्मादेते स्तोमभागा इत्युच्यन्ते । तत इन्द्रप्रसादात्सर्वाः प्रजा वसिष्ठपुरोहिता उत्पन्नाः । वसिष्ठं गुरुत्वेन पुरस्कृत्य वर्तन्त इत्यर्थः । इदानीं विधत्ते —
तस्माद्वासिष्ठ इति । यस्माद्वसिष्ठस्य ब्रह्मत्वोपयुक्तं सर्वमिन्द्र उक्तवां-स्तिस्मात्सोमयागं चिकीर्षुणा परुषेण यो वसिष्ठगोत्रोत्पन्नस्तदयिविद्यासंप्रदायेन स्तोमभागभिज्ञो वा भवति स एव ब्रह्मा कार्यः । तथा सत्ययं यजमानस्तथाविधाः प्रजा जनयति । ते च स्तोमभाममन्त्राश्चतुर्थकाण्डस्य चतुर्थप्रपाठकादौ समाम्राताः । ते चैकत्रिंशत्संख्याकाः । तेष्वेकैको मन्त्र एकैकं स्तोत्रमभ्यनुज्ञातुं ब्रह्मणा प्रयोक्तव्यः । अत एव सूत्रकार आह – “रश्मिरसि क्षयाय त्वा क्षयं जिन्वो स्तुतेति प्रसौति सर्वस्तोत्राणामेष कल्प उत्तरमुत्तरं स्तोमभागानां दधाति द्वादशाग्निष्टोमे पश्चादशोक्थ्ये षोडश षोडशिनि सप्तदश वाजपेय एकोनत्रिंशतमतिरात्रे त्रयस्त्त्रिंशत्तमाप्तोर्न्यामे” इति तत्रैकत्रिंशं स्तोमभागं त्रिरावृत्य [ वर्त्म] त्रयस्रिंशत्संख्याऽप्तोर्यामे पूरणीया ।
तत्र प्रथमं स्तोमभागमनूद्य व्याचष्टे —
रश्मिरसीति । पञ्चमकाण्डोक्तब्राह्मणे रश्मिरित्येवाऽऽदित्यमसृजत प्रेतिरिति धर्ममित्यादिना मन्त्राणामादित्यसृष्टिहेतुत्वाभिधानादादित्यादिपरतया मन्त्रा व्याख्येयाः । हे आदित्य त्वं रश्मिरसि रश्मियुक्तोऽसि । देवा यस्मिन्संघे क्षियन्ति निवसन्ति सोऽयं संघः क्षयस्तस्मै क्षयाय देवसंघाय तत्प्रीत्यर्थं हे आदित्य त्वां
स्मरामि । अतः देवसंघ जिन्व प्रीणय । अस्मिन्मंत्रे क्षयशब्दस्य देवा एवार्थः । अतो देवेभ्य एवैनं यज्ञं होता प्रोक्तवान्भवति ।
द्वितीयस्तोमभागे धर्मानुष्ठातृत्वान्मनुष्या धर्मशब्देन विवक्षिता इत्येतद्दर्शयति —
प्रतिरसीति । हे धर्माभिमानिदेव त्वं प्रेतिरसि प्रकृष्टोतिर्गतिः प्राण्युप-काररूपा यस्यासौ प्रेतिः । अतो धर्मानुष्ठातृपुरुषार्थं त्वां स्मरामि । तं धर्मानुष्ठातृ-पुरुषंप्रीणय । अनेन मन्त्रेण धर्मोपलक्षितमुष्यार्थमिमं मन्त्रमुक्तवान्भवति ।
तृतीयचतुर्थपञ्चमस्तोमभागानां तात्पर्यं दर्शयति —
अन्वितिरसीति । हे द्युलोकाभिमानिदेव त्वमन्वितिरसि । देवानामनुकूलेति र्गतिर्यस्यासावन्वितिः । तादृशं त्वा द्युलोकार्थं स्मरामि । तं च द्युलोकं प्रीणय । यद्यप्यन्तरिक्षभूलोकप्रतिपादकौ चतुर्थपञ्चमौ स्तोमभागावत्र नानूदितौ तथापि तृतीयस्य तदुपलक्षकत्वमभिप्रेत्यैभ्य एव लोकेभ्य इति समुदायतात्पर्यं दर्शितम् । षष्ठस्तोमभागं वृष्टिप्राप्तिहेतुत्वेन प्रसंसति —
विष्टम्भोऽसीति । हे वृष्ट्यभिमानिदेव त्वं विष्टम्भो सि विशेषेणोदकस्य धारकोऽसि । सप्तमाष्टमस्तोमभागयोः प्रतीकद्वयमनुद्याह्नो रात्रेश्च प्रतिपादकत्वेन मिथुनत्वसंपतिं दर्शयति —
प्रवाऽस्यनुवाऽसीति । हेऽहरभिमानिदेव त्वं प्रवाऽसि । जगत्प्रवास-कत्वरूपेण प्रकर्षेण वाति गच्छति प्रवर्तत इति प्रवा । हे रात्र्यभिमानिदेव त्वमनुवा-ऽसि । निद्रादिव्यवहारस्यानुकूलत्वेन वाति गच्छति वर्तत इत्यनुवा । तयोर्द्वंद्वेन मिथुनत्वप्राप्तिसाधनत्वम् ।
नवमदशमैकादशस्तोमभागानां संग्रहेण तात्पर्यं दर्शयति —
उशिगसीति । हे वसुगणपालक त्वमुशिगसि । उसिक्कामयमानः । रुद्रादित्यप्रतिपादकयोरपि स्तोमभागयोर्वसुविषयस्तामेभागनैवोपलक्षितत्वात्संगृह्य तात्पर्याभिधानम् ।
देवप्रतिपादकेभ्यस्त्रिभ्यः स्तोमभागेभ्य ऊर्ध्वं पितृप्रतिपादकस्य द्वादशस्य स्तोमभागस्याभिधानाद्देवानां पितृणां च नैरन्तर्यं संपादितं भवतीत्यतेद्दर्शयति —
ओजोऽसीति । हे पितृपालक देव त्वमोजोऽसि बलरूपोऽसि ।
पितृप्रतिपादकस्तोमभागादूर्ध्वं प्रजापतिपादकस्य त्रयोदशस्य स्तोमभागस्याभिधानात्पितृणां च नैरन्तर्यं सिध्यतीत्येतद्दर्शयति ।
तन्तुरसीति । हे प्रजाभिमानिदेव त्वं तन्तुरसि पुत्रपौत्रादिविस्तारहेतुरसि । पशुप्रतिपादकेन चतुर्दशेन स्तोमभागेन प्रजानां च पशूनां च नैरन्तर्यं सिध्यतीत्येतद्दर्शयति —
पृतनाषाडसीति । हे पशुपालक देय त्वं पृतनाषाडसि । पृतनां परकीयसेना मस्मत्पशूनामपहन्त्री सहते विनाशयतीति पृतनाषाट् ।
ओषधिप्रतिपादकेन पञ्चदशेन स्तोमभागेन पशुस्तोमभागानन्तरभाविनां पशूनामोषधीषु प्रतिष्ठापनं भवतीत्येतद्दर्शयति ।
रेवदस्योषधीभ्य इति । हे ओषधिपालक देव त्वं रेवदसि धनवानसि । पञ्चमकाण्डे रश्मिरित्येवाऽऽदित्यमसृजतेत्यारभ्य रेवदित्योषधीरित्यन्तेषु पञ्चदशेषु (शसु) मन्त्रेष्वसृजतेति ब्राह्मणेन व्याख्यातत्वात्तदभिमानिदेवपरत्वेन मन्त्राणामा-दिवाक्यान्यस्माभिर्व्याख्यातानि । अथ षोडशस्तोमभागस्याऽऽदिवाक्यं वज्रपरत्वेन तत्रैव व्याख्यातमतोऽत्रापि वज्रसाध्याभिजयार्थत्वं दर्शयति —
अभिजीदसीति । हे वज्र त्वमभिजिद्युक्तग्रावाऽसि । अभितो जयती-त्यभिजित् । युक्ताः संयुक्ता ग्रावाणो यस्यासौ युक्तग्रावा । यथा पाषाणा दृढ एवमस्यापि दृढत्वात्पाषाणगुणेन दार्ढ्येन संयोग एव ग्रावसंयोग इत्युच्यते ।
सप्तदशेन स्तोमभागेन प्राणानां स्थापनं दर्शयति—
अधिपतिरसीति । हे प्राणाभिमानिदेव त्वमधिपतिरसि प्राणानामाधिक्येन पालयिताऽसि । अपानचक्षुःश्रोत्रप्रतिपादकानामष्टादशैकोनविंशविंशानां प्रयाणस्तोमभागानां प्राणपतिपादकस्तोमभागेनैवापलक्षितत्वमभिप्रेत्य संग्रहेण तात्पर्यं दर्शयितुं प्राणानिति बहुवचनं निर्तिष्टम् ।
एकाविशद्द्वाविंशस्त्रयोविंशञ्चतुर्विंशानां स्तोमभागानां चतुर्णीं मिथु-नत्वसंपादकत्वं दर्शयति —
त्रिवृदसीति । हे मिथुनीभाव त्वं त्रिगुणोऽसि पर्वर्तकश्चासि । पुमान्योषित्संयोगश्चैवं त्रैगुण्यम् । संयोगानन्तरभावी मन्थनव्यापारः प्रवृत्तिः । एताभ्यां त्रैगुण्यप्रवृत्तिप्रतिपादकाभ्यां मन्थनसमाप्तिविश्लेषपूरमिथुनीभावा-वयवद्वयप्रतिपादकावुत्तरावपि स्तोमभागावुपलक्ष्येते । संवृन्मन्थनव्यापारसमाप्तिः । विवृद्दपत्योर्विश्लेषः । अनेन स्तोमभागचतुष्ट्येन मिथुनत्वं साकल्येन संपादितम् ।
पञ्चविंशषड्विंशसप्तविंशाष्टाविंशानां स्तोमभागानां चतुर्णां प्रजोत्पादनपरत्वं दर्शयति —
सँरोहोऽसीति । हे प्रजननव्यापार त्वं संरोहोऽसि नीरोहश्चासि । शुक्रशोणितसंश्लेषेण गर्भाभिव्यक्तिः संरोहः । निःशेषाणामवयवानामभिव्यक्तिर्नीराहेः एताभ्याभुभाभ्यां स्तोमभागाभ्यां प्ररोहप्रतिपादकावन्यात्रपि स्तोमभागावुपलक्ष्येते । प्रथमस्यापत्यस्योत्पत्तिः प्ररोहः । पश्चाद्भाविनामपत्यानामुत्पत्तिरनुरोहः । एतेन स्तोमभागचतुष्टयेन प्रजोत्पत्तिः संपद्यते ॥
एकोनत्रिंशैकत्रिंशस्तोमभागौस्त्रिभिरुत्पन्नानां प्रजानां प्रतिष्ठां दर्शयति —
वसुऽकोसीति । हे उत्पन्नप्रजाभिमानिदेव त्वं वसुको वासयिताऽसि । वेषायानुकूला श्रीर्यस्य सः । व्याप्तिसमर्थश्चासि वसेर्निवासस्याष्टिर्व्याप्तिर्यस्यासौ वस्यष्टिः । अनेन स्तोमभागत्रयेण प्रजानां प्रतिष्ठा संपद्यते ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णय-जुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके
द्वितीयोऽनुवाकः ॥ २ ॥
( अथ तृतीयकाण्डे पञ्चमप्रपाठके तृतीयोऽनुवाकः) ।
यद्ब्रह्मत्वं स्तोमभागैर्द्वितिये तदुदीरितम् ।
अथ तृतीयानुवाके विष्ण्वतिक्रमा उच्यन्ते । कल्पः — “अग्निना देवेन पृतना जयामीति विष्ण्वतिक्रमान्” इति । प्रथममन्त्रपाठस्तु —
अग्निना देवेनेति । देवश्छन्दः स्तोमः साम वज्रश्चेत्येतानि परकीयां पृतनामभिभवितुं साधनानि । पृतना जित्वा भ्रातृव्यानधरान्वादयामि । त्रिविधा हि भ्रातृव्याः पूर्वजाः सहजा अपरजाश्चेति । पितृपितामहादिष्वप्यनुवर्तमानाः पूर्वजाः ।
सपत्नमातृजाः सहजाः । इदानीमेव स्वकार्यघातिनोऽपरजाः । तेषु त्रिविधेषु मध्ये ये पूर्वजास्ताञ्शत्रूनन्तो नीचा यथा भवन्ति तथा संपादयामि । संपाद्य चैतानवायाधे येनावमता यथा भवन्ति तेन तथा शृङ्खलादिना बाधं करोमि । कृत्वा चैनान्प्तिनुदे प्रत्येकं विनाशयामि । किंचास्मिन्क्षये मदीये निवासगृहे । अथवा किमनेन संकोचेनास्मिन्भूमिलोके सर्वस्मिन्यो भ्रातृव्योऽस्मानुदासीनानपि द्वेष्टि । यं च भ्रातृव्यमुदासीनमपि वयं द्विष्मः । एतान्सर्वान्विद्वेषिणो विष्णु रूपस्य यजमानस्य मम क्रमेण पादविन्यासेनातिक्रमामि लङ्वयामि । द्वितीयमन्त्रपाठस्तु —
इन्द्रेण देवेनेति । अत्र भ्रातृव्यानधरान्पादयामीत्यादिकमनुषज्य पूर्ववद्व्याख्येयम् । तृतीयमन्त्रपाठस्तु —
विश्वेभिर्देवेभिरिति । अत्रापि भ्रातृव्यानधरान्पादयामीत्यादिकमनुषज्य व्याख्येयम् । त्रिवृदादिस्तोमानां रथंतरादिसाम्नां च स्वरूपं समिधमातिष्ठेत्यनुवाके दर्शितम् ।
कल्पः — “इन्द्रेण सयुजो वयमित्याहवनीयमुपतिष्ठते” इति । पाठस्तु—
इन्द्रेणेति । पृतनामस्मद्विरोधिनीं सेनामात्मन इच्छन्ती पृतन्यतस्याञ्शत्रून्वयं सासह्यामातिशयेन सोढुं शक्ताः स्मः । कीदृशा वयम । इन्द्रेण सयुजः परमैश्वर्ययागादाहवनीय इन्द्रस्तेन सह युज्यन्ते युक्ता भवन्तीति सयुजः । वृत्राणि शत्रूनप्रत्यस्मान्प्रति प्रतिकूलत्वं यथा नास्ति तथा घ्नन्तो वधं कुर्वन्तः । हेऽग्ने ते त्वतीयं यत्तेजः कान्तिरूपं तेनाहमपि कान्तिमान्भूयासम् । वर्चो बलम् । हरो रश्मिरूपं तेजः । अत्र विनियोगसंग्रहः —
यजमानोऽग्निनेन्द्रेण विश्वेभिर्विष्ण्वतिक्रमान् ।
क्रामत्युत्तरयोर्भ्रातृव्यानित्याद्यनुषज्यते ॥
इन्द्रे पूर्वाग्न्युपस्थानं मन्त्राश्चत्वार ईरिताः ।
एते मन्त्रा उरुँ हि राजेत्यनुवाकात्पूर्वं द्रष्टव्याः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्ण-यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके
तृतीयोऽनुवाकः ॥ ३ ॥
( अथ तृतीयकाण्डे पञ्चमप्रपाठके चतुर्थोऽनुवाकः) ।
विष्ण्वतिक्रमणे मन्त्रास्तृतीये समुदीरिताः ।
अथ चतुर्थेऽतिमोक्षमन्त्रा उच्यन्ते ।
कल्पः — “वेदमुपस्थ आधायान्तर्वेद्यासीनोऽतिमोक्षाञ्जपति” इति ।
अतिमोक्षशब्देन ये देवा यज्ञहन इत्यादयो मन्त्रा विवक्षिताः । सूत्रकारेणान्यत्र ये देवा यज्ञहन इत्यतिमोक्षा इत्युक्तत्वात् । पाठस्तु —
ये देवा इति । अत्र यज्ञमुष इति पदं पृथक्कृत्य मन्त्रभेदः कर्तव्यः । तत्र प्रथममन्त्रे पृथिव्यामध्यासत इत्याद्यन्तभागोऽनुषञ्जनीयः । द्वितीयमन्त्रे तु ये देवा इत्ययं पूर्वभागोऽनुषञ्जनीयः । देवानां मध्ये म्लेच्छजातयः केजिद्देवा यज्ञभागार्हाः सन्तो द्रष्टुमसहमानाः केचिद्यज्ञं विनाशयन्ति ।अपरे तु यज्ञसाधनान्यपहृत्यान्यत्र गच्छन्ति । तत्र यज्ञविघातिनो ये देवा पृथिव्यां यं कंचिद्देशमधिष्ठायाव तिष्ठन्ते तेभ्यो यज्ञविघातिभ्योऽग्निर्मां रक्षतु । वयं सुकृतः सुष्ठु यज्ञं निष्पादितवन्तो गच्छेम यज्ञफलं प्राप्नुयाम । एवं यज्ञमुषां मन्त्रोऽपि व्याख्येयः । तृतीयमन्त्रपाठस्तु —
आऽगन्यैति । हे वरेण्या मित्रावरुणा श्रेष्ठौ मित्रावरुणौ यज्ञसंबन्धिनीनां रात्रीणां मध्ये वर्तमानायामस्यां रात्रौ युवयोः संबन्धि वशानूबन्ध्यारूपो यो भागोऽस्ति तेन वयं नाकं स्वर्गसुखं गृह्णाना आगन्म सर्वतः प्राप्ताः स्वः । कुत्रैतत्स्वर्गसुखग्रहणमिति तदुच्यते सकृतस्यास्य यज्ञस्य संबधिनि तृतीये लोके । कीदृशे । अधिरोजनेऽधिकं भासमाने । भासमानोऽपि लोकः कुत्रेति तदुच्यते-दिवः पृष्ठे स्वर्गस्योपरि । पृथिव्यन्तरिक्षापेक्षया तृतीयत्वम् । पाताललोकोऽपि तादृशो भवतीति व्यवच्छेदाय दिवः पृष्ठ इत्युक्तम् । रौरवादिनरकव्यावृत्तये सुकृतस्येत्युक्तम् । नरको हि दुष्कृतस्य ।
अथ पूर्ववदनुषङ्गभेदभिन्नौ चतुर्थपञ्चममन्त्रामाह —
ये देवा इति । पूर्ववद्व्याख्येयम् । षष्ठमन्त्रवाह —
यास्ते रात्रीरिति । हे सवितर्द्यावापृथिवी अन्तरा द्यावापृथिव्योर्मध्ये ते तव संबन्धिन्यो या रात्रीर्यज्ञानुष्ठानयोग्या रात्रयो वियन्ति विशेषेण गच्छन्ति प्रवर्तन्ते । यद्यप्येकैव रात्रिः सुत्याकर्मार्हा तथाऽपि दीक्षोपसत्सहिता बहवो रात्रयो भवन्ति । तासां च सवितृप्रेरितत्वात्तत्संबन्धः । कीदृश्यो रात्रयः । देवयानीर्देवान्यान्तीति देवयान्यो दैविककर्मयुक्ता इत्यर्थः । तासु रात्रिषु कर्मानुतिष्ठन्तः सर्वैर्गृहैश्च प्रजयाऽनु गृहवर्तिभिर्भृत्यैः पुत्रादिना च सार्धं रुहाणाः स्वर्ग सर्वैर्गृहश्चै प्रजयाऽनुगृहवर्तिभिर्भृत्यैः पुत्रादिना च सार्थं सुवो रुहाणाः स्वर्गं प्राप्नुवन्तो यजमाना यूयं रजांसि रञ्जनीयानि सुखानि तरत प्राप्नुत ।
पूर्ववदनुषङ्गभेदभिन्नौ सप्तमाष्टममन्त्रावाह —
ये देवा इति । पूर्ववद्व्याख्येयम् । अथ नवमं मन्त्रमाह —
येनेन्द्रायति । हे जातवेदो येनोत्तमेन हविषोत्तमहविःस्वरुपेण पयांसि क्षीररसस्वादून्सोमरसानिन्द्राय समभरः संभृतवानसि तेन हविषा हेग्ने त्वमिमं यजमानं वर्धय उतापि चैनं यजमानं सजातानां श्रैष्ठ्यै स्वाम्य आधेहि । अथैतान्प्रशंसति-
यज्ञहनो वा इति । कपटरूपधारिणः केचन देवा यज्ञभागरहिता यज्ञशालादाहाद्युपद्रवेण यज्ञघातिनो भवन्ति । अपरे च ग्रहचमससोमरसापहारेण यज्ञमुषो भवन्ति । एवमुभयविधा ये सन्ति ते त्रिष्वप्येतेषु लोकेष्वतिष्ठन्ते । किं कुर्वन्तः । यो यजमानो दक्षिणां ददाति तदीयं दक्षिणाद्रव्यं गवादिकमपहरन्ती (न्त इ ) त्यर्थः । यो यजमानो यजते तदीयं ग्रहचमसादिकं विमथ्नाना भङ्गपरित्यागादितो विलोडयन्तः । तस्योपद्रवस्य सर्वस्यैतैर्मन्त्रैः परिहारं दर्शयति —
ये देवा इति । अत्र यज्ञमुष इत्यत्र पृथङ्मन्त्रत्वं दर्शयितुं तत्पदं परित्यज्यानुषङ्गेण सह यज्ञहन इत्येतावदेवोदाहृतम् । एतैर्मन्त्रैरुपद्रवसहितानिमाल्लोँ-कानुत्तीर्य सगृहः कलत्रपुत्रादिसहितः सपशुर्गवाश्वादिपशुसहितः स्वर्गं प्राप्नोति । त एते मन्त्रा उरुँ हि राजेत्वेतस्यादनुवाकात्पूर्वं द्रष्टव्याः । अथोदवसानीयं विधत्ते —
अप वै सोमेनेति । यः सोमेनेष्टवानभवत्, एतस्माद्देवताश्च यज्ञश्चापक्रामन्ति । अनेन यजमानेन प्रयोजनाभाव मन्वाना एनं परित्यजन्ति । अतस्तदपक्रमणं वारयितुमग्निदेवतया युक्तं पञ्चकपालं तादृशपुरोडाशेन साध्यमुदवसानीयाख्यं कर्म कुर्यात् । अयमग्निः सर्वदेवतात्मको यज्ञश्च पाङ्क्तः पञ्चसंख्योपेतः । “ते देवा बिभ्यतोऽग्निं प्राविशन्” “धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पङ्क्तिराप्यत” इत्यादिश्रुतिद्वयात् । अत आग्नेयत्वेन सर्वा देवता अवरुन्धे पत्र्चकपालेन यज्ञमप्यवरुन्धे ।
अथ पञ्चकपालं दूषयित्वाऽष्टाकपालं विधत्ते —
गायत्रो वा इति । अग्नेर्गायत्र्याश्च प्रजापतिमुखजन्यत्वेन गायत्रोऽग्निः । पञ्चकपाले सति तमग्निं स्वकीयेन च्छन्दसा वियोजयति । अष्टाकपाले त सति गायत्र्या अष्टाक्षरत्वादग्निं स्वकीयेन च्छन्दसा समृद्धं करोति ।
अत्राग्ने तमद्याश्वमित्येते अक्षरपङ्क्त्यौ विधत्ते —
पङ्क्त्यौ याज्येति । अत्र तु गायत्रत्वसिद्धयेऽष्टाकपालः स्वीकृतस्तथाऽपि पाङूक्तमन्त्रपाठेन धानादिद्वारा पाङ्क्तयज्ञादप्ययं यजमानो नापगच्छति ।
अत्र विनियोगसंग्रहः —
ये देवा इत्यतीमोक्षान्मन्त्रानेताञ्जपेन्नव ।
यज्ञहन्यज्ञमुट्चेति भेदान्मन्त्राभिदेष्यते ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥
( अथ तृतीयकाण्डे पञ्चमप्रपाठके पञ्चमोऽनुवाकः) ।
अतीमोक्षजपे मन्त्राश्चतुर्थे समुदीरिताः ।
अथ पञ्चमेऽनुवाक आदित्यग्रहमन्त्रा उच्यन्ते ।
कल्पः — “सूर्यो मा देव इति दर्मैर्हस्तेनपिधायोत्तिष्ठति” इति । पाठस्तु —
सूर्यो मा देव इति । अयमादित्यग्रहः सूर्यवाय्वात्मकोऽतः सूर्यरूपोऽयं देवो यज्ञविघातिभ्यो मां पातु । तथा वायुरूपोऽयं विघ्नकारिदेवयुक्तादन्तरिक्षान्मां पातु । तथा यजमानो यामहेतुरयमग्निश्चक्षुषो विरोधिदेवदृष्टेः सकाशान्मां पातु । हे सोम सक्षादीनि चत्वारि यानि तव नामानि एतैर्नामभिस्ते तव विधेम परिचयाँ करवाम । यानि च पूर्वोक्तानि सूर्यवाय्वग्निनामानि तेभिस्तैश्च नामभिस्तव परिचर्यां करवाम । हे सक्ष पात्रसङ्ग, [ हे ] शूष लवन्, हे सवितः प्रेरक हे विश्वचर्षणे सर्वमनुष्यानुग्राहक । एतैः सबोधनरूपैर्नामभिर्विधेमेत्यन्वयः ।
कल्पः — “अहं यजमानः परस्तात्परभागे ग्रहमन्वारभ इति शेषः । अहमवस्तादचरभागेऽपि ग्रहमन्वारभे । अहमस्याऽऽदित्यग्रहस्य ज्योतिषा विशेषेण तमो ववार वारितवानस्मि । उपरिभागाधोभागयार्मेध्यवर्ति यदन्तरिक्षं तदु तदपि मे पिता पितृवत्पालकमभूत् । अहं सूर्यमादित्यग्रहमुभयत ऊर्ध्वाधो भागयोर्दक्षिणोत्तरभागयोर्वा ददर्श दृष्टवानस्मि । अतोहं समानानां यजमानानां मध्य उत्तमो भूयासम् ।
कल्पः — “आसमुद्रादिति दर्भैराच्यावयति” इति । पाठस्तु —
आ समुद्रादिति । प्रजापतिरिमं ग्रहं चतुर्दिक्ष्वा समुद्रात्समुद्रपर्यन्तं दर्भैरा च्यावयतीति । तथैवोर्ध्वभागेऽन्तरिक्षपर्यन्तमुदधिं समुद्रसमानमादित्यग्रहं च्यावयति । इन्द्रो गवामूध इत्र ग्रहं प्रस्नौतु प्रस्नुतं करोतु । मरुतो वर्षयन्तु मेधा इव संततधाराः कुर्वन्तु ।
कल्पः — “उन्नम्भय पृथिवीमिति वृष्टिकामस्य जुहुयात्” इति । पाठस्तु —
उन्नम्भय पृथिवीमिति । हे आदित्य पृथिवीमुन्नम्भयोत्कर्षेण क्लिन्नां कुरु । इदं दिव्यं नभो भिन्धि द्युलोकस्थाकाशवर्तिमेधमिव ग्रहं भिन्धि भिन्नं कुरु । दिव्यस्य दिवि भवस्योदन् उदकस्य समृद्धिं नोऽस्मभ्यं देहि । ईशानः समर्थस्त्वं दृतिं विसृज जलविधारकं दृतिसमानं मेघं विमुञ्च । अथ विधत्ते —
पशवो वा इति । आदित्यग्रह इति यदेते पशवो वै तस्य पशुप्राप्तिहेत्वात् । अग्निरिति यदेष क्रूरो देवस्तस्मात्क्रौर्यपरिहारायाग्नावोषधीः प्रक्षिप्य पश्चादादित्यग्रहं जुहोति । तथा सति रुद्ररूपाग्निसकाशादित्यग्रहरूपान्पशूनन्तर्हितानेव करोति । किंचौषधीष्ववाऽऽदित्यग्रहरूपान्पशून्प्रतिष्ठितान्करोति ।
कल्पः — “कविर्यज्ञस्य वि तनोति पन्थामिति ग्रहं हत्वा” इति । पाठस्तु —
कविर्यस्योति । यज्ञस्य कविर्विद्वानयमादित्यग्रहा नाकस्य पन्थां वितनोति स्वर्गस्य मार्गं वितनोति विस्तृतं करोति । कुत्रेति । तदुच्यते-अधिरोचन आधिक्येन भासमान दिवः पृष्ठे द्युलोकस्योपरि । हेऽग्ने येन पथा हव्यं वहसि दवानां दूतस्त्वमितो निर्गत्य येन पथा यासि तादृशं पन्थानं वितनोतीति पूर्वत्रान्वयः । कीदृशो दूतः । प्रकर्षेण चेतते कर्मानुष्ठातारं जानातीति प्रचेताः । अमुतोऽमुष्मिन्स्वर्गे सनीयानतिशयेन फलस्य दाता ।
कल्पः — “यास्ते विश्वाः समिधः सन्त्यग्र इति दर्भानाहवनीये प्रास्य” इति । पाठस्तु —
यास्ते विश्वा इति । हेऽग्ने त्वदीयाः समिधः सम्यग्दीप्यमाना ज्वाला याः सन्ति ता एव विशेषाकारेणोच्यन्ते- पृथिव्यां भूलोके बर्हिषि यज्ञदेशे या दीप्तयः सन्ति सूर्ये च या दीप्तयः सन्ति ते त्वदीयास्ता दीप्तयो घृतस्याऽऽहुतीर्गच्छन्तु प्राप्नुवन्तु । देवानात्मन इच्छतीति देवायंस्तस्मै देवायते यजमानाय शर्म सुखं प्रयच्छतु । आदित्यग्रहविषयास्त एते मन्त्रः कदाचन स्तरीरसीत्यनुवाकादूर्ध्वं द्रष्टव्याः ।
अथ कल्पे — “यूपं यजमान उपतिष्ठते नमः स्वरुभ्यः” इत्युपक्रम्यान्ते पठितम् — “आशासानः सुवीर्यमिति चोपस्थाय” इति । पाठस्तु —
आशासान इति । हे यूप त्वं यजमानाय मह्यं रायस्पोषमाशासानस्तिष्ठ कीदृशं पोषम् । सुवीर्यं शोभनेन भोगसामर्थ्येनोपेतं स्वश्वियं शोभनैरश्वैरुपेतम् । कीदृशो यूपः । बृहस्पतिना देवेन रायाद्यनेकधननिमित्तं स्वगाकृतो यजमानस्य स्वगतो यथा भवति तथा कृतः । सोऽयं मन्त्रः पशुप्रकरणगतात्समुद्रं गच्छेत्यनुवाकादूर्ध्व द्रष्टव्यः । अत्र विनियोगसंग्रहः —
सूर्यो तृतीयसवन आदित्यग्रहहस्तकः ।
उत्तिष्ठेदहमित्यस्मात्स्वाम्यन्वारभते ग्रहम् ॥
आ समुञ्चावयेद्दर्भैरुन्नं वृष्ट्यर्तिहोमकः ।
कविर्हरेदग्रहं यास्ते वह्नौ प्रास्यति दर्भकान् ॥
आशा यूपोपस्थितिः स्यात्सप्त मन्त्रा इहेरिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके
पञ्चमोऽनुवाकः ॥ ५ ॥
[अथ तृतीयकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः] ।
आदित्यग्रहमन्त्रा ये ते पञ्चप उदीरिताः ।
अथ षष्ठेऽनुवाके पत्नीविषया मन्त्रा उच्यन्ते ।
कल्पः- “अत्र दर्शपूर्णमासवत्पत्नीँ संनह्यति सं त्वा नह्यामीति विकारः” इति । पाठस्तु —
सं त्वा नह्यामीति । हे पत्नि त्वां पयसा घृतेन च निमित्तभूतेन संनह्यामि तदुभयसिद्ध्यर्थं सम्मग्योक्त्रेण बध्नामि । तथौषधीभिः सहिता अप उद्दिश्य तदुभय-सिद्ध्यर्थं त्वां संनह्यामि । प्रजया निमित्तभूतयाऽहमध्वर्युरद्यास्मिकन्कर्मणि त्वां संनह्यामि । अस्मे अस्मासु वाजमन्नं सनवः सनितुं दातुं सा पत्नी दीक्षिता भवतु ।
कल्पः — “प्रेतु ब्रह्मणस्पत्नीति प्रतिप्रस्थाता पत्नीमुदानयति” । पाठस्तु —
प्रैतु ब्रह्मण इति । ब्रह्मणो ब्राह्मणस्य यजमानस्य पत्नी प्रैतु पत्नीशालाया निर्गत्य प्रकर्षेण गच्छतु गत्वा प्राप्नोतु ।
कल्पः — “अथाहमनुकामिनीति पत्नीं शालामुखीयमुपोपविश्य” इति । पाठस्तु —
अथाहमन्विति । अथाहमिह स्वे लोके स्थाने विशा उपविशामि । कीदृशी । अनुकामिनी यजमानस्याऽऽनुकूल्यं कामयमाना ।
कल्पः — “सुप्रजसस्त्वा वयमिति जपति” इति । पाठस्तु —
सुप्रजसस्त्वेति । हेऽग्ने सुप्रजसः शोभनापत्याः सुपत्नीर्धर्मपत्न्यो वयमदब्धासः केनाप्यतिरस्कृताः सत्यस्त्वामुपसेदिम तव समीप उपविष्टाः स्मः । कीदृशं त्वां, सपत्नदम्भनं वैरिनाशकम् । अदाभ्यं केनाप्यतिरस्कार्यम् ।
कल्पः — “विचचृत इमं वि ष्यामीति पत्नी योक्त्रम्” इति । पाठस्तु —
इमं वि ष्यामीति । सुकेतः शोभनज्ञानयुक्तः सविता प्रेरकोऽन्तर्यामी यं योक्त्ररूपं वरुणस्य पाशं पूर्वमबध्नीत तमिमं विष्यामि विमुञ्चामि । तत सुकृतस्य फलभूत उत्तमे लोके धातुश्च परमेश्वरस्य योनौ स्थाने पत्या सह मे स्योनं सुखं करोमि ।
कल्पः “प्रदेह्युहीति नेष्टा पत्नीमुदानयति” इति । पाठस्तु —
प्रेह्युदेहीति । हे पत्नि प्रेहि शालामुखीयस्थानान्निर्गत्य पन्नेजनीरप आनेतुं प्रकर्षेण गच्छोदेहि विलम्बमकृत्वोत्थाय गच्छ । ऋतस्य वामीर्यज्ञस्य प्रेरकोऽयमग्निस्ते गमनमनुमन्यमानोऽग्रं नयतु परतः प्रेरयतु । अदितिर्भूमिश्च मध्यं ददताम् । उभयोः पार्श्वयोर्मध्येऽवस्थितं मार्गं प्रयच्छतु । त्वं च रुद्रावसृष्टाऽसि क्रूरेणोपद्रवकारिणा देवेन विमुक्ताऽसि । अतो युवा नामासि युवतिर्वा बाधकेभ्यः पृथग्भूता वाऽसि । इत्थकामाकारयन्तं मां नेष्टारं मा हिंसीर्मा बाधस्व ।
कल्पः- “पन्नेजनीर्गृह्णाति प्रत्यङ्क्ति (ङ्ति)ष्ठन्ती सुभ्यो रुद्रेभ्य आदित्येभ्य इति” । पाठस्तु —
वसुभ्यो रुद्रेभ्य इति । हे आपो वो युष्मान्पन्नेजनीर्गृह्णामि । किमर्थं वस्वादिदेवप्रीत्यर्थमपि पन्नेजनीर्वो गृह्णामि ।
सादयामीति । कल्पः — “पत्नी पन्नेजनीः सादयति प्रत्यङ्क्ति (ङ्ति) ष्ठन्ती वसुभ्यो रुद्रेभ्य आदित्येभ्य इति” इति ।
अत्र सादयामीत्येतावानाम्नातो मन्त्रः । तस्य च शेषत्वेन वसुभ्य इत्यादिकं गृह्णामीतिपदव्यतिरिक्तं सर्वमनुषज्य पूर्ववद्व्याख्येयम् ।
कल्पः — “विश्वस्य ते विश्वात्रत इति हिंकारमनृदुगात्रा पत्नीं संख्यापयति” इति ।
हिंकारमुञ्चार्यानन्तरमुद्गाता यथा पत्नीं पश्यति तथाऽध्वर्युरिमं मन्त्रमुच्चा-रयन्प्रदर्शयेदित्यर्थः । पाठस्तु —
विश्वस्य त इति । हेऽग्ने विश्वस्य ते संदृशि विश्वात्मकस्य तव कटाक्षवीक्षणे सति तथा विश्वमस्यास्तीति विस्ववान् । वृष्णियं बलमस्यास्तीति वृष्णियावान् तादृशस्य तव वीक्षणे सति वामीर्वनयीयस्यानुष्ठानस्य प्रवर्तकोऽहं विश्वा रेतांसि बहुपुत्रकारणानि सर्वाण्यपि वीर्याणि धिषीयानुक्रमेण पत्न्यां स्थापयेय ।
कल्पः- “अगन्देवानिति च पत्न्यप उपप्रवर्तयति” इति । पाठस्तु—
अगन्देवानिति । अयं यज्ञो देवानगन्प्राप्नोत् । देवीर्द्योतमाना आपो देवेभ्ये-ऽस्मदीयं यज्ञं नितरामशिपन्विस्पष्टमुक्तवत्यः । अस्मिन्यजमाने सुन्वति सौमाभिषवं कुर्वति स्वाहाकृताः स्वाहाकारेण संपादिताः समुद्रसमाने स्वर्गऽवस्थिता आशिषः फलविशेषा ये संपद्यन्ते ते सर्वैऽप्यनुक्रमेण गन्धर्वं पत्न्या मम गन्धर्वत्प्रियं यजमान-मातिष्ठत प्राप्नुवन्तु । वातस्य यज्ञप्रवर्तकस्य वायो । “वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्ते” इत्य-न्यत्राऽऽम्नातम् । तस्य वायोः पत्मन्पतने प्रेरणे सतीडः फलसाधनभूताः स्तोत्रविशेषा ईडिता ऋत्विग्भिः प्रयुक्ताः । तस्मात्तत्फलं सर्वं यजमानः प्राप्नोत्विति तात्पर्यार्थः । अत्र सं त्वा नह्यमीत्ययं योक्त्रबन्धनमन्त्रो दीक्षाप्रकरण इन्द्रस्य योनिरसीत्येतस्मान्मन्त्रात्पूर्वं द्रष्टव्यः । तत्रैवाथाहं सुप्रजस इत्येतौ द्रष्टव्यौ । इमं वि ष्यामीति मन्त्रोऽवभृथानुवाके देवीराप एष व इत्येतस्मात्पूर्वं द्रष्टव्यः । प्रेह्युदेहीति मन्त्रो हृदे त्वेत्यनुवाके देवीरापो अपां नपादित्ये तस्मात्पूर्वं द्रष्टव्यः । वसुभ्य इति ग्रहणसादनमन्त्रौ समुद्रस्य वोऽक्षित्या उन्नय इत्येतस्मादूर्ध्वं द्रष्टव्यौ ।
अत्र विनियोगसंग्रहः —
स त्वा पत्न्यां योक्त्रबन्धः प्रैतु शालामखे नयेत् ।
अथाइमुपविश्यैषा सुप्रजेति जपेदथ ॥
इमं काले योक्त्रमोकः प्रेहि पत्नीमुदानयेत् ।
वसु पन्नेजनीः पत्नी गृहीत्वा तेन सादयेत् ।
विश्वस्य पत्नीमुद्गात्रासंख्यापयति सा त्वगन् ।
अपः प्रवर्तयन्नू (त्यू)रावत्र मन्त्रा दश स्मृताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-त्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके
षष्ठोऽनुवाकः ॥ ६ ॥
( अथ तृतीयकाण्डे पञ्चमप्रपाठके सप्तमोऽनुवाकः ) ।
षष्ठेऽनुवाके संप्रोक्ता योक्त्रबन्धादिमन्त्रकाः ।
अथ सप्तमेऽनुवाके दर्शपूर्णमासाङ्गभृतानां स्रुचां वृक्षविशेषा विधीयन्ते ।
तत्र स्रुववृक्षं विधत्ते —
वषट्कारो वा इति । वषट्काराभिमानी देवः केनापि विरोधेन गायत्रियाः शिरश्चिच्छेद । तदा तस्या गायत्र्यश्छिन्नप्रदेशाज्जलं भूमौ पतित्वा खदिरो वृक्षोऽभवत् । अतः स्रुवः खादिरः कर्तव्यः । तथा सति स्रुवेण यद्यदवद्यति तत्सर्व छन्दोरसेनावृत्तं भवति । ततोऽस्य यजमानस्याऽऽहुतयः सरसा भवन्ति ।
अथ जुहूणा वृक्षविशेषं विधत्ते —
तृतीयस्यामिति । इतो भूलोकादारभ्य गण्यमानो यो द्युलोकस्तृतीयो भवति तत्र सोमः पूर्वमासीत् । ते च गायत्री समाहरत् । आहरणप्रकारः कद्रूश्चेत्यनुवाके प्रञ्चितः । तस्याऽऽह्रियमाणस्य सोमस्यैकं पर्णं भूमौ पतित्वा पला-
शवृक्षोऽभवत् । पर्णजन्यत्वात्तस्य वृक्षस्य पर्णनाम संपन्नम । तादृशेन पर्णवृक्षेण जुहूं निष्पादयेत् । तथा सति जुहूणा हूयमाना आहुतयः सर्वाः सोमसंबन्धिन्यो भवन्ति । देवाश्च ता आहुतीः प्रीतिपुरःसराः सेवन्ते ।
ते पर्णवृक्षं प्रकारान्तरेण प्रशंसति —
देवा वा इति । यदा देवा ब्रह्मतत्त्वविषये परस्परं संवादं सहसि कृतव न्तस्तदानीं पर्णवृक्षाभिमानी देवस्तद्वृक्षच्छायायामुपविष्टानां देवानां वचनमशृणोत् । तस्मात्सुश्रवा इति तस्य नाम संपन्नम् । यस्मादयं वृक्षः सुश्रवास्तस्माज्जुह्णास्तन्मयत्वे सति यजमानः शोभनं स्तुतिरूपमेव वाक्यं सर्वदा शृणोति न तु कदाचिदपि पापं श्लोकं निन्दावचनं शृणोति ।
अथ जुह्णाः पर्णमयीत्वं दृष्टान्तार्थमनुवदन्नुपभृतोऽश्वत्थवृक्षं विधत्ते
ब्रह्म वै पर्ण इति । देवैरुच्यमानस्य ब्रह्मणः श्रवणापर्णवृक्षोऽपि ब्रह्मैव । वैश्यजात्याभिमानित्वेन मरुतां सृष्टत्वान्मरुतोऽपि विड्रूपाः । कृष्यादिपरैर्वैश्यै संपादित-दन्नमपि मरुद्रूपम् । “मरुतां वा एतदोजो यदश्वत्थः” इति श्रवणादश्वत्थस्य मारुतत्वम् । एवं स्थिते सति यो यजमानो जुहूं पर्णमयीं करोति स एवोपभृतमाश्वत्थस्य कुर्यात् । उभयस्मिन्कृते सति जुहूरूपेण ब्रह्मणैवाश्वत्यस्वामिना मरुतां विड्रूपान्नमवरुद्धं भवति । किंच, ब्राह्मणजातिमेव वैश्यजातावधिकत्वेन स्थापयति । तदुभयमपि प्रकारान्तरेण प्रशंसति —
राष्ट्रं वै पर्ण इति । पर्णवृक्षस्वामिब्राह्मणजातिनिवासस्थानत्वादाष्ट्रत्वं पर्ण रूपत्वम् । मरुद्देवताद्वाराऽश्वत्थस्य विड्रूपत्वम् । अतः षूर्वोक्तरीत्या जुहूपभृतोर्वृक्ष द्वयनि-ष्पादितयोः सत्योर्ब्रह्मरूपं राष्ट्रमश्वत्थरूपायां विश्यधिकत्वेन स्थापितं भवति ।
अथ ध्रुवाया विकङ्कतवृक्षं विधत्ते —
प्रजापतिर्वा इति । प्रजापतिना पूर्वहुताऽऽहुतिर्यत्र स्थिता तस्माद्देशाद्वि कङ्कतवृक्ष उदपद्यत । तस्माद्विकङ्कताद्यज्ञसाधनभूतात्प्रजा असृजत । तस्माद् ध्रुवां वैकङ्कती कुर्यात् । तथा सत्यस्य यजमानस्याऽऽहुतयः प्रतिष्ठिता भवन्ति । किंचायं प्रजा उत्पादयति । स्रुग्वृक्षविधिमुपसंहरति —
एतद्वै स्रुचामिति । खादिरत्वं पर्णमयीत्वप्राश्वत्थत्वं वैकङ्कतत्वं चेति
यदतदेव क्रमेण स्रुचां [स्रुव] जुहूपभृदूध्रुवाणां मुख्यं स्वरूपम् । तथा सति यस्य यजमानस्य स्रुच एवंरूपा भवन्ति, एनं यजमानं गवाश्वादिरूपाणि सर्वाण्यपि प्राप्नुवन्ति । किंचास्य यजमानस्याऽऽत्मन्स्वोदरे किंचिदप्यपत्यमपरूपं विरुद्धस्वरूपोपेतं न जायते, किंतु सर्वमप्यपत्यं सुखरूपमेव जायते ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके
सप्तमोऽनुवाकः ॥ ७ ॥
( अथ तृतीयकाण्डे पञ्चमप्रपाठकेऽष्ठमोऽनुवाकः ) ।
इष्ट्यङ्गानां स्रुचां वृक्षाः सप्तमे समुदीरिताः ।
अथाष्टमे दधिग्रहमन्त्रा उच्यन्ते ।
कल्पः — “उपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामीति दधि गृहीत्वा” इति । पाठस्तु —
उपयामगृहीत इति । हे दधिग्रह उपयामेन पार्थिवपात्रेण गृहीतोऽसि । ज्यो-तिष्मते प्रजापतये ज्योतिष्मन्तं त्वा गृह्णामि । दक्षान्कर्मकुशलान्वर्धयतीति दक्षवृधू, तस्मै दक्षवृधे दक्षाय दक्षनाम्ने रातं पूर्वं प्रजापतिना दत्तम् । किंच देवेभ्यो रातं दत्तम् । कीदृशे-भ्योऽग्निजिह्वेभ्यः । अग्निरेव जिह्वा येषां तेऽग्निजिह्वाः । ऋतं सत्यमात्मन इच्छन्तीत्यृ-तायवः । इन्द्रो ज्येष्ठो येभ्यस्त इन्द्रज्येष्ठाः । वरुणो राजा येषां ते वरुणराजानः । वातं वायुमाप्नुवन्तीति वातापिनो वाय्वाहारा इत्यर्थः । पर्जन्य एवा ऽत्मा येषां ते पर्जन्या-त्मानो वृष्ट्यादिसहिष्णव इत्यर्थः । ईदृशेभ्यो देवेभ्यो रातं त्वां गृह्णामि । तथा दिवे द्युलोकप्राप्त्यर्थं त्वां गृह्णामि । एवमन्तरिक्षाय त्वा पृथिव्यै त्वेत्युभयं योज्यम् ।
कल्पः — “अपेन्द्र द्विषतो मन इति हरति” इति । पाठस्तु —
अपेन्द्र द्विषत इति । विविधो हि शत्रुर्द्विषञ्जिज्यासन्नरातीयश्चेति । यजमानस्य विद्यमानं द्रव्यादिकं यो विनाशयति स द्विषन्नित्युच्यते । यस्तु द्रव्यमपहर्तुं शक्तोऽप्यस्य वयोहानिं मरणमेवेच्छति स जिज्यासन्नित्युच्यते । रातिर्दा नमरातिरदानं तदात्मन इच्छति देयत्वेन प्राप्तं किमपि न ददातीत्यर्थः । तादृशोऽरातीयन्नित्युच्यते । हे इन्द्र त्वं द्विषतः शत्रोर्मनोऽपजहि । तथा जिज्यासतः शत्रोर्मनोऽपजहि । तथा यो नोऽस्मा-कमरातिमिच्छति तमपजाहि ।
कल्पः — “प्राणाय त्वाऽपानाय त्वेति जुहोति” इति । पाठस्तु —
प्राणाय त्वेति । हे दधिग्रह प्राणाय प्राणप्रीत्यै त्वां जुहोमि । एवमपानाय त्वेत्यादिषु योज्यम् । प्राण ऊर्ध्ववृत्तिः । अपानोऽवाग्वृत्तिः । व्यानो मध्यवृत्तिः । शास्त्री-यमार्गवर्ती पुरुषः संस्तद्विपरीतोऽसन् । आप ओषधयश्च प्रसिद्धः । ओषधीभ्य इत्यत्रा-नाम्नातमपि त्वेतिपदमनुषञ्जनीयम् । विश्वानि भूतानि सर्वप्राणेनस्तेषां सर्वेषां प्रीत्यै त्वां जुहोमि । किंच, यतः प्रजापतेः सकाशात्प्रजाः सर्वा अक्खिदाः खेद्ररहिता उत्पन्नाः स प्रजापतिर्विभुत्मैश्वर्यं ददातीति विभूदावा । सर्वप्रकाशकत्वेन ज्योतिष्मन्तं त्वां जुहोमि ।
अत्र विनियोगसंग्रहः —
उपया दधि गृह्णात्यपेन्द्रेति हरति ग्रहम् ।
प्राणायेति जुहोत्येवं त्रयो मन्त्रा इहेरिताः ॥
एते च मन्त्रा यमग्ने पृत्सु मर्त्यमित्येतस्मान्मन्त्रादूर्ध्वं द्रष्टव्याः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥
( अथ तृतीयकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः ) ।
दधिग्रहस्य ये मन्त्रा अष्टमे ते प्रकीर्तिताः ।
अथ नवमेऽनुवाके ते मन्त्रा व्याख्यातव्याः ।
तत्राऽऽदौ दधिग्रहं विधत्ते —
यां वा अध्वर्युरिति । सोमयागे देवताबाहुल्यादध्वर्युयजमानो प्रमादेन
यस्या देवताया अन्तरायं कुर्वाते तस्या देवताया उभौ विच्छिन्नौ भवतस्तस्या देवताया अपराधिनावित्यर्थः । अतोऽपराधपरिहाराय प्रजापतिदेवताकं दधिग्रहं गृह्णीयात् । प्रजापतिश्च स्रष्टृत्वात्सर्वदेवतारूपः । अतस्तस्मै ग्रहं दत्त्वा सर्वदेवताभ्योऽन्नवन्तावित्वेवं निह्नवमपलापं कुरुतः । तेनापलापेन देवता द्वेषं मुञ्चति ।
अस्य ग्रहस्य सर्वग्रहेभ्यः प्राथम्यं विधत्ते —
ज्येष्ठो वा इति । ग्रहाणां मध्ये ज्येष्ठः प्रथमभावी । तस्मात्प्रथमं गृह्णीयादित्यर्थः । यस्य यजमानस्यैष ग्रहः प्रथमं गृह्यते स यजमानो ज्यैष्ठ्यमेव गच्छति सर्वेषां यजमानानां मध्ये मुख्यत्वं प्राप्नोत्येव ।
तस्य ग्रहस्य प्रजापतिदेवताकत्वं प्रशंसति —
सर्वासां वा इति । एष प्रजापतिदेवताको ग्रह इति यदेतत्सर्वासामेव देवतानां स्वरूपम् । प्रजापतेः सर्वदेवतात्मकत्वात् । अतो यस्य यजमानस्यैष गृह्यत एनं यजमानं पशूनां सर्वाणि रूपाणि गवाश्वदीनि प्राप्नुवन्ति ।
अत्र ग्रहणमन्त्रस्य पूर्वभागे ज्योतिर्विशेषणं प्रशंसति —
उपयामगृहीत इति । एनं यजमानं समानानां मध्ये ज्योतिरेव तेजोयुक्तमेव करोति ।
उत्तरभागे प्रजापत्यवयवभूतानां देवतानां प्रतिपादकान्यग्निजिह्वेभ्य इत्या-दीनि नवसंख्याकानि चतुर्थ्यन्तपदानि, तेषां तात्पर्यं संगृह्य दर्शयति —
अग्निजिह्वेभ्य इति । हरणमन्त्रगतस्यापजहीत्येतस्य तात्पर्यं दर्शयति —
अपेन्द्र द्विषत इति । होममन्त्रपूर्वभागे प्राणादिपदतात्पर्यं दर्शयति —
प्राणाय त्वेति । प्रजापतिपदतात्पर्यं दर्शयति —
तस्मै त्वेति । एनं दधिग्रहम् ।
अत्र काम्यान्गुणविशेषांस्त्रीन्विधते —
आज्यग्रहं गृह्णीयादिति । स्पष्टोऽर्थः ।
अत्र मीमांसा ।
चतुर्थाध्यायस्य चतुर्थपादे चिन्तितम् —
नित्ये (त्य) नैमित्तिकत्वे वा नित्यतैव दधिग्रहे ।
देवान्तरायाज्ज्यैष्ठ्याय स्यादस्योभयरूपता ॥
निमित्तत्वद्योतिनोऽत्र यदिशब्दादयो नहि ।
अतोऽस्य न निमित्तत्वं केवला नित्यतोचिता ॥
ज्योतिष्टोमे श्रूयते — “यां वै कांचिदध्वर्युर्यजमानश्च देवतामन्तरितस्तस्या आवृश्च्येते यत्प्रजा त्यं दधिग्रहं गृह्णाति शमयत्येवैनाम्” इति । सोऽयं दधिग्रहो नित्यो नैमित्तिकश्चेत्युभयात्मकः । कुतः । आकारद्वयसद्भावात् । देवतान्म रायेण तद्देवताक्षोभ-मुपन्यस्य ग्रहेण समाधानाभिधानादन्तरायो निमित्तं ग्रहो नैमित्तिक इति प्रतिभाति । तथा ज्येष्ठत्वमाम्नातम् — “ज्येष्ठो वा एष ग्रहाणाम्” इति । ज्येष्ठत्वं नाम प्रशस्तत्वं, तच्च नित्यत्वे सत्युपपद्यते । नैमित्तिकस्य पाक्षिकत्वादप्रशस्तत्वम् । तस्माद्धेतुद्वयबलादु-भयात्मक इति चेन्मैवम् । देवतान्तरायस्यनिमित्तत्वात् । निमित्तत्वे यदिशब्द उपबध्येत, सप्तमी वा श्रूयेत, यच्छब्दो वाऽन्तरायकर्त्रोरध्वर्युयजमानयोः सामानाधिकरण्येन प्रयुज्येत । “यदि रथं तरसामा सोमः स्मादैद्रवायवाग्रान्गृह्णीयाद्भिन्ने जुहोति यो वै संवत्सरमुख्यमभृत्वाऽग्निं चिनुते” इत्यादिषु संप्रतिपन्ननिमित्तेषु तद्दर्शनात् । तस्मात्केवल नित्यत्वमव दधिग्रहस्योचितम् । देवताक्षोभतत्समाधानोपन्यासो विधेयदधिग्रहस्तुतयेऽर्थवादः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
पञ्चमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
अनुवाके तु नवमे दधिग्रहविधिः श्रुतः ।
अथ दशमेऽनुवाके गवामयनेऽतिग्राह्यः प्राणग्रहश्चोच्यन्ते ।
कल्पः — “अतिग्राह्यायतने चत्वार्यतिग्राह्यपात्राणि प्रतिदिशं निहितानि भवन्ति मध्ये पञ्चमम्” इत्युपक्रम्य पञ्चसु पात्रेषु तत्तन्मन्त्रैर्ग्रहणासादने अभिधायेदमुक्तम् — ‘तानन्यस्मिन्पात्र आनीय सर्वान्मध्यमे गृह्णाति त्वे क्रतुमपि वृञ्जन्ति विश्व इति” इति । पाठस्तु —
त्वे क्रतुपीति । हेऽत्रिग्राह्या त्वे त्वायि क्रतुमपि वृञ्जन्ति सर्वमपि क्रतुम त्विजः समापयन्ति । ग्रहान्तरेभ्योऽस्य को विशेष इति । तदुच्यते-यद्यस्मात्का रणाद्द्विस्त्रि-र्द्विवारं विचारं वेत्येवं पञ्चसु पात्रेषु गृहिता एते रसा विश्वे सर्वे प्यूमरक्षका भवन्ति तस्मात्त्वयि क्रतोः समापनं युक्तम् । अतस्त्वमपि स्वादोरपि रसातिशयेन स्वादु यथा भवति तथा स्वादुना संसृज स्वादुत्वेन संसर्गं कुरु । अत उ षु अतोऽपि सुष्ठु यथा भवति तथा मधु मधुनाऽभियोधि मधुनो भागं मधुना भागान्तरेणाभियोधि । य एवं मधुरस उपयामेन पार्थिवपात्रेण गृहीतोऽसि प्रजापतये जुष्टं प्रियमितरपात्रेभ्य आनीतं त्वां मध्यमपात्रे गृह्णामि । सोऽयं ग्रहणमन्त्रः । एष स्वरप्रदेशस्ते योनिस्ताव स्थानम् । अतः प्रजापत्यर्थं त्वामत्र सादयामि । अनेन मन्त्रेण गवामयनस्य संवत्सरसत्रस्योपान्त्येऽह्नि महाव्रताख्येऽतिग्राह्यं गृह्णीयात् ।
अथ चतुर्थकाण्डसमाम्नातैरथं पुरो भुव इत्यादिभिर्मन्त्रैः पृश्निग्रहवत्सोमो-न्मानरूपान्ग्रहान्विधत्ते —
प्राणग्रहान्गृह्णातीति । यथा यत्पृश्नयो गृह्यन्त इत्यत्र वायुरसि प्राणो-नामेत्यादिभिर्मन्त्रैः सोमोन्मानविशेषा एव ग्रहा इत्युक्तमेवमत्राप्ययं पुरो भुवा इत्यादिभिः प्राणमन्त्रैः सोमोन्मानविशेषाः प्राणग्रहा इत्युच्यन्ते । तान्गृह्णीयात्सोमोन्मानं कुर्यादित्यर्थः । एते ग्रहा इति यावत् । एतावदेवात्रापेक्षितमस्ति । स्तोमास्त्रिवृत्पञ्चदशादयः । छन्दांसि गायत्र्यादीनि । पृष्ठानि माध्यंदिनपवमानानन्तरभावीनि स्तोत्राणि । दिशः प्राच्याद्याः । इत्येतादृशं यावदेवापेक्षितमस्ति तत्सर्वमतैग्रहैरवरुन्धे । प्रकारान्तरेण प्राणग्रहान्प्रशंसति —
ज्येष्ठा वा एतानिति । यस्मादेतान्ग्रहान्गृह्णन्तो ब्राह्मणा ज्येष्ठा दिशां जे
तारश्चाभूवंस्तस्माद्यस्यैते गृह्यन्ते स इतरेभ्यो ज्योष्ठ्यं प्राशस्त्यमेव प्राप्नोति नाना दिक्ष्ववस्थिताश्च पुरुषास्तस्य भवन्ति । प्राणग्रहपर्यायाणां संख्यां विधत्ते —
पञ्च गृह्यन्त इति । अयं पुरो भुव इत्यादिभिर्मन्त्रैः प्रथमः पर्यायः । अयं दक्षिणाविश्वकर्मेत्यादिभिर्द्वितीयः अयं पश्वाद्विश्वव्यचा इत्यादिभिस्तृतीयः । इदमुत्तरात्सुवरित्यादिभिश्चतुर्थः । इयमुपरि मतिरित्यादीभिः पञ्चमः । प्राच्यादय उर्ध्वान्ताः पञ्च दिशः । तासु दिक्षु सर्वास्वनेन पञ्चविधग्रहणेन समृद्धिं प्राप्नुवन्ति । एकैकस्मिन्पर्याये सोमांशुसंख्यां विधत्ते —
नवनव गृह्यन्त इति । शिरोवस्थितेषु सप्तसुच्छिद्रेष्वधोवस्थितयोश्च द्वयोश्छिद्रयोः संचरन्तः प्राणा नवसंख्याकाः । नवांशुग्रहणेन तान्यजमानेषु स्थापयति (न्ति) । अस्य ग्रहणस्य कालं विधत्ते —
प्रायणीय इति । संवत्सरसत्रस्य प्रथममहः प्रायणीयं, चरममहरुदयनीयं, तयोरुभयोर्गृह्णीयात् । तथा सति तेषां ग्रहाणां प्राणरूपत्वात्प्राणैरेव संवत्सरमुपक्रम्य प्राणैरेव समापितवन्तो भवन्ति । कालान्तरं विधत्ते —
दशमेऽहन्निति । संवत्सरसत्रस्य द्वादशाहविकृतित्वात्तदीयान्यहान्यत्र प्रयोक्तव्यानि । तेषु यद्दशममहस्तस्पिन्प्राणग्रहान्गृह्णीयात् । वामदेव्याख्यस्य साम्नः कया निश्चित्र आ भुवदित्येषा योनिः । दशमेऽहनि तुतां योनिं परित्यज्यान्यस्यामृचि तत्साम गीयते । तथा सति वामदेव्यं स्वयोनेश्च्यवत इति यतू, एतेनापराधेन प्रजाः प्राणेभ्यो यन्त्यपगच्छन्ति । तत्र प्राणग्रहाणां प्राणरूपत्वाद्दशमेऽहनि तेषां ग्रहणेन पर्जाः प्राणेभ्यो नापगच्छन्ति ।
अत्र विनियोगसंग्रहः —
“त्वे गवामयने पात्रेऽतिग्राह्यग्रहणं भवेत् ।
अयं पुरो भुवः प्राणग्रहाणां पञ्च मन्त्रकाः ॥
सोमांशवो नव नव ग्राह्याः पर्यायपञ्चके ।
कया नश्चित्र एतस्या योनेर्भ्रष्टं तु साम तत् ।
अग्निं नर इति ह्यत्र गीयते दशमेऽहनि” ॥ इति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके
दशमोऽनुवाकः ॥ १० ॥
( अथ तृतीयकाण्डे पञ्चमप्रपाठके एकादशोऽनुवाकः ) ।
अतिग्राह्यप्राणनामग्रहा दशम् ईरिताः ।
अथेकादशे पाशुकहौत्रोपयोगिमन्त्रा उच्यन्ते । तत्र ब्राह्मणग्रन्थे तृतीयकाण्डे षष्ठप्रपाठकेऽञ्जन्ति त्वामध्वरे देवयन्त इत्यत्र पाशनुकहोत्रमन्त्राः प्रायेणोक्ताः । अवशि-ष्टास्तु मन्त्रा इहामिधीयन्ते । तत्राष्टमिर्यन्त्रैरुत्तरवेदिं प्रत्याग्निं प्रणयेत् । तेषु प्रथममन्त्रमाह —
प्र देव देव्येति । हे ऋत्विग्यजमाना जातवेदसमुत्पन्नस्य जगतो वेदितारं देवं देव्या प्रकाशरूपया विवेकयुक्तया धिया प्रकर्षेण भरत पोषयत । सोऽपि जातवेदा आनुषगनुषक्त आदरयुक्तो नोऽस्माकं हव्या वक्षद्धवींषि वहतु ।
अथ द्वितीयमन्त्रमाह —
अयमु ष्य प्रेति । अयमेव स्यः सोऽग्निर्यज्ञार्थमुत्तरवेदिं प्रति प्रकर्षेण नीयते । कीदृशोऽग्निः । देवानात्मन इच्छतीति देवयुः । होता होमस्य निष्पादकः । रथो न योः रथ इव यवयिता पृथक्कर्ता । यथा रथः स्वस्मिन्नारूढं पुरुषं भूमिष्ठेभ्यः पृथक्कृत्य ग्रामे नयति तथाऽयमग्निः स्वस्मिन्हुतं हविरितरेभ्यो हविर्भ्यः पृथक् कृत्य देवेषु नयति । अभीवृतो यजमानैराभिमुख्येन स्वीकृतः । घृणीवान्रश्मियुक्तः । तादृशोऽग्निस्त्मना चेतति स्वयमेव यजमानभक्तिं जानाति ।
तृतीयमन्त्रपाठस्तु —
अयमग्निरिति । अयं प्रणीयमानोऽग्निर्जन्मनो जन्ममात्रेणोरुष्यति प्रबुद्धो भवितुमिच्छति । अमृतादिव । यथा पीतेनामृतेन मरणरहितः प्रवर्तते तद्वत् । किंचायं देवो जीवातवे जीवनौषधाय सहसश्चित्सहीयान्कृतो बलवतोऽप्यतिप्रबलः कृतः । यदाऽयमग्निः प्रबलो भवति तदा स्वयमपि विनाशरहितो जीवति यजमानमपि यज्ञनिष्पादनेन जीवयतीत्यर्थः । चतुर्थमन्त्रपाठस्तु —
इडायास्त्वेति । हे जातवेदाऽग्ने हव्याय वोढवे हवींषि वोढुं त्वां वयं (नि) धीमहि नितरं स्थापयामः । कुत्रेति तदुच्यते — पृथिव्या अध्युपरि नाभा नाभिसदृश आहवनीयायतने । तच्चाऽऽयतनमिडापदसदृशं, यथा गोरूपाया इडाया पदं घृताहुतियुक्तं तादृशे स्थाने स्थापयामः ।
पञ्चममन्त्रपाठस्तु —
अग्ने विश्वेमिरिति । विश्वेभिर्देवैः स्वनीक सर्वेऽपि देवा अस्य सेनारूपास्तादृश हेऽग्ने प्रथमो देवानां मध्ये मुख्यस्त्वं योनिं सीद स्थानं प्राप्नुहि । कीदृशं योनिम् । ऊर्णावन्तं, यथा कम्बलास्तरणोपेतो देशो मृदुस्तथाऽयं सेव्यस्तादृशं, कुलायिनं, यथा पक्षिणां नीडः सम्यङ्गनिर्मित एवमयमपि तादृशं, घृतवन्तं घृताहुत्याधारभूतम् । यद्वाऽऽहवनीयाख्यं कुलायोपेतं घृताहुतियुक्तं यज्ञं सवित्रेऽनुष्ठात्रे यजमानाय साधु नय सम्यक्समाप्तिं गमय । षष्ठमन्त्रमाह —
सीद होतरिति । हे होतहोमनिष्पादक चिकित्वानभिजस्त्वं स्वकीयस्थान
उत्तरवेदिरूपे सीदोपविश । यज्ञं चेमं सुकृतस्य योनौ पुण्यकर्मणो योग्यस्थाने सादय स्थापय । देवान्वेति कामयत इति देवावीर्देवप्रिय इत्यर्थः । तादृशस्त्वं देवान्हविषा यजासि पूजयसि । हेऽग्ने यजमाने बृहद्वयो धा दीर्घमायुः स्थापय । सप्तममन्त्रमाह —
नि होतेति । होतृषदने होमनिष्पादकस्य योग्यस्थान उत्तरवेदिरूपेऽयमग्नि र्नितरामसदत्सम्यगुयविष्टवान् । कीदृशोऽग्निः । होता देवानामाह्वाता । विदानः स्थानाभिज्ञः । त्वेषो दीप्तिमान् । दीदिवान्देवेभ्यो हविषो दाता । सुदक्षोऽत्यन्त कुशलः । अदब्धव्रतप्रमतिरहिंसित कर्मणि प्रकृष्टा मतिर्यस्य स तथाविधः । वसिष्ठोऽतिशयेन वासयिता । सहस्रसंख्याकानि हवींषि भरति पोषयतीति सहस्रंभरः । शुचिः शुद्धा होमयोग्या जिह्वा ज्वाला यस्यासौ शुचिजिह्वः अष्टममन्त्रमाह —
त्वं दूतस्त्वमिति । हेऽग्ने त्वं देवानां दूतोऽसि । अग्निर्देवानां दूत आसीदिति श्रुत्यन्तरात् । त्वमु नः परस्पास्त्मेवास्माकमतिशयेन पालकः । त्वं वस्यस्त्वमेवास्मिन्कर्मणि निवासयोग्यः । हे वृषभ देवश्रेष्ठ, आ प्रणेता त्वमेवाऽऽगत्य यागस्य प्रवर्तकः, तो (नस्तो) कस्यास्मदपत्यस्य तनूनां तने शरीराणां विस्तारेऽप्रयुच्छन्प्रमादमकुर्वन्दीद्यत्तमोनिवारणेन दीपयन् । अथवा देवेभ्यो हविर्ददानो गोपाः पालकः सन्बोधि बुध्यस्वाप्रमत्तो भवेत्यर्थः । एतेऽष्टौ मन्त्रा उत्तरवेदिं प्रतयग्निप्रणयनकाले होत्रा पठनीयाः ।
अथाग्निमन्थने पञ्च मन्त्रा पठनीयाः ।
अभि त्वेति । हे सवितर्देव प्रेरक परमेश्वर वार्याणां निवारणीयानां विघ्ना नामीशानं विनिवारणे समर्थं त्वामभि प्राप्तुमिति शेषः । सदावऽन्सर्वदा हे रक्षक भागं भजनीयमग्निमीमहे त्वत्प्रसादात्प्राप्नुमः । अथ द्वितीयो मन्त्रः —
मही द्यौरिति । महति द्यौः पृथिवि चेत्येते उभे नोऽस्मदीयमिमं यज्ञं मिमिक्षतामाज्यहोमादिभिर्द्रव्यैः सेक्तुमिच्छां कुरुताम् । भरीमभिर्भरणैर्नोऽस्मान्पिपृतां पूरयताम् । अथ तृतीयः —
त्मामग्न इति । हेऽग्नेऽथर्वाख्य ऋषिः पुष्करादधि पद्मपत्रस्योपरि त्वां निरमन्थत निःशेषेण मथितवान् । अत एव पञ्चमकाण्डे ब्राह्मणमाम्नातम् — ‘पुष्क
रपर्णे ह्येनमुपश्चितमविन्दत्” इति । कीदृशात्पुष्करात् । मूर्ध्न उत्तमाङ्गवत्प्रश स्तात् । विश्वस्य वाधतः सर्वस्य जगतो वाहकात् । इदं हि पुष्करपर्णमग्निमन्थनयज्ञनिष्पादनादिद्वारा जगन्निवहति । अथ चतुर्थः —
तमु त्वेति । हेऽग्नेऽथर्वणः पुत्रो दध्यङ्नामक ऋषिस्तमु त्वेधे तमु त्वां प्रज्वलितवान् । कीदृशं त्वां वृत्रहणं वैरिविनाशनं पुरंदरं रुद्ररूपेणासुरसंबन्धिनां त्रयाणां पुराणां विदारयितारम् । अत पञ्चमः —
तमु त्वा पाथ्य इति । हेऽग्ने पाथ्यनामकः कश्विदृषिस्तमु त्वा समीधे तमेव त्वां सम्यक्त्रज्वलितवान् । कीदृशः पाथ्यः । वृषा श्रेष्ठः । कीदृशं त्वां, दस्युहन्तमं तस्कराणामतिशयेन हन्तारम् । रणेरणे धनंजय तेषु तेषु संग्रामेषु धनस्य जेतारम् । अथ वह्नौ जात ऋग्द्वयं होता पठेत तत्रैयं प्रथमा —
उत ब्रुवन्त्विति । उत जन्तवः सर्वेऽपि प्राणिनः परस्परमेवं ब्रुवन्तु किमिति, अग्निरुदजनीति । कीदृशोऽग्निः । वृत्रहा शत्रुघाती, रणेरणे धनंजयश्च । अथ द्वितीया —
आ य ँ हस्त इति । खादिनं हविषां भक्षकम् । यमग्निं हस्ते न पाणाविव कस्मिंश्चित्पात्र आबिभ्राति आ निधानादृत्विजो धारयन्ति । कमिव । जातं शिशुं न सद्यः समुत्पन्नं शिशुमिव । कीदृशमग्निं, विशां स्वध्वरं प्रजानां सम्यगहिंसकम् । तमग्निं पुरतः पश्याम इति शेषः ।
अस्याग्नेः पूर्वाग्निना सह मेलने प्र देवमित्याद्याः षडृचो होता पठेत् । तत्र प्रथममाह —
प्र देवं देवेति । देववीतये देवानां हविःस्वादनाय देवं दीप्तिमन्तमग्निं भरत हे ऋत्विजः प्रकर्षेण पोषयत । कीदृशं देवं, वसुवित्तममतिशयेन हविर्लक्षणधनाभिज्ञम् । स च देव आगत्य स्वे योनौ पूर्वग्निरूपे स्वकीये स्थाने निषीदतु नितरामुप समीपे प्रविष्टो भवतु । द्वितीयामाह —
आ जातमिति । हे ऋत्विज इदानीं जातं प्रमयतिथिरूपमेनमग्निं पूर्वमेव स्थिते जातवेदसि शिशीत शयानं कुरुत । कीदृशे जातवेदसि । स्योने सुखरूपे । कीदृशं जातम् आ गृहपतिं सर्वतो गृहस्य पालकम् । तृतीयामाह —
अग्निनाऽग्निरिति । पूर्वसिद्धेनाग्निना सहेदानीमानीतोऽग्निः समिध्यते सम्यक्प्रज्वाल्यते । कीदृशोऽग्निः । कविर्विद्वान् । गृहपतिर्गृहस्य पालयिता । युवा नित्यतरुणः । हव्यं वहतीति हव्यवाट् । जुहूरेवाऽऽस्यं मुखं यस्यासौ जुह्वास्यः । चतुर्थीमाह —
त्वँ ह्यग्ने अग्निनेति । हे नूतनाग्ने त्वं पूर्वेणाग्निना सह सम्यक्प्रज्वाल्यसे । कीदृशस्त्वम् । विप्रा ब्राह्मणात्यभिमानी सत्विनाशराहित्येन सर्वदाऽवास्थितः । सखा सखिवदितरस्मिन्नग्नौ प्रीतियुक्तः । कीदृशेनाग्निना । विप्रेण सता सख्या च पञ्चमीमाह —
तं भर्जयन्तेति हे ऋत्विजस्तमिमं मथितमग्निं मर्जयन्त शोधयत । कीदृशं, सुक्रतुं सुष्ठु क्रतुनिष्पादकम् । आजिषु संग्रामेषु पुरोयावानं पुरतो गन्तारम् । स्वेषु क्षयेषु यजमानसंबन्धिषु स्वकीयगृहेषु वाजिनमन्नसंपादकम् । षष्ठीमाह —
यज्ञेन यज्ञमिति । देवा देवत्वं प्रेप्सवो यजमाना यज्ञेन यज्ञसाधनेन नूतनेनाग्निना सह यज्ञं यज्ञसाधनं पुरातनमग्निमयजन्त पूजितवनः । तानि मिलितानि अग्निद्वयसाध्यानि (धर्माणि) सुकृतानि प्रथमान्यासन्मुख्यान्यभवन् । ते (ह) गहिमानस्ते खलु महान्तो यजमानानाकं सचन्ते स्वर्गं समवयन्तियत्र स्वर्गे पूर्वे यजमानाः साध्याः साध्यफलोपेता देवाः सन्ति ये ( दे ) वा भूत्वा वर्तन्ते, तं नाकं सेव (सच)न्त इति पूर्वत्रान्वयः ।
अत्र विधियोगसंग्रहः —
अथ पाशुकहौत्रस्य शेष औत्तरवेदिके ।
अग्निप्रणयेन ह्यष्टौ प्र देवमिति मन्त्रकाः ॥
अथाग्निमन्थने पञ्च जाते बह्नावुत द्वयम् ।
प्र देऽग्न्यौर्मेलने षट् स्युर्मन्त्रा अत्रैकविंशतिः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णय-जुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके
एकादशोऽनुवाकः ॥ ११ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधावाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
तृतीयकाण्डे पञ्चमः प्रपाठकः ॥ ५ ॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधि-
राजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरि-
पालकेन माधावाचार्येण विरचिते वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
तृतीयः काण्डः समाप्तः ॥ ३ ॥
समाप्तोऽयं श्रीमत्सायणाचार्यविरचितभाष्यसहितकृष्णयजुर्वेदीयतैत्तिरीयसंहितायास्तृतीयः काण्डः ॥ ३ ॥