प्रश्नः-4

(अथ तृतीयकाण्डे चतुर्थ प्रपाठकः)
(तत्र प्रथमोऽनुवाकः) ।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
प्रपाठके तृतीयेऽपि सोमशेषः क्रियानपि ।
उक्तः कर्मान्तरं किंचिदपि तत्रोपवर्णितम् ॥
प्रपाठके चतुर्थे तु किंचिन्नैमित्तिकं तथा ।
पश्चिष्टिर्दर्विहोमाश्च वाच्याः काम्याश्च केचन ॥
तत्राऽऽद्येनानुवाकेन वशागर्भस्य दर्शननिमित्ताः पूर्वोक्ता मन्त्रा व्याख्यायन्ते ।तत्र प्रथममन्त्रगतयोर्बृहस्पतिप्रजापतिशब्दयोस्तात्पर्यं दर्शयति —
वि वा एयस्येति । यस्य यजमाननस्य हविरतिरिच्यतेऽधिकं भवति । वशायाः शरीरवेकं हविष्ट्वन संकल्पितं तत्र गर्भे सति वपाद्याधिक्यं हविरतिरेक इत्युच्यते । ईदृशातिरेकवत एतस्य यजमानस्य यज्ञो व्यृध्यत एव विगुण एव भवति । तत्र सूर्यो देव इतिमन्त्रेण होमे सत्येतन्मन्त्रोक्ताभ्यां बृहस्वतिप्रजापतिभ्यां यज्ञस्य व्यृद्धमपि वपति वैगुण्यं समादधाति ।
अनुमन्त्रणमन्त्रे देवैः समजीगममित्यस्यांशस्य तात्पर्यं दर्शयति–
रक्षाँसि । वा इति । एकदेवत्य आलब्ध एकां देवतामुद्दिश्योपाकृतः पशुर्गर्भधारणेन भूयान्भवतीति यदेतेन वैकल्येन रक्षांसे समवयन्ति तत्परिहाराय यस्यास्त इत्यभिमन्त्रणेन कृतेन तां देवैः समजीगममित्युक्तत्वाद्देवेष्वैनां वशां प्रापितवान्भवति । ततो रक्षांस्यपहन्यन्त । लौकिकस्य गर्भपर्यावर्तनस्य व्यावृत्तये मन्त्रेणैव तत्पर्यावर्तनमित्येतद्दर्शयति —
आ वर्तनेति । उल्बच्छेदनमन्त्रस्य स्पष्टार्थतां दर्शयति वि ते भिनद्मीति । रसधारणार्थपात्रोपोहनमन्त्रगतस्येन्दुशब्दस्य तात्पर्यं दर्शयति —
उरुद्रप्सो विश्वरूप इति । इदि परमैश्वर्यं इत्यस्पाद्धातोरूपन्न इन्दुशब्दः । प्रजानां पशूनां चैश्वर्यरूपत्वादिन्दुत्वम् । अत इन्दुशब्दप्रयोगेण प्रजादिभिरेनं रसं समृद्धं करोति । तस्याभिसमूहनमन्त्रे द्युशब्दस्य पृथिवीशब्दस्य च तात्पर्यं दर्शयति —
दिवं वै यज्ञस्येति । यज्ञस्य संबन्धि यदङ्गं व्यृद्धं न्यूनंतद्दिवमेव गच्छति । यदतिरिक्तं तत्पृथिवीं गच्छति । तथा सति तद्यद्युभवं न शमयेत्तदा यजमान आर्तिं प्राप्नुयात् । अतो मन्त्रे द्यौः पृथिवीतिप्रयोगात्ताभ्यां तदुभयं शमयित्वा यजमान आर्तिं न प्राप्नोतित । अथ विधत्ते —
भस्मनाऽभि समिति । कथं नाम द्यावापृथिवीभ्यां गर्भाऽयमात्मसात्क्रियेतेति विचार्य तस्यै स्वगाकृत्यै शीतेन भस्मना गर्भमाच्छदायेत् । किंचैष गर्भोऽनयोर्द्यावापृथिव्योरेव समुत्पन्नः । अतोऽनेन मन्त्रेण भस्माच्छादने सत्यनयोर्द्यावापृथिव्योरेनं गर्भं स्थापयतीति —
यदुक्तं सूत्रकारेण — “पशोर्दैवतान्यवद्यन्गर्भस्य पुरस्तान्नाभ्या अन्यदवदाय दैवतेष्ववदधात्युपरिष्टादन्यत्सौविष्टकृतेष इति । तदेतद्विधत्ते —
यदवद्येतीति । यदि गर्भस्य हृदयाद्यङ्गमवद्येत्तदा पशुहृदयाद्यपेक्षया हविरतिरिक्तं भवेत् । यदि तद्दोषपरिहाराय नावद्येत्तदानीमालब्धस्य पशोरवदानं न कृतं स्यात् । अत उभयदोषपरिहाराय नाभ्याः परस्तात्किंचिदङ्गमवद्येदुपरिष्टाच्यान्यत्किंचिदवद्येत् । एवं सति यावानेव पशुस्तत्सर्वमवत्तं भवति । तत्कथमिति तदुच्यते – तिरश्चां हि नाभ्याः पुरस्तात्प्राणो मुखे संचरति । अपान उपरिष्टात्पुच्छदेशे संचरति । अत उभयावदानेन सर्वावदानीसद्धिः ।
कल्पः — “गर्भस्य दक्षिजं पूर्वपादं प्रच्छिद्य विष्णुं शिपिविष्टं यजति” इति ।
तदेतद्विधत्ते —
विष्णव इति । यज्ञो वै विष्णुः पशवः शिपिरिति श्रुत्यन्तरात्पशुस्वामी कश्चिद्यज्ञदेवः शिपिविष्टो विष्णुस्तस्यै जुहुयात् । यज्ञस्य संबन्धि यदङ्गमुपाकृतादतिरिक्तं भवति यश्च पशोर्भूमा बहुत्वं हविराधिक्यहेतुर्या च पशोः शरीरे पुष्टिराधिक्यहेतुस्तत्सर्वं शिपिविष्टस्य विष्णोरधीनम् । अतो विष्णुमुद्दिश्य तद्धोमे सत्यतिरिक्तहेतावेवातिरिक्तं स्थापितं भवति । तच्चातिरेकदोषस्य शान्त्यै भवति । देयां दक्षिणां विधत्ते —
अष्टाप्रूइढिरण्यमिति । अष्टाभिर्बिन्दुभिर्लाञ्छितमष्ठाप्रूट्तादृशं हिरण्यं दद्याद्यस्मादियं वशा सगर्भा साऽष्टाभिः पादैर्युक्ता । आत्मा पशोर्देहो यस्मादतिरिक्तो नवमस्तस्मादष्टाभिर्बिन्दुभिर्युक्तं हिरण्यमष्टाभिः पादैर्युक्तेन पशुना च सदृशं भवतीति पशुप्राप्त्यै संपद्येते ।
यदुक्तं सूत्रकारेण — “अष्टाप्रूड्ढिरण्यमुष्णीषेणाऽऽवेष्ट्य कोशेऽवधाय द्वितीयेऽवधाय तृतीयेऽवदधाति” इति । तदेतद्विधत्ते—
अन्तरकोश इति । बाह्यकोशमारभ्य योऽयमभ्यन्तरस्तृतीयः कोशस्तस्मिन्कोशे तद्धिरण्यमुष्णीषेण सर्वतो वेष्टनीयम् । तथैव तद्धिरण्यं चतुर्भिर्वोष्टितं तथैव गर्भरूपः पशुरपि चतुर्भिवेष्टितो भवति । तत्कथमिति तदुच्यते उल्बं बहिर्वेष्टनं तस्याभ्यन्तरे चर्म तस्याभ्यन्तरे मांसं ततस्तस्याभ्यन्तरेऽस्थि अस्थ्नोऽभ्यन्तरे पशोजीर्विः । एवं हिरण्यस्य पशुसादृश्ये सति तद्दानेन यावान्संपूर्णः पशुस्तं प्राप्य स्वाधीनं करोति । इदानीमेतत्साङ्गं कर्म विधत्ते —
यस्यैषेति । यस्य यजमानस्य यज्ञे वशागर्भमपराधं निमित्तीकृत्वा यथोक्तहोमरूपा प्रायश्चित्तिः क्रियते स यजमानः प्रायश्चित्तेन प्रकृतेन यज्ञेनेष्टूवा वसुमत्तरो भवति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
तृतीयप्रपाठके प्रथमोऽनुवाकः ॥१ ॥

(अथ तृतीयकाण्डे चतुर्थप्रपाठके द्वितीयोऽनुवाकः)
वशागर्भनिमित्तोऽयं होमोऽस्मिन्प्रथमे श्रुतः ।
अथ द्वितीयानुवाके भूत्यादिकामस्य वशालम्भार्थं मन्त्रा वक्तव्याः ।
कल्पः — “वायव्यामालभेत भूतिकाम इत्युक्तानि दैवतानि वायव्यामुपाकरोत्या वायो भूष सुचिपा इति । पाठस्तु —
आ वायो भूषेति । हे वायो त्वमागत्य पशुं भूषालंकुरु । हे शुचिपाः शुद्धहविःपालक त्वं नोऽस्मानुपगच्छ । हे विश्ववार विश्वव्यापक ते सहस्रं नियुतः सन्ति । नियुच्छन्देन वायुवाहनभूता अश्वा उच्यन्ते । ते तवान्धः पशुरूपमन्नं मद्यं हर्षकरं तस्मादुपो समीपे त्वामयानि प्राप्नोमि । तद्धे देव यस्य पशोः संबन्धि हविः पूर्वपेयं सोमसदृशमिति मनो दधिषे मनो धृतवानसि तादृशेन हविषा त्वामयामीत्यन्वयः । कल्पः — “आकूत्यै त्वा कामाय त्वेति पर्यग्नौ क्रियमाणे जुहोति” इति । पाठस्तु —
आकूत्यै त्वेति । हे पशो, आकूत्यै मदीयसंकल्पसिद्ध्यर्थं त्वां प्राप्य तथा कामामामीष्टपालनार्थं त्वां प्राप्य तथा समृधे समृद्धिसिद्ध्यर्थं त्वां प्राण्य क्किक्किटकारपूर्वक ते मनः प्रीणयित्वेदमाज्यद्रव्यं प्रजापतये स्वाहा हुतगस्तु किक्किटेत्यनुकरणशब्दः । मनुष्या हि पशूनामाभिमुख्यार्थं मुखमध्ये स्वजिह्वाग्र मूर्ध्वमाकुञ्च्य कंचिद्ध्वनिविशेषं कुर्वान्ति । सोऽयं ध्वनिःकिक्किटाशब्देनानुक्रियते । आकूत्या इत्यादिकमुपरितममन्त्रेष्वनुषज्य सर्वं पूववद्व्याख्येयम् ।
कल्पः — “त्वं तुरीयोत्युदीचीं वीवमानमनुपन्त्रयते” इति । पाठस्तु
त्वं तुरीयेति । हे वशे त्वं तुरीयोपरितनमन्त्रे लोकत्रयस्य वक्ष्यमाणत्वात्तदपक्षया चतुर्थी वशिनी । वश इन्द्रियनियमः । बृवभसंयोगापेक्षाया अभावात् । वशोऽस्या अस्तीति वशिनी । वशाऽसि बन्ध्या भवति । तदेतद्वशिनीत्वं व शात्वं प्रतिपादयति । यद्यस्मात्कारणात्पुरुषाभिलाषयुक्तेन मनसा सकृदेव गर्भस्त्वामाशयत्त्वामागत्य त्वदुदरे शयनं कडतवान्, तस्मादद्वितीयतृतीयादिपुरुषसंयोगे-च्छारहितत्वात्त्वं वशिनी. अपत्यान्त्रराहित्याद्वशा । तादृशी त्वं हवीरूपेण देवान्गच्छा देन च गमनेन यजमानस्य कामाः सत्याः सन्तु ।
कल्पः — “अजाऽसि रयिष्ठेति निहन्यमानाम” इति ।
अनुमन्त्रयत इत्यनुवर्तते । पाठस्तु —
अजाऽसि रयिष्ठेति । हे पशो त्वमजाऽसि जातितश्छागी भवसि । रयिष्ठा धने स्थिता हविःस्वरूपत्वेन देवानां धनभूताऽसि. तादृशी त्वमादौ पृथिव्यां सीदापविश । तत ऊर्ध्वोन्नीता सत्यन्तरिक्षमुपतिष्ठस्व प्राप्नुहि दिवि ते बृहद्भाः प्रौढं तेजः । एवं त्रिषु लोकेषु तिष्ठ । कल्पः- “तन्तुं तन्वन्निति वपां जुहोति” इति । पाठस्तु —
तन्तुं तन्वन्निति । हे पशो रजसो रज आत्मकस्य हविस्तन्तुषं तत्वन्विस्तारं कुर्वन्भानुमन्विहि आदित्यमनुगच्छ । किंच धिया कृतान्प्रज्ञया संपदिताञ्ज्योतिष्मतः प्रकाशवतः पथोऽस्मदीयस्वर्गमार्गान्रक्ष । कल्पः- ‘अनुल्बणं व यत जोगुवामप इति हविः” इति । जुहोतीत्यनुवर्तते । पाठस्तु —
अनुल्बणमिति । हे हृदयादीनि पश्वङ्गानि जोगुवां निर्विघ्नेन समाप्त्यर्थं त्वरमाणानामस्माकमषः कर्मानुल्वणमानतिरिक्तं वयत कुरुत । हे पशो मनुर्भव मनरिवोत्मादको भव । ततो द्रैव्यं जनं जनय । अयं च यजमानो जन्मान्तरे यथा देवजनो भवति तथोत्पादय ।
कल्पः — “मनसो हविरसीति हविःशेषान्प्राश्नन्ति” इति । पाठस्तु —
मनसो हविरिति । हे पशो त्वे मनसो मन्तव्यस्य देवस्य हविरसि प्रजापतेर्वर्णः स्वरूपमसि । तेनोत्पादितत्वात । तादृशस्य तव गात्राणामङ्गानां प्राशनाद्वयं गात्रभाजः पुष्टाङ्गा भूयास्म । अत्र विनियोगसंग्रहः —
आ वायो इत्युपाकुर्यादाकूत्यै पञ्चभिर्हुतिः ।
त्वं गच्छन्तीं मन्त्रयित्वा हन्यमानामजेति च ॥
तन्तुं वपाहुतिस्तद्वदनुल्वेति हविहुतिः ।
मनःशेषान्भक्षयन्ति मन्त्र एकादशोरिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
चतुर्थप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥

(अथ तृतीयकाण्डे चतुर्थप्रपाठके तृतीयोऽनुवाकः ) ।
मन्त्राः काम्यपशोरत्र द्वितीये समुदीरिताः ।
अथ तृतीये तद्विधिरुच्यते । तत्राऽऽदौ स पशुमालभमानस्य पूर्वं कर्तव्यमष्टाकपालं पुरोडाशं विधातुं प्रस्तौति —
इमे वै सहेति । इमे द्यावापथिव्यौ पुरा सहाऽऽस्तामवियुक्ते अभूताम् । ते च सहस्थिते उभे वायुर्व्यवाद्वियुक्ते अकरोत् । ते’ च पुनर्वायुना संपरिष्वक्ते सत्यौ वशारूपं गर्भं धारितवत्यौ । तं च गर्भं सोम उत्कर्षौदजनयत् । उत्पादितं तमेतमग्निर्ग्रसितवान् । ततः प्रजापतिरग्नेरुक्तोचरूपेण षुरोडाशं निरुप्य तस्मादेग्नेरेतां वशां निष्क्रीतवान् । इदानीं विधत्ते —
तस्मादपीति । यस्मादग्नेः सकाशात्प्रजापतिना वशा निष्क्रीता तस्माद्वशाया यद्यप्यग्नेरन्या देवता तथाऽपि तदालभ्मात्पूर्वमाग्नेयं पुरोडाशं कुर्यात् । तेन पुरोडाशेनाग्नेः सकाशाद्वशां निष्क्रीय तदालम्भे प्रषृत्तो भवति ।
कासावन्यदेवत्येत्याकाङ्क्षायां तद्योग्यान्देवताविशेषान्दर्शयति —
यद्वायुर्व्यवादिति । क्रारकत्वस्य पूर्वं दर्शितत्वात्तत्तद्देवतात्वं युक्तम् । संश्लिष्टे द्यावापृथिन्यौ यदा वियुज्येते तदा वेणुदलविभागध्वनिः समुत्पन्नस्तदिदं वाचो वदनम् । तस्मादुपकारित्वात्सरस्वत्यत्र देवता । तदेवं वायुद्यावापृथिव्यग्नीषोमसरस्वतीप्रजापतीनामत्र देवतात्वात्सेयमजा वन्ध्या सर्वदेवत्येत्युच्यते । तत्रैश्वर्यसिद्धये तेवताविशेषं विधत्ते —
वायब्यामेति । कृषीवलस्य सस्यसमृद्धिरूपां प्रतिष्ठां कामयमानस्य देवतां विधत्ते —
द्यावापृथिव्यामेति । विविधं रोहन्त्युत्पद्यन्ते । ततोऽस्य यजमानस्य सस्यं समृद्दिशीलं भवति ।
अन्नसमृद्धि तद्धोगसामर्थ्यं च कामयगानस्य देवतां विधत्ते —
अग्नीषोमीयेति । अन्नाद्यमन्नभक्षणसामर्थ्यंम् ।
राजादिसभारञ्जनयोग्यां वाचं कामयमानस्य देवतां विधत्ते —
सारस्वतीमेति । वेदशस्त्रपारगतत्वाद्वाचं वदितुं समर्थः सन्नपि सभाक-न्यादिपतिबन्धेन यो न वदेत्तस्यायं विधिः ।
यत्फलमुपायान्तरेण न संपादितं तत्संपदानकामस्य देवतां विधत्ते —
प्रजापत्यामेति । आ वायो भूषेत्येतामृचं विनियुङ्क्ते —
वायव्ययेति । एनां वशामवरुध्य संपाद्य । होममन्त्राणां स्पष्टार्थता दर्शयति —
आकृत्यै त्वेति । जिह्वाग्राकुञ्चननिष्पाद्याः पशुप्रिया ये ध्वनिविशेषास्तत्पूर्वकं होमं विधत्ते —
किक्किटाकारमिति । आकूत्या इति मन्त्रमुञ्चार्य जिह्वाग्रेण ध्वनिविशेष
कृत्वा पश्वाज्जुहुयात् । देन ध्वनिना सोमहिषादयो ग्राम्याः पशवः क्रीडन्ते । आरण्यास्तु मृगाः प्रकर्षेण पलायन्ते । अतोऽयं ध्वनिर्ग्राम्यपशुधत्यै भवति ।
अस्याऽऽज्यहोमस्य कालं विधत्ते—
पर्यग्नाविति । उल्मुकेन पशोः प्रदक्षिणावृत्तिः पर्यग्निकरणं तद्यदाऽऽनुष्ठीयते तदैवायं होमस्तथा सति जीवनयुक्तामेनां स्वर्गं प्रापयति । मन्त्रेषु मनआदीनां प्रजापत्यादिप हुतत्वाभिधानात् ।
नीयमानपश्वनुमन्त्रणमन्त्रे देवान्गच्छेत्यस्मयाभिप्रायं दर्शयति —
सत्याः सन्त्विति । अयं यज्ञोऽनार्तो विघ्नरहित उदृचमुत्तमामृचं समाप्तिं गच्छतीति यदेष एव यजमानस्य मुख्यः कामस्तत्समाप्त्या फलस्यावश्यंभावात् । तस्मादध्वर्युः कामाः सन्त्वित्येवं ब्रूते ।
इन्यमानानुमन्त्रणमन्त्रे पृथिव्यां सीदेत्यादेस्तात्पर्यं दर्शयति —
अजाऽसि रयिष्ठेति । चरमस्य मन्त्रबागस्य तात्पर्यं दर्शयति —
दिवि ते वृहदिति । अस्मै यजमानार्थं स्वर्गे प्रकाशमुत्पादयति । वपाहो ममन्त्रे पथ इति लोका विवक्षिता इति दर्शयति ।
तन्तुं तन्वन्निति । हविर्होममन्त्रस्य तात्पर्यं दर्शयति —
अनुल्वणमिति । विधिमतिक्रम्यानुष्ठितमङ्गमुल्बणम् । अनुल्बणशब्दोञ्चारणेन तस्य शान्तिर्भवति । तस्य मंन्त्रस्योत्तरभागे मनुशब्दप्रयोगस्य तात्पर्यमाह —
मनुर्भवेति । स्वायंभुवस्य मनोः प्रजापतिरूपत्वात्प्रजापतिसृष्टा दैव्य-
जनादयाः सर्वाः प्रजा मानव्यो भवन्ति । अतोऽनेन मन्त्रभागेन (ण) ताः सर्वा आद्या भोग्याः कुरुते । हविःशेषप्राशनमन्त्र (न्त्रे) (हविःशेष) स्योदरंगत (त्वं) कर्तुं मनःशब्दप्रयोग इति दर्शयति —
मनसो हविरसीति । तस्मिन्मन्त्र उत्तरभागस्याऽ शीःपरत्वं दर्शयति —
गात्राणामिति । एतस्या वशाया आलम्भे वर्जनीयं दिनं दर्शयति ।
तस्यै वा इति । अस्यां वशायामालब्धायां सत्यां गगने मेघावरणेन यद्दु र्दिनं भवति तदेवैकं दिनमेतस्या वशाया देवयागानर्हम् । तस्माद्यादा देधो न भविष्यतीति निश्वयो मनसि जायते तदानीमेवैतामालभेत ।
तथा कृतेऽपि प्रमादाददर्शने सति नैमित्तिकं प्रयोग विशेषमाह —
यदालन्भदायामिति । तत्र जलप्रवेशः पूर्वः पक्षः । सर्वस्याः प्राशनं राद्धान्तः । तदुभयं स्पष्टी करोति —
यदप्सु प्रवेशयेदिति । यज्ञवेशसं यज्ञत्रिधातम् । यजमानः सर्वप्राशनेने न्द्रियमात्मनि घारयति । एतदेवाभिप्रेत्य सूत्रकारेणोक्तम् । सर्वां वा यजमान एवान्वहं प्राश्नीयादिति । एतस्यां वशायां मुख्याधिकारिजो दर्शयति—
सा वा एषेति । सेयं वशा त्रयाणामेवाधिकारिणामधीता । कस्य कस्येति तदुच्यते-गवामयनादिरूपं संवत्सरसत्रं योऽनुतिष्ठति सोऽयं संवतस्करसत्रस्य सहस्रसंख्याकदक्षिणायुक्तेन यज्ञेन यो यजते सोऽयं सहस्रयाजी तस्य । संवस्ररसदर्वाचीनेष्वपि सत्रेषु यो गृहपतित्वेन दीक्षितो भवति सोऽयं गृहमेधी तस्य । त एव त्रयोऽधिकारिण एतया वशया यजेरंस्तेषामेवैषा वशा युक्ता ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
चतुर्थप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥

(अथ तृतीयाष्टके चतुर्थप्रपाठके चतुर्थोऽनुवाकः) ।
अजा वशा या तु काम्या तद्विधिः स्यात्तृतीयके ।
अथ यदुक्तं सूत्रकारेण — “जयानभ्यातानान्राष्ट्रभृत इति ब्राह्मणव्याख्याताः अस्मिन्ब्रह्मन्नित्यभ्यातानेष्वनुषजति” इति ।
तत्र चतुर्थानुवाके जया उच्यन्ते । तत्राऽऽदौ जयसंज्ञकांस्त्रयोदश मन्त्रान्पठति —
चित्तं च चित्तिश्वेति । सामान्याकारेण निर्विकल्पकज्ञानेन प्रतीतं वस्तु चित्तम् । वक्ष्यमाणापेक्षया समुच्चयार्थः चशब्दः । इदं चित्तं मयि ममास्त्विति शेषः । एवमुत्तरत्र योज्यम् । चित्तिर्निर्विकल्पकज्ञानम् । आकूतं संकल्पितं वस्तु । आकूतिः संकल्पः । विज्ञातं विशेषाकारेण निश्चितं वस्तु । विज्ञानं तन्निश्चयः । मनो ज्ञानसाधनमन्तःकरणम् । शक्वरीश्चक्षुरादिबाह्येन्द्रियशक्तयः । दर्शपूर्णमासौ यागविशेषौ । बृहद्रथन्तरे सामनी । पृतनाज्येषु सङ्ग्रामाभिगमनेषूग्रः प्रजापति र्वृष्णो वर्षयित्र इन्द्राय जयाञ्जयहेतून्मन्त्रानेतान्प्रायच्छत् । तस्मा इन्द्राय विशः प्रजाः सर्वाः समनमन्त सम्यगानता विधेया अभवन् । स चेन्द्रः स्वासु प्रजासूग्रः शिक्षकोऽभवत् । हि यस्मात्स इन्द्रो हव्यो होमयोग्यो वभूव तत्तस्मिन्निन्द्रे प्रजापतेरनुग्रहो युक्तः ।
अथैतैर्मन्त्रैर्होमं विधातुं प्रस्तौति — देवासुराः संयत्ता इति । जयन्त्येभिरिति जयाः । अथ विधत्ते – स्पर्धमानेनेति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे
चतुर्थप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥

(अथ तृतीयाष्टके चतुर्थप्रपाठके पञ्चमोऽनुवाकः) ।
जयाख्यमन्त्रतद्धोमाश्चतुर्थे समुदीरिताः । अथ पञ्चमेऽभ्याताना उच्यन्ते । तन्मन्त्रपाठस्तु — अग्निर्भूतानामिति । अयमग्निर्भूतानां प्राणिनामधिपतिः स्वामी । स तादृशो मामवतु । अधिपतिः स माऽवत्वित्येतत्पदचतुष्टयं वक्ष्यमाणेषु षष्ठ्यन्तेषु वाक्यशेषत्वेनानुवर्तते । ज्येष्ठानां वृद्धतमानां लोकपालानामिन्द्रोऽधिपतिः । यमशब्देनाग्निविशेष उच्यते । ‘अग्निर्वाव यम’ इति श्रुत्यन्तरात् । अग्निवायुसूर्यचन्द्रबृहस्पतयः पृथिव्यन्तरिक्षद्युनक्षत्रब्राह्मणजातीनामधिपतयः प्रसिद्धाः । मित्रः सत्यवचनानामधिपतिः । वरुणः कूपादिगतानां स्थिराणा (मपा) मधिपतिः । समुद्रः स्रोत्यानां नदीप्रवाहगतानामधिपतिः । अन्नं साम्राज्यानां सार्वभौमराजभोग्यानां द्रव्याणां स्वामी । अनुवर्त्यमानस्य लिङ्गव्यत्ययं द्योतयितुमधिपति तन्माऽवत्वित्याम्नातम् । सोमसवितृरुद्रत्वष्टार ओषध्यनुज्ञा-पशु-रूपाणामधिपतयः प्रसिद्धाः । विष्णुः पर्वतानां गोवर्धनादीनामधिपतिः । मरुतो गणानामादित्यवस्वादिगणदेवतानां स्वामिनः । अत्रानुषज्यमानस्य वचनव्यत्ययं द्योतयितुमधिपतयस्ते माऽवन्त्वित्याम्नातम् । पितर इत्यादीनि यजुर्मन्त्राणां पदानि । पितृपितामहशब्दौ जीवद्विषयौ । तततामहशब्दौ मृतविषयौ । सषिण्डता तु पुरुषात्सप्तमाद्विनिवर्तते । ततः सप्तमादूर्ध्वा ये विप्रकृष्टास्ते परे । ततोऽर्वाचीनाः संनिकृष्टा अवरे । हे पित्रादयो यूयमिहैव तेषु तेषु विषयेषु मामवत रक्षत । कुत्र कुत्रेति तदुच्यते - अस्मिन्ब्रह्मन्नस्यां ब्राह्मणजातावस्मिन्क्षत्त्रेऽस्यामाशिष्याशासनीये प्रजापश्वादिरूपेऽस्मिन्फलेऽस्यां पुरोधायां पुरस्करणरूपेऽस्मिन्प्राधान्येऽस्मिन्कर्मणि क्रियमाणेऽस्मिन्ननुष्ठानविशेषेऽस्यां देवहूत्यां देवान्प्रति यदेतदस्मदीयमाह्वानं तस्मिन्नाह्वाने । एतेषु सर्वेषु विषयेषु मां रक्षत । पितर इत्यादिके चरममन्त्रे समाम्नातमस्मिन्ब्रह्मन्नित्यादिकं पूर्वेषु सप्तदशमन्त्रेष्वनुषञ्जनीयम् । तथा सत्यग्निर्भूतानामधिपतिः स माऽवत्वस्मिन्ब्रह्मन्निन्द्रो ज्येष्ठानामधिपतिः । स माऽवत्वस्मिन्ब्रह्मन्, इत्येवं सर्वत्र पाठः संपद्यते ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे चतुर्थप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥

अभ्यातानाभिधा मन्त्राः पञ्चमे समुदीरिताः ।
अथ षष्ठे तद्धोमविधिरभिधीयते । तत्र होमं विधातुं प्रस्तौति —
देवा वै यदिति । अभ्यातानाख्यान्मन्त्रान्कर्मसमृद्धिहेतून्दृष्ट्वा तानाभिमुख्येऽऽनीय देवा अजुहवुस्तेन देवानां कर्म समृद्धमासीत् । तद्धोमाभावादसुराणां कर्म न समृद्धम् । अथ विधत्ते —
येन कर्मणेति । ईर्त्सेदृद्धिमिच्छेत् । ऋध्नोत्येव समृद्धिं प्राप्नोत्येव ।
अथ भातृव्यवतः समुच्चितानामभ्यातानजयराष्ट्रभृतां होमं विधत्ते —
यद्विश्वे देवा इति । यस्मात्सर्वेऽपि देवाः पूर्वोक्तप्रकारेणभ्यातानमन्त्रान्समभरन्संपादितवन्तस्तस्मादेते वैश्वदेवा इत्युच्यन्ते । यस्मात्प्रजापतिर्जयानिन्द्राय प्रायच्छत्तस्मात्ते प्राजापत्या इत्युच्यन्ते । यस्मादुपरितनानुवाकाम्नातै राष्ट्रभृत्संज्ञकैर्मन्त्रैरसुरसंबन्धि राष्ट्रं देवाः स्वीकृतवन्तस्तस्मात्ते राष्ट्रभृत उच्यन्ते । देवास्तु प्रथममभ्यातानैरसुरान्वशीकृत्य जयैर्विनष्टैश्वर्यान्कृत्वा राष्ट्रभृद्भिस्तदीयं निवासस्थानमपहृतवन्तः । अभ्यातन्वत एभिरित्यभ्यातानत्वम् । जयन्त्येभिरिति जयत्वम् । राष्ट्रं भ्रियते स्वीक्रियत एभिरिति राष्ट्रभृत्त्वम् । समुञ्चितैरेतैस्त्रिभिर्होमैर्देवा विजयिनोऽभवन् । असुरास्तु पराभूताः । अथ विधत्ते —
यो भ्रातृव्यवानिति । अभ्याततिर्वशीकारः । जयोऽन्यदीयैश्वर्यनाशनम् । राष्ट्रादानं तदीयभूमेरपहारः । तत्त्रिविधफलसिद्ध्यर्थं त्रिविधान्समुच्चित्य जुहुयात् ।
अत्र मीमांसा ।
तृतीयाध्यायस्य चतुर्थपादे चिन्तितम् —
येनेर्त्सेत्कर्मणा तत्र जयहोमोऽखिलार्थता । वैदिकेष्वेव वा सर्वशेषोऽसंकोचकत्वतः ॥
होम आहवनीये स्यात्कृष्यादिषु न सोऽस्ति ह्रि । तेनानारभ्यपाठेऽपि वैदिकेष्वेव ते जयाः ॥
अनारभ्य श्रूयते – “येन कर्मणेर्त्सेत्तत्र जयाञ्जुहुयात्तद्वद्राष्ट्रभृतो जुहोत्यभ्यातानाञ्जुहोति” इति । ईर्त्सेदृद्धिमिच्छेत् । चित्तं च स्वाहेत्यादयो जयाः । ऋतापाडित्यादयो राष्ट्रभृतः । अग्निर्भूतानामित्यादयोऽभ्यातानाः । तत्र वैदिककर्मणीव लौकिककृष्यादिकर्मण्यप्यृद्धेरिष्यमाणत्वात्संकोचे कारणाभावाज्जयादिहोमः सर्वशेष इति चेन्मैवम् । यदाहवनीये जुह्वति तेन सोऽस्याभीष्टः प्रीत इति वाक्येन होममुद्दिश्याऽऽहवनीयविधानात्कृष्यादौ तदभावाद्वैदिकेष्वेव जयादिहोमः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे चतुर्थप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥

(अथ तृतीयाष्टके चतुर्थप्रपाठके सप्तमोऽनुवाकः) ।
अभ्याताना जयैः राष्ट्रभृद्भिः षष्ठे तु वर्णितः ।
अथ सप्तमे राष्ट्रभृन्मन्त्रा उच्यन्ते । तेषां विनियोगविशेषमग्निकाण्डे सूत्रकारो दर्शयति - “षड्मिः पर्यायैर्द्वादश राष्ट्रभृतो जुहोत्यृताषाडृतधामेति पर्यायमनुद्रुत्य तस्मै स्वाहेति प्रथमाहुतिं जुहोति ताभ्यः स्वाहेत्युत्तरामेवमितरान्पञ्च पर्यायान्विभजति भुवनस्य पत इति पर्यायाणां सप्तम्याहुतीनां त्रयोदश्येतेन व्याख्यातं भुवनस्य पत इति रथमुखे पञ्चाऽऽहुतीर्जुहोति दश वा इति । अत्राऽऽद्येषु प्रथमं पर्यायमाह - ऋताषाडिति । ऋतेन सत्येन सह सर्वमनृतमभिभवतीत्यृताषाट् । ऋतशब्दवाच्यं धाम स्थानं यस्यासावृतधामा । तादृशोऽग्निनामकः कश्विद्गन्धर्वस्तस्यौषधिदेवता अप्सरसः प्रियभार्याः । ऊर्ज इति तासां नामधेयम् । ऊर्जयन्ति बलवन्तं प्राणवन्तं वा कुर्वन्तीत्यूर्जः । स गन्धर्व इदं ब्रह्म बृहत्क्षत्रं फलसमर्थमिदं कर्म हविर्वा पातु रक्षतु फलपर्यवसन्नं करोतु । ताश्चाप्सरस इदं ब्रह्म क्षत्रं च पान्तु तथा रक्षन्तु । तस्मै गन्धर्वाय स्वाहा हुतमस्तु । ताभ्योऽप्सरोभ्य इदं स्वाहा हुतमस्तु ।
अथ द्वितीयपर्यायमाह — सँहितो विश्वसामेति । संधीयते सर्वमनुसंधीयतेऽनेनेति संहितः । विश्वानि सामान्यवसितान्यस्मिन्निति विश्वसामा । तादृशः सूर्यनामकः कश्चिद्गन्धर्वस्तस्य मरीचिदेवताः प्रिया भार्याः, आयुव इति तासां नामधेयम् । आयन्ति शीघ्रमागच्छन्तीत्यायुवः । नाम स इदं ब्रह्मेत्यादिकं सर्वत्रानुषञ्जनीयम् ।
अथ तृतीयपर्यायमाह - सुषुम्नः । सूर्यरश्मिरिति । शोभनं सुम्नं सुखमस्येति सुषुम्नः । सूर्यस्येव रश्मिर्यस्यासौ सूर्यरश्मिः । चन्द्रमोनामकः कश्विद्गन्धर्वस्तस्य नक्षत्रसदृशानि शरीराणि भार्यास्ताश्च बेकुरीनामिकाः । चित्तविकारहेतुत्वाद्बेकुरय इत्युच्यन्ते ।
अथ चतुर्थपर्यायमाह — भुज्युः सुपर्ण इति । भुनक्ति पालयति विश्वमिति भुज्युः । पक्षिवदाकाश(वश)गामित्वात्सुपर्णस्तादृशो यज्ञनामकः कश्चिद्गन्धर्वस्तस्य च दक्षिणारूपा देवता भार्यास्ताश्च स्तूयन्त इति व्युत्पत्त्या स्तवा इत्युच्यन्ते ।
अथ पञ्चमं पर्यायमाह — प्रजापतिरिति । प्रजानां पालकः प्रजापतिः । विश्वं कर्म करणीयं यस्यासौ विश्वकर्मा । तादृशो मनोनामकः कश्चिद्गन्धर्वस्तस्य च ऋक्सामदेवता भार्यास्ताश्च सौन्दर्यं वहन्तीति वह्नय इत्युच्यन्ते ।
अथ षष्ठं पर्यायमाह — इषिरो विश्वव्यचा इति । इष्यमाणवस्तुसंपन्नत्वादिपिरः । विश्वं विशेषेणाञ्चति गच्छतीति विश्वव्यचाः । तादृशो वातनामकः कश्चिद्गन्धर्वस्तस्याब्देवता भार्यास्ताश्च हर्षयुक्तत्वान्मुदा इत्युच्यन्ते ।
अथ पर्यायेषु सप्तमं त्रयोदशाहुत्यर्थं मन्त्रमाह — भुवनस्य पत इति । भुवनस्य सर्वलोकस्य पते हे पालक यस्य तवोपर्यन्तरिक्षद्युलोकयोरिह च पृथिव्यां गृहाः सन्ति स त्वं नोऽस्मभ्यमज्यानिं रास्व वयोहान्यभावं देहि । तथा रायस्पोषं धनपुष्टिं सुवीर्यं शोभनपुत्रं संवत्सरीणां स्वस्तिं संवत्सरजीवनपरिमितां समृद्धिं च देहि ।
अथोत्तरस्मिन्पर्यायपञ्चके प्रथमं पर्यायमाह — परमेष्ठ्यधिपतिरिति । परमे सर्वोत्तमस्थाने तिष्ठतीति परमेष्ठी । अधिकत्वेन फलपाताऽधिपतिः । तादृशो मृत्युनामकः कश्चिद्गन्धर्वस्तस्य विश्वाभिमानिन्यो देवता भार्यास्ताश्च भवन्ति सर्वदा वर्तन्ते इति भुव इत्युच्यन्ते ।
अथ द्वितीयं पर्यायमाह — सुक्षितिः सुभूतिरिति । शोभना क्षितिर्भूमिर्यस्यासौ सुक्षितिः । समीचीननिवासस्थान इत्यर्थः । शोभना भूतिरैश्वर्यं यस्यासौ सुभूतिः, भद्रं कल्याणं यजमानाय करोतीति भद्रकृत् । सुवः स्वाधीनः स्वर्गलोकोऽस्यास्तीति सुवर्वान् । तादृशः पर्जन्यनामकः कश्चिद्गन्धर्वस्तस्य च विद्युद्देवता भार्यास्ताश्च दीप्यमानत्वाद्रुच इत्युच्यन्ते ।
अथ तृतीयं पर्यायमाह — दूरेहेतिरिति । दूरेऽप्यवस्थितस्य प्रहारसाधनं हेतिर्यस्यासौ दूरेहेतिः । नामश्रवणमात्रेण सुखनिवर्तकत्वादमृडयस्तादृशो मृत्युनामकः कश्चिद्गन्धर्वस्तस्य प्रजाभिमानिदेवता भार्यास्ताश्च बिभ्यति मृत्योरिति भीरुव इत्युच्यन्ते ।
अथ चतुर्थं पर्यायमाह – चारुः कृपणकाशीति । रमणीयाचरणोपेतत्वाद्रमणीयशरीरत्वाद्वा चारुः । कृपणेष्विन्द्रियार्थेषु प्रकाशयति मनो दीपयतीति कृपणकाशी । तादृशः कामनामकः कश्चिद्गन्धर्वस्तस्य विषयाभिलाषनिमित्तचित्तक्लेशाभिमानिदेवता (आधयः?) भार्यास्ताश्चापेक्षितविषयप्राप्त्यभावेन जनाञ्छोकयुक्तान्कुर्वन्तीति शोचयन्तीरित्युच्यन्ते । नाम स इदं ब्रह्मेत्यादेस्तु सर्वत्रानुषङ्गद्योतनाय पुनः पाठः ।
अथात्र पञ्चमं पर्यायरूपं द्वाविंशाहुतिसाधनं मन्त्रमाह — स नो भुवनस्येति । भुवनस्य सर्वलोकस्य हे पते पालक यस्य तवोपरितनलोकद्वये पृथिव्यां च गृहाः सन्ति स त्वं नोऽस्मभ्यमुरु विपुलं शर्म सुखं यच्छ । तथैवास्मै ब्रह्मणे ब्राह्मणजातियुक्ताय क्षत्त्राय समर्थाय च महि शर्म यच्छ महत्सुखं देहि ।
अत्र विनियोगसंग्रहः —
यथा त्रयोदश जयाश्चित्तं चेत्यादयः श्रुताः । अग्निरभ्यातानमन्त्रा अष्टादश यथाश्रुताः ॥ ऋता राष्टृभृतस्तद्वद्द्वाविंशतिरुदीरिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥

(अथ तृतीयाष्टके चतुर्थप्रपाठकेऽष्टमोऽनुवाकः) ।
अनुवाके सप्तमेऽस्मिन्नुक्ता राष्ट्रभृतोऽखिलाः ।
अथाष्टमे तेषां काम्याः प्रयोगा उच्चन्ते । तत्रैवं प्रयोगं विधत्ते —
राष्ट्रकामयेति । ये एते पूर्वानुवाकोक्ता राष्ट्रभृत्संज्ञका मन्त्रास्तेषां राष्ट्रप्राप्तिहेतुत्वाद्राष्ट्रमित्यपचर्यते । अतस्तन्मन्त्रहोमलक्षणेन राष्ट्रेणैव यजमानार्थ मध्यर्युर्भूमिविशेषरूपं राष्ट्रं संपादयति । स च यजमानो राष्ट्रं प्राप्नोत्येव । अतो राष्ट्रमाप्तिकामयजमानर्थमेते मन्त्रा होतव्याः ।
अथ प्रजापश्वादिनाऽऽत्मोत्क्रर्षार्थं तैरेव मन्यैर्होमं विधत्ते —
आत्मने होतव्या इति । मन्त्राणां पूर्ववत्साधनत्वाद्राप्ट्रत्वम् । सत्यपि भूगिविशेषरूपे राष्ट्रे प्रजापशुश्रैष्ठ्यानामभावे सति भोगासंभवाद्भूमिवद्भोगहेतुत्वेन प्रजादीनाप्रपि राष्ट्रत्वम् । अतो राष्ट्ररूपमन्त्रेण राष्ट्रेण प्रजादिरूपात्मोत्कर्षरूपं राष्ट्रमवरुन्धे । तथा सति समानानामन्येषांस्वयमेवातिशयेन निवासहेतुर्भवति । अथ ग्रामप्राप्तये होमं विधत्ते —
ग्रामकामायेति । स्वेन सहोत्पन्ना ज्ञातय एकग्रामनिवासिनश्व सजातास्तेषु सर्वेषु सत्सु राष्ट्रं संपूर्णं भवतीति तेषां राष्ट्रत्वमते मन्त्ररूपेण राष्ट्रेण सजातरूपं राष्ट्रभवरुन्धे ग्रामस्वामी भवत्येव । तस्य होमस्य देशविशेषं विधत्ते —
अधिदेवन इति । अविदीव्यन्ति द्यूनेन क्रीष्ठन्त्यस्मिस्थान इत्यधिदेवनं तत्र होमे सति तस्मिन्नेव स्थाने ये सजाताः समागतास्तान्सवीनवीनान्करोति । ते चाधीनाः सन्त एव सेवन्ते । अथ बलालामाय होमं विधत्ते —
रथमुख् इति । रथस्य यदीषाग्रं तदग्नेरुपरि धारयित्वा तत्र जुहुयात् । राष्ट्रभृन्मन्त्राणां रथस्य च क्रतुहेतुत्वादोजस्त्वम् । अतस्तदुभयरूपेणौजसैव यजमानस्य बलमधीनं करोति । ततो बलवान्भवत्यवे ।
अथ राष्ट्राद्भ्रष्ट्रस्य तत्प्राप्तये होमं विधत्ते —
यो राष्ट्रादिति । अस्व राष्ट्रभ्रष्टस्य सतोऽपि यावन्तो रथाः सन्ति तान्सर्वान्नरैर्योजयध्वमिति प्रैषं ब्रूयात् । अनेन प्रैषेण होमेन चास्मै भ्रष्टाय राष्ट्रं संपादयति ।
यदा लब्धमपि राष्ट्रमिष्टसाधनसमर्थं न भवति तदा प्रयोगविशेष विधत्ते-
आहुतयो वा इति । न कल्पते भोगे क्षमं यस्य न भवति, एतस्य पूर्वा आहुतयः स्वकार्यक्षमा न भवन्ति तदानीमयं स्वकीयरथस्य यद्दक्षिणं चक्रं तदग्नेरुपरि धारयित्वा तस्य चक्रस्य रन्ध्राभिमुखत्वेन जुहुयात् । तदानीमस्याऽऽहुतीः कल्पयत्वेव स्वकार्यक्षमा एव करोति । ताश्व क्षमाः सत्यो राष्ट्रं भोगे क्षमं कुर्वन्ति । अतस्ता आहुतीरनु राष्ट्रं क्षमं भवतीत्युच्यते ।
अथ युद्धे प्रवृत्ते जयार्थिनो होमं विधत्ते —
सह्ग्रामे संयत्त इति । ये युद्धं प्राप्नुवन्ति एते राष्ट्रे निमित्तभूते सति कलहं कुर्वान्त । तेषा च कलहं कुर्वतां मध्ये प्रथमं होमे प्रवृत्तस्य यस्यैता राष्ट्रभृतो जुह्वति स एव समर्थो भवति न त्वन्यः । समर्थत्वाच्य तं सङ्ग्रामं जयति । श्रौताग्निं प्रज्वलयितुं काष्टविशेषं विधत्ते —
मान्धुक इघ्म इति । मधुकवृक्षस्य संबन्धी काठविशेष मान्धुकः । तेन प्रत्वीमत्रं पृथगग्निमुपसमाधाय जुहुयात् । तत्र मधूककाष्ठजन्मा येऽङ्गारास्त एवास्य यजमानस्य विरोधिपुरुषाणां सेनां प्रत्येकं वेष्टयन्ति । परकीये कटकेऽग्निवाधा जायते । पुरुषाणां वा शरीरेषु ज्षरदिसंतापो जायत इत्यर्थः ।
अथोन्मादपरिहाय होमं विधत्ते —
य उन्माद्येति । यः पुरुष उन्मत्ते भवत्येतं गन्धर्वाप्सरत्त एवोन्मत्तं कुर्वन्ति । राष्ट्रभृन्मन्त्राश्व गन्धवाष्सरसस्तद्देवत्यत्वाद्वन्धवर्वानुद्दिश्य तस्यै स्वाहेति अप्सरस उद्दिश्य ताभ्यः स्वाहेति जुहुयात् । तेन होमेनोभयविधानुन्मादयितृञ्शान्तान्करोति ।
अत्रापि पूर्ववदग्निं प्रज्वलयितुं काष्ठविशेषान्विकाल्पितान्दर्शंयति —
नैयग्रोध औदुम्बर इति । एते न्यग्रोधादयः वैशाब्दो लोकप्रसिद्धिं दर्शमति । अभिचाराऱ्ततयैतद्धोतं विधत्ते —
अमिचरतेति । प्रतिलोममन्त्यादिक्रमेण अस्याभिचरितस्य प्राणान्प्रतीचः प्राणाषानादीन्विपरीतस्थानैः प्रतियौति प्रतिकूलत्वेन योजयति । ततस्तमनाया सेनैष हिनस्ति । देशं विधत्ते —
स्वकृत इरिण इति । ऊयररूपायां सुषिररूपायां वा भूमावभिचारदेवतायाः स्वस्थाने तमेनं शत्रुं निर्ऋत्या तया देवतया ग्राहयति । वाचः क्रूरेण वषट्कारेणैनं प्रकर्षेण वृश्वति च्छिनत्ति । ततो झटित्यार्तो भवति ।
शत्रोरन्नाद्यस्यान्नदनशक्तेश्व हरणकामत्य कर्मविशेषं विधत्ते —
यस्य कामयेतेति । सभायामत्तानशरीरो निपतितः संस्तृणानि भुवनस्यपति इति संगृण्हीयातु* । तत्र मन्त्रसंख्यां विधत्ते —
षड्भिर्हरतीति । षड्भिः स नो भुवनस्यं पत इत्यन्तैः ।
परकृतभयवतस्तत्परिहाराय कर्मान्तरं विधत्ते —
यो ज्येष्ठबन्युरिति । ज्येष्ठबन्धुः सत्यौऽपभूतः स्वयं ततो निकृष्टस्तत्पराभूत इति यावत् । तं स्थल उच्चप्रदेशेऽवसाम्योपरवेश्य तस्मै तत्फलसिद्धये होताब्या राष्ट्रभृतः । स्थलं च वर्ष्म शरीरमुभवविधेन, वर्ष्मणैव यजमानं स्वसमानानां परुषाणां शरीरस्थानीयं करोति । असौ शरीरवत्प्रधानभूत इतरे हस्तादिवदुपसर्जनभूता यथा भवन्ति तता करातीत्यर्थः । शरावसंख्यां प्रशंसति —
त्ततुःशराव इति । दिशां चतुष्टयात्तत्संख्यया तत्र प्रतिष्ठा युक्ता ।
पाकसाधनद्रव्यं विधत्ते —
क्षीरे भवतीति । रु च स्वादुत्वम् ।
पच्यमानर्स्येदनस्यापव्कत्वपरिहारार्थं दर्व्यो द्धरणं विधत्ते —
उद्धरतीति । शृतत्वाय पव्कत्वाय । पक्वस्य घृतालुतत्वं विधत्ते —
सर्पिष्वान्भवतीति । हुतशेषस्य ऋषिसमानैरेवान्यैः प्राशनं विधत्ते —
चत्वार आर्षेया इति । चतुर्दिक्संबन्धिवन्हिस्थानीयाश्वत्वारो ब्राह्मणा अतस्तैः प्राशितमग्नावेव हुतं भवति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
चतुर्थप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥

(अथ तृतीयाष्टके चतुर्थप्रपाठके नवमोऽनुवाकः) ।
अष्टमे राष्ट्रभृद्धोमास्तत्तत्कामाय वर्णिताः ।
अथ नवमे देविकाख्यानां राजसूयप्रकरणोत्पन्नानां धात्रे पुरोडाशमित्वदीनां पञ्चहविषामुत्कर्षं कृत्वा बहुविधकाम्यप्रयोगो निरुप्यते ।
तत्रैकं प्रयोगं विधत्ते —
देविका निर्वपेदिति । दीव्यन्त्यपेक्षितं फलविशेषं प्रकाशयन्तीति धात्रे इत्यादयः पञ्चेष्टयो देविकाः । अनुमत्यादयः स्त्रीरूपत्वाद्देव्यस्तदीयत्वादेता देविकाः ।
गायत्री वा अनुमतिरित्यादिच्छन्दोरूपत्वमनुमत्यादीनामुच्यते तद्द्वाता देविका अपि च्छन्दांस्येव । यथा छन्दांसि फलहेतुत्वात्सुखकराणि एवं प्रजा अपि सुखहेतुत्वाच्छन्दःसमानाः । अतो देविकारूपैश्छन्दोभिरेव यजमानार्थं प्रजा उत्पादयति ।
धात्रादीनां पञ्चानां प्रजोत्पत्तौ दृश्यगुणयोगे प्रशंसति —
प्रथमं धातारीमति । पञ्चानां देवानां मध्ये धातारं प्रथमं करोतीति यत्तेन यजमानं स्वपत्न्या सह मिथुनी करोत्येव । अनुमतिरस्मै यजमानाय तन्मिथुनीकरणमनुमन्यत एव राका प्रजां ददाति । सिनीवाली गर्भस्थां प्रजामुत्पादयति । उत्पन्नासु प्रजासु कुहूर्तेवताद्वारेण वाचं दधाति । संभाषणाभ्यासं करोतीत्यर्थः । अथ फलान्तराय विधत्ते –
एता एव निर्वपेदिति । प्रथमेन धात्रा गावादिषु वीजावापः र्सपद्यते । प्रजातानां पशूनां तृणोकदातिपोषणेन प्रतिष्टापनं कुहूवा क्रियते । शेषं पूर्ववत् ।
फलान्तराय विधत्ते —
एता एव निर्वपेदिति । अनुमतिराकाभ्यामूर्ध्वं सिनिवालीकुहभ्यामधस्ता न्मध्यं तत्र धातारं स्थापयेत् । तेनैनं यजमान ग्रामस्य मध्य एवाऽऽधिपत्ये स्थापयति । फलान्तराय विधत्ते —
एता एव निर्वपेदिति । यस्य पुरुषस्य ज्योक्चिरमामयाते व्याधिवाधा भवत्येनं पुरुषं छन्दांत्यभिमन्यन्तेऽभिक्रुध्यन्ति । अतो देविकानिर्वापतुष्टैश्छन्दोभिरेवैनं रोगरहितं करोति । अत्रापि पूर्ववद्धातारं मध्यतः कुर्यात् । यस्य दीर्घ व्यधिस्तस्योदरमध्ये यत्किंचिदक्लृप्तमसामर्थ्यं भवति । अतस्तेन धातुर्मध्यस्यापनेनास्य रोगिण उदरमध्य एव कल्पयति सामर्थ्यं जनयति ।
अथ ज्योतिष्टोमादियज्ञप्राप्तये विधत्ते —
एता एव निर्वपेदिति । र्य पुरुषं केनापि विघ्नेन यज्ञो न प्राप्नोति, एनं (तं) पुरुषं यज्ञसाधनानि च्छन्दांस्यंव प्रथमं न प्राप्नुवन्ति । तत्र धातुः प्रथमं स्थापने सत्यनुकूलत्षेत प्रथमत एव यजमानार्थे छन्दांसि धृतानि भवन्ति । छन्दःस्वनुकूलेषु सत्सु यज्ञ एनं प्राप्नोति । प्राप्तयज्ञस्योत्तरयज्ञसिद्ध्यर्थं विधत्ते —
एता एव निर्वपेदिति । यः पुरुष ईजानः पूर्वमिष्टवान्भवति, एतस्य च्छन्दांसि पूर्वयज्ञे व्यापृतत्वाद्धृतसारणीव भवन्ति । तत्र चरमस्थाने धातुः करणेनोपरिष्टात्करिष्यमाणाज्ञज्ञे छन्दास्यगतसाराणि संपादयति । तत उत्तरो यज्ञ एनमुपनमति पुनरपि प्रतिष्ठां गच्छतीत्यर्थः अथ मेधाप्राप्तये विधत्ते —
एता एव निर्वपेदिति । ग्रन्थधारणसक्तिर्मेधा । एतद्वाक्यं यज्ञप्राप्तिवाक्यवद्व्याख्येयम् । अथ कान्तिप्राप्तये विधत्ते —
एता एव निर्वपेदिति । कान्ते प्रियत्वेन च्छन्दःसाम्यम् । अत्र चरुणां चतुर्णां पाकसाधनं क्षीरं धातुर्मध्यतः करणेन कान्तेर्मध्यतः एव यजमानं स्थापयति । गायत्र्यादिच्छन्दोरूपेणानुमत्यादिदेवताः प्रशंसति —
गायत्री वा इति । गायत्रादिच्छन्दांसि यथाऽभीष्टं साधयन्त्येवमनुम-त्यादीनामभीष्टसाधनत्वाद्वायत्र्यादिरूपत्वम् । अनेनैव न्यायेन पूर्वपक्षादिरूपत्व दर्शयति —
पूर्वपक्षो राकेति । पूर्ण निशाकर इत्युक्तत्त्रात्पूर्णवन्दमण्डलोपेता राका । सा च शक्लपक्षस्वरूपा । नष्टेन्दुकला कुडूरित्युक्तवाञ्चन्द्रकलालेशेनापि हीना कुहूः । सा च कृष्णपक्षस्वरूपा । सा दृष्टेन्दुः सिनीवालीत्युक्तत्वाच्चतुर्दशीमिश्रिता कृष्णा पञ्चदशी सिनीवाली । सा चात्रामावास्यारूपत्वेन विविक्षिता । कलाहीने साऽनुमतिरित्युक्तत्वाच्चतुर्दशीमिश्रा शुक्लपञ्चदश्यनुमतिः । सा चात्र पोर्णमासीतिथिरूपत्वेन विवक्षिता । उक्तयोः पक्षयोस्तिथ्योश्च निष्पादको यश्चन्द्रमाः सोऽत्रधातृरूपेण विवक्षितः ।
इत्थं पूर्वपक्षादिरूपेण प्रशस्य पुनर्वस्वादिरूपेण प्रशंसति —
अष्टौ वसव इति । या अनुमत्यादयो गायत्र्यादिभावमापादितास्तासां संख्यासाभ्याद्वस्वादिरूपत्वम् या कुहूरनुष्टुप्त्वेन निरूपिता सा प्रजापतिरूपा । ‘अनुष्टुभो वा इमानि भूतानि जायन्ते’ इति सशाखान्तरे प्रजापतिवदनुष्टुभः सर्वोत्पादकत्वश्रवणात् । वषट्कारवन्मुख्यत्वेन धातुस्तद्रूपत्वम् । प्रशंसां निगमयति —
एतद्वै देविका इति । यत्प्रशंसार्थं गायत्री वा अनुमतिरित्यादिनिरूपणमेतदेक देविकानां सर्वच्छंदोरूपत्वं सर्वदेविकारूपत्वं वषट्काररूपत्वं च ।
अथ पञ्चानामेतेषां त्रेधा निर्वापं विधत्ते —
ता यत्सह सर्वा इति । ता देविकाः पञ्चापि सह निरूप्ताः सत्य एनं यजमानं प्रदग्धुमीश्वराः । तस्मादनुमत्या राकायाश्व चरुद्वयं निरुप्य तततस्तृतीयत्वेन धातुः पुरोडाशं निर्वषेत । तत ऊर्ध्वं सिनीवाल्याः कुह्वाश्व (च) रुद्वयं निर्वपेत् । तथा सत्येनं यजमानं देविका न प्रदहन्ति । अथ यस्यै कामाय निरुप्यन्तेतं काममाभिद्रेवताभिः प्राप्नोत्येव ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे
चतुर्थप्रपाठके नवमोऽनुवाकः ॥ ९ ॥

( अथ तृतीयकाण्डे चतुर्थप्रपाठके दशमोऽनुवाकः) ।
नवमे देविकाख्यानि हर्वीष्युक्तानि विस्तरात् ।
अथ दशमे प्रयाणं करिष्यताऽग्निहात्रिणोऽग्निसमारोपणमभिवीयते ।
कल्पः — “सगृहः प्रयास्यन्वास्तोष्पतीयं जुहोति वास्तोष्पत इत्यनुद्रुत्योत्तर य गार्हपत्ये जुहोति” इति । प्रथममन्त्र पाठस्तु—
वास्तष्पते प्रतीति । अग्निहोत्रिणो गार्हपत्याग्निरेव गृहस्थानीयः । तेन सह यदा प्रयास्याति तदानीं पत्नीसहितोऽग्निं गृहीत्वा प्रयास्यन्नुत्तरेण मन्त्रेण होतुमिमां पुरोनुवाक्यामनुब्रूबात् । तस्य मन्त्रस्यायमर्थः वास्तोरग्निहोत्रनिवासस्थानस्य गृहस्य ह्रे पते पालक गार्हपत्यास्मान्प्रतिजानीहि ग्रामान्तर यियासून्प्रतिबुध्यस्व । ततोऽमाकं स्वावेशःऋ सुखेनऽऽवेशयिता वासयिता भव । अनमीवो रोगनिवारकश्व भव । यक्तार्यमुद्दिश्य त्वां वयमीहे प्राप्नुमः प्रार्थयामह इत्यर्थः । नोऽस्मदर्थं तत्कार्यं चुषस्व प्रीतिपूर्वकं सेवस्व । ततोऽस्माकं द्विपदे मनुष्याय चतुष्पते पशवे च शमेधि सुखे हेतुर्भव । द्विपदे शं भव चतुष्पदे च शं भवेति वाक्वभेदाय शमित्यस्य द्विःपाठः । द्वितीयमन्त्र पाठस्तु —
वास्तोप्पते शग्भयेति । हे वास्तोष्पते संसदा त्वदीयया सभया सक्षीमहि वयं संसक्ता भूयास्म । कीदृश्या संसदा, शग्मया सर्वार्थसाधनशक्तया । रण्वयां रमणीयया । गातुमत्या गातुर्गतिरवगतिस्तद्युक्तया सर्वज्ञयेत्यर्थः । त्वं नोऽस्माकं योगे योगनिमित्तं वरमावः सम्यग्रक्ष । उतापि च क्षेमे क्षेमनिमित्तं सम्यग्रक्ष । अलब्धस्यापेक्षितस्य लाभो योगः । लब्धस्य सर्वार्तस्य परिपालनं क्षेमः । यूयमिति पूजार्थं बहुवचनम् । मे यूयं नोऽस्मान्स्वस्तिमिर्नानाविधश्रेयोभिः पात रक्षत । अथैनं होमं विधातुं प्रस्तौति —
यत्सायं प्रातरिति । अग्निहोत्री कालद्वयेनाग्निहोत्रं जुहोतीति यत्ताः स्रवा आहुतिरूपा इष्टका एव यजमान उपधत्ते । यद्यप्यत्र मृन्मया इष्टका न सन्ति तथाऽपि यः पुरु, आहिताग्निर्भवति एतस्याहोरात्राण्येवेष्टकाः संपद्यन्ते । अतो यदि सायंप्रातर्नियमेन जुहोति तदानीमनुष्ठानेनाहोरात्राण्येव प्राप्तकालारूपा इष्टकाः कृत्वोपधानं कृतवान्भवति । पुनः प्रकारान्तरेण प्रस्तौति —
दश समानत्रेति । समानत्रेकत्र दश दिनानि स्थित्वा यदाऽग्निहोत्रं जुहोति तदा दशसंख्यासामान्याद्विराट्संपद्यतेऽग्निहोत्री विराजमेव प्राप्य तां विराजमेवेष्टकां कृत्वोपधानं कृतवान्भवति । अपि च विराजि लब्धायामग्निष्टोमयज्ञं प्राप्नोति । अत एव सप्तमकाण्डेऽग्निष्टोमप्रस्तावे विराजमभिसंपद्यत इति वक्ष्यते । तदेवमस्याग्निहोत्रिणश्वचित्यश्वचित्यो भवति । त्रिविधाश्वचित्याग्नयः संपद्यन्ते । सायंप्रातर्होमाहुति-रूपाभिरिष्टकामिश्चित । एकोऽग्निः । अहोरात्रकालरूपाभिरिष्टकाभिश्चितो द्वितीयोऽग्निः । विराड्रूपेष्टकया चितस्तु तृतीयोऽग्निः । एवमस्य विविधचित्याग्निसंपत्तिः इदानीं विधत्ते —
तस्माद्यत्रेति । यस्मादेकत्र दशाहोरात्रहोमेन विराट्संपत्तिस्तस्माद्यत्र दश दिनान्युषित्वा पश्वादग्निहोत्री प्रयाति स देशो यज्ञभूमिस्ततोऽर्वाचनिं कालं यत्र वसति सेयमयज्ञभूमिरेव । अतो दशरात्रिरेकत्रोषित्वा यत्पश्वात्प्रयाणं तद्धोमति मित्तम । तस्मिन्होमे रुद्वशब्दामिधेयो मार्ह+त्याग्निदेवता । तस्य वास्तोष्पतित्वात् । एवं सति यदि वास्तोष्पतीयहोममकृत्वा प्रयाणे कुर्यात्ततो गार्हपत्योऽग्निः क्रूरो श्रूत्वा यजमानमनूत्थाय हन्यात् । अतस्तत्परिहाराय प्रमाणकाले वास्तोष्पतीयं
जुहुयात । तेन होमभागं दत्त्वा तगमग्निं शान्तं करोति । ततो यजमानो न म्रियते । प्रयाणार्थस्य शकटस्य दक्षिणबलीवर्दयोजतादूर्ध्वं सव्यबलीवर्दयोजनात्प्रगेव होमावसर इत्येतद्विधत्ते —
यदुक्ते जुहूयादिति । यदि बलीवर्दद्वये युक्ते सति पश्वाज्जुहुयात्तदा तावतैव वास्तुर्यज्ञदेशः प्रयातो भवति । तस्मिन्प्रयाते सति अयज्ञदेशे लौकिके यथां होमस्तथैतत्स्यात् । तर्ह्ययुक्ते बलीवर्दद्वये जुहोत्विति चेत् । तदप्यसंगतम् । यथा क्षेमे सति प्रयाणप्रसङ्गमन्तरेण जुहोति तथैतत्स्यात् । उभयथाऽप्यहुतमस्य वास्तोष्पतीयं भवेत् । प्रयास्याता हि वास्तोष्पतीयं होतव्यम् । उभययोगे हि प्रयाणस्य निष्पन्नत्वान्नायं प्रयास्यन्भवति । तयोरुभयोरप्ययोगे प्रयाणप्रसङ्गस्याभा वान्नेव प्रयास्यान्यवति । तक्षिणबलीवर्द एकस्मिन्नेव युक्ते तु प्रयाणस्य प्रसक्तत्वादनतीतत्वाच्चायं प्रयास्यन्भवति । अतस्तदा वास्तोष्पतीयं जुहुयात् । तथा सत्युभयमेव कृतवान्भवति । प्रयाणस्य प्रसक्तत्वमेकमनिप्पन्नत्वं द्वितीयमित्युभयम् । एनं क्रूरमग्निं तथाविधेन होमेनापरिवर्गमेव शमयति क्षमनीयस्यांसश्य कस्यचिदपि वर्जनमकृत्वा सर्वात्मना शान्तमेनं कृतवान्भवति ।
वास्तोष्पते प्रतिजानीहि वास्तोष्पते शग्मवेत्यत्यस्य मन्त्रद्वयस्य होमाङ्गतः विधत्ते —
यदेकयेति । आश्रावयेत्वादिर्वौषडित्यान्तो मन्त्रसंघो याज्यापुरोनुवाक्ययो सहाये (यो) वर्तते । याज्यापुरोनुवाक्ये तु प्रधानभूते । तत्पूर्वको होमो देवानां प्रियस्तद्रहितस्तु दर्विहोमः । अग्नये स्वाहेत्येवं मन्बमुच्चार्याऽऽश्रावादिभिर्विना केवलया दर्व्या हुयमानत्वात्तादृशो देवानामत्यन्तं प्रियो न भवति । एवं सत्यत्र यद्येकयैव दर्व्या चुहुयात्तदानीमाश्रावणादिमन्त्राणामवकाशाभावेन दर्विहोमः त्यात् । अतो दर्विहोमत्वं मा भूदित्यभिप्रेत्य वास्तोष्पते प्रतिजानीहीत्येतां पुरोवाक्यामनुच्य वास्तोष्पते शग्मयेत्यनया याज्वया जुहुयात । तथा सति देवानात्यन्तप्रियत्वाद्दे [त्सदे] वत्वं भवति ।
अथ क्रमेण शकटे भाण्डस्थापनमरण्योरग्निसमारोहणं च विधत्ते—

यद्धुत आदध्यादिति । यद्यग्निहोत्रे हुते सति पश्वाद्भाण्डानि शकटे
स्थापयेत्तदानीं गृहोपकरणानि भाण्डादीन्युन रुद्रनामकमग्निमपि शकटे स्थापयेत् । ततः शकटं दह्येत । नहि होमादुध्वर्भग्निः पूर्वदेशे तिष्ठति, पूर्वं तु होमार्थं विष्ठत्येव । तस्मादहुतेऽग्निहोत्रे तद्धोमात्प्रागेव भाण्डानि शकटे स्थापयेदिति विधिरुन्नीयते । ज्वलितानि काष्ठान्यङ्गाररूपाण्यवक्षाणशब्दाभिधेयानि । यदि तान्यसंप्रक्षाप्याग्निराहित्यं यथा न भवति तथा शान्तान्यकृत्वा प्रयाणं कुर्यात्तदाकेनचिद्यज्ञविधातः कृतो यथा वा गृहदहनं कृतं तादृशमेव तदङ्गारणामशमनं स्यात् । अतस्तत्परिहारार्थमयं ते योनिरिति मन्त्रेण तमग्निमरण्योः समारोह यत् । एयोऽरण्योः संद्यो वन्हेः कारणं ताभ्बामुत्पन्नत्वात् । ततस्तमग्निं स्वकीये योनौ समारूढं करोति । मन्त्रस्तूपप्रयन्तो अध्वरमित्यनुवाके समाम्नातत्वात्तत्रैव व्याख्यातः ।
अरणिसमारोहणं पाक्षत्रिकदोषग्रस्तत्वादपेक्ष्य स्वात्मनि समारोहणं विधत्ते —
अथो खल्वाहुरिति । अथ केचित्खल्वाहुररण्योः समारूढो यद्यरणिदा हापहारादिना नश्येत्तदा यजमानस्य पूर्वमादितोऽग्निरुत्सीदेदतोऽग्निः पुनराधातव्यः स्यादिति, तस्य दोषस्य परिहाराय यजमानो या ते अग्न इति मन्त्रेण स्वात्मन्यग्निं समारोहयेत । तथैवारण्योरग्न्युत्पादकत्वमेवं यजमानोऽपि शास्त्रीया-ग्नेरुत्पादकत्वाद्योनिर्भवति । तस्माद्यजमाने समारोहितोऽग्नि । स्वकीयोयामेव योन्यां समारोहितो भवति । अयं तु मन्त्रो ब्राह्मणग्रन्थे द्वितीयकाण्ड पश्वमप्रपाठके समाभ्नास्यमानत्वात्तत्रैव व्याख्यास्यते । अत्र विनियोगसंग्रहः —
अग्निहोत्री त सगृहः प्रयास्यञ्जुहुयादद्वयम् ।
वास्तोः पुरोनुवाक्योका याज्या चान्येति ददद्वयम् ॥

अत्र मीमांसा ।

अष्टमाध्यायस्य चतुर्थपादे चिन्तितम्—

दर्विहोमो गुणो नाम वा गुणो दधिहोमवत् ।
गुणासंभवतो लोकवेदयोर्नाम तद्भवेत् ॥

इदमाम्नायते “यदेकया जुहुयाद्दर्विहोमं कुर्यात्” इति । तत्र दर्व्या होमो दर्विहोम इति तृतीयासमासे सति दध्ना जुहोतीत्यादाविवि होमानुवादेन
गुणविधित्वसंभवाद्दर्व्याख्यो गुणो विधीयत इति चेन्मैवम् । न तावल्लोकसिद्धे स्थालीपाकाष्टकादिहोमे दर्विगुणो विधातुं शक्यो लौकिकशिष्टाचारदेव तत्र साधनप्राप्तेः नापि वेदसिद्धऽग्निहोत्रनारिष्ठादिहोमे विहितजुह्वादिबाधप्रसङ्गात् । तस्माद्दर्विहोम इति कर्मनामधेयम् । तत्रैवान्यच्चिन्तितम् —
लोकिकस्येत सर्वस्य नामाऽऽद्योऽम्बष्ठवाक्यतः ।
निमित्तसाम्याद्वेदेऽपि तदुक्ते सर्वनाम तत् ॥
“अम्बष्ठानां दार्विहोमिको ब्राह्मणः” इति श्रु (स्मृ) तावाम्बष्ठस्वामिके स्मार्तहोमे तत्प्रयोगाल्लौकिकस्यैव होमस्य तन्नामेति चेन्मैवम् । दर्व्या होम इति प्रवृत्तिनिमित्तस्य लौकिकवैदिकयोः समानत्वाद्दर्विहोमं कुर्यादिति श्रुत्युक्तेर्वैदिकहो मनामलिङ्गत्वात्सर्वस्य होमस्यैतन्नाम । तत्रैवान्यच्चिन्तितम् —
तद्यजेरपि नाम स्याज्जुहोतेरेव वाऽग्रिमः ।
अविशेषेण मुख्यत्वाज्जुहोतेर्लक्षणाऽन्यथा ॥
तन्नाम चुहोतिचोदानानां यजतिचोदनानां च भवितुमह्रति । कुतः । अवि शेषश्रवणादिति चेन्मैवम् । जुहोतियोदनासु होमशब्दस्य मुख्यत्वात् । यजतिचोदनानां तन्नामत्वे लक्षणा स्यात् । तस्माज्जुहोतिचोदनानामेव ।
तत्रैवान्यच्चित्नितम् —

दर्विहोमे सोमधर्मा अपूर्वत्वमुताग्निमः ।
अव्यक्तेर्यज्यबावाच्च स्वाहोक्त्यादेरपूर्वता ॥
जयाभ्याताननारिष्ठादिषु दर्विहोमेषूत्पत्तिवाक्ये देवताया अश्रवणाद-व्यक्तिलिङ्गेन सोमधर्माः कर्तव्या इति चेन्मैवम् । सोमे श्रुतस्य यजतिलिङ्गस्याभावात् । किंच – पृथिव्यै स्वाहाऽन्तरिक्षाय स्वाहा’ इति । दर्विहोमेषु स्वाहाकार आम्नातः । स च सोमाविध्यन्तातिदेशे विरुध्येत । तेन स्वाहाकारविरोधिनो वषट्कारस्य प्राप्यमाणत्वात् । किंचोदाहृतैर्मन्त्रगतचतुर्थ्यन्तैः पदैर्देवतासमर्पणान्नास्त्यव्यक्तत्म् । तस्माद्दर्विहोमानामपूर्वकर्मत्वान्नास्ति तत्र कस्यापि विध्यन्तस्यातिदेशः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे
चतुर्थप्रपाठके दशमोऽनुवाकः ॥ १० ॥

( अथ तृतीयकाण्डे चतुर्थप्रपाठके एकादशोऽनुवाकः) ।
वास्तोष्पतियुतो होमो दशमे परिकीर्तितः ।
अथैकादशे याज्या (पुरोनुवाक्या) स्तत्र देवसुवामेतानि हवी+ षि भवन्तीति यानि विहितानि तेष्वग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति कृष्णानां व्रीहीणामित्यस्य पुरोनुवाक्यामाह —
त्वमग्ने बृहदिति । हेऽग्ने देव त्वं दाशुषे हविर्दत्तवते यजमानाय बृहद्वयो दधासि महदन्नं दीर्घामायुर्वा प्रयच्छसि । कीदृशस्त्वम् । कविर्विद्वान् । गृहयतिर्गृहस्य पालयिता । युवा नित्यतरुणः । तत्रैव याज्यामाह —
हव्यवाडग्निरिति । अयमग्निर्हव्यं वहतीति हव्यवाट् । अजरो जरारहितः । नोऽस्माकं पितोत्पादकः पालयिता वा । विभुर्वापि । विभावा विशेषण भानशीलः । सुदृशीकः सुखदर्शनः । ईदृशो योऽग्नि । स त्वमस्मे अस्माकमिषोऽन्नानी संदिदिही सभ्यक्प्रयच्छ । कथंभूता इषः । सुगार्हपत्याः शोभनगृहपतित्वहेतुभूताः । किंच । अस्मद्रियमस्मादाभिमुख्येनाऽऽगतः सञ्श्रवांसि श्रोतव्यानि यशांसि संमिहीहि सम्यङ्निष्पादय ।
अथ सोमाय वनस्पतये श्यामाकं चरुमित्यस्य पुरोनुवाक्यामाह —
त्वं च सोमेति । हे सोम त्वं च त्वमपि नोऽस्माञ्जीवातुं वशो जीवयितुं कामयमानोऽसि । अतो न मरामहे त्वत्प्रसादान्न म्रियामहे । कीदृशस्त्वम् । मियस्तोषः सोमो वा ओषधीनाँ राजेत्यादिस्तुतिप्रियः । वनस्पतिर्वनानां पालकः । तत्रैव याज्यामाह-
ब्रह्मा देवानामिति । देवानां मध्ये ब्रह्मा श्रेष्ठः । पदं वेत्त्यवगच्छतीति पदवीः । कवीनां विदुषां मध्ये पदवीः पदवाक्यप्रमाणामिज्ञः श्रेष्ठः । विप्राणां मध्य ऋषिरनुष्ठानसामर्थ्येनातीन्वियवस्तुद्रष्टा श्रेष्ठः । मृगाणां चतुष्पादानां मध्ये शक्त्याधिक्यान्महिषः श्रेष्ठः । तथैव मृध्राणां पक्षिणा मध्ये शक्त्याविक्या च्छ्येनः श्रेष्ठः । वनानां मध्ये स्वाधिति श्रेष्ठः । स्वधितिशब्देन करवालादिव दूदृढस्रूपो भास्वान्वृक्ष उच्यते । यथा ब्रह्मादयः स्वजातिषु श्रेष्ठा एवं सोमोऽपि पवित्रं शुद्धिहेतुं कुशादिकमत्येत्यतिक्रामति । कीदृशः सोमः । रेमञ्शब्दभावस्तू यमान इत्यर्थः ।
अथ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालमाशूनां व्रीहीणामित्यास्य पुरोनुवाक्यामाह —
आ विश्वदेवमिति । अद्यास्मिन्कर्माणि सवितारं सूक्तैः शोभनवाक्यैरा-वृणीमहे फलसाधानाय प्रार्थयामहे । कीदृशं सवितारम् । विश्वदेवं विश्वे सर्वे देवा यस्य वशे वर्तन्ते सोऽयं विश्वदेवस्तम् । सप्ततिं सन्मार्गवर्तिनां पालकम । सत्यसवममो-धानुज्ञम । तत्रैव याज्यामाह —
आ सत्येनेति । सविताऽऽदित्यो हिरण्ययेन रथेनाऽऽयाति सुवर्णनिर्मितं रथमारुह्य प्रतिदिनं पूर्वस्यां दिश्यागच्छति । किं कुर्वन्, सत्येन रजसाऽऽवर्तमानः । अमोधेन रञ्जकात्मकेन मण्डलेनोदयास्तमययोर्म्राम्यन्नमृतं मर्त्यं च निवेशयन्तेव-शरीरं मनुष्यशरीरं स्वस्वकाले प्रकाशेन तत्तल्लोके व्यवहारक्षमं कुर्वन्भुवना विप-श्यन्सर्वलोकानवलोक्यन् ।
अथ रुद्राप्र पशुपतये गावीधुकं चरुमित्येतस्य पुरोनुवाक्यामाह —
यथा नो अदितिरिति । अदितिरखण्डनीयो रुद्रो यथा पश्वे पशुभ्यो नृभ्यो गोभ्यश्व यथा तोकायापत्याय यथा रुद्रियं रुद्रमतिपादितं रक्षणादि यथा करत्पश्वा-दिभ्यः पुत्राद्यपत्याय च येन पर्कारण रक्षणं करोति तथा तमनेन हविषाऽऽराधयाम इति शेषः । तत्रैव याज्यमाह —
मा नस्तोक इति । हे रुद्र त्वं भामितः क्रुद्धः सन्नोऽस्माकं तोके पुत्रादौ तनये तदीयपुत्रेऽश्मत्पौत्रे मा रीरिषो हिंसां मा कृथाः । तथा नोऽस्माकमायुषि मा रीरिषः । तथा नोऽस्माकं वीरान्भृत्यान्मा वधीः । वयं हविष्मन्तो हविर्युक्ताः सन्तस्ते तुभ्यं नम-सा विधेम नमस्कारएम परिचर्यां करवाम ।
अथ बृहस्पतये वाचस्पतये नैवारं चरुमित्यस्य पुरोनुवाक्यामाह —
उदप्रतो नेति । एवं बृहस्पतिमभिलक्ष्यार्का अर्चनहेतवोऽस्मदीयां वाग्विशेषा अनावन्स्तुतवन्तः कीदृशा वाग्विशेषाः । उद्पुतो न वयो रक्षमाणा उदकं प्रप्लावयन्ति भूमौ प्रवर्तयन्तीत्युदप्रुतो मेघास्ते यथाऽन्नोदकनिष्पादनद्वरिण मदीयं वय आयुष्यं पालयन्ति तद्वन्मदीयाः स्तुतिरूपा वाग्विशेषास्चापमृत्युपरिहारेणाऽऽयुष्मस्य रक्षकाः तथाऽभ्रियस्य घोषा इव वावदतः । आम्राणां समूहोऽभ्रियं तस्य घोषा गर्जनशब्दा यथोच्चध्वनय एवमस्मदीया वाग्विशेषा भृशं वदन्तो भवन्ति । तथा गिरिभ्रजो नोर्मयो मदन्तः । यथा नदीतीरस्थगिरिस्पर्शिन ऊर्मयो नदीपूरणप्रकाशनेन हर्षं जनयन्त्येवमस्मदीयवाग्विशेषा बृहस्पतिमहिमप्रकाशनेन हर्षयन्तो भवन्ति । तत्रैव याज्यामाह —
ह ँ सैरिवेति । अयं बृहस्पतिरभिकनिक्रददाभितोऽस्मदीयहविःस्वीकारपरितोष-द्योतकमुच्चध्वनिमकरोत् । उत गाः प्रास्तौत् । अपि च परितोषद्योतकानि वाक्यान्युच्चारितवान् । विद्वानुदगायच्चास्मदीयपरिचर्यामभिजानन्परितुष्ट उत्कर्षेण गानम-प्यकरोत् । किं कुर्वन् । अश्मन्मयानि नहना व्यस्यन्, पाषाणमयद्वारपिधानसदृशानि फलमतिबन्धकानि दुरितान्यपाकुर्वन् । यथा हंसैश्चतुर्थाश्रमवासिभिरभिष्टुतः परमेश्वरः पुरषार्थप्रतिबन्धकमपाकरोत्येवं वावदद्भिरतिशयेन स्तुवद्भिः सखिभिर्ऋत्विग्मिः परितोषितो बृहस्पतिः प्रतिबन्धमपाकरोतीत्यपेक्षितं शेषमध्याहृत्य व्याख्येयम् ।
अथेन्द्राय ज्योष्ठाय पुरोडाशमेकादशकपालं महाव्रीहिणामित्यस्य पुरोनुवाक्यामाह —
एन्द्र सानसिमिति । हे इन्द्र रयिं धनमूतये रक्षार्थमाभराऽऽनय । कीदृशं धनम् । सानसिं सनसो दानस्य संबन्धिनं बहुभ्यो दातुं पर्याप्तमित्यर्थः । सजित्वानं जित्वभिर्जयशीलैः पुत्रादिभिरुपेतम् । सदासहं सर्वदा विरोधिनां सोढारं तत्तिरस्कार-क्षममित्यर्थः वर्षिष्ठमतिशयेन प्रवृद्धम् । तत्रैव याज्यामाह —
प्र ससाहिष हति । हे पुरुहूत पुरूषु बहुषु यज्ञेष्वाहूयमान शत्रून्प्रकर्षेण ससाहिषे सर्वदा सहसे तिरस्करोषीत्यर्थः । ते शुष्मो ज्येष्टस्तव बलं प्रशस्तम् । इहास्मिन्कर्मणि रतिरस्तु । फलदानमस्तु । हे इन्द्र दक्षिणेन हस्तेन वसूनि धनान्यामर* समानय । सिन्धूनां समुद्रसमानानां रेवतीनां प्रजानां पतिरसि ।
अथ तत्रैव विकल्पितामन्यां पुरोनुवाक्यामाहत्व ँ सुतस्येति । हे सुक्रतो शोभनकर्मन्निन्द्र त्वं सुतस्याभिषुतस्य पतिये पानाय सद्यस्तदानीमेव वृद्धोऽजायथाः प्रवृद्धो जातोऽसि । एतच्च सर्वेषां देवानां मध्ये तव ज्यैष्ठ्याय संपद्यते । तत्रैव विकल्पितामन्यां याज्यमाह —
भुवस्त्वमिति । हे इन्द्र त्वं ब्रह्मणा महान्भवः स्तुतिरूपेण वेदवाक्येना-भिवृद्धो भवसि । विश्वेषु सवनेषु त्रिष्वपि प्रातःसवनादिषु यज्ञियो भुवो यज्ञयोग्यो भवसि । नृन्प्रतिकूलाञ्शत्रूंश्च्यौत्नो भुवः प्रच्यावयन्विनाशयन्वर्तसे । हे विश्वचर्षणे विश्वे सर्वेचर्षणयो मनुष्या यस्मासौ विस्वचर्षणिः । सर्वमनुष्यस्वामी त्यर्थः । तादृशस्त्वं विश्वस्मिन्भरे सर्वस्मिन्यागे मन्त्रो मननीयो ज्येष्ठः प्रशास्तश्च भवसि । अथ मित्राय सत्यायाऽऽम्बानां चरुमित्यस्य पुरोनुवाक्यामाह-
मित्रस्येति । चर्षणीधृतो मनुष्याणां धारयितुर्मित्रस्य देवस्य श्रवः श्रोतुं योग्यं यशो महदस्तीति शेषः । सानसिं फलदानशीलम् । सत्यं सत्यवादिनम् । चित्रं श्रवः कीर्तिर्यस्यासौ चित्रश्रवा अतिशयेन तादृशम् । यजामह इति शेषः ।
तत्रैव याज्यमाह —
मित्रो जनानिति । अयं मित्रो देवो जनान्सर्वान्यातयति स्वस्वव्यापारेषुप्रयत्नयुक्तान्करोति । प्रजानंस्तत्तदधिदकारं विद्वान् । किंच मित्रः पृथिवीं दाधार धृतवान् । उतापि च द्यां दाधार । किंच मित्रः कृष्टीर्मनुष्याननिमिषा देवां श्चाभिचष्टे सर्वतः पश्यति । सत्ययामोघफलाय तस्मै मित्राय हव्यं चरुलक्षणं घृत वद्घृतयुक्तं विधेम कुर्मः ।
तत्रैव विकल्पितामान्यां याज्यामाह —
प्र स मित्रेति । यो यजमानस्तव संबन्धिना ब्रतेन कर्मणा शिक्षति अनुष्ठातुं शक्तो भवितुमिच्छति हे मित्र स मर्तः स मनुष्यो यजमानः प्रयस्वान्कर्मफलयुक्तः प्रकर्षेणास्तु । त्वोतस्त्वया रक्षितः स यजमानो न हन्यते रोगादिना न पीड्यते । न जीयते वैरिभिर्नाभिभूयते । अपि च त्वया रक्षितमेनं यजमान मंहः पाप्माऽन्तितः समीपे नाश्नोति न व्याप्नोति । दूराद्दूरेऽपि न प्राप्नोति ।
अथ वरुणाय धर्मपतये यवमयं चरुमित्यस्य पुरोनुवाक्यामाह —
यच्चिद्धि त इति । हे वरुण देव ते त्वदीयं यञ्चिदव्रतं यत्किंचिदपि
कर्म द्यविद्यवि दिने दिने प्रकर्षेण मिनीमासि तर्कयामहे । तत्र दृष्टान्तः — विशो यथा सर्वाः प्रजाः स्वस्वव्यापारं यथा तर्कयन्ति तद्वत् । हि यस्मात्त्वदीयमेव कर्म सर्वदा तर्कयामस्तस्मास्वां परिचरेमेति शेषः । तत्रैव याज्यामाह-
यत्किंचेदभिति । हे वरुण मनुष्या वयं दैव्ये देवलोकवर्तिने जने यत्किंचेद-मभिद्रोहं स्वल्पमधिकं वा द्रोहमचिन्त्यज्ञानेन चरामसि कुर्मः । किंच यदपि तव धर्मा त्वदीयं कर्म युयोपिम विनाशयामो हे देव तस्मादेनसो द्रोहात्कर्मनाशाच्च नोऽस्मान्मा रिरिषो हिंसा मा कृथाः —

तत्रैव विकल्पितामान्यं याज्यामाह-
कितवास इति । कितवासो धूर्तसमानाः स्वार्थसाधनपरा ऋत्विजो यत्क-र्माङ्गं रिरिषुर्नाशितवन्तो न दिवि न तु देवने सम्यग्व्यवहृतौ प्रवर्तन्ते । वाऽथवा यत्पापं सत्यमवश्यं कृतं ज्ञात्वैव कृतमित्यर्थः । घशब्दः पादपूरणे पापवनाचको वा निपातितः । यद्ध सत्यमित्यन्वयः । उतापि च यद्ध विद्म यत्पापमज्ञानेन कृतमित्यर्थः । सर्वा ता, ऋत्विग्भिर्विनाशितमङ्गं ज्ञात्वा कृतमज्ञानेन कृतं चेति यानि सन्ति तानि सर्वाणि शिथिरेव शिथिलानीव विष्य विनाशयेत्यर्थः । अथानन्तरं हे वरुण ते तव प्रियासः स्याम प्रिया भवेम ।
अत्र विनियोगसंग्रहः —
राजसूये देवसुवामिष्टौ याज्या इमाः क्रमात् ।
त्वगग्ने बृहदाग्नेये त्वं च सोमेति सौम्यके ॥
आ विश्वदेवं सावित्रे यथा न इति रौद्रके ।
बार्हस्पत्य उदेत्येतदैन्द्रेऽन्त्यैन्द्रे चतुष्टयम् ॥
मित्रस्येति त्रयं मैत्रे वारुणे यदिति त्रयम् ।
एकादशेऽनुवाकेऽस्मिन्मन्त्रा उक्ता हि विंशतिः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे
चतुर्थप्रपाठके एकदशोऽनुवाकः ॥ ११ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
तृतीयकाण्डे चतुर्थः प्रपाठकः ॥ ४ ॥