(अथ तृतीयकाण्डे द्वितीयः प्रपाठकः)
(तत्र प्रथमोऽनुवाकः) ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽ खिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
आद्यप्रपाठके दीक्षां प्राराभ्य प्रकृतौ पुरा ।
यद्बहिष्पवमानान्तं न्यूनं तत्सर्वमीरितम् ॥
प्रतिनिर्ग्राह्यपर्यन्तं पवमानग्रहादिकम् ।
यन्न्यूनं प्रकृतौ तत्तु वर्ण्यतेऽस्मिन्प्रपाठके ॥
यदुक्तं सूत्रकारेण — “वस्व्यै हिं कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै तेऽ वरुद्ध्या इति पुरुस्ताद्वहिष्पवमानाद्यजमानो जपति दशहोतारं व्याचष्टे स्तूयमाने च दशहोतारं जपति श्येनोऽसि गायत्रछन्दा इति मध्यमायां च स्तीत्रीयायामन्वारोहं द्वितीयो पवमाने द्वितीयेन मन्त्रेण तृतीयो तृतीयेन” इति । तमिममन्वारोहजपं विधत्ते —
यो वा इति । बहिष्पवमानो मार्ध्यदिनः पवमान आर्भद्रः पवमान इत्येतन्नामकाः पवमानत्रयमताः स्तोत्रवशेषाः सामवेदे समाम्नाताः पवमानास्तान्यो यजमानो मन्त्रैरारोहति न कदाचिदयं पवमानेभ्यो विच्छिन्नो भवति । श्येन इत्यादयो मन्वाः । हे बहिष्पवमान त्वं श्येनोऽसि श्येनवच्छीघ्रगतिरसि । गायत्रछन्दा गायत्रीछन्दस्कोऽप्यसि । अतस्त्वामन्वारभेऽनुक्रमेणाऽऽसेहामि प्राप्नोमि निर्विघ्नेन मां संपारय सम्यक्पारं नय । तमिमं मन्त्रमुपास्मै गायतेत्यादिषु नवसु स्तोत्रीयासु मध्यमायां पञ्चम्यां स्तोत्रीयायां गीयमानायां जपेत् ।सुपर्ण इत्यादिर्द्वितीयो मन्त्रः । हे माध्यंदिन पवमान त्वं सुपर्णोऽसि सुपर्णवदुत्पातितुं समर्थोऽसि । शेषं पूर्ववत् । तमिमं मनत्रमुच्चा ते जातमन्धस इत्यादिकमाध्यंदिनपवमानस्स्तोत्रे मध्यमायामृचि गीयामानायां जपेत् । सघेत्यादयस्तृतीयो मन्त्रः । हे आर्भव पवमान त्वं सघाऽसि भासमानकपक्षिवत्पतितुं समर्थोऽसि । शेषं पूर्ववत् । तमिमं मन्त्रं स्वादिष्ठयेत्येतस्यिन्नार्भवपवमानाख्ये स्तोत्रे मध्यमायामृचि गीयमानायां (पठे) जपेत् ।
अथ द्रोणकलशादीनामभिमर्शनं विधातुं प्रस्तौति —
यो व इति । योऽयं बहिष्पवमानादिशब्दैरभिधीयमानः स्तोत्रविशेषत्रयरूपः पवमानोस्ति तस्य संततिमविच्छेदप्रकारं यो यजमानो वेद स यजमानः संपूर्णमायुः प्राप्नोति । जन्मकाले कर्मणा देवैश्च परिकल्पितात्संपूर्णादायुषः पुरा केनाप्यपमृत्युनाऽसौ न म्रियेत प्रजापशुसमृद्धश्चायं भवति । द्रोणकलशादिनामकास्त्रयो ग्रहा इम ऐन्द्रवायवादिग्रहवन्मन्त्रैर्गृह्यन्तामिति । तत्र तावत्पवमानस्य संबन्धिन एते ग्रहाः संततिसिद्ध्यर्थं गृह्यन्तामिति प्राप्तं सोऽयं पक्षो न संभवति । मन्त्रकाण्डे ध्रुवग्रहर्तुग्रहयोर्मध्ये पवमानग्रहार्थानां मन्त्राणामनाम्नातत्वात्षष्ठकाण्डे दद्विध्यभावाच्च । तदेतदुच्यते — अथवा अस्यैतेऽगृहीता द्रोणकलश इत्यादिता । यद्यपि पवमानस्य संबन्धिन एते द्रोणकलशाधवनीयपूतभृतस्तूणीं गृहीता एव तथाऽपि मन्त्राभावादगृहीतप्रायास्तेषु चागृहीतेषूपाकरणे पवमानविच्छेदस्तस्मिन्विच्छिन्नेऽ ध्वर्युप्राणविच्छेदः स्यादिति मन्त्रैस्तानभिमृशेत् । ततश्च नोक्तविच्छेद इत्यर्थः । मन्त्रैस्तदभिमर्शनं विधत्ते —
उपयामेति । मन्त्रार्थस्तु हे सोमरस त्वमुपयामेन पार्थिवपात्रेण कलशेन गृहीतोऽसि । इयं वा उपयाम इति श्रुतेः पार्थिवपात्रमुपयामशब्दस्यार्थः । तेन गृहीतं त्वां प्रजापत्यर्थमभिमृशामि । अनेन मन्त्रेण द्रोणकलशमभिमृशेत । उत्तरयोरपि मन्त्रयोरुपयामगृहीतोऽसीत्यनुषज्यते । तत्राऽऽधवनीयः कलशः पूतभृत्कलशश्चोपयामशब्दस्यार्थः । हे सोमरसोपयामेन मृन्मयेन भाण्डेनाऽऽ- धवनीयकलशेन त्वं गृहीतोऽसि । अतस्त्वामिन्द्रार्थमभिमृशामि । अनेन मन्त्रेणाऽऽ धवनीयमभिमृशेत् । हे सोमरसोपयामेन मृन्मयभाण्डेन पूतभृत्कलशेन गृहीतोऽस्यतस्त्वां विश्वेभ्यो देवेभ्यो देवेभ्योऽभिमृशामि । अनेन मन्त्रेण पूतभृतमभिमृशेत् । तेन पात्रत्रयाभिमर्शनेन पवमानस्तोत्रं सततं करोति । यद्यप्येषु पात्रेष्वैन्द्रवायवादिवत्समन्त्रकं ग्रहणं नास्ति तथाऽपि रसस्तेष्वस्ति । अत एव सूत्रकार आह — “अभिषुतमध्वर्युरञ्जलिना ससिञ्चति तमुन्नेताऽन्तरेषे णो (चो) द्धृत्योत्तरत आधवनीयेऽ वनयति’ इति, ‘उद्गातारो द्रोणकालशं प्रतिष्ठाप्य तस्मिन्नुदीचीनदशं पवित्रं वितन्वन्ति, पवित्रस्य यजमानो नाभिं कृत्वा तस्मिन्होतृचमसेन धारां स्रावयति’ इति च, ‘पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य य आधवनीये राजा तमसर्वं पूतभृत्यवनीय’ इति च । तदेवं त्रिषु पात्रेषु सोमरसस्यावस्थि तत्वादभिमर्शनमन्त्रेण संस्कृतत्वाच्च केनापि प्रकारेण गृहीता एम पवमानग्रहा भवन्ति । तेन पवमानस्य संततत्वाद्यजमानोऽप्यायुरादिकं प्राप्नोति । त एते पूर्वोक्ता अन्वारोहमन्त्रा अभिमर्शनमन्त्राश्च मूर्धानं मधुश्चेत्यनयोरनुवाकयोरन्तराले द्रष्टव्याः । अत्र विनियोगसंग्रहः —
श्येनस्रीन्पवमानेषु त्रिषु मन्त्रान्क्रमाज्जपेत् ।
प्रजेन्द्रा विश्वे मन्त्राः स्युरुपयामादिकास्त्रयः ॥
तैर्द्रोणकलशादीनां स्पर्शो मन्त्रास्तु षण्मताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे द्वितीयप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥
(अथ तृतीयाष्टके द्वितीयप्रपाठके द्वितीयोऽनुवाकः)
आद्यानुवाके विहिताः पवमानग्रहास्त्रयः ।
अथ द्वितीय सवनानि निरूप्यन्ते । ततः प्रातःसवनगत उपांशुग्रहपात्रे सोपांशुप्रक्षेपं तस्य चांशोस्तृतीयसवनगताभिषवसंसर्गं विधत्ते —
त्रीणि वावेति । प्रातःसवनं माध्यंदिनं सवनं तृतीयसवनं चेत्येवं सवनानि त्रीण्यवश्यं भवन्ति । सूयते सोम एव प्रात सवने माध्यंदिने च न तृतीयसवने । ऋजीषमेव तत्राभिषूयते । अत एव षष्ठकाण्डे गायत्र्याः सोमाहरणप्रस्तावे समाम्नायते — “पद्भ्यां द्वे सवने समगृह्णान्मुखेनैकं यन्मुखेन समगृह्णात्तदधत्तस्माद्द्वे सवने शुक्रवती प्रातःसवनं च माध्यंदिनं च तस्मात्तृतीयसवन ऋजीषमभिषुण्वन्ति धीतमिव हि मन्यन्ते” इति । अथैवं सति सोमांशुरहितं तृतीयं सवनं कुर्वन्तो यजमानस्तत्सवनवलुम्पन्ति विनाशयन्ति । सूयते सोमोऽत्रेत्यस्य सवनशब्दार्थस्यासंभवात्तस्य सवनत्वं कथं सिध्यतीति तदुच्यत — उपांशुग्रहं हुत्वा तस्मिन्नुपांशुपात्रे केचिदनभिषुतं सोमांशुं प्रक्षिप्य तृतीयसवनपर्यन्तं प्रज्ञातं निधाय तृतीयसवने तमंशुमृजीषे संसृज्याभिषुणुयात् । तस्मिन्नभिषवे तमंशुं वसतीवरीभिरद्भिराप्याप्रयति । तेनाऽप्यायननेतरसवनवदिदमाप्यायितसोमांशुयुक्तं भवति । अंशुना सहाभिषवं कृत्वा निष्पीडनादृजीषयुक्तमपि भवति । एवं च सति तत्तथा सति तृतीयसवनेन सह सर्वाण्यपि सवनानि सोतव्यसोमांशुयुक्तानि शुक्रवन्ति सूयमानसोमांसुगतरसवन्ति कृत्वा तुल्यवीर्याणि कृतानि भवन्ति ।
अथानन्तरभाविनोर्मन्त्रयोर्विनियोगमापस्तम्ब आह — “प्रस्त्रप्स्यन्तो ग्रहानवेक्षन्ते द्वौ समुद्राविति पूतभृदाधवनीयौ द्वे द्रधसी इति द्रोणकलशम्” इति ।
पाठस्तु -
द्वौ समुद्राविति । तत्र प्रथममन्त्रेण समुद्रद्वयरूपत्वमहोरात्रद्वयरूपत्वं चाऽऽरोप्य पूतभृदाधवनीयौ स्तूयेते । द्वौ समुद्रौ विततौ विस्तीर्णावजृर्यावजीर्णौ कदाचिदप्यशुष्यन्तौ । तादृशावेतौ पर्यायेणाऽऽवतते तत्र दृष्टान्तः — जठरा समुद्रस्योदरे पादा इव यथा पादसदृशा ऊर्मयः समुद्रमध्ये पर्यायेणाऽऽवर्तन्ते प्रथममेक आगच्छति पश्चादपर इति तथा पूतभृत्कदाचिदुपयुज्यते कदाचिदाधवनीय इति पर्यायः । तौ समुद्रात्मकौ पूतभृदाधवनीयौ पुनरहोरात्ररूपौ वर्तेते । तयोर्मध्येऽन्यमहरात्मकं जनाः पश्यन्तोऽतियन्ति उत्तरन्ति । अथान्यं रात्रिरूपमपश्यन्तो जनाः सेतुसदृशेन नौरूपेण साधनेनातियन्ति । उत्तरस्य हविर्धानस्योपरिष्टान्नीडे परिश्रितेऽवस्थितस्याऽऽधवनीयस्य तिरोहितत्वादपश्यन्त इत्युच्यते । तस्यैव हविर्धानस्य प्रधुरे तिरोधानरहिते पूतभृतोऽ वस्थितत्वात्पश्यन्त इत्युच्यते । चमसगणे पयसां धारकत्वादुभयोः समुद्रत्वम् । अथ द्रोणकलश आदित्यात्मना स्तूयते एक आदित्यो द्वे द्रघसी अहोरात्रे उभे वाससी वस्तेऽ हस्कार्याच्छादयति । कीदृशे द्रधसी, सतती सातत्येनाविच्छेदेन वर्तेते । न ह्यह्रो रात्रेश्च मध्ये कश्विद्विच्छेदोऽस्ति । कीदृश एक आदित्यः, केशी केशसमानरश्मियुक्तो विश्वा भुवनानि विद्वान्सर्वाल्लोकान्स्वरश्मिभिः प्रकाशायमानः । उक्तयोर्वस्त्रयोर्मध्ये रात्रिरूपं वस्त्रं मलिनमहोरूपं तु शुक्रम । यदा रात्रिरूपमसितं वस्त्रं वसानो वर्तते तदास्वात्मरूपं तिरोधाय गच्छति । अथ जार्यै जीर्णाया रात्रे पश्चादनुहाय तदसितं वस्त्रं परित्यज्य शुक्लमहोरूपं श्वेतं वस्त्रप्रादत्ते । यथाऽऽयमादित्यः कदाचित्तिरोहितो भवति कदाचिदाविर्भवत्येवमयं द्रोणकालशोऽपि हविर्धानस्याधस्तात्तिरोभूतो वर्तते । हारियोजनग्रहणाय तस्मात्प्रदेशाद्वहिरानीत आविर्भवति । तस्मादयमादित्यसदृश इत्यर्थः ।
अथ यस्य सोमयागस्य प्रकरणोक्तेभ्यो मन्त्रेभ्यो विधिभ्यश्चान्यान्परिशिष्टान्मन्त्रान्विधींश्च दर्शयितुमिदमौपानुवाक्यकाण्डमारब्धं तमिमं सोमयागं विधातुं प्रस्तौति —
देवा वा इति । देवाः पूर्वमसुरीवजयार्थं यज्ञे यद्यदङ्गमकुर्वत तत्सर्वमसुरा अपि ज्ञात्वा तथैवाकुर्वत । ततो देवानां जयाभावे सति पुनरपि विचार्य जयोपायमेतं सोमाख्यं महायज्ञं निश्चितवन्तः । तं च महायज्ञमसुरा यथा न जानन्ति तथा प्रच्छश्रमनुष्ठितवन्तः । तञ्चा ( ते चा) ग्निहोत्रं जुहुम इति बहिः प्रसिद्धं कृत्वा रहसि दीक्षव्रतमकुर्वत । यस्मादग्निहोत्रं सायं प्रातर्द्विर्वहिर्जुह्णति तस्मादभ्यन्तरे क्षीरपानरूपं व्रतं सायं प्रातश्चेति द्विरनुष्ठेयम् । तथा बहिः पौर्णमासं यज्ञं प्रसार्यभ्यन्तरेऽ ग्नीषोमीयं पशुमकुर्वत । तथा बहिदर्शसंबन्धियोग्यं यज्ञं प्रसार्याभ्यन्तर आग्नेयं सवनीयं पशुमकुर्वत । ततश्चातुर्मास्यरूपं वैश्वदेवं पर्व बहिः प्रसार्यन्तः प्रातःसवनमकुर्वत । तथा वरुणप्रघासन्बहिः प्रसार्यान्तमाध्यंदिनं सवनमकुर्वत । तथा साकमेधान्पितृयज्ञे त्र्यम्बकांश्च बहिः प्रसार्यान्तस्तृतीयसवनमकुर्वत । तदानीमसुरा देवैः क्रियमाणं यज्ञमनुक्रमेणावगन्तुमैच्छंस्तदानीं बाहिः प्रसारितैरग्निहोत्रादिभिर्हविर्यज्ञैर्भ्रान्ता अन्तस्तं गोप्यं सोमयागमनुक्रमेणानवगतवन्तः । ततोऽवगन्तुमशक्ताः परस्परमिदमब्रुवन्-इमे देवा अध्वर्तव्या अस्माभिर्ध्वरितुं हिंसितुमशक्या अभूवन्निति । तत्तस्मात्कारणान्न घवर्यन्तेऽ नेन सोमयागेनेत्यध्वरत्वं तस्य संपन्नम् । ततोऽध्वरानुष्ठानाद्देवा विजायिनोऽभवन्नसुराश्च पराभूताः । इदानीं सोमयागं विधत्ते —
ए एवमिति । अत्र विनियोगसंग्रहः —
द्वावित्यवेक्षते पूतभृतं चाऽऽधवनीयकम् ।
द्वे द्रोणकलशं पश्येन्मन्त्रौ द्वाविह वर्णितौ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे द्वितीयप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥
(अथ तृतीयकाण्डे द्वितीयप्रपाठके तृतीयोऽनुवाकः)
अनुवाके द्वितीये तु सोमयागविधिः स्मृतः ।
अथ तृतीयानुवाके सोमावेक्षणमुच्यते ।
कल्पः — “परिभूरग्निमिति सर्वँ राजानं प्राणाय म इत्युपाँ शुमपानाय म इत्यन्तर्याम व्यानाय म इत्युपाँ शुसवनं वाचे म इत्यैन्द्रवायवं दक्षक्रतुभ्यां म इति मैत्रावरुणं चक्षुर्भ्यां म इति शुक्रामन्थिनौ श्रोत्राय म इत्याश्विनमात्मने म इत्याग्रयणङ्गेभ्यो म इत्युक्थ्यमायुषे म इति ध्रुवम” इति, “तेजसे म ओजो मे वर्चसे मे वीर्याय मे वर्चोदा वर्चसे पवस्वेत्येतैः प्रतिमन्त्रमतिग्राह्यान्षोडशिनम्” इति, विष्णोर्जठरमसीति द्रोणकलशमिन्द्रस्येत्याधवनीयं विश्वेषां देवानामिति पूतभृतं कोऽसि को नामेत्याहवनीयम्” इति, ‘विश्वेभ्यो मे रूपेभ्य इति सर्वँराजानम्” इति च । तत्र प्रथममन्त्रपाठस्तु —
परिभूरग्निमिति । हे सोम त्वमाग्नं परिभूः परितो व्याप्तवानसि । एवमिन्द्रं विश्वान्देवांश्च व्याप्तवानसि । मां तु ब्रह्मवर्चसेन सह तिष्ठन्तं व्याप्तवानसि । स त्वं नोऽ स्मान्पवस्व शोधय हे राजन्नस्मदीयाभ्यो गोजनाश्वौषधीभ्यः शं सुखं प्रयच्छ । हे रयिपते धनपते त्वत्प्रसादाद्वयमच्छिन्नस्यानुपध्वस्तस्य सुवीर्यस्य शोभनपुत्रोपेतस्य धनपोषस्य दातारो भवाम । तस्य दानार्थिनो मम रास्व धनं देहि । तस्य तादृशस्य ते तव रसं भक्षीय काले प्राप्ते पिबानि । तस्य पीतस्य ते तव प्रसादादिदमपेक्षितं फलमुन्मृज उत्कर्षेणात्युज्ज्वलं करोमि । अनेन मन्त्रेण सर्वं राजानं सामान्याकारेणावेक्षते । उपरितनैस्तु मन्त्रैस्तत्तत्पात्रगतं सोमं विशेषाकारेणावेक्षते । तेषां मन्त्राणां पाठस्तु —
प्राणायेति । हे उपांशुपात्र त्वं वर्चोदा बलप्रदेऽसि । ततो मे प्राणायोच्छ्वासाय वर्चसे बलाय पवस्व मां शोधय । अपानायेत्यादिषु मन्त्रेषु मे वर्चोदा वर्चसे पवस्वेति शेषोऽ नुषज्यते । सूत्रोक्तान्तर्यामपात्रादीनि संबोध्य शेषं पूरयित्वाऽपानायेत्यादयो मन्त्रा योजनीयाः । अपानो निःश्वासाधोतृत्तिः । व्यानो विष्वग्वृत्तिः । वाक्प्रसिद्धा । दक्षक्रतू प्राणापानौ । “प्राणो वै दक्षोऽपानः क्रतुः” इतिः । चक्षुषी प्रसिद्धे । अत्र शुक्रामन्थिनोर्द्वित्वाद्वर्चोदाविति द्विवचनान्तत्वं द्योतयितुमनुषज्जमानस्य पुनः पाठः । श्रोत्रं प्रसिद्धम् । आत्मा जीवः । अङ्गानि हस्तपादादीनि । आयुः प्रसिद्धम् । वीर्यं सामर्थ्यम् । विष्णोरिन्द्रस्येत्यनयोर्मन्त्रयोर्जठरमसीत्याद्यनुषज्यते । हे द्रोणकलश त्वं विष्णोर्जठरमसि । अतो वर्चोदास्त्वं वर्चसे मां पवस्व । एवमाधवनीयपूतभृतोर्मन्त्राविन्द्रस्य विश्वेषां देवानामित्येतौ योज्यौ । हे आहवनीय त्वं कोऽसि प्रजापतिरूपोऽसि । को ह वै नाम
प्रजापतिरितिश्रुत्यन्तरात् । तथा को नाम कः शब्दस्तव नाम यामसाधकत्वेन सुखहेतुत्वात् । अतः कस्मै प्रजापतितुष्टये त्वामवेक्षे कायसुखार्थं त्वामवेक्षे । हे आहवनीय यमेवंविधं त्वां सोमेनातीतृयं तर्पितवानस्मि । तथा यं त्वां सोमेनामीमदं हर्षितवानस्मि । अतस्त्वत्प्रसादात्प्रजया भृत्वरूपया सुप्रजाः शोभवभृत्ययुक्तो भूयासम् । वीरैः पुत्रपात्रादीमिः सुवीरः शोभनपुत्रपौत्रादिबुक्तो भूयासम् । वर्चसा बलेन सुवर्चाः शोभनबलयुक्तो भूयसम् । पोषैर्धनादिपुष्ठिभिः सुपोषः शोभनतत्पुष्ठियुक्तो भूयासम् । हे सर्वसमष्टिरूप शोभ मे विश्वेभ्यो रूपेभ्यो मम पूर्वोक्तप्राणापानादिसर्वफलसिद्ध्यर्थ वर्चोदास्त्वं वर्चसे मां शोधयस्येत्यादि पूर्ववत् ।
इदानीमेतैर्मैन्त्रैर्भूतिब्रह्मवर्चसायुरभिचारार्थिनां सोमावेक्षणं क्रमेण विधत्ते —
बुभुषन्निति । बुभूषन्भवितुमिच्छन्नैश्वर्यकाम इत्यर्थः । पात्रियः पात्रेऽवस्थित एष सोमः प्रजापतिस्वरूपः । अनेन साध्यो यज्ञोऽपि प्रजापतिस्वरूपः । अतोऽनेनावेक्षणेन तमेव प्रजापतिं तर्पयति । स च तृप्त एनं यजमानमश्वैर्यार्थमभितः शोधयति । एवमुत्तरेष्वपि योज्यम् । चतुर्थपर्याये त्वेनमभिचारविषयं वैरिणं यज्ञात्मा प्रजापतिः प्राणादिभ्योऽन्तरति वैरिणं वियोजयतीर्यर्थः । स च वैरी तदानीमेव प्रधन्वति म्रियते । अत्र प्राणापानाभ्यामित्यनेन सह पौनरुक्त्यं निवारयितुं दक्षक्रतुभ्यामित्यस्य योगक्षेमाभ्यामित्यर्थो व्याख्यातव्यः ।
अत्र विनियोगसंग्रहः —
आदौ समष्टिरूपेण परिभूः सोममीक्षते ।
प्राणेत्युपांशुमन्येषु मे वर्चेत्यनुषज्यते ॥
अपाऽऽन्तर्यामिकं व्यानं शिलां वाचैन्द्रवायवे ।
दक्षेति मैत्रावरुणं चक्षुः शुक्रं च मन्थिनम् ॥
श्रोत्रेत्याश्विनमात्माऽऽग्रयणमङ्गेभ्य उक्थ्यकम् ।
आ ध्रूवं वी षोडशिनं विष्णोस्तु द्रोणकुम्भकम् ॥
इन्द्रेत्याधवनीयाख्यं जठशेषस्तयोर्द्वयोः ।
विश्वेपूतभृतं कोऽसि वीक्षेताऽऽहवनीयकम् ॥
विश्वे पश्येत्सर्वसोमान्मन्त्राः सप्तदशेरिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयप्रपाठके तृतीयोऽनुवाकः ॥३ ॥
अथ तृतीयाष्टके तृतीयप्रपाठके चतुर्थोऽनुवाकः ।
कल्पः “स्फ्यः स्वस्तिरित्यत्करे वेदिकरणानि परास्योपतिष्ठते” इति ।
पाठस्तु —
स्फ्यः स्वस्तिरिति । स्फ्यः खननहेतुः । विघनो भूमिघट्ट्नहेतुः । पशुं स्तृणादिच्छेदनहेतुः । परशुर्वृक्षादिच्छेदनहेतुः । तत्रायं स्फ्यः स्वस्तिरविनाशहेतुरस्तु । एवमितरेष्वपि योज्यम् । एतैः स्फ्यादिभिर्निष्पन्ना वेदिरपि नोऽस्माकं स्वस्तिरस्तु । हे स्फ्यादयो यूयं यज्ञिया यज्ञार्हा अतोऽत्र यज्ञकृतः स्थ यज्ञसंपादका भवतु । ते यूयं मामस्मिन्यज्ञ उपह्रयध्वमनुजानीत ।
कल्पः- “उप मा द्यावापृथिवी इति द्यावपृथिवी उपाऽऽस्ताव इति बहिष्पवमानास्तावं कलश इति कलशंसोम इति सोममग्निरित्यग्रिमुप देवा इति देवानुप यज्ञ इति यज्ञमुप मा होत्रा इति होत्रकान्ह्वयतां ह्वयन्तां ह्वयतामिति यथालिङ्गं सर्वत्रानुषजति” इति । एतेषां पाठस्तु —
उप मेति । इमे द्यावापृथिव्या मामपह्वयेतां मामनुजानीताम् ।अयमास्तावो बहिष्पवमानदेशः । अत्र यथायोगमनुषङ्गद्योतनाययोपशब्दः प्रयुक्ता । एवं द्रोणकलशादिषु । योज्यम् तत्र तत्रोशब्दश्चानुषङ्गद्योतनाय प्रयुक्तः । उपषह्वयतेऽस्मिन्नित्युपहवो यज्ञस्तस्मिन्यज्ञे प्रशास्तृब्राह्मणाच्छंस्यादयो होत्रका मामुषह्वयन्ताम् । एतैर्मन्त्रैर्यथावद्यज्ञाङ्गत्मुपश्तातव्यम् ।
आहवनीयस्योपस्थानं विधत्ते —
नमोऽग्नय इति । नमस्कराभावे मखं यज्ञं हन्तीति मखहा तस्मै मखघ्नेऽग्नये नमोऽस्तु । तस्य प्रसादान्मखस्य यशो यज्ञानुष्ठानकीर्तिर्मामर्यात्प्राप्नोतु । अस्मिन्मन्त्रे मखशब्देन यज्ञ उच्यते । यज्ञमेव सोऽग्निस्तदा हन्ति यदा नमस्कारो न क्रियते । अतस्तस्मा एव नमस्कृत्य सदःप्राप्तौ सत्यां यजमानशरीरस्याऽऽर्तिर्न भवति ।
यदुक्तं सूत्रकारेण — “नमोऽग्नये मखघ्न इत्याहवनीयं नमो रुद्राय मखघ्न इत्याग्नीघ्नं नम इन्द्राय मखघ्न इति होत्रीयम्’ इति ।उपतिष्ठत इत्यनुवर्तते ।
तत्राऽऽहवनीयोपत्थानं विधायाऽऽग्नीघ्रस्योपस्थानं विधत्ते —
नमो रुद्रायेति । आग्नीघ्रीये धिष्णियेऽवस्थितोऽग्निर्मखहा रुद्रस्तस्मै रुद्राय नमोऽस्तु । अनया नमस्कृत्या हे रुद्र मां पाहीत्यनेन मन्त्रेणाऽऽग्नीध्रम ग्निमुपतिष्ठेत । तस्मा इत्यादि पूर्ववत् । अथ होत्रीयस्य धिष्णियस्योपस्थानं विधत्ते —
नम इन्द्रायेति । परमेश्वर्ययोगाद्धोत्रीयो धिष्णियोऽग्निरिन्द्रो यज्ञघातो तस्मै नमोऽस्तु हे इन्द्र मदीयमिन्द्रियं वीर्यं च मा विनाशय । अनेन मन्त्रेण होत्रीस्योदस्थाने सत्याशिषमेव प्रार्थितवान्भवति । सा चाऽऽशीरिन्द्रियस्य वीर्यस्याविनाशाय संपद्यते । उक्तमन्त्रत्रयोपस्थानं प्रशंसति —
या वै देवता इति । अग्निरुद्रेन्द्ररूपा या देवताः सदस्यवस्थितयजमात्रादीनार्तिं प्रापयन्ति यो यजमानस्तत्कृतं विद्वांस्ता देवताः प्रसर्पति नमस्कारेण भजतेऽसौ सदसि प्रविष्टोऽ प्याति न प्राप्नोति । तस्मान्नमोऽग्नय इत्यादीन्पूर्वोक्तान्मन्त्रान्पठेत् ।
कल्पः – ‘दृढे स्थः शिथिरे समाचा इति द्यावापृथिवी उपतिष्ठते सूर्यं वायुमग्निं यप्रं सरस्वतीं सदसो द्वारापिति पातं पात्विति यथालिङ्गं सर्वत्रानुषजति’ इति । ततः (त्र) प्रथममन्त्र पाठस्तु —
दृढे स्थ इति । हे द्यावापृथिवी उपस्थानरहितं प्रति शिथिले अपि युवामुपस्थतारं प्रति समीची अनुकूले सत्यौ दृढे स्थः । अत उपस्थातारं मां प्रतिबन्धकादंहसः पातम् । द्वितीयमन्त्रपाठस्तु—
सूर्यो मेति । द्युलोकविपयान्मया कृतादंहसो मां सूर्यो देवः पातु ।
उत्तरमन्त्रपाठस्तु—
वायुरिति । वाय्वग्नियमसरस्वतीमन्त्रेषु पात्वित्त्वनुषञ्जनीयम् । हे द्वाररूपे देव्यावु स्थातारं मां युवां मा संताप्तामिति संतापयुक्तं मा कुरुतम् ।
नमः सदस इति । कल्पः — “नमः सदस इति सदो नमः सदसस्पतय इति ब्रह्माणं नमः सखीनां पुरोगाणामित्यृत्विजो नमो दिवे नमः पृथिव्या इति द्यावापृथिवी उपस्थाय” इति ।
तृतीयमन्त्रान्ते चक्षुष इतीदमान्नातम् । ऋत्विजो यजमानस्य सखायस्तीयकार्यनिष्पादकत्वात् । ते च स्वस्वऽयापारे पुरतो गच्छन्तीति पुरोगास्तेषां चक्षुषे चक्षुःस्थानीयाय स्वस्वप्रयोगाभिज्ञाय नमः ।
कल्पः “अहे दैधिव्येत्यायतनात्तृणं निरस्य” इति ।
औदुम्बर्या दक्षिणभागो यजमानस्याऽऽयतनम् । अत एव सूत्रकार आह — “अपरेण ब्रह्मसदनं यजमानायतनम्” इति । पाठस्तु —
अहे दैधिपव्येति । धारणसमर्थं स्थानं इदिधिषुस्तत्रोत्पन्नत्वाद्दैधिषव्यत्वम् । अहिशब्दस्तृणलक्षकः । सर्पवदुपद्रवकारित्वात् । यजमानायतने सदुत्पन्न हे तृण त्वमतोऽस्यात्स्मानादुत्तिष्ठ । योऽन्यः पुरुषोऽस्मत्पाकतरो बालतरोऽप्रबुद्धस्तस्यान्यस्य सदने स्थाने तिष्ठ ।
उन्निवत इति । कल्पः- “उन्निवत उदुद्वतश्च गेषमित्युपविशति” इति । ये पुरुषा मत्तो न्यग्भूतास्त निवन्तो न्यग्मूतेषु निशब्दस्य विद्यमानत्वात् । तान्पुरषानहमुद्रेषमुद्वतोऽस्मि । येऽपि मत्त उद्गतास्ते पुरुषा उद्वन्त उच्छ्रितेषूच्छब्दस्य विद्यमानत्वात् । तानप्यहमुद्गेषल्लङ्व्योपरि गम्यासम् ।
पातं मेति । कल्पः — “पातं मा द्यावापृथिवी अद्याह्न इत्युपविश्य जपति” इति । अद्यास्मिन्दिवसे यदिदमहःशब्दावाच्यमग्निष्टोमानुष्ठानं तस्मान्मां हे द्यावापृथिव्यौ पातं तस्मिन्नहनि वैकल्पं यथा न भवति तथा रक्षतमित्यर्थः ।
यदुक्तं सूत्रकारेण — “आगन्त पितरः पितृमानिति दक्षिणार्धं परेक्षते” इति । तदेतद्विधत्ते —
सदो वा इति । सदः प्रसर्पन्तं यजमानमनु पितरः प्रसर्पन्ति तं यजमानमनमस्कृताः पितरो हिंसितुं प्रभवन्ति । अतः सदसो दक्षिणभागमवेक्षमाण आयन्तेत्यामिमन्वं पठेत् । हे पितर आगन्त नः सदसः स्थानमागच्छत । आगतर्युष्माभिरहं पितृमान्भूयासं यूयं च मया सुप्रजसः शोभनापत्ययुक्ता भूयास्त । अनेन मन्त्रेण पितृणां नमस्कृतत्वाद्यजमानस्याऽऽ र्तिर्न भवति ।
अत्र विनियोगसंग्रह —
स्फ्य उत्करे परिक्षिप्तं स्फ्यं तत्रेवोपतिष्ठते ।
उप द्युभूमी अन्येषूप मा इत्यनुषज्यते ॥
आस्ता चेति स्तोत्रदेशं कलेति द्रोणकुम्भकम् ।
सोमः सोमं चाग्निरग्निमुप देवेति देवताः ॥
उप यज्ञेति यज्ञं तमुप मेति तु होत्रकान् ।
नमस्त्रयविधिः स्पष्टो दृढे स्थो द्युभुवौ भजेत् ॥
सूर्यः सूर्यं वायुर्वायुं पात्वित्येषोऽनुषज्यते ।
अग्निर्यमः सेरत्येतान्दे द्वारौ सदसो भजेत् ॥
सदो ब्रह्मा चर्त्विजो द्यौर्भूर्नमःपञ्चभिः क्रमात् ।
अहे तृणं निरस्योन्नीत्युपविश्यात्र पा जपेत् ॥
आगन्त दक्षिणं पश्येन्मन्त्रा विंशतिरीरिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयप्रपाठके चतुर्थोऽनुवाकः ॥४ ॥
(अथ तृतीयकाण्डे द्वितीयप्रपाठके पञ्चमोऽनुवाकः) ।
स्फ्याद्युपस्थानमन्त्रा ये ते चतुर्थे समीरिताः ।
अथ पञ्चमे भक्षमन्त्रा उच्यन्ते ।
अल्पः – भक्षेहीति भक्षमाह्रियमाणं प्रतीक्ष्य” इति । पाठस्तु —
भक्षेहि मेति । हे भक्षयोग्य सोमरस त्वं दीर्घायुत्वादिसिद्ध्यर्थमागच्छ मां प्रविश । सुखकारित्वं देहे शंतनुत्वम् । हे वसो निवासहेतोऽस्मान्वासयितुमागच्छ । हे पुरोवसो वासयितॄणां धनदीनां मध्ये प्रथमं वासयितृत्वान्मे हृदो मम चित्तस्य प्रियोऽसि ।
अश्विनोरिति । कल्पः — ‘अश्विनोस्त्वा बाहुभ्याँ सध्यासमिति प्रातिगृह्य” इति ।
हे भक्षाश्विनोर्देवानां भिषजोर्बाहुभ्यां त्वा सध्यार्स गृह्णामि ।
कल्पः — “नृचक्षसं त्वा देव सोमेत्यवेक्ष्य “इति । पाठस्तु —
नृचक्षसमिति । हे सोम नृचक्षसं नृश्चेष्टे पश्यति तादृशं त्वां सुचक्षाः सुष्ठु द्रष्टाऽहमवख्येषमवेक्षे ।
कल्पः – “मन्द्राभिभूतिरिति पातःसवने सर्वानैन्द्रान्भक्षयति नराशँ सपतिस्येति नाराशँसान्रुद्रवद्गणस्येति माध्यंदिन सवने सर्वानन्द्रान्भक्षयवि नराशँसपतिस्येति नाराशँसानादित्यवद्गणस्येति तृतीयसवने सर्वानन्द्रान्भक्षयति नराशँसपीतस्येति नाराशँसान्यदन्यत्प्राग्वसुमद्गणात्तत्सर्वत्रानुषजत्यप्यन्यदे (दै) वतानिन्द्रपतिस्येति यथादेवतं वा” इति ।
अत्र नाराशंसनामकानां चमसानां लक्षणं सूत्रकारेणैव दर्सितम- “भक्षिता नाप्याययन्त्याप्यायस्व समेतु न इति ते नाराशंसाः” इति । पाठस्तु —
मन्द्राऽभिभूतिरिति । मुखस्थिता वाग्देवता सोमस्य जुषाणा सोमं सेवमाना तुप्यतु । कीदृशी वाक् । मन्द्रा हर्षहेतुः । अभिभूतिर्विन्धानामभिभवित्री । यज्ञानां केतुः करणभूता । आदरार्थं पुनरपि मन्द्रेत्यादिना प्रार्थ्यते । मन्द्रा हर्षहेतुः । स्वर्वाची सुष्टु आभिमुख्येन वर्तमाना । अदितिरण्डनीया अनाहतशीर्ष्णी । शिरःशब्देन प्राधान्यात्प्रारम्भो लक्ष्यते । अप्रतिबुद्धप्रारम्भेत्यर्थः । वागित्यादि पूर्ववत् । चर्षणयो मनुष्याः विश्वे चर्षणयः स्वभूता यस्यासौ विश्वचर्षणिः । तथाविध हे सोमेह्यागच्छ । कीदृशः सोमः । शंभुः शान्तेर्भावयिता । मयोभूः सुखस्य भावयिता । तादृशः सन्नित्यन्वयः । हे हरिवर्ण हरिद्वर्ण स्वस्ति मा प्रचर यथा वान्तिरुपो विनाशो न भवति तथा मां प्रविश । किमर्थं क्रत्वादिसिद्ध्यर्थम् । दक्ष उत्साहः । हे राजन्मां वान्त्युपद्रवेण मा वीबीभिषो विशेषेण मा भीषय । हृदयपुण्डरीकेऽवस्थितं मनो हार्दि । तच्च मनस्त्विषा त्वदीय । या दीप्त्या मा वधीर्हिंसां मा कुरु । मनसि हिंसारहिते सति वृषादयः सिध्यन्ति । वृषेन्द्रियम् । शुष्मो बलम् । आयुर्दीर्घायुः । वर्चः कान्तिः । हे सोम देव ते तत्र संबन्धि यत्प्रातःसवं तस्य संबन्धी यो मधुमान्स इतरैरुपहूतोऽनुज्ञातः, तस्योपहूतस्याहमप्युपहतो भक्षयामि । कीदृशस्य ते । वसुमद्गणस्याष्टसंख्याका वसवो यस्मिन्गणे सोऽयं वसुमान् । तथाविधो गणो यस्य तव स त्वं वसुमद्गणस्तस्थाविधस्य । मतिविदः श्रद्धायुक्तानां यजमानानां मतिं वेत्तीति मतिवित्तस्य । कीदृशस्य प्रातःसवनस्य । गायत्रच्छन्दसो बहिष्पवमानादिषु मन्त्रेषु गायत्र्याख्यं छन्दो यस्य तद्गायत्रच्छन्दस्तस्य । इन्द्रपीतस्येन्द्रेण पीतः सोमो यस्मिन्सवने तदिन्द्रपीतं तस्य । नराशँसपीतस्य पितृपीतस्येति पदद्वयं नराशंसचमसभक्षण एव प्रभोक्तव्यं नान्यत्रेत्येकः पक्षः । सर्वत्र पठितव्यमित्यपरः पक्षः । नरैः शास्यन्त इति । नराशंसाः पितृविशेषास्तैः पीतः सोमो यस्मिन्सवने तन्नराशंसपीतं तस्य । अयमेवार्थः पितृपीतस्येत्यनेन स्पष्टीकृतः । रुद्रवद्गणस्याऽऽदित्यबद्गणस्येत्येतावपि मन्त्रौ पूर्ववद्व्याख्येयौ । तत्रोभयत्र मन्द्रादिरनुषज्यते ।
कल्पः — “भक्षितानाप्यायमन्त्याप्यायस्व समेतु त इति ते नारशंसाः” इति । पाठस्तु —
आ प्यायस्वति । हे सोम त्वमाप्यायस्व सर्वतो वर्धस्व । ते तव वृष्णियं वीर्यं विश्वतः समेतु सर्वतः संगच्छताम् । त्वमपि वाजस्यान्नस्य संगथे संगमने निमित्तं भव ।
कल्पः — “हिन्व मे गात्रा हरिव इति भक्षयित्वा नाभिदेशानभिमृशन्ते” इति । पाठस्तु —
हिन्व मे गात्रेति । हे हरिवो हरितवर्ण सोम मे गात्रा ममाङ्गानि हिन्वप्रीणय मदीयान्गणादिसमूहान्मा वितीतृषः सोमपाने तृष्णारहितान्मा कुरु । किंतु सर्वदा तदिच्छान्कुरु । किंच, त्वं शिवो भूत्वा सप्तर्षिन्मूर्धाच्छिद्रसप्तकावस्थितान्मदीयान्प्राणानुपतिष्ठस्व । तर्पयेत्यर्थः । किंच मे मदीयां नाभिमतीत्य मा गा अधोद्वारेण मा निर्गच्छेत्यर्थः ।
कल्पः — “समित्पाणय उन्नेतारं पुरस्कृत्याप्रतीक्षमायनत्यपाम सोममिति महीयां वदन्तः” इति ।
अतः पूर्वोक्ताः सर्वे मन्त्रा ऋतुग्रहानुवाकात्पूर्वं द्रष्टव्याः । अपाम सोमं त्ययं तु मन्त्रोऽवभृथाङ्गत्वादुरुँ हि राजेत्यनुवाके प्रत्यस्तो वरुणस्य पाश इत्य स्मादुपरिष्टाद्द्रष्टव्याः पाठस्तु —
अपाम सोममिति । वयं सर्वे सोममपाम तेन पीतेनामृता देवा अभूम । आशंसाद्योतनाय भूतार्थनिर्देशः । ज्योतिरादित्यस्वरूपमदर्श्म दृष्टवन्तो देवानिन्द्रादीनविदाम लब्धवन्तः । ईदृशानस्मानरातिः पापरूपः शत्रुः किं कृणवत्किं करिष्यति । मर्त्यस्य मनुष्यशरीरधारिणो या धूर्तिर्हिंसा सेयममृत किमु अमृतानस्मान्किं नाम कस्ष्यिति अथवा धूर्तिरमृत, अस्माद्विषया हिंसा स्वयमेव नष्टा । सा तादृशी नोऽस्मान्बाधत इति किमु वक्तव्यम् । कल्पः —
“यन्म आत्मनो मिन्दाऽभूदिति मिन्दयाऽऽहवनीयमुपतिष्ठन्ते इति । पाठस्तु —
यन्म आत्मन इति । मे मम ऋत्विजो यदङ्गमात्मनो मिन्दाऽभूत्स्वरूपान्मिन्दितं हिंसितमभूत्, अग्निस्तदङ्गं पुनराहाराहरतु । कीदृशोऽग्निर्जातवेदा जातमुत्पन्नं यज्ञच्छिद्रं वेत्तीति जातवेदाः । विचर्षणिस्तत्पुनः समाधातुं विचक्षणः ।
तत्रैव विकल्पितं मन्त्रान्तरमाह — पुनरग्निरिति । यज्ञे यदङ्गं न्यूनं भवति तेन यजमानस्यैव चक्षुर्हीयते । “यज्ञं पराभवन्तं यजमानोऽनु पराभवति” इति श्रुत्यन्तरात् । अस्मादयमग्निर्यज्ञाङ्गसमाधानेन यजमानाय मह्यमेव चक्षुः पुनर्दत्तवान् । तथैवेन्द्रो बृहस्पतिश्च यज्ञाङ्गं समाधाय मदीयं चक्षुः पुनर्दत्तवन्तौ । अश्विनौ युवामव्यक्ष्योर्मदीयाक्ष्णोश्चक्षुर्दर्शनसामर्थ्यमाधत्तम् ।
कल्पः — “सर्वे हारियोजनं भक्षयन्तीष्टयजुषस्ते देव सोम” इति । पाठस्तु—
इष्टयजुष इति । हे सोम देव ते तव संबन्धिरसमुपहूतरैनुज्ञातैरनुज्ञातोऽहं भक्षयामि । कीदृशस्य ते, इष्टयजुष इष्टसाधनानि यागसाधनानि यजूंषियस्य सोऽयमिष्टयजुस्तस्य । स्तुताः स्तोमाः सामावृत्तिलक्षणानि स्तोत्राणि यस्य सोऽयं सुतस्तोमस्तस्य । शस्तानि शंसितान्युक्थानि शस्त्राणि यस्य सोऽयं शश्तोक्थस्तस्य । हरिर्हरितवर्णः । सोऽस्यास्तीति हरिवांस्तस्य । इन्द्रेण पतिस्तस्य । मधु माधुर्यमस्यास्तीति मधुमांस्तस्य । अन्यैरजुज्ञात उपहूतस्तस्य ।
कल्पः— “आपूर्याः स्थाऽऽमा पूरयतेत्युत्तरवेद्याँ शेषान्न्युप्य” इति । शेषानवशिष्टान्धानासोमभागान् । पाठस्तु —
आपूर्या इति । हे धानाः सोमशेषा यूग्रमापूर्याः स्थ सर्वतः पूर्णाः स्थिताः । अतो मां प्रजया च धनेन च सर्वतः पूरयत । यन्म आत्मन इत्यादयो मन्त्रा हरिरसि हारियोजन इत्यनुवाकान्ते द्रष्टव्याः ।
कल्पः- “सर्वे स्वं स्वं चमसमनून्यन्ते त्रींस्त्रीन्पुरोडाशशकलानुपवपन्त एतत्ते तत ये च त्वामन्विश्येतैः प्रतिमन्त्रम्” इति ।
चमसमनून्यन्ते चमससमीपे । पाठस्तु —
एतत्ते ततेति । है ततास्मत्पितरेतत्पुरोडाशशकलरूपं ते तवान्नं, ये चान्ये त्वामनुगतास्तेषामप्येतदन्नम् पितामहेतिमन्त्रे ये च त्वामन्वित्युत्तरानुषङ्गः । प्रपितामहेति मन्त्र एतत्त इति पूर्वानुषङ्गः । हे पितरः सर्वेऽपि यूयमवास्मिन्कर्मणि यथामागं स्वस्वभागनुसारेण मन्तध्वं हृष्टा भवत ।
कल्पः — नमो वः पितरो रसायेति नमस्काराञ्जपति” इति । पाठस्तु — नमो व इति । हे पितरो युष्माकं यो रसः सारस्तस्मै नमः । एवमुत्तरत्र । शुष्माय बलाय । जीवाय जीवात्मने । स्वधायै भवतीयहविर्दात्र्यै । मन्यवे क्रोधाय । घोराय शिक्षारूपोग्रकार्यय । हे पितरो युष्मभ्यमपि नमोऽस्तु । ये यूममन्यैः सहेतस्मिन्पितृलोक स्थ ते युष्माननुवर्तन्ताम् । ये यूयमस्मिँलोके स्थ यूयं मामनुवर्तध्वम् । अन्यैर्बहुभिः सह ये यूयमेतस्मिन्पितृलोके स्थ तेषामन्येषां वसिष्ठा वासयितृतमा यूयं भूयास्त ये च मनुष्या अस्मिलोँके मया सह स्थितास्तेषां मनुष्याणां वासयितृतमो भूयासम् ।
कल्पः- “प्रजापते न त्वदेतानीनि प्राजापत्ययर्चा वितिष्ठन्ते” इति । वियुज्य गच्छेयुरित्यर्थः । पाठस्तु —
प्रजापते नेति । हे प्रजापते त्वदन्यः कोऽपि पुरुष उत्पन्नानि तान्येतानि विश्वानि न परिबभूव परिभवितुं समर्थो नाभूत् । परिभवः सृष्टेरप्युपलक्षणम् । सृष्टिसंहारयोः शक्त इत्यर्थः । अतस्ते तव वयं यत्कामा जुहुमस्तत्फलमस्माकमस्तु । वयं धनानां पतयः स्याम । एतत्ते ततेत्याद्या मन्त्रा वाममद्य सवितरित्यस्मादनुवाकात्पूर्वं द्रष्टव्याः ।
देवकृतस्येति । “देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमस्यत्मकृतस्यैनसोऽवयजनमस्यन्यकृतस्यैनसोऽवयजनमस्येनस एनसोऽवयजनमसि स्वाहेस्याहवनीयेष्टशकलान्यभ्याधाय” इति ।
अत्र शकलानामभ्याधातारः सर्वेऽपि हारियोजनभक्षिणः । आत्मकृतस्येत्यादिमन्त्रत्रयं शाखान्तरगतम् । हे शकल देवविषये यदस्माभिः कृतमेनस्तस्यावयजनं विनाशकमसि । एवं मनुष्यपितृमन्त्रयोर्योज्यम् ।
कल्पः — “अपरेण चात्वालमास्तावे वा प्रत्यञ्चश्चमसिनः स्वं स्वं चमसरसमवघ्रेण भक्षयन्त्यप्सु धौतस्य सोम देव त इति “इति । पाठस्तु —
अप्सु धौतस्येति । हे सोम देव प्रक्षालनाभिषवादिविशेषणोपेत यस्तेसंबन्धी यो भक्षणभागोऽश्वसनिरश्वप्रदो यश्च गोसनिर्गोप्रदस्त्वदीयस्य तस्य भक्षभावस्य पितृभिरपि स्वभक्षत्वेन स्वीकृतस्येतरेरनुज्ञातस्यांशमन्यैरनुज्ञातोऽहमाघ्राणेन भक्षयामि । देवकृतस्याप्सु धौतस्येत्येते मन्त्रा हरिरसीत्येतस्मादनुवाकादूर्ध्वं द्रष्टव्याः ।
अत्र विनियोगसंग्रहः —
भक्ष भक्ष्यं (क्षं) प्रतीक्ष्याश्वि गृहीत्वा नृ च वीक्षते ।
मन्द्रेति भक्षयेत्त्रेधा वसुरुद्रादिभेदतः ॥
आप्या भक्षितमाप्याय्य हिन्व नाभ्यभिमर्शनम् ।
अपाम कृत्वाऽवभृथं समायात्यप्रतीक्षण्म् ॥
यन्मे पुनर्भजेदग्निमिष्टाद्याद्धारियोजनम् ।
आपू वेद्यां शेषवाप एतत्ते त्रिभिरावपेत् ॥
पुरोडाशांशकान्भूमौ नमश्चमसिनां जपः ।
प्रजा चमसिनो यान्ति देववह्नौ समित्त्रयम ॥
अप्सु जिघ्रन्ति तच्छेषं द्वाविंशतिरिहोदिताः ॥
अत्र मीमांसा ।
तृतीयाध्यायस्य द्वितीयपादे चिन्तितम् ।
“भक्षेहीत्यनुवाकोऽयं सर्वो भक्षणयोग्युत ।
ग्रहणादौ यथालिङ्गं विभज्य व्ययतिष्ठते ॥
अविधेर्ग्रहणादीनां भक्षणे निखिलस्तु सः ।
अर्थाक्षिप्तेष्वेतेष्वेव यथालिङ्गं विभज्यते ॥
ज्योतिष्टोमे हुतस्य सोमस्य शेषभक्षणं विहितम् — “अभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति” इति । तस्मिन्भक्षणे ग्रहणावेक्षणानिगरणसम्यग्जरणरूपाश्चत्वारो व्यापाराः सन्ति । मन्त्राश्च भक्षेहीत्याद्यनुवाके समाम्नाताः । तत्र भक्षणं यथा साक्षाञ्चोदितं न तथा ग्रहणावेक्षणनिगरणजरणानि चोदितानि । न चाविहितेषु मन्त्रा विनियोगमर्हन्ति । समाख्या तु भक्षानुवाक इत्येवंरूपा भक्षणमात्रविषया । तस्मात्कृत्स्नस्याप्यनुवाकस्य भक्षण एव विनियोगे इति प्राप्ते ब्रूमः — अविहितान्यपि ग्रहणातीन्यर्थाक्षिप्तानि । तद्व्यतिरेकेण भक्षणासंभवात् । अतस्तेष्वप्यनुवाको यथालिङ्गं विभज्य विनियोक्तव्यः । तत्र भक्षेहीत्यारभ्याश्विनोस्त्वा बाहुभ्याँ सध्यासमित्यन्तो ग्रहणं प्रकाशयति । एहीत्याह्वानस्य बाहुभ्यां स्वी करवाणीत्येतस्य च दर्शनात् । नृचक्षसं त्वा देव सोम सुचक्षा अवख्येवमित्ययं भागोऽवेक्षणं प्रकाशयति । सोभनचक्षुरहं मनुष्येषु प्रख्यातं त्वामवेक्षिषीयेत्यभिधानात् । हिन्व मे गात्रा इत्यादिर्मा मेऽवाङ्नाभिमति गा इत्यन्तः सम्यग्जरणं प्रकाशयति । गात्रप्रीणनेनाधोभागे नाभेरतिक्रमनिषेधेन च तदवगमात् । जरणं नार्थाक्षिप्तं तेन विनाऽपि भक्षणसिद्धेरिति चेत् । न । जरणपर्यन्तस्यैव सार्थकभक्षणत्वात । न च चरणे पुरपव्यापाराभावः । सम्यगुपदेशनादेर्भक्ष(जंर)णार्थत्वात् । मन्द्राभिभूतिरित्यादिर्भक्षयामीत्यन्तो भक्षणं प्रकाशयति । तस्माल्लिङ्गेन समाख्यां बाधित्वा विभज्य विनियोगः कर्तव्यः ।
तत्रैवान्यच्चिन्तितम् —
“मन्द्रेति वसुप्रदेति द्वयं तर्पणभक्षयोः ।
विभक्तव्यमुताशेषं तृप्तिसंयुक्तभक्षणे ॥
लिङ्गाद्विभागो नैवं नो तृप्तिभक्षणतोऽन्यतः ।
लिङ्गस्यासंभवे वाक्यशेषात्सर्वोऽस्तु भक्षणे” ॥
मन्द्राऽभिभूतिरित्यादिर्जुषाणा सोमस्य तृप्यन्वित्यन्तो भागो इष्टाया अरुचिमभीभवन्त्याः सोमं सेवमानाया जिह्वायास्तृप्तिं प्रकाशयति । वसुमद्गणस्येत्यादिर्भक्षयामायन्तो भागो भक्षणप्रकाशकः । तत्र पूर्ववल्लिङ्गेन विभज्य विनियोग इति चेन्मैवम् । न खलु तृप्तिर्भक्षणादन्येन व्यापरेण जायते । किं तर्हि भक्षणाननिष्पादिनी हि सा । तथा सति कस्मिन्व्यापारे तृप्तिप्रकाशको भागो विनियुज्येत । ततो लिङ्गेन विनियोगासंभवाद्भक्षणमन्त्रवाक्यस्य शेषस्तृप्तिप्रकाशकभागो भविष्यति । उपयुक्तश्च तत्रायं भागस्तृप्तिसहितभक्षप्रकाशेन पुरुषोत्साहजनकत्वात् तस्मान्मन्द्रादिः सर्वो भक्षणे विनियुज्यते ।
तत्रैवान्यच्छिन्तितम् —
“इन्द्रपीतस्योति भक्षमन्त्रांश कमिहैन्द्रके ।
केवलेऽन्यत्र चोहाद्वा सर्वत्रोत यथाश्रुतम् ॥
ऐन्द्र एव समर्थत्वात्तूष्णीमेवान्यभक्षणम् ।
ऊहो वाऽन्येषु कर्मैक्येऽप्यस्त्यूहो भक्षभेदतः ॥
इन्द्रेण यस्मिन्सवने सोमः पीत इतीरणात् ।
सवनस्थेषु सर्वेषु मन्त्रोऽनूहेन पठ्यते” ॥
भक्षमन्त्रे कश्चिदंश इन्द्रपीतस्येत्येवंविधः श्रूयते । तत्रेन्द्रेण पीतस्य सोमस्य शेषं भक्षयामीत्यर्थो भवति । तथा सत्यस्य मन्त्रस्येन्द्रप्रदानशेषभक्षण एव समर्थत्वात्तत्रैवायं मन्त्रो विनियुज्यते, न तु मैत्रावरुणादिशेषभक्षणे । तस्मादमन्त्रकमेव तद्भक्षणमित्येकः पूर्वपक्षः । इन्द्रपीतस्येतिपदस्यासमर्थत्वेऽपि मित्रावरुणपीतस्येत्येवमूहे सति सामर्थ्यं भविष्यति । नन्वाग्नेययागस्य प्रकृतित्वात्तद्गतस्याग्नये जुष्टामिति मन्त्रस्य विकृतौ सौर्यचरौ सूर्याय जुष्टमित्यूहः क्रियते । इह तु कर्मैक्यान्नोह इति चेत् । न । कर्मभेद इव भक्षभेदेऽप्यूहितुं शक्यत्वादिति द्वितीयः पूर्वपक्षः । इन्द्रपीतस्येत्यत्र बहुव्रीहिर्द्रष्टव्यः । तत्पुरुषत्वे समासत्येति सूत्रेणा तोदात्तत्वप्रसङ्गात् । आद्युदात्तं चैतत्पदमाम्नातम् । इन्द्रप्रातिपदिकं तु स्वत आद्युदात्तम् । तथा सति बहुब्रीहौ प्रकृत्या पूर्वपदमिति सूत्रेण पूर्वपदप्रकृतिस्वरविधानात्समस्तं पदमप्याद्युदात्तमेव संपद्यते । इन्द्रेण पीतः सोमो यस्मिन्सवन इति विग्रहात्सवनपरत्वे सत्यैन्द्रभक्षण एवेति नियन्तुमसमर्थत्वात्सर्वभक्षणेष्वनूहेनायं मन्त्रः प्रयोक्तव्यः । विशेष्यं च सवनं तस्मिन्वाक्य एवमाम्नातम् — प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्येति । तस्मादन्त्यः पक्षो राद्धान्तः ।
तत्रैवान्यच्चिन्तितम् -
“ऊहपक्षे यदूह्यं तच्चिन्त्यते न्यायपञ्चके ।
इन्द्रे हुतेऽथ तच्छेषे होत्रकेश्चमसस्थिते ॥
सोमोऽभ्युन्नीय देवेभ्यो हुत्वा संभक्ष्यते तदा ।
इन्द्रो न लक्ष्यो लक्ष्यो वा न शेषेऽन्यार्थता यतः ॥
उन्नीत एव संबद्धो न पूर्वो देवतान्तरैः ।
अत इन्द्रस्य सिद्ध्यर्थं लक्ष्योऽसावितरैः सह” ॥
पूर्वाधिकरणे योऽयमूहरूपो द्वितीयः पूर्वः पक्षः, तत्प्रसङ्गात्कृत्वाचिन्तारूपेणन्यायपञ्चकेनोहविषयश्चिन्त्यते । मैत्रावरुणब्राह्मणाच्छंसिपीत्रादय ऋत्विजो होत्रकाः । तेषां सन्ति चमसाः । पात्रविशेषस्थिता सोमरसाश्चमसाः । तैर्वषट्कारानुवषट्कारयोर्होतव्यम् । तेषां चमसानामैन्द्रत्वाद्धोतुर्वषट्कारे प्रथममिन्द्रो हुतः । अनन्तरं चमसस्थे हुतशेषे पुनः सोमान्तरमभ्युन्नीयं तेन देवान्तरेभ्यो होत्रका जुह्वति । तत्र मैत्रावरुणो मित्रं वयं हवामह इति मन्त्रेण मित्रावरुणौ यजति । ब्राह्मणाच्छंसी इन्द्र त्वा वृषभं वयमिति मन्त्रेणेन्द्रं यजति । पोता मरुतो यस्य हि क्षय इति मन्त्रेण मरुतो यजति । एवं हुत्वा पश्चात्सोमो भक्ष्यते । तस्मिन्भक्ष्यमाणे मित्रावरुणपीतस्येति मन्त्र ऊहनीयः । तदानीमिन्द्रमित्रावरुणपीतस्येत्येवं मित्रावरुणाभ्यां सह नेन्द्र उपलक्षणीयः । कुतः । शेषस्यान्यार्थत्वात् । इन्द्रशेषे पुनरभ्युन्नीतस्य तेन शेषेण सह मित्रावरुणाद्यर्थत्वं सति तस्येन्द्रसंबन्धराहित्यात्पुनरुन्नीतस्यैवान्यार्थत्वं न पूर्वशेषस्येति चेन्न । उन्नयनकाले मित्रावरुणाद्यर्थोऽयमितिसंकल्पाभावात् । प्रदानकाले तु पूर्वशेषेण सहैव मित्रावरुणादिन्यः प्रदीयते । तस्मादिन्द्रसंबन्धराहित्यान्नेन्द्रा लक्षणीय इति प्राप्ते ब्रूमः — मा भूत्संकल्पः । तथाऽप्युन्नयनं करिष्यमाणं मैत्रावरुणादियागार्थमेव । न तु तस्य पूर्वानुष्ठितेन्द्रयागार्थत्वं संभवति । तस्मादुन्नीत मैत्रावरुणादिसंबन्धः शेष इन्द्रसंबन्ध एवेत्युभयभक्ष्णे मित्रावरुणादीभिः सहेन्द्रोऽप्युपलक्षणीयः । तत्रैवान्यच्चिन्तितम् —
“द्विदेवशेष आदित्यस्थाल्या आग्रयणाभिधाम् ।
स्थालीं प्राप्तस्ततः पात्नीवतस्य ग्रहणे सति ॥
तद्भक्षणे द्विदेवाः किं सार्धं पात्नीवतेन ते ।
उपलक्ष्या न वा पूर्वन्यायेनास्तूपलक्षणम् ॥
अन्य आग्रयणात्पात्नीवतो नैतस्य विद्यते ।
आकाङ्क्षा पर्वदेवेषु पत्नीवानेव लक्ष्यते” ॥
ऐन्द्रवायवादयो द्विदेवत्याः । तेषां शेष आदित्यस्थलीमागच्छति । पुनरपि तस्याः स्थाल्या आग्रयणस्थालीमागाच्छति । तस्या आग्रयणस्थाल्याः पात्नीवतो गृह्यते । तस्य पात्नीवतस्य भक्षण इन्द्रवाय्वादय उपलक्षणीयाः । पूर्वाधिकरणे यथा मित्रावरुणादिभिः सहेन्द्र उपलक्षितस्तद्वदिति प्राप्ते ब्रूमः — यदुपाँशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णातीत्यग्रयणपात्रस्यापादानत्वश्रवणात्ततो निःसृतस्य सोमरसस्य तत्संबन्धे ज्ञाते सति पश्चात्पात्नीवद्देवतायै ग्रहणं भवति । तथा सत्यत्यन्तभिन्नस्य पात्नीवतस्य पूर्वदेवेष्वाकाङ्क्षा नास्ति । पुनरभ्युन्नीतस्तु सोम ऐन्द्रशेषेण संसष्टः । तस्य संसृष्टस्य भक्षणे मित्रावारुणादीनाभिवेन्द्रस्यापि संबन्धो नापैतीति वैषभ्यम् । तस्मात्पात्नवितभक्षण इन्द्रवाय्वादयो नोपलक्षणीयाः तत्रैवान्यच्चिन्तितम् —
सह पत्नीवता त्वष्टा तद्ग्रहे लक्ष्यते न वा ।
सह त्वष्ट्रा पिबेत्युक्तेर्देवत्वात्सोऽपि लक्ष्यते ॥
सहत्वमात्रं त्वष्टुः स्यान्न पातृत्वमशब्दनात् ।
चोदनायामभानाच्च न देवोऽतो न लक्ष्यते ॥
तस्मिन्नेव पात्नीवतग्रहे शेषभक्षणमन्त्रेण पत्नीवता सह त्वष्टाऽप्युपलक्षणीयः । कुतः । त्वष्टुरपि तद्देवत्वात् । तच्च होममन्त्रादवगतम् । अग्ना३इ पत्नीवा ३: सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहेत्यस्मिन्मन्त्रे पत्नीवन्तमग्निं प्लुतान्तेन पदेन संबोध्य तस्य त्वष्ट्रा देवेन सह पिबेत्यभिधानात्पातृत्वेन पत्नीवत इव त्वष्टुस्तद्देवत्वम् । ततः पत्नीवत्त्वष्टृपीतस्येत्पुलक्षणमिति प्राप्ते ब्रूमः — पानकाले सहावस्थानमात्रं त्वष्टुः सजूरित्यनेन पदेन प्रतीयते, न तु पातृत्वमसंबोधितस्य त्वष्टुः पिबेत्यनेन सामानाधिकरण्याभावात् । न च पातृसहभावमात्रेण पातृत्वम् । सहैव दशभिः पुत्रैर्भारं वहति गर्दभीत्यत्र पुत्राणां वोढृत्वादर्शनात् । आस्तां मन्त्रविधिबलात्त्वष्टुर्देवतात्वमिति चेन्न । पात्नीवतमाग्रयणाद्गृह्णातीत्यत्र त्वष्टुरप्रतीतेः । तस्माददेवता त्वष्टा नोपलक्षणीयः । तत्रैवान्यञ्चिन्तितम् —
“पत्नीवन्तस्त्रयस्त्रिंशद्देवास्तान्मादयेत्यमी ।
लक्ष्या न वा याज्ययोक्तेर्देवत्वादुपलक्षणम् ॥
एकोऽग्निर्यजमानेन मादितोऽन्ये तु वह्निना ।
अतोऽग्नेरेव देवत्वान्नान्येषामुपलक्षणम्” ॥
तस्यैव पात्नीवतग्रहस्य याज्यायामग्निं संबोध्य पत्नीवन्नामधारिणस्त्रयास्त्रिंशद्दवान्मादयेत्यभिधीयते — “पात्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमावह मादयस्व” इति । अनुष्वधमनुप्रदानम् । अत्र हूयमानेव सोमरसेन मादनीयत्वात्त्रयस्त्रिंशतां तद्देवत्वम् । अतस्तेऽपि भक्षणे लक्षणीया इति चेन्न । यजमानेन मादनीयस्याग्नेरेव देवतात्वात् । त्रयस्त्रिंशद्देवतास्तु वह्निना माद्यन्त इति न तेषामत्र देवत्वम् । तस्मान्नोपलक्षणम् । तत्रैवान्यच्चिन्तितम् —
“सोमस्याग्न इति प्रोक्ताऽनुवषट्कारदेवता ।
लक्ष्या न वा देवतात्वाल्लक्ष्या त्रिंशद्विलक्षणा ॥
प्रकृतौ विद्यमानोऽग्निरनुद्देशादलक्षितः ।
उद्देश्येन्द्रो लक्षितोऽतो विकृतावपि तत्तथा” ॥
सोमस्याग्ने त्रीहीत्यनुयजतीति श्रुयते । तत्रानुवषट्कारस्य । मान्त्रवर्णिकोऽग्निर्देवता । न च त्रयस्त्रिंशतामिव वह्नेरदेवतात्वम् । मन्त्रे वह्निं संबोध्य सोम पातृत्वाभिधानात् । तस्मादग्निलक्षणीय इति चेन्न । प्रकृतावलक्षितत्वात् । ऐन्द्राचमसः प्रकृतिरितरे विकृतिरूपाः । तथा हि-ऐन्द्रः सोमो गृह्यते मयिते च । ते नैन्द्रेष्वेव सोमः । अनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्वेव । अनैन्द्रा अधर्मकाः । धर्माकाङ्क्षायां चोदकेन सधर्मका इति विकृतित्वम् । गृह्यमाणस्य मीयमानस्य च सोमस्यैन्द्रत्वमिन्द्राय त्वा वसुमते इत्यादिग्रहणमन्त्रादवगम्य ते । तस्य प्रकृतिभूतस्येनद्रचमसस्य भक्षणेऽग्निरनुवषट्कारदेवो नोपलक्षितः । कुतः । ग्रहणे तदुद्देशाभावात् । इन्द्रस्तूद्देश्यत्वादुपलक्षितः एवं विकृतावप्युद्देश्यदेवानामेवोपलक्षमं न्याय्यम् । तस्मादग्निर्नोपलक्ष्यः ।
तत्रैवान्यच्चिन्तितम् -
“अमन्त्रप (भ) क्षमाश्रित्य कृत्वाचिन्तान्तरत्रयम् ।
ऊहोऽस्ति नो वा सोऽस्त्यत्र विकृतौ तस्य संभवात् ॥
सोमेनेति विधेः सर्वप्रदानेषु समत्वतः ।
अविकारेष्वनूहोऽतो नैन्द्रै निर्मन्त्रभक्षणम्” ॥
उक्ताभ्यः पञ्चभ्यः कृत्वाचिन्ताभ्यः पूर्वस्मिन्नधिकरणे योऽयमनैन्द्रैष्वमन्त्रभक्षणमिति प्रथमः पूर्वः पक्षस्तमेव मनसि निधाय पुनः कृत्वाचिन्तानां त्रयमभिधीयते । अनैन्द्रेषूक्तरीत्या विकृतित्वेनोहसंभवादस्त्यूह इति चेन्न । अनैन्द्राणां विकृतित्वासंभवात् । सोमेन यजेतेत्युत्पत्तिश्रुतः सोमः कर्मणोऽङ्गं न तु प्रदानविशेषस्य कस्यचिदङ्गम् । स एव च सोमः सर्वपदानेष्वभ्यस्यत इति सर्वाणि समप्रधानानि । अत ऐन्द्राणामनैन्द्राणां च प्रकृतिविकृतिभावासंभवान्नास्त्यत्रोहः ।
इन्द्राय त्वा वसुमत इत्यादिमन्त्रो लिङ्गादैन्द्रमात्रविषयत्वादनैन्द्रैष्वमन्त्रभक्षः ।
तत्रैवान्यच्चिन्तितम् —
“समन्त्रकममन्त्रं वा स्यादैन्द्राग्नादिभक्षणम ।
ऐन्द्राग्नेऽपीन्द्रपीतत्वसंभवात्तत्समन्त्रकम् ॥
न पानमशरीरस्य युक्तं दानं तु मिश्रितम ।
मन्त्रोऽयं तु न मिश्रार्हस्तस्मादेतदमन्त्रकम्” ॥
यदेतदैन्द्राग्नं गृह्णातीति विहितं शेषभक्षणं तत्रैन्द्राग्निभ्यां पीतः सोम इन्द्रेणादि पीतो भवतीति लिङ्नैव विनियोगात्समन्त्रकं भक्षणमिति चेन्मैवम् । नव माध्याये यक्ष्यमाणदेवताधिकरणन्यायेनाशरीरस्येन्द्रस्य दानासंभवात् । अथ पीतशब्देन दानं विवक्ष्येत तदानीमिन्द्राय दत्तः सोम इति मन्त्रार्थो भवति । न चात्र यजमान इन्द्रमुद्दिश्य ददौ किंत्विन्दाग्नी उद्दिश्य । तस्माद्दानं मिश्रविषयं, मन्त्रस्तु न मिश्रविषय इत्यमन्त्रकमत्र भक्षणम् । अत्रैवान्यच्चिन्तितम्-
ऐन्द्रदानेऽपि गायत्रमात्रयुक्तेऽथवेतरैः ।
छन्दोभिरपि युक्ते स्यादाद्यो मन्त्रे यथोक्तितः ॥
द्वयोः समो बहुव्रीहिरेकच्छन्दास्तु न क्वचित् ।
नानाछन्द्रस्यैन्द्र एव कृत्वाचिन्तेत्थमीरिता ॥
सवनार्थेन्द्रपीतोक्तिरित्युद्घाटनमीरितम् ।
तेन सर्वप्रदानेषु मन्त्रपाठो यथास्थितः ॥
तस्मिन्नेव भक्षमन्त्रे गायत्रछन्दस इन्द्रपीतस्येति श्रूयते । गायत्रमेव च्छन्दो यस्येति मन्त्रपदे समासाभिधानादेकच्छन्दोयुक्त ऐन्द्रे सोमे भक्षणमन्त्र इति चेन्मैवम् । बहुच्छन्दोयुक्तेऽपि बहुव्रीहेः समानत्वादेवकारं परित्यज्य गायत्रे छन्दो यस्येतिविग्रहसंभवात् । एकच्छन्दस्कस्तु सोमो न क्वाप्यस्ति । तस्मान्नानाछब्दस्के सोम ऐन्द्रप्रदान एव मन्त्रो नान्यत्र । तदेवं कृत्वाचिन्तात्रवं समापितम् । द्विविधा कृत्वाचिन्तोद्धाटना तु प्रागेव सिद्धान्तिना दर्शिता ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयप्रपाठके पञ्चमोऽनुवाकः ॥५ ॥
(अथ तृतीयाष्टके द्वितीयप्रपाठके षष्ठोऽनुवाकः) ।
अनुवाके पञ्चमे तु भक्षमन्त्रा उदीरिताः ।
अथ षष्ठे पृषदाज्यमुच्यते ।
कल्पः — “आज्याग्रहणकाले चतुर्जुह्वां गृह्णाति चतुरुपभृति दधन्याज्यमानीय महीनां पयोऽसीति पृषदाज्यधान्यां पञ्चगृहीतं पृषदाज्यम्” इति । पाठस्तु—
महीनामिति । हे पृषदाज्य त्वं महीनां गवां पयोऽसि । विश्वेषां सर्वेषां देवानां तनूरसी । शरीरस्थितिहेतुत्वात् । पृषत्यो मरुतामश्वाः । अद्यास्मिन्दिने पृषतीनां ग्रहस्थानीयं त्वामृध्यासं वर्धयामि । त्वं पृषतीनां ग्रहेऽसि ग्रहस्थानीयमसि । विप्णोर्यज्ञस्य हृदयं प्रियमसि । हे इष सर्वैर्दवैरिष्यमाण विष्णुर्वज्ञस्त्वामेकं मुख्यं विचक्रमे विशेषेण स्वीकृतवान् । अत्रत्येन घृतेन दध्ना च तव भूतिर्माहात्म्यं वर्धताम् । तस्य तादृशस्येष्टस्य देवेभ्यो हुतस्य वीतस्य वेवैर्भक्षितस्य च् यद्द्रविणं फलमस्ति तन्मां प्रत्यागम्यादागच्छतु । त्वं वैश्वानरं ज्योतिरति विश्वेषा नराणां हितस्य भासकमसि पृश्नियै दुग्धमसि श्वेतवर्णाया गोःक्षीरमसि । अस्य च पृषदाज्यस्य पश्वनूयाजार्यत्वादग्नीषोमीयपशप्रपाठके पृथिव्यै त्वाऽन्तरिक्षाय त्वेत्येतस्मादनुवाकत्पूर्वमयं मन्त्रो द्रष्टव्यः ।
कल्पः — ‘आग्नीध्रे प्रतिप्रस्थाता दधिधर्मं गृह्णात्यौदुय्बर्याँ स्त्रुच्युपस्तीर्य यावती द्यावापृथिवी इति दधि गृहीत्वाऽभिघार्य’ इति । पाठस्तु-
यावतीति । सप्त सिन्धवः समुद्राः ते च भागवतस्य पञ्चमस्कन्धे स्मर्यन्ते क्षारोदेक्षुरसोदसुरोदघृतोददधिमण्डोदक्षीरोदशुद्धोदाः सप्त जलधयः । हे इन्द्र द्यावापृथिवी द्यावापृथिव्यौ महित्वा स्वकीयेन महिम्ना यावती यावत्यौ यत्परिमाणे वर्तेते । किंच सप्त सिन्धवो वा यावद्वितस्तुर्यावन्तं कालं स्थितास्तावन्तं ग्रहं गृह्णामि सर्वस्मिन्देशे सर्वस्मिन्काले त्वदीयं ग्रहमूर्जा सारेण सहास्तृतमविनाशितं यथा भवति तथा गृह्णामि । सोऽयं मन्त्रो ग्रहप्रपाठक इन्द्र मरुत्व इत्यस्मादनुवाकादूर्ध्वं द्रष्टव्यः ।
यदुक्तं सूत्रकारेण-पृषदाज्यं स्कन्नमभिमन्त्र्यापोऽभ्यवहृत्य निर्णिज्य स्रुचँ शतमानं हिरण्यं स्रुच्यवधायेदं विष्णुर्विचक्रम इत्यन्यत्पृषदाज्यं गृहीत्वाऽश्वेनावघ्राप्याऽऽयतने सदयेत्’ इति । तत पुनर्ग्रहणं विधत्ते —
यत्कृष्णशकुन इति । पृषद्भिर्दधिबिन्दुभिर्मिश्रमाज्यं पृषदाज्यम् । तस्य पक्षिस्पर्शे श्वस्पर्शे भूमिपतनेन विनाशे च पुनर्ग्रहणं प्रायश्चित्तं तेन पशुविनाशो न भवति ।
तदेतत्पुनर्ग्रहणं पशुविनाशदोषपरिहारेण प्रशस्य प्राणविनाशदोषपरिहारेणापि प्रसंसति —
प्राणो वा इति । ग्रहणपात्रे हिरण्यस्य प्रक्षेपं तत्परिमाणं च क्रमेण’ विधत्ते —
हिरण्यमवधायेति । गृहीतस्य पृषदाज्यस्याश्वमुखस्पर्शनं विधत्ते —
अश्वभवेति । अश्वस्य प्रजापत्यक्षिजन्यत्वात्प्राणस्य च स प्राणमसृजतेत्यादिश्रुतौ प्रजापतिसृष्टत्वाभिधानाच्च तयोरेककार्यत्वे सति प्राणस्य स्वकीययोनिरूपादश्वान्निर्माणं सिध्यति ।
पृषदाज्यस्य पुनर्ग्रहणे विष्णो त्वं नो अन्तम इति मन्त्रं विधत्ते —
वि वा इति । विष्णो त्वं न इति मन्त्रो जुष्टो वाच हत्यनुवाके व्याख्यातः । आपस्तम्बस्य मते त्विदं विष्णुरिति वैष्णवी । सा च युञ्जते मन इत्यत्र व्याख्याता ।
अत्र विनियोगसंग्रहः —
महीति पृषदाज्ये स्याद्यावतीति दघिग्रहे ।
इदं विष्णुर्वैष्णवी स्यादिह मन्त्रास्त्रयो मताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयप्रपाठके षष्टोऽनुवाकः ॥६ ॥
(अथ तृतीयाष्टके द्वितीयप्रपाठके सप्तमोऽनुवाकः)
पृषदाज्यं भवेत्षष्ठे मन्त्रश्च दधिघर्मगः ।
अथ सप्तमे स्तुतशस्त्रे अभिधीयेते ।
कल्पः ‘ब्रह्मन्स्तोष्यामः प्रशास्तरित्युच्यमाने देव सवितरेतत्ते प्राहेत्यनुद्रुत्य रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्युक्त्वों स्तुतेति प्रसौति’ इति । पाठस्तु—
देव सवितरिति । हे सवितर्देवायमुद्गाता स्तोष्याम इत्येतद्वाक्यं ते तुभ्यं प्राह तत्स्तोत्रं त्वं प्रसुव प्रकर्षेणानुज्ञां च दोहि । प्रयज च प्रकर्षेण च यागं निष्पादय । हे उद्वातारो बृहस्पतिरेवाहं ब्रह्मा न तु मनुष्यमात्रः । सोऽहं वो ब्रवीमीति शेषः । आयुष्मत्या ऋचो मा गात । आयु स्थानीयो निर्वाहोऽस्यामृच्यस्तीति आयुष्मती । तस्या ऋचः सकाशान्माऽपगच्छत ऋगक्षरोञ्चारणे सावधाना भवतेत्यर्थः । तथा तनूपात्साम्नो मा गच्छत । स्तोत्रस्य तनूः शरीरमेव ऋक्तां तनूं पतिति तनूपं साम । ऋगक्षराभिव्यक्तिर्हि साम्ना क्रियते । तत स्तस्मिन्यूयमप्रमत्ता भवतेति । गीयमाने स्तोत्रे वो युष्माकं संबन्धिन्यो यजमानविषया आशिषो याः सन्ति ताः सर्वाः सत्याः सन्तु । याश्च भवतामाकूतयः संकल्परूपास्ता अपि सत्याः सन्तु । यूयं मनसर्तं यथार्थं स्मरत । वाचा च सत्यं वदत । सवितुर्देवस्य प्रसवेऽनुज्ञायां सत्यां स्तुत स्तोत्रं पठत ।
कल्पः — “स्तुतस्य स्तुतमतीति स्तोत्रमनुमन्त्रयते शस्त्रस्य शस्त्रमसीति शस्त्रमिन्द्रियावन्तो वनामह इत्युभयत्रानुषजति” इति । पाठस्तु — स्तुतस्येति । सोऽयं मन्त्रो याजमानः । उद्गातृभिर्गीयमान हे स्तोत्र त्वं स्तुतस्य स्तुतमसि स्तोत्रस्यापि स्तोत्रमसि । स्तोत्रजातावुत्तममसीत्यर्थः । तादृशं स्तुतं स्तोत्ररूपं त्वां मह्यं मदर्थमूर्जं दुहां सारं दुहे । ततः स्तुतस्य स्तुतमुत्तमं स्तोत्रं मां प्रत्यागम्यादागच्छतु । एवं होतुभिः शस्यमान हे शस्त्र त्वं शस्त्रस्य शस्त्रमसि शस्त्रजातावुत्तममसि । शेषं पूर्ववत् । युवयोः स्तुतशस्त्रयोः प्रसादादिन्द्रिवावन्त इभ्द्रियैरविकलैर्युक्ताः सन्तो वनामहे स्वापेक्षितफलं भजामहे । प्रजां पुत्रादिरूपामिषमन्नं च धुक्षीमहि संपादयामः । किंच देवेषु विषयभूतेषु मे मदीया यजामीत्याशीर्याऽस्ति सा सत्या भूयात् । ब्रह्मवर्चसं यज्ञानुष्ठानरूपं मां प्रत्या गम्यादागच्छतु । उत्तरोत्तरमभिवर्धतामित्वर्थः । इदानीमनुष्ठीयमानो यज्ञः संपूर्णो भवति । स यज्ञ आबभूव पुगरप्यावृत्तो भवतु स यज्ञ प्रजज्ञेऽस्माननालस्येनानुष्ठातृन्प्रति प्रजातवान् । अत एवास्मद्गृहे स यज्ञो वावृधे पुनः पुनरनुष्ठानेन वर्धताम् । स यज्ञोऽस्माभिरिज्यमानानां देवानामधिकं पालयिता भवतु । स यज्ञोऽस्मानप्यधिपतीनधिकमनुष्ठानस्य पालकान्करोतु । वयमपि तस्य यज्ञपुरुषस्य प्रसादाद्रयीणां यज्ञसाधनानां धनानां पतयो भूयास्म ।
तदिदमनुमन्त्रणं स्तुतशस्त्रयोर्दोह इति वैदिकैः परिभाष्यते, तमिमं दोहं विधत्ते —
यज्ञो वा वा इति । अत्र दोहनं नाम रिक्तीकरणं गा दोग्धीत्यत्र तद्दर्शनात् । तथा सत्येतद्विचार्यते-किं यज्ञो यजमानं रिक्ती करोति किंवा यजमानो यज्ञमिति । तत्र यतो दोहनविद्वान्यः कोऽपि दोहनामकमभिमन्त्रणमज्ञात्वा यजेत तमेवं पुरुषं यज्ञो रिक्ती करोति । स चेष्ट्या दरिद्रो भवति । विद्वांस्तु यज्ञं दुग्ध्वा वसीयान्भवतीति । यद्यप्येतदभिमन्त्रणं सर्वत्र संचारि तथाऽपि वहिष्प वमानस्तोत्रस्याऽऽज्यशस्त्रस्य प्रथमभावित्त्वात्तदर्थस्तोत्रमन्त्र ऋतुग्रहानुवाकात्प्राक्पठयीयः । शस्त्रमन्त्रस्त्वैन्द्राग्नग्रहानुवाकादूर्ध्वं पठनीयः । अत्र विनियोगसंग्रहः —
देव ब्रह्मा सौति गातॄन्स्तुतस्य यजमानकः ।
स्तोत्रं समन्त्र्य शस्त्रस्य मन्त्रयेच्छस्त्रमेतयोः ॥
इन्द्रः शेषः स णामन्ते मन्त्रा अत्र त्रयो मताः ॥
अत्र प्रथममन्त्र ऋचो मा गात तनूपात्साम्न इत्यत्राक्षराभिव्यञ्जकतया सामानि ऋचः शरीरं रक्षन्तीत्युक्तम् । सोऽयमर्थो नवमाध्यायस्य द्वितीयपादे मीमांसितः —
“सामर्चं प्रति मुख्यं स्याद्गुणो वा बाह्यपाठतः ।
मुख्यमभ्यसितुं पाठो गुणो गीताक्षरः स्तुतेः” ॥
रथंतरं गायतीत्यादौ यद्गानं विहितं तदेतत्सामशब्दार्थ इति प्रतिपादितं स्मारितं च । तदेतद्रानमृचं प्रति प्रधानकर्म स्यात् । कुतः । यागप्रयोगाद्बहिरध्ययनकालेऽपि पठ्यमानत्वात् । गुणकर्म चेद्ब्रीहिप्रोक्षणादिवद्यागप्रयोऽमध्य एव गानमुष्ठीयेत । ततो यागाद्बाहिर्गानस्य विश्वजिदादिवत्फलं कल्पनीयम् । मध्यकालीनं गानं तु प्रयाजादिवदुपकारकम् । तस्मान्मुख्यमेतन्न गुणकर्मेति प्राप्ते ब्रूमः — न तावद्बहिः पाठः प्रधानकर्मत्वं कल्पयितुं शक्नोति । भूमिरथिकशुष्केष्टिन्यायेन प्रयोगपाटवाय गानाध्ययनोपपत्तेः । यथा भूमिरथिको भूमौ रथमालिख्याभ्यासं करोति यथा छात्रः शुष्केष्ट्या प्रयोगपाटवं संपादयति तद्वत् । नापि गुणकर्मत्वे प्रयोजनाभावात्प्रधानकर्मत्वमिति वाच्यम् । गानेन संस्कृतैर्ऋगक्षरैः स्तुतिसंभवात् । आज्यः स्तुवते पृष्ठैः स्तुवत इति स्तुतिविधानात् । तस्पादृगक्षराणां स्वरविशिष्ठत्वाक्षराभिव्यक्तिर्दृष्टं प्रयोजनमिति । अदृष्टस्याकल्पनीयत्वाद्रानं संस्कारकर्म ।
द्वितीयाध्यायस्य प्रथमपादे चिन्तितम्–
“प्रउगं शंसतीत्यादौ गुणतोत प्रधानता ।
दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः ॥
स्मृत्यर्थत्वे स्तौतिशस्योर्धात्वोः श्रौतार्थबाधनम् ।
तेनादृष्टमपेत्यापि प्राधान्यं * स्तुतये मतम् ॥
ज्योतिष्ठोमे श्रूयते— “प्रउगं शंसति निष्केवल्यं शंसति आज्यै स्तुवते पृष्ठैः स्तुवते” इति । प्रउगनिष्केवलयशब्दौ शस्त्रविशेषनामनी । आज्यपृष्ठशब्दौ तु स्तोत्रवाचित्वेन चित्राधिकरणे व्याख्यातौ । अप्रगीतमन्त्रसाध्या स्तुतिः शास्त्रं, प्रमीतमन्त्रसाध्या स्तुतिः स्तोत्रं, तयोः स्तुतशस्त्रयोर्गणकर्मत्वं युक्तम् । तुषविमोकवद्दृष्टार्थत्वलाभात् । पठ्यमानेषु मन्त्रेष्वनुस्मरणेन देवता संस्क्रियत इति प्राप्ते ब्रूमः — स्तोतव्याया देवतायाः स्तावकैर्गुंणैः संबन्धः स्तौतिशंसतिधात्वोर्वाच्योऽर्थः । यदि मन्त्रवाक्यानि (णि) गुणसंबन्धाभिधानपराणि तदा धात्वोर्मुख्यार्थलाभाच्छ्रतिरनुगृहीता भविष्यति । यदा तु गुणद्वारेणानुस्मरणीयदेवतास्वरूपप्रकाशनपराणि मन्त्रवाक्यानि (णि) स्युस्तदा धात्वोर्मुख्यार्थो न स्यात् । लोके हि देवदत्तश्चतुर्वेदाभिज्ञ इत्युक्तः स्तुतिः प्रतीयते । तस्य वाक्यस्य गुणसंबन्धपरत्वात् । (* यश्चतुर्वेदाभिज्ञो देवदत्तस्तमाकारयेत्युक्तौ स्तुतिर्न भवत्याकारणपरत्वेन वाक्यस्य गुणसंबन्धपरत्वाभावात् । तथाऽत्रापि पठ्यमानगुणविशिष्टो यः स देव इत्येव मन्त्रवाक्यानां (णां) देवताप्रकाशनपरत्वं तावच्चेत्स्यात्) ततश्चाऽऽज्यैर्देवं प्रकाशयेत्पृष्ठैर्देवं प्रकाशयेदित्येवं विध्यर्थपर्यवसानाद्धात्वोर्मुख्यार्थो बाध्येत । ततो धातुस्तुतिमबाधितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमभ्युपेतव्यम् । तत्र दृष्टं प्रयोजनं नास्तीति चेत् । तर्ह्यपर्वमस्तु ॥
श्रीमत्सायणार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
तृतीयकाण्डे द्वितीयप्रपाठके सप्तमोऽनुवाकः ॥७ ॥
(अथ तृतीयकाण्डे द्वितीयप्रपाठकेऽष्टमोऽनुवाकः)
प्रसूतिमन्त्रणं प्रोक्तं सप्तमे स्तुत शस्त्रयोः ।
अथाष्टमे तृतीयसवनगता माध्यंदिनसवनगता होमविशेषमन्त्रा उच्यन्ते ।
कल्पः — “अथ चमसाज्जुहोति श्येनाय पत्वने स्वाहेति वषट्कृते जुहोति वट्स्वयमभिगूर्ताय नमः स्वाहेत्यनुवषट्कृते, एवमुत्तरैः प्रचरत्येतावन्नापूर्वेण मन्त्रेण वषट्कृते वषट्कृते जुहोत्युत्तरेणानुवष्ट्कृते” इति । पाठस्तु —
श्येनाय षत्वन इति । श्येनरूपाय पतनशीलाय ‘इन्द्र ऋभुभिः’ इत्यनया याज्यया प्रतिपाद्याय देवाय स्वाहा हुतमिदमस्तु । वट्शब्दोऽऽवश्यमित्यस्मिन्नर्थे वर्तते । स्वयमेव सोमपार्श्वे गन्तुमद्यतः स्वयमभिगूर्तोऽवश्यं स्वयमभिगूर्ताय नमोऽस्तु । विष्टम्भाय विष्टम्भयित्रे शात्रूणां विनाशयित्रे धर्मणे धारकायास्माकं पोषकायेन्द्रावरुणा सुतपाविति याज्यया प्रतिपाद्याय देवाय स्वाहुतम् । परिधये परितो धारयित्रे जनपथनाय जनानां प्रश्यापनायेन्द्रश्च सोमं पिबतमिति याज्यया प्रतिपाद्याय स्वाहुतम् । होत्राणां होमर्तॄणामूर्ज ऊर्ग्रुमायान्नप्रदायाऽऽवो वहन्तु सप्रय इति याज्यया प्रतिपाद्याय स्वाहुतम् । होत्राणां होमकतॄणां पयसे क्षीरप्रदायामेव नः सुहवा इति याज्यया प्रतिपाद्याय स्वाहुतम् । प्रजापतये प्रजानां पालकाय, गनवेऽस्माभिर्मन्तव्याय’ इन्द्राविष्णू पिबतम्’ इति याज्यया प्रतिपाद्याय स्वाहुतम् । हे ऋतपा, त्तत्यपालक हे सुवर्वाट् स्वर्गप्रापक ऋतमस्मदीयं यज्ञं पालयेति शेषः । तस्मै तुभ्यमिमं स्तोममर्हत इति याज्यया प्रतिपाद्याय स्वाहुतम् । त एते प्रस्थितयाज्यहोमाः ।
कल्पः — “तुम्पन्ताँ होत्रा इति सर्वान्हुत्वा जपति” इति । पाठस्तु —
तृम्पन्तामिति । होत्रा मधोर्घृतस्यति ह्यमाना देवा मधुरेण घृतेन तृप्यन्तु । त एत मन्त्रास्तुतीयसवनगताः कदाचन स्तरीरित्यस्मादनुवाकदूर्ध्वं द्रष्टव्याः ।
कल्पः — “यज्ञपतिमृषय एनसाऽऽहुरित्याग्नीघ्रीये पञ्च वैश्वकर्मणानि हुत्वा” इति । तत्र प्रथमामृचमाह —
यज्ञपतिमृषय इति । यदा प्रजाः सर्वा निर्भक्ता अन्नरहिता अनुतप्यमाना भवन्ति तदानीं यज्ञपतिमेनसा संयुक्तमृषयः सर्वेऽप्याहुः । यज्ञपत्यपराधादेव वृष्ट्याद्यभावे सत्यन्नाभावे प्रजानामनुतापो जायते । कोऽयं यज्ञपतेरपराध इति तदुच्यते — मधुर्वसन्तर्तुस्तत्संबन्धिनौ चैत्रवैशाखमासौ मधव्यौ स्तोकौ ज्योतिष्टोमानुष्ठानेन स्तोतुं योग्यौ । तादृशयोमासयोरनुष्ठानमकृत्वा तौ मासौ प्रत्यहं यज्ञपतिरपरराध, अनेनापराधेन पापी यजमान इत्यृषय आहुः । अतोऽयं विश्वकर्मा नोऽस्मान्यज्ञपतींस्ताभ्यां मासाभ्यां संसृजतु । यथा तयोर्मासयोर्ज्योतिष्टोममनुतिष्ठामस्तथा प्रेरयत्वित्यर्थः ।
अथ द्वितीयामाह–
घोरा ऋषय इति । पूर्वोक्त ऋषयस्ते घोरा उग्रा अस्मदपराधमन्विष्य पापीयानयमिति जनानामग्रे निन्दकत्वात् । अत एभ्य ऋषिभ्यो नमोऽस्तु नमस्कारेण शान्ताः सन्तोऽस्मान्मा निन्दन्तु । एषामृषीणां चक्षुषोऽस्माकं यनसश्च संधौ संधाननिमित्तं बृहस्पतये नमोऽस्तु । ऋषयो यथास्मान्समनुग्रहेण कटाक्षेण वीक्षन्ते वयं च यथा कर्मानुष्ठानेनापराधरहिताः सन्तो मनसा भक्तिं कुर्मस्तथाऽयं
बृहस्पतिरनुगृह्णातु । महि सद्द्युमदित्येतानि त्रीणि नमःशब्दस्य विशेषणानि । नमस्कारोऽयमष्टाङ्गोपेतत्वान्महान् । तदनुग्रहपर्यन्तमुत्पादनाभावदयं नमस्कारः सीदतीति सत् । भक्तिरसेनात्यन्तमाविर्भूतत्वाद्द्युमत् । विश्वविषयं कर्म सृष्ट्यादिरूपं यस्यासौ विश्वकर्मा प्रजापतिस्तस्मै नमोऽस्तु । स उ सोऽपि विश्वकर्माऽस्माननुष्ठानप्रवर्तनेन पातु । अथ तृतीयामाह — अनन्यानिति । हे विश्वकर्मन्ननन्यांस्त्वद्व्यतिरेकेण गत्यन्तररहितानस्मान्सोमपान्मन्यमानोऽसोमपानप्येते सोमपा इत्येवानुग्रहं कुर्वन्पातुमर्हती (सी) ति शेषः । तत्र दृष्ठान्तः- प्राणस्य विद्वान्समरे न धीर इति । यथा लोके धीरः पुरुषः परकीयस्य प्राणस्याऽऽपदं विद्वान्समरे न युद्ध इव करुणया तं पाति तद्वत् । अयं यजमानः प्रमादालस्यादिकारिणा तमोगुणेन वृतः सन्नेषामृषीणामेनो महि चकृवान्महान्तमपराधं कृतवान् । तमपराधिनं प्रमुञ्च तस्मादपराधात्प्रकर्षेण मोचय । किमर्थं स्वस्तये विनाशराहित्याय । अथ चतुर्थीमाह —
ये भक्षयन्त इति । ये यष्टारो भक्षयन्तो न भक्षयन्त इव वसूनि धनान्यानृहुः पूजितवन्तो यज्ञभिक्षारूपेण धनमर्जयित्वा यज्ञमकृत्वैव भोगार्थं संगृहीतवन्त इत्यर्थः । धिष्ण्यनिवासिनोऽग्नयो यानन्वतप्यन्ताहो शोच्या एत इति तद्विषये खेदं कृतवन्तः । तेषां यष्टॄणां या दुरिष्टिर्दुष्टो यागो यागाभावस्तद्धेतुरेनश्च तस्या अवया विनाशयित्री येयमिष्टिर्यागस्तामिष्टिं नोऽस्माक विश्वकर्मा स्विष्टिं करोतु । अथ पञ्चमीमाह —
नमः पितृभ्य इति । य नोऽस्मानभ्यख्यन्नाभिमुख्येन पश्यन्ति ते यज्ञस्य कारयितारोऽस्माकं यज्ञं कामयमानाः सुदेवाः सुष्ठु द्योतमानास्तादृशा हे पितरो वयं प्रमादालस्यादिभिरकामा यज्ञं कर्तुमिच्छारहिताः सन्तो वो युष्मभ्यं दक्षिणां दक्षिणोपलक्षितं यज्ञं न नीनिम नैव नीतवन्तस्तस्मादेनसोऽस्मान्मा पापयिष्ट तेन पापेनास्मान्पापिष्ठान्मा कुरुत । तैरेतैर्मन्त्रैर्होमं विधत्ते —
यावन्तो वा इति । यज्ञसमायां द्रष्टुभागत्यावस्थिता ये ब्राह्मणास्ते सर्वे दक्षिणार्हस्तेषामदानेन यत्पापं तन्निवारणाय यथोक्तानि वैश्वकर्मणानि जुहुयात् । अयं च होम ऋत्विग्दक्षिणान्तरभावीति कृत्वा तन्मन्त्रा उदु त्यं जातवेदसमि त्यस्मावसाने द्रष्टव्याः —
कल्पः- ‘पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य तस्मिन्यजमानः पुरस्तात्प्रत्यङ्तिष्ठन्सह पत्न्याऽऽशिरमवनयत्यस्मे देवासो वपुषे चिकित्सतेति चतसृभिः’ इति ।
आशिरशब्देन मथितं दध्यभिधीयते । आग्नीघ्रे पत्न्याशिरं मथित्वेति सूत्र कारेणोक्तत्वात् । तत्र प्रथमाया ऋचः पाठस्तु—
अस्मे देवास इति । देवासो हे देवा अस्मे अस्माकं वपुषे शरीराय चिकित्सत । अस्माकं शरीरं यथा पापरहितं भवति तथा कुरुतेत्यर्थः । यत्क्षीरं दोहनपात्रस्थमेवाक्षतादिप्रक्षेपेण घनी भवति तादृशं दधि रेफान्ताशीः शब्देनाभिधीयते । चिकित्साविशेषं प्राप्य दंपती पत्नीययमानावाशिरा दघ्ना यं वामं सौन्दर्यमश्नुतस्तेन कृत्वा पुमान् पुत्रो जायते वसु च विन्दते । अथापि च विश्व एतत्संबन्धिनः सर्वेऽरपा ज्ञानवन्तः । एतस्य गृह एधते । अथ् द्वितीयामाह —
आशीर्दायेति आशीर्दाया, आशिरं पूर्वोक्तं दधि दत्त इत्याशीर्दायौ । तादृशौ दंपती वाममश्नुतां कल्याणं प्राप्नुताम् । कीदृशौ दंपती । समोकसा सम्य गोको ययोस्तौ समोकसौ । द्वावेकगृहवासिनावित्यर्थः । अरिष्टो हिंसारहितः । पत्नीयुक्तो यजमानो रायो धनानि सचतां समवैतु प्राप्नोत्वित्यर्थः । यो यजमान इष्टेन सह प्रीत्या युक्तो यामन्नाधारभूते सोमे सुंतुग्धं यथोक्तदधिभावमापन्नं सम्यक्क्षीरं कुम्भ्या संपूर्णन घटेनाऽऽसिवत्सर्वतः सिक्तवान्स यजमानोऽमतिं रोणं दुर्बुद्धिं जहातु । अथ तृतीयामाह —
सर्पिर्ग्रीवीति । अस्य यजमानस्य जाया सर्पिर्ग्रीवी स्त्रिग्धकण्ठा कोमल ध्वनियुक्ता पीवरी पुष्टसर्वावयवयुक्ता भवतु । अस्य यजमानस्य पुत्राः पीवानः पुष्टसर्वाङ्गा अकृशासः कदाचिदपि व्याध्यादिजनितकार्श्यरहिताः सन्तु । यो यजमानः सुमखस्यमानः शोभनं यज्ञं कुर्तुमिच्छन्निन्द्रायाऽऽशिरं पूर्णया कुम्भ्या सहादात्मभूतं दत्तवानित्यर्थः । तस्वास्य यजमानस्य जायेति पूर्वत्रान्वयः । कीदृशो यजमानः । सहजानिः सहाविश्थिता जाया यस्यासौ सहजानिः । आशीर्दानकाले जायऽपि सहवस्तितेत्यर्थः । अथ चतुर्थीमाह —
आशीर्म इति । सक्रारान्तोऽयमाशीः शब्दः प्रार्थनामाचष्टे । इन्द्र य आशीर्ममेयं प्रार्थना भवानूर्जं दधातु मदर्थं धारयतु । प्रयच्छत्वित्यर्थः । उतापि च सुप्रजास्त्वं शोभनापत्यत्वभिषमन्नं द्रविणं सवर्चसं वर्चःसहितं प्रयच्छतु । अहं त्वत्प्रसादात्क्षेत्राणि वैरिसंबन्धीनि सहसा बलेन संजयन्स्वात्मनि धारयन्नन्यान्सपत्नान्वैरिणोऽधरान्कृण्वानोऽस्मदाज्ञाधारिणः कुर्वाणो भूयासम् । अस्याऽऽशि (शी) रवनयनस्य तृतीयसवनगताभिषवार्थत्वादेते मन्त्राः कदा चन वाममद्येत्यनयोरनुवाक्योर्मध्ये द्रष्टव्याः ।
कल्पः — “भूतमसि भूते मा धा इति प्रतिप्रस्थाता ध्रुवमवेक्ष्य” इति ।
पाठस्तु —
भूतमसीति । हे ध्रुव भूतमसि नित्यासिद्धस्वरूपमसि भृते नित्यसिद्धे स्वरूपे स्वार्गादौ परमात्मनि वा मा धा मां स्थापय । किंच मुखमसि सर्वेषु ग्रहेषु मुख्योऽसि । “आयुर्वा एतद्यज्ञस्य यद्ध्रुवः’ इति श्रुतेः । अतस्त्वत्प्रसादान्मुखं भूयासं सर्वेषां मुख्यो भूयासम् ।
द्यावापृथिवाभ्यामिति । कल्पः — “द्यावापृथिवीभ्यां त्वां परिगृह्णामीत्यञ्जलिना परिगृह्य” इति । हे ध्रुव द्यावापृथिवीसदृशाभ्यामञ्जलिपुटाभ्यां त्वां स्वी करोमि ।
कल्पः — “ विश्वे त्वा देवा वैश्वनराः प्रच्यावयन्त्विति ध्रुवं प्रच्याव्य” इति । पाठस्तु–
वि वे त्वेति । हे ध्रुव वैश्वानरा विश्वेषां नराणां हितकारित्वेन संवन्धिन’ सर्वे देवात्त्वां प्रच्यावयन्तु स्वस्थानाच्चालयन्तु । त्वं च दिवि देवान्दृढी कुरु” अन्तरिक्षे वयांसि पक्षिणो दृढी कुरु । पृथिव्यां पर्वतादीन्दृढी कुरु । न तु त्वदीयेन चलनेन सर्वं जगच्चालय । कल्पः — ध्रुवं ध्रुवेणेति पुरस्तात्प्रश्यङ्ङासीनो होतृचमसे ध्रुवमवनयति इति । पाठस्तु-
ध्रुवं ध्रुवेणेति । ध्रुवं ध्रुवेण हविषेदानीमवनीयमानेन ध्रुवस्थालीगतेन सोमरसेन पूर्वं होतृचमसे स्थितं ध्रुवं सोममवनयामसि अघस्तान्नयामस्तस्योपरि त्वां सिञ्चामि इत्यर्थः । यथा येन प्रकारेण नोऽस्माकं सर्वमिज्जगत्सर्वमेव जङ्गमं गवोदिकमयक्ष्मं रोगरहितं सुमनाः शोभनमनस्कमसद्भवेत् । यथा च नोऽस्माकं विशः प्रजाः सर्वा अपि केवला रोगरहिताः समनसोऽनुकूलमनलश्चेन्द्रः करदिन्द्रश्च कुर्यात् । यथा च नोऽस्माकं सर्वा इद्दिशो दिग्वर्तिन्यः सर्वा एव प्रजा अधीनाः स्युरिति शेषः । किंचास्माकं केवलीरसन्नसाधारण्येन वर्तेरन् । यथैतत्सर्वं सिध्यति तथा होतृचमसेऽवनयामीति पूर्वत्रान्वयः । त एते मन्त्रा बृहस्पति सुतस्य हरिरसीत्यनयोरनुवाकयोर्मध्ये द्रष्ठव्याः । अत्र विनियोगसंग्रहः —
श्येना तृतीयसवने सप्तभिश्चमसाहुतिः ।
वषट्कृते मन्त्रहोमो वडित्यनुवषट्कृते ॥
तृम्पन्तां सर्वचमसान्हुत्वा जपति मध्यमे ।
सवने वैश्वकर्माख्याहोमा मन्त्रैस्तु पञ्चभिः ॥
यज्ञ-घोरा-अनन्या-ये भक्षयन्तो — नपः पिभिः ।
पूतभृत्याशिरं त्वस्मे क्षिपन्मन्त्रचतुष्ठयात् ॥
भूतं घ्रुवमवेक्षेत प्रतिप्रस्थातृकर्म तत् ।
द्यावाऽञ्जलौ गृहीत्वा विश्वे होतृचमसे नयेत् ॥
ध्रुवमेकी करोत्यत्र मन्त्रान्तोऽसन्नितीरित ।
अष्टमे त्वनुवाकेऽस्मिन्नष्टाविंशतिरीरिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयप्रपाठकेऽष्टमोऽनुवाकः ॥८ ॥
(अथ तृतीयकाण्डे द्वितीयप्रपाठके नवमोऽनुवाकः) ।
उक्ताः प्रस्थितयाज्यारूपहोमाद्या अष्टमेऽखिलाः ।
अथ नवमे प्रतिगरानन्तरभाविमन्त्रा वक्तव्याः । शंसितुर्मन्त्रेण प्रोत्साहनं प्रतिगरस्तस्य प्रतिगरस्यानन्तरभाविषु मन्त्रेषु प्रथमपुत्पाद्य विनियुङ्क्ते — यद्वै होतेति । यदाशंसनकाले होताऽध्वर्युनाभिमुख्येनाह्वयति । आह्वान मन्त्रस्तु र्शोसावोमिति । तस्मायमर्थः — हेऽध्वर्यो शस्त्र पठानि मदीयशस्रपाठकाले प्रातेगराय त्वं सावधानो भवेति पदेन यदध्वर्युं प्रति होतुराह्वानं तदेतद्वज्रप्रहरमयं होता करोति । तस्माद्भोतृप्रयुक्तवज्रप्रहारं समाधातुं प्रातःसवनप्रतिगरादूर्ध्वमुख्थशा इति मन्त्रेण होतारं स्तुवीत । उक्थं शस्नं शंसतीत्युक्थशाः सम्यक्शंसितवानसीति मन्त्रार्थः । प्रतिगंरप्रकारस्त्वापस्तम्बेन दर्शितः — “अध्वर्युः सदो बिले प्राङ्मुख उपविश्येडा देवहूरिति शस्त्रं मतिगरिष्यञ्जपत्यध्वर्यो शोंसावोमिति होतुरभिज्ञाय प्रदक्षिणमावर्तमानः शोंसामादैवेति प्रत्याह्वयते शंसामोद इवेति वा” इति । प्रतिगर्तुं पात्रं धारयमाणः सदोबिले प्रत्यङ्तिष्ठन्संबोधनमाश्रुत्य होतारं प्रत्याह्वयते । हे होत शोंसा सर्वथैव मोद एवास्माकं त्वदीयेन प्रतिगरणेति मन्त्रार्थः । ऋचि समाप्तायामयमेव प्रतिगरः प्रणवादिः पठ्यत । अस्त्विति प्रणवस्यार्थः । कृस्नशस्त्रसमाप्तावङ्गीकारवाचिना प्रणवेनैव प्रतिगरः । प्रत्युत्तरकथनं प्रतिगरशब्देनोच्यते । प्रातःसवने यानि शस्त्राणि तेषां सर्वेषां प्रतिगरमुक्त्वा तदवसाने त्र्यक्षरमुक्थशा इति मन्त्रं पठेत् । अत्राक्षरगतत्रित्वेन त्रिपदा गायत्री स्मार्यते । तया च गायत्र्या तद्युक्तं प्रातःसवनं स्मर्यते । पातःसवने स्मृतया गायत्र्यैव होतृप्रयुक्तं वज्रमन्तर्हितं करोति । अथ मन्त्रान्तरमुत्पाद्य विधत्ते —
उक्थं वाचीति । पूर्ववद्व्याख्येयम् । उक्थं शस्त्रं त्वदीयायां वाचि सम्यक्प्रवृत्तमिति मन्त्रार्थः । पुनरपि मन्त्रान्तरमुत्पाद्य विधत्ते —
उक्थं वाचीति । वज्रो वै शक्वरीत्युक्तत्वाद्वज्रस्य शाक्वरत्वम् । अनेन सप्ताक्षरेण शाक्वरेण वज्रेण होतृप्रयुक्तं वज्रमन्तर्हितं करोति ।
अथ विहितं मन्त्रत्रयं प्रकारान्तरेण प्रशंसितुमुपोद्धातमाह —
ब्रह्मवादिन इति । यः पुरुषः सवनानरूपेण च्छन्दांसि कर्तुं जानाति प्रातः सवने गायत्री माध्यंदिने सवने त्रिष्टुप्तृतीयसवने जगतीत्येवंविधानि च्छन्दांसि । तानि च प्रतिगरेऽमिहिते सति पश्चात्संपादनीयानि । एतत्संपादने यः सगर्थः स एव मुख्योऽध्वुर्युः स्यात् । किंच प्रातःसवने समाप्ते सति स्वात्मनि यस्तेजो धारयेन्माध्यंदिने समाप्ते सतीन्द्रियं धारयेत्तृतीयसवने समाप्ते सति पशून्धारयेत्स एव मुख्योऽध्वर्युरित्येवं ब्रह्मवादिनः परस्परमाहुः ।
तत्र प्रथममन्त्रेण सवनोचितछंदः संपात्तिं तेजोधारणं च दर्शयति —
उक्थशा इति । प्रातः सवनगतानां स्तोत्रशास्त्राणां गायत्रीछन्दस्कत्वात्प्रातःसवनस्य बहिष्पवमानगता उपास्मै गायतेस्याद्या आज्यस्तोत्रगता अग्न आयाहीत्याद्याश्च गायत्रीछन्दस्काः । तथा शस्त्रोष्वपि द्रष्टव्यम् । गायत्र्युपदेशेन ब्राह्मण्यसंपूर्तेर्गायत्र्यास्तेजोरूपत्वम् ।
द्वितीयमन्त्रेणोचितच्छन्दः संपत्तिमिदन्द्रियधारणं च दर्शयति —
उक्थं वाचीति । माध्यंदिनपवमाने प्र तु द्रवेति सूक्तस्य त्रिष्टुप्छन्दस्कत्वात्तत्सवनं त्रैष्टुभं प्रजापतेरुरसो बाहुभ्यां चेन्द्रेण सहोत्पन्नत्वादिन्द्रसृष्टस्येन्द्रियस्य त्रिष्टुप्त्वम् ।
तृतीयसवनोचितच्छन्दःसंपत्तिं पशुप्राप्तिं च सप्ताक्षरमन्त्रेण दर्शयति —
उक्थं वाचिति । शक्वरीजगत्योः पशुप्राप्तिहेतुत्वं सवनगतस्तोत्रशस्त्रर्चां जगतीछन्दस्कत्वात्तत्सवनं जागतम् । अतः शक्वरीद्वारा सवनोचितच्छन्दःसंपत्तिस्तृतीयसवनस्य पशुप्राप्तिहेतुतया पशुत्वम् । अथ प्रत्याह्वानं विधत्ते —
यद्वै होतेति । आ समन्ताद्व्यते पीड्यते येन रोगविशेषेण स रोगविशेष आव्यः । यदा होताऽध्वर्युं संबोध्य शोंसावोमिति प्रष्टुमाभिमुख्येनाऽऽह्वयते तदानीमस्मिन्नध्वर्यौ रोगविशेषं स्थापयति । सावधानत्वहेतोश्चित्तक्लेशस्योपद्रवत्वात् । तद्रोगस्थापनं यद्यध्वर्युर्नापहनीत न निराकुर्यातदानीमस्याध्वर्योर्गृहे संवत्सरात्पुरैव प्रजा आवेवीरन्सर्वरोगादिभिः पीड्येरन् । ततस्तत्परिहाराय शोँसा मोद इवेति मन्त्रेणाध्वर्युः प्रत्याह्वानं कुर्यात् । तेनैव प्रत्याह्वानेन तदभ्याह्वानं कृतं रोगजातमपहते विनाशयति । प्रश्नरूपस्याऽऽह्वानस्य प्रत्युत्तररूपमाह्वानं परिहारः । मन्त्रस्यायमर्थः — हे होतस्त्वं शोंसा सर्वथा शंसैव माद इवास्माकं हर्ष इव हर्ष एवेति । इदानीमध्वर्योरप्रमत्तत्वं विधत्ते — यथा वा इति । यथा लोके पृच्छन्तं वादिनं प्रत्याभिमुख्येन नियतां वाचं वक्तुं प्रतिवादी सावधानः प्रतीक्षते । तथा वा राजामात्यादिकं प्रति सेवको भृत्य आभिमुख्येन नियतां वाच वक्तुमप्रमत्तः प्रतीक्षते, एवमसावध्वर्युः प्रतिगरं प्रत्युत्तरं वक्तुं सर्वदा सावधानः प्रतीक्षेत ।
प्रतिगरकालमतिक्रम्य वा तस्मात्कालात्प्रागेव वा प्रतिगरे बाधं दर्शयति…
यदभिप्रतीति । अर्धर्चसमाप्तिः प्रतिगरस्य कालस्तस्याभितो यदि प्रतिगृणीयात्तदा यथा प्रागतीते वा काले प्रत्युत्तरमाभाषमाण आयतया वाचा समृच्छत आभिमुख्येन या वाग्वक्तव्या तया नियतया वाचा हीना भवतीत्यर्थः । तदेतदकाले प्रतिगरोच्चारणं तादृग्भगवति । प्रतिगरविस्मरणे बाधं दर्शयति —
यदर्थर्चादिति । अर्थर्चसमापूतेरनन्तरं यदि प्रतिगरो लुप्यते । तत्र दृष्टान्तो यथा लोको चोख्याध्रादिभयाकुले महारण्ये शीघ्रं धावद्भ्यः सार्थगतेभ्यः पुरुषेभ्यः सकाशात्कश्चिद्धावितुमशक्तो हीना गच्छन्संश्चोरादिभिरुपद्रुतो भवति । तदेतदर्धर्शमतिगरलापनं तादृगेव । तस्मात्सावधानः प्रतिगरकालं प्रतीक्षेत ।
प्रबाहुग्वा इति । ऋत्विजामुद्गातृहोत्रध्वर्यूणामुद्गीथा उत्कृष्टगानविशेषाः प्रबाहुग्वै समाना एव । समानत्वं कथमिति तदुच्यते उद्गातृणां सामगानामुद्गीथनाम्नैव गानविशेषः प्रसिद्धः । प्रस्तावमन्त्रादुपरितना भक्तिरुद्गीथः । स च प्रणवपुरःसरं गीयते । एवमुक्थशंसिनां होतृणां संबन्धी प्रणव उद्गीथः । अध्वर्गूणां तु प्रतिगर उद्गीथः । तथा च श्रूयते — ‘ओमिति सामानि गायन्ति । ओँशोमिति शस्राणि शँसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगरं प्रतिगृणाति” इति । ओं शोँ सा मोद इवेति ब्रुवन्सामवदुच्चारयति । प्रतिगरवेदनं प्रशंसति —
य एवं विद्वानिति । हेतुः शंसनकाल उपवेशनमध्वर्योश्च प्रतिगरकाल उत्थानं क्रमेण विधत्ते —
इयं वै होतेति । होतुर्भूमिस्वरुपत्वादयमासीनः शंसेत्तेनापवेशनेनास्या एव भूमेर्होता नापगच्छति । भूमिश्चाऽऽसीनेव दृश्यते । किंच तथा सति यजमानो भूमिं दुग्धे । तत्रत्वं सारं गृह्णातीत्यर्थः । अध्वर्योः स्वर्गरूपत्वादुत्थित एवायं प्रतिगृणीयात् । तथा सति अयमध्वर्युरमुष्या दिवो नापगच्छति । द्यौश्च तिष्ठतीव दृश्यते । उपरिवर्तमानत्वात् । किंचाध्वर्योरुत्थितत्वेन यजमानो दिवं दुग्धे । तत्रत्यं सारं गृह्णाति । प्रकारान्तरेणोपवेशनोत्थाने प्रशंसति —
यदासीन इति । यस्मादासीनो होता शंसति तस्माद्देवा इतः प्रदानमुपजीवन्ति । अस्मिँलोके यत्प्रदीयते हविस्तदुपजीवन्तीत्यर्थः । यस्मादध्वर्युस्तिष्ठन्प्रतिगृणाति तस्मान्मनुष्या अमृतःप्रदानमुपजीवन्ति । अमुष्य लो(ष्माल्लो) काद्देवैः प्रेरितं वर्ष पुजीवन्तीत्यर्थः । होतुः प्राङ्मुखत्वमध्वर्योः प्रत्यङ्मुखत्वं च विधत्ते —
यत्प्राङासीन इति । यस्माद्धोता प्राङ्मुखस्तस्मात्प्राचीनं पत्नीक्षेत्राभि मुखं रेतः स्थाप्यते । यस्मादध्वर्युः प्रत्यङ्मुखस्तस्मात्प्रजाः क्षेत्रविमुखा उत्पद्यन्ते ।
होतुरभ्याह्वानात्पूर्वमिडा देवहूरिति मन्त्रं जपतः प्राङ्मुखस्याध्वर्योरभ्याह्वानादूर्ध्व प्रत्यङमुखत्वाय परावृत्तिं विधत्ते —
यद्वै होतेति । यद्यपि शोंसावोमिति होतुरभ्याह्वानं सकृदेव तथाऽपि त्रीनर्थान्विधातुं द्वितीयानुवादस्तस्मिन्नेव काले प्राङ्मुखस्य परावृत्तिं विधातुं तृतीया नुवादः । अत एवाऽऽपस्तम्बेनोक्तम — “प्रदक्षिणमावर्तमानः शोंसा मोदवेति प्रत्याह्वयते” इति । अत्र विनियोगसंग्रहः —
प्रत्याह्वयेत शोंसावो सवनेषु त्रिषूच्चरेत् ।
उक्थादिमन्त्रांस्त्रीनत्र मन्त्राश्चत्वार ईरिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयप्रपाठके नवमोऽनुवाकः ॥९ ॥
(अथ तृतीयकाण्डे द्वितीयप्रपाठके दशमोऽनुवाकः) ।
उक्तः प्रतिगरः साङ्ग समन्त्रो नवमे स्फुटम् ।
अथ दशमे प्रतिनिर्गाह्यमन्त्रा उच्यन्ते ।
कल्पः — ‘उपयामगृहीतोऽसि वाक्षसदसीति प्रतिनिर्ग्राह्यं गृहीत्वा न सादयति” इति । पाठस्तु — उपयामेति ।
हे प्रतिनिर्गाह्य त्वमुपयामेन पार्थिवपात्रेण गृहीतोऽसि । वाक्षो वागिन्द्रियं तत्रावस्थितोऽसि । वाग्वा एषा यदेन्द्रवायवः” इति श्रुतेः । तादृशं त्व वाचः पालकाभ्यां क्रतोर्यज्ञस्य पालकाभ्यां घ्रुवस्याविनाशिनोऽस्य यज्ञस्याध्यक्षाभ्यां स्वामिभ्यामिन्द्रवायुभ्यां गृह्णामि तदर्थं गृह्णामीत्यर्थः ।
कल्पः — ‘ग्रहाणां प्रतिनिर्ग्राह्याणां ग्रहणादित्योपस्थानावनयनप्रदाना-न्यूत्तरोत्तरैर्मन्त्रैः” इति ।
अस्यायमर्थः — प्रतिनिर्ग्राह्यनामका ये ग्रहा ऐन्द्रवायवमैत्रावरुणाश्-विनसंबन्धिनस्तेषां ग्रहणादिक्रियाऽऽम्नानक्रमेणोत्तरैर्मन्त्रेद्रष्टव्येति ।
तत्रैन्द्रावायवप्रतिनिर्ग्राह्यस्य ग्रहणमन्त्र उक्तः । मैत्रावरुणप्रतिनिर्ग्राह्यस्य ग्रहणमन्त्रः —
उपयामेति । ऋतं सत्यं यज्ञो वा तत्र सीदतीत्यृतसत् ।
आश्विनप्रतिनिर्ग्राह्यमन्त्रः —
उपयामेति । श्रुतं श्रोत्रेन्द्रियं तत्र सीदतीति श्रुतसत् “चक्षुर्मैत्रावरुणँ-श्रोत्रमाश्विनम्” इति श्रुत्यन्तरात् ।
देवेभ्यस्त्वेति । कल्पः — “देवेभ्यस्त्वेत्यादित्यपात्रेण प्रतिप्रस्थाताऽऽदि-त्यस्थाल्यां संपातमवनीय” इति ।
हे ऐन्द्रवायमप्रतिनिर्गाह्य देवार्थं त्वामवनयामीति शेषः । एवं विश्वदेवे-भ्यस्त्वा देवेभ्य इति मन्त्राभ्यामुत्तरयोः संपातावनयनं कुर्यात् । गणप्राधान्येन विश्वदेवेभ्य इति समासनिर्देशः । प्रत्येकप्राधान्येन विश्वेभ्य इति व्यासनिर्देशः ।
विष्णाविति । कल्पः — “विष्णवृरुक्रमैष ते सोमस्तँ रक्षस्वेत्यादित्य-पात्रेण प्रतिप्रस्थाताऽऽदित्यस्थालीमपिदधाति” इति ।
तं ते दुश्चक्षा माऽव ख्यदित्येव आम्नातो मन्त्रशेषः ।
हे उरुक्रम विष्णो रक्षणार्थमेष सोमस्तवाधीनः । अतस्तं रक्षस्व । तं ते त्वदीयं सोमं दुश्चक्षाः पापदृष्टिः पुरुषो माऽवख्यान्मा द्राक्षीत् ।
कल्पः — “ग्रहमध्वर्युरादाय क्षिप्रँ होतारमतिद्रुत्य मयी वसुः पुरोवसुरिति ग्रहँ होत्रे प्रयच्छति” इति । पाठस्तु —
मयि वसुरिति । वसुर्धनरूपः सोमो मयि वर्तते । स कीदृशः । पुरोवसुः पुरस्कृतेतरसमस्तधनः । यद्वा पुरस्तात्प्राणादीनां वासयिता । यथाविधस्त्वं वाक्पा वाचः पालकः । अतो मम वाचं पाहि ।
यथाऽनेन मन्त्रेणैन्द्रवायवग्रहो होत्रे दत्त एवमुत्तराभ्यां मन्त्राभ्यां मैत्रावरुणाश्विनग्रहौ देयौ । तयोः पाठस्तु —
मयि वसुरिति । विदद्वसुर्लब्धसमस्तधनः । संयद्वसुः प्राप्तसमस्तधनः ।
भूरसि श्रेष्ठ इति । कल्पः — “हुते चाऽदित्यमुपतिष्ठते भूरसि श्रेष्ठो रश्मीनां प्राणपाः प्राणं मे पाहीति” इति ।
हे हस्तस्थ सोम त्वं भूरसि सखानां भावयिताऽसि । अतो रश्गीनां सुखप्रकाशकानां वस्तूनां मध्ये त्वं श्रेष्ठोऽसि । त्वमेव प्राणस्य फलकस्तस्मान्मे प्राणं पाहि पालय ।
यथाऽनेन मन्त्रेणैन्द्रवायवग्रहहोमादूर्ध्वमादित्योपस्थानं तथैवोत्तरेण मन्त्रेणमैत्रावरुणग्रहहोमादूर्ध्वमादित्यमुपतिष्ठते । पाठस्तु —
धूरसि श्रेष्ठ इति । हे मैत्रावरुण ग्रह त्वं धूरसि दुःखानां हिंसिताऽसि । शेषं पूर्ववत् ।आश्विनग्रहहोमादूर्ध्वभावी तूपस्थानमन्त्रः शाखान्तरे द्रष्टव्यः ।
कल्पः — “यदि मन्येत यजमानः पूर्वो माऽतिक्रान्तो भ्रातृव्य इति प्राग्वोनादङ्गुष्ठेनाङ्गुलिमवगृह्णीयाद्यो न इन्द्रवायू अभिदासतीति” इति । पाठस्तु —
भो न इन्द्रेति । हे इन्द्रवायू यो भ्रातृव्यो नोऽस्मानभिदासति हिनस्ति, उत्पिपीतोऽस्मानुल्लङ्घ्य सोमं पिबति हे शुभस्पती शुभस्य कर्मणः पालयिदारौ तं भ्रातृव्यमहमधँ पादयाम्यपकृत्य पातयामि । इदमितिशब्देन तर्जन्याऽङ्गुल्याऽङ्गुष्ठेनावग्रहणमभिनीय प्रदर्श्यते । हे इन्द्र यथाऽहं भ्रातृव्यादुत्तमः संश्चेतयानीहलोकज्ञानवान्भूयासं तथा त्वमनुगृहाणेति शेषः । मित्रावरुणाविति द्वितीयमन्त्रेऽश्विनाविति तृतीयमन्त्रे च शेषं सर्वमनुषज्य व्याख्येयम् ।
अत्र विनियोगसंग्रहः —
उपेति प्रतिनिर्ग्राह्या ग्रहीतव्यास्त्रिभिः क्रमात् ।
देवेभ्यो निनयच्छेषांस्त्रिभिरादित्यपात्रके ॥
विष्णो तत्पात्रमाच्छाद्य द्विदेवत्यग्रहानपि ।
होत्रे दद्यात्त्त्रिभिः सूर्यमुपतिष्ठेत भूर्द्वयात् ॥
यो नस्त्रिभिस्तर्जनीं तामङ्गुष्ठेनोपपीडयेत् ।
इन्द्रमित्राश्विभिर्भिन्ना मन्त्राः पञ्चदशात्र ते ॥
त एते मन्त्रा ऋतुग्रहानुवाकात्पूर्वं द्रष्टव्याः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयप्रपाठके दशमोऽनुवाकः ॥ १० ॥
(अथ तृतीयकाण्डे द्वितीयप्रपाठके एकादशोऽनुवाकः) ।
प्रतिनिर्ग्राह्यमन्त्रास्तु दशमे परिकीर्तिताः ।
अथैकादशे त्रैधातवीयेष्टिविषया मन्त्रा उच्यन्ते ।
कल्पः — “प्र सो अग्न इत्युष्णिहककुभौ धाय्ये दधान्तग्ने त्रीते वाजिना त्री षधस्थेति त्रिवत्या परिदधाति सं वां कर्मणोभा जिग्यथुरिति याज्यानुवाक्ये उत्तरे संयाज्ये” इति । धाय्ययोः प्रथमामाह —
प्र सो अग्न इति । हेऽग्ने यस्य यजमानस्य त्वं सख्यमाविथ सखिवत्स्नेहं पालितवानसि स यजमानस्तवोतिभिः पालनैः प्रकर्षेण तरति संसारक्लेशमतिवर्तते । कीदृशीभिरूतिभिः । सुवीराभिः । शोभनपुत्राद्यापत्यहेतुभिः । वाजकर्मभिः, अन्न निमित्तानि कर्माण्युद्योगा यासामूतीनां ता वाजकर्माणस्ताभिः । द्वितीयां धाय्यामहा —
प्र होत्र इति । हे ऋत्विजो यूयमग्नये वचः स्तुतिरूपं वाक्यं प्रकर्षेण भरत पोषयत । कीदृशं वचः । पूर्वैर्ऋषिभिः पठितं ब्रहत्प्रौढं विपां विशेषेणास्माकं पालकम् । कीदृशायग्नये । होत्रे होमनिष्पादकाय । वेधसेऽस्मद्धितस्य विधात्रे । अग्नेर्दृष्टान्तः- ज्योतिँषि विभ्रते नेति । यथा रश्मिरूपाणि ज्योतिषि धारयित्रे सूर्याय स्तुतिं कुर्वन्ति तद्वदित्यर्थः । अथ परिधानीयामाह —
अग्ने त्री त इति । हेऽग्ने ते तव त्री वाजिना त्रयः पुरोडाशा भवन्तीति तस्यामिष्टौ विहितत्वात्त्रीण्यन्नानि यद्वा सोमौषधिसांनाप्यरूपाणि त्रीणि । तथा त्री शधस्था सहस्थानानि त्रीणि परस्परयुक्तानि लोकत्रयरूपण्याहवनीयगार्हपत्यदक्षिणाग्निरूपाणि वा । हे ऋतजात *ऋताज्ज्ञानात्मनः समुत्पन्न ते तव पूर्वीः पूर्वसिद्धा जिह्वास्रिस्र सात्त्विकराजसतामसरूपा इष्टप्राप्त्यनिष्टपरिहाराभिचारहेतव उ अपि च देववाता देवैर्वाताः प्राप्तास्ते तव तनुवस्तिस्रस्ताभिस्तनूभिरग्नि विद्युदादित्यरूपाभिर्नोऽस्मान्पाहि । किं कुर्वन् । गिरो अप्रयुच्छन्नस्मदीयाः स्तुतिरप्रमादयन्नस्माभिः कृतं प्रमादं परिहरन्नित्यर्थः । अथ पुरोनुवाक्या–
सं वां कर्मणेति । हे इन्द्राविष्णू वा युवामनेन कर्षणा संहिनोमि सम्यक्प्रीणयामि । इषा हविर्लक्षणेनान्नेन च संहिनोमि । किंनिमित्तमिति तदुच्यते अस्यापसः पारेऽनुष्ठीयमानस्य कर्मणः पारनिमित्तमविघ्नेन परिसमाप्त्यर्थम् । किंच, अस्मदीयमिमं यज्ञं जुषेथामस्मभ्यं च द्रविणं संपादयतः । किं कुर्वन्तौ । अरिष्टैर्नः । पथिमिः पारयन्ता विनाशरहितैरनुष्ठानमार्गैरस्मान्कर्मणः पारं प्रापयन्तौ । अथ याज्यामाह —
उभा जिग्यथुरिति । हे विष्णो, इंद्रश्च त्वं चोभो जियथर्जयं प्राप्तवान्तौ न पराजयेथे कदाऽपि पराजयं न प्राप्नुथः । एनोरनयोरुभयोर्मध्ये कतरश्चना न्यतरोऽपि न पराजिग्ये पराजयं न प्राप्तवान् । यद्यदा युवामुभावपस्पृधेयां स्पर्धां कुर्यातां त्वं तत्तदा सहस्रं दक्षिणारूपेण दातव्यं गोसहस्रं त्रिधा विभज्यैरयेथां नीतवन्तौ । अयं च विभागः सप्तमकाण्डे स्पष्टमाम्नातः ।
अथ स्विष्टकृतः पुरोनुवाक्यरूपां संयाज्यामाह —
त्रीण्यायूऽँषीति । हे जातवेदस्तावाऽऽयूंषि आयुर्वृद्धिकारणानि हर्वींषि सोमसांनाय्यपुरोडाशरूपेण त्रीणि । हेऽग्ने ते तवोषस उषःकालसदृश्य आजा नीराविर्भावरूपा ज्वालास्तिस्र आहवनीयादिषु त्रिषु स्थानेषु त्रिविधास्ताभिर्ज्वालाभिर्देवानामवो रक्षकं हविर्विद्वान्यक्षि यज । अथानन्तरं यजमानाय शं भव सुखप्रदो भव । मोर्भव दुःखवियोजको भव । अथ स्विष्टकृतो याज्यारूपां संयाज्यामाह —
ऋतासत्यात्परमात्मन इति ख. पुस्तकस्थपाठन्तरम् । अग्निस्रीणीति । कविर्विद्वानयमाग्निर्विदथेषु यज्ञेषु त्रीणि हवींष्याक्षेति सर्वतः प्राप्नोति । “त्रयः पुरोडाशा भवन्ति” इत्युक्तत्वाद्धविषां त्रित्वम् । कीदृशानि त्रीणि हवींषि । त्रिधातूनि ‘उत्तरउत्तरो ज्यायान्भवति” इत्युक्तत्वात्रिप्रकारांणि । सोऽग्निरिहास्मिन्कर्मण्येकादशभिर्देवैरुपेतांस्त्रीन्गणांस्तर्पयत्विति शेषः । मे देवा दिव्येकादश स्थ” इत्यनुवाके गणत्रयं विस्पष्टमाम्नातम् ।
अथ तत्रैव विकल्पितरूपां संयाज्यामाह —
यक्षच्चेति । अग्निर्देवानां दूत आसीदित्युक्तत्वाद्दूतरूपोऽयमग्निर्यक्षञ्च देवान्यक्षतु च । ब्राह्मणजात्यभिमानित्वाद्विप्ररूपोऽयमग्निनोऽस्मान्पिप्रयञ्च प्रीणयतु च । ब्राह्मणजात्यभिमानित्वाद्विप्ररूपोऽयमग्निर्नोऽस्मान्पिप्रयच्च प्रीणयतु च । कीदृशोऽग्निः । परिष्कृतो दूतत्वचिन्हैरलंकृतः । अन्यशब्दः शत्रुवाची । कप्रत्ययः कुत्सितार्थे । समशब्दः सर्वशब्दपर्यायः । अन्यके समेऽस्मत्तोऽन्ये कुत्सिताः सर्वेऽपि नभन्तां नश्यन्तु ।
अथ प्रधानहविषो विकल्पितां पुरोनुवाक्यामाह —
इन्द्राविष्णू इति । हे इन्द्राविष्णू शम्बरनामकस्यासुरस्य संबन्धिन्यः पुरो नगरीः श्नथिष्टं युवा नाशितवन्तौ । कियतीर्नेगरीः । नव नवतिं च ।एकोनशतसंख्याका इत्यर्थः । कीदृशीः । दृँहिता दृढाः । किंच, असुरस्य संबन्धिनो वर्चिनो दीप्तिमतः शतं सहस्रं च वीरान्प्रधानभूतानमात्यादीन्प्रति पक्षराहित्यं यथा भवति तथा साकं हथः ।
अथ तत्रैव विकल्पितां याज्यामाह —
उत मातेति । उत मातेन्द्रस्य देवस्य माता महिपं महान्तमिन्द्रमन्ववेनदनुक्रमेण ज्ञापितवतीत्यर्थः । कथं ज्ञापितवतीति तदुच्यते-हे पुत्रेन्द्र त्वयि शत्रून्हत्वा तूष्णीं स्थिते सति सर्वेऽप्यमी देवास्त्वां जहति परित्यजन्तीति । अथ मातृबोधानादूर्ध्वमिन्द्रो वृत्रं हनिष्यन्वधोद्युक्तो विष्णुं प्रत्येतदब्रवीत्-हे सखे विष्णो वितर विक्रमस्व विशिष्टतरं पराक्रमं कुरु शीघ्रं वृत्रं जहीति । तथाविधौ हे इन्द्राविष्णू अस्मादभीष्टं संपादयतामिति तात्पर्यार्थः ।
अत्र विनियोगसंग्रहः —
प्र सो त्रैधातवीयेष्टौ द्वे धाम्ये अग्न इत्यसौ ।
तत्रैव परिधानीया ह्यनुवाक्या समित्यसौ ॥
उभेति याज्या त्रीणीति संयाज्यास्तिस्र ईरिताः ।
इन्द्रानुवाक्योत याज्या दश मन्त्रा इहोदिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयप्रपाठके एकादशोऽनुवाकः ॥११ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्वतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे
द्वितीयः प्रपाठकः ॥२ ॥