प्रश्नः-1

(अथ सभाष्यतैत्तिरीयसंहितायां तृतीयं काण्डम्)।(तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः)।यस्य निःश्वसितं वेदा यो वेदोभ्योऽखिलं जगत्।निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥पशवश्चेष्टयः काम्या विधिशेषस्तथैष्टिकः।प्रोक्ताः काण्डे द्वितीयेऽथ सोमशेषोऽत्र वर्ण्यते॥एतच्च तृतीयकाण्डमौपानुवाक्प्यमिति [*काण्डानुक्रमण्यामुक्तम्]। अनु-वाकानां समीपमुपानुवाकम्। तत्रान्वेतुं योग्यानामर्थानां प्रतिपादकत्वादिदं काण्ड-मौपानुवाक्यम्। यद्यप्येतत्सर्वमनारभ्याऽऽम्नायते तथाऽपि तेन तेन प्रमाणेन तत्रतत्रानुवाकेष्वन्वय उत्प्रेक्षणीयः। सोमप्रकरणाम्नातेषु तेषुं तेष्वन्वयं तत्र तत्रैवोदाहृत्य प्रदर्शयिष्यामः। तदयमर्थः-कर्मण्युच्यमानो मन्त्रो वाकः। तद्व्याख्यानरूपं ब्राह्मणमनु-वाकः। तत्रैकैकं मन्त्रमाम्नाय तस्य तस्य समीपानुवाकम्। तत्संबन्धि काण्डमौपानु-वाक्यमुच्यते।[इति भाष्यकारोपोद्घातः] । (अथ द्वितीयकाण्डे प्रथमप्रपाठके प्रथमोऽनुवाकः)
अत्र दीक्षायाः प्रथमभावित्वाद्दीक्षितेन वक्तव्या मन्त्रास्तद्विधयश्चास्य प्रथम-
प्रपाठकस्य प्रथमानुवाके प्रतिपाद्यन्ते। तत्र दीक्षितवादं विधित्सुः प्रस्तौति-
प्रजापतिरिति। पुरा प्रजापतिः प्रजासृष्टिं कामयमानो नियमविशेषरूपं तप एव द्विवारमनुष्ठितवान्। न तु दीक्षितवादम्। अतस्तद्विकले तपसि नीचानां सर्पाणां पक्षिणामेव सृष्टिमकरोत्, न तूत्तमानां मनुष्यादीनाम्। अग्निष्टोमोऽत्र प्रजापतेस्तपः। ‘अग्निष्टोमेन वै प्रजापतिः प्रजा असृजत ता अग्निष्टोमनैव पर्यगृह्णात् ’ इति सप्तमकाण्डे वक्ष्यमाणत्वात्। तस्य च तपसस्तृतीये पर्याये दीक्षितवादवैकल्याभावा- न्मनुष्याद्युत्तमसृष्टिसाधनत्वं संपन्नम्।
अथ नियमविशेषरूपतपोयुक्तस्य दीक्षितस्य दीक्षितवादं विधत्ते-
यत्तप इति। तपःशब्देन स्नानादिनियमोऽभिधीयते। ‘अङ्गिरसः सुवर्गं लोकं यन्तोऽप्सु दीक्षातपसी प्रावेशयन्नप्सु स्नाति साक्षादेव दीक्षातपसी अवरुन्धे ’ इत्याम्नातत्वात्। स्नानादीत्यादिशब्देन दानमनशनं वैदिकमन्त्रपाठश्चेत्येतत्त्त्रयं विवक्षितम्। ’ एतत्खलु वाव तप इत्याहुर्यः स्वं ददाति ’ ‘तपो नानशनात्परं यद्धि परं तपस्तद्दुर्धर्षम् ’ ‘स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्यायः’ इति वचनानां तत्र तत्राऽऽम्नातत्वात्। शाखान्तरे च द्वयहं नाश्नातीति दीक्षितस्यानशनं तपो विहितम्। ईदृशं तपस्तप्त्वा तन्नियमं स्वीकृत्य दीक्षितवादं वदेत्। दीक्षितेन पठितव्यो मन्त्रो दीक्षितवादस्तत्पाठेन प्रजा सृजते।
तत्रैकं मन्त्रमुत्पाद्य तत्पाठं नैमित्तिकत्वेन विधत्ते - यद्वै दीक्षित इति। अमेध्यदर्शनेन दीक्षाया अपक्रमणं नाम दीक्षायां फल-राहित्यम्। किंचामेध्यं दृष्टवतोऽस्य नीलं भवति। कृष्णं पापमित्यर्थः। किंच हरो व्येति तेजो विगतं भवति। जुगप्सया शरीरस्य विक्रियमाणत्वाच्छक्तिरपगच्छतीत्यर्थः। अबद्धमित्यादिको मन्त्रः। यदेतन्मदीयं मनस्तदेतदबद्धमनियतम्। अत एव यद्धि मनसा ध्यायति तद्वाचा वदति संकल्पयति। चक्षुश्च यदीयं दरिद्रं कृपणम्। अतः समीचीनमेव प्रकाशयामीत्येतादृशं प्रभुत्वं तस्य नास्ति। अत्र चोभयत्र निमित्तं छन्दोगा उद्गीथविद्यायां देवासुरसंग्रामाख्यायिकया समामनन्ति- ‘अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ’ इति। अयमेवार्थो वाजसनेयिभिरप्युद्गीथब्राह्मणे प्रपञ्चितः। अतोऽवशयोर्मनश्चक्षुषोर्शेषो हे दीक्षे त्वया न गणनीयः। दर्शनहेतुभूतानां ज्योतिषां मध्ये श्रेष्ठोऽयं सूर्यः। स एवं चक्षुर्दोषं समाधास्यतीत्यभिप्रायः। तन्मात्रप्रमादकारिणं मां हे दीक्षे मा हासीर्मा परित्यजेति मन्त्रार्थः। एतस्य मन्त्रस्य पाठेन दीक्षाऽप्यस्मात् न अपक्रामति। नीलं चास्य न भविष्यति। हरश्च न व्येति।
वृष्टिक्लेदनं निमित्तीकृत्य मन्त्रान्तरमुत्पाद्य विनियुङ्क्ते-
यद्वै दीक्षितमिति। दिव्या अन्तरिक्षे वर्तमाना भूमिस्पर्शरहिता या आपस्ता अशान्ताः प्रत्यवायहेतवः। अत एव स्मर्यते- ’ न वर्षधारास्वाचामेत् ’ इति। ताश्च दिव्या आप ओजोबलदीक्षातपांसि नाशयन्ति। रेतःपरिपाकरूपशरीरबलहेतुरष्टमो धातुरोजः। उन्दतीरित्यादिको मन्त्रः। हे आपो यूयमुन्दती संक्लेदयन्त्यो मयि शारीरबलं स्थापयत। तत्कारणीभूतमोजोऽपि स्थापयत। पुनरपीन्द्रियगतं बलं स्थापयत। मदीयां दीक्षां मां निर्वधिष्ट मा विनाशयत। तपोऽपि मदीयं मा विनाशयतेति मन्त्रार्थः। अत्र सूत्रकारेण ’ स वाग्यतस्तपस्तप्यमान आस्ते ’ इत्युक्त्वा बहुविधनियमानुपन्यस्यैतदुक्तम्- ‘अबद्धं मन इत्यमेध्यं दृष्ट्वा जपत्युन्दतीर्बलं धत्तेत्यववृष्टे ’ इति।
अध्वर्युमन्त्रकाण्डे ‘भद्रादभिश्रेयः’ ‘एदमगन्म देवयजनम् ’ इत्येतौ मन्त्रावाम्नतौ। ब्राह्मणे त्वच्छिन्नं तन्तुं पृथिव्या इत्येतं पूर्वमन्त्रं व्याख्याय भद्रादभीत्या-दिकौ द्वावुपेक्षितौ। तयोर्याजमानत्वेन दीक्षितवादप्रसङ्गादुक्तावुभावत्र व्याख्यायेते। एतेनाबद्धं मन इत्यादिकौ मन्त्रौ देवीं धिय मनामह इत्यनुवाके संगताविति सूचितं भवति। भद्रादभीत्येष रथमारुह्य देवयजनमध्यवसातुं गमने विनियुक्तो मन्त्रः। एदमगन्मेति देवयजनाध्यवसाने। तयोराद्यं मन्त्रं व्याचष्टे-
अग्निर्वा इति। यदा दीक्षितो गृहात्प्रयाणं करोति तदा तत्स्वामी वह्निः कोपेन तिरोभूत इव भवति। तेन स्वामिरहितं दीक्षितं रक्षांसि मार्गेऽन्तरा भूत्वा हन्तुमीश्वरं समर्था भवन्ति। तत्परिहाराय भद्रादभीत्यादिमन्त्रं पठेत्। हे रथ भद्रान्मदीयाद्गृहाच्छ्रे-योऽत्यन्तप्रशस्तं देवयजनस्थानमभिप्रेहि आभिमुख्येन प्रतियाहि। तव पुरतो बृहस्पतिर्गन्ताऽस्त्विति मन्त्रर्थः। देवानां मध्ये बृहस्पतेर्ब्राह्मणत्वाद्रक्षांसि शप्तुं सामर्थ्यमस्ति। तादृश्यं च बृहस्पतिं यजमानोऽनुगच्छति। स च बृहस्पतिः सम्यक्पारं नयति।
द्वितीयमन्त्रस्य प्रथमभागार्थः प्रसिद्ध इति दर्शयति-
एदमगन्मेति। पृथिव्याः संबन्धि यद्देवयजनं तदिदमागमन्मागताः स्म इति तस्यार्थः। स च प्रत्यक्षेण दृश्यमानत्वात्प्रसिद्धः।
विश्वे देवा इति। तृतीयभागे यागं यागं कुर्वतो वेदत्रयापेक्षां प्रसिद्धेति दर्शयति-
ऋक्सामभ्यामिति। सम्यग्यागस्य पारं प्राप्नोति।
चतुर्थमागे धनपुष्ट्याऽन्नेन च संभूय हृष्टत्वप्रार्थनमाशीरित्येतद्दर्शयति-
रायस्पोषेणेति। अस्मिन्काण्डे यदिदमनारभ्याधीतं तस्य सर्वस्य सामान्येन प्रकृतौ संबन्धः। विशेषतस्तु अबद्धमित्यादेरनुवाकसंबन्धो दर्शितः। अमेध्यदर्शनव-
र्षणमन्त्रयोश्चाऽऽवृत्त्यभावो दैवीं धियमित्यस्मिन्नेवानुवाके विचारितः।

अत्र मीमांसा।
तृतीयाध्यायस्य षष्ठपादे चिन्तितम्-
प्रकृतौ विकृतौ वा स्याद्यस्य पर्णेत्यसौ विधिः।
प्रकृतावेव वा तुल्याद्वचनादुभयोरसौ॥
जुहूमाश्रित्य पर्णत्वविधिः प्रकृतिमात्रगः।
चोदकेनोभयप्राप्तेर्विकृतौ विधिनाऽत्र किम्॥
अनारभ्य श्रूयते- ‘यस्य पर्णमयी जुहूर्भवति न पाप ँ श्लोक ँ शृणोति ’
इति। तत्राव्यभिचरितक्रतुसंबन्धवतीं जुहूमाश्रित्य तद्धेतुः पर्णवृक्षो वाक्येन विधीयते। या जुहूः सा पर्णमयीति वाक्यं सर्वप्रकृतिविकृत्योस्तुल्यमेव प्रवर्तते। उभयत्राऽऽश्रयभूताया जुह्वाः सद्भावात्। तस्मात्प्रकृतिविकृत्योरुभयोरप्ययं विधिरिति प्राप्ते ब्रूमः – किमयं विधिर्विकृतौ चोदकात्पूर्वं निविशते पश्चाद्वा। नाऽऽद्यः। आश्रयभूताया जुह्वाश्चोदकमन्तरेणासंभवात्। द्वितीयेऽपि पर्णत्वमपि जुह्वा सहैव चोदकेनातिदिश्यते। तत्र पुनर्विधेर्वैयर्थ्यादयं विधिः प्रकृतिमात्रगः। एवं यस्य खागिरः स्रुवो भवतीत्याद्युदाहरणीयम्। तत्रैवाष्टमपादे चिन्तितम्-
‘नाश्नाति द्वय्हमित्येतत् त्तपः कस्य तयोर्द्वयोः।
दुःखत्वाद्भोक्तृसंस्कारादध्वर्योर्युज्यते तपः॥
फलान्तराय पापस्य नाशकत्वेन संस्कृतिः।
लिङ्गात्तपः स्वामिगामि संस्कारान्तरवन्मतम्’॥
ज्योतिष्टोमे द्व्यहं नाश्नाति त्र्यहं नाश्नातीत्यादिनोक्तं तपोऽध्वर्योर्युक्तं तस्य दुःखात्मकत्वेन परिक्रीतपुरुषैः कर्तुमुचितत्वात्। दुःखत्वादेव फलमोक्तृसंस्कार- त्वाभावाद्यजमानस्य न युक्तमिति चेत्। मैवम्। भाविनः सुखरूपस्य फलस्य प्रतिबन्धकं दुःखजनकं यत्पापं तस्य नाशकत्वेन दुःखरूपस्यापि तपसः स्वामिसंस्कारत्वसंभवात्। अस्मिन्नर्थे वाक्यशेषगतं लिङ्गगं कल्पसूत्रकारेणैवोदाहृतम्-
‘यदा वै दीक्षितः कृशो भवत्यथ मेध्यो भवति, यदाऽस्मिन्नन्तर्न किंचन भवत्यथ मेध्यो भवति, यदाऽस्य कृष्णं चक्षुषोर्नश्यत्यथ मेध्या भवति, यदा वास्य त्वचाऽस्थि संधीयतेऽथ मेध्यो भवति, पीवा दीक्षते कृशो यजते यदस्थाङ्गानां मीयते जुहोत्येव तदिति विज्ञायते ’ इति। नहि दुःखरूपं तपो विना दुःखमदं पापं नश्यति। यथा लोके पाटनमन्तरेण विषमब्रणानां नोपशान्तिस्तद्वत्। तस्माद्वपना-दिसंस्कारवत्तपोऽपि यजमानस्यैव॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके
प्रथमोऽनुवाकः॥

(अथ तृतीयकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः)।
आद्ये संकीर्तितौ मन्त्रौ वृष्टौ चामेध्यदर्शने।

द्वितीयानुवाके सोमोपस्थानमन्त्राश्चत्वार उत्पाद्यन्ते-
एष त इति। हे देवतात्मक सोम राजन्नेष पुरतो दृश्यमानः क्रेतव्यो वल्लीरूपस्ते त्वदीयो भागो गायत्रः प्रातःसवने गायत्रीछन्दसा संस्कार्य इत्येतादृग्यजमानरूपस्य मे गायत्री देवता सोमाय ब्रूतात्। एवं त्रैष्टुभो माध्यंदिने सवने त्रिष्टुप्छन्दसा संस्कार्यः। अस्मिन्नेष त इति मन्त्रो नानुषज्यते। भाग इति मे सोमाय ब्रूतादित्ययमुत्तरांशोऽनुष-ज्यते। जागतस्तृतीयसवने जगतीछन्दसा संस्कार्यः। अत्रैष इत्ययं पूर्वांश एवानुषज्यते। छन्दोभिर्गायत्रीत्रिष्टुब्जगती-भिरक्षरसंख्यया मीयन्त उपमीयन्त इति चतुर्विंशचतुश्च-त्वारिंशाष्टाचत्वारिंशाख्याः स्तोमास्त्रयश्छन्दोमास्तेषां साम्राज्यं द्वादशाहादिषूत्तरक्रतुषु विद्यते तत्साम्राज्यं गच्छेत्येतद्यजमानस्य मे वचनं तेन तेन स्तोमेताऽऽराध्या देवता सोमाय राज्ञे ब्रूतात्। अत्र चतुर्विंशाख्यस्तोमरूपस्य च्छन्दोमस्य विष्टुतिः सामब्राह्मण इत्थं समाम्नाता- ‘अष्टाभ्यो हिं करोति स तिसृभिः स चतसृभिः स एकया। अष्टभ्यो हिं करोति स एकया स तिसृभिरित्येषा वै प्रतिष्ठा चतुर्विंशस्य विष्टुतिः’ इति। अस्यायमर्थः- सामगानाधारभूतस्य तृचस्य प्रथमपर्याये प्रथमामृचं त्रिर्गायेत्। द्वितीयां चतुर्गायेत्। तृतीयां सकृद्गायेत्। द्वितीये पर्याये प्रथमां सकृद्गायेद्द्वितीयां त्रिर्गायेत्तृतीयां चतुर्गायेत्। तृतीये पर्याये प्रथमां चतुर्गायेद्द्वितीयां सकृद्गायेत्तृतीयां त्रिर्गायेत्। सेयं चतुर्विंशस्तोमसंबन्धिनी विशिष्टा स्तुतिः। अथ चतुश्चत्वारिंशस्तोम एवमाम्नायते ‘पञ्चदशभ्यो हिं करोति स तिसृभिः स एकादशभिः स एकया। चतुर्दशभ्यो हिं करोति स एकया स तिसृभिः स दशभिः। पञ्चदशभ्यो हिं करोति स एकादशमिः स एकया स तिसृभिरित्येषा वै प्रतिष्ठिता चतुश्चत्वारिंशस्य विष्टुतिः’ इति। प्रथमपर्याये प्रथमां त्रिर्गायेत्। द्वितीयामेकादशकृत्वो गायेत्। तृतीयां सकृद्गायेत्। द्वितीये पर्याये प्रथमां स-
कृद्गायेद्द्वितीयां त्रिर्गायेत्तृतीयां दशकृत्वो गायेत्। तृतीये पर्याये प्रथमामेका-
दशकृत्वो गायेद्द्वितीयां सकृद्गायेत्तृतीयां त्रिर्गायेत्। सेयं चतुश्चत्वारिंशस्तोमाख्यस्य च्छन्दोमस्य विष्टुतिः। अथाष्टाचत्वारिंशस्तोमस्य विष्टुतिरेवमाम्नायते-
‘षोडशभ्यो हिं करोति स तिसृभिः स द्वादशभिः स एकया। षोडशभ्यो हिं करोति स एकया स तिसृभिः स द्वादशभिः। षोडशभ्यो हिं करोति स द्वादशभिः स एकया स तिसृभिरित्येषा वै प्रतिष्ठिताऽष्टाचत्वारिंशस्य विष्टुतिः ’ इति। प्रथमे पर्याय प्रथमां त्रिर्गायेत्। मध्यमां द्वादशकृत्वो गायेत्। उत्तमां सकृद्गायेत्। द्वितीये पर्याये प्रथमां सकृद्गायन्मध्यमां त्रिरुत्तमां द्वादशकृत्वः। तृतीये पर्याये प्रथमां द्वादशकृत्वा द्वितीयां सकृत्तृतीयां त्रिर्गायेत्। सेयमष्टाचत्वारिंशस्तामाख्यस्य च्छन्दोमस्य विष्टुतिरिति। द्वादशाहक्रतोरष्टममहश्चतुर्विंशस्तोप्रसाध्यं नवममहश्चतुश्चत्वारिंशस्तोमसाध्यं दशममहरष्टाचत्वारिंशस्तोमसाध्यम्। तस्माच्छन्दोमानां साम्राज्यं द्वादशाहाद्युत्तरक्रतुषु प्राप्यते।
एष ते गायत्र इत्यादींश्चतुरो मन्त्रान्विनियोक्तुं प्रस्तौति-
यो व सोभामात। यजमानः सोमदेवतारूपं राजानं साम्राज्यरूपं लोकं प्रापय्य पश्चाद्वल्लीरूपं सीमं क्रीणाति। स स्वानां मध्ये साम्राज्यं गच्छति। गायत्रीत्रिष्टुब्जगती-रूपाणि च्छन्दांसि तैरुपलक्षिताश्छन्दोमाश्च सोमस्य राज्ञः साम्राज्युक्तो लोक इत्युच्यते।
अथ चतुरो मन्त्रान्सोमाभिमन्त्रणे विनियुङ्क्ते-
पुरस्तदिति। एवमिति एष ते गायत्र इत्यादिभिश्चतुर्भिरित्यर्थः। प्राकरणिका-नुवाकसंबन्धस्तु पुरस्तात्सोमस्य क्रयादेव स्पष्टमवगम्यते। सोमं ते क्रीणामीति मन्त्रेण सोमक्रय आरब्धस्तत्पूर्वम ँ शुना ते अ ँ शुरित्यनुवाकस्यावसाने प्रजास्त्वामनुप्राणन्त्वित्येतदूर्ध्वमेष ते गायत्र इत्यादयश्चत्वारा मन्त्रा द्रष्ठव्याः।
पूर्वोक्तयोरबद्धं गन उन्दतीवंलमित्वेतयोर्मन्त्रयोर्यद्यपीदृशं स्पष्टं वचनं नास्ति तथाऽपि दीक्षितस्य वाद इति वाक्येन प्रकरणप्रसिद्धं दीक्षितमनूद्य वादविधानाद्दीक्षितत्वसिद्धेरूर्ध्वभावित्वं गम्यते। दीक्षितत्वमाकूत्यै प्रयुजेऽग्नये स्वाहेत्यनुवाके संपन्नं तदीयब्राह्मणे दीक्षितत्वावेदनस्याऽऽस्नातत्वात् ‘स्वाहा यज्ञं वातादारभ इत्याहायं वाव यः पवते स यज्ञस्तमेव साक्षादारभते मुष्टी करोति वाचं यच्छति यज्ञस्य धृत्या अदीक्षिष्टायं ब्राह्मण इति त्रिरुपा ँ श्वाह’ इति। तस्माद्यज्ञं वातादारभ इत्येतस्मादुपर्यबद्धं मन उन्दतीर्बलमित्येतौ द्रष्टव्यौ। एवमुत्तरत्रापि सर्वत्रौपानुवाक्ये योजनीयम्।
अथ तानूनप्त्रस्यावघ्राणं विधातुं प्रस्तौति-
यो वै तानूनेति। तानूनप्त्रस्य त्वा गृह्णामीत्यादिभिर्मन्त्रैश्चमसे यदाज्यं गृह्यते तत्तानूनप्त्रं तस्य प्रतिष्ठा न ज्ञायते। सोमरसस्य तु वह्नै हुतत्वादृत्विग्भिः पतित्वाच्चास्ति प्रतिष्ठितत्वम्। तानूनष्वे तु तदुभयं नास्तीति ग्रह्मवादिभिः पृष्ठो बुद्धिमानुत्तरं ब्रूयान्मनसा प्रजापतौ स्थापनादस्ति प्रतिष्ठेति।
इदानीं मन्त्रेणावप्राणं विधत्ते-
त्रिरव जिघ्रेदिति। प्रजापतावित्यादिर्मन्त्रः। हे तानूनप्त्र त्वां प्रजापतौ जुहोमीत्येवं मनसि स्मरामीति शेषः। अयं च मन्त्रोऽग्नेरातिथ्यमसीत्यनुवाकस्यान्ते द्रष्टव्यः त एते पूर्वोक्ता मन्त्रा विधयश्व याजमानाः। इत ऊर्धं त्वाध्वर्यवाः। तत्राऽऽश्रावणं विधत्ते-
यो वा अध्वर्योरिति। आश्रावणमारभ्य होमपर्यन्तमेकत्रावस्थानमध्वर्योः प्रतिष्ठा। आहवनीयसमीषादिषु होमदेशेषु मध्ये यस्माद्देशादभिक्रमणमकृत्वा यं होमं होष्यामीति मन्येत तद्धोमार्थं तस्मिन्नेव देशे तिष्ठन्नाश्रावयेत्।
आश्रावणदेशादन्यत्र गत्वा होमं निन्दति-
यदभिक्रम्येति। इयात्प्रच्यवेत। समानत्र समानदेशे यत्राऽऽश्रावणं तत्रवेत्यर्थः। सोऽयं विधिः सर्वाश्रावणसाधारणत्वान्सर्वत्रान्वेति। प्रयाजेषु त्वभिक्रामं जुहोतीति वाचनिकमभिक्रमणम्। आश्रावणकाले होमसाधनस्य हस्ते धारणं विधत्ते-
यो वा अध्वर्योरिति। स्रुग्जुह्वाद्यैन्द्रवायवादिसोमरसग्रहणाधारभूतं पात्रं वायव्यं वायुना तस्य वृतत्वात्, मद्देवत्यान्येव वः पात्राण्युच्यन्ता इति। त स्मान्नानादेवत्यानि सन्ति वायव्यान्युच्यन्त इत्याम्नातः सोमरसोन्नयनपात्रविशेषश्चमसः। यद्यपि स्रुगप्यत्रोपन्यस्ता तथाऽपि सोमब्राह्मणशेषत्वाद्वायव्यचमसयोरेवान्वारम्भणं धारणमत्र विधीयते तेन स्रुचां धारणमप्युलक्ष्यत इति द्रष्टव्यम्। अन्वारभ्य हस्ते गृहीत्वेत्यर्थः।
अथ प्रातःसवनादिस्तोत्राणां कालविशिष्टमुपाकरणं विधत्ते-

यो वै सोममिति। स्तोत्रस्योपाकरणप्रकारमापस्तम्बो दर्शेयति- वायुर्हिंकर्तेति प्रस्तोत्रे बर्हिर्मुष्टिं प्रयच्छति सर्वेषु पवमानेष्ववेमुपाकरणोऽसर्ज्यसर्जि वागसर्ज्यैन्द्र ँ सहोऽसर्ज्युपावर्तध्वमिति बर्हिर्भ्यामन्यानि पवमानेभ्यः स्तोत्राण्युपाकरोति इति। ग्रहे चमसे वा सोमरसस्य प्रक्षेपः प्रतिष्ठापनम्। तदकरणे सोमोऽप्रतिष्ठितो भवति। सोमस्याप्रतिष्ठायां स्तोमस्य प्रगीतमन्त्रसाध्याया (?) स्तुतेनाप्रतिष्ठा भवति। तदप्रतिष्ठायां स्तुतमनुशंसतीति विहितानामप्रगतिमन्त्रसाध्यस्तुतिरूपाणामुक्थशब्दाभिधेयानां शस्त्राणामप्रतिष्ठा भवति। तदप्रतिष्ठायां च यज्ञस्यासिद्धेर्यजमानोऽ–ध्वर्युश्चेत्युभावप्रतिष्ठितौ भवतः। कथं तर्ह्युक्तपरम्पराया उत्तरोत्तरप्रतिष्ठा भवतीति। तदुच्यते-यदि वायव्ये चमसे वा सोमः प्रतिष्ठितो भवति ततः स्तोत्रशस्त्रयजमानाध्वर्यू-णामुत्तरोत्तरप्रतिष्ठा। तस्माद्वायव्य ऊर्ध्वपात्रे सोमरसं गृहीत्वा वा चमसं सोमरसेन पूरयित्वा वा सूणोक्तप्रकारेण स्तोत्रमुपाकुर्यांत्। आश्विनग्रहात्पूर्वभाविष्वैन्द्रवायवादि-ग्रहेषु गृहीतेषु बहिष्पवमानस्य यदुपाकरणं तत्र चमसोन्नयनाभावाद्ग्नहणमेवोपा-करणकालस्योपलक्षणम्। तृतीयसवने पात्नीवतान्तेषु ग्रहेषु हुतेषु चमसान्पूरयित्वा यज्ञायज्ञियस्तोत्रमुपाकरोति। तत्र ग्रहग्रहणाभावाच्चमसोन्नयनमेवोपाकरणकालोपल-क्षणम्। अत एवाऽऽपस्तम्ब आह- होतृचमसमुख्यांश्चमसानुन्नयन्त ँ राजानमुन्नीय दशामिः कलशौ मृष्ट्वा न्युब्जति यज्ञायज्ञियस्य स्तोत्रमुपाकरोति इति। यदि तृतीयप्र-पाठकेएतद्वै सर्वमध्वर्युरुपाकुर्वन्नुद्गातृभ्य उपाकरोतीत्येष उपाकरणविधिः स्यात्तर्हि तदनुवादेनात्र कालविधिरस्तु। ग्रहचमसोन्नयनोर्ध्वकालभाविना स्तोत्रोपाकरणेन च सोमस्तोमादिपरम्परायाः प्रतिष्ठा संपद्यते। सोमं प्रतिष्ठापयतीत्यन्वयः स्तोत्र मुक्थानीत्यत्रापि तथाऽन्वेतव्यम्।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके
द्वितीयोऽनुवाकः॥२॥

(अथ तृतीयकाण्डे प्रथमप्रपाठके तृतीयोऽनुवाकः)।

द्वितीये स्वामिनो मन्त्राश्चाध्वर्योर्विधयः श्रुताः।

अथ तृतीये सोमक्रयणीपदाञ्जनादिविधयः श्रूयन्ते। तत्र षष्ठकाण्डे यद्विहितं पत्न्युपानक्ति पत्नी हि सर्वस्य मित्रमिति तस्मिन्हविर्धानेयोरक्षाञ्जने पूर्वं संगृह्य स्थापितस्य सोमक्रयणीपदपांसोः साधनत्वं विधत्ते-
यज्ञं वा एतदिति। सोमक्रमण्याः षट्पदान्यनुनिष्क्रम्य सप्तमे पदे हुत्वा तेनऽऽज्येनाक्तस्य पांसोर्यत्संभरणं कृतं तद्यज्ञस्यैव संभरणं कृतं तस्य पांसोर्यज्ञो-पकारित्वात्। ये तूभे हविषोर्धारके शकटे यज्ञमुखस्थानीये प्रधानहविषः सोमस्य धारकत्वेन मुख्यत्वात्। एवं सति यदा गार्हपत्यसमीपस्थे ते उभे शकटे प्राङ्मुखे प्रवर्तयेयुस्तदा तेन पदपांसुना घृताक्तेनाक्षस्य धुरमुपाञ्ज्यात्। तथा सति हविर्धोनात्मन्येव यज्ञमुखे पदपांसुरूपे यज्ञभनु संततं कृतवान्भवति।
अथ प्राचीनवंशस्य पश्चिमदेशस्थितात्पुरातनगार्हपत्यादग्नीषोमीयपशुश्रपणा-र्थस्याग्नेः श्रपणदेशं प्रति नयनं विधत्ते-
प्राञ्चमग्निमिति। षष्ठकाण्डे यदाम्नातम्- ‘आ सोमं ददत आ प्राव्ण आ वायव्यान्या द्रोणकलशमुत्पानीमा नयन्त्यन्वना ँ सि प्रवर्तयति ‘इति।
यदपि सूत्रकारेणोक्तम्- ‘अयं नो अग्निर्वरिवः कृणोत्वित्यग्निप्रथमाः सोमप्रथमा वा प्राञ्चोऽमिप्रव्रजन्ति ‘, इति, तत्र पूर्वं पश्चिमदिगवस्थिते गार्हपत्ये स्थितोऽग्निः शालामुखीये पुरातनाहवनीये प्रथर्म नीतः। अनन्तरं ततोऽपि प्राङमुखोद्धृतः। तदिदमुच्यते-प्राञ्चमग्निं प्रहरन्तीति। पश्चिमदिगवस्थितायां पत्नीशालामवस्थितां पत्नीमपि शालामुखीयं षुरातनाहवनीयं प्रत्युदानयन्ति। प्रतीचीनगाहंपत्यसमीपस्थितानि शकटान्यपि प्राग्देशेऽनुक्रमेण प्रवर्तितानि। यदैतत्सर्वं संपद्यते तदानीमेवास्य पुरातनगार्हपत्यस्य धिष्णियः स्थानविशेषो हीयते शून्यो भवति। स चाग्निः पुनः पुनर्मनसि चिन्तयति। चिन्तयमानश्चासौ रुद्रः क्रूरो भूत्वा यजमानस्य प्रजां पशूञ्शमयितोर्विनाशयितुं समर्थो भवति। तस्य कः प्रतीकार इति तदुच्यते-आप्रीसंज्ञकाभिः प्रयाजयाज्याभिराप्रीतं तोषितं पशुं यदोदङ्मुखं नयन्ति तदा तस्य प्रतीचीनगार्हपत्यस्य संबन्धिनं पशुश्रपकारिणमग्निं हेरत्। तेनैव हरणेनैनं प्रतीचीनगार्हपत्याग्निं भागयुक्तं करोति। ततः प्रजाद्यविनाश इति द्रष्टव्यम्-
नन्वाहवनीयादेव पशुश्रपणमग्निं कुतो न हेरयुरित्याशङ्कय तत्र दोषं दर्शयति-
यजमानो वा इति। आहवनीयामग्निं विकृष्य हरणे यजमानस्यायं विकर्षः स्यात्। आहवनीयस्य प्रधानत्वेन यजमानरूपत्वात्। तस्मात्पूर्वोक्तः सोऽग्निरेव वा स्यात्। अथवा निर्मथनेन लौकिकेन कंचिगदग्निं श्रपणार्थमुत्पादयेत्। एवं सति यजमानो विकर्षरहितः संपूर्णस्वरूपो भवति।
अथ पशुप्रसङ्गेत किंचित्प्रायश्चित्तं विधत्ते-

यदि पशोरिति। प्रत्याख्याय प्रत्येकं गणयित्वा यावन्त्यवदनानि नष्टानि तावत्कृत्व आज्यमवेद्येत्सेयमवदानक्रियैव ततो दोषादविमोचनाय प्रायश्चित्तिर्भवति।

अथ प्रासङ्गिकं काम्यं विधत्ते

ये पशुमिति। ये वैरिण पशुमुद्दिश्य विमथ्नीरन्कलहं कुर्वीरन्नस्मदीयोऽयं पशुरिति यदि हरेयुस्तदानीमपहर्तॄन्प्रति यो यजमान आर्तिमाप्नुयुरिति कामयेत सोऽयं कुविदङ्गयृचाऽऽग्नीध्रधिष्णियस्थवन्हौ जुहुयात्। तस्या ऋचः सामर्थ्यं द्योतयितुं नमोवृक्तिवत्येत्युक्तम्। ये वर्हिषो नमोवृक्तिं न जग्मुरित्येवं नमोवृक्तिशब्दोऽस्यामस्तीति नमोवृक्तिवती। एषामपहर्तॄणां नमोवृक्तिमेव वृङ्क्ते नमस्का-र्यत्ववर्जनमव करोति। बन्धुमित्रादयः शिष्टादयोऽन्यजना अपि यथा तान्ननमस्कुर्वन्ति तथा बहिष्करोतीत्यर्थः। ते मानहानिं प्राप्तास्तदानीमेव मिगन्ते॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके
तृतीयोऽनुवाकः॥३॥

(अथ तृतीयकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः)
पदाञ्जनं पशोः पाकवन्हिश्चोक्तौ तृतीयके।
अथ चतुर्थे पशूपाकरणमन्त्रा आम्नायन्ते।
कल्पः- ‘बर्हिर्भ्यां प्लक्षशाखया च पुरस्तात्प्रत्यञ्चं पशुमुपाकरोत्युपो देवा-
न्दैवीर्विशः प्रजापतेर्जायमाना इति चैताभ्यामुपस्पृशन्’ इति। प्रजापतेरित्यादिके द्वे ऋचौ। तत्रेयं प्रथमा-
प्रजापतेरिति। याः प्रजाः इदानीं जायमाना याश्चेमाः पूर्वं जातास्ताः सर्वाः प्रजापतेरेव यत्प्रसूता अतस्तस्मै प्रजापतये प्रति प्रत्येकं रहसि गत्वा प्रवेदय हे पशो त्वदीयं वृत्तान्तं कथय। स च प्रजापतिश्चिकित्वांस्त्वदीयां स्वर्गप्राप्तिं जानन्ननुमन्यताम्। अथ द्वितीया
इमं पशुमिति। हे पशुपतेऽग्ने यदस्मिन्दिने सुकृतस्य मध्ये सम्यगनुष्ठितस्य ज्योतिष्टोमस्य कर्मणो मध्य इमं पशुं बध्नामि अतस्त्वमनुमन्यस्व। वयं सु यजा शोभनेन यज्ञेन यजाम। इदं हव्यं देवानां जुष्टं प्रियमस्तु।
कल्पः ‘प्रजानन्तः प्रतिगृह्णन्ति पूर्वं इति पञ्च हुत्वा’ इति।
तत्रेयं प्रथमा-
प्रजानन्त इति। हे पशो पूर्वे देवास्त्वदीयं वृत्तान्तं जानन्तोऽङ्गेभ्यः परित्वदीयाव-यवेभ्य ऊर्ध्वमाचरन्तं ते त्वदीयं प्राणं प्रतिगृह्णन्ति अस्माकमधीनोऽयमिति स्त्री कुर्वन्ति। त्वं तु देवा येषु पथिषु यान्ति तैः पथिमिः स्वर्गं याहि। प्राणरूपेण स्वर्गं गत्वाऽवशिष्टः शरीरावयवैरोषधीषु प्रतितिष्ठ पुरोडाशादिबद्ध विर्भवेत्यर्थः। अथ द्वितीया- येषामीश इति। पशुस्वामी रुद्रो द्विपदां चतुष्पदां च येषां पशूनामीश स्वामित्वेन वर्तते तेषां पशूनां मध्ये स्वामिनः सकाशादस्माभिर्निष्क्रीतोऽयं पशुर्यज्ञियं यज्ञयोग्यं भागमेतु भागत्वं प्राप्नोतु। यजमानस्य रायस्पोषा धनपुष्टयः सन्तु।
अथ तृतीगा-
ये बध्यमानमिति। अस्य पशोः पितृमातृभ्रातृसगर्भ्यसयूथ्यरूपा ये पशव एतदीयस्नेहेन स्वयमपि बध्यमानमेनं पशुमनु बध्यमानः सन्तो मनसा चक्षुषा चाभित ऐक्षन्त तान्पशूनग्निरग्रे प्रकर्षेण मोचयतु। ततः प्रजापतिर्देवः स्वकीयया प्रजया संविदान ऐकमत्यं गतस्तान्पशून्मोचयतु। अथ चतुर्थी-
य आरण्या इति। जातिभेदौर्विश्वरूपा वर्णभेदेनोच्चनीचत्वादिभेदैश्च व हुधा विविधरूपाः सन्तोऽपिं पशुत्वेनैकरूपाः। शेषं पूर्ववत्। अथ पञ्चमी-
प्रमुञ्चमाना इति। हे देवा भुवनस्य रेतो यागद्वारेणोत्पत्तिहेतुमिमं पशुं प्रमुञ्चमानाः प्रकर्षेण प्राणमातृपित्रादिभ्यो यज्ञार्थं मोचयन्तो यजमानस्य (नाय) गातुं धत्त स्वर्गलोकप्राप्तिं धत्त। उपाकृतमुपाकरणक्रियया संस्कृतं शशमानं हविर्भुक्षु देवेषु व्याप्रियमाणं यदस्थाद्यदङ्गजातमस्मिन्पशौ स्थितं तत्पाथोऽन्नं भूत्वा देवानां जीवमेतु जीवनार्थमुपाकरोतु। अपिशब्दाद्यजमानस्य स्वर्गं ददात्विति गम्यते। कल्पः-
‘नाना प्राणो यजमानस्य पशुनेत्यध्वर्युर्जपति’ इति। पाठस्तु-
नाना प्राण इति। यजमानस्य प्राण पशुना सह नाना पृथग्भवतु। अयमनुष्ठीय-मानो यज्ञो देवेभिर्देवनशीलैः पशुप्राणैः सह देवयानो भवतु हविर्भुजो देवान्प्रति गच्छतु। पाथः पशुरूपमन्नं देवानां जीवमप्येतु जीवनहेतुत्वं प्राप्नोतु। तेग यजमानस्य कामाः सत्याः सन्तु। कल्पः-
‘यत्पशुर्मायुमकृतेति संज्ञप्तहोमं जुहोति’ इति। पाठस्तु-
यत्पशुर्मायुमिति। अयं पशुर्मारणवेलायां मायुं दुःखहेतुकं शब्दमकुरुत। अथवा यतस्ततश्चाल्यमानैः पादैरुरस्ताडयति। तत्र यदेनो निष्पन्नं तन्मादेनसोऽग्निर्मां मोचयतु । किंचान्येनापि बन्धनाद्युपद्रवेण यद्यदहो निष्पन्नं तस्मात्सर्वस्मादंहसो मां मोचयतु।
कल्पः- ‘शमितार उपेतनेति वपाश्रपणीभ्यां षशुमुपेतोऽध्वर्युर्यजमानश्च’ इति। पाठस्तु-
शमितार इति हे शमितारो विशसनस्य कर्तारो देवा देवेभिरिन्वितं देवैर्व्याप्तं यज्ञमुमेतन प्राप्नुत प्रवर्तयेतेत्यर्थः। इमं पशुं पाशाब्दन्धनरज्ज्वा यज्ञे प्रमुञचत यज्ञपतिं च बन्धनजन्याद्दोषात्परिमुञ्चत। अनेन मन्त्रेणाध्वर्युयजमानौ वपाश्रपणहेतुभ्यां काष्ठनिर्मिताभ्यामेकशूलाद्विशूलाभ्यां युक्तौ सन्तौ शामित्रदेशं समागच्छतः।
कल्पः -पशोः पाशं प्रमुञ्चत्यदितिः पाशं प्रमुमोक्त्वेतमिति॔ इति। पाठस्तु-
अदिति पाशमिति। अतितिः पृथिवी पशोरेतं पाशं प्रमुञ्चतु। अहं च पशुभ्यः पशुपतयै च मदपराधनिवृत्त्यर्थं नमस्करोमि।
कल्पः – ‘यद्यभिचेरदरातीयन्तमधरं कृणोमि यं द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाश-मिति तया वृक्षं स्थाणुं स्तम्भं वाऽपिदध्यात्’ इति। पाठस्तु-
अरातीयमिति। यः पुरुषोऽस्माकमरातित्वं कर्तुमिच्छति तमध्वरं मत्तोऽवरं करोमि। यस्त्विदानीमरातित्वं नेच्छति तथाऽपि कालान्तरे तत्संभावनया वयमिदानीं तं द्विष्मः। तस्मिन्पुरुषे पाशमिमं प्रतिमुञ्चामि। जनया रशनया तं बध्नामीत्यर्थः।
कल्पः – त्वामुदते दधिरे हव्यवाहमिति स्रुवेण वपामभिजुहोति, इति। पाठस्तु-
त्वामु त इति। हेऽग्ने दैवेभिरिन्वितमिति पूर्वोक्ता ये देवास्ते त्वां दधिरे त्वामेव कार्यकरत्वेन निश्चितवन्तः। कीदृशं त्वां, हव्यवाहं देवनान्प्रति हविषो वोढारं शृत कर्तारमार्द्रकं हविः पक्कं कुर्वन्तम्। अपि च यज्ञियं यज्ञसंपादनार्हम्। हे जातवेदो हि यस्मात्त्वं सतर्नुदृढशरीरो भूत्वा सदक्षः सोत्साहोऽथ तस्मात्कारणाद्धवा जुषस्व हवींषि वोढुं प्रीतियुस्त्रो भव।
कल्पः-’ जातवेदो वपया गच्छ देवानिति वषट्कृते हुत्वा ‘इति।
पाठस्तु-
जातवेद इति। हे जातवेदस्त्वं वपया सह देवान्गच्छ। हि यस्मात्तवं प्रथमो होता बभूथ मनुष्यहोतुः पूर्वभावी बभूविथ तस्मात्त्वं घृतेन देवानां तनूर्वर्धयस्व। ते च देवाः स्वाहाकारेण समर्पितमिदं हविर्भक्षयन्तु।
कल्पः- ‘स्वाहा देवेभ्य इति पूर्वं परिवप्यं हुत्वा’ इति ‘देवभ्यः स्वाहेत्युत्तरं परिवप्यं हुत्वा’ इति च। पाठस्तु-
स्वाहा देवेभ्य इति। ये देवाः पुरस्तात्स्वाहाकारास्तेभ्य इदमाज्यं वपाहोमात्पूर्वं स्वाहाकृतनस्तु। तस्य च होमस्य वपाहोमाङ्गत्वाद्वप्यत्वम्। ये तु देवा उपरिष्टात्स्वाहा-कारास्तेभ्यो वपाहोमादूर्ध्वमिदमाज्यं हुतमस्तु। वपाया उभयपार्श्वस्थितानां स्वाहाकारेण वपासामिप्यविच्छेदो मा भूदिति। स्वाहाकारस्य पुरस्तादुपरिष्टाच्च प्रयोगः। अत्र विनियोगसंग्रहः-
प्रजापतेरिति द्वाभ्यां स्यादुपाकरणं पशोः।
प्रजा पञ्च जुहोत्यग्नौ नाना तन्नयने जपेत्॥
यत्पशुर्मृतहोमः स्याच्छमिता गच्छतः पशुम्।
अध्वर्युयजमानौ द्वावपि पाशप्रयोचनम्॥
अरा वृक्षादिषु ज्ञेयं त्वां जुहोति वपोपरि।
जा वपाहुरिरेतस्याः स्वाहा इत्यभितो हुतिः॥
अनुवाके चतुर्थेऽस्मिन्मन्त्राः षोडश वर्णिताः॥
अत्र मीमांसा।
नवमाध्यायस्य तृतीयपादे चिन्तितम्-
पाशं पाशान्द्वयोः पश्वारेको मन्त्रोऽथवा द्वयम्।
एकत्वे च द्वयत्वे किमेकस्योहोऽथवा द्वयोः॥
एकेनैव कृतार्थत्वादेको मन्त्रस्तदाऽपि च।
अविकारेण बह्वर्थ एकार्थासमवायतः॥
प्राकृतत्वादुभावूह्यावे (ह्य ए) कार्थोऽत्र विवक्षया।
बह्वर्थोऽप्यूहनीयोऽत्र द्वयोः शक्तेरकॢप्तितः॥

ज्योतिष्टोमेऽग्नीषोमीयपशावेकमचनान्तबहुवचनान्तौ द्वौ पाशमन्त्रौ भिन्नयोः शाखयोराम्नतौ ‘अदितिः पाशं प्रमुमोक्त्वेतम्’ इत्येकत्र। ‘पाशान्प्रमुमोक्त्वेतान्’ इत्यपरत्र। तावुभौ पशुद्वयोपेतायां विकृतौ चोदकेनातिदिष्टौ सा च विकृतिरेवमाम्नायते- ‘मैत्र ँ श्वेतमालमेत वारुणं कृष्णमपां चौषधीनां च संधावन्नकामः’ इति। तत्रैकेनैव मन्त्रेण चरितार्थत्वान्न द्वयोरतिदेश इत्याद्यः पक्षः। तदाऽप्यविकृतस्य प्रयोक्तुं शक्यत्वाद्बहुवचनान्तो मन्त्रो युक्तः। प्रकृतावेकस्मिन्पशावसमवेतार्थतया बहुवचनस्य विकृतावनूहनीयत्वादित्येकः पक्षः। तादृग्वहुवचनोपेतत्वादेव मन्त्रोऽप्यसावसमवेतार्थः प्रकृतौ भवति। एकवचनान्तस्तु मन्त्रः प्रकृतौ समवेतार्थत्वाद्विकृतावतिदिश्यताम्। स च द्विवचनान्तत्वेनोहनीय इति पक्षान्तरम्। प्रकृतौ विद्यमानयोरुभयोर्मन्त्रयोर्विकृतावतिदेशस्य वारयितुमशक्यत्वादेकमम्त्रपक्षस्यावा-न्तरत्वेनोपन्यस्तावुभावपि पक्षावयुक्तौ। मन्त्र द्वयातिदेशपक्षे त्वेकवचनान्तः प्रकृतौ समवेतार्थतया विकृतावूहनीयः। बहुवचनान्तो यथास्थित एव पठनीय इति पूर्वपक्षः। लोके वेदे वा बहुवचनस्य द्वयोरर्थयोरक्लॄप्तशक्तित्वाद्द्विवचनान्ततया सोऽष्यूहनीय इति सिद्धान्तः। तत्रैवान्यच्चिन्तितम्-

उत्कृष्टव्यो न वा मन्त्रो बह्वर्थोऽसंगतत्वतः।
उत्कृर्षो न विकल्पोऽसौ गुणे त्वन्याय्यकल्पना॥
योऽयं पूर्वत्रोदाहृतो बहुवचनान्चः पाशमन्त्रस्तस्य प्रकरणादुत्कर्षौ बहुपाशयुक्तेषु पशुगणेषु कर्तव्यः। कुतः। एकस्मिन्पशौ प्रकृते तस्यानन्वितत्वादिति चेत्। नासावुत्क्रष्टव्यः किंत्वेकवचनान्तेन मन्त्रेण सह विकल्पनीयः। न हि पाशानित्यत्र प्रधानस्यांशस्यानन्वितत्वमस्ति । प्रातिपदिकविभक्त्योः प्रातिपदिकं प्रधानं धर्मिवाचकत्वात्। विभक्तिस्तु कर्मत्वकरणत्वादिधर्मवाचकत्वाद्गुणभूता। तथा विभक्तिवचनयोर्विभक्तेः कर्मादिकारकवाचित्वाप्राधान्यं वचनस्य कारकगतसंख्या-भिधायित्वाद्गुणत्वम्। तथा सति बहुवचनान्तपाशशब्दे प्रातिपदिकं कर्मकारकविभ-क्तिश्चैकस्मिन्नपि पाशे संगच्छेते। गुणभूते तु बहुवचने लक्षणा वृत्तिः कल्पनीया, पाशावयवगतं बहुत्वं लक्ष्यत इति। तस्माद्गुणभूतं वचनमात्रमनुसृत्य कृत्स्नस्य मन्त्रस्य प्रकरणपाठो न बाधनीयः, किंतु प्रधानानुसारेण मन्त्रयोः समानबलत्वाद्विकल्पः कर्तव्यः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके
चतुर्थोऽनुवाकः॥४॥

(अथ तृतीयकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः)
चतुर्थे वर्णिता मन्त्राः पशूपाकरणादिगाः।

अथ पञ्चमे तेषां मन्त्राणां ब्राह्मणमभिधीयते।
प्राजापत्या इति। प्रजापतिः पशूनां जनकः। अग्निश्च रुद्रशब्दाभिधेयस्तेषां स्वाम्यतस्तदुभयप्रतिपादकाभ्यां प्रजापतेर्जायमाना इमं पशुमित्येताभ्यां मन्त्राभ्या मुपाकुर्यात् तथा सति ताभ्यां देवाभ्यां प्रतिप्रोच्यायं षशुमालब्धवान्भवति। तच्च कथनं स्वस्यानपराधत्वाय भवति। मन्त्रद्वित्वं प्रशंसति-
द्वाभ्यामुपेति। उपाकरणादूर्ध्वं प्रजानन्त इत्यादिभिः पञ्चभिर्मन्त्रैर्होमं विधत्ते-
उपाकृत्येति। पुच्छसहितेषु पादेषु पञ्चसंख्यायोगात्पशूनां पाङ्कत्वम्।
संज्ञपनाय पशुनयनकालेऽध्वर्योर्जपमन्त्रस्य नानाशब्दस्य तात्पर्यं दर्शयति-
मृत्यवे वा इति। पशोः पृष्ठतो हस्तेन स्पर्शोऽन्वारम्भः। व्यावृत्तिवाचकस्य नानाशब्दस्य प्रयोगो यजमानप्राणस्व म्रियमाणात्पशोर्व्यावृत्त्यै भवति।
संज्ञप्तहोमं विधत्ते-
यत्पशुरिति। अंहसो मुञ्चत्वित्पनया मन्त्रयतया प्रार्थनया पापस्य शान्तिर्भवति।
अध्वर्युयजमानयोर्वमाश्रपणीव्यवधानेन पशुप्राप्तिमन्त्रस्य स्पष्टार्थतां दर्शयति-
शमितार इति। यद्यप्यसौ मन्त्रः पादबद्धत्वादृगेव तथाऽपि यजुर्वेदाम्ना तत्वात्तत्कर्मणि विनियोज्यमानत्वाद्वा यजुरित्युच्यते।
वपाया उपरि होमं विधत्ते-
वपायां वा इति। भदा वपा होतुमाह्नियते तदानीमग्नेः सकाशाद्यज्ञोऽपक्रामति। तस्य च यज्ञस्यानेन होमेनापक्रमणं निवारितं भवति। अत एव मन्त्र दधिर इति प्रयुज्यते। अग्निं यज्ञस्य धारकं कृतवन्त इत्युक्तं भवति। किंच शृतं कर्तारमिति विशेषितत्वादयं होमो वपायाः पक्वत्वाय संपद्यते।
परिवप्यहोमौ विधत्ते-
पुरस्तादिति। वपासामीप्यं वाञ्छतां स्वाहाकारव्यवधानाद्बिभ्यतामुभयविधानां देवानां प्रीत्यै स्वाहाशब्दस्य मन्त्रयोर्व्यत्यासेन प्रयोग इत्यर्थः॥

इति श्रीमत्सायणाचार्येविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके
पञ्चमोऽनुवाकः॥५॥

(अथ तृतीयकाण्डे प्रथमप्रपाठके षष्ठोऽनुवाकः)।
पूर्वानुवाकमन्त्राणां पञ्चमे ब्राह्मणं श्रुतम्।
अथ षष्ठेऽभिमर्शनविधयो मन्त्रविशेषाश्च केचिदाम्नायन्ते।
तत्र सुत्यादिनगतप्रयोगारम्भेऽमिमर्शनं विधत्ते-
यो वा इति। आग्नीध्रहविर्धानादीनां मध्ये यस्य या देवता तां देवतामभिक्रम्य तस्योपचारे सति देवताभ्योऽवच्छिद्यते दरिद्रश्च भवति। अतस्तत्तद्देवताप्रतिपादक-मन्त्रैरेव तस्य तस्याभिमर्शने सति नोक्तदोषो भवति। तांश्च मन्त्रविशेषानापस्तम्ब उदाजहार- ‘महारात्रे बुद्ध्वाऽग्ने नयेत्याग्नीध्रमभिमृशतीदं विष्णुर्विचक्रम इति हविर्धानमग्न आयू ँ षि पवस इति स्रुच आ वायो भूप शुचिपा इति वायव्यान्याघा ये अग्निमिन्धत इति सदः’ इति। तेषु चत्वारो मन्त्राः प्रथमकाण्ड एवाऽऽम्नाता व्याख्याताश्च। आधा ये अग्निमिति मन्त्रस्तु ब्राह्मणग्रन्थे द्वितीयकाण्डस्य चतुर्थप्रपाठके वृषासो अ ँ शुरित्यस्मिन्ननुवाक आम्नास्यमानत्वात्तत्रैव व्याख्यास्यते।
युनज्मि त इति। कल्पः- ‘युनज्मि ते पृथिवीं ज्योतिषा सहेति दक्षिणस्य हविर्धा-नस्याधस्तात्पश्चादक्षँ द्रोणकलशं सदशापवित्रं युनज्मि वायुमन्तरिक्षेण ते सहेत्युत्तरस्य हविर्धानस्योपरिष्टान्नीड जाधवनीयं युनज्मि वाच ँ सह सूर्येण त इति प्रधृरे पूतभुतम्’ इति।
अत्र सर्वत्र प्रयुनक्तीति पदमनुवर्तते। हे द्रोणकलश ते तव स्वरूपभूतां पृथिवीं ज्योतिषाऽग्निना सहैतस्मिन्स्थाने युनज्मि सादयामि। हे आधवनीय ते स्वरूपभूतं वायुं तदाधारेणान्तरिक्षेण सहास्मिन्स्थाने युनज्मि। उच्यते नानाविधैर्मन्त्रैः प्रतिपाद्यत इति द्युलोको वाक्। हे पूतभृत्तव स्वरूपभूतां वाचं सूर्येण द्युलोकस्थेन सहास्मिन्स्थाने युनज्मि।
युनज्मीति। कल्पः- ‘युनज्मि तिस्रो विपृचः सूर्यस्य त इति स्रुचसन्ना अभिमन्त्रयते’ इति।
जुहूषभृद्ध्रुवाख्यास्तिस्रो याः स्रुचस्ता विपृचः परस्परसंपर्करहिता यथा भवन्ति तथा सूर्यस्य तव प्रकाशेन परीक्ष्य युनज्मि।
अग्निर्देवतेति। कल्पः- ‘अथैतानि वायव्यान्याभिमृशत्यग्निर्देवता गायत्री छन्द उपा ँ शोः पात्रमसीति दशभिर्दश’ इति।
हे ऊर्ध्वपात्राग्निर्देवता त्वां रक्षतु। गायत्री छऩ्दस्त्वां रक्षतु। त्वमुपाशुनामकस्य सोमरसग्रहणस्य पात्रमसि। एवमुत्तरेषु नवसुं मन्त्रेषु योज्यम।
तेषां पाठस्तु-
सोमो देवतेति। इन्द्रवायुवोरित्यादिभिर्देवतावाचकैः शब्दैस्तदीयं सोमरस ग्रहणमुपलक्ष्यते (*आग्रयणादिषु हे स्थालीति संबोधनीयम्। शस्त्रवाचके नोवथानामिति शब्देन तत्तच्छस्त्रसंबन्धिसोयरसंग्रहणमुपलक्ष्यते)। आस्मिन्ननुवाके प्रोक्ताः सर्वे मन्त्रा हृदे त्वा मनसे त्वेत्यनुवाकात्प्रागवे द्रष्टव्याः।
अत्र विनियोगसंग्रहः-
‘आग्नेय्यग्ने नयेतीदं विष्णुरित्येव वैष्णवी।
अग्न आयूंषि चाऽऽग्नेयी आ वायो इति वायवी॥
आघा ये अग्निमैन्द्री स्याद्युनज्मीति त्रिभिः क्रमात्।
साद्यन्ते द्रोणकलशाधवनीयौ च पूतभृत्॥
युनेति मन्त्रणं कुर्यात्सवनीयस्रुवस्रुचाम्।
अग्निरित्यादिदशभिर्ग्रहपात्राणि संस्पृशेत्॥
षष्ठानुवाके संप्रोक्ता मन्त्रा एकोनविंशतिः’। ( इति)।
अत्र मीमांसा।

तृतीयाध्यायस्य द्वितीयपादे चिन्तितम् —
आग्नेय्याऽऽग्नोध्ररमित्यग्निदेवताका ऋचोऽखिलाः।
उपस्थाने प्रयोक्तव्याः प्रकृता एवं ता उत॥
साधारण्येन शब्दोक्तेः सर्वाभिस्तदुपस्थितिः।
विशेष (ये) विधिसंक्रान्त्या प्रकृताभिरितीष्यताम्॥
ज्योतिष्टोमे श्रूयते- ‘आग्नेय्याऽऽग्नीध्रमुपतिष्ठते’ इति। तत्राऽऽग्नीध्रनामकस्य मण्डपस्य यदुपस्थानं तद्यया कयाचिद्दाशतयीगतयाऽऽग्निदेवतया संबन्धिन्या कर्तव्यम्। अग्निर्देवता यस्या ऋचः साऽऽग्नेयीतिसाधारणाक्तोवृग्विशेषस्याप्रपीतेरिति चेन्मैवम्। ऋतुप्रकरणपठितानामाग्नेयीनामृचां ऋतुप्रयुक्तव्यापारसाधनत्वं प्रकरणादेव। कोऽसौ व्यापार इति विशेषबुभुत्सायामाग्नीधोपस्थानरूपोऽयमिति बोधयन्नयं विधिर्विशेषमात्रं (त्रे) संक्रामतीति लाघवम्। अपकृतानां तु ऋतुप्रयुक्तव्यापाराग्नेयीभिस्तदुपस्थानम्। एवमैन्द्रया सदो वैष्णव्या हविर्धानमित्यत्र सदोहविर्धाननामकयोर्मण्डपयोरुपस्थाने प्रकृतानायेवैन्द्रीणां वैष्णवीनां च प्रयोग इति द्रष्टव्यम्॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके
षष्ठोऽनुवाकः॥ ६॥

(अथ तृतीयकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः)
आग्नीध्रस्पर्शनाद्यर्था मन्त्राः षष्ठ उदीरिताः।
अथ सप्तमे परस्परमात्सर्येण प्रवृत्तयोर्यजमानयोः कश्चिननैमित्तिकः प्रयोगो वक्तव्यः। तत्राऽऽदौ तावदेकं नित्यप्रयोगं विधत्ते-
इष्टर्गो वा इति। इष्टं कायमृच्छति प्रमादालस्यादिना विनाशयतीतीष्टर्गोऽ–ध्वर्युर्यजमानस्येष्टर्यो वै यागविधानेषु प्रमादादेर्निवारयितुमशक्यत्वात्तादृशोऽध्वर्युर-र्ष्टुर्यज्ञविनाशेनाऽऽर्तिं गच्छतो यजमानात्पूर्वः क्षीयते स्वयं प्रथमत एव विनश्यति। तस्य स्वविनाशस्य परिहारागाऽऽसन्यादित्यादिमन्त्रेण होतृसंबन्धिनः प्रातरनुवाक-पाठात्पुराऽऽज्यमध्वर्युराग्नीध्रे जुहुयात्। तेन होमेनाध्वर्युरात्मार्थं प्रथमं शर्म नह्यते सुखं बध्नाति। तच्च यजमानस्यानार्त्यै संपद्यते। मन्त्रस्यायमर्थः- आसन्याद्वैरिणामास्ये भवान्मन्त्रादभिचाररूपान्मां पाहि हे देव मां पालय। तथा कस्याश्चिदभिशस्त्याः सर्वस्मादप्यपवादान्मां पाहीति।
मात्सर्येण सोमयागं कुर्वतोर्द्वयोर्यजमानयोरासन्यमन्त्रस्थाने मन्त्रान्तराणि पञ्च दर्शयति।
संवेशायेति। संवेशः शयनम्। उपवेश आसनम्। मम विश्रम्भेण तदुभयसिद्ध-यर्थं गायत्र्या (अ) भिभूत्यै गायत्रीकर्तृकवैर्यभिभवार्थं च हेऽग्ने त्वां प्रति स्वाहुतमिद-मस्तु। गायत्र्या इति पदादूर्ध्वमभिभूत्यै स्वाहेति पदद्वयस्यानुषङ्गः। त्रिष्टुभ इति पदस्य संवेशायेत्यादिः पूर्वानुषङ्गः। अभिभूत्यै स्वाहेत्युत्तरानुषङ्ग। जगत्या इति पदस्य संवेशायेत्यादिः पूर्वानुषङ्ग। एवमेते त्रयो मन्त्राः। हे प्राणापानौ भृत्योः सकाशान्मां पातम्। सोऽयं चतुर्थो मन्त्रः। हे प्राणापानौ मां कदाचिदपि मा हासिष्ठं मा परित्यजतम्। सोऽयं पञ्चमो मन्त्रः। अत्रोभयत्र स्वाहेत्यनुषज्यते। एतैषां मन्त्राणां ब्राह्मणमुच्यते-
देवतासु वा इति। येषां यजमानानां सोमयागः समृच्छते मात्सर्येण संभूय प्रवर्ततै। एते यजमाना देवताविषये प्राणापानविषये च व्यायच्छन्ते विप्रतिपद्य-न्ते। एतद्देवतादिकं ममैवास्तु नान्यस्येत्येको मन्यते। अपरोऽपि तथेति विप्रतिपत्तिः। तस्यां विप्रतिपत्तौ सत्यां संवेशायेत्यादिभिः पञ्चभिर्मन्त्रैः प्रातररनुवाकात्पुराऽऽग्नीध्रे जुहुयात्। तत्र विश्रम्भपूर्वकयोः शयनासनयोर्वाचकाभ्यां संवेशोपवेशशब्दाभ्यां तत्कारणीभूतानि गायत्र्यादिच्छन्दांस्युपलक्ष्यन्ते। तथा सति यः संवेशादिमन्त्रैर्जुहोति अस्य यज्ञे प्रवृत्तैच्छोभिः प्रतिस्पर्धियज्ञगतानि च्छन्दांसि विनाशितानि भवन्ति। ततो देवतानां प्राणापानयोश्च स्वाधीनत्वात्स्वयं निरुपद्रवः सुखेन संवेष्टुमुपवेष्टुं च प्रभुर्भवति।
अथ मात्सर्यप्रवृत्तावध्वर्युकर्तव्यान्युक्त्वोद्गातुः कर्तव्यविशेषं विधत्ते-
प्रेतिवन्तीति। प्रकृष्टा गतिः प्रेतिः सा येष्वाज्यस्तोत्रेषु विद्यते तानि प्रेतिवन्ति। तादृशान्याज्यस्तोत्राण्युद्गातृभिरनुष्ठेयानि भवन्ति। तानि चाभिजयाय संपद्यन्ते। मात्सर्यनिमित्तं विहाय नित्यप्रयोगेऽग्न आयाहि वीतय इत्यादीन्याज्यस्तोत्राणि। मात्सर्यप्रवृत्तरूपे त्वस्मिन्संसवे प्र वो वाजा इत्यादीन्याज्यस्तोत्राणि। तत्र गतिप्रकर्षवाचिनः प्रशब्दस्य विद्यमानत्वादेतानि प्रेतिवन्तीत्युच्यन्ते। ननु ब्राह्मणग्रन्थ एकैको वै जनतायामिन्द्र इत्यस्मिन्ननुवाके यौ द्वौ स ँसुनुत इति द्वयोर्मात्सर्येण प्रवृत्तं संसवशब्दाभिधेयं सोमयागमुपक्रम्यैवमाम्नातम्- ‘एतिवन्त्याज्यानि भवन्त्यभिजित्यै’ इति। आभिमुख्येन गमनमेतिः सा येष्वाज्येष्वस्ति तान्येतिवन्ति। अग्न आयाहीत्यस्यामृच्या-मागमनस्य प्रतीतत्वात्तदादीन्येतिवन्त्याज्यानि। तान्येव नित्यप्रयोग इवात्रापि विधीयन्त इति चेत्। एवं तर्हि वचनद्वयबलात्प्रेतिवतामेतिवतां चात्र समुच्चयोऽस्तु। नात्र विकल्पः शङ्कनीयोऽपूर्वभेदेन कार्यैकत्वाभावात्। मरुत्वच्छब्दो यास्वृक्ष्वस्ति ता मरुत्वत्यः। प्रतिपद्यन्ते प्रारभ्यन्त आज्यस्तोत्राणि याभिर्ऋग्भिस्ताः प्रतिपदः। उदाहृता मरुत्वत्य आज्यस्तोत्रेषु प्रतिपदा भवन्ति। तच्च विजयाय संपद्यते। नित्यप्रयोगे पृष्ठस्तोत्रे बृहत्साम रथंतरसाम वेत्युभयमिच्छया विकल्प्यते। इह तु संसवे बृहद्रथंतरे समुच्चित कार्ये।
अथ तयोः समुच्चितयोर्बहुधा प्रशंसामाह-
इयं वावेति। बृहृद्रथंतंरे भूलोकादिप्राप्तिहेतूत्वात्तद्रूपेण स्तूयेते। तदुभयं समुच्चित्य प्रयुञ्जान आभ्यां लोकाभ्यामेनं प्रतिस्पर्धिनमन्तेरीत प्रच्युतं करोति। तथा वर्तमानदिनरूपेण भविष्यद्दिनरूपेण च ते स्तूयेते। तथा सत्यद्याश्वाद्दिनद्वयादेनं च्यावयति। तथा भूतभविष्यच्छ्रेयोरूपेण स्तुत्वा ताभ्यां श्रेयोभ्यामेनं च्यावयति। तथा परिमितापरिमितरूपाभ्यामपि श्रेयोभ्यां च्यावयति।
इत्थं द्वयोः संवेशेत्यादिनाऽत्र कर्तव्यमभिधाय हौत्रं कर्तव्यं दर्शयति।
विश्वामित्रेति। आ नो भद्रा इत्येतन्नित्यप्रयोगे वैश्वदेवशस्त्रगतं सूक्तं तस्य स्थाने ममाग्ने वर्चो विहवेष्वस्त्वित्येतत्सूक्तं मात्सर्यग्रस्तः प्रयुञ्जीत। तेन प्रतिस्पर्धिन इन्द्रिय-सामर्थ्यं वृङ्क्ते विनाशयति। यथा जपदग्निर्वसिष्ठस्य वीर्यं तद्वत्। एवमृत्विज एकैकस्य कर्तव्यविशेषमुक्त्वा यजमानस्य कर्तव्यविशेषं दर्शयति-
यस्य भूया ँस इति। देवतामुद्दिश्य हविस्त्यागमात्रं यज्ञ इत्युच्यते। अङ्गोपाङ्ग-सहितः संपूर्णः ऋतुः। यज्ञश्चासौ क्रतुश्चेति यज्ञक्रतुः। हविस्त्यागसामान्यस्य विद्यमान-त्वाद्यज्ञोऽपि भवति। अङ्गोपाङ्गविशेषसद्भावात्क्रतुरपि भवति। यथा चूतवृक्षः पनस-वृक्ष इति सामान्यविशेषाभ्यां निर्दिश्यते तद्वत्। द्वयोः स्पर्धमानयोर्यजमानयोर्मध्ये यस्य यज्ञक्रतुरङ्गोपाङ्गैर्भूयान्भवति स यजमानः प्रतिस्पर्धिनो देवान्विनाशयति। ततो यदि प्रतिस्पर्धीनो द्वादशस्तोत्रयुक्तोऽग्निष्टोमः परस्तादनुष्ठानसमाप्तौ पर्यवसितो भवेत्तदानीमितरः पञ्चदशस्तोत्रयुक्तमुक्थ्यं कुर्वीत। यदि प्रतिस्पर्धिन उक्थ्यः स्यात्तदानीमितर एकोनत्रिंशत्स्तोत्रयुक्तमतिरात्रं कुर्वीत। एवं सति भूयोभिः स्वकीय-यज्ञक्रतुभिः प्रतिस्पर्धिनो देवता विनाश्य स्वयं वसमत्तमो भवति अत्र विनियोगसंग्रहः-

‘आसन्येति पुरा होमः स्यात्प्रातरनुवाकतः।
स्पर्धया सुन्वतः सोमं संवेशाहुतिपञ्चकम्॥
प्रशब्दयुक्तान्याज्यानि मरुत्वत्य उपक्रमे।
नित्यप्रयोगादेतावान्विशेषः स्पर्धया भवेत्’॥
दशमाध्यायस्य षष्ठे पादे चिन्तितम्-
संसवादौ द्वयोरेकं पृष्ठं यद्वा समुच्चितम्।
एकं प्रकृतिवद्विश्वजितीवान्यत्र चेतरत्॥
वचनाद्विश्वजित्येते साम्नी द्वे स्तोत्रयोर्द्वयोः।
नेहास्ति तत्पृष्ठ एव साहित्यं स्यात्पुनर्विधेः॥
इदमाम्नायते- ‘संसव उभे कुर्यात, गोसव उभे कुर्यात्, अभिजित्येकाह उभे बृहद्र-थंतरे कुर्यात्’ इति। किमत्र बृहद्रथंतरयोरेर्क पृष्ठस्तुतावितरदन्यस्तुतौ स्यात्, किंवा समुच्चितमुभयं पृष्ठ एवेति संशयः। प्रकृतौ द्वयोर्विकल्पितत्वादेकस्मिन्प्रयोग एकस्य पृष्ठत्वादन्यत्रापि तथात्वं युक्तम्। तथा सत्यवशिष्टं साम सर्वपृष्ठविश्वजिन्न्यायेन स्तोत्रान्तरे प्रयोक्तव्यमिति पूर्वः पक्षः। तादृग्वचनाभावेनात्र विश्वजिद्वैषम्या-त्प्रकृतिवद्विकल्पे सति पूर्वविधानवैयर्थ्यात्समुच्चय इति राद्धान्तः।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके
सप्तमोऽनुवाकः॥ ७॥

(अथ तृतीयकाण्डे प्रथमप्रपाठकेऽष्टमोऽनुवाकः।)
विशेषविधयः प्रोक्ताः स्पर्धायुक्तस्य सप्तमे।
अथाष्टमेऽनुवाक उपांशुग्रहार्थस्याभिषवस्यापेक्षिता मन्त्रा उच्यन्ते।
कल्पः- ‘उत्तरस्यां वर्तन्यां होतृचमसं वसतीवरीभिरमिपूर्य निग्राभ्यासु यजमानं वाचयति निग्राभ्याः स्थ देवश्रुतः’ इति। दक्षिणस्य हविर्धानस्योत्तरस्मिन्रथचक्रमार्गे वसतीवरीशब्दाभिधेयाभिरद्भिरभिपूर्यते होतृचमसस्तत्राभिपूरणाय निग्राभ्याभिधा-स्वप्स्वानीयमानासु मन्त्रं वाचयेत्। तत्पाठस्तु-
निग्राभ्याः स्थेति। हविष्मतीरिमा आप इति मन्त्रेण कुम्भे नितरां ग्रहीतव्या आपो निग्राभ्याः। देवः श्रूयन्त इति देवश्रुतः। हे आपो यूयं तादृश्यः स्थ। ता यूयं मदीयमायुस्तर्पयत। एवं प्राणादिषु योज्यम्। आत्मानं जीवम्। अङ्गानि हस्तपादाद्यवय-वान्। गणान्भृत्यसमूहान्। सर्वगणं सर्वे पुत्रभृत्यादिसमूहा यस्य मम तादृशं माम्। किंबहुना तर्पयत मेत्युपसंहारः। त्वदीयेन तर्पणेन मदीया गणास्तृषादिरहिता भवन्तु। पूर्वानूवाकोक्ता आसन्यादित्यादिका मन्त्रा हृदे त्वेत्यनुवाकात्पूर्वं द्रष्टव्याः। अयं तु निग्राभ्याः स्थेति मन्त्रस्तस्मादूर्ध्वं द्रष्टव्यः।
यदुक्तं सूत्रकारेण- ‘धिषणे वीडु इत्यधिषवणफलके, अवीवृधं वो मनसा सुजाता इति राजानमेवाभिमन्त्र्य’ इति, तमिमं मन्त्रर्ववतार्थ व्याचष्टे-
ओषधय इति। यः सोमो राजा तस्यौषधय एव विशः प्रजारथानीयाः। अत एव ता ओषधिरूपा विशो राज्ञः प्रदातोरीश्वराः सोमं राजानमीश्वरमस्मभ्यं दातुं समर्थाः। सोमश्चेन्द्रदेवत्यः। तस्मादोषधीन्द्रविषयेणावीवृधमित्यादिमन्त्रेण सोमाभिमन्त्रणं युक्तम्। तस्य च मन्त्रस्यायमर्थः- हे सुजाताः सर्वजनोपकारित्वेन शोभनजन्मानो विशेषतश्च ऋतप्रजाता यज्ञार्थं प्रकर्षेणोत्पन्नास्तादृश्यो हे ओषधयो वो युष्मान्मनसाऽवीवृधं वर्धयामः। वो युष्माकं भग इद्भजन एव वयं स्याम सर्वदा युष्मद्भजनरूपे कर्मणि तिष्ठामेत्यर्थः। देवीर्वीरुधः सोमवल्लीरूपा देव्य इन्द्रेण संविदाना ऐकमत्यं गताः सवनाय प्रातःसवनकर्मणे सोममनुमन्यन्तामिति। एतन्मन्त्रपाठेनौषधिरूपा सोमस्य या विट्स्वकीयप्रजा या चेन्द्ररूपा सोमस्य स्वकीयदेवता तस्या प्रजाया देवतायाश्च सकाशात्सोमं विशेषेण याचित्वाऽभिषुणोति।
गदुक्तं सूत्रकारेण – ‘आ माऽस्कानिति प्रथमप्लुतमंशुमभिमन्त्रयते’ इति।
तदिदं विधत्ते-
यो वै सोमस्येति। अधिषवणफलकयोरवस्थाप्य ग्रावभिरभिषूयमाणस्य सोमस्य यः प्रथमोंऽशुर्लेशो भुमौ पतति स लेशो यजमानस्येन्द्रियादीन्निःशेषेण विनाशयितुं समर्थः। तस्मात्तत्परिहारार्थमा माऽस्कानित्यादिमन्त्रेण तमंशुमभिमन्त्रयेत। तस्य च मन्त्रस्यायमर्थः – हे भूमौ पतितांशो त्वं प्रजया धनसमृद्धया च सह मां प्रत्यास्कान्पुनरागतोऽसि। तस्मान्मदीयमिन्द्रियं वीर्यं च मा निर्वधीमां विनाशयेति अनेनाभिमन्त्रणेन प्रजादीनामविनाशायाऽऽशिवमेवाऽऽशास्ते।
यदुक्तं सूत्रकारेण- ‘द्रप्सश्चस्कन्देति विप्रुषः’ इति। अभिमन्त्रयत इत्यनुवर्तते। तमिमं मन्त्रं पठति-
द्रप्सश्चस्कन्देति। द्रप्सः सोमरसबिन्दुः पृथिवीमनु चस्कन्द पृथिव्यां पतित इत्यर्थः। स च द्रप्सो हुतः सन्स्थानत्रयेऽनुसंचरति द्युलोकेऽन्तरिक्षलोके भूलोके च। तदेतदभिप्रेत्य स्मर्यते स्म-
‘अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते।
आदित्याज्यायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः’॥ इति।
योऽयमर्थो द्यामित्यादिनाऽभिधीयते द्यामिमं च योनिमनु अन्तरिक्षरूपमिदं स्थानमनुसंचरति। यश्च पूर्वो योनिः पृथिवीमनु चस्कन्देति पूर्वोक्तस्थानविशेषः, तमप्यनुसंचरति। तृतीयं योनिं द्युलोकरूपमादित्यस्थानमनुसंचरति, तमिमं त्रिषु स्थानेष्वनुसंचरन्तं द्रप्सं जुहोमि मनसा हुतमिव भावयामि। कुत्र होम इति तदुच्यते अनु सप्त होत्रा इति। यस्यां दिशि द्रप्सः पतितस्तद्व्यतिरिक्तहोगयोग्याः सप्त दिशो या- सन्ति तास्वनुक्रमेण जुहोमि। यथाऽपं द्रप्सो हुत आदित्यादि स्थानत्रयेषु संचरन्नुपकारोति तथा भावयामीत्यर्थः। त एते मन्त्रा वाचस्पतये पवस्वेत्यस्मादनुवाकात्पूर्वं द्रष्टव्याः। अत्र विनियोगसंग्रहः –
निग्राभ्यादितृषन्नन्तं निग्राभ्याग्रहणे सति।
स्वामिनं वाचयेत्सोमं मन्त्रयेत ह्यवीवृधम्॥
आमास्कारनभिमन्त्र्यांशुर्द्रैप्सो बिन्दुं तु मन्त्रयेत्।
चत्वार एते मन्त्राः स्युरष्टमे त्वनुवाकके॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठकेऽष्टमोऽनुवाकः॥ ८॥

(अथ तृतीयकाण्डे प्रथमप्रपाठके नवमोऽनुवाकः)
उपांशुग्रहसंयुक्ता मन्त्रा अष्टम ईरिताः।
अथ नवमे सवनाहुत्यादिमन्त्रा वक्तव्याः। तत्राऽऽदौ ताद्ग्रहमन्त्राणां क्रमेण नीचमुच्चं च ध्वनिं विधत्ते-
यो वै देवानिति। देवानां यशःकीर्तिर्देवयशसं तेन देवान्यो यजमानोऽर्पयति योजयति मनष्यानपि मनुष्ययशसेन योजयति स स्वर्गे देवेषु मध्ये देवयशसवा-नेव भवति। भूलोके मनुष्येषु मध्ये मनुष्ययशमुवानेव भपति। तदुभयसिद्धयर्थं क उपाय इति, तदुच्यते-आग्रयणग्रहात्प्राचीनं पूर्वस्मिन्काले यान्ग्रहानंशूपांश्वन्तर्यामैन्द्र-वायवादीन्गृह्णाति तान्सर्वानुपांश यथा भवति तथा गृह्णीयात्। मन्त्रा यथा पार्श्वस्थैर्न श्रूयन्ते तथोच्चार्य गृह्णीयादित्यर्थः यानाग्रयणग्रहार्द्ध्वभाविन उक्थ्यादी ग्रहान्गृह्णी-यात्तानुपब्दिमतो गृह्णीयात्। समीपस्थैरीषच्छ्रवणमुपब्दिस्तथोच्चार्य गृह्णीयादित्यर्थः। तत्रापांशूच्चारणेन देवानां कीर्तिप्राप्तिः। ईषदुच्चध्वनिना मनुष्याणां कीर्तिप्राप्तिः। तेनो-भयेन स्वस्यापि लोकद्वये कीर्तिर्भवति।
कल्पः – ‘अग्निः प्रातःसवने पात्वस्मानिति स ँ स्थिते सवन आहुतिं जुहोति’ इति। पाठस्तु-
अग्निः प्रातरिति। अयमग्निः प्रातःसवनेऽस्माभिरनुभिरनुष्ठिते सत्यस्मान्पातु। वैश्वानरो विश्वेषां नाराणां स्वामित्वेन संबन्धी। महिना स्वकीयने महिम्ना विश्वशंभूर्वि-श्वस्य सुखप्रापकः। स तादृशोऽग्निरस्मभ्यं द्रविणं दधातु धनं दद्यात्। कीदृशः , पावकः शोधयिता। पापक्षयं कृत्वाऽस्माञ्शोधयतीत्यर्थः। किंच वयमायुष्मन्तो दीर्घायुषः सह-भक्षा भक्षयितृभिः सर्वेः सहिताश्च सर्वशः स्याम। सोऽयं प्रातःसवनसमाप्तौ होममन्त्रः।
कल्पः- ‘विश्वे देवा मरुत इति संस्थिते सवन आहुतिं जुहोति’ इति। पाठस्तु-
विश्वे देवा इति। ये मरुतो यश्चेन्द्रस्ते विश्वे देवाः सर्वे देवा अस्मिन्द्वितीये माध्यांदिने सवने नोऽस्मान्न जह्युर्मा परित्यजेयुः। वयगप्यायुष्मन्तो दीर्घायुषो येषां देवानां स्तोत्रादिकं वदन्तस्तेषां सुमुतावनुग्रहबुद्धौ स्याम तिष्ठेम। सोऽयं माध्यंदिनसवनसमाप्तौ होममन्त्रः।
कल्पः – ‘इदं तृतीय ँ सवनं कवीनामिति संस्थिते सवन आहुतिं जुहोति’ इति। पाठस्तु - इदं तृतीयमिति। कवीनां विदुषामृत्विजां संबन्धि यदिदं तृतीयसवनं तदिदं देवा वसीयो वसुमत्तरं कृत्वा नोऽस्माकं या स्विष्टिः शोभनो यातस्तां स्विष्टिमभिलक्ष्य नयन्तु प्रापयन्तु। कीदृशा देवास्तदुच्यते-ये देवाश्चमसं चमसगणमैरयन्त प्रेरितवन्तस्ते देवाः सौधन्वनाः सुधन्वन इन्द्रस्य संबन्धिन ऋभुनामानः सुवरानशानाः स्वर्गं प्राप्नुवन्तः। तादृशा देवा नयन्त्वित्यन्वयः। साऽयं तृतीयसवनसमाप्तौ होममन्त्रः। एतेषु मन्त्रेष्वग्निः प्रातःसवन इत्ययमाद्यो मन्त्र ओमासश्चर्षणीधृत इत्यनुवाकार्द्ध्वं द्रष्टव्यः। विश्वे देवा इत्ययं द्वितीयो मन्त्रो महा ँ इन्द्रो नृवदित्यनुवाकार्द्ध्वं द्रष्टव्यः। इदं तृतीय ँ सवनमिति तृतीयो मन्त्रो बृहस्पतिसुतस्येत्यनुवाकार्द्ध्वं द्रष्टव्यः।
यदुक्तं सूत्रकारेण – ‘अध्वरो यज्ञोऽयमस्तु देवा इति परिप्लवयाऽऽधारमा घारियति’ इति।
परिप्लवाशब्देन होमसाधनं काष्ठापात्रमुच्यते। तमिममापारं विधत्ते-

आयतनवतीरिति। हूयमाना आहुतयो द्विविधा आयतनयुक्तास्तद्रहिताश्च। आघारेण व्यवस्थापितं होमस्थानं होतव्यानामायतनं यत्तद्ब्राह्मणे पुरोडाशाद्याहुती-नामस्ति। आघारस्य प्रकरणे विहितत्वात्। सौभ्यास्त्मंशूपांश्वन्तर्यामग्रहा आयाररहित-त्वादनायतनास्तद्वदैन्द्रवायवग्रहाद्याहुतीनामप्यनायनत्वं प्राप्तम्। अतस्तद्व्यावृत्त्यर्थं यदैन्द्रवायवं होतुमादत्ते तदा वामहस्ते तं धृत्वा दक्षिणहस्तेनाध्वरो यज्ञ इत्यादिमन्त्रे-णाऽऽघारं जुहुयात्। दक्षिणं परिधिसंधिमन्ववहृत्य प्राञ्चमुदञ्चं सोमरसं पातयेत्। सोऽयमाघारः। मन्त्रार्थस्तु- हे देवा अयमस्माकं यज्ञोऽध्वरो हिंसकरीहतोऽस्तु। किमर्थमिति तदुच्यते- ओषधीभ्यः पशवे जनाय चास्माकं सर्वप्राणिभ्यश्च हे सोम त्वमध्वरो हिंसारहितोऽसीति घृतवत्सिञ्चेति। तत्तेन सोम्या ऐन्द्रवायवादिग्रहसंबन्धिन्यो-ऽप्याहुतीरायतनवतीः करोति। यश्चैवं वेद सोऽप्यायतनवान्भवति। अपि च घृतवदि-त्युक्त्या द्यावापृथिव्यावपि घृतेन विविधं क्लेदयति। ते च विविधं क्लेदिते सत्यौ सर्वेषां प्राणिनामुपजीवनीये भवतः। य एवं वेद सोऽऽयुपजीवनीयो भवति।
यदुक्तं सूत्रकारण – ‘उत्तरार्धात्पतिप्रस्थाता बहिष्परिघ्यङ्गारं निर्वर्त्य तस्मिन्म-न्थिनः स ँ स्रावं जुहोत्येष ते रुद्र भागो यं निरयाचथा इति’ इति।
पाठस्तु –
एष ते रुद्रेति। हे रुद्र क्रूरदेवैष संस्रावस्तव भागस्तं (गः, य) भागं निरयाचथा देवेभ्यो निष्कृष्य तवैवासाधारणत्वेन याचितवानसि, तद्याचनं ब्राह्मणे स्पष्टी भविष्यति, तं याचितं भागं सेवस्व। त्वं तु गवां पालनं धनस्य पुष्टिं शोभनपुत्रं संवत्सर-निष्पाद्यानामोषधीनामविनाशं च विदेर्जानासि। तस्मात्सर्वमस्मदर्थं संपादयेत्यभिप्रायः।
तमिमं संस्रावहोमं विधातुं पीठिकामारचयति-
मनुः पुत्रेभ्य इति। बनोर्बहवः पुत्रास्तेषु कनिष्ठो नाभानोदिष्ठनामको बालो वेदाध्ययनं करोति। तदानीं पिता प्रबुद्धेभ्यः पुत्रेभ्यः स्वकीयं धनं विभज्य दत्तवान्। अध्ययनपरं बालं भागरहितमक्ररोत्। स च वाल आगत्य केन हेतुना मां भागरहितम-कार्षीरिति पितरमब्रवीत्। स च पिता त्वां भागरहितं न कृतवानस्मीत्यब्रवीदुक्त्वा च तत्प्राप्त्युपायं पुत्रायोपदिदेश।
अनन्तरं च पुत्रस्तेनोपायेन भागं प्राप्तवानित्येतद्दर्शयति –
अङ्गिरस इति। अङ्गिरोनामका इमे महर्षयः सत्रमनुतिष्ठन्ति। ते तु स्वर्गप्राप्तिसाधनानां नाभानेदिष्ठनामकशस्त्रादीनामपरिज्ञानात्स्वर्गं न जानन्त्यतस्तेभ्य इदं त्वयाऽधीतं शस्त्रादिप्रतिपादकं ब्राह्मणं ब्रूहि। तेऽपि सत्रं परिसमाप्य स्वर्गं गच्छन्तो यागोपयुक्तेभ्योऽवशिष्टान्स्वकीयान्पशून्सर्वांस्तुभ्यं दास्यन्ति। सोऽयं भागप्राप्त्युपायः। इत्येवं मोक्तः पुत्र इदं ब्राह्मणं तेभ्योऽभिदधे। ततस्तदीयानवशिष्ठान्सर्वान्पशूल्लँब्धवान्।
अथ नाभानेदिष्ठस्य रुद्रेण सह संवादं दर्शयति-
तं पशुमिरिति। अङ्गिरोभिर्दत्तान्पशून्स्वगृहे नेतुं तदीये (यायां) यज्ञभुवि यज्ञशेषैः पशुभिः संचरन्तं नाभानेदिष्ठं रुद्र आगत्य मदीया एते पशव इत्यब्रवीत्। ततः स नाभानेदिष्ठो मह्यमङ्गिरस इमान्पशून्दत्तवन्त इत्यब्रवीत्। ततः स रुद्रस्तस्य यज्ञशेषस्य द्रव्यस्य तेऽङ्गिरसो न स्वामिनस्तस्मात्तैर्दतं पशुद्रव्यमस्वामिदत्तत्वात्तव न योग्यमित्यब्रवीत्। कस्तर्हि स्वामीति चेच्छृणु-यद्द्रव्यं यज्ञभूमौ हीयते यज्ञसमाप्तेरूर्ध्वमवशिष्यते तत्सर्वे ममैव स्वम्। तस्मान्ममानुज्ञामन्तरेण यज्ञभूमिः केनापि न प्रवेष्टव्या। यदि तव शिष्टपश्वपेक्षाऽस्ति तर्हि मां यज्ञे भागिनं कुरु ततस्तुभ्यं दत्तानेतान्पशून्न मारयिष्यामीति रुद्रोऽब्रवीत्। ततो नाभानेदिष्ठस्तस्मै रुद्रायैतं मन्थिनः संस्रावमजुहोत्। मन्थिग्रहं हुत्वा तत्पात्रस्थं द्रव्यशेषं परिधेर्बहिस्थापितेऽङ्गारे हुतवान्। ततस्तुष्टो रुद्रस्तस्य नाभानेदिष्ठस्य पशून्नैव हिंसितवान्। आख्यानं परिसमाप्य विधत्ते-
यत्रैतमेवमिति। ऐन्द्रवायवादिषूक्थ्यान्तेषु ग्रहेषु गृहीतेषु ऋतुपात्रयोः सोम-ग्रहणात्प्रागेवैन्द्रवायवमन्थिग्रहप्रचारस्य काला (र्य) त्वान्मधुश्च माधवश्चेत्येतस्माद-नुवाकात्प्रागेवाध्वरो यज्ञ इत्याघारमन्त्र एष ते रुद्र भाग इति संस्रावमन्त्रश्च द्रष्टव्यः॥

इति श्रीमत्सायणाचार्यविरचिते माधविये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके नवमोऽनुवाकः॥ ९॥

(अथ तृतीयकाण्डे प्रथमप्रपाठके दशमोऽनुवाकः)
आघारसंस्रावमन्त्रौ नवमे कथितावुभौ।
अथ दशमे प्रवृतहोमादिमन्त्रा उच्यन्ते।
अल्पः- ‘प्रवृतः प्रवृतः प्रवृतहोमौ जुहोति जुष्टो वाचो भूयासमृचा स्तोम ँ समर्धयेत्येताभ्याम्’ इति।
षष्ठे काण्डे यद्विहितमृत्विजो वृणीते छन्दा ँ स्येव वृणीत इति, तत्र यो यो वृतो भवति तेन तेनेमौ होमौ कर्तव्यौ। तत्र प्रथममन्त्रपाठस्तु-
जुष्टो वाच इति। अहं वाग्देवतायाः प्रियो भूयासं तथा वाचां पालको यो देवस्तस्यापि प्रियो भूयासम्। हे वाग्देवि शब्दरूपाया वाचः संबन्धि यन्मधुरं पदं तस्मिन्मा धा मां स्थापय। सरस्वत्यै तुभ्यमेतद्धुतमस्तु।
द्वितीयमन्त्रपाठस्तु-
ऋचा स्तोममिति। हे वाग्देवि ऋचा योनिभूतया स्तोमं सामावृत्तिं वा समर्धय समृद्धिं कुरु। तथा गायत्रेण साम्ना सहितं रथंतरं साम समर्धय। गायत्रस्य वर्तनी मार्गो यस्य बृहतः साम्नस्तद्गायत्रवर्तनि। तादृशं यथा भवति तथा बृहत्साम समर्धय। कर्मानुष्ठानाय वृतेषु ऋत्विक्षु ऋक्सामादिगतं यद्वैकल्यं तत्परिहृत्य समृद्धं कुर्विति तात्पर्यार्थः।
कल्पः- ‘यस्ते द्रप्सो यो द्रप्स इत्येतैः प्रतिमन्त्रं वैप्रुषहोमाञ्जुहोति’ इति। यस्ते द्रप्स इत्येतद्द्वयोः प्रतीकं ततस्रयो मन्त्रास्तैर्मन्त्रैः पवमानार्थं प्रसर्पणात्पूर्व जुहुयात्। वैप्रुषान्सप्तहोसारं च हुत्वा बहिष्पवमानवन्माध्यंदिनं पवनानं प्रसर्पन्तीति सूत्रकारेमोक्तत्वात्। तत्र प्रथमामृचमाह-
यस्ते द्रप्स इति। हे सोम तत्र संबन्धी यो द्रप्सो रसबिन्दुरथवांऽशुरधिषवण-फलकयोरुपस्थादुपरिभागात्स्कन्दति भूमौ पतत्याथवाऽध्वर्योर्बाहुच्युतः स्कन्दति। अथवा यस्ते रसबिन्दुः पवित्राद्दशापवित्राद्वा भूमौ पतति तं द्रप्सं तं चांशुभिन्द्राय स्वाहाकृतं स्वाहाकारेण समर्पितं कृत्वा जुहोमि।
अथ द्वितीयामृचमाह-
यो द्रप्स इति। परिवापादीनि सवनीयपुरोडाशद्रव्याणि। परिवापो लाजानां समूहः। पुरोडाशः प्रसिद्धः। करम्भः सक्तवः। धाना भृष्टयवतण्डुलाः। सोमः प्रसिद्धः। धानाश्च सोमश्च धानासोमं तस्मात्। मन्यी शुक्रश्च ग्रहौ। हे इन्द्रोकानां परिवापादीनां सकाशाद्यो द्रप्सो भूमौ पतितो यश्चांशुर्भूमौ पतितस्तं द्रप्सं तं चांशुं स्वाहाकारेण समर्पितं कृत्वा तुभ्यमिन्द्राय जुहोमि।
अथ तृतीयामाह-
यस्ते द्रप्स इति. हे सोम यस्ते द्रप्सो मधुमान्माधुर्यवानिन्द्रियवानिन्द्रिय-वृद्धिकारी मया स्वाहाकृतः सन्दिवो वा पृथिव्वा वाऽन्तरिक्षाद्वा परितः पतितस्ततस्त-स्मात्सर्वस्मादागत्य पुनर्देवानप्येति प्राप्नोति तं द्रप्समिन्द्राय स्वाहाकारेण समर्पितं कृत्वा जुहोमि।
यदुक्तं सूत्रकारेण- ‘उदञ्चः प्रह्वा बहिष्पवमानाय पञ्चर्त्विजः समन्वारब्धाः सर्पन्त्यध्वर्युं प्रस्तोताऽन्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहर्तारमुद्गातोद्गातारं ब्रह्मा ब्रह्माणं यजमानः’ इति। पूर्वोऽध्वर्युर्बर्हिर्मुष्टिं धून्वन्तर्पति वागग्रेगा अग्र एत्विति’ इति च, तदेतद्विधत्ते-
अध्वर्युर्वा इति। बहिष्पवमानाय सर्पतामृत्विजां मध्येऽध्वर्युरेव प्रथमो युज्यते पूर्वभावी सन्सर्पणे प्रवर्तते। तस्मात्तेनाध्वर्युणा स्तोमो योक्तव्यः। बहिष्पवमानस्तोत्रं प्रस्तोत्रादिषु योजनीयमित्यभिज्ञा आहुः। तद्योजनाय वागग्रेया इति मन्त्रं पठेत्। अग्रे गन्तुं शक्नोतीत्यग्रेगाः। तादृशी वाग्देवतर्त्विजामग्रे गच्छतु। ऊथंभूता वाक्, ऋजुगा देवेभ्यो देवप्राप्त्यर्थमृजुना मार्गेण गच्छन्ती, मय्यध्वर्यौ यशो दधती कीर्तिं स्थापयन्ती, पशुषु गवादिषु प्राणान्सुस्थिरं दधती, मयि च यजमाने च पुत्रादिरूपां प्रजां दधतीति मन्त्रस्यार्थः। तेन मन्त्रपाठेनाध्वर्युर्यज्ञमुखे बहिष्पवमानारम्भे वाचमेव योजितवान्भवति।
बहिष्पवमानसर्पणस्य कालं विधत्ते वास्तु वा इति।
ऐन्द्रवायवादिकान्ग्रहान्पूर्वभाविनः सर्वान्गृहीत्वा बहिष्पवमानमृत्विजः सर्पन्तीति यदेतेन यज्ञस्य वास्तु क्रियते गृहरूपं स्थानं कृतं भवति। तस्मादुक्तग्रहादूर्ध्वं सर्पे-युरित्यर्थः।
यदुक्त सूत्रकारेज- ‘वैष्णव्यर्चा पुनरेत्य यजमानो राजानमुपतिष्ठते विष्णो त्वं नो अन्तम इति’। तदेतद्विधत्ते-
पराञ्चो हीति। हि यस्मात्परात्र्चः पुनरावृत्तिरहिता ऋत्विजा बहिष्यवमानाय यन्ति सर्पन्ति। यस्माच्च सामगाः पराचीभिः पुनरावृत्तिरहिताभिर्बहिष्पवमानस्तोत्रा-धारभूताभिरुपास्मै गायतेत्यादिभिर्नवभिर्ऋग्मिः स्तुवते, तस्मात्पराक्त्वेन यज्ञविघ्नो मा भूदित्यभिप्रेत्य पुनः सोमसमीपमागत्य यजमानुमुपतिष्ठेत। विष्णोर्व्याप्तत्वेन यज्ञस्वरूपत्वाद्वैष्णवमन्त्रेण यज्ञमेव पुनरपि प्रवर्तितवान्भवति।
तं मन्त्रं पठित्वा तात्पर्यं दर्शयति-
विष्णो त्वमिति। हे विष्णो त्वं नोऽस्माकमन्तमोऽन्तिकतमः प्रत्यासन्न तमः। हे सहन्त्यस्मदपराधं सहिष्णो शर्म सुखमस्मभ्यं यच्छ। ते तव संबन्धिनः सोमरसस्य धारा मधुश्चुतो मधुरं रसं क्षरन्त्य उत्समक्षितमुपक्षयरहितं यथाभवति तथा प्रदुह्रते प्रकर्षेण दुहताम्। एतेन मन्त्रपाठेंन पूर्वेशु पात्रेषु गृहीतस्यास्य सोमस्य यदेव स्वरूपं चिराव-स्थानेनोपशुष्यति मन्त्रेण पशोः श्रोण्यामञ्जनं विहितम्। घृतेनाक्ताविति मन्त्रेण पशोः शिरस्यञ्जनं विहितं, तयोरुभयोर्मध्य ऋत्विजो वृणीत इति वरणस्य विहितत्वाज्जुष्टो वाच इत्यादिकौ प्रवृतहोममन्त्रौ तयोरञ्जनमन्त्रयोर्मध्ये द्रष्टव्यौ। ऋतुग्रहणात्पूर्वं बहि-ष्पवमानस्यानुष्ठेयत्वात्तदङ्गमन्त्राणां यस्ते द्रप्स इत्यादीनां मधुश्च माघवश्चेत्येतस्माद-नुवाकात्प्राचीनं स्थानं द्रष्टव्यम्। अत्र विनियोगसंग्रहः-
जुष्टो द्वे प्रवतो योऽसौ जुहुयात्प्रवृताहुती।
यस्रिभिर्वैप्रुषो होमो वागध्वर्युर्ब्रवीति हि॥
विष्णो सोमं स्पृशेदत्र मन्त्राः सप्त प्रकीर्तिताः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थंप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके दशमोऽनुवाकः॥ १०॥

[अथ तृतीयाष्टके प्रथमप्रपाठक एकादशोऽनुवाकः]।

ये बहिष्पवमानाङ्गमन्त्रास्ते दशमे श्रुताः।
अथैकादशे काश्चित्पुरोनुवाक्या उच्यन्ते।
चित्रया यजेत पशुकाम इत्यत्र सप्तैतानि हवी ँ षि भवन्तीति श्रुतम्। तत्र प्रथमस्य हविष आग्नेयस्य पुरोनुवाक्यामाह-
अग्निनेति। अनेनाग्निना रयिं धनानि अश्नवत्सर्वो जनः प्राप्नोति। न केवलं धनस्य स्वरूपमात्रं किंतु दिवेदिवे तस्य धनस्य पुष्टिमेव प्राप्नोति न तु ह्रासम्। कीदृशं पोषं, यशसं कीर्तिकरं वीरवत्तमं वीरा अस्मदीया पुत्रा अस्येति वीरवत्, अतिशयेन तथाविधम्। तत्रैव याज्यामाह-गोमा ँ अग्न इति।
हेऽग्ने पुनरावर्तनाय प्रार्थ्यमानो यज्ञ एतैर्विशेषणैर्विशिष्टो भूयात्। बहवो गावोऽस्य सन्तीति गोमान्। एवमविमानश्वीति योज्यम्। नृवत्सखर्त्विग्रूपैर्मनुष्यैर्युक्ता। देवाः सखायो यस्य यज्ञस्य तादृशः। सदमित्सदैवाप्रमुष्योऽनभिभवनीयः। इडावानन्न-वान्। प्रजावान्बह्वपत्यप्रदः। दीर्घः पुनः पुनरनुष्ठानादविच्छिन्नः। रीयर्बहुधनोपेतः। पृथुबुध्नो विस्तीर्णमूलो मन्त्रेष्वनुष्ठानेषु च। मूलभूतेषु च वैकल्यरहितः। सभावान-विकलं यज्ञं द्रष्टुं मिलन्त्या विद्वत्सभया युक्तः। असुः पाणः सोऽस्यास्तीत्यसुरो हेऽसर प्राणवन्नग्न एष पुनः पुनः प्रार्थ्यमानो यज्ञ उक्तविशेषणविशिष्टो भूयात्।
द्वितीयहविषः सौम्यस्य याज्यानुवाक्ययोः प्रतीके दर्शयति-
आ प्यायस्वेति। एतच्चोभयं चतुर्थकाण्डे मा नो हिँसीदित्यत्र व्याख्यास्यते। तृतीयहविषस्त्वाष्ट्रस्य पुरोनुवाक्यामाह-
इह त्वष्टारमिति। इहास्मिन्कर्मणि त्वष्टारं देवमुपह्वय आह्वयामि। कीद्दश-मग्रिमं मुख्यं विश्वरूपं विश्वानि गर्भे विकर्तुं योग्यानि यस्यायौ विश्वरूपस्तम्। स च त्व-ष्टाऽस्माकं केवलोऽस्तु असाधारणत्वेन पालकोऽस्तु तत्रैव याज्यासह-
तन्नस्तुरीपमिति। हे त्वष्टर्देव तद्धंन नोऽस्मभ्यं विशेषेण स्यस्व समर्पय। कीदृशं धनं, तुरीपं तूर्णं प्राप्नोतीति तुरीपम्। अधापि च पोषयित्नु पोषयितृ। त्वं च रराणो दानशीलः। यतो यस्माद्धनादस्माभिर्लब्धाद्वीरः शूरः पुत्रो जायते। कीदृशं तच्छुरत्वमिति तदुच्यते कर्मण्यो लौकिके वैदिके च कर्मणि कुशलः। सुदक्षः सम्यमुत्साही शीघ्रकारीत्यर्थः। युक्ताः सोमाभिषवार्थं प्रयुक्ता ग्रावाणो यस्यासौ युक्तग्रावा सर्वदा सोमयागस्यानुष्ठातेत्यर्थः। देवकाम ईदृशः सेवकोऽस्माकं भूयादिति देवैः काम्यमानो देवान्वा सेवितुं स्वयं कामयते।
तत्रैव हविषि विकल्पितां पुरोनुवाक्यामाह-
शिवस्त्वष्टरिति। हे त्वष्टरत्वं शिवः सुखकरः सन्निहास्मिन्कर्मण्यागहि आगच्छ। उतापि च पोषेऽस्मदीये पोषविषये त्मना विभु परनैरपेक्ष्येण स्वयभव समर्थः। तादृशस्त्वं तस्मिंस्तस्मिन्यज्ञे नोऽस्मानुदवोत्कर्षेण पालय।
तत्रैव विकल्पितां याज्यामाह-
पिशङ्गरूप इति। यस्य त्वष्टुः प्रसादादस्माकं वरिः पुत्रो जायते। कीदृशः पिशङ्गरूपः त्रिवर्गस्य सेवितेत्यर्थः। सुभरः सुष्ठु पोषक। वयोधा दीर्धस्य वयसो धारकश्विरंजीवीत्यर्थः। श्रुष्टी क्षिप्रकारी सत्यवादी वा। देवकाम इति पूर्ववत्। यस्य त्वष्टुः प्रसादादद्दिशो वीरो जातस्ताद्दशस्त्वष्टा नामिं चक्रस्य नाभिवत्प्रशस्तां प्रजां पुत्रपौत्रादिरूपामस्मे अस्मासु विष्यतु विशेषेण समर्पयतु। अथानन्तरं देवानामपि पाथोऽन्नमेतु * प्राप्नोतु।

अथ चतुर्थस्य हविषः सरस्वतीदेवताकस्य याज्यापुरोनुवाक्ययोः प्रतीके दर्शयति-
प्र णो देवीति। प्र णो देवी सरस्वतीति पुरोनुवाक्या। आ नो दिवो बृहत इति याज्या। एतच्चोभयमग्नाविष्णू महीत्यत्र व्याख्यातम्-
पञ्चमस्य हविषः सरस्वद्देवताकस्य पुरोनुवाक्यामाह-
पीपिवा ँ समिति। सरस्वतः सरस्वन्नामकस्य देवस्य यः स्तनो विश्वदर्शतो विश्वविषयकदर्शनोपेतः क्षुधितान्बालानिव पालयितुं जानातीत्यर्थः। ताद्दशं स्तनं यज्ञ-लक्षणं पीपिवांसमस्मान्वर्धितवन्तं प्रजां पुत्रादिरूपामिषमन्नं च धुक्षीमहि। यथा गां पयो दुहन्ति तद्वदेतद्देवताकं यागमनुष्ठाये प्रजादिकं प्राप्ताः स्मेत्यर्थः। तत्रैव विकल्पितां पुरोनुवाक्यामाह-
ये ते सरस्व इति। हे सरस्वः सरस्वन्समुद्र त्वदीया य ऊर्मयो मधुमन्ते माधुर्ये-युक्ता घृतश्चुतो घृतसमानमुदकं क्षारयन्तो वर्तन्ते ते त्वदीयानां तेषामूर्मीणां संबन्धि सुम्नं सुखमीमहे प्राप्नुमः। तत्रैव याज्यामाह-
यस्य व्रतमिति। यस्य सरस्वतः संबन्धि व्रतं कर्म पशवो यन्ति द्विपादश्चतुष्पादश्च सर्वे पशवः प्राप्नुवन्ति। एतदीयेन कर्मणा पशवो लभ्यन्त इत्यर्थः। तथा वृष्टिरूपा आपो यस्य व्रतमुपतिष्ठन्ते सेवन्ते। अग्नौ प्रास्ताऽऽहुतिरिति न्यायेन वृष्टेरेतत्कर्मसाध्यत्वात्पुष्टिपतिर्धनपोषकस्य पालको यजमानो यस्य व्रते निविष्टस्तदीयेन व्रतेन धनपुष्टेः सुलभत्वात्ताद्दशं सरस्वन्तं देवमस्माकं रक्षणाय हुवेम ह्वयेम। तत्रैव विकल्पितां याज्यामाह-
दिव्य ँ सुपर्णमिति। अत्र चतुर्थः पादः पूर्ववत्। कीद्दशं सरस्वन्तम्। दिवमर्हतीति दिव्यं, सुषर्णं शोभनाभ्यां पक्षाभ्यामुपेतम्। यदा पक्षिरूपं धृत्वा दिवि गच्छति तदनीमेतौ पक्षौ द्रष्टव्यौ। वयसं पक्षिरूपिणं बृहन्तं महान्तम्। अपां वृषभं जलानां वर्षितारम्। ओषधीनां गर्भं वीह्यादिमञ्जरीरूपम्। अभीपतो वृष्ट्या तर्पयन्तं वृष्टिरूपेणाभितः पतनात्सर्वेषां तृप्तिहेतुं वायुना नीयमानैर्जलबिन्दुभिः पक्षसद्दशैः पक्षिवद्दिवि मेघेषु गत्वा जलबाहुल्यं प्राप्य स्वयममेवापां वर्षितां व्रीह्यादिरूपेण गर्भो भवति। पुनश्च वृष्टिरूपेण सर्वतः पतन्सर्वं जगत्तर्पयतीत्यर्थः। ताद्दशं सरस्वन्तमाह्वयामेत्यर्थः।
अथ षष्ठस्य हविषः सिनीवालीदेवताकस्य पुरोनुवाक्यामाह-
सिनीवालीति। अमावस्या सिनीवालीति श्रुतत्वादमावास्यातिथ्यभिमानिनी देवता सिनीवाली। हे सिनीवालि या त्वं देवानां स्वसाऽसि भगिनीवद्धितकारिण्यसि दर्शेष्टिसाधनत्वात्। स्तुकं स्तोत्रं, पृथु स्युकं स्तोत्रं यस्याः सा पृथुष्टुका। तस्याः संबोधनं हे पृथुष्टुके। अनेन सिनीवाली विशेष्यते। ताद्दशी त्वमाहुतमस्माभिः समन्तात्समर्पितं हविर्जुषस्व। हे देवि नोऽस्मभ्यं प्रजां दिदिड्ढि उपचिनु प्रभूटां कुर्वित्यर्थः। तत्रैव याज्यामाह-
या सुपाणिरिति। शोभनौ पाणी यस्याः सा सुपाणिः। शोभना अङ्गुलयो यस्याः सा स्वङ्गुरिःष सुषूगा सुष्ठु प्रसवित्री। बहुसूवरी बहूनां यज्ञानां सवित्री। ईद्दशी या सिनीवाली तस्यै विश्पत्नियै विशां पालयित्र्यै सिनीवाल्यै हविर्जुहोतन हे ऋत्विग्य-जमाना जुहुत।
ऐन्द्र उत्तमो भवतीति यदिदं सप्तमं दविः श्रुतं तत्र याज्यानुवाक्ययोः प्रतीके दर्शयति-
इन्द्रमिति। एतच्चोभयं प्रथमकाण्डस्य षष्ठप्रपाठके व्याख्यातम्।
इत्थं चित्रायागे याज्यानुवाक्या उक्ताः। अथ कारीरीघ्ट्युपयुक्ता मन्त्रा उच्यन्ते।
कल्पः – ‘अथाऽऽसां धूममनुमन्त्रयतेऽसितवर्णा हरयः सुपर्णा इति’ इति आसां करीरसक्तुपिण्डीनामग्नौ हुतानामित्यर्थः। पाठस्तु-
असितवर्णा इति। अग्नि दह्यमानास्यः करीरसक्तुपिण्डीभ्यो ये निर्गता धूमास्ते दिवमुत्पतन्ति। कीद्दशा धूमाः। असितवर्णा कृष्णवर्णा हरयो मेघनिष्पादनाय रसहरणशीलाः सुपर्णाः प्रसारितपक्षसद्दशा मेहनान्मिहो मेघास्तद्रूपा भूत्वा वसानाः सूर्यमण्डलादिकमाच्छादयन्तस्ते धूमनिष्पाद्याः स्वोदरेषु जलस्य च सदनानि स्थानानि कृत्वाऽऽववृत्रन्निह कर्षितुमावृत्ताः। आदिदनन्तरमेव पृथिवी घृतैर्घृतवत्क्षरद्भिरुदकैर्व्यूद्यते विशेषेण क्लिद्यते।
कल्पः- ‘अथैनमाहवनायेऽप्रहृत्याथास्य धूममनुमन्त्रयते हिरण्यकेशो रजसो विसार इति ’ इति। एनं पुनर्नवायाः स्तम्बम्। पाठस्तु-
हिरण्यकेश इति। हिरण्यवर्णा अग्निकेशस्थानीया ज्वाला येन धूमेन सहोत्पद्यन्ते सोऽयं पुनर्नवाजन्यो धूमो हिरण्यकेशः। रजसो मेघरूपस्य रञ्जनस्य विसारे प्रसारेण निमित्तभूते सति अहति गच्छतीत्यहिर्मेघरूपमाकाशस्य रञ्जनं प्रसारयितुं गच्छतीत्यर्थः। वात इव धुनिर्ध्रजीमान्। यथा वायुः कम्पमानः शीघ्रगतियुक्तस्तद्वदयमित्यर्थः। मेघात्मा शुचिभ्राजा निर्मलदीप्तिर्मेघरूपेण परिणतोऽपि घूमो विद्युद्रुपया दीप्या युक्त इत्यर्थः। सोऽयमीद्दशो धूमोऽस्मदर्थं वृष्टिमुत्पादयत्विति शेषः। उषसः प्रभातकालस्य नवेदा मेघैः प्रकाशस्याऽऽबृतत्त्वे न विद्यते न ज्ञायतेऽनेनेति नवेदाः। सूर्योदयो यथा न ज्ञायते तथा मेधसमृद्धिरस्त्वित्यर्थः। यास्तु सस्यनिष्पादिका भूमयस्ताः सस्यनिष्पादनेन यशस्वतीः कीर्तिमत्यो भवन्तु। अपस्युवो न, अप उदकान्यात्मन इच्छन्तीत्यपस्युवः। तथाविधा इव वर्तन्ते। ताश्च भूमयः सत्या अमोघारम्भाः सुक्षेत्रा इत्यर्थः। एतासामनुग्रहाय पुनर्नवाधूमो वृष्टिं जनयत्विति शेषः।
अस्मिन्नेव धूमाभिमन्त्रणे तिस्र ऋचो विकल्पन्ते। तत्र प्रथमा-
आ ते सुपर्णा इति। हे पुनर्नवे ते तव संबन्धिनो धूमाः सुपर्णाः पक्षिवदुत्पतन-शीला एवैरामिनन्त पुनर्गमनैः समन्तादुद्वकं प्रक्षिप्तवन्तः। ततो मेघः कृष्णो नीलवर्णो वृषभो वर्षिता भूवा नोनाप पुनः पुनर्गंर्जनमकरोत्। यदि यदा यस्मिकाल इदं सर्वं प्रवर्तते तदा शिवाभिर्न सानुग्रहाभिरिव स्मयमानाभिर्हसन्तीभिरिव वृष्टिभिर्युक्तो मिहो मेघ आगादागच्छति। तत ऊर्ध्वं पतन्ति वृष्टिधारा इति शेषः। अम्रा स्तनयन्ति अस्राणि च गर्जन्ति। ईद्दशमहिमोपेतः पुनर्नवाधूम इत्यर्थः। अथ द्वितीया-
वाश्रेवेति। उपरितनमन्त्रे मरुत इति पदं प्रयुज्यते, त एव मरुतोऽत्रेदं शब्देन परामृश्यन्ते। एषां मरुतां संबन्धिनी वृष्टिर्यदसर्जि यदा सृष्टा भवति तदा गर्जनसहिता विद्युन्मरुतः प्रति वाश्रेव वाश्यमानेव शब्दं कुर्वतीव मिमाति मीय़ते प्रतिभातीत्यर्थः। सिषक्ति सज्यते मरुद्भिः संबध्यत इत्यर्थः। तत्र द्दष्टान्तः- वत्सं न मातेति। माता वत्स-मिव यथा प्रस्रवन्ती गौर्वत्सं प्रति हम्भारवं कुर्वांणा मनुष्यैरवलोक्यते तेन वत्सेन संबध्यते तद्वदियं विद्युदित्यर्थः।
अथ तृतीया-
पर्वतश्चिदिति। हे मरुत ऋषिमन्तो वज्रायुधवन्तो यूयं यदा क्रीडां कुरुथ तदानीं वः स्वने युष्माकं गर्जने सति पर्वतश्चिद्विभाय पर्वतोऽपि विभेति। कीद्दशः पर्वतः। महि वृद्धस्तिर्यक्प्रमाणेनात्यन्तं महानूर्ध्वप्रमाणेन वृद्धः। किंच दिवश्चित्, उन्नतत्वेन दिवोऽ–प्युपरि वर्तमानः। सानु रेजत भवतां गर्जते सति प्रौढोऽपि पर्वतसानुः कम्पते। किंच यू-यमाप इव सध्रियञ्चो धवध्वे व्यापका इव सन्तः क्रीडन्तश्च धावध्वम्। ईद्दशैर्मरुद्भिर्यु-क्तोऽयं पुनर्नवाधूमो वृष्टिमुत्पादयत्विति मन्त्रयोस्तात्पर्यार्थः।
कल्पः-’ कृष्णोऽश्वः पुरस्तात्प्रत्यङ्मुखोऽवस्थितो भवति तमेतेन वाससाऽ–भिपिनष्ट्यभिक्रन्दति’ इति।
यथाऽयमश्व उपद्रवं सोढुमसहमानः क्रन्दति तथा कृष्णवस्रेण तस्य शरीरं घर्षयेत्। पाठस्तु-
अभि क्रन्देति। हेऽश्वाभिक्रन्द सर्वतः शब्दं कुरु। स्तनय मेघगर्जितमिवोच्चध्वनिं कुरु गर्भमाधा मेघस्योदरे जलरूपं गर्भमाधेहि। किंच, उदन्वतोदकवता रथेन रथ-सद्दशेन मेघेन सह परिदीय सर्वतो गच्छ। विषितं विमुक्तद्वारं न्यञ्चमवाक्कृतं दृतिं चर्ममयजलाधारसद्दशं मेघं सुकर्ष सुखेनाऽऽकृष्टं कुरु। न्यग्भावेन पद्यन्त इति निपादा निम्नदेशास्ते चोदकपूर्णाः सन्त उद्वतोन्नतेन स्थलेन समा भवन्तु।
अथाग्नये धामच्छदे पुरोडाशभष्टाकपालँ निर्वपेन्गारुत ँ सप्तकपाल ँ सौर्यमेककपालमित्येतेषां हविषां क्रमेण याज्यानुवाक्या उच्यन्ते। तथा च बौधायनः-
‘तस्या एते भवन्ति त्वं त्या चिदच्युताग्ने भूरीणि तव जातवेदो दिवो ना वुष्टिं मरुतो ररीध्वं पिन्वन्त्यपो मरुतः सुदानव उदु त्यं चित्रमिति ’ इति।
तत्राऽऽद्यस्य हविषः पुरोनुवाक्यामाह-
त्वं त्या चिदिति। हेऽजर विनाशरहिताग्ने यद्वनानि यान्युदकानि ते धामा ह त्वदीयं स्थानं शिक्वसोऽर्चींषि च वृश्चन्ति विनाशयन्त्येव। त्वं तु त्याचित्ताम्यप्यु-दकान्यच्युतानि विनाशरहितानि कुर्विति शेषः। तत्र दृष्टान्तः पशुर्न यवसे तृणे भक्षिते सति पशुरिव। यथा गविदिकः पशुस्तृणं भक्षयित्वा क्षीरमच्युतं करोति तद्वदित्यर्थः। तत्रैव याज्यामाह-
अग्ने भूरीणीति। हेऽग्नेऽमृतस्य मरणहितस्य तव धाम भूरीणि स्थानानि बहूनि जातवेदो देव स्वधाव इति त्रीणि संबुद्धयन्तान्यग्निविशेषणानि। जातं जगद्वेत्तीति जातवेदाः। द्योतनशीलो देवः। स्वधाशब्दोऽन्नवाची तदस्यास्तीति स्वधावान्। किंच, मायिनां लोके मायायुक्तानामैन्द्रजालिकाशयानां या मायाः सन्ति ताः संदधुस्त्वे त्वयि सम्यक्स्थापितवन्तः पूर्वीरिति मायाविशेषणम्। पुरातन्योऽनादिसंप्रदायपरम्परागता इत्यर्थः। विश्वमिन्व पृष्टबन्धो, इति द्वयं संबुद्ध्यन्तमग्निविशेषणम्। विश्वमिन्वति प्रीणयतीति बिश्वमिन्वः। पृष्टश्चासौ बन्धुश्चेति पृष्टबन्धुः। तत्र महिमा कीद्दश इति जिज्ञासया यः पृच्छति तस्य बन्धु रिव स्नेहं कोरतीत्यर्थः। नवसस्यहेतूनामुपायानां त्वयि विद्यमानत्वादैन्द्रजालिकवदकस्मादेव प्रौढां वृष्टिं संपादयेति तात्पर्यार्थः।
द्वितीयस्य हविषः पुरोनुवाक्यमाह-
दिवो नो वृष्टिमिति। हे मरुतो नाऽस्मदर्थं दिवः सकाशाद्वृष्टिं ररीध्वं स्रावयत। ततश्चाश्वस्याश्नुवानस्य व्याप्तिमतो वृष्णो वर्षयितुरिन्द्रस्य संबन्धिनी र्धाराः प्रपिन्वतोदकधाराः सिञ्चत। हे वृषंस्त (स्त्व) मेनेन स्तनयित्नुना गर्ज नवता मेघेन सहार्वाङेहि अम्बरादभिमुखमागच्छ। किं कुर्वन्। अपो नितरसिञ्चन्। कीद्दशस्त्वम्। असून्प्राणान्राति ददातीत्यसुरः। नोऽस्माकं पिता पालकः। तत्रैव याज्यामाह्-

पिन्वन्त्यप इति। सुदानवः सुष्ठु जलदानपरा मरुतोऽपः पिन्वन्ति सिञ्चन्ति। तत्र द्दष्टान्तः- पयो वृतवद्विदथेष्वाभुव इति। पयोवदिति वतिप्रत्ययोऽध्याहर्तवंयः। आभवन्ति यज्ञभूमीरागच्छन्तीत्याभुव ऋत्विग्यजमानास्ते यथा विदथेषु यज्ञेषु पयो घृतं च सिञ्चन्ति तद्वत्। अत्यशब्दोऽश्ववाची। तथा चाश्वमेधकाण्डे मन्त्र आम्नायते- ‘अश्वोऽसि हृयोस्यत्योऽसि नरोऽसि’ इति। निर्वचनं तद्ब्राह्मणे पठ्यते-अत्योऽसीत्याह। तस्मादश्वः सर्वान्पशूनत्येति’ इति। वाजिशब्दो वेगवन्तं मेघमाचेष्ट। अत्यं नाश्वमिव मिहे सेचनार्थं वाजिनं विनयन्ति, यथाऽश्वशिक्षका अश्वं शिक्षयन्ति एवं मरुतो वर्षार्थं मेघं विधेयी कुर्वन्तीत्यर्थः। विधेयीकृत्य चाक्षितमुपक्षयरहितं स्तनयन्तं गर्जन्तं मेघमुत्सं दुहन्ति निरन्तरजलप्रस्रवणं यथा भवति तथा वर्षयन्ति।

तत्रैव विकल्पितामन्यां पुरोनुवाक्यामाह-
उदप्रूत इति। उदप्रुत उदकदातॄंस्तान्मरुत इयर्त प्राप्नुत प्रार्थयत हे ऋत्विग्य-जमानाः। तान्कान्। ये विश्वेऽपि मरुतो वृष्टिं जुनन्ति प्रयच्छन्ति। प्रार्थनायां द्दष्टान्तः- गर्दा बुभुक्षिता कन्या तुन्ना पीडिता सती यथा क्रोशात्याक्रोशति। यथा मातापितरौ प्रत्याक्रोशति रोदिति तथैते यजमानादयो वृष्टिं वचसा प्रार्थयन्त इत्यर्थः। मरुतामनुग्रहे दृष्टान्तः-पेरुं तुञ्जाना पत्येव जायेति। पेरुं पानादिकामां कन्यां तुञ्जानाऽऽभाषमाणा माऽभिरोदीः किं तेऽभिलषितमिति वदन्ती पत्या सह जायेव। यथा मातापितरौ कन्या-मनुगृह्णीतस्तथा मरुत ऋत्विग्यजमानाननुगृह्णन्तीत्यर्थः।
तत्रैव विकल्पितामन्यां याज्यामाह-
घृतेनेति। हे मरुतो घृतेन घृतसद्दशेन मधुना मधुरेण जलेन द्यात्रापृथिवी लोकद्वयं समुक्षत, या आपो भूमावुक्षितास्ताभिरोषधीः पयस्वतीः सारवतीः कृणुत कुरुत। हे नरो जलस्य नेतारो मरुतो यत्र देशे मधु मधुरमुदकं सिञ्चथ तत्र देश ऊर्जं सोरोपेतमन्नं सुमतिं शोभनबुद्धियुक्तां प्रजां च पिन्वथ सिञ्चथ संपादयतेत्यर्थः।
अथ तृतीयस्य हविषो याज्यानुवाक्ययोः प्रतीके दर्शयति–

उदु त्यमिति। उदप स्यं जातवेदसमिति पुरोनुवाक्या। चित्रं देवानामिति याज्या। एतच्चोभयं प्रथमकाण्डस्य चतुर्थप्रपाठके व्याख्यातम्।

कल्पः पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोत्यौर्वभृगुवच्छुचिमप्नवानवदाहुव इति तिस्रः इति। तत्र प्रथमामाह–

और्वभृगुवदिति। और्वादय ऋषयस्तद्वच्छुचिं समुद्रे वसन्तमग्निमुद्दिश्य जुहोमीत्यर्थः। द्वितीयामाह–

आ सवभिति। सवितुः प्रसवमिव भगस्य भोगमिव। अग्निमित्यादि पूर्ववत्। तृतीयामाह–
हुवे वातस्वनमिति। वातवत्स्वनो ज्वालाध्वनिर्यस्य तं वातस्वनम्। कविं विद्वांसम्। सर्वैर्मनुष्यैः। पर्जन्यवत्क्रन्दनीयमपेक्षणीयम्। सहो बलवन्तं समुद्रवास-समग्निमुद्दिश्य हुवे जुहोमि। अत्र विनियोगसंग्रहः–
याज्यानुवाक्ये चित्रायां क्रमात्सप्तेष्टिषु स्थिते।
अग्न्याग्नेयेऽथ सौम्ये स्यादा प्या सं त इति द्वयम्॥
इह त्वाष्ट्रे चतस्रः स्युः प्र ण आ न इति द्वयम्।
सरस्वत्याः स्रियः (याः) पीपि चतस्रः पंसरस्वतः॥
सिनीवा द्वे सिनीवाल्या इन्द्रमिन्द्रं तथैन्द्रके।
कारीर्यामसितेत्युक्तं पिण्डीधूमस्य मन्त्रणम्॥
विकल्पाद्धिरचत्वारो वर्षाह्वा घूममन्त्रणे।
अभ्यश्वं कृष्णवस्रेण षिनष्टि क्रन्दनाय हि॥
त्वं धामच्छदि याज्याः स्युर्दिवो मारुतयागेक।
वैकल्पिकं तत्र युग्यमुदु चित्रं च सौयंके।
और्वत्रयाच्चोपहोमाः पञ्चत्रिंशदिहोदिताः॥

१५३९

प्रपा० १ अनु० ११] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
[कासांचित्पुरोनुवाक्यानामभिधानम् ]
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णय-जुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके
एकादशोऽनुवाकः॥ ११॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थोंश्र्वतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्यतृतीयकाण्डे प्रथमः प्रपाठकः॥ १॥