(अथ द्वितीयकाण्डे षष्ठप्रपाठके प्रथमोऽनुवाकः)। (प्रयाजविधिः)
यस्य निःश्वसितं वेदा वेदेभ्योखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
हौत्रमाध्वर्यवं चाघारान्तं पञ्चम ईरितम् । प्रयाजाद्यवशिष्टं तु वक्ति षष्ठे प्रपाठके ॥
तत्र प्रथमानुवाके प्रयाजा विधातव्याः । तेषां मन्त्रास्तु मन्त्रकाण्डे पञ्चमानुवाक एवमाम्नाताः - समिधो अग्न आज्यस्य वियन्तु । तनूनपादग्न आज्यस्य वेतु । इडो अग्न आज्यस्य वियन्तु । बर्हिरग्न आज्यस्य वेतु । स्वाहाऽग्निम् । स्वाहा सोमम् । स्वाहाऽग्निम् । स्वाहा प्रजापतिम् । स्वाहाऽग्नीषोमौ । स्वाहेन्द्राग्नी । स्वाहेन्द्रम् । स्वाहा महेन्द्रम् । स्वाहा देवाँ आज्यपान् । स्वाहाऽग्निँ होत्राज्जुषाणाः । अग्न आज्यस्य वियन्तु । (तै.ब्रा. ३.५.५) इति । एषां मन्त्राणां विनियोगं बौधायनो दर्शयति ‘समिधो अग्न आज्यस्य वियन्त्विति प्रथमं तनूनपादग्न आज्यस्य वेत्विति द्वितीयम्’ इत्यादि । हेऽग्ने समिध्यमानास्तव मूर्तय आज्यस्य वियन्तु हूयमानमिदमाज्यमश्नन्तु । तनूं शरीरं न पातयति न नाशयति किंतु पालयतीति तनूनपात् । हेऽग्ने द्वितीया तनूनपात्तव मूर्तिराज्यं पिबतु । हेऽग्न इड ईड्याः स्तुत्यास्तव मूर्तय आज्यं पिबन्तु । बृंहणाद्बर्हिः । हेऽग्ने फलं बृहयन्ती तव मूर्तिराज्यं पिबतु । अग्निं प्रथमाज्यभागदेवं प्रति स्वाहा हुतं भविष्यति । एवं द्वितीयाज्यभागदेवं प्रति स्वाहा हुतमस्त्विति भविष्यतीति क्रमेण द्रष्टव्यम् । आवाहननिगदे या देवताः क्रमेण निर्दिष्टास्ता एवास्मिन्स्वाहाकारनिगदेऽपि निर्दिश्यन्त इत्यवधेयम् । होत्रात्, होमनिमित्तं स्विष्टकरणार्थमित्यर्थः । हेऽग्न एते सर्वे देवाः प्रीयमाणा इदानीं त्वन्मुखेनाज्यं पिबन्तु । तैरेतैर्मन्त्रकाण्डोक्तैर्मन्त्रैः साध्यान्प्रयाजान्विधत्ते – समिध इति । अत्र समिदादिशब्दैर्यागविशेषनामान्युच्यन्ते । ऋतवो वै प्रयाजा इत्येवमृतृत्वेन स्तूयमानत्वात्तैः प्रयाजैः क्रमेण वसन्ताद्यवरोध उच्यते । यस्मात्स्वाहाकारयागेन (ण) हेमन्तावरोधस्तस्माद्धेमन् हेमन्ते पशवोऽवसीदन्ति, द्विपादश्चतुष्पादश्च हिमेन पीड्यन्ते, तेन तत्र दृष्टान्तः स्वाहाकृता इति । स्वाहाकारेण प्रक्षिप्ताः समिधो यथा दाहेन पीड्यन्ते तद्वदित्यर्थः । तादृश उग्रोऽपि हेमन्तोऽस्याधीनो भवतीति यागस्तुतिः । पुनरपि विधानान्तरेण प्रशंसति समिधो यजतीति । समिच्छब्देन समित्स्तुतिसूचनादुषसोऽवरोधः । तनूनपाच्छब्देनाविनाशसूचनात्कृत्स्नयज्ञावरोधः । इट्शब्देनेष्यमाणक्षीरादिसूचनात्पश्ववरोधः । प्रजा वै बर्हिरिति श्रुत्यन्तराद्बर्हिर्यागेन(ण) प्रजावरोधः ।
चतुर्थप्रयाजार्थमौपभृतस्याज्यस्य जुह्वामानयनं विधत्ते समानयत इति । उपभृतः सकाशाज्जुह्वामर्धमाज्यं सम्यगानयेत् । बर्हिर्यागस्य प्रजारूपत्वादाज्यस्य तेजस्त्वात्प्रजासु तेजः स्थापितं भवति । पञ्चमप्रयाजमवशिष्टं प्रशंसति — स्वाहाकारमिति । अस्मिन्प्रयाजे स्वाहाशब्दानामग्न्यादिशब्दानां च बहूनामुच्यमानत्वात्तेन वागवरोधः । पूर्वोक्तवसन्ताद्यवरोधाः पञ्चेदानीमुक्ता उषःकालाद्यवरोधाः पञ्चेति दशसंख्याद्वारा यागान्प्रशंसति । दश समिति । पुनरपि तत्तल्लोकप्रतिष्ठामुखेन प्रशंसति समिधो यजतीति । समिद्यागस्य प्राथम्यात्तेनास्मिन्प्रथमलोके प्रतिष्ठा । प्रच्युतो वा एषोऽस्माल्लोकादगतो देवलोकमित्युक्तत्वाद्दीक्षादिरूपो यज्ञो लोकद्वयवर्त्यन्तरिक्षरूपस्तस्मिन्नन्तरिक्षे द्वितीयत्वसाम्यात्तनूनपाद्यागेन प्रतिष्ठा । इड्यागस्य पशुसंबन्धः पूर्वमेवोक्तः । बर्हिःशब्देन देवयानमार्गसाधनस्य यज्ञस्य सूचनात्तद्यागेन त्रिष्वपि पूर्वोक्तेषु देवयानमार्गेषु प्रतिष्ठा । स्वाहाकारयागस्योत्तमत्वात्तेन स्वर्गप्रतिष्ठा । भूलोकमारभ्य स्वर्गान्ता यथोक्ता एतावन्त एव देवानां पूज्यानामपेक्षिता लोकास्तेषु सर्वेषु यथाक्रममेवेतैः प्रतिष्ठितो भवति ।
इदानीं नामनिर्वचनेन प्रशंसति देवासुरा इति । अस्माकमेवैते लोका भवेयुरित्युभयेषां परस्परं स्पर्धा । प्राणुदन्त विरोधिना यैर्यागैस्ते यागाः प्रयाजाः । यदुक्तं सूत्रकारेण — “यं कामयेताभितरं वसीयान्स्यादित्यभिक्रामं तस्य जुहुयात्” इति अभितरमुत्तरोतरवृद्ध्येत्यर्थः । तदेतत्सूत्रोक्तमभिक्रामं विधत्ते अभिक्राममिति । अभिक्रम्याभिक्रम्यादूरे स्थित्वा प्रथमं हुत्वा पादं पुरतः प्रक्षिप्य द्वितीयं जुहुयात् । तदेतदभिक्रमणम् । स्त्रीलिङ्गबहुवचननिर्देशं लिङ्गान्तरैकवचननिर्देशं च सह प्रशंसति यो वै प्रयाजानामिति । एकस्य पुरुषस्य बह्व्यः स्त्रियो लोके भवन्ति, तत्साम्यादत्र मिथुनत्वोपचारः । मूर्तिबहुत्वेपि देवतैक्याद्वह्वीरिवेत्युपक्रमोक्तिः । कवचरूपत्वं सैन्यसादृश्यं च संपाद्य प्रशंसति देवानां वा इति । पुरा देवा यदा यज्ञं कुर्वन्ति तदानीमाज्यभागादिदेवता अनिष्टा आसन् । तत्तदिज्यायाः प्रागेव तस्मिन्नवसरे समागत्यासुरा यज्ञं हनिष्याम इत्यैच्छन् । अतस्तदिज्यात्प्रतिबद्धास्तत्प्रतीकारत्वेन देवा अष्टाक्षरे गायत्रीपादे व्यूहद्वयं कृतवन्तः । तत्राक्षरपञ्चकस्य व्यूहो यज्ञानुष्ठानात्प्राचीनो रक्षकः । अक्षरत्रयव्यूहः प्रतीचीनो रक्षकः । ततो व्यूहद्वयं यज्ञस्य कवचमाच्छादनायाभवत् । तथा यजमानस्यापि । अतः पञ्चाक्षररूपत्वेन पञ्च प्रयाजाः पूर्वमिज्यन्ते । त्र्यक्षररूपत्वेन त्रयोऽनूयाजाः पश्चादिज्यन्ते । तदुभयं कवचं यज्ञयजमानयोरुभयतो रक्षणम् । तेन रक्षणेन भ्रातृव्यस्याभिभूतिर्भवति । यस्मादत्र प्राचीनान्यक्षराणि बहूनि प्रतीचीनान्यल्पानि तस्माल्लोकेऽपि युद्धार्थं गच्छन्त्यां सेनायां पुरस्ताद्वरूथं जनसंघः परकीयसैन्यस्य भयोत्पादनाय भूयान्विनिष्पाद्यते । पृष्ठभागे त्वल्पीयान् प्रयाजशेषेण हविरभिधारणं विधत्ते - देवा वै पुरेति । देवाः कदाचिद्यागं कुर्वन्तो यज्ञोपघातिनां रक्षसामागमनात्पुरा स्वाहाकारनामधेयेन पञ्चमप्रयाजेन यज्ञः समापनीय इति विचार्य तथैव समापयन् । तदयुक्तं, यज्ञविच्छेदप्रसङ्गात् । अतः प्रयाजानिष्ट्वा तच्छेषेणाज्येन वेदमासादितानां हविषामभिघारणे सति यज्ञः संततो भवति । अथो पुरोडाशादिद्रव्यस्य हविष्ट्वं कृतं भवति । किंच, यथापूर्वमुत्तरमुपैति प्रयाजा यथा निर्विघ्नेनानुष्ठितास्तथैवाज्यभागाद्यनुष्ठानमपि निर्विघ्नेन प्राप्नोतीत्यर्थः । प्रकारान्तरेणाभिघारणं प्रशंसति - “पिता वै प्रयाजा इति । प्रथमभावित्वात्प्रयाजानां पितृत्वं, पश्चाद्भावित्वादनूयाजानां पुत्रत्वम् । अनुयाजार्थं च हविरुपभृति गृहीतमस्ति । पुरोडाशादिहविरभिघारणवेलायामौपभृतमपि हविः प्रयाजशेषेणाभिघारयति । तथा सति पितृस्थानीयं प्रयाजानां संबन्धि यदवशिष्टमाज्यद्रव्यं तत्पुत्रस्थानीयानामनूयाजानामपि साधारणं कृतं भवति । इममेवार्थं लौकिकोदाहरणेन विस्पष्टयति तस्मादाहुरिति । लोके हि बालेन पुत्रेण यदुपार्जितं तद्द्रव्यं स पुत्र उत्तरकाले स्वजीवनार्थमसाधारणत्वेन संगृह्य गुप्तं करोति न तु पित्रे प्रयच्छति न तु भ्रातृभ्यः । पित्रा तु यदुपार्ज्यते तत्पितुर्बालपुत्रस्य तद्भ्रातॄणां च साधारणं भवति । तेन हि द्रव्येण सर्वेऽपि जीवन्ति । तथा सति लौकिकः कश्चित्पुरुषो वेदमधीत्य प्रयाजानूयाजवृत्तान्तं जानाति । अन्यस्त्वध्ययनरहितो न जानाति । तादृशानामुभयविधानां सभायामुपविष्टा अनभिज्ञाः पप्रच्छुः - केन हेतुना पुत्रस्य द्रव्यं केवलमसाधारणं संपन्नम् । पितृद्रव्यं तु केन हेतुना साधारणं संपन्नमिति । तस्य न प्रश्नस्याभिज्ञाः प्रयाजानूयाजवृत्तान्तेनोत्तरं ददुरिति शेषः । प्रयाजानामाज्यं साधारणं, तच्छेषेणेज्यमानत्वात् । अनूयाजानां त्वसाधारणम् । तच्छेषस्यान्यत्र विनियोगाभावात् । एवं लौकिकयोः पितृ (ता) पुत्रयोरपि द्रष्टव्यम् । पुनः प्रकारान्तरेणाभिघारणं प्रशंसति अस्कन्नमेवेति । यागार्थस्य द्रव्यस्य यागात्प्रागेवान्यत्र पतनं विनाशो भवति । अत्र त्विष्टेषु प्रयाजेषु पश्चादन्येषु हविःषु शेषः प्रक्षिप्यते । तस्मादेतदस्कन्नमविनष्टमेव । शङ्कितस्कन्दनदोषस्य परिहार एवात्र प्रशंसेति । पुनरपि प्रकारान्तेण प्रशंसति गायत्र्येति । एकतो गायत्र्याः पञ्चाक्षररूपाः प्रयाजा अन्यतो गायत्र्यास्त्र्यक्षररूपा अनूयाजाः । मध्ये यदभिघारणं तेन गायत्र्येव स्वोदरे गर्भं घृतवतो भवति । तेन च सा गायत्री यजमानार्थ प्रजां पशूनुत्पादयति ।
अत्र मीमांसा ।
द्वितीयाध्यायस्य द्वितीयपादे चिन्तितम् । “समिधो यजतीत्यादावेकत्वमुत भिन्नता । धातुप्रत्यययोरैक्यादेकत्वे भिन्नता कुतः ॥ अभ्यासात्कर्मभेदोऽत्र नामत्वान्न विधिर्गुणे । विधित्वं श्रुतितो भाति संनिधेरनुवादता” ॥
“दर्शपूर्णमासयोः श्रूयते – ‘समिधो यजति’ ‘तनूनपातं यजति’ ‘इडो यजति’ ‘बर्हिर्यजति’ ‘स्वाहाकारं यजति’ इति । तत्र पञ्चकृत्वः श्रूयमाणे यजतिपदे पूर्वोक्तेषु यजति ददातीत्यादिपदेष्विव धातुभेदो नास्ति । येन भावनाभेद आशङ्क्येत । तस्मादाख्यातैक्यप्रयुक्तं भावनैक्यमनिवार्यमिति चेन्मैवम् । यजतिपदाभ्यासेन कर्मभेदावगमात् । कर्मैकत्वेऽभ्यासो निरर्थकः स्यात् । अथोच्येत – समिधो यजतीत्यनेन प्रथमश्रुतेन वाक्येन विहितं समिन्नामकं यागमुपरितनैश्चतुर्भिर्यजतिपदैरनूद्य तनूनपादादयो देवतारूपा द्रव्यरूपा वा गुणाश्चत्वारो विकल्पिता विधीयन्ते । ततोऽनुवादार्थत्वान्नाभ्यासवैयर्थ्यमिति । तन्न । तनूनपादादिशब्दानां यागनामत्वेन गुणविधित्वाभावात् । न तावदत्र देवताविधिः । चतुर्थीतद्धितयोरश्रवणात् । नापि द्रव्यविधिः । तृतीयान्तत्वाभावात् । ततोऽग्निहोत्रं जुहोतीत्यादाविव द्वितीयान्तानां युक्तं नामत्वम् । यत्तु चतुर्णामुपरितनानां यजतिपदानामनुवादत्वमिति, तदसत् । तेषां विधायकत्वात् । यथा समिधो यजतीत्यत्र यजतिपदे विधित्वं श्रुत्या प्रतीयते तथान्येष्वपि चर्तुर्षु पदेषु विधित्वं श्रौतम् । अनुवादत्वं तु पुरोवादरूपस्य समिधो यजतीत्यस्य संनिधानादवगम्यते । संनिधिश्च श्रुतेर्दुर्बलः । विधित्वे च पूर्ववाक्यविहितस्य समिन्नामकस्य यागस्य पुनर्विधानायोगात्तनूनपादादिनामकानि यागान्तराणि विधीयन्ते । नन्वेवं सति संज्ञाभेदात्कर्मभेदः संपद्यते, न त्यभ्यासात् । तथा सति वक्ष्यमाणाधिकरणेन संकीर्येत । मैवम् । वैषम्यात् । अथैष ज्योतिरित्यस्मिन्वक्ष्यमाणोदाहरणे यागावगमात्प्रागेव संज्ञात्बावगमात्संज्ञायाः कर्मभेदहेतुत्वम् । इह तु विधायकैर्यजतिपदैर्यागेष्ववगतेषु भेदे चाभ्यासादवगते भिन्नानां यागानां समित्संज्ञाया अन्याः संज्ञा अपेक्षिता इति तनूनपादादीनां संज्ञात्वं पश्चादवगम्यते । तस्मादभ्यास एवात्र यागभेदहेतुः ॥ नवमाध्यायस्य द्वितीयपादे चिन्तितम् - "
“देवता यजयो वा स्युः प्रयाजे समिदादयः । विष्ण्वादिवद्देवतात्वं न चतुर्थ्याद्यभावतः” ॥ दर्शपूर्णमासयोः प्रयाजपञ्चकमाख्यातं समिधो यजतीत्यादिना । तत्र यथा विष्णुं यजति वरुणं यजतीत्यादौ द्वितीयानिर्दिष्टा विष्ण्वादयो देवतास्तथा समिदादीनां देवतात्वम् । ततो यागैर्देवताः संस्क्रियन्त इति दृष्टार्थत्वलाभ इति चेन्मैवम् । सर्वत्र चतुर्थ्या तद्धितेन वा देवता निर्दिश्यते । तद्यथा - ‘यदग्नये सायं जुहुयात्’ ‘आग्नेयोऽष्टाकपालः’ इति । न चात्र समिदादिषु चतुर्थीतद्धितौ विद्येते तादर्थ्यप्रतीतौ देवता भवति । न च द्वितीयया तादर्थ्यं प्रतीयते । किंत्वीप्सिततमत्वम् । तच्च कर्मनामत्वादुपपद्यते । अग्निहोत्रं जुहोतीत्यादौ तद्दर्शनात् । यथा पाकं पचतीत्युक्तेः पचिक्रियायाः कर्तव्यता प्रतीयते, तथा समिधो यजतीत्युक्ते समिद्यागः कर्तव्य इत्यर्थो भवति । विष्णुं यजतीत्यादौ तादर्थ्यमुपचर्यते । प्रयाजमन्त्रेषु समिधो अग्न आज्यस्य वियन्त्वित्यादिषु समिदादिशब्दैर्बहुवचनैकवचनान्तैर्देवता निर्दिष्टाः । तदेव निमित्तीकृत्य तादृशैरेव शब्दैरिह यागा अभिधीयन्ते – ‘समिधो यजति’ ‘तनूनपातं यजति’ ‘इडो यजति’ ‘बर्हिर्यजति’ ‘स्वाहाकारं यजति’ इति । तस्मान्नात्र देवतासंस्कारविधिः, किंतु यागाः केवला विधीयन्ते । तेषां च श्रुत्यादिभिः कार्यविशेषानवगमात्प्रकरणेनारादुपकारकत्वम् । पञ्चमप्रयाजस्य तु यक्ष्यमाणाज्यभागादिदेवतासंस्कारकत्वं दशमेऽभिधास्यते ।
दशमाध्यायस्य प्रथमपादे चिन्तितम् “अन्त्यः प्रयाज आरात्किमुपकार्यथ संस्कृतिः । स्वाहाकारेति देवोक्तेर्मातृवन्मन्त्रवर्णनात् ॥ आद्यो मैवं चतुर्थ्यादेरभावाद्यागमात्रके ।“विधित्सया च सौर्यादावर्थोग्न्यादिनिवर्तनम्” ॥ दर्शपूर्णमासेष्टौ पञ्चमप्रयाज एवमाम्नायते — ‘स्वाहाकारं यजति’ इति । स किमिष्टेरारादुपकारक उताज्यभागादिषु यक्ष्यमाणानामग्न्यादिदेवतानां संस्कार इति संशयः । तत्र स्वाहाकारशब्देन देवतोच्यते । यागस्य तदाकाङ्क्षणात् । न च प्रत्यक्षवचनमपेक्ष्य मन्त्रवर्णदेवताकल्पनमुचितम् । नन्वेवं सति विधिमन्त्रयोर्वैयधिकरण्यं प्रसज्येत । विधिना हि स्वाहाकाराख्या देवता विहिता । मन्त्रे तु यक्ष्यमाणाज्यभागदेवता अग्न्यादयः प्रतीयन्ते । ‘स्वाहाऽग्निम् । स्वाहा सोमम् । स्वाहाऽग्निम् । स्वाहा प्रजापतिम् । स्वाहाऽग्नीषोमौ’ इत्यादिको हि मन्त्रः पठितः । नायं दोषः । मातृशब्दवन्मान्त्रवर्णिकाग्न्यादिशब्दानामनेकार्थत्वसंभवात् । यथा मातृशब्दः प्रस्थादिना धान्यस्य मातारं जननीं चाचष्टे तथाग्न्यादिशब्दः स्वाहाकाराख्यदेवतामाचक्षताम् । न च स्वाहाकाराख्यदेवतैव संस्क्रियतामिति वाच्यम् । संस्कृतायास्तस्या अन्यत्रोपयोगाभावात् । तस्मादिष्टेरारादुपकारक इत्याद्यः पक्षाभ्युपगन्तव्यः । मैवम् । चतुर्थ्या तद्धितेन वा सर्वत्र देवता विधीयते । न चात्र तौ विद्येते । किंचायं विधिर्देवतायागावुभौ विधत्ते, देवताविशिष्टं यागं वा देवतामात्रं वा यागमात्रं वा । नाद्यः । वाक्यभेदप्रसङ्गात् । न द्वितीयो गौरवापत्तेः । न तृतीयः । अप्राप्तस्य यागस्याननुवाद्यत्वे सति तदनुवादेन देवताविध्ययोगात् । तस्माच्चतुर्थः पक्षः परिशिष्यते । तत्र हि द्वितीयान्तस्वाहाकारशब्दः पौर्णमासीं यजत इत्यादाविव कर्मनामधेयं भविष्यति । तस्मादाज्यभागादिदेवतासंस्कार उत्तमः प्रयाजः । एवं च सति सौर्यादिविकृतिषूत्तमप्रयाजमन्त्रे प्रधानदेवतावाच्यग्न्यादिपदपरित्यागो बाधविचारान्तर्गतस्याधिकरणस्य फलं भविष्यति । यत्तु पञ्चमाध्याये प्रयाजानामनुष्ठानक्रमे पाठ्यक्रमः प्रमाणमिति”
“चिन्तितं तदस्माभिरिषे त्वोर्जे त्वा यज्ञस्य घोषदसीत्यनयोरनुवाकयोः पौर्वापर्ये पाठ एव प्रमाणमित्यभिप्रेत्य तत्रैवोदाहृतम् । तृतीयाध्यायस्य तृतीयपादे चिन्तितम् - न क्रत्वङ्गं प्रयाजादि क्रत्वङ्गं वा न चाङ्गता । प्रक्रियाया अमानत्वान्नैराकाङ्क्ष्येण वाक्ययोः ॥ प्रयाजादेः फला (ले) पेक्षा कथंभावो (व)पि च क्रतोः । तेन प्रकरणाम्नानं तस्मादङ्गाङ्गिता तयोः ॥ सार्धपादद्वये विनियोजकत्वेनोक्तानि यानि श्रुतिलिङ्गवाक्यानि तेभ्योऽतिरिक्तं किंचित्प्रकरणनामकं प्रमाणं न वेदे पश्यामः । न हि पदतत्सार्थ्यान्वयैरसंसृष्टः कश्चिर्द्वेदभाग क्वचित्केनचिदाम्नायते । एकवाक्यतामापन्नो वाक्यसमूहः प्रकरणमिति चेत् । न । वाक्ययोः सतोः पश्चादेकवाक्यताया अभावात् । नहि ‘दर्शपूर्णंमासाभ्यां स्वर्गकामो यजेत’ ‘समिधो यजति’ इत्यनयोर्वाक्ययोः परस्पराकाङ्क्षास्ति, येनैकवाक्यता कल्प्येत । तस्मात्प्रयाजादीनां न दर्शपूर्णमासाङ्गत्वमिति प्राप्ते ब्रूमः - प्रयाजादयः फलहेतवः पुरुषप्रवृत्तिरूपत्वात्सेवादिवत् । दर्शपूर्णमासावुपकरणैरुपकार्यौ करणत्वात्प्रदीपोपकृतचक्षुर्वत् । तथा सति किं प्रयाजादेः फलं किंवा दर्शपूर्णमासयोरुपकरणमित्याकाङ्क्षायां संपन्नवाक्यैकवाक्यतारूपं प्रकरणं, तेन च प्रयाजादीनामङ्गत्वं प्रतीयते । तृतीयाध्यायस्य प्रथमपादे चिन्तितम् - “अभिक्रामं जुहोतीति युक्तं कर्त्राखिलस्य तत् ।”
किंवा प्रयाजमात्रस्य कृत्स्नकर्तृयुतं भवेत् । प्रयाजाभिक्रमणयोः क्रियात्वमु (त्वादु) भयोरपि ।
मिथःसंबन्धराहित्यान्मैवं तेपि समत्वतः । कर्तृयोगाददोषश्चेत्समानेयं समाहितिः ।
“ततः प्रयाजसांनिध्यात्तत्कर्त्रैवास्य संयुतिः” ॥ दर्शपूर्णमासयोः प्रयाजसमीपे श्रूयते – “अभिक्रामं जुहोति इति । तत्र होमकाले यदेतदाहवनीयस्याभिमुख्येन संचरणं तत्कृत्स्नदर्शपूर्णमासकर्त्रा संबध्यते, न तु प्रयाजमात्रकर्ता । कुतः । अभिक्रमणस्य क्रियारूपस्य कारकत्वाभावेन प्रयाजक्रियया संबन्धासंभवादिति चेत् । मैवं क्रियारूपत्वादेव दर्शपूर्णमासक्रियया संबन्धासंभवात् । अथोच्येत, अभिक्रमणं कर्तृकारकेण साक्षात्संबध्यते, तद्द्वारा कृत्स्नदर्शपूर्णमासकर्मणा संबध्यत इति । तदेतत्समाधानं प्रयाजसंबन्धेपि, समानम् । अतः संनिधिबलात्प्रयाजकर्त्रा संबध्यते । चतुर्थध्यायस्य प्रथमपादे चिन्तितम् - “अभिघार्यं प्रयाजानां शेषेण हविरत्र किम् ।”
शेषधारणतत्पात्रे कार्ये नो वाभिधारणम् ॥ नान्यथा तेन ते कार्ये प्रतिपत्तितः । प्राजापत्यवपायाश्च न कोऽप्यर्थोभिऽघारणात्” प्रकृतौ श्रुतं ‘प्रयाजशेषेण हवीँष्यभिघारयति’ इति । तदेतद्विकृतावतिदिष्टम् । विकृतयश्च वाजपेयगताः पशवः । ते च द्विविधाः – क्रतुपशवः प्राजापत्याः पशवश्चेति । आग्नेयं पशुमालभेत्यादिना विहिताः क्रतुपशवः । इतरे तु सप्तदश प्राजापत्यान्पशूनालभते इति विहिताः । ते चोभयविधाः पशवः प्रातःसवने सहेवोपक्रम्यन्ते । ततः सर्वेषामर्थे सकृदेव प्रयाजा अनुष्ठीयन्ते । तत्र क्रतुपशूनां प्रातःसवन एवालब्धव्यत्वात्तदीयहविषां प्रयाजशेषेणाभिघारणं निर्विघ्नमेव सिध्यति । प्राजापत्यपशूनां तु पर्यग्निकरणपर्यन्तमेव तदानीमनुष्ठानम् । आलम्भस्तु माध्यंदिने सवने । तत्कालविशेषस्य ब्रह्मसाम्न्यालभत इति विधानात् । तेषां च प्राजापत्यपशूनामभिघारणार्थं प्रातःकालीनप्रयाजशेषो धारयितव्यः । न चात्र जुह्वां तद्धारणं संभवति । क्रतुपश्वनुष्ठाने जुह्वा व्यापृतत्वात् । अतः पात्रान्तरं संपाद्य तस्मिन्नयं शेषो धारयितव्यः । अन्यथा प्राजापत्यहविषां प्रयाजशेषेणाभिघारणासिद्धेः । तस्माच्छेषधारणतत्पात्रे इति प्राप्ते ब्रूमः – ते उभे न कर्तव्ये । कुतः । अभिघारणस्य शेषप्रतिपत्तिरूपत्वेन हविःसंस्कार(क)त्वाभावात् । नहि दृष्टेऽर्थे संभवति अदृष्टोऽर्थः संस्कारः कल्पयितुं युक्तः । दृष्टं च जुह्वा रिक्तीकरणमन्यथा प्रयाजशेषोपेतायां जुह्वामाज्यभागार्थतया गृह्यमाणं संकीर्येत । अतो रिक्तीकरणरूपप्रतिपत्त्यर्थमेव प्रकृतौ शेषेणाभिघारणम् । अस्तु वा तत्र हविःसंस्कारोऽपि । तथापि प्राजापत्यवपायामभिघारणं व्यर्थम् । रूक्षत्वनिवारणाय ह्यभिघार्यते । न च प्राजापत्यवपायां रूक्षताऽस्ति । ब्रह्मसाम्नैव तद्रूक्षताया निवारितत्वात् । अत एव श्रूयते - ‘शम्या वा एतर्हि वपा यर्ह्यनभिवृता ब्रह्म वै ब्रह्मसाम द्ब्रह्मसाम्न्यालभते तेनाशम्यास्तेनाभिघृताः” इति । शम्या रूक्षा इत्यर्थः । तस्माच्छेषधारणतत्पात्रे न कर्तव्ये । तत्रैवान्यच्चिन्तितम् —
“चतुर्थस्य प्रयाजस्य होमायौपभृतं घृतम् । जुह्वामानयतीत्यौपभृतं नैषा प्रयोजयेत् ॥
प्रयोजयेदुतानीतिः प्रयाजाद्यखिलार्थता । श्रुतोपभृत आज्येतो जौहवेन विकल्पनात् ॥
“न प्रयोजकता मैवं त्रितयार्थं हि जौहवम् । अतिहायेड इत्युक्तेश्चतुर्थे सा प्रयोजयेत्” ॥ दर्शपूर्णमासयोः श्रूयते “अतिहायेडो बर्हिः प्रति समानयते जुह्वामौपभृतम्” इति । अस्यायमर्थः - पञ्चानां प्रयाजानां मध्ये तृतीयः प्रयाज इट्छब्देन बहुवचनान्तेनाभिधीयते । तं तृतीयं प्रयाजमतिक्रम्य बर्हिर्नामकं चतुर्थं प्रयाजं होतुमुपभृत्संज्ञकायां स्रुचि स्थितं घृतं जुह्वामानेतव्यमिति । तदेतदानयनमुपभृत्याज्यग्रहणस्य न प्रयोजकम् । तथा हि - जुहूपभृद्ध्रुवासु तिसृषु स्रुक्ष्वाज्यग्रहणप्रकारस्तद्विनियोगश्चैवमाम्नायते - चतुर्जुह्वां गृह्णाति । अष्टावुपभृति । चतुर्ध्रुवायाम् । यज्जुह्वां गृह्णाति । प्रयाजेभ्यस्तत् । यदुपभृति । प्रयाजानूयाजेभ्यस्तत् । सर्वस्मै वा एतद्यज्ञाय गृह्यते । ‘यद्ध्रुवायामाज्यम्’ इति । तत्र जौहवं केवलं प्रयाजार्थमौपभृतं तु प्रयाजानूयाजार्थमिति प्रयाजेषु जौहवमौपभृतं चोभयं विकल्पते । तथा सति यदा जौहवेन प्रयाजा इज्यन्ते तदानीमौपभृतस्यानयनमेव नास्ति, कुत आनयनस्य प्रयोजकत्वम् । यदा त्वौपभृतेन प्रयाजहोमस्तदानीमौपभृतस्यार्धं प्रयाजार्थमितरदनुयाजार्थम् । तयोः प्रयाजसाधनमर्धं प्रथमप्रयाजकाल एव जुह्वामानीतमिति न तस्य चतुर्थप्रयाजं प्रति समानयनं विधीयते । यत्त्वनूयाजार्थमितरदर्धमुपभृत्यवशिष्टं तन्मध्ये किंचिच्चतुर्थप्रयाजं प्रति समानेतव्यम् । तत्त्वनूयाजैरेव प्रयुक्तमिति न तस्यानयनं प्रयोजकमिति प्राप्ते ब्रूमः - यज्जौहवं तत्प्रयाजत्रितयार्थं, यदौपभृतं तदेवावशिष्टप्रयाजद्वयार्थमनूयाजार्थं चेत्येवं वाक्यद्वयस्य व्यवस्थायां संभवन्त्यामष्टदोषदुष्टो विकल्पो नाश्रयितुं शक्यः । यदा जौहवस्वीकारस्तदानीमौपभृतवाक्यस्य प्राप्तं प्रामाण्यं परित्यजेत, अप्राप्तमप्रामाण्यं स्वीक्रियेत, पुनरपि कदाचिदौपभृतस्वीकारे त्यक्तं प्रामाण्यं स्वीक्रियेत, स्वीकृतमप्रामाण्यं परित्यजेतेत्यौपभृतवाक्ये चत्वारो दोषाः । जौहववाक्येप्येवं चत्वार इत्यष्टौ दोषाः । यथोक्तव्यवस्था च “अतिहायेडः” इति वाक्यादध्यवसीयते । तथा सत्यौपभृतस्यानूयाजा यथा प्रयोजकास्तथैव चतुर्थोत्तमप्रयाजनिष्पादकमानयनमपि प्रयोजकमेव । पञ्चमाध्यायस्य द्वितीयपादे चिन्तितम् —
“प्रयाजानूयाजसिद्ध्यै पात्रैक्यमुत भिन्नता । एकोपभृद्द्वयोरर्थे दृष्टातो विकृतौ तथा ॥
विकृतौ पात्रभेदोऽस्तु शुद्धाज्यपृषदाज्ययोः । एकमात्रे ग्रहाशक्तेर्द्रव्यैक्यं प्रकृतौ द्वयोः ॥”
“अग्नीषोमीयपशौ प्रयाजानूयाजसाधनं द्रव्यं धारयितुमेकमेव पात्रं कर्तव्यम् । कुतः । प्रकृतावुभयार्थस्याज्यस्यैकयैवोपभृता धृतत्वेन विकृतावपि तदतिदेशादिति प्राप्ते ब्रूमः - प्रकृतिवत्केवलाज्येन प्रयाजा इज्यन्ते । अनूयाजास्तु पृषदाज्येन यष्टव्याः । “पृषदाज्येनानूयाजान् यजति” इति तद्विधानात् । पृषदाज्यं नाम दधिमिश्रमाज्यम् । नहि शुद्धमिश्रयोरेकेन पात्रेण धारणं संभवति । तस्मादत्र पृथक्पात्रम् । यत्तु चतुर्थस्य प्रथमपादे चिन्तितं - जुह्वामाज्यग्रहणं प्रयाजत्रयार्थमुपभृत्याज्यग्रहणमनूयाजार्थं चेति । यदन्यत्रैव चिन्तितम् — उपभृति चतुर्गुहीतद्वयादिष्टसंख्येति, तदुभयमस्माभिराज्यग्रहणविधायके प्रत्युष्टँ रक्ष इत्यनुवाके प्रदर्शितम् ॥”
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके प्रथमोनुवाकः ॥१॥
(द्वितीयाष्टके षष्ठप्रपाठके द्वितीयोऽनुवाकः)। (आज्यभागविधिः)
आद्यानुवाके विस्पष्टं प्रयाजाः पञ्च वर्णिताः । अनुवाके द्वितीयेऽस्मिन्वक्तव्यावाज्यभागकौ ॥
तन्मन्त्रास्तन्मन्त्रकाण्डे समाम्नाताः । कल्पः - “यदा जानात्यग्नयेनुब्रूहीति तदाग्नेयस्याज्यभागस्य पुरोनुवाक्यामन्वाहाग्निर्वृत्राणि जङ्घनदिति पौर्णमास्यामग्निः प्रत्नेन जन्मनेत्यमावास्यायां यदा जानात्यग्निं यजेति तज्जुषाणेन यजति जुषाणो अग्निराज्यस्य वेत्विति यदा जानाति सोमायानूब्रूहीति तत्सोमस्य पुरोनुवाक्यामन्वाह त्वँ सोमासि सत्पतिरिति पौर्णमास्यां सोम गीर्भिष्ट्वा वयमित्यमावास्यायां यदा जानाति सोमं यजेति तज्जुषाणेनैव यजति जुषाणः सोम आज्यस्य हविषो वेत्विति” इति । तत्र प्रथमस्याग्नेयस्य पाठस्तु अग्निर्वृत्राणि जङ्घनत् । द्रविणस्युर्विपन्यया । समिद्धः शुक्र आहुतः । जुषाणो अग्निराज्यस्य वेतु (तै. ब्रा. ३.५.६) इति ।
अयमग्निरस्माननुगृह्णात्विति शेषः । कीदृशोऽग्निः । वृत्राणि कर्मानुष्ठाननिवारकाणि पापानि जङ्घनदतिशयेन हतवान् । विपन्यया विशिष्टयाऽस्मत्कृतया स्तुत्या द्रविणस्युरस्मदर्थं द्रविणेच्छुः समिद्धः सम्यग्ज्वालितः शुक्रः शोचमान आहुतः समन्तादस्माभिराकारितोऽनेनाहुतो वा । जुषाणः प्रीयमाणोऽयमग्निराज्यस्य वेत्वस्मद्दत्तमिदमाज्यमश्नातु ।
“प्रथमस्य सौम्यस्य पाठस्तु त्वँ सोमासि सत्पतिः । त्वँ राजोत वृत्रहा । त्वं भद्रो असि क्रतुः । जुषाणः सोम आज्यस्य हविषो वेतु (तै.ब्रा. ३.५.६) इति । हे सोम त्वं सतां सद्भिरनुष्ठितानां कर्मणां पतिरसि । किंच त्वं राजा दीप्तिमान् । अपि च पापघाती । किंच, भद्रः फलप्रदत्वेन मङ्गलरूपः क्रतुरसि । तस्य क्रतोर्निष्पादकत्वात् । तादृशः सोम इदमाज्यं हविरश्नातु ।”
द्वितीयस्याग्नेयस्य पाठस्तु अग्निः प्रत्नेन जन्मना । शुम्भानस्तनुवँ स्वाम् । कविर्विप्रेण वावृधे । जुषाणो अग्निराज्यस्य वेतु (तै.ब्रा. ३.५.६) इति । अयमग्निः प्रत्नेन पुरातनेन स्वजन्मना स्वां तनुवं स्वतनुं शुम्भानः शोधयन्कविर्विपश्चित्पण्डितः पराभिप्रायज्ञो विप्रेणर्त्विजा कृतां स्तुतिं ज्ञात्वा वावृधे वृद्धिं प्राप्तः । जुषाण इत्यादि पूर्ववत् । द्वितीयस्य सौम्यस्य पाठस्तु सोम गीर्भिष्ट्वा वयम् । वर्धयामो वचोविदः । सुमृडीको न आविश । जुषाणः सोम आज्यस्य हविषो वेतु (तै.ब्रा. ३.५.६) इति । हे सोम वचोविदो वाक्यतात्पर्याभिज्ञा वयं गीर्भिः स्तुतिरूपाभिर्वाग्भिर्वर्धयामः । त्वं तु सुमृडीकः सम्यक्सुखयन्नोऽस्मानाविश । तादृशः सोम आज्यं हविरश्नातु । मन्त्रकाण्डोक्तैस्वैरेतैः साध्यावाज्यभागौ विधत्ते चक्षुषी वा इति । यजमानब्राह्मणेऽग्नीषोमाभ्यां वै यज्ञश्चक्षुष्मानित्युक्तत्वादाज्यभागयोर्यज्ञचक्षुष्ट्वम् । आवहनीयस्य पूर्वार्धभागं होमदेशत्वेन विधत्ते पूर्वार्धे जुहोतीति । लोकेऽपि शिरसः पूर्वभागे चक्षुषी तिष्ठतो न तु पृष्ठभागे । उभयोराहुत्योः पङ्क्तिरूपत्वं परीमाणवैषम्यं च वारयितुं साम्यं विधत्ते प्रबाहुग्जुहोतीति । प्रबाहुक्समं यथा भवति तथा जुहुयादित्यर्थः ।
एकस्यां पङ्क्तावुत्तरदक्षिणदेशं क्रमेण विधत्ते देवलोकं वा इति । देवलोक उत्तरदेशस्थः । पितृलोको दक्षिणदेशस्थः । अतस्तथाविधेन होमेन तयोरनुख्यातिरभिज्ञानं भवति ।
उभयोराज्यभागयोर्मध्यदेशं प्रधानयागस्थानत्वेन विधत्ते “राजानौ वा इति । इज्येते इत्यत्र बहुवचनव्यत्ययो द्रष्टव्यः । प्रधानदेवता हि तयोर्मध्य इज्यन्ते । अत एवाथर्वणिका आमनन्ति “यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत्” ॥ इति । एवं च सत्युभयतोऽवस्थिताभ्यां राजभ्यां मध्येऽवस्थिताः प्रधानदेवताः विशेषेण धृता भवन्ति । अथवात्र देवताशब्देनावान्तरदेवता विवक्षिताः । ता अन्तरेण तासां मध्ये राजानावग्नीषोमाविज्येते । ताश्च देवताः परितोऽत्र स्थिता सेवकभृत्यवदेतौ राजानौ विशेषेण धारयन्ति । अथवा राजभ्यां ताभ्यामन्या देवता जीवितप्रदानेनैव पोषिता भवन्ति । यस्मादेवं तस्माल्लोकेऽपि मनुष्याः सर्वे राज्ञा विधृता वर्तन्ते । इत्थमाज्यभागौ निरूप्य तदीये याज्यानुवाक्ये उपरितनस्याग्नेयस्य प्रधानस्य हविषो याज्यानुवाक्ये च क्रमेण विधत्ते ब्रह्मवादिन इति । अन्यतोऽधोभाग एव दन्ता येषां ते गवादयोऽन्यतोदत(न्त) स्तान्पशून्येन यज्ञाङ्गेन यजमानो दाधार प्राप्नोति तद्यज्ञाङ्गं किं नाम यजमानः कुरुते । उभयत ऊर्ध्वाधरयोर्दन्ता येषामश्वादीनां त उभयतोदत (न्त) स्तान्येन प्राप्नोति तदपि किमित्येवं ब्रह्मवादिष्वेके विज्ञाः पृष्टाः (ष्टवतः) । इतरे विज्ञा उत्तरमवदन् – आज्यभागस्य होमकाले पुरोनुवाक्यारूपेण कांचिदृचं पठित्वा याज्यारूपेण जुषाण इत्यादियजुषा यागं कोरति । तेनाधोभागे संपूर्णाया ऋचः पाठेनाधोभागस्थदन्तयुक्तान्पशूनाप्नोति । प्रधानस्याग्नेयस्य हविषो होमे पुरोनुवाक्यामप्यृचमेव पठित्वा याज्ययाप्यृचैव यजति । तेनाधऊर्ध्वभागयोर्ऋचोः संपूर्णत्वेन भागद्वयेपि दन्तयुक्तानश्वादीन्प्राप्नोति । तत्राज्यभागविषया पुरोनुवाक्या यजुश्चेत्युभयं पूर्वमेवोक्तं व्याख्यातं च । आग्नेयविषये च याज्यानुवाक्ये वक्ष्येते । तस्मादीदृशमेवोभयत्र वक्तव्यमिति विधिः पर्यवस्यति । आग्नेययागस्य याज्यानुवाक्ये सामान्येन विधाय विशेषाकारेण विधत्ते मूर्ध्वन्वतीति । मूर्धशब्दो यस्यामृच्यस्ति सा मूर्धन्वती, तथा समानानां मध्ये यजमानं मूर्धानं मूर्धवदुत्कृष्टं करोति । नियुच्छब्दो यस्यामृच्यस्ति सा नियुत्वती, तया वैरिणां पशून्नितरां नि (वि) योजयति । एते याज्यानुवाक्ये मन्त्रकाण्डे समाम्नाते । तयोर्विनियोगं वौधायनो दर्शयति — ‘अथ हविषामग्निर्मूर्धा भुवो यज्ञस्येत्याग्नेयस्य पुरोडाशस्य’ इति । तत्र प्रथमायाः पाठस्तु ‘अग्निर्मूर्धा दिवः ककुत् । पतिः पृथिव्या अयम् । अपाँ रेताँसि जिन्वति’ । (तै.ब्रा. ३.५.७) इति । अयमग्निरादित्यरूपेण दिवो द्युलोकस्य ककुदुच्छ्रितो मूर्धा द्युलोकस्य शिरःस्थानीयः, पृथिव्याः, पतिर्दाहकारित्वेन पालकोऽप्ययं, किंचापां रेतांस्युदककार्याणि स्थावरजङ्गमात्मकानि शरीराणि जाठराग्निरूपेण जिन्वति प्रीणयति । द्वितीयस्याः पाठस्तु “भुवो यज्ञस्य रजसश्च नेता । यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे सुवर्षाम् । जिह्वामग्ने चकृषे हव्यवाहम्” (तै.ब्रा. ३.५.७) इति ।”
“अयमग्निर्भूलोकस्य तत्रानुष्ठेयस्य यज्ञस्य तस्मिन्यज्ञे प्रवर्तकस्य रजोगुणस्य च नेता प्रवर्तको निर्वाहकः । तादृश हेऽग्ने यत्र यस्यां दिवि सूर्यरूपो भूत्वा नियुद्भी रथे नितरां योज्यमानाभिः शिवाभिरुत्तमाभिरश्वजातिभिः सचसे समवैषि तस्यां दिवि मूर्धानं शिरोवदुन्नतस्थितिं दधिषे धारयसि । कीदृशं मूर्धानं, सुवर्षां सुवः स्वर्गलोके स्यति सर्वदा तिष्ठतीति सुवर्षास्तं सुवर्षाम् । सोमपावत्पुंलिङ्गोऽयं शब्दः । हेऽग्ने त्वमस्मिन्यज्ञे हव्यवाहं हविषः प्रापिकां जिह्वां ज्वालां चकृषे करोषि । तदिदं याज्यानुवाक्यायुगलमनेकप्रकारेण प्रशंसति केशिनँ हेति । दर्भनाम्नः पुत्रः कश्चित्केशी, सत्यकामपुत्रोऽपरः केशी, तयोर्दार्भ्यं प्रति सात्यकामिः ब्रूते हे दार्भ्य श्वः प्रयोज्यमाने ते त्वदीये यज्ञे सप्तभिः पदैरुपेतां शक्वरीछन्दस्कामृचं प्रयोक्ष्यसे । सा च ऋगत्यन्तवीर्यवती । ‘अग्निमूर्धा’ इत्यादयस्त्रयः पादाः । ‘भुवो यज्ञस्य’ इत्यादयश्चत्वारः पादाः । तदुभयं मिलित्वा सप्तपदा शक्वरी यस्य भवति । शक्तिरस्या अस्तीति शक्वरी । सा च शक्तिरेव द्रष्टव्या । यस्याः शक्वर्याः सामर्थ्येन पूर्वमुत्पन्नान्भ्रातृव्यान्प्रणुदते निराकरोति । जनिष्यमाणाँश्च यथा नोत्पत्स्यन्ते तथा करोति । प्रतिनुदते प्रतिबध्नातीत्यर्थः । किंच तदीयेन वीर्येण भूर्लोकस्वर्गलोकयोर्ज्योतिरुत्कर्षं पुरुषो धत्ते । किंच तदीयेन वीर्येण बलीवर्दो लाङ्गलशकटवाहिना स्कन्धरूपेण पूर्वभागेन (ण) स्वामिनं पालयति । धेनुश्च क्षीरप्रदेनोधसापरभागेन (ण) स्वामिनं पालयति । तथाविधेयं शक्वरी । याज्यानुवाक्ययोर्लक्षणं दर्शयति
“पुरस्ताल्लक्ष्मेति । मन्त्रप्रतिपाद्याया देवताया नामधेयं लक्ष्म तद्यस्यामृचि पूर्वार्धे विद्यते सा पुरोनुवाक्या । तन्नाम यस्मामुत्तरार्धे विद्यते सा याज्या । तद्यथा — ‘अग्निमूर्धा’ इति पूर्वार्धेऽग्निशब्दः । ‘जिह्वामग्ने चकृषे हव्यवाहम्’ इत्युत्तरार्धेऽग्निशब्दः । पूर्वार्धगतेन लक्षणेन पूर्वोत्पन्नभ्रातृव्यान्निराकरोति । उत्तरार्धगतेन लक्ष्मणा जनिष्यमाणवैरिप्रतिबन्धः । तदेव पूर्वोत्तरार्धगतं लक्ष्मद्वयमनूद्य पुनरपि द्वेधा प्रशंसति पुरस्ताल्लक्ष्मेति । अस्य लोकस्य पूर्वभावित्वात्पूर्वभाविना लक्ष्मणा ज्योतिर्भवति । स्वर्गस्योपरिवर्तित्वादुपरिवर्तिना लक्ष्मणा ज्योतिः । वेदितुरपि तदेव फलम् । एवमनडुहो धेन्वाश्च पूर्वोत्तरार्धसाम्यं योज्यम् । एतस्योभयस्य वेदितारमेतौ धेन्वनडुहौ स्वस्वोपकारेण पालयतः । अथ याज्यान्ते प्रयोज्यस्य वषट्कारस्य विधिमर्थवादेनोन्नयति वज्र आज्यमिति । तानूनप्त्रब्राह्मणे ‘घृतं खलु वै देवा वज्रं कृत्वा सोममघ्नन्’ इत्युक्तत्वादाज्यस्य वज्रत्वम् । ‘वृत्राणि जङ्घनत्’ इति मन्त्राम्नानादाज्यभागयोर्वज्रत्वम् । “वषट्कारो वै गायत्रिये शिरोच्छिनदित्युक्तत्वाद्वषट्कारस्य वज्रत्वम् । तदेतत्त्रयमाज्यभावाख्यकर्मणि मिलित्वा त्रिगुणो वज्रः संपद्यते । तादृशेन भ्रातृव्यस्य प्रहरणे सति वषट्कारेण वैयर्थ्यं तस्य प्रहारस्य न भवति । तस्य वषट्कारस्योच्चध्वनिं विधत्ते अपगूर्येति । अपगूर्योच्चैर्ध्वनिं कृत्वेत्यर्थः । स च ध्वनिर्भ्रातृव्यस्य हिंसायै संपद्यते । अयं च वषट्कारविधिराग्नेयादियाज्यास्वपि समानो द्रष्टव्यः । वषट्कारिण्यः सर्वत्रेत्याश्वलायनवचनात् । पुनरप्याग्नेयस्य याज्यानुवाक्ये छन्दोद्वारा प्रशंसति गायत्रीति । “अग्निर्मूर्धा” इति गायत्री । सा च ब्राह्मणेन सहोत्पन्नत्वाद्ब्रह्मस्वरूपा । “भुवो यज्ञस्य” इति त्रिष्टुप् । सा च क्षत्त्रेण सहोत्पन्नत्वात्क्षत्त्ररूपा । तथा सति गायत्रीत्रिष्टुभोः पौर्वापर्येण ब्राह्मणमनु पश्चात्क्षत्त्रियः प्रवर्तितवान्भवति । यस्माद्ब्राह्मणः पूर्वं प्रवृत्तस्तस्मान्मुख्यो भवति । मुखे भवतीति व्युत्पत्तेः । तद्वेदनं प्रशंसति मुख्यो भवतीति । पुनरपि पुरोनुवाक्यादित्रयं प्रदेयदेवतासमीपप्राप्तिद्वारेण प्रशंसति प्रैवैनमिति । पुरोनुवाक्यापाठेन हविषो दातारमेव देवानामग्रे प्रकर्षेण कथितवान्भवति । याज्यया तं मार्गेण नयति । वषट्कारेण देवान्प्रापयति । पुनरपि तस्य प्रापितस्य यजमानस्य प्रतिष्ठापनद्वारेण प्रशंसति ऐवैनमिति । एनं यजमानं त्रिभिर्मन्त्रैः क्रमाद्धस्तेन गृहीत्वा देवेभ्यः प्रदाय तत्रोपवेशयति । पादसंख्यामक्षरसंख्यां च प्रशंसति त्रिपदेति । पशुषु प्राप्तेषु सत्सु पश्चादेव ब्राह्मणभोजनादौ क्षीरादिकं दातुं तत्पङ्क्तौ द्वाभ्यां पादाभ्यां स्थिरस्तिष्ठति । पूर्वमुक्तं सप्तपदान्ते शक्वरीमिति तत्र पादोदाहरणेन प्रशंसति गायत्रीति । देवा यत्कार्यमुद्दिश्याशिक्षञ्शक्ता भवामेत्यैच्छन् । यद्वा परस्परमिदं कार्यं कर्तव्यमिति शिक्षितवन्त एतया शक्वर्या ते तत्कार्यं कर्तुं शक्ता अभवन् । एतद्वेदितापि यत्कार्यं कर्तुं शक्तिमिच्छति तत्कार्ये शक्तो भवत्येव । तदेवमाग्नेयस्य याज्यापुरोनुवाक्ययोर्विधानेन लक्षणेन प्रशंसया च प्राजापत्योपांशुयाजादीनां याज्यानुवाक्याः सर्वा मन्त्रकाण्डाम्नाता व्याख्याता द्रष्टव्याः । ताः स्वयमाम्नातक्रमेणोदाहृत्याक्षरार्थं वर्णयामः । कल्पः – “प्रजापते स वेदेति यस्य प्राजापत्य उपांशुयाजो भवति” इति । पाठस्तु “प्रजापते न त्वदेतान्यन्यः । विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु । वयँ स्याम पतयो रयीणाम् । स वेद पुत्रः पितरँ स मातरम् । स सूनुर्भुवत्स भुवत्पुनर्मघः । स द्यामौर्णोदन्तरिक्षँ स सुवः । स विश्वा भुवो अभवत्स आभवत्” (तै.ब्रा. ३.५.७) इति । हे प्रजापते त्वदन्यः कोपि पुरुष उत्पन्नानि तान्येताति विश्वानि न परिबभूव परिभवितुं न समर्थोऽभूत् । परिभवः सृष्टेरप्युपलक्षणम् । सृष्टिसंहारयोरशक्त इत्यर्थः । अतस्ते तव वयं यत्कामा जुहुमस्तत्फलमस्माकमस्तु वयं धनपतय स्याम “द्यौः पिता । पृथिवी माता । प्रजापतिर्बन्धुः” इति मन्त्रवर्णाद्ब्रह्माण्डमध्ये सत्यलोके वर्तमानस्य प्रजापतेरण्डस्योपरितनं कपालं द्यौः पिता । अधस्तनकपालरूपा पृथिवी माता । पुत्रः प्रजापतिस्तं पितरं तां च मातरं वेत्ति । अभिज्ञः स प्रजापतिः सूनुर्भवति तयोर्मातापित्रोः पुत्रो भवति । अत एव तयोर्वेदनं तस्योपपन्नमेव । मघशब्दो धनवाची । पुनःपुनर्यजमानाय दातव्यं धनं यस्य स पुनर्मघः । तादृशोऽयं प्रजापतिर्भुवद्भवति । किंच स प्रजापतिः सर्वस्यापि विराड्रुपं धृत्वा द्यामुपरितनकपालमौर्णोदाच्छादितवान् । तथान्तरिक्षं स्वर्गं च स और्णोत् । किंच, स एव विश्वा भुव इमं लोकमारभ्याधस्तनाः पूर्वा भूमीरभवत्प्राप्तवानच्छादितवानित्यर्थः । सत्यलोके समागत्य चतुर्मुखत्वेन रूपान्तरेण परिमितोऽभवत् । कल्पः - “तथाग्नीषोमा सवेदसा युवमेतानीत्यग्नीषोमीयस्य पुरोडाशस्य” इति । पाठस्तु —
“अग्नीषोमा सवेदसा । सहूती वनतं गिरः । सं देवत्रा बभूवथुः । युवमेतानि दिवि रोचनानि । अग्निश्च सोम सक्रतू अधत्तम् । युवँ सिन्धूँ रभिशस्तेरवद्यात् । अग्नीषोमावमुञ्चतं गृभीतान्” (तै.ब्रा. ३.५.७) इति ।
“हेऽग्नीषोमौ गिरोऽस्मदीयाः स्तुतीर्वनतं भजतम् । कीदृशौ सवेदसा समानज्ञानयुक्तौ, सहूती समानाह्वानयुक्तौ, देवत्रा देवेषु मध्ये संबभूवथुः । युवां संभूयैव स्थितौ न कदाचिप्यन्योन्यवियुक्तावित्यर्थः । हे सोम त्वमग्निश्चेत्येतौ युवां सक्रतू समानसंकल्पौ सन्तौ दिव्येतानि रोचनानि नक्षत्राण्यधत्तमस्थापयतम् । हेऽग्नीषोमौ युवां गृहीतान्सिन्धून्रथ्योदकादिनिमित्तेनापृतत्वापवादेन पङ्कादिरूपेणावद्येन दोषेण च गृहीताः सर्वां नदीरभिशस्तेस्तस्मादपवादादवद्यात्पङ्कादिदुष्टदोषाच्चामुञ्चतं मोचितवन्तौ । यद्यप्येतत्सर्वमीश्वरकृतं तथापि तद्रूपत्वेनैतौ स्तूयेते । कल्पः - “इन्द्राग्नी रोचना दिवः श्नथद्वृत्रमित्यैन्द्राग्नस्य” इति । पाठस्तु “इन्द्राग्नी रोचना दिवः । परि वाजेषु भूषथः । तद्वां चेति प्र वीर्यम् । श्नथद्वृत्रमुत सनोति वाजम् । इन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः । सहस्तमा सहसा वाजयन्ता” (तै.ब्रा. ३.५.७) इति । हे इन्द्राग्नी दिवस्परि स्वर्गस्योपरि रोचना दीप्यमानौ युवां वाजे यजमानसंबन्धिष्वन्नेषु निमित्तभूतेषु भूषथो दातारौ भवितुमिच्छथः । तत्तदीयं बुभूषुत्वं वां युवयोर्वीर्यं सामर्थ्यं प्रचेति चेतयति प्रकर्षेण ज्ञापयतीत्यर्थः । इन्द्रा यो अग्नीरित्यत्र समस्तं पदं विच्छिद्य मध्ये य इति पदमाम्नातम् । तथा च हे इन्द्राग्नी इति संबोधनम् । यो यजमानो वृत्रं बिरोधिनं पाप्मानं श्नथन्निराकरोति उत वाजं हविर्लक्षणमन्नं सनोति ददाति, (अपि च) सहुरी कौटिल्येन सह विद्यमानौ, हुरिः कौटिल्यं, यजमानस्य श्रद्धाराहित्यादिच्छिद्रान्वेषणेन कुटिलावपि युवां सपर्यादप्रमत्तो यो यजमानः परिचरति, तादृशं यजमानं युवामेवानुगृह्णीतमिति शेषः । कीदृशौ युवाम्, इरज्यन्ता, अनुग्रहेण भक्तचित्तं रञ्जयन्तौ, भूरेर्बहुलस्य वसव्यस्य धनसमूहस्य, दाताराविति शेषः । सहस्तमा, अतिशयेन सहिष्णू । सहसा बलवन्तौ । वाजयन्ता वाजं हविर्लक्षणमन्नं यन्तौ प्राप्नुवन्तौ । कल्पः - “एन्द्र सानसिँ रयिं प्रससाहिषे पुरुहूत शत्रूनित्यैन्द्रस्य यद्येन्द्रं सांनाय्यम्” इति । पाठस्तु — "
“एन्द्र सानसिँ रयिम् । सजित्वानँ सदासहम् । वर्षिष्ठमूतये भर । प्रससाहिषे पुरुहूत शत्रून् । ज्येष्ठस्ते शुष्म इह रातिरस्तु । इन्द्राभर दक्षिणेना वसूनि । पतिः सिन्धूनामसि रेवतीनाम् । (तै.ब्रा. ३.५.७) इति । हे इन्द्र रयिं धनमूतयेऽस्मद्रक्षणार्थम् । भराहरानय । कीदृशं धनं, सानसिं सनसो दानस्य संबन्धिनं बहुभ्भो(भ्यो) दातुं पर्याप्तमित्यर्थः । सजित्वानं जित्वभिर्जयशीलैः पुत्रादिभिरुपेतम् । सदासहं सर्वदा विरोधिनां सोढारं तिरस्कारक्षममित्यर्थः । वर्षिष्ठमतिशयेन प्रवृद्धम् । हे पुरुहूत पुरुषु बहुषु यज्ञेष्वाहूयमान शत्रुन्प्रकर्षेण ससाहिषे सर्वदा सहसे तिरस्कुरुष इत्यर्थः । ते शुष्मो ज्येष्ठस्तव बलं प्रशस्तमित्यर्थः । इहास्मिन्कर्मणि रातिरस्तु फलदानमस्तु । हे इन्द्र दक्षिणेन हस्तेन वसूनि धनान्याभर समानय । सिन्धूनां धनवाहिनीनां समुद्रसमानानां रेवतीनां प्रजानां पतिरसि ।”
कल्पः - यद्यु वै माहेन्द्रं महाँ इन्द्रो य ओजसा महाँ इन्द्रो नृवदा चर्षणिप्रा इति माहेन्द्रस्य इति । पाठस्तु महा इन्द्रो य ओजसा पर्यन्यो वृष्टिमा इव। स्तोमैर्वत्सस्य वावृधे। महा इन्द्रो नृवदा चर्षणिप्राः। उत द्विबर्हा अमिनः सहोभिः। अस्माद्रिबग्वावृधे वीर्याय। उरुः पृथुः सुकृतः कर्तुभिर्भूत (ब्रा. का. ३ प्र. ५ अ. ७) इति। वृष्टिमान्पर्जन्य इव य इन्द्र ओजसा बलेन महान्स इन्द्रो वत्सस्थानीयस्य यजमानस्य स्तौमैः स्तोत्रैर्वावृधे वर्धताम्। अयं महानिन्द्रो नृवन्मनुष्यवदाचर्षणिप्राः चर्षणीन्मनुष्यान्प्रति तदभीष्टदानैर्भोगेः पूरयतीति चर्षणिप्राः। यथा राजामात्यादिमनुष्यः सेवकानभीष्टभोगैरापूरयति तद्वत्। अपि चयं द्वयोः प्रकृतिविकृतिरूपयोर्यागयोर्बर्हो वृद्धिर्यस्येति द्विबर्हाः। अमिन उपमारहितः साहेभिर्युक्तो बलवानस्मद्रियगस्मत्सदृशो वावृधे वृद्धिं प्राप्तः। यथा वयमस्यानुग्रहाद्वृद्धिंप्राप्तास्तथायमप्यस्मदीयैर्हाविभिर्मिवृद्धः। एतदेव प्रपञ्च्यते वीर्याय सामर्थ्यसिद्ध-
ये। कर्तृभिर्यजमानैरयं सुकृतोभूत्सृष्ठु वर्धितोभूत्। कीदृशी तस्याभिवृद्धिः उरुर्यशसा विपुलः। पृथुर्बलेन विस्तीर्णः।
कल्पः- अथ स्विष्टकृतः पिप्रीहि देवानिति पुरोनुवाक्यामनूच्य ये यजामहेप्ति स्विष्टकृतमयाडग्निरग्नेरित्युक्त्वा यथादैवतं निगदमुक्त्वा जातवेदा जुषता हविरग्ने यदद्य विशो अध्वरस्येत्यृचमनूच्य यजति इति।
तत्र पुरोनुवाक्याः पाठस्तु पिप्रीहि देवा उशतो यविष्ठ। विद्वा ऋतू ऋतुपते यजेह। हे दैव्याऋत्विजस्तेभिरग्ने। त्व होतृणामस्यायजिष्ठः (ब्रा. का. ३ प्र. ५ अ. ७) इति। हेग्ने यविष्ठ युवतमोशतः कामयमानान्देवान्पिप्रीहि अतिशयेन प्रीणय। हे ऋतुपते सूर्यात्मना कालपरिपालकाग्ने त्वमृतून्यागकालविशेषान्विद्वाञ्जानन्वर्तसे। तस्मादिहोचिते काले यज। देवेषु भवा ये दैव्या ऋत्विजः सन्ति अग्निहोर्ता। अश्विनाध्वर्यू। त्वष्टासीत्। इत्यादीनाम्नातास्तेभिस्तेभिस्तैर्दैव्यैः सहत्वमस्य यजमानस्य संबन्धिनां होतृणामृत्विजां मध्य आजजिष्ठः सर्वतो यष्टृतमोसि। निगदपाठस्तु अग्नि स्विष्टकृतम्। आयाडग्निरग्नेः प्रिया धामानि। आयाट्सोमस्य प्रिया धामानि। आयाडग्नेः प्रिया धामानि। आयाट्प्रजापतेः प्रिया धामानि। अयाडग्नीषोमयोः प्रिया धामानि। शयाडिन्द्राग्नियोः प्रिया धामानि। अयाडिन्द्रस्य प्रिया धामानी। अयाण्महेन्द्रस्य प्रिया धामानि अयाड्देवानामाज्यपानां धामानि। यक्षदग्नेर्होतुः प्रिया धामानि। यक्षस्त्वं महिमानम्। आयजतामेज्या इषः। कृणोतु सो अध्वरा जातवेदाः जुषता हविः (ब्रा. का. ३ प्र. ५ अ. ७) इति।
स्विष्टकृतमग्निं ये यजामह इति शेषः पूरणीयः। ये वयं होतारः स्मस्ते वय स्विष्टकृतमग्निं यजामहे। प्रथमाज्यभागदेवस्याग्नेर्यानि प्रियस्थानानि तेषु सर्वेषु दैव्यहोतृरूपोग्निरयाडिष्टूवान्। एवमयाट्सोमस्येत्यादिषु योज्यम्। देवानामानुपूर्वी चावाहननिगदवद्व्याख्येया। होतुरग्नेर्होमस्य स्विष्टकृत्त्वसंपादक
स्याग्नेः प्रियधामानि यानि सन्ति तेषु दैव्यो होता यक्षद्यजतु। उक्तानां सर्वेषां देवानां स्वकीयो महिमा योस्ति तमुद्दिश्य दैव्यो होता यक्षद्यजतु। आयज तामाभिमुख्येन यागं कुर्वतां यजमानानामेज्या आभिमुख्येन यष्टव्या इषोभीष्टाया देवताः सन्ति ताः सर्वा अध्वरास्मिन्यज्ञे स जातवेदाः स्विष्टकृत्सोग्निः कृणोतु स्विष्टाः करोतु। तदर्थमयं स्विष्टकृदग्निरिदं हविर्जुषताम्। याज्यायाः पाठस्तु “अग्ने यदद्य विशो अध्वरस्य होतः । पावक शोचे वेष्ट्व हि यज्वा। ऋता यजासि महिना वि यद्भूः। हव्या वह यविष्ठ या ते अद्य” (ब्रा. का. ३ प्र. ५ अ. ७) इति।
हे स्विष्टकृदग्ने विशः प्रविष्टस्यानुष्ठितस्याध्वरस्य संबन्धि यद्धविरस्ति तदद्य वेरशान भक्षय। होतर्होमकर्तः पावक शोधक शोचे दीप्यमान। तान्येतान्यग्निविशेषणानि। हि यस्मात्वं यज्वा यागस्य कर्ता तस्मादृतर्तेस्मदीये यज्ञे महिना महिम्ना देवान्यजासि प्रीणयसि। यद्यस्मात्कारणाद्विभूर्विशिष्टो भवसि तस्मात्कारणाद्धे यविष्ठ युवतमाद्य ते तव या हव्या यानि हव्यान्यस्माभिर्दीयन्ते तानि सर्वाणि वह स्वी कुरु। तावतोदाहृताः सर्वा याज्यानुवाक्या आग्नेययाज्यानुवाक्यादिकथनादेवागन्तव्या इति मत्वा ब्राह्मणेन न पृथग्व्याख्याताः।
अत्र मीमांसा।
दशमाध्यायस्य प्रथमपादे चिन्तितम् “आज्यभागो य आग्नेयः किं मुख्याग्नेः स संस्कृतिः।
आरादुतोपकारी स्यात्पूर्वन्यायेन संस्कृतिः।। निगदेग्नेर्द्विरुक्तत्वाद्विधावेकपदोक्तितः।
उपकारी ततः सोग्निः सौर्यादौ न निवर्तते।।” दर्शपूर्णमासयोः श्रूयते—–‘आज्यभागावग्नीषोमाभ्यां यजति’ इति। तयोः प्रथम आग्नेयो द्वितीयः सौम्यः। तत्र सौम्यस्य नास्ति संदेहः। प्रधानदवेतासु केवलस्य सोमस्याभावात्। अग्निस्तु केवल आग्नेयपुरोडाशे विद्यते। तस्मादाग्नेय आज्यभागः पुरोडाशदेवताया अग्नेः किं संस्कार उतेष्टेरारादुपकारक इति संदिह्यते। तत्र यथोत्तमप्रयाजो मन्त्रोक्तानां यक्ष्यमाणदेषतानां संस्कारस्तथा प्रथमाज्यभागोप्यग्निमग्न आवहेतिनिगदोक्तस्य प्रधानयागदेवतारूपस्याग्नेः संस्कार इति पूर्वः पक्षः। अत्रोच्यते निगदस्तावदेवं पठ्यते-‘अग्निमग्न आवह। सोममावह। अग्निमावह’ इति। अस्यायमर्थः- हेग्न आहुत्यधिकरणीभूत हविर्ग्नाहिण आज्यभागद्वयाष्टाकपालपुरोडाशदेवतारूपानग्निः सामोवाग्निरित्येतांस्त्रीनिहेष्टावावहेति। तत्र पुरोडाशदेवतारूपादग्नेः प्रथमाज्यभागदेवतारूपोग्निर्भिन्नइत्यवगम्यते। अन्यथावाह्यस्याग्नेरेकत्वे द्विरुक्तिवैयर्थ्यात्। अतः प्रथमाज्यभाग इज्यमानस्याग्नेः पुरोडाशदेवतात्वाभावात्तत्संस्कारत्वमयुक्तम्। किंचाज्यभागविधावग्नीषोमाभ्यामाज्यभागौ यजतीति देवताद्वयं समस्तेनैकेन पदेनोच्यते। तत्र यथा सोमस्य यागं प्रति गुणत्वं भवताभ्युपगतं तथाग्नेरप्यभ्युपगन्तव्यम्। तत्तु संस्कारपक्षे विरुद्धं संस्कारत्वे प्राधान्यावश्यंभात्। तस्मात्संस्कारपक्षासंभवात्प्रथमाज्यभागो द्वितीयाज्यभागवदिष्टेरारादुपकारकः। एवं च सति सौर्ययागेपि प्रथमाज्यभागेग्निर्न निवर्तत इति बाधापवादो विचारफलं भविष्यति तत्रैव चतुर्थपादे चिन्तितम्-
“अन्वाहेत्यर्थकर्म स्यात्संस्कारो वार्थकर्मता। शस्त्रवत्कार्यताज्ञानाद्दृष्टार्थत्वेन संस्कृतिः”।।
“तिष्ठन्याज्यामन्वाहासीनः पुरोनुवाक्याम्” इति दर्शपूर्णमासयोराम्नातम्। तदेतच्छस्त्रादिवदर्थकर्म स्यात्। यथा स्तौति शंसतीत्यत्र कर्तव्यताप्रतीतेः स्तोत्रशक्त्योरर्थकर्मत्वं तथानुवचनस्यापि। मैवम्। चोदितदेवतास्मरणसंस्कारस्य दृष्टप्रयोजनत्वात्। तस्मिन्सत्यदृष्टस्य कल्पयितुमशक्यत्वात्। ननु मन्त्रसामर्थ्यादेव देवतास्मरणसिद्धेरन्वाहेति तद्विधानं व्यर्थम्। एवं तर्हि प्रागनुवचनमनूद्य तिष्ठन्नासीन इति स्थानासनगुणौ विधीयेयाताम्।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके द्वितीयोनुवाकः ।। २।।
“(अथ द्वितीयाष्टके षष्ठप्रपाठके तृतीयोनुवाकः)। (प्रधानभूताग्नेयपुरोडाशाभिधानम्) आज्यभागौ च याज्यानुवाक्या उक्ता द्वितीयके। अथ तृतीयानुवाके प्रधानभूत आग्नेयपुरोडाशोभिधातव्यः। तत्रादौ तावदुपस्तरणाभिधारणे विधत्ते प्रजापतिरिति। तवेदं तवेदमिति यज्ञसाधनद्रव्याणि देवेभ्यो विभज्य दत्त्वात्मन्याज्यद्रव्यं प्रजापतिः स्थापितवान्। तं प्रजापतिं देवा एवमब्रुवनआज्यमिति यत्, एष एव यज्ञो नाम सर्वेषु यज्ञियेषु द्रव्येषु घृतस्यैव सारत्वात्। तस्मादस्माकमप्यस्मिन्नाज्ये कियानपि भावोस्त्विति। ततः स प्रजापतिस्तान्देवानेवाब्रवीत् हे देवा युष्मानुद्दिश्यं यष्टार आज्यभागौ यजन्तु। प्रधाने च हविष्यधस्तादुपस्तरणमुपर्यभिधारणं कुर्वन्त्विति। उपस्तृणानुपस्तृणन्तु। अभिधारयानभिधारयन्त्वित्यर्थः। यस्मादेवं यस्मादाज्यभागावाज्येन यजेयुः, प्रधानहविषोधस्तादुपस्तृणीयुरुपरिष्टाच्चाभिधारयेयुः। तदेतदुपस्तरणादिसाधनमाज्यं प्रशंसति ब्रह्मवादिन इति। अन्यानि पुरोडाशचर्वादीनि हवींषि द्वित्रैर्दिवसैर्यातय मानि गतसाराणि भवन्ति। आज्यं तु ससारमेव तिष्ठति न तु स्वादिमानं परित्यजति। तत्कस्मादिति ब्रह्मवादिनः परस्परं पप्रच्छुः। तत्र कश्चिद्बुद्धिमान्ब्रह्मवादीप्राजापत्यमेतदाज्यमिति ब्रूयात्। इन्द्राग्न्यादयो देवाः कल्पे कल्पे विनश्वरत्वाद्गतसारास्तेषां मध्ये प्रजापतिस्तु जगदीश्वरत्वात्पुनः पुनस्तादृशानुत्पादयन्नुपसंहरंश्च यथापूर्वमेव तिष्ठतीत्यगतसारस्तदीयत्वादाज्यमपि सर्वदा ससारमिति। अत्र हविष उपस्तरणाभिधारणाभ्यां सह चतुरवदानं विधत्ते छन्दा सीति। पुरोनुवाक्यादिमन्त्रगतानि यानि गायत्र्यादिच्छदांसि तानिहविर्भाग्भ्यो देवेभ्यो विमुखानि सन्त्यपाक्रामन्वयं भागरहितानि भूत्वा युप्माकं हव्यानि न वक्ष्याम इति वदन्ति निर्गतानि। अत्र च्छन्द शब्देन तदभिमानिदेवता उच्यन्ते। ततो हविर्भाजो देवाःस्तेभ्यच्छन्दोभ्यो देवताभूतेभ्यो भागत्वेन च तुरवत्तम दत्तवन्तः। तत्र पुरोनुवाक्यादिशब्दाभिधेयाश्छन्दोभिमानिन्यः। आहुत्याधारभूतोग्निर्देवताशब्देनोच्यते । यस्मादेवं तस्मादेतच्छन्दसां प्रीत्यै चतुरवत्तं जुहुयात्। तेन प्रीतानि च्छदांसि हविर्भाग्भ्यो देवेभ्यो हव्यं वहन्ति। अथाग्नेयं पुरोडाशं विधत्ते अङ्गिरसो वा इति। अङ्गिरोनामका ऋषय इतो भूलोकादुत्तमा उद्गत तमास्त्वरया निर्गताः स्वर्गां प्राप्ताः। तत्र स्वर्गे त ऋषयो यज्ञवास्तु यज्ञभूमिमभि लक्ष्य समागताः। तस्यां भूमौ पुरोडाशाभिमानी देवः स्वशरीरमन्तर्धाय कूर्मशरीरी भूत्वा प्रकर्षेण पलायत। तं दृष्ट्वा त ऋषयोब्रुवन् इन्द्रादीनां मध्येन्यतमस्मै (माय) त्वा दास्यामस्त्वं ध्रियस्व त्वमवतिष्ठस्वेति। ततः स पुरोडाशो नातिष्टत्। अग्यर्थं तिष्ठेत्युक्ते स्थितवान्। अतो दिनद्वयेप्यष्टाकपालः पुरोडाश आग्नेयोच्युतः कर्तव्यः। तेन स्वर्गाभिजयो भवतीति। अज कपालेभ्य उद्वासितस्य पुरोडाशस्याभ्यञ्जनोपाञ्जनरूपमलंकरणं विधत्ते तमब्रुवन्निति। तं पुरोडाशं त ऋषयोब्रुवन्। केन हेतुना त्वमहास्था यज्ञदेशं परित्यक्तवानसि। ततः पुरोडाशोब्रवीत् अनुपाक्तोभूवमञ्जनकृतालं करणरहितोभूवम्, तस्मात्त्यक्तवानस्मि। यथा लोके शकटत्याक्षोञ्जनरहि तोवार्छति विनश्यति एवमहमप्यञ्जनरहितोवारं विनष्टोस्मीति। तस्मात्पुरोडाशमुपरिष्टादघस्ताच्चायेनालं कुर्यात्। तेन स्वर्गस्य सम्यग्व्याप्तिर्भवति।”
अथोद्वासनात्पुरा कपालेषु स्थापितस्य हस्तेन प्रसारणं विधत्ते
सर्वाणि कपालानीति। यावन्ति कपालानि स्थापितानि तावन्ति सर्वाणि यथाभि व्याप्नोति तथा प्रसारयेत्। तथा सति कपालसंख्यान्पुरोडाशान्निर्वृतिसाधनत्वेन स्वर्ग प्राप्नोति। पाके सौकर्यविशेषं विधत्ते—यो विदिग्ध इति।
“विपरीतत्वेन दग्धो विदग्धः। क्वचित्पक्वः क्वचिदपक्व इति वाप्रभावेन वा विपरीत्वं, तादृशो राक्षसप्रियः। अशृतोपक्व रुद्रस्य प्रियः। सुष्ठु पक्वो देवप्रियः। तस्माद्विपरीतदाहमकुर्वता पुरोडाशः शृतंकृत्यः सम्यक्पक्वो यथा भवति तथा कर्तव्यः। तथा सति देवप्रियो भवति। यदुक्तं सूत्रकारेण— “सं ब्राह्मणा पृच्यस्वेति वेदेन पुरोडाशे साङ्गारं भस्माध्यूहति” इति। तदतद्विधत्ते भस्मनेति। पक्वस्य कठिनत्य पुरोडाशस्योपरि भस्मनाच्छादनमस्थ्न उपरि मांसच्छादनमिव भवति। आच्छादनकाले वेदगतदर्भनाडीसंस्पर्शेन केशच्छन्नं शिर इव भवति। पौरोडाशिककाण्डे विद्यमानस्यापि विधेरत्रोपन्यासः प्रत्यभिज्ञानार्थः। यद्वा ब्राह्मणयोः शाखाभेदमभिप्रेत्येयमीदृशी पुनरुक्तिः परिहर्तव्या। पूर्वमवदानकालेभिधारणं विहितमिदानीमुद्वासकालीनमभिधारणं विधत्ते प्रच्युतं वा इति। हविषो मन्त्रेण पाके सति लौकिकत्वमपेतमित्यस्माल्लोकात्प्रच्युतिः। अभिधारणाभावे शास्त्रीयत्वमसंपूर्णमिति स्वर्गाप्राप्तिः। तस्माच्छा स्त्रीयत्वसंपर्त्त्यर्थ्यमाज्येनाभिधार्य पश्चादुद्वासयेत्। तथा सति देवेष्वेनद्धविः प्रापितं भवति। कपालानामुद्वासनकाले गणानां विधत्ते यद्येकमिति। एककपालनाशेन मास एको न्यूनो भवेत्। ततो यजमानो म्रियते। तथा द्विकपालनाशेनापि । अतो यजमानस्य रक्षणाय गणयेत्। अथ प्रमादादिना नाशे प्रायश्चित्तं विधत्ते "
यदि नश्येदिति। स्पष्टोर्थः।
अत्र मीमांसा।
प्रथमाध्यायस्य चतुर्थपादे चिन्तितम् “यदाग्नेयोष्टाकपाल इति नाम गुणोथवा। नामाग्निहोत्रवन्मैवं नामत्वे देवता न हि। मन्त्रो हि नेह प्रत्यक्षस्तद्धिताद्देवताविधिः। देवद्रव्यविशिष्टस्य विधानादेकवाक्यता”।।दर्शपूर्णमासयोः श्रूयतेः—-“यदाग्नेयोष्टाकपालोमावास्यायां च पौर्णमास्यांचाच्युतो भवति” इति। तत्र यथाग्निहोत्रशब्दोग्नये होत्रमत्रेत्यमुमर्थं निमित्तीकृत्य कर्मनामधेयं तथाग्नेयशब्दोप्यग्निसंबन्धं निमित्तीकृत्य कर्मनाम स्यादिति चेन्मैवम्। नामत्वे देवताराहित्यप्रसङ्गात्। अग्निहोत्रे त्वग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोतीत्यनेन वचनेन विहितो मन्त्रः प्रत्यक्ष इति मान्त्र वर्णिकी देवता लभ्यते। इह तु न तादृशो मन्त्रोस्ति। आग्नेयशब्दस्तु देवतां विधातुं शक्नोति। अग्निर्देवतास्येत्यस्मिन्नर्थे तद्धितस्योत्पन्नत्वात्। न च द्रव्यदेवतयोरुभयोगुणयोर्विधानाद्वाक्यभेद इति वाच्यम्। कर्मणोप्राप्तत्वेन द्रव्यदेवतारूपगुणद्वयविशिष्टस्य कर्मणो विधानादेकवाक्यत्वोपपत्तेः। तस्मादाग्नेयशब्देन देवतागुणो विधीयते। तृतीयाध्यायस्य चतुर्थपादे चिन्तितम् यागे हविर्यजेत्कृत्स्नं कोप्यंश शिष्यतेथवा। देवार्थत्वाद्यजेत्सर्वं शिष्यते द्विरवत्ततः।। आग्नेयोष्टाकपाल इत्यत्र कृत्स्नोपि पुरोडाशोग्नये त्यक्तव्यः। तद्धितेन कृत्स्नस्याग्निदेवतासंबन्धोवगतेस्त्यागमन्तरेण तदनुपपत्तेरिति चेन्न। द्विर्हविषोवद्यतीत्यवदानद्वयं श्रूयते। अवदेयं चाङ्गुष्ठपर्वमात्रम्। तथा च सूत्रकारः “आग्नेयस्य पुरोडाशमध्यादङ्गुष्ठपर्वमात्रमवदानं तिरश्चीनमवद्यति” इति।
तत्र हविषः सकाशादङ्गुष्ठपर्वमात्रद्वयं त्रोटयित्वा त्यक्तव्यम्। इतरच्छेषणीयम्। देवतासंबन्धश्चां शद्वाराप्युपपद्यते।
“दशमाध्यायस्याष्टमपादे चिन्तितम् “चतुर्द्विर्वा पुरोडाशेवदानं होम्यतोक्तितः। चतुर्मैवं सहाज्येन सिद्धस्यात्रानुवादतः ”।। दर्शपूर्णमासयोराम्नायते—“चतुरवत्तं जुहोति” इति। तत्र किं पुरोडाशद्रव्यगतस्यावत्तस्य चतुःसंख्या किंवा तत्र द्विसंख्या, चतुष्ट्वं तूपस्तरणाभिधारणाभ्यामाज्यावत्ताभ्यां सह संपद्यत इति संशयः, । तत्र चतुरवत्तस्य द्वितीयाविभक्त्या होमकर्मत्वमुच्यते। न चोपस्तरणा (द्य) र्थस्य होमकर्मत्वमस्ति। तस्मात्पुरोडाशावदाने चतुःसंख्येति प्राप्ते ब्रूमः- उपस्तरणाभिधारणाभ्यामवदानाभ्यां प्रसिद्धं चतुरवत्तमनूद्य होमस्य विधानाद्धविषो मध्यात्पूर्वादिति द्विरवदानस्यैव प्राप्तिः। तस्माद्द्विर्हविषोवदानम्। पञ्चमाध्यायस्य चतुर्थपादे—”
‘अवदानादि सांनाय्ये पूर्वमाग्नेयकेथवा। धर्मप्रवृत्तिक्रमतः सांनाय्ये पूर्वतोचिता।।
प्रदानं पूर्वमाग्नेयेवदानं च तथोचितम्। अङ्गानां मुख्यतन्त्रत्वान्मुख्यक्रमबल (लि) त्वतः।।
दर्शपूर्णमासयोः सांनाय्यधर्मा वत्सापाकरणदोहनादयः प्रथमप्राम्नाताः। पुरोडाशधर्मा निर्वापावधातादयः पश्चादाम्नाताः। ततश्च तेनैव पाठक्रमेण धर्मानुष्ठानं प्रवृत्तम्। ततः प्रावृत्तिकक्रमेणावदानमपि सांनाय्ये पूर्वमेव कर्तव्यमिति प्राप्ते ब्रूमः याज्यानुवाक्यादिमन्त्रबलादाग्नेये पूर्वं प्रदानमित्युक्तम्। तत्र (च्च) प्रदानं फलपत्यासत्त्या मुख्यमवदानं तु तदङ्गम्। तथा सति मुख्यस्य क्रममनुसृत्यावदानमप्याग्नेये पूर्वं कर्तव्यम्। मुख्यक्रमो हि प्रावृत्तिकक्रमात्प्रबलः। प्रावृत्तिके हि क्रमे सांनाय्ये पूर्वमवदानमभिधारणमासादनं च कृत्वा प्रदानमकृत्वैवा
ग्नेयेवदानादीनि कर्तव्यानि। तथा सति सांनाय्येनुष्ठितान्यवदानादीन्यङ्गानि मुख्यप्रदानाद्विप्रकृष्यन्ते। मुख्यक्रमाश्रयणे तु आग्नेये प्रथमवदानादि प्रदानान्तं कृत्वा पश्चात्सांनाय्ये तदनुष्ठीयते। तत्र नास्त्यङ्गाङ्गिविप्रकर्षः। नन्ववदानादिप्रदानान्त एकः पदार्थ इत्युक्तम्। तत्र कुतः क्रमविचारः। एवं तर्हि कृत्वाचिन्तास्तु अथवा स्विष्टकृदवदानादिविषयैव चिंन्तास्तु। तत्रैव द्वितीयपादे चिन्तितम् “अवदानेनुसमयो होमान्ते वावदानके।
पदार्थत्वं विधेयत्वात्तेनानुसमयस्ततः।। अवद्यतिः प्रदानान्तोवदानस्य तदर्थतः (ता)।
अतोनुसमयस्तत्र होमान्तान्न तु केवलात्”।। दर्शपूर्णमासयोर्द्विर्हविषोवद्यतीत्येकेन विधिना विहितत्वाद्द्विसंख्याविशिष्टमवदानमेकः पदार्थः। ततस्तेनावदानमात्रेणानुसमयः कर्तव्यः। आग्नेयस्य द्विरवदानं कृत्वा तद्धोमान्प्रागेवाग्नीषोमीयस्य द्विरवदानमिति प्राप्ते ब्रूमः—अवदानं तु होमपर्यन्तमेकः पदार्थः। होमस्यावदानमन्तरेणानुपपत्तेर्होमविधिनैवाक्षिप्तं होमार्थमवदानम्। अत एव चतुरवत्तं जुहोतीत्येकेन विधिना सावदानक एको होमपदार्थो विहितः। उपस्तरणाभिधारणाभ्यां सह यच्चतुरवत्तं तस्मिन्हविर्विषयमवदानद्वित्वं विधातुं द्विर्हदिषोवद्यतीत्युच्यते। ततो होमान्तस्यावदानस्यैकपदार्थत्वादाग्नेयमवदाय हुत्वा पश्चादग्नीषोमीयावदानमित्यनुसमयः। षष्ठाध्यायस्य चतुर्थपादे चिन्तितम् “अवत्तनाशे तच्छेषात्पुरोडाशादवद्यति।
यजेदाज्येना वाद्योत्र मध्यपूर्वार्धसंभवात्।। कृत्स्नस्य मध्यपूर्वार्धं ये शेषस्थे न ते ततः।
हविर्नाशादाज्यविधिः सुतरां सर्वनाशने”।। दर्शपूर्णमासयोः पुरोडाशावदाने श्रूयते “मध्यादवद्यति पूर्वार्धादवद्यति”इति। तत्र यद्यवत्तं नश्येत्तदानीमवशिष्टात्पुरोडाशात्पुनरप्यवदातव्यम्। कुतः। अवदानापादानयोर्मध्यपूर्वार्धयोः शिष्टेपि संभवादिति चेन्मैवम्। कृत्स्नपुरोडाशगते मध्यपूर्वार्धे अपादानत्वेन श्रूयेते. न त्ववशिष्टभागगते मध्यपूर्वार्धे। ततो मुख्यहविषो नाशादाज्यं प्रतिनिधाय यष्टव्यम्। अत एव श्रूयते “यस्य सर्वाणि
हवी षि नश्येयुर्दुष्येयुरपहरेर्युर्वाज्येनैता देवताः परिसंख्याय यजेत” इति। तत्र सर्वशब्दस्य निमित्तविधेषणत्वेनाविवक्षितत्वान्नाशमात्रे सर्वत्राज्यस्य विधिः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके
तृतीयोनुवाकः।। ३।।
“(अथ द्वितीयकाण्डे षष्ठप्रपाठके चतुर्थोनुवाकः)। (वेदिविधिः) तृतीय प्रोक्त आग्नेयः पुरोडाशो दिनद्वये। अथ चतुर्थेनुवाके वेदिर्विधातव्या। तयाश्च वेदेः साधनभूतस्य स्फ्यस्य मन्त्रेणादानं विधत्ते देवस्य त्वेति। आध्वर्यवशेषेण पठितम् (ब्रा. का. ३ प्र. ३ अ. १) इति। यदुक्तं सूत्रकारेण—- शतभृष्टिरसि वानस्पत्यो द्विषतो वध इति पुरस्तात्प्रयञ्चमुत्करे स्फ्यमुदस्यति द्वेष्पं मनसा ध्यायन् इति। तत्रोक्तमेतं मन्त्रमुत्पाद्य तात्पर्यं दर्शयति शतभृष्टिरसीति। हे स्फ्य त्वं शतभृष्टिरसि शतसंख्याका भृष्टिः शत्रूणां संतापरूपं भर्जनं यस्य स शतभृष्टिः। वनस्पतोर्विकरो वानस्पत्यः। द्विषतो द्वेषं कुर्वतो वैरिणौ वधो वधहेतुरसि। अनेन मन्त्रेण भ्रातृव्यर्थं वज्रं प्रहर्तुमिच्छन्तम्यक्तीक्ष्णी करोति। यद्यपि स्फ्यस्यानेन मन्त्रणोत्करे प्रक्षेपो वेदिनिर्माणादूर्ध्वभावी तथाप्यादानप्रसङ्गेन बुद्धिस्थत्वादिदानीमेवोक्तम्। वेदिस्थानात्सतृणस्य पांसोर्मन्त्रेणान्यत्र हरणं विधत्ते स्तम्बयजुरिति। यजुषा मन्त्रेण हरणीयः पांसुसहितः स्तम्बः स्तम्बयजुस्तस्य हरणं कुर्यात्। पृथिवि देवयजनीति त्रिभिराध्वर्यवोक्तैर्वेदिस्थाने स्थापितं दर्भं छित्वा पांसुसहितमुत्करे निनयेत्। तत्प्रकारः सर्वोपि पौरोडाशिककाण्ड एव स्पष्टमभिहितः वेदिर्यावती विद्यव एतावत्येवोपयुक्ता पृथिवी तस्या पृथिव्या एतावतः प्रदेशादनेन स्तम्बयजुर्हरणेन भ्रातृव्यं निःसारितवानेव भवति। यस्मादत्र भ्रातृव्यो भागार्थीति कृत्वा निःसार्यते तस्माल्लोकेभागं भागाभिलाषरहितं (तम) विरोधित्वान्निः(न्न निः) सारयन्ति। उक्तस्य स्तम्बयजुर्हरणस्यावृत्तिं विधत्ते त्रिर्हरतीति। चतुर्थे पर्याये त्वमन्त्रकं हरणं विधत्ते ( एतद्वाक्यस्थाने—आध्वर्यवशेषे पठितो मन्त्रः इति वाक्यं युक्तं भवेत्।) तृष्णीं चतुर्थमिति। त्रिरावृत्त्यैव लोकत्रयान्निःसारितत्वाच्चतुर्थेन हरणेन लोकत्रयबहिर्भूतात्सर्वस्मादपि देशान्नि सारितो भवति। वेदिस्थाने स्थितस्योपरितनमृद्भागस्यापसारणं विधत्ते उद्धन्तीति। उपरिभागस्योच्छिष्टादिस्पर्शसंभवान्मेधानर्हत्वम्। पिहितमुद्धननमनूद्य प्रशंसति उद्धन्ति तस्मादिति। तस्मादुद्धननादन्नोत्पन्नास्तृणादयः पराकृता विनाशिता भवन्ति। तत्रत्यानामोषधीनां यानि मूलानि पुनः प्ररोहाय भूमौ स्थितानि तेषां छेदनं विधत्ते मूलं छिनत्तीति। पुनःप्ररूढानामन्तस्तृणानां दर्भास्तरणहविःसादनविरोधित्वाद्भ्रातृव्यत्वम् चु (चि) बुकमारभ्य यजमानस्य यन्मुखपरिमाणं तद्धस्तेन प्रदर्शयित्वा (र्श्य) तत्परिमितं स्त्रननं विधत्ते पितृदेवत्येति। प्रादेशपरिमाणमतिक्रम्य खनने पैतृकी वेदिः स्यात्। यज्ञस्य यज्ञानुष्ठातुर्यजमानस्य मुखे, यज्ञमुखम्। तच्च प्रजापतिस्वरूपं यागद्वारा प्रजापालकत्वात्। तेन मुखेन संमिता कृतवान्भवति। पक्षान्तरं विधत्ते आ प्रतिष्ठाया इति। अनायासेनापनेतुं शक्याः पांसवोप्रतिष्ठाः यात्वधस्ताद्दृढा भूमिः सा प्रतिष्ठा तत्पर्यन्तं खननेन यजमानः प्रतिष्ठां प्रापितो भवति। दक्षिणभावस्यौन्नत्यं विधत्ते दक्षिणत इति। दक्षिणभावस्य निम्नत्वे पितृयजनस्य रूपं स्यात्। मार्दवकारिपांसुयुक्तत्वं विधत्ते पुरीषवतीमिति। यस्यां भूमौ प्रजापशुसंचारबाहुल्यं तस्यां पांसुबाहुल्यात्प्रजादीनां पुरीषत्वम्। यजमानोपि प्रजादिभिः पुरीषवान्भवति।”
“वेदिनिर्माणात्पूर्वं वसवस्त्वेत्यादिभिर्मन्त्रेर्वेदिसीमनिर्देशः पूर्वपरिग्रहः। निर्माणादूर्ध्वभृतमसीत्यादीभिर्मन्त्रैस्तन्निर्देश उत्तरपरिग्रहस्तमिमं विधत्ते उत्तरं परिग्राहमिति। पूर्वपरिग्रहेणैव वेदिमर्यादायां सिद्धायामपि पुनरुत्तरपरिग्रह आत्मने स्वकीयत्वाय भवति। मन्त्रकाण्डोक्तेन मन्त्रेण समीकरणं विधत्ते क्रूरमिवेति। खननेन निम्नोन्नतभावापादनं क्रूरं, समीकरणेन तच्छान्तिर्भवति। हे वेदे धा असि धारयित्र्यसि। तदेतद्विशेष्यते-स्वधेति। तव स्व, रूपं बर्हिरादिकं धारयतीत्यर्थः। यदुक्तं सूत्रकारेण “प्रोक्षणीरभिपूर्योदञ्च स्फ्यमपोद्य दक्षिणेन स्फ्यमस स्पृष्टा उपनिनीय स्फ्यस्य वर्त्मन्सादयति” इति तदेतद्विधत्ते प्रोक्षणीरिति। अर्घ्यविधिप्रस्तावे ‘तानि ह वा एतानि रक्षा सि गायत्रियाभिमन्त्रितेनाम्भसा शाम्यन्ति’ इति श्रुतत्वादेषां रक्षोघ्नत्वम्। स्फ्यरेखाया अविच्छिन्नत्वात्तत्र सादनं यज्ञस्याविच्छेदाय भवति। सादनकाले द्वेषस्य पाप्मनोद्भिर्विनाशध्यानं विधत्ते यं द्विप्यात्तमिति योजयतीत्यर्थः।। "
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु र्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके चतुर्थानुवाकः ।। ४।।
“(अथ द्वितीयकाण्डे षष्ठप्रपाठके पञ्चमोनुवाकः)। (वेद्यां बर्हिर्विषयप्रयोगाभिधानम्) चतुर्थे वेदिनिर्माणमशेषेण प्रपत्र्चितम्। अथ पञ्चमे तस्यां वेद्यां बर्हिर्विषयप्रयोगोभिधीयते। तत्र बर्हिषः प्रोक्षणं विधातुं प्रोस्तौति ब्रह्मवादिन इति। हेध्वर्यो शुद्ध्यर्थं हवींषि त्वमद्भिः प्रौक्षीः प्रोक्षितवानसि। केनान्येन शुद्धेन द्रव्येणेमा अपः प्रोक्षितवानसीति, ब्रह्मवादिभिः पृष्टेध्वर्युर्ब्रह्मणा मन्त्रेणेत्युत्तरभागं ब्रूयात्। यस्मादेतदुभयं प्रौक्षणं तथैव वर्तते। अत एव मन्त्रव्याख्याने श्रूयते—-‘प्रोक्षिताः स्थेत्याह। तेनापः प्रोक्षिताः’ इति। तेन मन्त्रोच्चारणेनेत्यर्थः। इदानीं विधत्ते इध्मावर्हिरिति। एनदिध्माः (ध्मं) बर्हिश्चेत्युभयम्। इध्माबर्हिःप्रोक्षणवद्वेदेरद्भिः प्रोक्षणं विधत्ते वेदिं प्रोक्षतीति। लोमरहितत्वादृक्षा पुरुषा सती यागयोग्या न भवति। तस्माद्योग्यत्वाय प्रोक्षणम्। तदुक्तं सूत्रकारेण ‘अन्तर्वदि पुरोग्रन्थि बर्हिरासाद्य दिवे त्वेत्यग्रं प्रोक्षत्यन्तरिक्षाय त्वेति मध्यं पृथिव्यै त्वेति मूलम्’ इति, तदेतद्विधत्ते दिवे त्वेति। दिवे त्वेत्यादिमन्त्रास्तत्काण्ड एव व्याख्याताः।यदुक्तं सूत्रकारेण ‘प्रोक्षणीशेषं स्वधा पितृभ्य इति दणिणायै श्रोणेरोत्तरस्याः सततं निनयेत्, इति तदेतद्विधत्तेक्रूरमिवेति। प्रस्तरस्य धारणं विधत्ते पुरस्तादिति। वेदिपूर्वभागे ब्रह्मा यजमानो वा प्रस्तरं धारयेत्। तच्च सूत्रेभिहितं ‘ब्रह्मा प्रस्तरं धारयति यजमानो वा’ इति। धारणाय मुखसमान मौन्नत्यं हस्तेनाभिनीय विधत्ते इयन्तमिति। वेदिखननवद्व्याख्येयम्। वेद्यां स्तरणं विधत्ते बर्हिस्तृणातीति। स्तरणे नीरन्ध्रत्वं विधत्ते अनतिदृश्नमिति। अतिशयेन भूमेर्दर्शनमतिदृश्नं तद्यथा न भवति तथा स्तृणीयात्। तेन यजमानं प्रजया पशुभिश्च सर्वतो वेष्टितत्वादि (द) तिस्पष्टं द्रष्टुमयोग्यं करोति। स्तीर्णस्य बर्हिष उपरि प्रस्तरसादनं विधत्ते उत्तर बर्हिष इति। स्मरणार्थस्य बर्हिषोधः स्थितत्वात्प्रजात्वम्। प्रस्तरस्यप्रधानभूतत्वाद्यजमानत्वम्। अधस्तादास्तीर्णस्य बर्हिष उपरिष्टात्साद्यमानरस्यप्रस्तरस्य (च) मध्ये तिर्थक्तया द्वाभ्यां व्यवधानं विधत्ते अन्तरिति। तदेतदन्तर्धानं मन्त्रकाण्डोक्तेन विशो यन्त्रे स्थ इति मन्त्रेण क्रियते। प्रस्तरस्यासादनप्रसङ्गेनबुद्धिस्थान्प्रहरणकालीनान्विशेषान्विधित्सुरादौ प्रस्तरस्य घृतेनाञ्जनं विधत्ते-”
“अनक्तीति। प्रस्तरस्य दर्भमुष्टेरनदनीयद्रव्यत्वेन स्वरूपतो हविष्ट्वाभावेप्यञ्जनेन हविष्ट्वं कृतं भवतीति तादृशमेनं प्रस्तरं स्वर्गप्राप्तियोग्यं करोति । यदुक्तं सूत्रकारेण-‘स्त्रुक्षु प्रस्तरमनत्यक्त रिहाणा इति जुह्वामग्रं प्रजायोनिमित्युपभृति मध्यमाप्यायन्तामाप ओषधय इति ध्रुवायां मूलमेवं त्रिः’ इति। तदेतद्विधत्ते त्रेधानक्तीति। प्रस्तरस्य प्रहरणे हेयोपादेयौ प्रकारौ विधत्ते न प्रतीति। अङ्गारेषु क्षुण्णेषु प्रतिक्षेपः प्रतिशरणं तन्न कुर्यात्। यदिकुर्याद्यजमानस्यानूर्ध्वं भावुकं स्यात् स्वर्गप्राप्तिसाधनं न भवेदित्यर्थः। तस्माद्धस्तमुन्नतं कृत्वा प्रस्तरमग्नेरुपर्येव प्रहरेस्त्वर्गलोकस्योपर्येव वर्तमानत्वात्तत्प्राप्तिसाधनं भवति। प्रस्तरयुक्तस्य हस्तस्याधोमुखत्वं विधत्ते न यच्छतीति। हस्तो न्यग्भूतो यथा भवति तथा कुर्यात्। तेन यजमानार्थ वृष्टिमेव न्यग्भूतां करोति। प्रस्तराग्रस्याहवनीयातिक्रमं निषेधति नात्यग्रमिति। अतिक्रान्तमग्रं यस्य तदत्यग्रम्। तद्यथा भवति तथा न प्रहरेत्। किंतु प्रस्तराग्रमाहवनीयस्योत्तरत एव नयेत्। अत्यग्रप्रहरणे हि वृष्टिरत्यासारिणी भवति तस्याध्वर्योर्विनाशनशीला स्यात्। अत्याधिक्येन वर्षणमति सारिणीत्वं, तेन सस्यानि फलितुमयोग्यानि भवन्ति, सोयमध्वर्योर्नाशः। अथवा व्याधिविशेषेणाध्वर्युर्नश्येत्। पूर्वस्यां दिशि प्रस्तरस्य मूलं पश्चिमायामग्रमित्येवंविधं प्रहरणं निषेधति। "
“न पुरस्तादिति। पश्चिमाग्रत्वं निषिध्य प्रागग्रत्वं विधत्ते प्राञ्चं प्र हरतीति। प्रस्तरगतानां दर्भाग्राणां सर्वतो विश्लेषणं निषेमति न विष्वञ्चमिति। विष्वञ्चं नानादिग्गतं तथा भवति तथा न वियुयान्नविश्लेषयेत् तद्विश्लेषणे यजमानस्य स्त्र्यपत्यमेव जायेत। स्त्रीव्यञ्जनस्य विश्लिष्टरूपत्वात्। दर्भाग्राणां समूहरूपेणैकीभावं विधत्ते ऊर्ध्वमुद्यौतीति। ऊर्ध्वं दण्डाकारेणैकाग्रं यथा भवति तथोद्यौत उत्कर्षेण मिश्रयेत्। पुसां व्यञ्जनमूर्ध्वाकारं भवति, ततोस्य पुमानेव जायते। सोयमाग्नीध्रस्य व्यापारः। तथा च सूत्रकार आह—‘त्रिरञ्जलिनाग्नीध्रो विष्वञ्चं प्रस्तरमूर्ध्वमुद्यौति”।तस्मिन्नेकीकरणे साधनान्तरं निमिध्य हस्तं विधत्ते यत्स्फ्येनेति। योयुपनं विश्लिष्टभूतस्यैकीकरणम्। अथवा प्रस्तरस्य सम्यग्दाहायोत्क्षेपणं, तद्यदि स्फ्येनोपवेषेण वा क्रियेत सेयं यजमानस्य हिंसा। हस्तेनैव योयुपनं रक्षायै भवति। प्रस्तरप्रहरणस्याधारत्वेनाहवनीयं विधत्ते ब्रह्मवादिन इति। यज्ञस्य संबन्धि किमङ्कं यजमानस्थानीयमिति ब्रह्मवादिभिः पृष्टे बुद्धिमान्प्रस्तर इति ब्रूयादुत्तरम्। स्रुक्षु प्रस्तरस्याञ्जनं कृत्वा तत्रैकं तृणं पृथक्कृत्य प्रज्ञातं स्थापयेत्। तस्ये दानीमग्नौ प्रहरणं विधत्ते वि वा एतदिति। प्रस्तरमूलमुत्क्षिपन्तीति यदेतेन यजमानो विलिशते विशेषेणाल्पी भवति रोगेण कृशो भवतीत्यर्थः। प्रज्ञातत्वेन स्थापितस्य बर्हिषोनुप्रहरणे तस्याल्पीभावस्य शान्तिर्भवति। तदेतद्वर्हिष्प्रहरणं सूत्रकारेण स्पष्टीकृतम्— ‘आयुषे त्वेत्यक्तस्य तृणमपादाय प्रज्ञातं निधाय’ इति। ‘अथैन माहाग्नीध्रोनुप्रहरेति यत्प्रस्तरात्तृणमपात्तं तदनुप्रहरति’ इति च ।। मन्त्रकाण्डे पठितेन मन्त्रेण भूमिस्पर्शनं विधत्त "
“अनारम्भण इति। एतर्हि प्रस्तरप्रहरणादूर्ध्वं प्रस्तररूपस्य यजमानस्य स्वर्गेवस्थितत्वादध्वर्युरनारम्भण इव निरालम्बन इव भवति। स च वेपनो भवितोरीश्वरः पालनस्वामिराहित्यभयेन सर्वदा कम्पनशीलो भवितुं समर्थो भवति। निरन्तरं भवति कम्पमान इत्यर्थः। ध्रुवासीति भमिस्पर्शनेन लब्धप्रतिष्ठो न कम्पते। यदुक्तं सूत्रकारेण—-अथैनमाहाग्निध्रः संवदस्वेत्यगानग्नीदित्यध्वर्युरगन्नित्याग्नीध्रः इति। अनयोः प्रश्नोत्तरमन्त्रयोरुत्तरमन्त्रस्य शाखान्तरपाठनिराकरणपूर्वकं मन्त्रद्वयोच्चारणं विधत्ते अगा३नग्नीदिति। हेग्नीद्धे आग्नीध्र किं यजमानः स्वर्गं गतवान्। प्रश्न द्योतनायेयं प्लुतिः । अगन्नग्निरित्येष शाखान्तरगतो मन्त्रपाठस्तस्मिन्पाठे वह्निः स्वर्गगत इत्यर्थो भवति, तत्त्वयुक्तम्। आहवनीयोत्र स्वर्गत्वेन विवक्षितः। तस्मिन्स्वर्गरूपेग्नौ तमग्निमेव प्रापितवान्भवति यजमानं स्वर्गाल्लोकान्निःसारितवान्भवति। तस्मादग्निरित्येतत्पदं मन्त्रे परित्यज्यागन्नित्येतावदेव ब्रूयात्। तेन यजमानः स्वर्गं लोक गतवानित्यर्थो लभ्यते।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके पञ्चमोनुवाकः।। ५ ।।”
“अथ द्वितीयकाण्डे षष्ठप्रपाठके षष्ठोनुवाकः)। (उपांशुयाजस्विष्टकृदभिधानम्) प्रयोगो बर्हिषः स्पष्टं पञ्चमे प्रतिपादितः।। अथ षष्ठेनुवाक उपांशुयाजस्विष्टकृतौ वक्तव्यौ। तत्रादौ तावत्परिधीनां परिधानं विधातुं प्रस्तौति अग्नेस्त्रय इति। यथा भ्रातरस्त्रयो हविर्वहन्तो मृता इत्यमेव स्य आर्तिमारिष्यतीति यो हविर्वहति स मरणं प्राप्नोति भीतोग्निर्निलाप्रत यथा देवैनं ज्ञायते तथा निलीनोभूत्। निलीय चोदकमध्ये प्राविशत्। तमुद्दिश्य प्रकर्षेणान्वेषणं कर्तुमैच्छन्। तदा जलस्थितो मत्स्यस्तत्र स्थितमग्निं देवानामग्रेब्रवीत्। ततोग्निस्तं मत्स्यमेवमशपत् हे मत्स्य यत्स्वं देवानामग्रे मामेवं ज्ञापितवानसि पिशुनो भूत्वा प्राब्रवीः, तादृशं त्वां जालधारिणां कैवर्ता धियाधियावध्यासुः, तेन तेन जालादिना साधनेन, यद्वा यदा यदा हन्तुं धीर्भवति तदा तदा रात्रावहनि वा वधं कुर्वन्त्विति। यस्मादेवं शप्तस्तस्मान्मत्स्य तदा तदा घ्नन्ति मत्स्यमुखेन विज्ञाते वह्नौ देवा (वै) स्तमग्निं प्रति अस्मत्समीपे समागच्छ हव्यं चास्मदीयं वहेत्युक्ते सोग्निर्वरमवृणीत स्रुचि गृहीतस्य हविषां संबन्धि यदेव द्रव्यं होमात्पुरा परिधिभ्यो बहिः प्रच्यवेत तदस्मदीयानां भ्रातृणां भागधेयमस्त्विति। ततस्तथैवदेवैर्वरो दत्तः। तेन स्कन्नेन तानग्निभ्रातृन्यजमान प्रीणयति। इदानीं विधत्ते परिधीनिति। यस्मात्परिधिभ्यो बर्हिर्देशोग्नेभ्रातृणामुपयुक्तस्तस्मात्पधीनग्नेः परितः स्थापितस्य मध्यमपरिधेर्दक्षिणोत्तरपरिधिभ्यां संस्पर्शनं विधत्ते-”””
स स्पर्शयतीति। परिधीनां समीचीने स्पर्शे सति रक्षसां प्रवेष्टुं छिद्रा- भावादग्निसमीपे संचारो न भवति।
“दिक्त्रभदृष्टान्तेन पूर्वस्यामपि दिशि प्रसक्तं परिधिं वारयति न पुरस्तादिति। रक्षसामपघातः परिधेः प्रयोजनं, तच्चादित्योदयेनैव सिध्यति। आग्नेय्यामैशान्यां चाघारसमिधोः स्थापनं विधत्ते ऊर्ध्वे समिधाविति। दक्षिणोत्तरपरिध्योरग्रदेशे स्थापनीये ते ऊर्ध्वे, तेन स्थापनेन दिक्चतुष्टय इवोर्ध्वदेशेपि रक्षसामपघातो भवति। तयोर्दक्षिणसमिधः स्थापने मन्त्रकाण्डाम्नातं वीतिहोत्रं त्वा कव इति मन्त्रं विधत्ते यजुषान्यामिति। स्त्रीपुरुषयोरिव समन्त्रकामन्त्रकयोः परस्परं वैलक्षण्यान्मिथुनत्वम्। समिधो द्वित्वं प्रशंसति द्वे इति। प्रायश्चित्तरूपेण स्कन्नानुमन्त्रणं विधत्ते ब्रह्मवादिन इति। हविषः स्कन्दने सति यज्ञस्य विनाशेन यो यजमानो विनाशाभिमुखो भवति स कथं तत्परिहारेण वसुमत्तरो भवेदिति प्रश्नवादिभिः पृष्टो बुद्धिमानुत्तरं ब्रूते- त्रिभिरेतैर्मन्त्रैः स्कन्नमनुमन्त्रयेतेति। भूपत्यादयो देवताविशेषा अग्निभ्रातरो वा तेभ्यः स्वाहेति यदनुमन्त्रणं तेन यज्ञस्याप्यार्था *विनाशं प्राप्य यजमानो वसुमत्तरो भवति। यस्मादयं भूपत्यादिका भूयसीर्देवताः प्रीणयति तस्माद्युक्तं तस्य वसुमत्तरत्वम्। अथोपांशुयाजे विधत्ते जामि वा इति। यदन्वञ्चावनुक्रमगतावाग्नेयाग्नीषोमीयपुरोडाशौ स्यातामेतेन यज्ञस्य जाम्यालस्याय क्रियते। अत आलस्यपरिहाराय तयोः पुरोडाशयोर्मध्य उपाशुयाजं यजेत्। किंच पुरोडाशद्रव्यक एको याग आज्यद्रव्यकोपर इति मिथुनत्वम्। अथ स्विष्टकृतं विधत्ते अग्निमष्मिन्निति। पुरा कदाचिदग्निः स्वर्गे स्थितः, यमस्तु भूर्लोके, तदा मनुष्याणां पाकादिनिष्पादनाभावात्पितृणां राजाभावाच्चाग्नियमयोर्विपरिवर्तनं कर्तुमिच्छावन्तो देवा आगच्छतेति परस्परमाहूयान्नाद्येनोत्कोचेन तमग्निं भूलोके समागन्तुमुपच्छन्दितवन्तः। पितरस्तु राज्येनोत्कोचेन यमं स्वर्गलोके गन्तुं प्रलोभितवन्तः। यस्मादेवं तस्माद्देवानां मध्येग्निरन्नादो बह्वन्नभक्षकोभूत्। यमश्च पितृणां राजाभूत्। एतदुभयं वेद स प्रकृष्टराज्यमन्नाद्यं च प्राप्नोति। ततो देवास्तस्मा अग्नये भागं दत्तवन्तः। कोसौ भागः, यजमाना अग्नये स्वि- "
*ख. अव्र पुस्तके विनाशमप्राप्येति पाठ.। स केवलं भ्राम्त्या शोधनकर्त्राकल्पित इति प्रतिभाति। ष्टकृते यद्धविरवद्यन्ति सोस्य भागः। तस्मादग्नये स्विष्टकृतेवद्येत्। तथा सति तदग्नये दत्तेन भागेन रुद्रं क्रुरमग्निं समृद्धं करोति। यदुक्तं सूत्रकारेण—“सर्वेषां हविषामुत्तरार्धात्सकृत्सकृदवद्यति स्विष्टकृते” इति। तदेतद्विधते सकृदिति। एक एव रुद्र इति श्रुत्यन्तरात्सकृदवदानसदृशो रुद्रः। येयमैशानी सैवैषा रुद्रस्य दिक्। सा चोत्तरभागवर्तिनी। तस्मादुत्तरार्धावदानेनस्वकीयायमेव दिशि रुद्रं निःशेषेण तोषयति। इतरहविषामिव सकृदभिधारणं प्राप्तमपवदति द्विरभिघारद्यतीति। उपस्तरणमेकं हविरवदानं द्वितीयं द्विरभिघारणं चान्तत इति चतुरवत्तं संपद्यते।
“यदुक्तं सूत्रकारेण—‘उत्तरार्धपूर्वार्धे जुहोत्यसंसृष्टाभिरितराभिराहुतिभिः’ इति, तदेतद्विधत्ते पशवो वा इति। पूर्वाः पुरोडाशाद्याहुतयः पशुस्वरुपाः पशुवदिष्टार्थप्रापकत्वात्। अयं त्वग्निः क्रूरत्वाद्रुद्रः। यदि पूर्वा आहुतीरभिसंबध्य तासामुपरि जुहुयात्तदा पशून्सर्वान्घातुकाय रुद्राय प्रयच्छेत्। ततो यजमानोपशुः स्यात्। तस्मात्पूर्वा आहुतीः परित्यज्य दूरे जुहुयात्। एवं होमः पशूनां संरक्षणाय भवति। "
अत्र मीमांसा।
द्वितीयाध्यायस्य द्वितीयपादे चिन्तितम् “उपांशुयाज इ (मि) त्येषोनुवादोत्राथवा विधिः। विष्ण्वादिवाक्ये विस्पष्टविधेरस्यानुवादता।। जामित्वोक्तेरन्तराल उपांशुगणके विधौ। सत्यर्थवादो विष्ण्वादिस्तद्रूपं ध्रौवमन्त्रतः।।
“द्रशपूर्णमासयोः श्रूयते—“जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशावुपा शुयाजमन्तरा यजति” इति। ‘विष्णुरूपांशु यष्टव्योजामित्वाय प्रजापतिरुपांशु यष्टव्योजामित्वायाग्नीषोमावुपांशु यष्टव्यावजामित्वाय” इति (च) । तत्र विष्ण्वादिवाक्येषु विहितस्य यागत्रयसमुदायस्यानुवादो जामि वा एतदिति वाक्यमिति चेन्न। आग्नेयाग्नीषोमीयपुरोडाशद्वयनैरन्तर्यकृतस्य जामि त्वदोषस्य वाक्योपक्रम उपन्यासात्पुरोडाशयोरन्तराले किंचिद्विधित्सितम्। न ह्यन्तरालगुणविशिष्टं विधेयं विष्ण्वादिवाक्येषु प्रतीयते। पूर्ववाक्ये तु तत्प्रतीयत इति विधायकं तद्वाक्यम्। न चात्र यजतीति वर्तमाननिर्देशः शङ्कनीयः। पञ्चमलकास्त्याश्रयणात्। अन्तरालकालवदुपांशुत्वगुणस्यापि विशेषणत्वात्तद्विशिष्टकर्मण उपांशुयाजनामकत्वम्। सत्येवं गुणद्वयविशिष्टकर्मण्याद्येन वाक्येन विहिते विष्ण्वादिवाक्यमर्थवादः स्यात। न चात्र विहितयागानुवादेन देवताविधिः शङ्गनीयः। समाधातव्येन जामित्वदोषेणोपक्रमादजामित्वेन समाधानेनोपसंहाराच्च। जामि वा इत्यदेरजामित्वायेत्यन्तस्य सर्वस्य महावाक्यस्यैकवाक्यत्वप्रतीतेः। न खल्वेकस्मिन्वाक्य विधेयबाहुल्यं संभवति। न चात्र विधित्सितस्योपांशुयाजस्य द्रव्याभावः। ध्रौवस्येव द्रव्यत्वात्। नापि देवताया असंभवः। नानाशाखासूयांशुयाजक्रमे पठितैर्वैष्णवप्राजापत्याग्नीषोमीयमन्त्रैर्विकल्पेन देवतात्रयस्य प्रतीयमानत्वात्। तस्माद्यजतीत्येतद्विधायकम्। दशमाध्यायस्यान्तिमपादे चिन्तितम् ‘उपांशुयाजे यत्किंचिद्द्रव्यमाज्यमुताग्रिमः। विशेषानुक्तितो मैवं ध्रौवाज्यस्य विधानतः” ।। “उपांशुयाजमन्तरा यजति” इत्यत्र द्रव्यविशेषस्यानुक्तादैच्छिकं दव्यमिति चेन्न। आज्यस्य श्रुतत्वात्। तावब्रूतामग्नीषोमावाज्भस्यैव तावुपांशु पौर्णमास्यां यजन्निति श्रुतम्। न चैवमप्यनियतं यत्किंचिदाज्यं स्यादिति शङ्कनीयम्। ध्रौवस्य विहितत्वात्। ‘सर्वस्मै वा एतद्यज्ञाय गृह्यते। यद्ध्रुवायामाज्यम्” इति विहितम्। विध्यश्रवणेपि ध्रौवाज्यस्य सप्रयोजनत्वाय विपरिणामः कर्तव्यः। तत्रैवान्यच्चिन्तितम् तत्र यः कोपि देवः स्यात्तान्त्रिको वाग्रिमो भवेत्। अविशेषात्प्रकरणात्तन्त्रिकोत्र नियम्यते तत्रोपांशुयाजे या काचिद्देवता स्यात्। विष्णुरुपांशु यष्टव्य इत्यादरेर्थवादत्वेनाविधायकत्वात्, अन्यस्य च देवताविधेरदर्शनात्, यागेन देवतामात्रस्यैव कल्पनाच्च। मैवम्। उपांशुयाजस्य दर्शपूर्णमासप्रकरणपठितत्वाद्दर्शपूर्णमासतन्त्रमध्यपठित एव कश्चिद्देवः प्रत्यासत्त्योपांशुयाजे नियम्यते।”
तत्रैवान्यच्चिन्तितम् “कोपि देवस्तान्त्रिकेषु नियतो वा तदापि किम्। प्रजापतिरुताग्निः स्यादग्नीषोमावुतापि वा।।
विष्णुर्यद्वग्निमुत्सृज्यं विकल्प्यं देवतात्रयम्। कोप्यत्रानियमान्मैवमुपांशाशुत्वादियन्त्रणात्।
प्रजापतिरुपांशुत्वान्न तूष्णींभावयोगतः। अग्निर्मुख्यत्वतो मैवं तद्याज्यादेरपाठतः।
अग्नीषोमौ तदुक्तेर्नो तत्र कालविधानतः। विष्णुर्याज्यादितस्तन्न प्राजापत्योक्तिबाधनात्।।
याज्यत्रैविध्यतः प्राप्ता विकल्प्यन्तेत्र देवताः। विधिशेषार्थवादेपि प्राप्तं त्रयमनूद्यते”।
“तान्त्रिकदेवेषु नियामकाभावाद्यः कोपीति चेन्न। वक्ष्यमाणानामुपांशुत्वादीनां नियामकत्वात्। ‘यत्किंचित्प्राजापत्य यज्ञे क्रियते, उपांश्वेव तत्क्रियते” इतिवचनादुपांशुत्वधर्मसाम्येन प्रजापतिदेवतेति चेन्न। प्रजापतिं मनसा ध्यायेदिति विधेस्तूष्णींभावस्यैव प्रजापतिधर्मत्वात्। प्रथमयागदेवत्वेन मुख्यत्वादग्निर्देवतेति चेन्न। तदुपांशुयाजक्रमेग्निविषययाज्याद्यपाठात्। तावब्रूतामित्यादिपूर्वोदाहृतवाक्यादग्नीषोमौ देवतेति चेन्न। तस्य वाक्यस्य पौर्णमासीकालविधायकत्वात्। कस्यांचिच्छाखायामुपांशुयाजक्रमे वैष्णवयाज्यापुरोनुवाक्ययोः पाठाद्विष्णुर्देवतेति चेन्न। तथा सति शाखान्तरप्रोक्तयोः प्रजापत्ययाज्यापुरोनुवाक्ययोर्बाधः प्रसज्येत। तस्मान्नानाशाखासु पठिताभ्यां विष्णुप्रजापत्यग्नीषोमविषयाभ्यां याज्यापुरोनुवाक्याभ्यां प्राप्तास्तिस्रो देवता विकल्पते। अत एवोपांशु याजविधिशेषेर्थवादेप्येतदेव प्राप्तं देवतात्रयमनूद्यते—विष्णुरुपांशु यष्टव्योजामित्वाय प्रजापतिरुपांशु यष्टव्योजामित्वायाग्नीषोमावुपांशु यष्टव्यावजामित्वाय इति। तस्माद्देवताविकल्पः सिद्धान्तः।”
तत्रैवान्यच्चिन्तितम् “दर्शादिर्वा तस्य कालो दर्श एवान्य एत वा। द्विपुरोडाशसांनिध्यादाद्यो दर्शेग्नितोग्रतः।।
विष्णुयाज्योक्तितो युक्तो मध्यमः पूर्णिमाविधे। स एव कालो याज्याया उत्कर्षः पूर्णिमादिने”।।
“जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशावुपा शुयाजमन्तरा यजत्यजामित्याय” इति पुरोडाशयोर्मध्येसो यागो विहितः। पुरोडाशौ च पौर्णमास्यामाग्नेयाग्नीषोमीयौ। अमावास्यायामाग्नेयैन्द्राग्नौ। ततो द्विपुरोडाशसंनिधेः समानत्वद्दर्शः पूर्णिमा चेत्युभयमपि तस्योपांशुयाजस्य काल इत्याद्यः पक्षः। अमावस्यां प्रकृत्य याज्याकाण्ड आग्नेययाज्याया ऊर्ध्वमैन्द्राग्नायाज्याय अधस्ताद्वैष्णवयाज्यायाः पाठात्प्रकरणस्य संनिधितः प्रबलत्वाद्दर्श एव काल इति मध्यमः पक्षः। तावब्रूतामग्नीषोमावाज्यस्यैव तावुपांशु पौर्णमास्यां यजन्निति पौर्णमास्यास्तत्कालत्वेन विधानाद्वाचनिकस्य च विधेः प्रबलत्वात्पौर्णमास्येव कालः तथा सति वैष्णवयाज्या प्रकरणादुत्कृष्यताम्। तत्रैवान्यच्चिन्तितम्
“पुरोडाशैक्ययुक्तायां पौर्णमास्यामयं न हि। स्याद्वा नास्त्यन्तरेत्युक्तेर्लक्ष्ये कालेस्ति शङ्खवत्।।”
सोमात्प्रामग्नीषोमीयपुरोडाशरहिता केवलाग्नेयपुरोडाशयुक्ता पौर्णमासी भवति। स सोमेनेष्ट्वाग्नीषोमीयो भवतीति वाक्येनाग्नीषोमयोः सोमोत्तरकालीनत्वावगमात्तस्यामयमुपांशुयाजो यागो नास्ति। कुतः। उपांशुयाजमन्तरा यजतीति पुरोडाशद्वयान्तरालवत्त्वस्य गुणत्वेन विधानादिति प्राप्ते ब्रूमः- किं यागे पुरोडाशावन्तरालकालस्य विशेषणभूतावुतोपलक्षणीभूतौ नाद्यः। अन्तरालवत्तद्विशेषणयोरप्युपांशुयाजगुणत्वप्रसङ्गात्। न वैतद्युक्तम्। उपांशयाजवत्तयो रपि स्वातन्त्र्येणैव फलान्वयात्। द्वितीये तु शङ्खन्यायेनोपलक्षकस्याग्नीषोमीयपुरोडाशस्याभावेप्युपलक्षिते काले यागोस्ति। यथा शङ्खध्वनिवेलायां राजसेवार्थं प्रतिदिनमागन्तव्यमित्युक्ते कस्मिंश्चिद्दिने शङ्खं धमतः पुरुषस्याभावेनोपलक्षकस्य ध्वनेरभावेप्युपलक्षिते तस्मिन्काले सेवकः समागच्छति तथात्रापि द्रष्टव्यम्। यदि तत्र कालेपलक्षकमन्यदेव व्यापारसूर्यगत्यादिकं संभाव्येत तह्यत्रापि संभवत्येवाग्नेयपुरोडाश उपलक्षकः। तस्मादेकपुरोडाशायामपि पौर्णमास्यामस्त्युपांशुयाजः। तृतीयाध्यायस्य पञ्चमपादे चिन्तितम् “उपांशुयाजद्रव्येण शेषकार्यं भवेन्न वा। भवेद्धविर्भ्यः सर्वेभ्य इत्युक्त्या प्रापितत्वतः।। उक्ताज्यद्रव्यशेषस्तु भाव्युपस्तरणादिकृत्। अतो न प्रविपत्त्यर्हः शेषकार्यं ततः कथम्”।।
ध्रौवादाज्यादुपांशुयाजार्थमवदाने कृते तच्छेषेण ध्रौवेण स्विष्टकृदादिकं शेषकार्यं कर्तव्यम्। कुतः। “तद्यत्सर्वेभ्यो हविर्भ्यः समवद्यति” इति वाक्येन प्रापितत्वादिति चेन्मैवम्। कृतार्थद्रव्यशेषो ह्युपयोगपेक्षः प्रतिपत्तिमर्हति। ध्रौवंत्याज्यं न कृतार्थम्। तेन कर्तव्यानां भविष्यतामुपस्तरणादीनां सद्भावात्। तस्मान्न तेन शेषकार्यं भवति। चतुर्थाध्यायस्य प्रथमपादे चिन्तितम् “स्विष्टकृत्संस्कृतौ क्षीण उतापूर्वोपयोग्यपि। प्रयोजनैक्यमेकास्मिन्युक्तं कर्मण्यतः क्षयी।। मन्त्रेण देवसंस्कारः प्रक्षेपाद्द्रव्यसंस्कृतिः। त्यागादपूर्वमुत्पन्नं प्रधानापूर्वगं च तत्”।। योयं स्विष्टकृद्यागाः सोयमुपयुक्तहवि शेषसंस्कार इत्यविवादम्। तत्र संस्कारस्य डष्टप्रयोजनत्वेनावश्यंभावे सति तावतैवोपक्षीणः स्विष्टकृद्यागो नापूर्वस्योपकरोति। नह्येकस्मिन्कर्मणि प्रयोजनद्वयं युक्तामिति प्राप्ते ब्रूमः- कर्मण एकत्वेप्यंशभेदात्प्रयोजनभेदो न विरुध्यते। मन्त्रपाठो द्रव्यप्रक्षेपो देवतोद्देशेन त्या गश्चेति त्रयोशाः। तत्र त्यागेन परमापूर्वोपयुक्तमवान्तरापूर्वमुत्पद्यते। तस्मात्स्विष्टकृदुभयार्थः। एवमन्त्यप्रयाजपशुपुरोडाशावप्युदाहार्यौ। तत्रैवान्यच्चिन्तितम् “प्रयोजकः स्विष्टकृत्किं पुरोडाशोत्तरर्धयो। यद्वा प्रयुक्तोपजीवी स्यादाद्यः स्वस्य सिद्धये।। उत्तरार्धेतिशब्दस्य प्रकृताकाङ्क्षणे सति। अग्न्याद्यर्थं पुरोडाशमुपजीव्यैष वर्तताम्”।।
दर्शपूर्णमासयोः श्रूयते “उत्तरार्धात्स्विष्टकृते समवद्यसि” इति। सोयं स्विष्टकृद्यागः कस्यचिन्नूतनस्य पुरोडाशस्य तदुत्तरार्धस्य च प्रयोजकः। तदुभयाभावे स्वसिद्ध्यभावादिति चेन्मैवम्। उत्तरशब्दोर्धशब्दश्च सर्वनामत्वाद्भागवाचित्वाच्च प्रकृतं कंचिद्भागिनमाकाङ्क्षतः। अग्न्यादिदेवतार्थः पुरोडाशः प्रकृतोभागवांश्च। तस्मात्तमेवोपजीव्य स्विष्टकृद्यागः प्रवर्तते न त्वन्यस्य प्रयोजकः। तृतीयाध्यायस्य चतुर्थपादे चिन्तितम् “शेषात्स्विष्टकृदेकस्मात्सर्वेभ्यो वैकतः कृतेः। शास्त्रार्थसिद्धिः सर्वेभ्यः कार्यः संस्कारसाम्यतः ”।।
“दर्शपूर्णमासयोः श्रूयते—“शेषात्स्विष्टकृते समवद्यति” इति। तत्राग्नेयादीनां त्रयाणां हविषं मध्ये यस्य कस्यचिदेकस्य हविषः शेषादवदातव्यं, तावतैव शास्त्रार्थानुष्ठानसिद्धेरिति वेन्मैवम्। उपयुक्तं हविः संस्कर्तुमिदमवदीयते।”
संस्कारश्च सर्वेष्वपि हविःषु समानः। तस्मात्सर्वेभ्यो हविःशेषेभ्यः स्विष्टकृदनुष्ठेयः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके षष्ठोनुवाकः ।। ६।।
(अथ द्वितीयकाण्डे षष्ठप्रपाठके सप्तमोनुवाकः ) …
अत्र मीमांसा। नवमाध्यायस्य प्रथमपादे चिन्तितम् “ऊह्यो यज्ञपतिर्नो वा वृद्ध्यर्थोत्साहतोग्रिमः।”
प्रत्यक्षोक्त्या कृत्स्नमन्त्र इडार्थो नोहनं ततः”।। दर्शपूर्णमासयोरिडोपाह्वानमन्त्रे वाक्यमेतदाम्नायते- “दैव्या अध्वर्यव उपहूताः। उपहूता मनुष्याः। य इमं यज्ञमवान्। ये यज्ञपतिं वर्धान्” इति। ये दैव्या अध्वर्यवो यज्ञमवन्ति ये च मनुध्या यज्ञपतिं वर्धयन्ति ते सर्वेप्यत्रोपहूता इत्यर्थः। अस्मिन्वाक्ये यज्ञपतेरभिवृद्धिकथनेनोत्साहजननेन समवेतोर्थः प्रतीयते। तत इडोपह्वानमन्त्रात्पृथक्कृत्याभिवृद्ध्यर्थे जपे यज्ञवाक्यमिदं लिङ्गेन विनियुज्यताम्। तथा सति सत्रे यज्ञपतीनां बहुत्वाब्दहुवचनान्ततया यज्ञपति शब्द ऊहनीय इति प्राप्ते ब्रूमः प्रत्यश्रुत्या कृत्सनो मन्त्र इडोपह्वाने विनियुक्तः। एकवाक्यत्वं च कृत्स्नमन्त्र उपलभ्यते। प्रकरणं चेदमिडायाः। अतः श्रुति वाक्यप्रकरणैर्विरोधान्न लिङ्गविनियोगः संभवति। तदभावे च यज्ञपतिवृद्धिप्रतिपादकमवान्तरवाक्यमिडाप्रतिपादकेन महावाक्येन सहैकवाक्यतापन्नमिडां प्रशंसति। प्रशंसा चैकवचनान्तेनापि यज्ञपतिशब्देन सिध्यतीति नास्ति सत्रे तदूहः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके सप्तमोनुवाकः।। ७ ।।
(अथ द्वितीयकाण्डे षष्ठप्रपाठकेष्टमोनुवाकः)। (इडाप्राशित्रभक्षयोरभिधानम्)
इडोपाह्वानमुदितमनुवाके हि सप्तमे। इडाप्राशित्रभक्षौ द्वावुच्येते अष्टमे पुनः।।
…
अत्र मीमांसा। षष्ठाध्यायस्य चतुर्थपादे चिन्तितम् “इडाद्यर्थस्य नाशेन्यः शेषाद्ग्राह्यो न वाग्रिमः।”
शेषसत्वान्न शेषेन्यप्रतिपत्त्यवरोधनात्”।। इडाभक्षणार्थं प्राशित्रभक्षणार्थं वावत्तं यदि नश्येत्तदा शेषस्य सद्भावात्तस्माच्छेषात्पुनरवदेयमिति चेन्न। तस्य शेषस्यान्यथाप्रतिपत्त्या शंयुवाङ्गकालीनभक्षरूपयावरुध्दत्वात्। तस्मादवत्तनाशे द्रव्याभावादिडादिकं लुप्यते।तत्रैवान्यच्चिन्तितम् “शेषभक्षाः किमन्येषामृत्विजां वान्यभक्षणम्।
इडायाः परिसंख्यानात्स्वाम्यप्राप्तौ ततोन्तिमः”।। दर्शपूर्णमासयोर्ये प्राशित्रादिशेषभक्षास्तेषां भक्षणमृत्विग्भ्योन्यैः कार्यम्। कुतः। ऋत्विजां परिसंख्यातत्वात्। ऋत्विजां कर्मकरत्वादेव भक्षप्राप्तौ सत्यां पुनरप्येवमाम्नायते—-‘यजमानपञ्चमा इडां भक्षयन्ति’ इति। तदेतत्पुनराम्नातं परिसंख्यार्थम्। यजमानसहिता ऋत्विजः प्राशित्रादिकं न भक्षयेयुरित्यर्थः तस्मादृत्विग्भ्योन्येषां प्राशित्रादिभक्षणमिति चेन्मैवम्। यजमानस्य कर्मकरत्वाभावेन पूर्वप्राप्तं भक्षणमनेन विधीयते। तस्मादपरिसंख्यातत्वादृत्विजामेव प्राशित्रादिभक्षणम्।
तृतीयाध्यायस्य तृतीयपादे चिन्तितम् “प्रविष्टभागः पूषेति प्रकृतौ विकृतावुत। इष्टिप्रकरणादेव प्रकृताविति युज्यते।। संतर्दनादिवद्वाक्याद्विकृतौ पूषसंभवात्। सिद्धस्य पुनरप्युक्तिरधिकस्य विवक्षया”।। दर्शपूर्णमासप्रकरणे श्रूयते तस्मात्पूषा प्रपिष्टभागोदन्तको हि इति। तत्र दन्तरहितस्य पूष्णः पिष्टभगत्वं संतर्दनाद्यधिकरणन्यायेन प्रकरणादुत्कृष्यतया विकृतिगामित्यवगम्यते। तथाप्युत्तराधिकरणेषु तस्मिन्नेव विषये विशेषं वक्तुमिह प्रस्तूयते। तत्रैवान्यच्चिन्तितम् “चरौ पशौ पुरोडाशे चरावेवोत पेषणम्। विशेषादर्शनादेतत्सर्वेष्वपि विधीयते।। प्राप्तत्वान्न पुरोडाशे हृदाद्याकारनाशनात्। न पशौ पारिशेष्येण चरावेव हि पेषणम्”।। “पौष्णं चरुं निर्वपेत्” इति चरुर्विहितः। “पौष्ण श्यामालभेतान्नकामः” इति पशुविधिः। पशुनालभ्य पुरोडाशं निर्वपतीत्येतच्चोदकेन प्रौष्णपशौ प्राप्तम्। तत्र यद्देवत्यः पशुस्तद्देवत्यः पुरोडाश इति न्यायेन पुरोडाशस्यपूषा देवता। तत्र पूर्वोक्तपेषणं विषयीकृत्योच्यमानाः संशयपूर्वोत्तरपक्षाः स्पष्टाः। तत्रैवात्यच्चिन्तितम् “द्विदेवकेपि किं पिंष्यादुत पूषैकदेवके। द्विदेवकेपि तत्पूष्णः सत्त्वात्पेषणभागिनः।। देवता विफलत्वेन पेषणं न प्रयोजयेत्। यागस्य तत्वे भागोक्तेर्न यागान्तरगामि तत्”।। राजसूये श्रूयते— “सोमापौष्णं चरुं निर्वपेदैन्द्रापौष्णं चरुम्” इति। तत्र द्विदेवके चरौ पिष्टभाजः पूष्णः सत्त्वात्प्रेषणं पूषार्थं कर्तव्यमिति चेत्। तत्रेदं वक्तव्यं- किं पेषणस्य देवता प्रयोजिका किंवा भागः। नाद्यः। यागमन्तरेण केवलदेवता फलजनकत्वाभावेन पेषणं प्रयोक्तुं न प्रभवति। पौष्णस्य यागस्य पेषणप्रयोजकत्वे तु तत्पेषणं द्विदेवके यागान्तरे गन्तुं नार्हति। पूषा प्रपिष्टभाग इत्यत्र यागो न श्रुत इति चेन्मैवम्। भागशब्दान्यथानुपुपत्त्या यागस्य कल्प्यत्वात्। नहि देवतात्वमन्तरेण पिष्टद्रव्यभाक्त्वं सिध्यति। सति च देवतात्वे द्रव्यदेवतायोर्लाभाद्यागः कल्प्यते। तस्मादेकदेवकयागस्य पेषणप्रयोजकत्वान्न द्विदेवके यागे पेषणमस्ति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके अष्टमोनुवाकः।। ८।।
अथ द्वितीयाष्टके षष्ठप्रपाठके नवमोनुवाकः।) (अनूयाजसूक्तवाकानामभिधानम्)
अष्टमे स्पष्टमुदितमिडाप्राशित्रभक्षणम्। अनूयाज्याः सूक्तवाका नवमे द्वयमीर्यते।।
…
अत्र मीमांसा। (* दशमाध्यायस्य चतुर्थपादे चिन्तितम्—
अनूयाजोन्तिमो योसौ किमारादुपकारकः। स्विष्टकृत्संस्कृतिर्वाद्योनूयाजान्तरसाम्यतः।। * धनुश्चिह्नान्तर्गतो ग्रन्थः ख. पुस्तकस्थः। “स्विष्टकृत्त्वगुणस्याग्नेः प्रत्यभिज्ञार्थवत्वतः। दृष्टार्थत्वाच्च संस्कारो भवेदन्त्यप्रयाजवत्”
“दर्शपूर्णमासयोस्त्रयोनूयाजाः समाम्बाताः। तत्र प्रथमद्वितीयानूयाजवत्तृतीयोप्यारादुपकारक इति पूर्वपक्षः। अस्ति प्रधानहोमनारिष्टहोमानन्तरभावी प्राशित्रादिभक्षणात्प्राचीनः पुरोडाशादिद्रव्यकः स्विष्टकृद्धोमः, सर्वेषां हविषामुत्तरार्धात्सकृत्सकृत्स्विष्टकृतेवद्यतीत्यादिना तदभिधानात्। प्राशित्रादिभक्षणोत्तरकालीनेष्वाज्यद्रव्यकेष्वनूयाजेषु तृतीये स्विष्टकृत्त्वगुणेन प्रत्यभिज्ञास्ति, देवो अग्निः स्विष्टकृदिति मन्त्रपाठात्। सा च पूर्वस्विष्टकृद्देवता स्मरणसंस्कारे सत्यर्थवती स्यात्। प्रथमद्वितीययोस्तु नास्ति सेति वैषम्यम्। किंच, संस्कारपक्षे दृष्टार्थस्तृतीयः स्यात्। तस्मादन्त्यप्रयाजवदन्त्योनूयाजः स्यात्।”
“तृतीयाध्यायस्य द्वितीयपादे चिन्तितम् प्रस्तरं सूक्तवाकेन प्रहरेदिति कालधीः। अङ्गाङ्गिता वा स्यात्कासाजुषतेत्याद्यनन्वयात्।। प्रहृतेरिष्टदेवार्थसंस्कारत्वात्तदन्वयः। संपाद्यो देवताद्वारा तृतीयाश्रुतितोङ्गता”।।
“दर्शपूर्णमासयोराम्नायते—“सूक्तवाकेन प्रस्तरं प्रहरति” इति। “इदं द्यावापृथिवी” इत्यादिमन्त्रः सूक्तवाकः। तस्मिन्मन्त्रेग्निं संबोध्य त्वं सूक्तवागसीत्याम्नानात्। प्रस्तरो दर्भमुष्टिस्तस्य प्रहरणमग्नौ प्रक्षेपः। तत्र सूक्तवाकेनेत्येतत्पदं कालं लक्षयति। होत्रास्मिन्मन्त्रे पठ्यमाने तत्पाठकालेध्वर्युः प्रस्तरं प्रहरेत्। न त्वत्र प्रहरणे मन्त्रोयं विनियोक्तुं शक्यः, पूर्वोक्तमैषमन्त्रवदत्रान्वयाभावात्। “अग्निरिदं हविरजुषत। अवीवृधत महो ज्यायोकृत।” इत्यादिकं मन्त्रे पठ्यते। पुरोडाशसेवयाभिवृद्धोग्निस्तस्मिन्यजमाने तेजोबाहुल्यं कृतवानिति तस्यार्थः। न चासौ प्रस्तरप्रहरेणन्वेतुं शक्य इति प्राप्ते ब्रूमः-सूक्तवाकेनेति तृतीयाश्रुत्या प्रहरणे मन्त्रो विनियुज्यते। न चात्यन्तमन्वयाभावः। मन्त्रो ह्ययं पूर्वमिष्टानग्न्यादिदेवाननुस्मारयति। प्रस्तरप्रहरणं चेष्टदेवतासंस्कारः। अतो देवताद्वारा मन्त्रप्रहरणयोरन्वयान्मन्त्रो विनियुज्यते। ननु प्रहरणं नामं प्रक्षेपमात्रं न तु देवतोद्देशेन प्रक्षेपः। यजिधातोरश्रवणात्। तथा सति देवतानामत्राभावत्तद्द्वारापि नान्वय इति चेन्मैवम्। देवतानां सद्भावात्। अग्न्यादिदेवताप्रकाशकस्य सूक्तवाकस्य तृतीयाश्रुत्या प्रस्तरप्रहरणाङ्गत्वं बोध्यते। यदि प्रहरणेग्न्यादयो देवता भवेयुस्तदा तत्प्रकाशने दृष्टोर्थो मन्त्रस्य लभ्यते। ततो देवताप्रकल्पने तदुद्देशपूर्वकस्य प्रक्षेपस्य यागत्वं सिध्यति। तस्माद्देवताद्वारास्त्येवान्वयः। तत्रैवान्यच्चिन्तितम् प्रहृतेरखिलं सूक्तवाकोङ्गं स्याद्विभज्य वा।”
“समाख्या कृत्स्नगा तेन विभक्तस्याङ्गता नहि। दर्शपूर्णिमयोर्देवाननुसृत्य विभज्यताम्। आख्यां लिङ्गेन बाधित्वा भागे नाम निरुच्यते।।” पूर्वोदाहृते मन्त्रे सूक्तवाकसमाख्या कृत्स्नमन्त्रविषया याज्ञिकैः कृत्स्न तच्छब्दप्रयोगात्। ततः सर्वोपि प्रहरणाङ्गमिति चेन्न। लिङ्गेन समाख्याया बाधितत्वात् तस्मिन्मन्त्रे पूर्णमासदेवताम्नानं कस्मिंश्चिद्भागे दृश्यते—“अग्नीषोमाविद हविरजुषेताम्” इति,। भागान्तरे तु दर्शदेवताम्नानम्–“इन्द्राग्नी इद हविरजुषेताम्” इति, इन्द्र इद हविरजुषत इति, “महेन्द्र इद हवि रजुषत” इति च इन्द्रग्नीन्द्रमहेन्द्राः पुरुषभेदेन दर्शे व्यवस्थिताः। तथा सति मन्त्रलिङ्गेन तत्तद्भाग एव तत्तत्काले व्यवतिष्ठते। सूक्तवाकशब्दश्च भागे यौगिकः सूक्तं वक्तीति तद्व्युपत्तेः। यागकाले तत्तन्मन्त्रेण सम्यगुक्तं देवं वक्तीत्यर्थः। अत एव ब्राह्मणेन व्याख्यातन् “अग्निरिद हविरजुषतेत्याह या अयाक्ष्म देवतास्ता अरीरधामेति वावैतदाह” इति। अरीरधामाराधितां (ता) स्तुष्टान (अ) कुर्मेत्यर्थः। तस्मादयं विभज्यं विनियुज्यते। (* तत्रैव तृतीये चिन्तितम् “अग्नीषोमाविदं हव्यमजुषेतामितीरितात्। अपच्छिद्येदमित्यादिः सर्वशेषो भवेन्न वा।।” * धनुश्चिह्नान्तर्गतो ग्रन्थः ख. च. पुस्तकयोर्नास्ति। “प्रक्रियातो भवेन्मैवं प्रक्रियान्तरिता त्रिभिः। वाक्यं द्व्यन्तरितं तेन भवेत्प्रकरणाद्बलिः”।।”
“सूक्तवाके श्रूयते—“अग्नीषोमाविद हरिरजुषेताम्। अवीवृधेतां महोज्यायोक्राताम्। इन्द्राग्नी इद हविरजुषेताम्” इत्यादि। तत्र देवतावाचकमग्नीषोमादिपदं पौर्णमास्यादिकाले यथादैवतं विभज्य प्रयोज्यमिति पूर्वपादे निर्णीतम्। यत्त्विदं हविरित्यादिकमवशिष्टं पदजातं तदग्नीषोममन्त्रगतमप्यमावास्यायामग्नीषोमपदपरित्यागेन पठनीयम्। एवमिन्द्राग्निमन्त्रगतमपि पौर्णमास्यामिन्द्राग्निपदपरित्यागेन पठनीयम् । तथा सत्येषां मन्त्रभागानां (णां) सर्वशेषत्वबोधको दर्शपूर्णमासप्रकरणपाठोनुगृह्यत इति प्राप्ते ब्रूमः- अग्नीषोममन्त्रशेषस्येन्द्राग्निपदान्वयाश्रवणात्। प्रकरणेन प्रथमं तदन्वयरूपं वाक्यं कल्पनीयम्। तेन च वाक्ये नेन्द्रादिप्रकाशनसामर्थ्यरूपं लिङ्ग कल्प्यते। तच्च लिङ्गमनेन मन्त्रभागेने (णे) न्द्राग्निविषभा किवानुष्ठेयेति विनियोजिकां तृतीयाश्रुतिं कल्पयति। ततः प्रकरणविनियोजकयोर्मध्ये त्रिभिर्व्यधानं भवति। अग्नीषोमपदान्वयरूपं तु वाक्यं श्रूयमाणत्वाल्लिङ्गश्रुतिभ्यामेव व्यवधीयते। तस्माद्वाक्येन प्रकरणस्य बाधितत्वात्तत्तच्छेषस्तत्र तत्र व्यवतिष्ठते। नवमाध्यायस्य प्रथमपादे चिन्तितम् “यजमानो नोहितव्य ऊह्यो वा नहि पूर्ववत्। मन्त्रः फलप्रधानोत ऊह्य सर्वफलित्वतः”।। दर्शपूर्णमासयोः “सूक्तवाकेन प्रस्तरं प्रहरति” इति प्रहरणकरणत्वेन विनियुक्ते सूक्तवाकमन्त्रे वाक्यमेतदाम्नायते—“अयं यजमान आयुराशास्ते” इति। तत्र पूर्वोक्तयज्ञपतिशब्दवत्सत्रेषु यजमानशब्दो नोहितव्य इति चेन्न। वैषम्यात् तथा हि सर्वत्र प्रकरणे मन्त्रो द्विविधः-क्रियाप्रकाशकः फलप्रकाशकश्चेति। पूर्वोदाहृतो मन्त्र इडोपाह्वानक्रियाप्रकाशकः। उपहूत रथंतर सह पृथिव्येत्यनुवाके तदुपाह्वानमन्त्ररूपे सर्वस्मिन्नपि तदवभासात्। इडोपहूता। उपहूतेडा उषो अस्मा इडां ह्वयताम्। इडोपहूता। उपहूतेडा। दैव्या अध्वर्यव उपहूताः इत्यादिभिरवान्तरवाक्यैरुपाह्वानक्रियाया एव प्राधान्यावभासात्तन्मध्यपतितं त्वेकमेव यज्ञपतिवाक्यं वृद्धिरूप फलं गमयतीति न तस्य स्वार्थो विवक्षितः। सूक्तवाकमन्त्रस्तु फलमेव प्रकाशयति न तु प्रहरणक्रियाम्। “इदं द्यावापृथिवी भद्रमभूत्” इत्येतस्मिन्ननुवाके सूक्तवाकमन्त्रे सर्वस्मिन्नपि फलावभासात्। “अयं यजमान आयुराशास्ते सुपजास्त्वमाशास्ते सजातवनस्यामाशास्त उत्तरां देवयज्यामाशास्ते” इत्यादिभीः सर्वैरप्यवान्तर वाक्यैः फलस्यैवावभासनात्। तस्माद्विवक्षितं फलं, फलिनश्च सर्वे यजमानाः। ततः सर्वेषां फलसिद्धये यजमानशब्दो बहुवचनान्तत्वेन सर्वेषु सत्रेषूहनीयः। दशमाध्यायस्य द्वितीयपादे चिन्तितम् “सूक्तवाकाशासनं स्यान्न वा नित्यप्रवृत्तितः। स्यान्मैवं फलनिर्देशात्फलेच्छास्थ्नां न युज्यते”।। “इदं द्यावापृथिवी” इत्यादिः सूक्तवाको होत्रा पठ्यते। तत्रैवं श्रूयते—“आशास्तेयं यजमानोसौ। आयुरास्ते” इत्यादि। तत्र सूक्तवाकगतो योयं यजमानाशासनप्रतिपादको मन्त्रभागस्तमस्थियज्ञे होता पठेन्न वेति संशयः। अस्थियज्ञगतायाः प्रायणीयादेरिष्टेः प्रस्तरप्रहरणमङ्गं, तस्य नित्यत्वात्तस्मिन्विनियुक्तस्य सूक्तवाकमन्त्रस्य नित्यप्रयुक्ततया तद्भागपाठोवि स्यादिति पूर्वः पक्षः। यथा स्वर्गकाग इत्यत्र कमियोगेन स्वर्गस्य साध्यताप्रतीतेः स्वर्गशब्देन फलनिर्दशः, एवमाशासनयोगादायुरादिशब्दैः फलं निर्दिश्यदे। फलेच्छा चास्थ्नां न युक्ता। तस्मात्तद्भागपाठो बाध्यते।”
तत्रैवान्यच्चिन्तित्म् “मृतेः प्रागायुराशीर्नो स्याद्वा नो मृतिकामनात्। प्रागार्भवाज्जीवनार्थमायुराशासनं भवेत्।।”
होत्रा पठितव्ये सूक्तवाके योयमायुराशास्त इति भागो यजमानविषयः स किं सर्वस्वारे यजमानमरणात्पूर्वं वर्णनीयः पठितव्यो वेति संशयः। मुमूर्षोर्यजमानस्यायुर्निरपेक्षत्वेनार्द्धलोपाद्वर्जनीय इति पूर्वः पक्षः। आर्भवाख्ययस्य पवमानस्य स्तुयमानत्वं यजमानस्य मरणकालः ततः पूर्वं जिजीविषुत्वात्पठनीय।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे- दीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके नवमोनुवाकः ।। ९ ।।
(अथ द्वितीयकाण्डे षष्ठप्रपाठके दशमोनुवाकः)। (सूक्तवाकमन्त्रव्याख्यापत्नीसंयाजानामभिधानम्)
“अनूयाजाः सूक्तवाकव्याख्या नवम ईरिता।।
…
अत्र मीमांसा। तृतीयाध्यायस्य चतुर्थपादे चिन्तितम् “विप्रायावगुरेन्नेति क्रत्वर्थो वा पुमर्थता।
फलवत्क्रतुसांनिध्यात्क्रत्व र्थः पूर्वमन्त्रवत्।। यातनापरिहारस्य निषेधफलतोचिता।
“निषेधोयं पुमर्थत्वात्प्रक्रियातोपकृष्यताम्।। दर्शपूर्णमासप्रकरणे श्रूयते यो ब्राह्मणायावगुरेत्तं शतेन यातयात्तस्माद्ब्राह्मणाय नावगुरेत” इति। तत्र यथा पूर्वाधिकरणे मन्त्रपाठस्य फलरहितस्य फलवति क्रतावङ्गत्वं प्रकरणेनावगम्यते, एवमत्रापि ब्राह्मणावज्ञानिषेधस्य क्रतावश्रुतत्वादिति चेन्मैवम्। वैषम्यात्। पूर्वत्र ह्यात्मप्राणापानधारणं मन्त्रोच्चारफलं न संभवति। तस्य प्रागेव ,सिद्धत्वात्। इह त्ववगोरणे शतसंवत्सरयातनामुपन्यस्यावगोरणनिषेधाद्यातनापरिहारस्य निषेधफलत्वमुचितम्। तस्मान्निषेधस्य केवलपुरुषार्थतया प्रकरणादपकर्षो युक्तः। तत्रैव तृतीयपादे चिन्तितम् “संयाजयन्ति जाघन्या पत्नीरेतत्पशावुत। दर्शादौ तत्पशौ युक्तं जाघन्याः समयावतः।।”
जाघनी नाम भागोसौ दर्शादौ समवैति हि।नोत्क्रष्टव्यं न संस्कार्यसाधनत्वात्तृतीयया”।।
दर्शपूर्णमासप्रकरणे श्रूयते ‘जाघन्या पत्नीः संयाजयन्ति’ इति। जाघनी पशोः पुच्छम्। पत्नीशब्दोत्राहुतीचतुष्टयात्मकस्य कर्मणो नामधेयैकदेशः। अत एव श्रूयते-‘पञ्च प्रयाजा इज्यन्ते चत्वारः पत्नीसंयाजाः’ इति। तत्र तृतीयोहुतौ देवपत्नीनां देवतात्वात्तद्द्वारा कर्मनाम्नः पत्नीसंयाजशब्दस्य प्रवृत्तिः। तत्र जाघनीमुद्दिश्य पत्नीसंयाजसंस्कारो विधीयते। जाघनी च पशौ समवेता न तु दर्शपूर्णमासयोः। अतः प्रकरणदुत्कृष्य पशौ निवेश्यतामिति प्राप्ते ब्रूमः जाघनीशब्देन पशोर्भागोभिधीयते। स च दर्शपूर्णमासयोः पशुयागत्वा भावेपि क्रयादिना संपादयितु शक्यते। न चात्र पशौ विद्यमानाया जाघन्याः पत्नीसंयाजैः संस्कार्यत्वम्। तृतीयया साधनत्वावगमात्। तस्मान्न प्रकरणादुत्कर्षः।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके दशमोनुवाकः ।। १० ।।
(अथ द्वितीयकाण्डे षष्ठप्रपाठके एकादशोनुवाकः)। (संवर्गेष्टिहोत्रमन्त्राभिधानम्)
…
…
…
…
…
…
अत्र मीमांसा। तृतीयाध्यायस्य तृतीयपादे चिन्तितम् वेदत्रयोक्तधर्माणामृत्विग्भिः संगतिस्त्रिभिः। अनियत्या नियत्या वा नियतिर्नानिरूपणात्।। हौत्रकादिसमाख्यानं नियतर्गमकं स्वतः। निर्बाधं चान्यवत्तच्च तेनात्र विनियोजकम्।। याज्यापुरोनुवाक्यापाठादयो धर्मा ऋग्वेदे प्रोक्ताः। दोहननिर्वापादयो यजुर्वेदे। आज्यस्तोत्रपृष्ठस्तोत्रादयः सामवेदे। एतस्यैते धर्मा इति नियामकस्य दुर्निरूपत्वाद्येन केनाप्यृत्विजा यः कोपि धर्म इच्छया संगच्छत इति चेन्मैवम्। हौत्रमाध्वर्यवसौद्गात्रमिति समाख्यानेन नियतिर्बोध्यते। न च समाख्यानस्य बाधकं किंचित्पश्यामः। तस्मादबोधकत्वबाधितत्वयोश्चप्रामाण्यकारणयोरभावाच्छ्रुतिलिङ्गादिपञ्चकवत्प्रमाणेन समाख्यानेन धर्मा व्यवस्थाप्यन्ते। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके एकादशोनुवाकः ।। ११ ।।
अथ द्वितीयकाण्डे षष्ठप्रपाठके द्वादशोऽनुवाकः) (पितृयज्ञहविर्हौत्रमन्त्राभिधानम्)
एकादशे तु कथितं संवर्गेष्ट्यादि हौत्रकम्। द्वादशे पितृयज्ञस्य हविषां हौत्रमुच्यते।।
“कल्पः- “एकां सामिधेनीं त्रिरन्वाहोशन्तस्त्वा हवामह इत्येताम्” इति। पाठस्तु उशन्तस्त्वेति। हेऽग्ने वयमुशन्तः पितॄन्कामयमानास्त्वामाह्वयामः। पुनरपि पितॄनुशन्तस्त्वा समिधीमहि। त्वमपि कामयमानः कामयमानस्य यजमानस्य षितॄनावह किमर्थम्, हविषेऽत्तवे हविर्भोक्तुम्। कल्पः- ‘द्वे पुरोनुवाक्ये अन्वाहर्चमुक्त्वा प्रणौत्यपरामुक्त्वा प्रणौतित्वऽ सोमगचिकित इत्येता आम्नाता भवन्त्येका या ज्या’ इति। तत्र प्रथमां पुरोनुवाक्यामाह त्व ऽ सोमेति। हे सोम त्वं मनीषा मनीषया त्वदीयया बुद्ध्या प्रचिकितः प्रकर्षेण ज्ञातः। किंच, त्वं रजिष्ठं य (ष्ठ) मन्नोदकसंपूर्त्या रञ्जकं मार्गमनुनेषि अनुक्तमेव प्रापयसि। हे इन्दो तव प्रणीती प्रणीत्या परिचरणेन नोऽस्माकं पितरो देवेषु मध्ये स्थित्वा धीराः सन्तो रत्नं रमणीय हविरभजन्त। द्वितीयां पुरोनुवाक्यामाह त्वया हि न इति। हे पवमान शोधक सोम हि यस्मान्नोऽस्माकं पूर्वे पितरस्त्वयाऽनुगृहीताः कर्माणि चक्रुः परिस्मरन्तो जन्माति धीरास्तिष्ठन्ति (च)। (तस्मात्) त्वमप्यवातो वायुमनपेक्ष्य ज्वलनेनास्मदीयहविर्वन्वन्संभक्षयन्परिधीन्परिधिवत्सर्वतोऽवस्थितान्प्रतिबन्धकानपोर्णु निराकुरु। कैः साधनैः। वीरेभिर्यूद्धकुशलैरश्वैः। तथा नोऽस्मदर्थं मधवा धनवान्भव। अथ याज्यामाह त्व ऽ सोमेति। हे सोम त्वं पितृभिः संविदानः संविदं प्राप्तोऽनुक्रमेण द्यावापृथिवी आततन्थाऽतते व्याप्ते कृतवानसि। हे इन्द्रो हे सोम तस्मै ते तादृशाय तुभ्यं हविषा विधेम परिचरेम। त्वत्प्रसादाद्वयं धनानां पतयः स्याम। इत्यं “सोमाय पुतृमते पुरोडाशऽ षट्कपालम्” इत्यस्यानुवाक्याद्वयं याज्या चेति मन्त्रत्रयमुक्तम्। अथ “पितृभ्योऽग्निष्वात्तेभ्योऽभिवान्यायै दुग्धे मन्थम्” इत्येतस्य प्रथमा पुरोनुवाक्योच्यते। यद्यपि पाठक्रमेण तृतीयमिदं हविस्तथाऽपि लिङ्गस्य बलवत्त्वात्तत्र विनियोगो द्रष्यव्यः । पाठस्तु अग्निष्वात्ता इति। अत्र ये वा अयज्वानो गृहमेधिनस्ते पितरोऽग्निष्वात्ता इति श्रुतत्वाद्यागमकृत्यैव प्रेत्य पितृलेकं गता अग्निष्वात्ताः शोभना प्रणीतिरस्मत्कृता परिचर्या येषां ते सुप्रणीतयस्तथाविधा हे पितर इह कर्मण्यागच्छत। सदःसदस्तत्तदात्मीयं स्थानं सदत प्राप्नुत। अस्मिन्बर्हिषि यज्ञे प्रयतानि प्रयत्नेन संपादितानि हवींषि अत्त भक्षयत। अथानन्तरं रयिं सर्वेषु वैदिककर्मसु वीरः कुशलो यः पुत्रस्तादृशं पुत्रं च दधातन संपादयत।”
“अथ द्वितीया पुरोनुवाक्या याज्या चेत्युभयमाम्नातं, तच्च ये अग्निष्वात्ता इत्यादिकं कौकिल्यां सौत्रामण्यामाम्नाततमस्तत्रैव व्याख्यास्यते। अथ पितृभ्यो बर्हिषद्भ्यो धाना इत्यस्य प्रथमं पुरोनुवाक्यामाह बर्हिषद इति। बर्हिषि यज्ञे सीदन्तीति बर्हिषदः। अत्रापि ये वै यज्वानस्ते पितरो बर्हिषद इत्युक्तत्ताद्यागं कृत्वा प्रेत्य पितृलोकं प्राप्ता बर्हिषदः। तादृश्या हे पितरोऽर्वागर्वाचीनानामस्माकमूती रक्षा भवद्भिः कर्तव्येति शेषः। वो युष्मदर्थमिमा हव्या एतानि हवींषि चकृमातस्तानि जुषध्वमिति (म । ते) हविर्जुष्टवन्तो यूयमवसा रक्षणेन शंतमेन सुखतमेनास्मानागत तन्निंमित्तमागच्छतेत्यर्थः। अथास्मभ्यं प्रथममन्ते च शं सुखं दुःखवियोगं चारपः पापराहित्यं च दधात दत्त। अथ तत्रैव द्वितीया पुरोनुवाक्या आऽहं पितॄनिति। अहं यजमानः सुविदत्रान्मदीयां भक्तिं सुष्ठु जानतः पितॄनपि आवित्स्याभिमुख्येन लब्धवानस्मि। विष्णोर्व्यापिनोऽस्य यज्ञस्य नपातं विनाशाभावं विक्रमणं विशेषेण प्रवृत्तिं च लब्धवानस्मि। ये पितरो बर्हिषदस्त इहात्र कर्मणि आगमिष्ठा अतिशयेनाऽगताः। आदरपूर्वकमागत्य पित्वः प्रीतिं भजन्त प्राप्नुवन्तु। केन साधनेन, सुतस्य स्वधया सोमसमस्य हविषः स्वादुत्वेन। अथ तत्रैव याज्यामाह”
उपहूता इति। सोम्यासः सोम्या अस्मदनुग्रहपराः पितरो बर्हिष्येषु या मार्हेषु तृप्तिकरेषु निधिसदृशेषु हविःषु निमित्तभूतेषु सत्सूपहूता अस्माभिराहुतास्ते पितर आगमन्त्वागच्छन्तु। आगत्य चेहास्मिन्कर्मण्यस्माभिः प्रयुक्ताः स्तुतीः श्रुवन्तु। श्रुत्वा चाधिब्रुवन्तु साधुरयं यजमान इत्यादरेण कथयन्तु। तत ईदृशाः पितरोऽस्मानवन्तु
अत्रैवोपहोमार्थास्तिस्र ऋचस्तासु प्रथमामाह उदीरतामिति। त्रिविधाः पितर उत्तमा मध्यमा अधमाश्चेति। यथाविधं श्रौतं कर्मानुष्ठाय पितृत्वं प्राप्ता उत्तमाः। स्मार्तकर्ममात्रपरा मध्यमाः। तत्रापि केचित्संस्कारैर्विकला अधमाः एतदेवाभिप्रेत्य ये अग्निदग्धा येऽनग्निदग्धा इत्यादिर्मन्त्र आम्नातः। तेष्ववरे निकृष्टा उदीरतामुत्तमं हविः प्राप्नुवन्तु। परास उत्तमाः पितर उदीरताम्। मध्यमाः पितरश्चोदीरताम्। ते सर्वेऽप्यस्मिन्विषये सोम्यास सोम्या अनुग्रहपराः सन्तु। ये पितरोऽवृका वृकवदरण्यश्ववदस्मासु हिंसामकुर्वन्त ऋतज्ञा अस्मदनुष्ठितं यज्ञं जानन्तोऽसुप्रस्मत्प्राणमीयू रक्षितुं प्राप्तास्ते पितरो हवषु अस्मदीयाह्वानेषु नोऽस्मानवन्तु। अथ द्वितीया इदं पितृभ्य इति। पूर्वासो यजमानोत्पत्तेः पूर्वमुत्पन्ना ज्येष्ठभ्रातृपितृपिता महादयो य ईयुः पितृलोकं प्राप्ताः। ये चान्य उपरासो यजमानजननादुपर्युत्पन्नाःकनिष्ठभ्रातृस्वपुत्रादय ईयुः पितृलोकं प्राप्ताः। येऽप्यन्ये पाथवे पृथिवीसंबन्धिनिरजसि रजोगुणकार्यऽस्मिन्कर्मण्यानीता हविः स्वीकर्तुमागत्योपविष्टाः। ये वा ये चान्ये बन्धुवर्मरूपाः पितरो बहुबन्धुरूपासु विक्षु प्रजास्वनिषत्ताः श्राद्धादिस्वीकारायाऽगत्योपविष्टाः। कीदृशीषु विक्षु सुवृजनासु वृज्यते परित्यज्यते दारिद्र्यमनेनेति वृजनं धनं शोभनं वृजनं यासां ताः सुवृजनास्तादृशीषु धनसमृद्ध्या श्राद्धादिकर्मपरास्वित्यर्थः। तेभ्यः सर्वेभ्य उक्तेभ्यः पितृभ्योऽद्यास्मिन्कर्मणीदं नमोस्त्वयमाहुतिप्रदानपूर्वको नमस्कारो भवतु। अथ तृतीया अधा यथेति। हेऽग्नेऽधाधस्तादतीते काले नोऽस्माकं पितर ऋतमाशुषाणायज्ञमश्नुवानाः शुचीच्छुद्धमेव स्थानं यथा येन प्रकारेणायन्प्राप्तवन्तो दीधितिं दीप्यमानां पितृरूपां देवतामुक्थशासः शस्त्रैः शंसन्तो वयमपि तथैवोच्चमेव स्थानं
“प्राप्ताः स्म इति। कीदृशाः पितरः, परासोऽस्मत्त उत्कृष्टाः पितृपिताप्रहादयः प्रत्नासः पुरातनाः पित्रादिभ्योऽपि पूर्वभाविनः। किंच, क्षाम क्षयहेतुं स्वकीयं क्षुदुपद्रवं भिन्दन्तोऽन्नेन हविषा नाशयन्तोऽरूणीस्तेजोरूपा (देवता) स्ताः प्राप्यापव्रन्फलप्रतिबन्धकं पापमपाकृण्वन्। अस्मिन्निह(न्हि) पितृयज्ञकर्मणि शाखान्तरेऽन्यदपि हविद्वयं विहितं तदग्नये कव्यवाहनायैकं यमायाङ्गिरस्वते पितृमते द्वितीयमिति। अत एव सूत्रकार आह—-अथैकेषां सोमाय पितृमत आज्यं पितृभ्यो बर्हिषद्भ्यः षट्कपालं पितृभ्योऽग्निष्वात्तेभ्यो धाना अग्नेय कव्यवाहनाय यमाय वा मन्थं यमायाङ्गिरस्वते पितृमते इति। तत्र कव्यवाहनस्य प्रथमां पुरोनुवाक्यामाह यदग्न इति। कव्यं वहतीति कव्यवाहनः पितृभ्योऽग्निः। अत एवान्यत्र श्रुतम्—त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणाऽ सहरक्षा असुराणाम् इति। कव्यस्यास्य हविषो वाहक हेऽग्ने यद्यस्मात्कारणादृतावृधो यज्ञवर्धकान्पितॄन्यक्षि यजसि तस्मादेव कारणात्त्वं देवेभ्यः पितृभ्यश्च हव्यानि प्रावक्ष्यसि पुनः पुनः प्रकर्षता परमपि हविर्वहनं करिष्यसि। द्वितीयां पुरोनुवाक्यामाह त्वमग्न इति। जातं सर्वं जगद्वेदेति जातवेदास्तथाविध हेऽग्ने त्वमीडितो यजमानेन स्तुतः संस्तदीयानि हव्याति सुरभीणि सुगन्धीनि कृत्वाऽवाड्वहनं कृतवानसि। कृत्वा च पितृभ्यः प्रादाः। ते च पितरः स्वधया स्वधाकारेण प्रत्तं हव्यमक्षन्नदन्तु। हे देव त्वमपि प्रयता प्रयत्नसंपादितानि हवींष्यद्धि भक्षय। अथ याज्या मातलीति। मातलिरिन्द्रस्य सूतस्तद्वानिन्द्रो मातली। स च कव्यैः कव्यभाग्भिः पितृभिः सह वावृधानो वर्धमानो भवति। यमश्चाङ्गिरोभिः पितृविशेषैः सह वर्धमानो भवति। बृहस्पतिश्च ऋक्वभिर्ऋक्प्रतिपाद्यैः पितृविशेषैः सह वर्धमानो भवति। तत्र देवा यान्कव्यभागादीन्पितॄन्वावृधुर्वर्धयन्ति, ये च कव्यभागादयः पितर इन्द्रादीन्देवान्वर्धयन्ति तेषां मध्य इन्द्रादयः स्वाहा मदन्ति स्वाहाकारेण तृप्यन्ति। अन्ये पितरः स्वधया स्वधाकारेण तृप्यन्ति । अथाङ्गिरस्वतो यमस्य प्रथमां पुरोनुवाक्यामाह इमं यमेति। हे यमाङ्गिरोभिरेतन्नामकैः पितृभिः संविदान ऐकमत्यं प्राप्त इमं प्रस्तरं प्रस्तीर्णं यज्ञविशेषमासीदाऽगत्योपविश। हि यस्मादुपविशसि तस्मात्कविशस्ता विद्वद्भिर्ऋत्विग्भिः प्रयुक्ता मन्त्रास्त्वामावहन्तु। हे राजन्नेनाऽनेन हविषा तुष्टो मादयस्व यजमानं हर्षयस्व। अथ द्वितीयां पुरोनुवाक्यामाह—”
अङ्गिरोभिरिति। हे यम वैरूपैर्विविधरूपयुक्तेर्वैरूपसामप्रियैर्वा यज्ञियेभिर्यज्ञयोग्यैरङ्गिरोभिः सहाऽगहि आगच्छ। आगत्य चेह मादयस्व यजमानं हर्षय। यस्ते तव पिता विवस्वानस्ति तं विवस्वन्तमस्मिन्यज्ञे हुव आह्वयामि। स च बर्हिष्यस्मिन्यज्ञ आनिषद्याऽगत्योपविश्य यजमानं हर्षयतु। अथ याज्यामाह अङ्गिरसो न इति। अङ्गिरोनामका अथर्वनामका भृगुनामकाश्च नोऽस्माकं पितरो नवग्वा अभिनवागमनयुक्तास्तदा तदा नूतनवत्प्रीतिजनका इत्यर्थः। ते च सोम्यासः सोममर्हन्ति सोम्याः। यज्ञियानां तेषां सुमतावयुक्त (नुग्रह) युक्तायां बुद्धौ वयं स्याम सर्वदा तिष्ठेम। अपि च सौमनसे सौमनस्यकारणे भद्रे कल्याणे फले स्याम सर्वदा तिष्ठेम। अत्र विनियोगसंग्रहः-
उशन्तः सामिधेन्येका पितृयज्ञे महत्यसौ। त्वं सोमेत्यनुवाक्ये द्वे पितृमन्नामके तथा।।
त्वं याज्याऽग्निष्वेति मन्थेऽनुवाक्या प्रथमा भवेत्। बर्हिर्द्वे शनुवाक्ये तु याज्यैका बर्हिषद्यजौ।।
उपहोमा उदीरेति त्रयस्तत्त्रययागके। कव्यवाहनयागे तु यदग्ने तिस्र ईरिताः।।
पुरोनुवाक्ये द्वे तत्र याज्यैका याम्ययागके। इमं पुरोनुवाक्ये द्वे याज्यैका पूर्ववन्मता।
अन्तिमे ह्यनुवाकेस्मिन्मन्त्राः सप्तदशेरिताः।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके द्वादशोऽनुवाकः ।। १२ ।।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्। पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः।।
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
द्वितीयकाण्डे षष्ठः प्रपाठकः।। ६ । । इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
द्वितीयः काण्डः समाप्तः ।। ५ ।। मूलक्रमेण द्वितीयाष्टके—प्र. ६ अ. ७५। भाष्यक्रमेण द्वितीयकाण्डे—प्र. ६ अ. ७५।
“मूलक्रमेणाऽदितः समष्ट्यङ्काः का. २ प्र. १४ अ. २२१।भाष्यक्रमेणाऽदितः समष्ट्यङ्काः का. २ प्र. १४ अ, २१५।”
समाप्तोऽयं श्रीमत्सायणाचार्यविरचितभाष्यस हितकृष्णयजुर्वेदीयतैत्तिरीयसंहिताया द्वितीयः काण्डः।