(अथ द्वितीयकाण्डे पञ्चमः प्रपाठके प्रथमोनुवाकः )। (अग्नीषोमीयह विर्विध्युपोद्घातः)
यस्य निःश्वसितं वेदा यो वेदेभ्योखिलं जगत्।निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्।।
द्वितीयादिचतुर्थान्तैस्त्रिभिरेतैः प्रपाठकैः। उक्ताः काम्येष्टयः काण्डे द्वितीये परतस्तु यत्।।
आद्ये दर्शपूर्णमासमन्त्रव्याख्यानमीरितम्। विधयो मन्त्रसंबद्धा बहवः प्रतिपादिताः।।
तच्छेषविधयो वाच्या व्याख्येया होत्रमन्त्रकाः।*अतो नुब्राह्मणं त्वत्र वर्ण्यते पाठकद्वये।।
प्रपाठके पञ्चमेनुवाका द्वादश संस्थिताः। आध्वर्यवं पूर्वषट्के याज्या उत्तम ईरिताः।।
हौत्रमन्त्रविधिव्याख्यावारादिप्रायमन्तरे।अग्नीषोमीयहविषो विधिस्तत्राद्ययोर्द्वयोः।।
तत्र द्वितीयानुवाके पौर्णमासीगतमग्नीषोमीयपुरोडाशं विधित्सुस्तदुपोद्घातत्वेन प्रथमानुवाके कांचिदाख्यायिकामाह
“विश्वरूपो वै इति। विश्वानि बहुविधानि रूपाणि यस्यासौ विश्वरूपः। त्रिभिः शिरोभिरुपेतत्वाद्विश्वरूपत्वम्। या विश्वरूपनामकस्त्वष्टुः पुत्रः स देवानां पुरोहितो न तु शरीरसंबन्धी, असुराणां तु भागिनेयः। स च सात्विकेन शिरसा सोमं पिबति। राजसेनान्नमत्ति। तापसेन सुरां पिबति। स च यज्ञमण्डपेषु गत्वा सर्वेषां श्रोत्रप्रत्यक्षं यथा भवति तथा देवेभ्यो हविर्भागो युक्त इति वदति। सर्वेषां श्रोत्रप्रत्यक्षं यथा भवति तथा रहस्य ऋत्विग्भिः सहायं हविर्भागोसुरेभ्यो युक्तोतस्तानेवोद्दिश्य प्रयच्छतेति स एवं वदति। तेषामृत्विजां तस्मिन्परोक्षवादेविश्वास उत्पन्नः तस्य परोक्षवादस्य हृदयपूर्वकत्वात्। लोकेपि तवायं भाग इति सर्वस्मै पुरुषाय प्रीतिमुत्पादयितुं तत्समीपे सर्वे वदन्ति। हृदयपूर्वकत्वाभावान्न स उदितो भवति। परोक्षं यदर्थं तु भाग उच्यते तस्यैव भागो हृदयपूर्वकत्वादुदितो भवति। एवं वृत्तान्तं श्रुत्वा तस्माद्विश्वरूपादिन्द्रो बिभेत्। किमिति, (*प्रकृतब्राह्मणमिति ख. पुस्तकस्थपाठान्तरम्। )”
इंदृक्स्वामिद्रोहं सर्वथा कृत्वा राष्ट्रं विपर्यावर्तयतीति। अस्मत्तोपनीयासुरेभ्यसमर्पणं विपर्यावृत्तिः। ततस्तस्य द्रोहिण शिरःसु च्छिन्नेषु तानि शिरांसि पक्षिः त्रयरूपेणोत्पन्नानि। तस्येन्द्रस्य प्रत्यवायं जनापवादं च दर्शयति—
तस्याञ्जलिनेति। तस्यासुरस्य वधेन निष्पन्ना या ब्रह्महत्या तामञ्जालिना स्वी चकार। पापिनां शिक्षायामीश्वरेण नियुक्तानां यमचित्रगुप्तादीनां पुरतोञ्जलिंकृत्वा निर्भयः सन्ब्रह्महत्या मया बुद्धिपूर्वकमेव कृतेत्येवमङ्गी चकारेत्यर्थः। प्रायश्चित्तमकृत्वा संवत्सरं निरन्तरं ब्रह्महत्यामङ्गीकृत्यैव तस्थौ। आत्मतत्त्वज्ञानेः पापलेपाभावाद्भीत्यभावस्तस्य युक्तः। अत एव कौषीतकिन इन्द्रवाक्यमेतदामनन्ति “यन्मां हि विजानीयास्त्रीशीर्षाणं त्वाष्ट्रमहमहनमरुन्मुखान्यतीन्सालावृकेभ्यः प्रायच्छ” इत्यादि। दुरिताभावेपि सर्वप्राणिनस्तमिन्द्रं ब्रह्महन्नित्येवं संबोध्याभितस्तस्याक्रोशं कृतवन्तः। ततस्तस्य जनापवादस्य परिहारायेन्द्रेणानुष्ठितमुपायविशेषं दर्शयति—
“स पृथिवीमिति। उपासीददुपेत्य प्रार्थितवान्। खातात्पराभविष्यन्तीमन्ये, जनाः स्वेच्छया तत्र तत्र भूमिं खनन्ति तदुपद्रवात्पराभूता पीडिता भविष्यामीति मनसा चिन्तयामि। खातप्रदेशः संपूरणमन्तरेण पांसुप्रक्षेपात्तृणाद्युत्पत्तेर्वापिरोहात्पुरितो भूयादिति वरः। तदिदमस्य वारेवृत्तमस्याः पृथिव्याः खातपूरणंवरेण लब्धम्। पृथिव्याः स्वीकृतस्तृतीयो ब्रह्महत्याया भागः स्वकृतमिरिणमभवत्। इतस्तत आनीय प्रक्षिप्तं न भवतीति स्वतःसिद्धमूषरक्षेत्त्रमासीत्। तस्पादिरिणं ब्रह्महत्यायाः स्वरूपं तस्मादाहिताग्निः श्रद्धादेवस्तस्मिन्निरिणे कदाचिदपि न तिष्ठेत्। यद्वा, देवयजनत्वेन नाध्यवस्येत्। श्रद्धैव देवो यस्यासौ श्रद्धावानित्यर्थः। एकस्य ब्रह्महत्याभागस्य परिहारोपायमुक्त्वापरस्य तं दर्शयति स वनस्पतीनिति। वृक्णाच्छेदनात्। आव्रश्चनाच्छिन्नप्रदेशाद्भूयांसो बह्वंकुरा उत्तिष्ठन्त्विति वरः। वृक्षान्निर्गत्य घनीभूत रसो निर्यासः। ब्रह्महत्याया स्वरूपत्वानिर्यासस्य स्वरूपं न भोज्यं भवति। अपि च पक्षान्तरमस्ति। न सर्वोपि निर्यासो निषिद्धः, किंतु यो लोहितवर्णो यश्च च्छिन्नवृक्षप्रदेशान्निर्गतस्तदेवोभयं निषिद्धम्। अन्यस्य तु निर्यासस्य स्वरूपमाश्यमिच्छायां सत्यामशितुं योग्यम्।
स इति ॥ त्रिषु ब्रह्महत्याभागेषु द्वयोः परिहारमुक्त्वा तृतीयस्यावशिष्टस्य परिहारं दर्शयति - ‘स स्त्रीषसादमिति । स्त्रियः सम्यक्सीदन्ति विश्रम्भेणोपविशन्ति यस्यां सभायामिति स्त्रीसभाविशेषः स्त्रीषसादः । ऋत्वियात् ऋतुसंबन्धाद्वीर्यात्प्रथमसंभोगादेव गर्भे जातेऽपि काममुद्दिश्याविजनितोरा प्रसवात्पुरुषेण सङ्गच्छेमहि । गर्भोपद्रवः प्रत्यवायश्च निषिद्धदिनकृतोऽस्माकं मा भूदिति वरः । अत एव याज्ञवल्क्यस्मृतिः - ‘यथाकामी भवेद्वाऽपि स्त्रीणां वरमनुस्मरन्’ (याज्ञ.स्मृति. १-८१) इति । यो ब्रह्महत्यायास्तृतीयो भागः सा मलवद्वासा रजस्वला योषिदभवेत् । यस्मादियं ब्रह्महत्याया रूपं शरीरे कञ्चुकवत्प्रतिमुच्यास्ते तस्मात्तया सह संभाषणं न कुर्यात् । तया सहैकस्मिन्गृहे वासो न कर्तव्यः । तत्स्वामिकं तत्स्पृष्टं वान्नं नाश्नीयात् । अपि चाभिज्ञाः केचिदेवमाहुः - स्त्रियाः शृङ्गारोपयोगित्वेनाभ्याञ्जनमेवान्नस्थानीयं, तदीयं तैलादिकमेव न गृह्णीयात्, तया वा स्वशरीराभ्यञ्जनं न कारयेत् । अन्यदन्नं सत्यामिच्छायां भोक्तव्यमिति ॥
यामिति ॥ प्रसङ्गाद्रजस्वलाव्रतानि विधत्ते - यां मलवद्वाससमिति । अभिशस्तो मिथ्यापवादयुक्तः । यामरण्ये, ‘मलावद्वासस संभवन्ति’ इत्यनुवर्तते । पराचीमुच्चारणभीत्या लज्जया वा पराङ्मुखीम् । सभायामवाङ्मुखो वक्तुमशक्तो ह्रीतमुख्यपगल्भ इत्युच्यते । मारुको मरणशीलः । दुश्चर्मा कुष्ठी । प्रलिखते भित्तौ चित्रादिकं करोति । खलतिः केशशून्यः । अपमारी दुर्मरणयुक्तः । काणः कुण्ठिताक्षः । श्यावदन्मलिनदन्तः । कृणत्ति तृणादि च्छिनत्ति । उद्बन्धुको रज्जुं बद्ध्वा मरणशीलः । पर्णेन पानं भोजनस्याप्युपलक्षणम् । उन्मादुकः उन्मादशीलः । खर्वेण वह्निपक्वेन शरावादिना । खर्वो वामनः । यस्मादुक्ता दोषा वर्तन्ते तस्मात्तत्परिहाराय रजस्वलाव्रतं संभवादिवर्जनरूपं नियममाचरेत् । भोजनेऽञ्जलिरदग्धशरावादिर्वा साधनमस्तु । व्रताचरणमुत्पत्स्यमानायाः प्रजाया रक्षणार्थं भवति ॥
अत्र मीमांसा ।
तृतीयाध्यायस्य चतुर्थपादे चिन्तितम् -
‘न संवदेत मलवद्वाससेत्यपि पूर्ववत् । पुमर्थः स्यात्क्रतौ क्वापि संवादस्याप्रसक्तितः ॥’ (जै.न्या. ३-४-२०)
दर्शपूर्णमासप्रकरणे श्रूयते - ‘मलवद्वाससा न सं वदेत’ (तै.सं. २-५-१) इति । अस्य निषेधस्य प्रकरणात्क्रत्वङ्गत्वमिति चेन्न । अप्रसक्तप्रतिषेधप्रसङ्गात् । ‘यस्य व्रत्येऽहन्पत्न्यनालम्भुका भवति । तामपरुध्य यजेत’ (तै.ब्रा. ३-७-१) इति । रजस्वलाया निःसारणान्न क्रतौ संवादप्रसक्तिः । तस्मात्केवलपुरुषार्थस्यास्य प्रकरणादुत्कर्षः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके प्रथमोनुवाकः ॥ १ ॥
(अथ द्वितीयाष्टके पञ्चमप्रपाठके द्वितीयो नुवाकः)। (अग्नीषोमीयपुरोडाशविधिः)
" (अथ द्वितीयाष्टके पञ्चमप्रपाठके द्वितीयो नुवाकः)। (अग्नीषोमीयपुरोडाशविधिः) उपोद्घाते विश्वरूपवधः सम्यक्समीरितः। अथ द्वितीयानुवाके ग्नीषोमीयपुरोडाशं विधित्सुरादौ तस्योपोद्घातस्य विध्युपयोगं दर्शयति त्वष्टा हतपुत्र इति। यस्मात्कारणादस्योत्पत्त्यर्थमाहुतिमवर्तयदस्मात्कारणाद्वर्तयत्येतदर्थमिति व्युत्पत्त्या वृत्रत्वं संपन्नम्। यस्मात्कारणात्षष्ठासमासस्वरं विसृज्यबहुव्रीहिस्वरमुच्चारितवान्, तस्मात्कारणादिन्द्रः शातयिता यस्येति व्युत्पत्त्या वृत्रस्यास्येन्द्रो घातको भूत्। शेषं पूर्वप्रपाठके व्याख्यातम्। तस्य वधोपायं दर्शयति स प्रजापतिमिति। इन्द्रो मम कश्चिच्छत्रुर्जात इति वदन्प्रजापतिमसेवत। तस्मा इन्द्राय स प्रजापतिर्वज्रं सिक्त्वा वृत्रमुद्दिश्य कृत्याभिमन्त्रितजलेन प्रोक्ष्यैतेन जहीनि वदन्प्रायच्छत्। जहि मारयेत्यर्थः। तेन वज्रेण सहितः स इन्द्र एनं वृत्रं हन्तुमभिलक्ष्यायतागतवान्। इत्थमुपोद्घातं तदुपयोगं चोक्त्वाग्नीषोमीयपुरोडाशविधिमर्थंवादेनोन्नयति तावब्रूतामिति। हे इन्द्र मा प्रहाः, वृत्रं मा प्रहर। आवमन्तः स्वः, आवामुभावेतस्य मुखे तिष्ठावः। तज्ज्ञात्वा स इन्द्रो ब्रवीत्-युवां मम स्थो वै खल्विति तस्मान्मामभ्येतं मामक्षिलक्ष्या गच्छतम् (इति)। ततो ग्नीषोमै त्वत्सकाशमागतयोरावयोः किं भागधेयेमिति पप्रच्छतुः। स चेन्द्रः पूर्णमासे योग्नीषोमीयपुरोडाशः स युवयोर्भाग इति दत्तवान्। अग्नीषोमीयमेकादशपालं निर्वपेदिति विधिरत्र द्रष्टव्यः। अग्नीषोमयोर्निर्गमनप्रकारं दर्शयति तावब्रूतामिति। वृत्रस्य मुखे दन्तपङक्तिभ्यामाभितः सम्यग्दष्टावेव वर्ता- "
“वहे। तस्मादागन्तुं न शक्नुव इति उक्त इन्द्रस्तयोरागमनाय स्वात्मनः सकाशाच्छीतज्वरं तदनन्तरभाविसंताष चोभावुत्पादितवान्। तदानीं शीतज्वशब्दाभिधेययोर्ज्वरतापयोर्जन्म समुत्पन्नम्। तज्जन्मवेदिनं न शीतरूरौ हतो न मारयतः। तत स इन्द्रस्ताभ्यां शीतरूराभ्यामायुधसदृशाभ्यामेनं वृत्रमभिलक्ष्य प्रयुक्ताभ्यामनयदेनं वृत्रं संयोजितवान्। तदा शीतज्वरसंतापाभ्यां जञ्जभ्यमानान्मुखविदारणं कुर्वतस्तस्माद्वृत्रादग्नीषोमौ निर्गतौ। प्रसङ्गान्मन्त्रनुत्पाद्य विनियुङ्क्ते प्राणापानाविति। अग्नीषोमौ यदा निर्गतौ तदानीं प्राणापानावेवैनं वृत्रं त्यक्तवन्तौ। तयोश्च प्राणापानयोः क्रमेण दक्षः ऋतुरित्येव नामनी। यस्मात्कारणादतेस्तयोर्नामनी तस्मात्कारणात्ऋतुकाले जञ्जभ्यमानो मुखविदारणरूपं गात्रविनाशं कुर्वन्यजमानो पथि दक्षक्रतु इति मन्त्रं ब्रूयात्। तिष्ठेतामिति मन्त्रवाक्यशेषस्याध्याहारः। तेन मन्त्रपाठेन प्राणापानावेव स्वात्मनि स्थिरौ धारितवान्भवति। ततोपमृत्युपरिहारेण सर्वमायुः प्राप्नोति। अथानेन वृत्रवधप्रसङ्गेनाज्यभागमन्त्रयुगलयोः कालभेदेन व्यवस्थां विधत्ते स देवतेति। स इन्द्रो ग्नीषोमप्रमुखा वृत्रमुखे स्थिताः सर्वा देवतां वुत्रान्निर्हूय निःसार्य वृत्रहननहेतुभूतं हविराज्यभागद्रव्यरूपं पूर्णमासे संपादितवान्। लोके प्येनं वृत्रमावरणात्मकं वृत्रान्धकाररूपेणावस्थितं शत्रुं पूर्णिमादिने ज्योत्स्नया विनाशयन्ति। अमावस्यायां ज्योत्स्नाया अभावाद्वृत्ररूपमन्धकारमाप्याययन्ति सर्वतो वर्धयन्ति। यस्मादेवं तस्माद्वृत्रहननशब्दलाञ्छिते ऋचावाज्यभागयोः पूर्णमासे पुरोनुवाक्ये कर्तव्ये। वृधिधातुयुक्ते ऋचावमावास्यायां पुरोनुवाक्ये कर्तव्ये अग्निर्वृत्राणि जङ्घमत्व राजोत वृत्रहेत्यनयोर्वृत्रहननप्र तीतेतेरे ऋचौ वार्त्रघ्न्यौ कविर्विप्रेण वावृधे वर्धयामो वचोविद इत्येते ऋचौ वधिधातुयुक्तत्वाद्वृधन्वत्यो। प्रासङ्गिकीमाज्यभागव्यवस्थां विधाय प्रकृतं वृत्रवधप्रकारं दर्शयति तत्स स्थाप्येति। स इन्द्रो वृत्रहननहेतुभूतमाज्यभागरूपं हविः संपूर्णं कृत्वा पूर्ववद्वज्रमादाय पुनरपि वृत्रमभिलक्ष्य हन्तुमागतवान्। तदानीं द्यावापृथिव्याविन्द्रब्रूताम् अयं वृत्रो भूमिमारभ्य द्युलोकपर्यन्तं व्याप्या वयोराश्रितो वर्तते। तस्मान्म (दस्म) दीयमेनं न प्रहरेति। तत इन्द्रस्यानङ्गीकारमवलोक्य प्रहारमभ्यनुज्ञातुमुत्कोचत्वेन वरं वृतवत्यौ। नक्षत्रैर्विहिता लंकृता स्यामिति दिवो वरः। नुष्यपशुवृक्षनगतदीसमुद्रादिरूपेण विचित्रेण विहिता लंकृत स्यामिति पृथिव्या वरः। तेन वरेण ते तथैव स्याताम्। एतद्वराभिज्ञो पि स्वाभीष्टं वरं प्राप्नोति। ततः स इन्द्रो द्यावापृथिवीभ्यामनुज्ञातो वृधं हतवान्। अथाभिहितस्याग्नीषोमीयपुरोडाशस्य देवो प्रशंसति ते देवा इति। इन्द्रयुक्ताः पार्श्ववर्तिनः सर्वे देवा वृत्रं हत्वा तन्मुखान्निसृतावग्नीषोमौ प्रति हव्यमस्मदर्थे वहतमित्यब्रुवन्। ततस्तावग्नीषोमौ तान्देवान्प्रत्येवमब्रूताम् त्यौ तथाविधौ वृत्रेण चिरं दंशनादपगततेजस्कावेव संपन्नौ, त्ययोस्तथाविधयोस्तेजः सामर्थ्यं वृत्र एव स्थितमिति। ते देवा अब्रुवन्परस्परं को नामेदं तेज आप्तुं गच्छतीति। तत्र बुद्धिमन्तो गोः सर्वमित्रत्वेन द्वैराभावाद्गौरेव वृत्रशरीरे गत्वा तेजः समानेष्यतित्युक्तवन्तः। सापि गौरुत्कोचत्वेन वरमे वमयाचत– अनयोः संबन्धि घृतपयोरूपं तेजो वृत्रशरीरदानेष्यामि, आनीतं च तन्मय्येत सर्वदा तिष्टतु, मय्येव स्थितेन तेजोभयेन तदा तदा स्वीकृतेन भोजनं निर्वर्तयध्वामिति। तमिमं वरं लब्ध्वा तत्तेजो गौरानयत् तस्माद्वरवृतत्वाल्लोके पि निरन्तरं गवि तिष्ठतैव तेजसा बृतपयोरूपेणोभयेन तदा तदा स्वीकृतेन सर्वे भोजनं निष्पादयन्ति। तत्र यद्घृतमेतदेवाग्नेस्तेजो यत्पय एतदेव सोमस्य तेजस्तदुभयवेदनेन तेजस्वी भवतीति। तदिदमग्नीषोमीयपुरोडाशरूपं पौर्णमासकर्म प्रजापतिसंबन्धित्वेनेन्द्रसंबन्धित्वेनं च प्रशंसति ब्रह्मवादिन इति। नात्र प्रजापतेर्हविर्भोक्तृत्वेन पौर्णमासदेवतात्वं, किंतु तत्कर्मस्रष्ष्टूत्वेन। तच्च पूर्वकाण्ड उदाहृतम्–“प्रजापतिर्यज्ञानसृजताग्निहोत्रं चाग्निष्टोमं च पौर्णमासीं चोक्थ्यं च” इत्यादि। स च प्रजापतिस्तेन पौर्णमासकर्मणा स्वकीयं ज्येष्ठं पुत्रमिदं निरवासाययन्निःशेषवित्तदानेन स्थिरानिवासमकरोत्। एतदपि पूर्वकाण्ड एव स्पष्टमुदाहृतम् “तेनेन्द्रं निरवासाययत्तेनेन्द्र परमां काष्ठामगच्छत्” इति। यथा प्रजापतिर्यज्ञान्तसर्ज तथेन्द्रो प्येग्नीषोमौ वृत्रान्निःसार्य ताभ्यामिमं पुरोडाशं दत्तवानिति अस्ति प्रजापतेरिवेन्द्रस्यापि संबन्धः। अस्मात्प्रजापतिरिन्द्रं निरवासाययत्तस्माल्लोके पि ज्येष्ठं पुत्रं धनेन निरवसाययन्ति निःशेषमायुषो वसानं धनेन युक्तो यथा प्राप्नोति तथा कुर्वन्तीत्यर्थः।”
अथ मीमांसा।
पञ्चमाध्यायस्य प्रथमपादे चिन्तितम् “अग्नीषोमीय आग्नेयात्पूर्वो नो वास्तु पूर्वता। ब्राह्मणक्रमतो मैवं मन्त्रक्रमबलत्वतः।। स्मृतिक्रमादनुष्ठानं मन्त्राणां स्मारकत्वतः। प्राबल्यं ब्राह्मणस्यास्ति विधिना पि कृतार्थता” ।।
अग्नीषोमीययागस्तैत्तिरीयब्राह्मणे पञ्चमप्रपाठके द्वितीयानुवाके समाम्नातः- “ताभ्यामेतमग्नीषोमीयमेकादशपालं पूर्णमासे प्रायच्छत्” इति। आग्नेयभागस्तु षष्ठप्रपाठके तृतीयानुवाक आम्नातः- “यदाग्नेयोष्टाकपालोमावास्यायां च पौर्णमास्यां चाच्युतो भवति” इति। तत्रानुष्ठानेस्य ब्राह्मणोक्तविध्यधीनत्वादग्नीषोमीयस्य प्रथममनुष्ठानमिति प्राप्ते ब्रूमः- मन्त्रकाण्डे पूर्वं पठिता आग्नेयमन्त्राः। तथा हि - हौत्रकाण्ड आज्यभागमन्त्रानुवाकादुत्तरस्मिन्ननुवाके प्रथममग्निर्मूधेत्यादिके आग्नेय्यौ याज्यानुवाक्ये आम्नाते। ततः “न त्वदे तानि” इत्यादिके प्राजापत्ये। ततो ग्निषोमा सवेदसेत्यादिके अग्नीषोमीये। आध्वर्यवकाण्डे ग्नये जुष्टं निर्वपाम्यग्नीषोमाभ्यामित्याग्नेयः पूर्वमाम्नातः। यजमानकाण्डे ग्नेरहं देवयज्यया न्नादो भूयासमित्याभ्नाय पश्चादग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासमित्याम्नायते। मन्त्रक्रमश्च प्रबलः। मन्त्रैः स्मृत्वा पश्चादनुष्ठेयत्वात्। ब्राह्मणं त्वप्राप्तपदार्थविधिनाऽपि चरितार्थम् । अतो नुष्ठानस्मरणायैवोत्पन्नान्मन्त्रान्बाधितुं नालमिति मन्त्रक्रमेणा ग्नेयस्यैव प्रथममनुष्ठानम्।
“तृतीयाध्यायस्य चतुर्थपादे चिन्तितम् “जञ्जभ्यमानमन्त्रोक्तिः पुंसो धर्मः क्रतोरुत । वाक्यादाद्यः प्रक्रियया द्वितीयस्त्वाविरुद्धया” दर्शपूर्णमासप्रकरणेश्रूयते—-“प्रणो वै दक्षोपानः क्रतुस्तस्माज्जञ्चभ्यमानो ब्रूयान्मयि दक्षक्रतू इति प्राणापानावेवात्मन्धत्ते सर्वमायुरेति” इति। गात्रविनामेन विदारितमुखः पुरुषो जञ्जभ्यमानः, तस्य वाक्यान्मन्त्रोक्तिः प्रतीयते। वाक्यं च प्रकरणाद्वलीयः। तस्माकेवलं पुंधर्म इति चेन्मैवम् ऋतावपि जञ्जभ्यमानपुरुषसंभवेन वाक्यप्रकरणयोर्विरोधाभावे सत्युभाभ्यां ऋतुयुक्तपुरुषसंस्कारत्वावगमात्। "
तत्रैव प्रथमपादे चिन्तितम् “वार्त्रघ्न्यौ पौर्णमासे स्तो वृधन्वत्यौ तु दर्शने। इति प्रधानशेषत्वमुक्तं किंवा व्यवस्थितिः।।
क्रमेण प्रापिता मन्त्राश्चत्वारो प्याज्यभागयोः । क्रमाद्वाक्यं बलीयो त एषां दर्शादिशेषता।।
न मुख्ये सोम एको स्ति ना धारत्वादिकालयोः। दर्शादेरव्यवस्थित्या प्राप्तौ वाक्यादव्यवस्थितिः।।”
“दर्शपूर्णमासप्रकरणे श्रूयते—“तस्माद्वार्वघ्नी पूर्णमासेनूच्येते वृधन्वती अमावास्यायाम्” इति। तत्रेदं वार्त्रघ्नीयुगलं वृधन्वतीयुगलं च हौत्रकाण्डे आज्याभागयोः क्रमेग्निर्वृत्राणि जङ्घनदित्यनुवाकेना म्नातम्। उदाहृतेन तु ब्राह्मणवाक्येन दर्शपूर्णमासयागयोस्तद्विधिरवगम्यते। तत्र वाक्यस्य प्रबलत्वादेषां मन्त्राणां दर्शपूर्णमासयागाङ्गत्वं न त्वाज्यभागाङ्गत्वमिति प्राप्ते ब्रूमः- “अग्निर्वृत्राणि जङ्घनत्” इत्याग्नेयी प्रथमा वार्त्रघ्नी। “त्वं सोमासि सत्पतिः” इति सौम्या द्वितीया वार्त्रघ्नी। “अग्निः प्रत्नेन मन्मना” इत्याग्नेयी प्रथमा वृधन्वती। “सोमगीर्मिष्ट्वा वयम्” इति सौम्या द्वितीया वृधन्वती। तत्र मुख्ययोर्दर्शपूर्णमासयोराग्नेयपुरोडाशसद्भावादाग्नेयीद्वयस्य विकल्पेन पुरोनुवाक्यात्वं कथंचिद्भवतु। सौम्ययोस्तु तन्न संभवति। सोमदेवताया अभावात्। नह्यग्नीषोमीयेपि केवलः सोमो विद्यते। किंच, पौर्णमास्याममावास्यायामिति सप्तमीभ्यामाधारत्वं गम्यते । तच्च यागवाचित्वे यागस्य मुख्यत्वान्न संभवति । कालस्य तुपसर्जनत्वात्तद्वाचित्वं युक्तम् । किंच, प्रयाजमन्त्रानुवाकस्यानन्तरमेवायमनुवाकः पठितः स चा ज्यभागयोरङ्गयोः क्रमो न तु मुख्ययोर्दर्शपूर्णमासयोः। तस्मान्न मन्त्रचतुष्टयस्य मुख्ययागत्ङ्गत्वम्, किं तु आज्यभागाङ्गत्वम्। नन्वेतत्क्रमेणैव लब्धं तत्रप्याग्नेमे प्रथम आज्यभागे मन्त्रो प्याग्नेयः, सौम्ये वितीये सोम्य इत्येषा व्यवस्था लिङ्गेनैव लभ्यते। वाढम्। तथापि वार्त्रघ्नीयुगलं पूर्णमासे वृधन्वतीयुगलममावास्यामित्येषा व्यवस्था पूर्वमप्राप्ता ब्राह्मणवाक्येन विधीयत इति न वैयर्थ्यम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे "
कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके द्वितीयो नुवाकः ।। २ ।।
“(अथ द्वितीयकाण्डे पञ्चमप्रपाठके तृतीयोनुवाकः)। (अमावस्यायां सांनाय्ययोगविधिः) द्वितीयेग्नीषोमयागोभिहितः पूर्णिमादिने।। अथ तृतीयेमावास्यायां सांनाय्ययागो वक्तव्यः। तत्र प्रथमं तावत्पौर्णमास्याममुनिर्वाप्यं वैमृधं विधित्सुः प्रस्तौति इन्द्रं वृत्रमिति। अथ य इन्द्रो वृत्र हतवांस्तमिन्द्रं मृधो वत्रपक्षपातिनो वैरिणोभितः समागत्य प्रकर्षेण भयमुत्पाद्याकम्पयन्त। विनाशिता मृधो वैरिणो येन देवेनासौ विमृत्। स देवा यस्यैकादशकपालस्य पुरोडाशस्य सोयं वैमृधः। तं पुरोडाशं पूर्णमासयागेनुनिर्वाप्यं प्रधानकर्मणः पश्चान्निर्वापयोग्यमपश्यत्। अथ विधत्ते अद्वैमृध इति। अथ सांनाय्यनामकमैन्द्रं दधि विधातुं प्रस्तौति इन्द्रो वृत्रमिति। इन्द्रो वृत्रवधेन भीतो दूरे पलायमानः स्वकीयाभिर्देवताभिश्च स्वकीयेन सामर्थ्येन च व्यृद्धो वियुक्तोभूत्। अथ विधत्ते यदाग्नेय इति। अत्राग्नेयो न विधियते। षष्ठे प्रपाठके यदाग्नेयोष्टाकपालोमावास्यायां च पौर्णमास्यां चाच्युतो भवतीति कालद्वये विधानात्। अत ऐन्द्राग्नविध्युन्नयनायायमर्थवादः—यदा केवलेनाप्याग्नेयेन देवतानामिन्द्रियस्य चावरोधो भवति तदानीमैन्द्राग्नेन तदवरोध इति किमु वक्तव्यमिति। अनयोः स्तुत्या तद्विधिरुन्नीयते। शाखान्तरे समानप्रकरणे स्पष्टं तद्विधानात्। ऐन्द्रादधिविधिस्त्वसंदिग्ध एव। तमेवं विधिं स्तोतुं सांनाय्यनिर्वचनं दर्शयति इन्द्रस्य वृत्रमिति। जघ्नुषो हतवतः। व्यार्छद्विविधत्वेन प्राप्नोत्। ओषयिबीरुधोर्भेदः पूर्वाचार्बैर्दर्शितः “ओषध्यः फलपाकन्ता लता गुल्माश्च वीरुधः” इति। तदेतदिन्द्रियसामर्थ्यस्यौषध्यादिरूपत्वं प्रजापतेरग्रे कथितवान्। स च प्रजा पतिरेतदिन्द्रियसामर्थ्यमिन्द्रार्थं सम्यक्प्रापयतेति पशूनब्रवीत्। तत्सामर्थ्यं पशव ओषधीभ्यः सकाशादानीय स्वात्मन्नधि स्वशरीरे सम्यक्स्थापितवन्तः। पुनः स्वनिष्ठं तद्वीर्यं क्षीरादिरूपमिन्द्रं प्रति दुग्धवन्तः। यस्मात्पशवः समनयंस्तस्मात्सांनाय्यस्य गोरसस्य सम्यगानयनेन संपन्नमितिव्युत्पत्त्या सांनाय्वनाम भवति। य स्मादिन्द्रं प्रति दुग्धवन्तस्तस्मात्प्रतिधुषः प्रतिदिनं दुह्यमानस्य क्षीरस्य प्रतिधुगिति नाम संपन्नम्। अथ शृतनामनिर्वचनं दर्शयति समनैषुरिति। भोः प्रजापते त्वदाज्ञया पशवः समनैषुः प्रत्यधुक्षंश्च क्षीररूपं तद्वीर्यं मयि न श्रयते पाकाभावान्मदुदरे तन्न जीर्यत्यर्थमुक्तवान्। ततः प्रजापतिः पशून्प्रति शृतं पक्वं कुरुतेत्यब्रवीत। तथा कृते सति तदिन्द्रियसामर्थ्यं पक्वं पयोस्मिन्निन्द्रोदरे सम्यगाश्रितमभूत्। य (त) स्माच्छ्रा पाक इत्यस्माच्छ्रिञो वा शृतमिति नाम निष्पन्नम्। अथ दधिनामनिर्वचनं दर्शयति समनैषुः प्रतीति। संनयनप्रतिदोहनशृतत्वानि संपन्नन्येव, किं तु तच्छृतं मां तु न धिनोति न प्रीणयतीत्युक्ते प्रजापतिरातञ्चनकर्तृन्प्रति दधि कुरुतेत्यब्रवीत्। तच्च दधिकृत सदेनमिन्द्रमधिनोदप्रीणयत्। तस्माद्दधिनाम संपन्नम्। अत्रैन्द्रं दधीति विधिर्विस्पष्ट एव। शृतनामनिर्वचनार्थवादनैन्द्रं पय इति विधिमुन्नयेत्। अन्यथाः वक्ष्यमाणशृतावदानविचारानुदयप्रसङ्गात्। तमेव विचारमभित्रेत्य पूर्वपक्षमुपन्यस्यति ब्रह्मवादिन इति। यस्पात्पूर्वदिने रात्रौ दधि क्रियते तस्माज्जुह्वामवदानेवदीयमाने दध्नः स्वरूपमेव पूर्वमवदेयम्। तमेवं पूर्वपक्षं दर्शयित्वा सिद्धान्तं विधत्ते अतादृत्येति। तत्पूर्वं दध्यावदानमनादृत्य क्षीरस्यैव स्वरूपं पूर्वभवदेयम्। तथा सत्यस्मिन्यजमान इन्द्रियरूपमेव क्षीरमवस्याप्योपरिष्टाद्दध्ना प्रीणयति। क्षीरं पूर्वभावि दधि पश्चाद्भावीत्येवषुत्पत्तिक्रममपि प्राप्तवान्भवति। अथातञ्चनं विधत्ते—यत्पूतीकैरिति। सोमवल्लीसमानाया लतायाः खण्डाः पूतीकाः। पलाशवृक्षस्यांशाः पर्णवल्काः। प्रौढब दरफलानि क्वलाः। ईषदम्लतक्रमातञ्चतम्। पूतीकादिभिरातञ्चनं सोमादीनां प्रियम्। तथा सत्यत्रेन्द्रप्रीत्यै दध्ना तञ्च्यात्। दध्ना तञ्चवनस्योपर्यग्निहोत्रार्थयवागूशेषे (ष) णातञ्चनं विधत्ते अग्निहोत्रेति। दर्शयागस्याग्निहोत्रेण सहाविच्छेदः संतति। अथ पिण्डपितृयज्ञं विधत्ते इन्द्रो वृत्रमिति। वृत्रवधेन सुरागामपराधं कृतवानस्मीति मन्यमान इन्द्रो भीतोत्यन्तं दूरममच्छत्। तमिन्द्रं प्रति देवता अह्वानमैच्छन्। देवतानां मध्ये योन्विष्य प्रथममिन्द्रं लभते तस्य प्रथमं भागो दीयत इति प्रजापतिनोक्ताः पितरः प्रथममिन्द्रं यस्मादलभन्त तस्मात्पितृभ्य पूर्वेद्युः पिण्डपितृयज्ञं कुर्यात् । दर्शयागदेवतानाममावास्यायामारम्भः प्रतिपादि तद्यागः। पितृणां त्वमावास्यायामेव पिण्डदानम्। ननु ब्राह्मणग्रन्थे प्रथमकाण्डस्य तृतीयप्रपाठके न्त्यानुवाके महता प्रपञ्चेन पिण्डपितृयज्ञो विहितः। बाढम्। एवं तर्हि सांनाय्यप्रशंसार्थमत्र तदनुवादो स्तु। तामेव स्तुतिं द्योतयितुममावास्यानिर्वचनं दर्शयति सोमावास्यामिति। पितृभिरन्विष्य लब्धः स इन्द्रोमावास्यायां पलायनदेशात्प्रतिनिवृत्य समागतः। ते देवास्तमिन्द्रमभिमुखीकर्तुं संप्राप्ताः परस्परमिदमब्रुवन्—अद्य नोस्माकं वसु श्रेष्ठं धनममा वसति सह तिष्ठति, सर्वेषां साधारणत्वेन वर्तत इत्यर्थः। किं तद्वस्विति तदुच्यते-इन्द्रः खलु सर्वेषां देवानां वसु श्रेष्ठं धनं, तस्मिन्वर्तमाने सति स्वामिलाभात्। यस्माद्देवा एवमुक्तवन्तस्तस्मादमा वसत्यद्येति व्युत्पत्त्या मावास्यानाम संपन्नम्। ऐन्द्रं दधीति विधिवाक्ये सांनाय्यस्य यदैन्द्रत्वमुक्तं तदेव पूर्वोत्तरपक्षाभ्यां द्रढयति ब्रह्मवादिन इति। पितृभिरानीयमानमिन्द्रमभिमुखीकर्तुं सर्वेऽपि देवा यदा समागच्छंस्तदा तत्सांनाय्यलक्षणं भागमभिलक्ष्यैव समागच्छन्निति सांनाय्यं वैश्वदेवमिति केषांचित्पक्षः। अथोशब्दः पक्षान्तरार्थः। भीत्या दूरदेशं गतमिन्द्रं भिषज्यन्त एव भयनिवारणेन समाधित्सन्त एव ते देवास्त्विन्द्रं समागताः न तु सांनाय्यलिप्सया तस्मात्सांनाय्यमैन्द्रमित्येव बुद्धिमान्ब्रूयात्। "
अत्र मीमांसा।
चतुर्थाध्यायस्य तृतीयपादे चिन्तितम्— “संस्थाप्य पौर्णमासीं तामनु वैमृध ईरितः ।द्वयोरङ्गमुतैकस्य द्वयोः स्यात्प्रक्रियावशात्।।उत्पत्तिवाक्यतः पूर्णमाससंयोगभासनात्।तस्येवाङ्गं न दर्शस्य प्रक्रिया वाक्यबाधिता” ।।
दर्शपूर्णमासप्रकरणे श्रूयते “संस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपति” इति। तत्रेयं वैमृधेष्टिः प्रकरणबलात्प्रयाजादिवदुभयोरपि दर्शपूर्णमासयोरङ्गमितिचेन्न। वाक्यस्य प्रबलत्वात्। न च संस्थाप्येति पौर्णमास्याः समाप्त्यभिधानात्तदङ्गत्वमयुक्तमिति वाच्यम्। दर्शसाधारणाङ्गसमाप्त्यभिप्रायेप्त्यणोपपत्तेः। तस्मादुत्पत्तिवाक्यादेककर्तृत्ववाचिक्त्वाप्रत्ययाच्च पूर्णमासस्यैवाङ्गम्।
द्वितीयाध्याये तृतीयपादे चिन्तितम् “दर्शपूर्णिमयोः प्रोक्त आग्नेयः केवलो ऽप्यसौ ।
दर्शे यदिति वाक्याभ्यां कर्मान्यद्वा नुवादगीः ।। अभ्यासादन्यकर्मत्वं द्विर्दर्शे सौ प्रयुज्यताम्।
“एकत्वं प्रत्यभिज्ञानादनूक्त्यैन्द्राग्नसंस्तुतिः ” ।। “यदाग्नेयोष्टाकपालोमावास्यायां च पौर्णमास्यां चाच्युतो भवति” इति कालद्वये विहितम्, “यदाग्नेयोष्टाकपालोमावास्यायां भवति” इति एकस्मिन्काले पुनर्विहितम्, तत्राविशेषपुनःश्रुतिलक्षणेनाभ्यासेन प्रयाजानामिव भेदः। तथा सत्याग्नेययागस्य दर्शकाले द्विः प्रयोग इति चेन्न। प्रत्यभिज्ञानादाग्नेयस्यैकत्वे सत्येककालवाक्यस्यानुवादत्वात्। न चानुवादो व्यर्थः। विधेयैन्द्राग्नस्तुत्यर्थत्वात्। यद्यप्याग्नेयोष्टाकपालोमावास्यायां भवति, तथापि न केवलेनाग्निना साधुर्भवति। इन्द्रसहितोऽग्निः समीचीनतरः । तस्मादैन्द्राग्नः कर्तव्य इति विधेयस्तुतिः । प्रयाजवैषम्यं तुक्तमेवानुसंधेयम्। तस्मादनुवादः।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके”
तृतीयोनुवाकः ।। ३ ।।
(अथ द्वितीयकाण्डे पञ्चमप्रपाठके चतुर्थोनुवाकः)। (आग्नावैष्णवादियागविधिः) उक्ते वैमृधसांनाय्ये द्वितृतीयानुवाकके।। अथ चतुर्थं आग्नावैष्णवादयो वक्तव्याः। तत्रादौ तावत्पूर्वोक्तानुवाकयोर्दर्शपूर्णमासयोः प्रशंसामाह ब्रह्मवादिन इति। एतौ दर्शपूर्णमासयागाविन्द्रसहितौ यो यजते स एव दर्शपूर्णमासयाजी न त्वन्यः। तयोश्च यागयोः सेन्द्रत्वं वैमृधसांनाय्याभ्यां संपद्यते। एवं विदुषः सेन्द्रयागेनो (णो) त्तरोत्तरदिने धनाधिक्यं भवति । अथ पौर्णमास्यां काम्यमनुनिर्वाप्यमिष्ट्यन्तरं विधातुं प्रस्तौति—
देवा वा इति। देवानां यज्ञं दृष्ट्वा तथैवानुचरतामसुराणां देवसमानं विजयं दृष्ट्वा देवास्तानसुरान्वञ्चयित्वानुष्ठितेनानुनिर्वाप्येण स्वयं विजयं प्राप्ता असुराश्च पराभूताः। अथ विधत्ते यो भ्रातृव्यवानिति। पौर्णमासेन प्रधानयागेन वज्रप्रहारः। अग्निः सर्वा देवता विष्णुर्यज्ञ इत्युक्तत्वात्तदीयहविषा वैरिणो देवता यज्ञं ऋतुं च विनाशयति। सारस्वतयोः स्त्रीपुरुषदेवत्वात्तदीयहविर्भ्यां मिथुनानां पशूना वर्जनम्। एतावता भ्रातृव्यस्य यावद्वित्तमस्ति तत्सर्वं नाशितं भवति। यदुक्तं सूत्रकारेण—पौर्णमासीमेव यजेत भ्रातृव्यवान्नामावास्यां पितृयज्ञमेवामावास्यायां क्रियते (इति) तदेतद्विधत्ते पौर्णमासीमेवेति। द्वितीयानुवाके वृत्रप्रसङ्ग इदमुक्तम्—घ्नन्ति वा एनं पूर्णवास आमावास्यायां प्याययन्ति इति। तस्मादत्रापि पूर्णमासानुष्ठानेन भ्रातृव्यं हत्वा दर्शयागपरित्यागेन भ्रातृव्यस्याप्यायनं परित्यक्तवान्भवति। अथ दर्शपूर्णमासस्य गुणविकृतिरूपं कंचिद्यागं विधत्ते साकंप्रस्थायीयेनेति। दधिक्षीरपूर्णाभिश्चतसृभिः कुम्भीभिर्ब्राम्हणाहृताभिः साकमध्वर्यो प्रस्थानं होमस्थानं त्रति प्रस्थानं यस्मिन्यागे सोयं साकंप्रस्थायीयो यागस्तेन पशुकामो यजेत। तत्र महता क्षीरद्रव्येण पूर्णं हविर्होतव्यम्। लोके च यस्मै राज्ञे करप्रदायिन्यः प्रजा अल्पेन प्रमाणेन धनमाहरन्ति स राजा न स्वयं तृप्यति नाप्यन्यस्मै दातुं शक्नोति। यस्मै तु महता प्रमाणेन धनमाहरत्न्ति स राजा स्वयं तृप्यति चान्यस्मै दातुमपि च प्रभवति। तस्मादत्रापि महता प्रमाणेन पूर्णस्य द्रव्यस्य होमे सति स्वयं तृप्त इन्द्रः प्रजया पशुभिश्चैनं यजमानं तर्पयति। तद्यागप्रकारः सूत्रकारेण स्पष्टीकृतः—‘साकंप्रस्थायीयेन यजेत पशुकाम इत्यमावास्या विक्रियते द्वौ सायंदोहावेवं प्रातः सायं सायंदोहाभ्यां प्रचरन्ति प्रातः प्रातर्दोहाभ्यां सर्वैर्वा प्रातः’ इति। क्षीरश्रपणपात्राणां मृन्मयत्वाद्धोमेऽपि तत्प्रसक्तिं वारयितुं विधत्ते दारुपात्रेणेति। यस्मामृन्मयपात्रमाहुतिं व्याप्तुं नार्हति तस्माद्दारुपात्रेण होमः। न ह्यत्र जुह्वामवदानमस्ति। पूर्णस्य होतव्यत्वात्। अतो हविष्पूरणक्षमेण जुहुयात्। दारुविशेषं विधत्ते—
औदुम्बरमिति। प्रथमप्रपाठके औदुम्बरो यूपो भवतीत्यत्रैतद्व्याख्यातम्। अत्र सूत्रम् ‘पात्रसंसादनकाले चत्वार्यौदुम्बरपात्राणि प्रयुनक्ति तेषां जुहूवत्कल्पः’ इति। ‘यावत्यः कुभ्म्यस्तावन्तो ब्राह्मणा दक्षिणत उपवीतिन उपोत्थाय कुन्भीभ्यः पात्राणि पूरयित्वा तैरेवाध्वर्युं जुह्वन्त(त) मनु जुह्वति स्विष्टकृद्भक्षाश्च न विद्यन्ते’ इति च। नागतश्रीरिति। शुश्रुवान्वेदत्रयाभिज्ञः। वेदत्रयस्य च श्रीरूपत्वात्तदभिज्ञः प्राप्तश्रीर्भवति। श्रीरूपत्वं चैवमाम्नायते—‘अहे बुध्निय मन्त्रं मे गोपाय। यन्मृषयस्त्रयिविदा विदुः। ऋचः सामानि यजू षि। सा हि श्रीरमृता सताम्’ इति। ग्रामाध्यक्षो ग्रामणीः। राज्ञः पुत्रो राज्यन्यः। दयोः प्राप्तश्रीकत्वं प्रसिद्धम्। तेषामेव त्रयाणां महेन्द्रो देवता। एवं सति यः पुरुषः स्वकीयां देवतामतिक्रम्य यजते। एतेषु कश्चिदिन्द्रं यजति। अन्यो वा महेन्द्रं यजति। ताडशः स्वकीयदेवतायाः प्रच्युतः सन्परकीयां देवतां न प्राप्नोति। तद्देवताशापेन पापीयान्दरिद्रश्च भवति। अगतश्रियः सर्वदेन्द्रप्राप्तौ विशेषं विधत्ते संवत्सरमिति। संवत्सरमतिक्रम्य यस्माद्व्रतं नानुष्ठेयं भवति तस्मादगतश्रीः संवत्सरमिन्द्रं यजेत। एवं सति स्वकीयैव देवतान्यस्मिन्संवत्सर इज्यमाना सती भूत्यर्थं यजमानं प्रकाशयति। ततोयं धनवत्तरो भवति। अगतश्रियः कांचिदिष्टिं विधत्ते संवत्सरस्येति। व्रतपालकोग्निर्महेन्द्रयागाधिकारनिवारकपापरूपं वृत्रं संवत्सरेन्द्रानुष्ठानेन हतवन्तं यजमानं महेन्द्रयागानुष्ठानरूपं व्रतं प्रापयति। व्रतपतेष्टेरूर्ध्वमगतश्रिय इन्द्रमहेन्द्रयोरैच्छिकत्वं विधत्ते ततोधि कामं यजेतेति।
अत्र मीमांसा।
तृतीयाध्यायस्य पञ्चमपादे चिन्तितम् ‘आक्रामन्सह कुंभीभिरस्मिञ्छेषक्रिया न वा जुह्वावदानात्प्रकृताविव शेषक्रियोचिता।। कुम्भीषु शेषासंसिद्धेः साकंप्रस्थाय (य्य) कर्मणि। न स्विष्टकृदिदं (डं) कार्यमग्नीधे स्रुक्प्रदानतः’।।
“‘साकंप्रस्थायीयेन यजेत पशुकामः’ इति विहिते कर्मणि श्रूयते सहकुम्भीभिरभिक्रामन् इति। तत्र चतसृभिदधिपयः कुम्भिभि। सहा हवनीयदेशेभिक्रमणमात्रं श्रुतम्। न तु तत्र कुम्भीभिर्होमः श्रुतः। तथा सत्यस्य कर्मणः सांनाय्यविकृतित्वाज्जुह्वा कुम्भीभ्योवदाय जुहुयात्। हुतशेषेण च स्विष्टकृदादिकं सांनाय्यशेषेणेव कर्तव्यमिति प्राप्ते ब्रूमः नात्र कुम्भीषु हुतशेषः सांनाय्य इव जुह्वावदानाभावात्। अग्नीधे स्रुचौ प्रदाय सह कुम्भीभिरभिक्रामन्नित्युक्तत्वाज्जुहूपभृतोः प्रत्तत्वादभिक्रमणस्य होमार्थत्वाच्च कुम्भीभिरेव दधिपयसोहोंमे सति कुम्भीमात्रमवशिष्यते, न हुतहविःशेषः। तत्र कृतः शेषकर्मं कार्यम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमपिरपाठके चतुर्थोनुवाकः ।। ४ ।।”
“(अथ द्वितीयकाण्डे पञ्चमप्रपाठके पञ्चमोनुवाकः)। (अभ्युदयेष्ट्यादीत्रयविधिः) द्विधा चतुर्थे पुभेदात्प्रोक्ता सांनाय्यदेवता।अथ पञ्चमेभ्युदयेष्ट्यादयो वक्तव्याः। तत्र तावत्सांनाय्याधिकारिणं विविनक्ति नासोमयाजीति। सोमयागात्पुरा दर्शयागी सांनाय्यं नानुतिष्ठेत्। असोमयाणिनः पयो नागतमप्राप्त। सोमस्यौषधिरसत्वेन तदभावे सत्योषधिरसविशेषस्य पयसः सुतरामभावात्। एवं सति यद्यसोमयाजी संनयेत्तर्ह्यसौ परिमोष एव तस्कर एव सन्ननृतं करोत्यन्याय्यं करोति। अपि च वह्नौ सिच्यमानं तत्सांनाय्यमन्वाय्यत्वात्परैव सिच्यते विनाश्यत एव। तस्मात्सोमयाज्येव संनयेत्। न चास्येतरवत्पयोनागतं, सोमस्यौषधिरसत्वेन पयोरूपत्वात्। सांनाय्यमपि तथाविधम् अतः सोमयाजी सोमरूपेण पयसा सह सांनाय्यरूपं पय आत्मनि धारयीत। अथाभ्युदयेष्टिं विधत्ते वि वा एतामिति। चतुर्दश्यामभावास्येयमिति भ्रान्त्या संदिहानो रात्रावेव हवींषि निर्वपेत्। तथा च श्रुत्यन्तरमाम्नायते-यदि बिभीयादभि मोदेष्यतीति महारात्रे हवींषि निर्वपेत्फलीकृतैस्तण्डुलैरुपासीतार्धं दधि हविरातञ्चनस्य निदध्यादर्धं न यद्युदियात्तेनातञ्च्य प्रचरेद्येदि नाभ्युदियात्तेन ब्राह्मणान्भोजयेत्’ इति। ‘अयमर्थः- यदि चतुर्दश्यां प्रातरग्निदोत्रादूर्ध्वममावास्याभ्रान्त्या वत्सानपाकृत्य सायं दुग्ध्वा दध्यर्थमातञ्चनं विधाय पश्चात्तिथौ संदिहानो मां प्रति चन्द्रोभ्युयदेष्तीति भीतो भवेत्तदा रात्रिमध्ये हवींषि निरुप्य फलीकरणान्तं विधाय तादृशैस्तण्डलैर्युक्तचन्द्रोदयं प्रतीक्षेत। तत्पूर्वातञ्चनेन निष्पन्नस्य दध्नोर्धमुत्तरस्यां रात्रौ पुनरातञ्चनार्थमवस्थापयेत्। इतस्त्वर्धं न पृथगवस्थापयेत्, किंतु तण्डुलैः सह पुरतोवस्थाप्य चन्द्रोदयं प्रतीक्षेत। यदि चन्द्रोभ्युदियात्तदानीं पृथगवस्थापितेनार्थेन परेद्युर्मुख्यामावास्यायां रात्रौ सायंदोहमातञ्च्य निष्पन्नेन दध्ना प्रतिपदि प्रातः प्रचरेत्। यदि तु न चन्द्रोभ्युदियात्तदा तण्डुलैर्दध्यर्धेन च दर्शकर्म निष्पाद्य पृथगमवस्थापितार्धान्तरेण ब्राह्मणान्भोजयेदिति। एवं स्थिते सति यस्य यजमानस्य रात्रावेव फलीकृततण्डुलपर्यन्तं हविर्निरुप्तं संपादितं भवति। ततः प्रतीक्ष्यमाणश्चन्द्रमाः पूर्वस्यां दिशि अभ्युदेति। चन्द्र एतं यजमानं प्रजया पशुमिश्च व्यर्धयत्येवास्य भ्रातृव्यं च वर्धयति। अतोभ्युदयं निमित्तीकृत्यैत्तण्डुलान्मध्यंमस्थविष्ठाणिष्ठरूपैस्त्रेधा भिन्नांस्तान्पूर्वदेवताभ्यो विभजेत्। विभज्य च दात्रादिगुणकाग्न्यादिदेवताभ्यो हविः कुर्यात्। यदुक्तं सूत्रकारेण- ‘‘द्वे पौर्णिमास्यौ द्वे अमावस्ये यजेत यः कामयेतर्ध्युवामित्युक्त्वाहैकामेव यजेत’ इति। अस्यायमर्थः- पौर्णमास्यामन्वाधाय प्रतिपदी पौर्णमासयागं कृत्वा तदानीमेवान्वाधाय द्वितीयायां पुनः पौर्णमासयागं कुर्यात्। एवममावास्यायामपि। सेयमृद्धिकामस्येष्टिः सुमना इत्यभिधीयते। तामेतां सुमनसमिष्टिं पूर्वोत्तरपक्षाभ्यां विचार्य विधातुमादौ पूर्वपक्षी सिद्धान्तं निराकृत्य स्वपक्षं विधते न द्वे यजेतेति। सिद्धान्तिना यदुच्यते द्वे यजेतेति तन्न युक्तम्। यदि तत्र पूर्वया पौर्णमास्या संप्रति यजेत सम्यगनुतिष्ठेत्तदानीमुत्तरया छम्बट्कुर्यात् यदुत्तरा सम्यगनुष्ठिता तदा पूर्ववैयर्थ्यम्। तथासति द्विरनुष्ठिता सेयमिष्टिरित्यपि वक्तुं न शक्यते, इष्टावधिकावृत्तेरविहितत्वात्। नाप्यग्निष्टोमादियज्ञं इति वक्तुं शक्यतेधिकप्रयोगे सत्यपि प्रातःसवनादीनामभावात्। अत उभयभ्रष्टत्वात्तदनुष्ठाता यजमानः सभायां ह्रीतमुखी भवति। तैः पृष्टः सन्नुत्तरं वक्तुं न प्रगल्भो भवेत्। तस्मादृद्धिकाम्यावृत्तिं परित्यज्यैकामेव पौर्णमासीममावास्यायां च यजेत। तथा सत्यस्य यजमानस्य पुत्रोपि सभायां प्रगल्भो जायते। किमु वक्तव्यमयमिति। तमिमं पूर्वपक्षं निराकृत्य सिद्धान्तं विधत्ते अनादृत्येति। एकामेवेति यदुक्तं तदनादृत्य द्वे एव यजेत, तत्र पूर्वयेष्ट्या सम्यगनुष्ठितया यज्ञमुखरूपयज्ञोपक्रमस्यालम्भनं देवतावरोधो देवलोकजयश्चेति प्रयोजनत्रयं संपद्यते। उत्तरया सम्यगनुष्ठितया प्रकृतयज्ञसंपूर्तिरिन्द्रियावरोधो मनुष्यलोकजयश्चेति संपद्यते त्रीणि प्रयोजनानि। अतो नैकस्या अपि वैयर्थ्यम् नापीष्टियज्ञत्वयोरभावः, प्रत्येकमिष्टित्त्रेपि संमूहितस्य प्रौढयज्ञत्वात्। अत एतदनुष्ठानेन भूयसो बहुतेकाहाहीनसत्ररूपान्यज्ञक्रतूनुपैति। किंचाद्य द्वितीयायामिष्टवन्तं यजमानमभिलक्ष्य पश्चाच्चन्द्रमा अभ्युदेति तस्येयमिष्टिर्नाम्ना सुमना इत्युच्यते। वर्धिष्णुचन्द्रोदयस्य सौमनस्यहेतुत्वात्। ततोस्मिन्नेव लोके तस्य समृद्धिर्धनं भवति। यथेयं सुमना नामेष्टिदंर्शपूर्णमासयोर्गुणविकृतिस्थेवान्यां गुणविकृतिं विधत्ते दाक्षायणयज्ञेनेति। एतस्य यज्ञस्य स्वरूपं सूत्रकारेण स्पष्टीकृतम्—-‘दाक्षायणयज्ञेन सुवर्गकामो द्वे पौर्णमास्यौ द्वे अमावास्ये यजेताग्नेयोष्टाकपालोग्नीषोमीय एकादशकपालः पूर्वस्यां पौर्णमास्यामाग्नेयोष्टाकपाल ऐन्द्रं दध्युत्तरस्यामाग्नेयोष्टाकपाल ऐन्दाग्न एकादशकपालः पूर्वस्याममावास्यायामाग्नेयोष्टाकपालो मैत्रावरुण्यामिक्षा द्वितीयात्तरस्याम्’ इति। तत्रोत्तरस्यां पौर्णमास्यामुत्तरस्याममावास्यायां चैकैकं विधत्ते पूर्णमासे समिति। तत्रैन्द्रं दधिरूपं यदुत्तरस्मिन्पौर्णमासे सांनाय्यं तत्प्रशंसति पूर्णमासे वा इति। यदैन्द्रं दध्यनुष्ठित, तेन पौर्णमास एव देवानां सोमेभिषुतो भवति पयो वै सोमः पय सांनाय्यमित्युक्तत्वात्। तेषां देवानां पौर्णमासीमारभ्यामावास्यापर्यन्तमर्धमासं नैरन्तर्येण सोमः प्रकर्षेण सुतो भवति। प्रतिदिनमनुष्ठिताभिः सोमविकृतिभिर्या प्रीतिः सा तेन सांनाय्येन संपद्यत इत्यर्थः। अथेत्तरस्याममावास्यायां विहितामामिक्षां प्रशंसति तेषां मैत्रावरुणीति। येयममावास्यायामनुष्ठिता मैत्रावरुण्यामिक्षा सा तेषां देवानां वशानूबन्ध्या संपद्यते। तत्कथमिति तदुच्यते—पूर्वेद्युः शुक्लप्रतिपदि यजत इति यत्तेन सौमिकीं वेदिमेव कृतवान्भवति। तस्मिन्नेव दिने पुनरेव वत्सानपाकरोतीति यत्तेन सदोहविर्धाने ‘द्वौ मण्डपौ संपादितवान्भवति। द्वितीयायां प्रातराग्नेयेनाष्टाकपालेन यजत इति यत्तेन देवैरिष्यभाणां सूत्यामेव संपादितवान्भवति। स तादृशो यजमान एतमर्धमासं शुक्लपक्षं नैरन्तर्येण देवैः सधमादं सहर्षोपेतं सोमं पीतवान्भवति। तस्मादाग्नेयादूर्ध्वं तस्मन्द्वितीयामावास्याकर्मणि मैत्रावरुण्यामिक्षया यजत इति यत्सो एवामिक्षा यजमानस्य वशा संपद्यते। कासौ वशेति तदुच्यते—सोमयागावसाने देवानामर्थ एव या वशानूबन्ध्या क्रियते सैवेयमामिक्षेत्यर्थः। दाक्षायणयज्ञानुष्ठानं प्रशंसति साक्षाद्वा इति। यो यजमान एषां विधिवाक्योक्तानामग्न्यादिनां देवानां यज्ञमभ्यारोहति सम्यगनुतिष्ठति एषां साक्षादेव तानग्न्यादिदेवानभ्यारोहति प्राप्नोति। बहुकालं (ल) व्यवधानमन्तरेणैव देवसदृशं भोगं प्राप्नोतीत्यर्थः। प्राप्य च यथा लोके श्रेयान्राजामात्यादिरुत्तमं पदमभ्यारूढः स्वकीयभृत्यानामग्रे ममेदं भोगसाधनमानयेति पुनः पुनः कामयते तथायं यजमान आवृत्तयाजी पुनः पुनः फलसंपादने करोति। पूर्वं स्वर्गकामस्यायं यज्ञ उक्तः, इदानीं व्यावृत्कामस्य स एवोच्यते यद्यवविध्यतीति। अन्येषु यज्ञेषु यद्यवविध्यति किंचिद्वैकल्यं करोति तदानीं पापीयान्भवति, अन्ययजमानापेक्षयातिनिकृष्टो भवति। यदि नावविध्यति वैकल्यं न करोति तदानीमन्यैः सदृङ्समान एव भवति न तु तेभ्य आधिक्यलक्षणा व्यावृत्तिः सिध्यति। अतो व्यावृत्काम एतेन दाक्षायणयज्ञेन यजत। यस्यादेष यज्ञः क्षुरवद्वज्ररवच्चातितीक्ष्णस्तस्मादेतदनुष्ठायी ताजक्पुण्यो वा भवति तदानीमेवेतरेभ्यो व्यावृत्त एव भवति। एतद्विरोधी ताजक्प्रमीयत एव। अथवा यजमान एव सम्यगनुष्ठानादुत्तमो भवति वैकल्यात्प्रमीयते वा। अतो वैकल्यपरिहाराय व्रतविशेषान्विधत्ते—तस्यैतद्व्रतमिति।”
पल्पूलनं वस्त्रशुद्धिसाधनमूषादि तेनास्य वासो न शोययेयुः यस्माद्देवाः पूज्या एतत्सर्वमनृतवदनादि न कुर्वन्ति तस्मादयमपि न कुर्यात्। अस्य दाक्षायणयज्ञस्याधानादूर्ध्वं दर्शपूर्णमासाभ्यां सह विकल्पो द्रष्टव्यः। तथा च
“सूत्रकार आह—–‘(*दर्शपूर्णमासयोः प्रक्रमे विकल्पते, एतेन दर्शपूर्णमासाभ्यां वा यजते, एतेन पञ्चदश वर्षाणीष्ट्वा वा विरमेद्यजेत वा) संतिष्ठते दाक्षायणयज्ञः इति’ । "
अत्रः मीमांसा।
“षष्ठाध्यायस्य पञ्चमपादे चिन्तितम् “इष्टिरभ्युदये दर्शात्कर्मान्यदुत देवताः। पूर्वास्त्याज्या विशिष्टस्य विधानादन्यकर्म तत्। प्रकृतप्रत्यभिज्ञानान्न कर्मान्तरचोदना। देवताः प्राकृतास्त्यक्त्वा द्रव्यमन्याभ्य उच्यते” ।। दर्शपूर्णमासयोः श्रूयते-यस्य हबिर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशकपालं कुर्याद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दध श्चरुं येणिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुम्’ इति। अयमर्थः दशंभ्रान्त्या केनचिच्चतुर्दश्यां हविर्निरुप्तं भवति। ततः प्रत्यूषे पूर्वस्यां दिशि चन्द्रमा अभ्युदेति तदा निरुप्तास्तण्डुलास्त्रेधा विभक्तव्याः। अखण्डिता ईषाखण्डिता अतिसूक्ष्मकणाश्चेति त्रैविध्यम्। ते च त्रिविधा त्रादिगुणविशिष्टेभोग्न्यादिभ्यो देवेभ्य इति। तत्रेदं प्रक्रान्तदर्शकर्मणोन्यत्कर्म। कुतः। कालापराधप्रायश्चित्तार्थं द्रव्यदेवताविशिष्टस्य कर्मणो विधीयमानत्वात्। तत इदं प्रायश्चित्तं कृत्वा परेद्युरनुष्ठेयमिति प्राप्तेः ब्रूमः। हविरर्निरुप्यमिति प्रकृतं यद्दर्शकर्म तत्परित्यज्य कर्मान्तरविधिकल्पने प्रकृतहानाप्रकृतागमौ प्रसज्येयाताम्। अतस्तस्मिन्नेव प्रकृते कर्माणि निरुप्तस्य हविषः पूर्वदेवताभ्यो दर्शसंबन्धिनीभ्योपनयोत्राभिधीयते। तण्डुलोपलक्षितं यद्धविर्दधिरूपं व्रीहिरूपं च पूर्वेद्युर्निरुप्तं तद्धविः पूर्वदेवतात्मनोग्नेरिन्द्राच्च विभजेदिति देवताहविषो परस्परविभागोत्र विधीयते, न तु तण्डुलानां स्थविष्ठमध्यमाणिष्ठरूपस्त्रिविधो विभागो विधीयते। तस्य धनुश्चिहूनान्तर्गतग्रन्थस्थाने ख. पुस्तके सोयं दर्शपूर्णमासयोः प्रक्रमोनेन दर्शपूर्णमासाभ्यां यजेत तेन पञ्च वर्षाणीष्ट्वा विरमेद्यजेत वा। इति पाठान्तरम्। प्राप्तत्वात्। ये मध्यमाः स्युरिति विनियोगभेदादर्थप्राप्तः, स विभागः। ततः पूर्वदेवतास्त्यक्त्वा दातृत्वादिगुणयुक्ताभ्यो वह्न्यादिदेवताभ्यः पूर्वं निरुप्तं हविः प्रदातव्यम्। ननु प्रतिपदि प्रातर्निर्वापकालो न तु दर्शे। तथापि दर्शभ्रान्त्यापि चतुर्दश्यां निर्वापाभावान्निर्वापादूर्ध्वं चन्द्रोदयो न प्राप्नोति। नैष दोषः। दध्नो द्व्यहकालीनत्वेनार्थसिद्धेः (द्धे) पूर्वेद्युर्दोहनातञ्चने, तदभिप्रायेण निरुप्तमित्युच्यते। यद्वा व्रीहिनिर्वापोपि पूर्वेद्युर्विकल्पितः । तथा च श्रूयते –‘यदि बिभीयादभि मोदेष्यतीति महारात्रे हवींषि निर्वपेत्’ इति। अथमर्थः भ्रान्त्या प्रमादेन वा दर्शोयमित्याभिनिश्चितवतो मां प्रति चन्द्रोभ्युदेष्यतीति भीतिरस्ति तदा तस्मिन्नेव दिने महारात्रे सर्वाणि निर्वपेदिति। अतो निरुप्तस्यैव हविषोस्मिन्नेव कर्मणि कालव्यत्यासं निमित्तीकृत्य देवतान्तरसंयोगरूपः प्रयोगप्रकारभेद उपदिष्यते। ततो दर्शस्यैवायं नैमित्तिकः प्रयोगो न तु दर्शलोपप्रायश्चित्तमिति नैमित्तिकं दर्शप्रयोगमनुष्ठाय पश्चात्स्वकाले नित्योपि दर्शप्रयोगोनुष्ठातव्यः। तत्रैवान्यच्चिन्तितम् “ऊर्ध्वं चन्द्रोदये सेष्टिर्निर्वापात्पूर्वमप्युत। उक्तेराद्योन्तिमः पक्षो निरुप्तेत्यविवक्षया”।। सा पूर्वक्ताभ्युदयेष्टिर्हविर्निर्वापादूर्ध्वं चन्द्रोदये सति कर्तव्या। निरुप्तं हविरभ्युदेतीत्युक्तत्वादिति चेन्मैवम्। हविरभ्युदयस्य निमित्तत्वेनं तद्विशेषणस्य निर्वापस्याविवक्षितत्वात्। अन्यथा वाक्यभेदापत्तेः। यस्य हविरभ्युदेति तत्र हविर्निरुप्तमित्येवं वाक्यभेदः। तस्मिन्निर्वापात्प्रागपि चन्द्रोदये सत्यविहितकाले कर्मोपक्रममात्रेणेयमिष्टिः कर्तव्या। तत्रैवान्यच्चिन्तितम् “प्राक्प्राकृतीभ्यो निर्वापो वैकृतीभ्योथवाग्रिमः। तण्डुलोक्तेर्वैकृतीभ्यो हविर्मात्रोपलक्षणात्”।। निर्वापात्प्राग्यदा चन्द्रोदयस्तदा चन्द्रोदयादूर्ध्वं क्रियमाणो निर्वापः प्राकृतीभ्यो देवताभ्यो युक्तः। कुतः । तण्डुलान्विभजेदितिष्टवाक्येन तण्डुलीभावादूर्ध्वंप्राकृतदेवतापनयनश्रवणात्। निर्वापस्तु व्रीहीणामेवेति तस्मिन्काले प्राकृताग्न्यादिदेवता नापनीता इति प्राप्ते ब्रूमः- वैकृतीभ्यो दातृत्वादिगुणयुक्ताभ्यो निर्वापः कर्तव्यः। कुतः। तण्डुलशब्देन हविर्मात्रस्योपलक्षणात्। अन्यथा दधिपयसो रतण्डुलत्वेन देवतापनयो न स्यात्। हविर्मात्रविवक्षायां तु ब्रीहीणामपि हविष्ट्वेन प्राकृतदेवतासंवन्धमपनीय देवतान्तरसंवन्धस्य कर्तुं युक्तत्वाद्वैकृतीभ्यो निर्वपेत्। तत्रैवान्यच्चिन्तितम् “प्राकृतीभ्योल्पनिर्वापेभ्युदये शिष्टतण्डुलान्। प्राकृतीभ्यो वैकृतीभ्यस्तूष्णीं वा निर्पपेदिह।। प्राकृतीभ्यः प्रवृत्तत्वाद्वैकृतीभ्यो निमित्ततः। शिष्टांशस्यापदार्थत्वादसंयोगादिहान्तिमः ”।। यदा प्राकृतीभ्यो मुष्टिमात्रे निरुप्ते सति चन्द्रोभ्युदेति तदा मुष्टित्रयरूपोवशिष्टांशः प्राकृतीभ्य एव निर्वप्तव्यः। कुतः। प्राकृतीनां प्रवृत्तत्वात्। इत्येकः पक्षः। चन्द्रोदये निमित्ते सति नैमित्तिकस्य पूर्वदेवतापनयस्यावश्यंभावाद्वैकृतीभ्योवशिष्टांशनिर्वाप इति द्वितीयः पथः। अस्तु प्राकृतदेवतापनयो निमित्ताधीनः। अन्यदेवतासंयागस्त्वंशस्य न संभवति। अन्याश्च देवताः प्राकृतदेवतास्थाने निवेशनीयाः। प्राकृतीनां च निर्वापपदार्थसंवन्ध कृप्तो न पदार्थांशेन। ततस्तत्स्थानपतितानां वैकृतीनां च नांशसंयोगो युक्त इत्यस्यांशस्य प्राकृतीभ्योपनीतत्वाद्वैकृतीभिरसंयोगाच्च तूष्णीमेव निर्वाप इति राद्धान्तः। तत्रैवान्यच्चिन्तितम् “सेष्टीः सांनाय्यिनो वा स्यादन्यस्यापि दधिश्रुतेः। नान्यस्येत्यग्रिमोन्त्यः स्याद्देवमात्रविधानतः” नहि सांनाय्यरहितस्य दधिपयसी विद्येते, तदभावे च दध श्चरुं शृते चरुमिति विधिर्न संगच्छते। तस्मात्सांनाय्यिन एव सा पूर्वोक्ताभ्युदयोष्टीरिति चेन्मैवम्। अप्राप्ता देवता एवात्र विधीयन्ते। दधिपयसोरपि विधाने वाक्यं भिद्येत। तस्तण्डुलवत्प्राप्तयोर्दधिपयसोरनूद्यमानतया विध्यभावादुदके चरुश्रपणसंभवाच्च सांनाय्विवदन्यस्यापि सेष्टिरस्ति। नवमाध्यायस्य द्वितीयपादे चिन्तितम् “शृतदध्नोः प्रणीतानां न धर्माः सन्ति वा नहि। अपाकार्थत्वतः सन्ति पाकहेतुत्वसाम्यतः” ।। अभ्युदयेष्ट्यां शृते चरुं दधनि चरुमिति शृतदधिनी आम्नायेते। तयोः प्रणीताधर्मा न कर्तव्याः। हविःश्रपणार्थमुत्पन्ना उत्पवनादिधर्मसंस्कृता आपः प्रणीता उच्यन्ते। दधिपयसी तु श्रपणार्थं नोत्पन्ने, किंतु हविष्ट्वेन प्रदानार्थमुत्पन्ने। ततः साम्याभावान्नोत्पवनादयो धर्मास्तयोरिति चेन्मैवम्। अन्यार्थमुत्पन्नयोरपि दधिपयसोरत्र चन्द्रोदयं निमित्तीकृत्य चरुश्रपणहेतुत्वं वाचनिकम्। ततः समानत्वात्तद्धर्माः सन्ति। द्वितीयाध्यायस्य तृतीयपादे चिन्तितम् “यद्दाक्षायणयज्ञेन स्वर्गकामो यजेस तत्। कर्मान्तरं गुणो वोक्तदर्शादौ फलसिद्धये।।”
गुणस्यास्याप्रसिद्धत्वात्कर्मभेदोत्र संज्ञया। गुणो व्युत्पत्तिशेषाभ्यामावृत्त्याख्बो न नाम तत्”।। दर्शपूर्णमासप्रकरणे श्रूयते- “दाक्षायणयज्ञेन सुवर्गकामो यजेत ” इति। तत्र दाक्षायणशाब्दवाच्यस्य कस्यचिल्लोके प्रसिद्भ्यभावादुद्भिदादिवद्यजिसामानाधिकरण्येन कर्मनामत्वादथैष ज्योतिरित्यादिवदपूर्वसंज्ञया कर्मविधिरिति चेन्न। दाक्षायणशब्दस्यावृत्तिवाचकत्वात्। तत्र शब्दनिर्वचनाद्वाक्यशेषाच्चावगम्यते। तथा हि अयनमित्यावृत्तिरुच्यते। दक्षस्यैते दाक्षास्तेषामयनमिति तन्निर्वचनम्। दक्ष उत्साही पुनः पुनरावृत्तावनलस इत्यर्थः। तदीयानां प्रयोगाणामावृत्तिर्दाक्षायणशब्दार्थः। तथा चावृत्त्या युक्तः प्रकृतो दर्शंपूर्णमासात्मको यज्ञो दाक्षायणयज्ञः। आवृत्तिप्रकारस्तु हे पौर्णमास्यौ द्वे अमावास्ये इत्यादिवाक्यशेषादवगम्यते। ततो दध्यादिवत्प्रसिद्धत्वाद्दर्शपूर्णमासयोः प्रकृतयोरयं स्वर्गफल सिद्ध्यर्थमावृत्त्याख्यस्य गुणस्य विधिर्न तूद्भिदादिवत्कर्मनामधेयम्। एवं साकंप्रस्थायीयेन यजेत पशुकाम इत्यत्रापि द्रष्टव्यम्। अमावास्यायागे द्वौ द्वौ दोहौ संपाद्य चतसृणां दधिपयसोः कुम्भीनां सह प्रस्थापनं साकंप्रस्थायस्तद्युक्तो यागः साकप्रंस्थायीयः। तथा सति प्रकृते दर्शयागे पशुफलाय साकंप्रस्थायाख्यो गुणो विधियते। तृतीयाध्यायस्य चतुर्थपादे चिन्तितम् “अनृतं न वदेदेष पुंधर्मो वानुवादगीः। सक्रतौ पुंसि शुद्धे वा ऋतौ यद्वा विधिः क्रतौ।। अनृतोक्तेः पुमर्थत्वात्तन्निषेधे तथाविधः। स्मार्तानुवादः पुंस्क्रत्वोः श्रुतिप्रक्रिययोर्वशात्।।
नाख्याते पुरुषस्योक्तिः क्रतावेव प्रयाजवत्। स्मार्तोक्तनियमादन्यः संयोगोतः क्रतौ विधिः।।
“दर्शपूर्णमासप्रकरणे श्रूयते नानृतं वदेदिति। तत्र पुरुषधर्मत्वेनायं प्रतिषेधो विधीयते। कुतः। प्रतियोगिनोनृतवदनस्य पुंधर्मत्वात्तन्निषेधस्यापि पुरुषधर्मत्वेनैव विधातव्यत्वात्। वदेदित्येतदाख्यातं तावत्कर्तृवाचकम्। तेनाख्यातेन कर्तुः प्रतीयमानत्वात्। पुरुषस्याख्यातप्रत्ययवाच्यत्वे सति प्रकृत्यर्थस्य वदनस्य पुरुषधर्मत्वं युक्तम्। अन्यथा भिन्नविषयत्वेन वाधकत्वं न स्यात्। तस्मात्पुरुष वाचकाख्यातश्रुत्या प्रकरणं बाधित्वा पुरुषार्थोयं निषेधो विधीयते। अस्त्येव स्मार्तः प्रतिषेध इति चेत्। तर्ही तस्यैतच्छ्रुतिवाक्यं मूलमस्तु। तस्मात्पुरुषार्थ इत्येकः पूर्वः पक्ष। आख्यातभिन्नविषयत्वेन बाधकत्वं न स्यात्। आख्यात्तश्रुतेः प्रकरणस्य चाविरोधाय क्रतुयुक्तपुरुधर्मोस्तु। नह्येतद्वाक्यं स्मृतेर्मूलम्। भिन्नविषयत्वात्। स्मृतिश्चोपनमारभ्यामरणं पुरुषस्यानृतं प्रतिषेधति। तन्मध्यपातित्वात्क्रतावपि स्मार्तो निषेधः प्रप्त एव। तदुभयार्थोप्ययं प्रतिषेधो न विधीयते, किंत्वनूद्यत इति द्वितीयः पूर्वः पक्षः। आख्यातेन भावनाऽभिधीयते। कर्ता तु तदविनाभूतोर्थात्प्रतीयते। अतः श्रुत्यभाबात्केवलेन प्रकरणेन प्रयाजादिवदारादुपकारकः क्रतावेव निविशते। न च तत्रापि विधीयते, कितुं सार्वत्रिकस्य निषेधस्य क्रतावपि प्राप्तत्वादनूद्यत एवेति तृतीयः पूर्वपक्षः। सत्यमेववदेन्नानृतमिति योयं स्मार्तनियमरूपः पुरुषार्थः संयोगस्तस्मादन्यक्रत्वर्थः संयोगः। अतो प्राप्तत्वाद्विधियते। एतद्विध्यतिक्रमे क्रतोरेव वैगुण्यं न तु पुरुषस्य प्रत्यवाय। अतोत्र क्रतुगामि प्रायश्चत्तम्। पुरुषार्थनियमातिक्रमे तु पुरुषस्यैव प्रत्यवायो न तु क्रतोर्वैगुण्यम्। तत्र स्मार्तप्रायश्चित्तमितिविशेषः।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदारथप्रकाशे कृष्णयजुर्वे दीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके पञ्चमोनुवाकः।। ५।।”
(अथ द्वितीयाष्टके पञ्चमप्रपाठके षष्ठोनुवाकः)। (दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यविधिः)
“(अथ द्वितीयकाण्डे पञ्चमप्रपाठके षष्ठोनुवाकः)। (दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यविधिः) पञ्चमेभ्युदयेष्ट्याद्यास्तिस्त्र इष्टय ईरिताः। अथ षष्ठे दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यं विधत्ते एष ना इति। दर्शपूर्णमासाविति यदस्त्येष एव देवान रथो रथस दृशः। तथा सति प्रथमतो दर्शपूर्णमासाविष्ट्वा पश्चात्सोमेन यो यजते तस्यानुष्ठाने महत्सौकर्यं भवति। यथा लोके भूयो रथसंचरणेन महामार्गस्थकण्टकपाषाणादिषु क्षुण्णेषु मार्गो विस्पष्टो भवति, अयमस्य ग्रामस्य मार्ग इति सुखेनाध्यवसातुं शक्यत। कण्टकाद्यभावात्। वरः श्रेष्ठश्चासौ भवति तादृशे मार्गे मनुष्या अनायासेन गन्तुं शक्नुवन्ति, तथा देवानां संबन्धिना दर्शपूर्णमासरथेन स्पष्टे सुखेनाध्यवसातुं शक्ये श्रेष्ठे मार्गे यजमानः सोमेन यष्टुमध्यवस्यति। दर्शपूर्णमासयोरिष्टिप्रकृतित्वात्तयोः प्रयोगे स्वाधीने सति तद्विकृतिभूताः सोमाङ्गभूता प्रायणीयाद्याः साङ्गाः सुखेनानुष्ठातुं शक्यन्ते। अननुष्ठितयोस्तु दर्शपूर्णमासयोः सोमप्रकरणे दीक्षणीयादिकर्मस्वरूपमात्रस्यो पदिष्टत्वात्तदङ्गानि प्रयाजादीन्यनुष्ठातुं न शक्यन्ते। तस्मादिष्टिपूर्वत्वं दर्शपूर्णमासयोर्बहुधा प्रशस्यते। तत्र प्रथमं संवत्सरावयवत्वेन प्रशंसति एतानि वा इति। यथा मनुष्यस्य हस्तपादादीन्यङ्गानि मणिबन्धकूर्परकक्षादिसंधिरूपाणि परूंषि पर्वाणि तथा संवत्सरस्य द्वादश दर्शा अङ्गानि द्वादश पौर्णमास्यः परूंषि तद्विदित्वानुष्ठाने तदुभयं प्रविदधाति सम्यगनुष्ठापयति। "
“अथ चक्षुष्ट्वेन प्रशंसति एते वा इति। अथेन्द्रपराक्रमरूपेण प्रशंसति एषा वै इति। सर्वेभ्यः कामेभ्यो दर्शपूर्णमासाविति शाखान्तरे श्रुतत्वाद्युद्धजयहेतुत्वमप्यस्तीति पराक्रमरूपत्वम्। अथ स्वर्गमार्गत्वेन प्रशंसति एष या इति। देवा यान्ति गच्छन्ति अस्मिन्मार्गे सोयं देवयानः। अथाश्वरूपेण प्रशंसति एतौ वा इति। एभ्योग्यादिदेवेभ्यस्ताभ्यामेव दर्शपूर्णमासाभ्यां यजमानः पुरोडाशं वहति। अथ देवमुखत्वेन प्रशंसति एतद्वै देवानामिति। साक्षाद्वयवधानमन्तरेणैव यथा ब्राह्मणाय दत्तमन्नं पात्रहस्तव्यवधानेन मुखं प्रविशति तद्वन्नेत्यर्थः। अथ सोमयाजित्वसंपादनेन स्तौति एष वा इति। हवींषि सोमग्रहरूपाणि धीयन्त असाद्यन्ते यस्मिन्मण्डपे तदिहं हविर्धानं तदस्यास्तीति हविर्धानी सोमयाजी। दर्शपूर्णमासयाजिनः सोमयाजित्वं कथमित्युच्यते- आधानान्तरमेव प्रवृत्तं यदग्निहोत्रं तत्प्रतिहोत्रं सायंप्रातरनुतिष्ठति, पर्वणि च दर्शपूर्णमासौ यजते। तदुभयानुष्ठानेन हविर्धानिनां सोमदेवानां प्रतिदिनं सोमोभिषुतो भवति। सोमाभिषवणे या प्रीतिः सादेवानामत्र संपद्यते। अग्निहोत्रदर्शपूर्णमासप्रवृत्त्या तदनन्तरभाविनि सोमया गेपि प्रवर्तिष्यत इत्येव तैर्निश्चेतुं शक्यत्वात्। तत्प्रवृत्तिक्रमश्च सूत्रकारेण दर्शितः- “अथकेषामग्नीनाधाय हस्ताववनिज्य संवत्सरमाग्निहोत्रं’ हुत्वा दर्शपूर्णमासावारभते ताभ्यां संवत्सरमिष्ट्वा सोमेन पशुना वा यजेत तत ऊर्ध्वमन्यानि कर्माणि कुरुते” इति यजमान एवं देवानां भविष्यत्सोमयागविषयां प्रीतिं विद्वानहं हविर्धानी सोमयाजी भवामीति बुद्ध्वा दर्शपूर्णमासौ यजते। तत ऊर्ध्वमस्य यजमानस्य वर्हिषि सोमयागे दातव्यं यद्यद्विद्यते तत्सर्वं वर्हिष्यं दत्तं भवति। स्वल्पेपि कर्मण्यधिककर्मसंपादनवेदनेन फलाधिक्यप्राप्तिः पूर्वकाण्डे प्रजापतिर्यज्ञानसृजतेत्यनुवाके प्रपञ्चिता। अथ दर्शपूर्णमासकर्मणोस्तिथिविषयविधिमर्थवादेनोन्नयति देवा वा इति। एतौ दर्शपूर्णमासौ यज्ञावर्हतीति यज्ञियं, तादृशमेकमप्यहर्देवा न लेभिरे। ततो विचार्य दर्शपूर्णमासावमावास्यां पौर्णमासीं च दिनद्वयमपुनञ्शोधितवन्तः। यज्ञियत्वं निश्चितवन्तं इत्यर्थः। यस्मिन्दिने सूर्य एव दृश्यते चन्द्रमास्तु न दृश्यते सोयं दर्शः। अमावस्या च तादृशी। तस्यां तिथौ सूर्येण सहैववसतश्चन्द्रमसो द्रष्टुमक्यत्वात्। अतः सा तिथिः सूर्यमात्रदर्शनाद्दर्शनामाङ्कितस्य कर्मणो योग्या। यस्यां तिथौ चन्द्रमण्डलं संपूर्णं दृश्यते सा पौर्णमासी। सा चन्द्रमसः पूर्तेः पूर्णनामाङ्कितस्य कर्मणो योग्य। प्रतिपदादिषु चतुर्दश्यन्तासु तिथिषु चन्द्रमा लेशतो दृश्यते। न पूर्णो नाप्यत्बन्तमदृष्टः अतस्तयोः कर्मणोर्योग्या न भवन्ति। तस्मात्तावेवैतावुक्तौ तिथिविशेषौ देवैरुक्तरीत्या शोधितौ सन्तौ यज्ञयोग्यौ संपन्नौ। अत्र दर्शपूर्णमासशब्दस्तिथिपरो न कर्मपरः। यस्त्येवं तिथ्योः शुद्धिं विद्वान्कर्मद्वयं कुरुते सोयं शोधितौ यज्ञयोग्यौ तिथिविशेषावेव प्राप्य कृतवान्भवति। तश्मात्तयोस्तिथ्थोः कुर्यादिति तात्पर्यार्थः। प्रसङ्गात्पुरुषार्थं कंचिन्नियमं विधत्ते नामावास्यायामिति। पूर्वोक्तयोस्तिथ्योर्यज्ञियत्वमाख्यायिकया प्रपञ्चयति सोमस्य वा इति। अर्धमासस्य शुक्लपक्षस्य रात्रय एको वर्ग, कृष्णपक्षस्य रात्रयः परो वर्गस्ते अमावास्यापौर्णमास्यावेनं सोममभिसमगह्येतामाभिमुख्येन संभोगाय गृहीतवत्वौ। बलात्कारेण भुज्यमानं तंसोममतिव्यवायेन क्षयव्याधिः प्राप्तवान्। एतच्च प्रजापतेस्त्रयस्त्रि शद्दुहितर इत्यत्र व्याख्यातं तथैव व्याख्येयम्। आवामुभे एव देवानां हविर्भागधारिण्यौ भवाव आवयोरधिश्रित्गाग्न्यादयो देवा इज्यन्तामित्यनयोर्वरः। एतबोभगिधारित्वं जानते मनुष्याः सर्वेपि भागं धारयित्वा प्रयच्छन्ति। अथ मनुष्यादिसाम्योपन्यासेनोक्तार्थमेव पुनः प्रशंसति भूतानि क्षुधमिति। भूतानि मनुष्याद्याः प्राणिन। वनस्पतयः पनसाम्राद्याः। तेषां फलग्रहणमेव क्षुन्निवारणरूपां तृप्तिं सूचयति। एवं क्षुधो हननं यो वेद सोप्यन्नसमृद्धः क्षुद्रूपं शत्रुं सर्वदा हन्ति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके षष्टोनुवाकः।। ६ ।।”
(अथ द्वितीयकाण्डेपञ्चमप्रपाठके सप्तमोनुवाकः)। (हौत्रविवक्षया सामिधेनीव्याख्यानम्)
“अनुवाकैः षड्भिरेतैरार्घ्ववमुदीरितम्। अथोत्तेरैरनुवाककैर्हौवं विवक्षुरस्मिन्सप्तमेनुवाके तदनन्तरभाव्यष्टमे च सामिधेनीमन्त्रा व्याख्यायन्ते। ते च ब्राह्मणग्रन्थे तृतीयकाण्डे पच्चमप्रपाठके समान्नाताः। कल्पः (ल्पे) पुरस्तात्सामिधेनीना होतेत्युपक्रम्यान्तराहवनीयमुत्करं च प्रतीचीनं गच्छञ्जपति कं प्रपद्ये तं प्रपद्य इत्यादिकमुक्त्वा सत्यं प्रपद्य इति वेति पक्षान्तरमुक्तम्। तत्पाठस्तु सत्यं प्रपद्ये । ऋतं प्रपद्ये अमृतं प्रपद्ये। प्रजापतेः प्रिवां तनुवमनार्तां प्रपद्ये। इदमहं पञ्चदशेन वज्रेण। द्विषन्तं भ्रातृव्यमवक्रामाभि। योस्मान्द्वेष्टि। यं चं. वयं द्विष्मः। भूर्भुवः सुवः। हिम् (ब्रा. का. ३ प्र. ५ अ. १) इति। सत्यं यथार्थभूतमिदं कमं प्रपद्ये प्रारभे। अस्मित्कर्मणि वाचिकोपराधो मा भूदित्यर्थः। मनसा चिन्त्यमानमप्यृतं यथा भवति तथा प्रपद्ये। मानसोप्यपराधो मा भूदित्यर्थः। अमृतत्वहेतुभूतमिदं कर्म प्रपद्ये। अनेन कर्मणा देवत्वं प्राप्यतामित्यर्थः। देवेष्वप्यार्तिरहितां प्रजापतेः प्रियां तनुवं प्रजापति शरीरमिदं कर्म प्रपद्ये। इदमिति हस्तेनायिनयः। अहं होता पञ्चदशस्तोमसदृशेन वज्ररूपेणानेन कर्मणा द्विपन्तं शत्रुमवष्टभ्य पीडयामि। यः शत्रुरस्मान्मनसा द्वेष्टि यं च शत्रुं वयं मनसा द्विष्मस्तमुभयविधमेवक्रामामीति पूर्वत्रान्वयः। भूर्भूवः सुवरित्येतन्नामका लोकास्तान्हिनोमि प्रीणयामीत्यर्थः। कल्पः—- व्याहृतीरुक्त्वा त्रिरभिहिंकृत्यानवानमभिहिंक्रारादृचमुपसंदधाति प्र वो वाजा अभिद्यव इत्येकादशेमाः सामिधेन्यः इति। अनवानमुदछ्वसन्। तत्र प्रथमायाः पाठस्तु प्र वो वाजा अभिद्यवः। हविष्मन्तो घृताच्या। देवाञ्जिगाति सुन्नयुः। (ब्रा. का. ३ प्र. ५ अ. २) इति। हे देवा यो युष्मदीया ऋत्विग्यजमानाः प्रवर्तन्ते। वाजा गमनशीला मासा अभिद्यवोभितः पूर्वपक्षरूपेणोत्तरपक्षरूपेण च दीप्यमाना अर्धमासा हविष्मन्तो हविर्भाजो देवाश्च घृताच्या यागसाधनभूतघृतप्रदया गवा सहानुकूलाः प्रवर्तन्तामित्यध्याहारः। किंचायं यज्ञो देवाञ्जिगाति प्राप्नोतु। यजमानस्य सुम्नयुः सुखेच्छुर्भवतु। यदेतदुक्तं त्रिर्हिं करोतीति तदेतद्विधत्ते—देवा वै नर्चीति। देवाः पूर्वमृचि नाश्रयन्त यजुष्यपि नाश्रयन्त न संतुष्टा इत्यर्थः। किंतु सामन्येव संतुष्टाः। ततो हिमितिशब्दमुच्चारयेत्। तेन सामैव कृतं भवति। पञ्चकृत्वः सप्तकृत्वो वा साम्न आदौ हिंकारस्य विद्यमानत्वात्। तस्य हिमितिशब्दस्य त्रिरुच्चारणमभिप्रेत्य त्रिवारं विधिरनूद्य प्रशस्यते। यत्रैव देवा आश्रयन्त यत्रैव सामनि देवाः संतुष्टास्तत एव साम्न एनान्देवान्प्रयुङ्क्ते होता हिं कुर्वन्प्रकर्षेण तोषयतीत्यर्थः। प्रथमोच्चारणेन साम कृतं भवति। तथा द्वितीयोच्चारणेन वाचो योगः संपद्यते। सामाश्रयभूताया ऋग्रूपाया वाचः संबन्धः संवद्यत इत्यर्थः। तीयोच्चारणं यदस्ति तेन यजमानः प्रजा एव सृष्टवान्भवति। एकादशानां सामिधेनीनामाद्यन्तयोरावृत्तिं विधत्ते त्रिः प्रथमामिति। “प्र वो बाजा अभिद्यवः” इत्येषा प्रथमा। “आ जुहोत दुवस्यत” इति वा “त्वं वरुण उन मित्र” इति वा द्वयोरन्यतरोत्तमा। तत्तेन प्रथमोत्तमयोस्त्रिरभ्यासेन यज्ञस्य बर्समन्तभागान्नह्यति बध्नाति। यथालोके वस्त्रेण कम्बलेन वा ब्रीहीन्वोढुकामोऽन्तद्वयं बध्नाति तद्वत्। तच्च बन्धनं स्रंसनराहित्याय भवति। पूर्वस्यामृच्युत्तरार्धस्योत्तरस्यामृचि पूर्वार्धस्य च परस्पराविश्लेवं विधत्ते संततमन्वाहेति। तदेतत्संततोच्चारणं यजमानस्य प्राणानां संतत्वै भोज्यवस्तुसंतत्यै च संपद्यते। किंच राक्षसाः श्वासनिरोधेनापहता भवन्ति। यस्याः प्रथमाया आवृत्तिर्विहिता तां स्परूपेण विधत्ते राथंतरीमिति। कस्मिंश्चित्सामशाखाविशेषे ‘प्र वो वाजाः” इत्येत श्यामृचि रथंतरसाम्नो गीतत्वादियं राथंतरी। रथंतरसामयुक्ते कर्गणा संपादयितुं शक्यत्षाद्भूलोकस्य राथंतरत्वम्। यदुक्तं सूत्रकारेण-“तृतीयां सामिधेनीं त्रिर्विगृह्णाति” इति, तदेतद्विधत्ते त्रिर्वि गह्णातीति। तृतीयस्याः सामिधेन्याः प्रथमपादमुच्चार्य सकृद्विग्रहः कार्यः। अर्धर्चे द्वितीयो विग्रहः। तत उत्तरार्ध उपरितनमन्त्रस्य पूर्वार्धं च संयोज्य तदन्ते तृतीयो विग्रहः। एतेन विग्रहत्रयेण लोकत्रयजयो भवति। यस्यामृच्ययं त्रिविधो विग्रहस्तामृचं विधत्ते बार्हतीमृत्तमामिति। य (अ) स्यामृचि बृहच्छोचा यविष्ठ्येतिशब्दस्यश्रूयमाणत्वादियं बार्हती। सा च तृतीयेति कृत्वा प्रथममध्यमापेक्षयोत्तमा। तथा सत्युत्तमामन्वाहेत्युक्ते तृतीयात्वेन पठेदित्यर्थो भवति। एतन्मन्त्रोपेतकर्मसाध्यत्वात्स्वर्गलोकस्य बार्हतत्वम, "
“प्रथमायामृचि देवतादिविशेषाभिव्यक्त्यभावं प्रशंसति प्र वो वाजा इति। कस्याषि देवविशेषस्य निरुक्तं नामविशेषकथनं तत्र नास्ति सेयमनिरुक्ता। प्रजापतिश्च सृष्टेः प्राग्रूपविशेषाभावादनिरुक्तः। अत इयं प्राजापत्या। यज्ञश्च प्रजापतिसृष्टत्वात्तत्स्वरूपः। तस्मात्प्राजापत्यमन्त्रस्य प्रथमपाठेन यज्ञरूपमेव प्रजापतिं प्रारब्धवान्भवति। अस्मिन्मन्त्रे वाजशब्दोच्चारणं प्रशंसति प्र वो वाजा इति। तथात्र प्रशब्दोच्चारणं प्रशंसति प्र वो वाजा इति। यस्मात्प्रशब्द उच्चारितस्तस्मात्प्राचीनं प्रमुखे रेतोवर्तिनि योषिच्छरीरेञ्चति गच्छतीति प्राचीनं, तथाविधं रेतो धीयते गर्भाशये स्थाप्यते। एतस्य मन्त्रस्य चरमपादेन सहोत्तरस्य मन्त्रस्य प्रथमपादोच्चारणं प्रशंसति अग्न आ याहीति। यस्मादायाहीत्युक्तं तस्मात्प्रतीचीः प्रत्यङ्मुखाः सदृशाः प्रजा उत्पद्यन्ते। मन्त्रगतानां पदानामर्थान्दशंयति प्र वो वाजा इति। वजन्ति गच्छन्ति क्रमेण प्रवर्तन्त इति चैत्रादिमासा वाजाः। इदमेव ब्राह्मणवार्क्य हृदि निधाय मन्त्रार्थः पूर्वं दर्शितः। पदार्थानभिधाय मन्त्रतात्पर्यार्थमाह इदमसीति। सामिधेनीभिः समिध्यमान हेग्ने त्वमिदं मासानां स्वरूपमसि, अर्धगासानां स्वरूपमसि, देवानां स्वरूपमसीत्येव तात्पर्यार्थः। अनेन तात्पर्येण यज्ञस्य प्रियं धामाहुतिस्थानमिध्यमानाग्निस्वरूपं संपादितवान्भवति। यदुक्तं संततमन्वाह प्राणानामन्नाद्यस्य संतत्यै, इति, तदेवेदानीं काम्यत्वेनापि विधत्ते यं कामयेतेति। यं यजमानमुद्दिश्य होता कामयते। किमिति अयं यजमानो मृत्युरहितः सर्वमायुः प्राप्नुयादिति, तस्य यजमानस्यायुष्प्राप्तये प्रथमां सामिधेनीं सर्वामनूच्य विच्छेदमकृत्वोत्तरमन्त्रस्य प्रथममर्घर्चमुमक्रमेत। तेन सांतत्येनास्य यजमानस्य प्राणवायुना बह्रिर्निर्गच्छता सहैवापानवायुं पुनरप्यन्तरागच्छन्तं धारितवान्भवति। तेन च धारणेन सर्वमायुः प्राप्नोति।”
तदेव सांतस्यं पुनः प्रकारान्तरेण प्रशंसति यो वा अरत्निमिति। कूर्परमारभ्य प्रसारितकनिष्ठाङ्गुलिपर्यन्तो हस्तभागोरत्नि। न च तस्यारत्नेर्मध्ये विच्छादोस्ति तद्वदुभयोः सामिधेन्योर्मध्ये सांतत्यमरत्नित्वेनोपचर्यते। यो होता तदिदं सांतत्यं विदित्वानुतिष्ठति स होता भ्रातृव्यं यजमानस्यारत्नौ स्थापयति। चतुररत्निपरिमितस्य पुरुषस्यारत्निमात्रपरिमितो बालो यथा नीचो भवति तद्वदमुं कुरुत इत्यर्थः। य एवं वेदेति पुनरभिधानं प्रतिज्ञातस्य निगमनार्थम्। तदेव सांतत्यं विपक्षबाधकोपन्यासपुरःसरं पुनः प्रशंसति ऋषेर्ऋषेर्वा इति। ऋषिरतीन्द्रियस्य द्रष्टा। तादृश ऋषिरेकैकां सामिधे नीमीश्वरानुग्रहेण दृष्ट्वा तत्संप्रदायपरम्परां निर्मितवान्। अत एव स्मर्यत युगान्तेन्तर्हितान्वेदान्तेतिहासान्महर्षयः। लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा।। इति। तथा सति भिन्नेभ्यऋषिभ्यः प्रवर्तितास्ताः सामिधेन्यो यद्यसंयुक्ता भवेयुस्तदानीं यजमानस्य प्रजया पशुभिरेताः सामिधेन्यो वितिष्ठरन्वियुक्तास्तिष्ठेयुः। प्रजापशुसमृद्धिहेतवो न भवेयुरित्यर्थः। तत्परिहाराय पूर्वस्याः सामिधेन्या उत्तरार्धमुत्तरस्याः सामिधेन्याः पूर्वार्धं च संदध्यात्। तथा सत्येनाः सामिधेनीः संयोजितवानेव भवति। न चैवमेकस्यामपि सामिधेन्यां पूर्वोत्तरार्धर्चौ संघातव्याविति शङ्कनीयम्। तयोरेकर्षिप्रवर्तितत्वेन होतृप्रयुक्तसंधानमन्तरेणापि स्वरूपतो वियोगाभावात्। यथोक्तरीत्या संयुक्तास्ताः सामिधेन्यो यजमानाय सर्वामाशिषं दुहूवे दुहन्ति संपादयन्ति।
अथ मीमांसा।
नवमाध्यायस्य प्रथमपादे चिन्तितम् त्रिरत्र किमृचो धर्मः स्थानधर्मोथवादिमः। सत्रीलिङ्गत्वान्न तत्प्रातिपदिकप्रबलत्वतः।। दर्शपूर्णमासयोः सामिधेनीः प्रकृत्य श्रूयते—-‘त्रिः प्रथमामन्वाह’ इति। सोयं त्रिरभ्यास आदौ पठितस्य प्र वो वाजा इत्यृग्विशेषस्य धर्मः। कुतः। प्राथमामित्यस्य स्त्रीलिङ्गत्वादृक्परत्वोपपत्तेरिति चेन्नेतद्युक्तम्। स्त्रीलिङ्गवाचिनष्टाप्प्रत्ययादपि पूर्व पठितस्य स्थानवाचिनः प्रथमेत्यस्य प्रातिपदिकस्य प्रवलत्वात्। अतो विकृतिष्वप्यन्यस्या अप्यृचः प्रथमस्थानपठितायास्त्रिरभ्यासः कर्तव्यः। स्थानांन्तरे पठितायाः प्र वो वाजा इत्यस्या अप्यृचो नाभ्यासः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके
सप्तमोनुवाकः।। ७ ।।
“(अथ द्वितीयकाण्डे पञ्चमप्रपाठकेष्टमोनुवाकः)। (हौत्रविवक्षयावशिष्टसामिधेनीमन्त्रव्याख्यानम्) सप्तमे सामिधेन्याद्या व्याख्यातात्यन्तविस्तरात् । अथाष्टमेवशिष्टाः सामिधेन्यो व्याख्यायन्ते। तत्र द्वितीय सामिधेनी मन्त्रकाण्ड एव पठिता ‘अग्न आ याहि वीतये। गृणानो हव्यदातये। नि होता सत्सि बर्हिषि’। (ब्रा.का.३प्र. अ. २) इति। हेग्ने हव्यदातये यजमानस्य हविर्दानाय वीतये देवानां हविर्भक्षणाय गृणानो यजमानो देवानां हविर्दास्यतीति भवद्भिर्भक्षणीयमिति वदन्नायाहि। आगत्य च होताह्वाता भवन्बर्हिंषि यज्ञे निषत्सि निषीद। तृतीयसामिधेनीपाठस्तु ‘तं त्वा समिद्भिरङ्गिरः घृतेन वर्धयामसि। बृहच्छोचा यविष्ठय’ (ब्रा. का. ३प्र. ५अ. २) इति। हेङ्गिरोग्ने तं त्वा तादृशं देवानामाह्वातारं त्वां समिद्भिघृतेन च वर्धयामः। हे यविष्ठ्य युवतम बृहज्जालाधिक्यं यथा भवति तथा शोच दीप्यस्व। चतुर्थसामिधेनीपाठस्तु- ‘स नः पृथु श्रवाय्यम्। अच्छा देव विवाससि। बृहदग्ने सुवीर्यम्’ (ब्रा. का. ३प्र. ५अ. २) इति। हेग्ने देव स त्वं नोस्मदर्थं पृथु विस्तीर्णं श्रवाय्यं देवैः श्रोतुं योग्यमिदं कर्माच्छाभिमुखीकृत्य बृहत्सुवीर्यं च यथा भवति तथा विवासीस विभातं कुरु। प्रकाशयेत्यर्थः। बृहच्छब्देन ज्वालाधिक्यं विवक्षितम्। सुवीर्यशब्देन हूयमानस्य हविषः सम्यग्दहनसामर्थ्यमुच्यते। पञ्चमसामिधेनीपाठस्तु ‘ईडेन्यो नमस्यस्तिरः। तना सि दर्शतः। समग्निरिध्यते मृषा’ (ब्रा. का. ३प्र. अ. २) इति। अयमग्निः सम्यगिध्यते। कीदृशः, ईडेन्यः स्तोतुं चोग्यः, नमस्यो नमस्कारयोग्यः, तमांसि तिरस्कुर्वन्दर्शतः पदार्थानामादर्शयिता, वृषा कामानां वर्धयिता। षष्ठसामिधेनीपाठस्तु ‘वृषो अग्निः समिध्यते। अश्वो न देववाहनः। त हविष्मन्त ईडते’ (ब्रा. का. ३प्र. ५अ. २) इति। अयमग्निः सम्यगिध्यते। कीदृशः। वृषः कामानां वर्षयिता। अश्वो न देववाहनोश्व इव देवार्थस्य हविषो वोढा। तमिममग्निं हविष्मन्तो यजमानाः स्तुवते सप्तमसामिधेनी पाठस्तु “वृषणं त्वा वयं वृषन्। वृषाणः समिधीमहि। अग्ने दीद्यतं बृहत्’ (ब्रा. का. ३प्र.५अ.२) इति। हे वृषन्कामानां वर्षकाग्ने वृषाणं कामानां वर्षितारं त्वां वृषाणो वयमाहुति वृष्टिं कुर्वन्तो वयं समिधीमहि सम्यक्प्रकाशयामः। कीदृशं त्वां, बृहद्दीद्यतं प्रौढज्वालं यथा भवति तथा दीप्यमानम्। अष्टमसामिधेनीपाठस्तु “अग्निं दूतं वृणीमहे। होतारं विश्वेवेदसम्। अस्य यज्ञस्य सुक्रतुम्” (ब्रा. का. ३प्र.५अ.२) इति। इममग्निं वयं वृणीमहे प्रार्थयामहे। कीदृशं, दूतं देवान्प्रति प्रेषणार्हं, होतारमाह्वातारं, विश्ववेदसं विश्वान्सर्वान्देवान्वेत्तीति विश्ववेदास्तादृशम्। अस्य यज्ञस्य संबन्धिनं सुक्रतुं शोभनकर्माणम्। नवमसामिधेनीपाठस्तु "
“समिध्यमानो अध्वरे। अग्निः पावकः ईड्यः। शोचिष्केशस्तमीमहे” (ब्रा. का. ३प्र.५अ.२) इति। योग्निरध्वरेस्मिन्कर्मणि समिध्यमानः पावकः शुद्धिहेतुरीड्यः स्तुत्यः शोचींषि दीप्तयः केशस्थानीया यस्यासौ शोचिष्केशस्तमग्निमीमहे प्राप्नुमः। दशमसामिधेनीपाठस्तु “समिद्धो अग्न आहुत। देवान्यक्षि स्वध्वर। त्व हि हव्यवाडसि” (ब्रा. का. ३प्र.५अ.२) इति। हे आहुताहुत्याराधिताग्ने त्वं समिद्धः सन्देवान्यक्षि यजसि। हे स्वध्वरसुष्ठुनिष्पादितयाग हि यस्मात्त्वं हव्यवाडसि तस्माद्यजेत्यन्वयः। एकादशसामिधेनीपाठस्तु
“आजुहोत दुवस्यत। आग्निं प्रयत्यध्वरे। वृणीध्वहव्यवाहनम्” (ब्रा. का. ३ प्र. ५. २) इति।
“हे यजमाना इममग्निमाहुतिभिराजुहोत प्रीणयत, दुवस्यत परिचरत, प्रयति प्रयत्नेन वर्तमानेस्मिन्नध्वरे यागे हव्यवाहनमग्निं वृणीध्वं प्रार्थयध्वम्। अनया सामिधेनीनां परिसमाप्यमानत्वादियं परिधानीया। तत्र पुरुषभेदेनान्या परिधानीया विकल्पते। तथा च सूत्रकारः त्वं वरुण इति वसिष्ठराजन्यानां परिधानीया, आजुहोतेतीतरेषां गोत्राणाम् इति। विकल्पितायाः पाठस्तु “त्वं वरुण उत मित्रो अग्ने। त्वां वर्धन्ति मतिभिर्वसिष्ठाः। त्वे वसु सुषणनानि सन्तु। यूथं पात स्वस्तिभिः सदा नः” (ब्रा. का. ३ प्र. ५ अ. २) इति। हेग्ने त्वमनिष्टनिवारकत्वाद्वरुण इष्टप्रापकत्वान्मित्रश्च। वसिष्ठगोत्रीया मतिभिर्मनीषाभिः स्तुतिभिर्वर्धन्ति वर्धयन्ति त्वाम्। त्वे त्वयि वसु धनं सुषणनानि सुष्ठु दातव्यानि हवींषि च सन्तु तिष्ठन्तु। यूयं च नोस्मान्स्वस्तिभिः सदा पात रक्षत। यूयमिति बहुवचनं पूजार्थम्।”
“आसु सामिधेनीषु द्वितीयादिचतुर्थ्यन्तं तृचं प्रशंसति अयज्ञो वा इति। दर्शपूर्णमासयोः सामानि न सन्ति। तद्रहितश्च न मुख्ययज्ञः। अतोयं तृचः सामत्रयस्वरूपत्वेनात्र पठ्यते। यद्यप्येता ऋचो रथंतरादिनां योनयो न भवन्ति तथापि स्तुतित्वात्तद्रूपत्वमविरुद्धम्। शाखान्तरे वा तास्वृक्षु गीतानि सामानि द्रष्टव्यानि। एतेन तृचपाठेन दर्शपूर्णमासयज्ञं सामवन्तं करोति। बृहदग्न इति तृतीयपादोपादानं बृहत्सामद्योतकस्य बृहच्छब्दस्य प्रदर्शनार्थम्। अस्मिन्नेव तृच आद्यन्तौ पुनः प्रशंसति अग्निरमुष्मिन्निति। पुरा स्वर्गलोकेग्निः स्थित आदित्यस्तु भूलोके। तदानीं लेकद्वयमशान्तं क्षुब्धमासीत्। स्वर्गे ह्यमृर्तसेविनां पाक्रापेक्षा नास्ति। प्रकाशाय केवलमादित्योपेक्षित एव। भूलोकवासिनां तु पाको मुख्ये प्रयोजनम्। तदुभयासिद्धेर्लोकक्षोभः। तं क्षोभं दृष्ट्वा ते देवाः परस्परमिदमूचुः इमावग्न्यादित्यौ विपर्यूहाम विपरिवृत्तौ स्थापयाम्। तस्मादेते सर्वे यूयमागच्छतेति। अग्न आयाहीत्यस्यामृचि बर्हिषि निपीदेति लिङ्गादृचः प्राथम्याच्च प्रथमलोके स्थापनं तया संपद्यते। बृहदग्ने सुवीर्यमित्यस्यामृचि विवाससीति विभातत्वोक्तिलिङ्गदृचस्तृतीयत्वाच्चास्यास्तृतीयलोके स्थापनहेतुत्वं गम्यते। यद्यप्यादित्यो नास्मिन्मन्त्रे श्रुतस्तथाप्युच्चैःस्थानवृत्तित्वकारित्वेन विभातत्वेनादित्यः श्रूयते। किंच, हंस मन्त्रवसान ऋतं बृहदित्यादित्यमणडलपरत्वेन श्रुतो बृहच्छब्दोत्रापि श्रूयमाण आदित्यस्य प्रत्यभिज्ञापकः। तस्मात्तेन मम्त्रेणादित्यस्थापनं सिध्यति। अनयोर्विपर्यावृत्त्या लोकयेः स्वस्वकार्यसिद्धेर्युक्ता शान्तिः। तस्मादनेन क्रमेण पाठो लोकयोः शान्त्यै भवति। तद्वेदितुश्च तदुभयशान्तिर्भवति। संख्या विधत्ते पञ्चदशेति। यद्यपि द्वादश पठितास्तथाप्येकादशैव। एकस्याः पुरुषभेदेन विकल्पितत्वात्। तासु च प्रथमोत्तमयोस्त्रिरावृत्त्या पञ्चदशत्वसंपत्तिः। अर्धमासस्य रात्रीणां पञ्चदशत्वात्तद्रूपत्वमपि संपद्यते। एकैकस्मिन्नर्धमासे पञ्चदशस्वन्तर्भूतासु तासामर्धमासमानां चतुर्विशतिवारमावृत्त्या संवत्सरप्राप्तिश्च संपद्यते। इदानीमक्षरसंख्या संवत्सरसंपत्त्या प्रशंसति तासां त्रीणीति। तासां सामिधेनीनां पञ्चदशसंख्यानां गायत्रीछन्दस्कत्वादेकैका चतुर्विशत्यक्षरा। तथा सति मिलित्वाक्षरसंख्या संवत्सररात्रिसंख्या च समति कृत्वाक्षरद्वारा तदेवं संवत्सरप्राप्तिर्भवति। यद्यपि वासिष्ठानां परिधानीयायास्त्रिष्टुप्त्वादधिकान्यक्षराणि तथापीतरगोत्रापेक्षयायमर्थवाद इत्यविरोधः। आसु सामिधेनीषु “तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि” इत्येतं मन्त्रविशेषं प्रशंसति नृमेधश्चेति। नृमेधपरुच्छेपनामानावृत्विजौ परस्परं ब्रह्मवाद्यमवदेता मन्त्रसामर्थ्यविषयं वादमकुरुताम्। तत्रानयोरियं प्रतिज्ञा—आवयोरुभयोर्मध्ये यतरो ब्रह्मीयान्ब्रह्मणि सामिधेनीमन्त्रे त्यतं कुशलस्तादृशं निश्चेतुं स्वस्वमनसि सामिधेनीमन्त्रमनुस्मरन्तावस्मिन्नार्द्रे काष्ठे मथनेनाग्निं जनयावेति। तदा प्रथमं नृमेध आर्द्र काष्ठमभिलक्ष्य मन्त्रमवदत् स तन्मन्त्रसामर्थ्याद्धुममुत्पादितवान्। परुच्छेपो मन्त्रं पठित्वाग्निमजनयत्। तदिदानीं नृमेधः परुच्छेपं प्रति हे ऋषे त्वमतीन्द्रियद्रष्टासीत्यपिरेत्य संबोधितवान्। संबोध्य चैवं पप्रच्छ यद्यस्मात्कारणात्समावद्विद्वावयोः सामिधेनीवेदनं समानमेव, तथा सति कथं त्वमग्निमुत्पादितवान्न त्वहमिति। तत्र परुच्छेप उत्तरमुवाच यद्यप्यावयोः सामिधेनीपाठस्तदर्थज्ञानं च "
समान तथाप्यहं तासामेव सामिधेनीनां वर्ण रहस्यं तेजो वेद तेवं तु न वेत्सि। किं तत्तेज इति तदुच्यते—घृतशब्दोपेतः पादोनूच्यत इति सोयमनुच्यमानः पादः सामिधेनीनां वर्णः सारभूतं तेजः। सा पादः कस्यामृचि वर्तत इति चेत्तदुच्यते—तं त्वा समिद्भिरङ्गिरः इत्येतामृचं पठेत्। तस्यामृचि ‘घृतेन वर्धयामसि’ इत्ययं पादो वर्तते। ततोनेन पठितेन पादेन सामिधेनीष्वेव ज्योतिर्जनयति। तेन त्वं पादं पठन्नपि महिमानं न जानासि। अहं तु जानामि। तस्मादार्द्रकाष्ठे मयाग्निरुत्पादितः। वृषणं त्वा वयमित्येतामृचं विशेषतः प्रशंसति स्त्रियस्तेनेति। ऋग्गायत्रीसामिधेनीशब्दैः स्त्रीलिङ्गैरभिधीयमानत्वात्स्त्रीत्वमेव। अतः पुरुषत्वाय वृषञ्शब्दवतीमृचं ब्रूयात्। तेन पाठेन पुंस्वतीः पुरुषवत्यः सेन्द्रा इन्द्रिययुक्ताः स्त्रीपुरुषमिथुनरूपाः संपद्यन्ते। ईडेन्य इत्येषापि वृषण्वती। समाग्निरिध्यने वृषेत्यन्ते पठितत्वात। वृषो अग्निरित्येषापि वृषशब्दोपेतत्वाद्वृषण्वती। तयोरप्येषा प्रशंसा द्रष्टव्या।
अथाग्निं दूतमित्येतामृचं विशेषतः प्रशंसति अग्निर्देवानामिति। देवाःस्वकार्येष्वग्निं दूतत्वेन प्रेषयन्ति। असुरास्तु कवेः पुत्रमुशनसम्। तावुभावपि प्रजापतिमुपेत्य पृष्टवन्तौ—आवयोर्मध्ये संधिविग्रहादिकार्येषु कस्य दौत्यमुचितमिति। तदानी प्रजापतिरग्निं दूतं वृणीमह इति मन्त्रेणोत्तरमुवाच। उक्त्वा चोशनसः सकाशात्परावृत्याग्नेरभिमुखोभूत्। ततो देवानां विजयोभूदसुराश्च पराभूताः। एवं विदुषो यजमानस्याप्यनेन मन्त्रेण स्वविजयः शत्रुपराजयश्च भवति।
समिध्यमानो अध्वर इत्येतामृचं विशेषतः प्रशंसति अध्वरवतीमिति। हिनस्तत्यिर्थः। तस्यामृचि तृतीयपादं प्रशंसति-
“शोचिष्केश इति। मध्यपादेग्निः पावक ईड्य इति पावकशब्देनवै पवित्रत्वं विस्पष्टम्। अत्र शोचिःशब्देन शुचिहेतुनां रश्मीनामुक्तिमभिप्रेत्य पवित्रमेतद्वाक्यमित्यभिधीयते। तस्मादेतयचां यजमानमेव शोधयति। ‘समिद्धो अग्नि आहुत’ इत्येषा काचिदध्वरवती। देवान्यक्षि स्वध्वरेत्युक्तत्वात्। आ जुहोत इत्यसावप्यध्वरवती। अग्निं प्रयत्यध्वर इत्युक्तत्वात्। तयोरप्यृचोरुक्तप्रशंसा योजनीया। तदेवं सर्वासामृचां सामान्यतो विशेषतश्च प्रशंसा दर्शितायदुक्तं सूत्रकारेण—-“समिद्धो अग्न आहुतेत्यभिज्ञायैकामनूयाजसमिधमवशिष्य सर्वमिध्यशेषमभ्यादधाति” इति। तदेतद्धृदि निधाय समिद्धो अग्न इति मन्त्रं पुनः प्रशंसति समिद्धो अग्न इति। समिद्धो अग्न इत्यनेन भूतार्थवाचिना क्तप्रत्ययेन सामिधेनीसाध्यस्याग्निसमिन्धनस्य समाप्तिः सूच्यते। परिसमाप्तये धीयमानः प्रक्षिप्यमाणाः काष्ठविशेषः परिधिः। तथा सति समिद्ध इति समाप्तिसूचनादेतं मन्त्रं परिधित्वेन स्थापितवान्भवति। स च परिधिः प्रक्षिप्यमाणसमिघामस्कन्दायाविनाशाय भवति। यद्येतस्मान्मन्त्रपाठादूर्ध्वमा जुहोतेति मन्त्रे समिधोभ्यादध्यात्। यथाज्यपुरोडाशादिहविष परिधेर्बहीः पतनं विनाशाय संपद्यते तादृगेव तद्द्रष्टव्यम्। एवं च प्रणवे प्रणवे समिधमादधातीति सूत्रकारेण प्रतिमन्त्रमवसानकालीने प्रणवे समिदाधानस्योक्तत्वात्समिद्ध इति मन्त्रावसाने समिदेका स्वतः प्रक्षेपणीया प्राप्ता। आजुहोतेत्यस्य त्रिरावृत्त्या तिस्रः समिधस्तत्र प्रक्षेपणीयाः प्राप्ताः। तदेतच्चतुष्टयं समिद्धो अग्न इत्येतस्य पादस्य पाठकाल एव प्रक्षिपेदिति विधिरुन्नेयः। चरमायामृचि हव्यवाहनमित्यग्निविशेषणं प्रशंसति त्रयो वा इति। देवादीनां संबन्धिनोग्नयः प्रत्येकं मामेव वरिष्यत इत्येवमपेक्षन्ते। अतो देवा अग्नेरेवंगुणसिद्ध्यर्थं हव्यवाहनं वृणीध्वमित्युच्यते। यदुक्तमाश्वलायनेन – “सामिधेनीनामुत्तमेन प्रणवेनाग्ने महा असि ब्राह्मण भारतेति निगदेवसाय यजमानस्यार्षेयान्प्रवृणीते यावन्तः स्युः परं परं प्रथमम्” इति। तदेतद्विधत्ते आर्षेयमिति। ऋषेरपत्यमार्षेयमात्पीयगोत्रर्षींस्तद्धित प्रत्ययान्तानामन्त्रितविभक्त्या यथाप्रवरं वृणीते। यथा, अग्ने महाँ असि ब्राह्मण भारत। भार्गवच्याव नाप्नवानौर्वजामदग्न्येति भृगुगोत्राणां पञ्चार्षेयः प्रवर इति। अनेन तत्तदपत्यतयाग्निरुपचर्यते। एवं वृणानः पुरुषो बन्धोर्भृग्वादेः सकाशान्नैति नापगच्छति। अपि चेदमार्षेयवरणमस्य पुत्रादिसंतानाय भवति। अस्मिन्वरणे प्रकारविशेषं विधत्ते—-परस्तादर्वांच इति । वर्तमानं यजमानमपेक्ष्य पूर्वभावी यो गोत्रप्रवर्तकस्तमारभ्य तदपत्यपरम्परयार्वाचो नीचान्वृणीते। तथैव पूर्वमुदाहृतं भृगोरपत्यं च्यवनस्तस्यापत्यमप्नवानत्तस्यापत्यमौर्वस्तस्यापत्यं जमदग्निस्तस्य संततिर्यजमान इति। तदेतदर्वाक्त्वम्। यस्माद्धोता पूर्वभाविनमारभ्यार्वाचो वृणीते तस्मादेव कारणाल्लोकेपि पूर्वपूर्वभाविनः पितर उत्तरोत्तरभाविनः पुत्राननुक्रमेण पालयन्ति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके ष्टमोनुवाकः ।। ८ ।।”
(अथ द्वितीयकाण्डे पञ्चमप्रपाठके नवमोनुवाकः)। (प्रवरमन्त्रस्य निगदस्य स्रुगादापननिगदस्य च व्याख्यानम्)
" द्वितीयाद्याः सामिधेन्यो व्याख्याता अष्टमे स्फुटम्। अथ नवमे प्रवरमन्त्रस्य निगदस्य स्रुगादापननिगदस्य च व्याख्यानं प्रवर्तते। ते च निगदादयो मन्त्रकाण्डे समाम्नाताः। कल्पः—-“अथ निवित्पदान्यन्वाह देवेद्धो मन्विद्ध इति सप्तमे स्वनिति अथ चतसृषु” इति। पाठस्तु “अग्ने महा असि ब्राह्मण भारत। असावसौ। देवेद्धो मन्विद्धः। ऋषिष्टुतो विप्रानुमदितः। कविशस्तो ब्रह्मस शितो घृताहवनः। प्रणीर्यज्ञानाम्। रथीरध्वराणाम्। अतूर्तो होता। तूर्णिर्हव्यवाट्। आस्पात्रं जुहूर्देवानाम्। चमसो देवपानः। अरा इवाग्ने नेमिर्देवात्स्वं परिभूरसि। आवह देवान्यजमानाय” (ब्रा. का. ३ प्र. अ. ३) इति। अत्राग्ने महानित्यारभ्यासावसावित्यन्तः प्रवरमन्त्रः। अवशिष्टा निविन्मन्त्राः। तेषामर्थं ब्राह्मणव्याख्यानमुखेनैव स्पष्टी करिष्यामः। तत्र प्रवरमन्त्रार्थं दर्शयति अग्ने महानिति। अग्निरिति यदेष यस्मात्सर्वाहुत्याधारत्वेन प्रहांस्तस्मान्मन्त्रे महानसीत्युच्यते। यस्माद्ब्राह्मणवर्णाभिमानी तस्मादब्रह्मणेति संबोध्यते। यस्मादेव देवेभ्यो हव्यं भरति धारयति तस्माद्भारतेति संबोध्यते। मन्त्रे येयमसा वसाविति वीप्सा तेन (तया) भृग्वादीनामृषाणां नामनिर्देशोभिप्रेतः। स च भार्गवच्यावनेत्यादिना पूर्वानुवाक एवास्माभिरुदाहृतः। निवित्पदेषु सप्तसु प्रथमस्यार्थं दर्शयति देवेद्ध इति। यस्माद्देवाः स्वकीयेषु यागेष्वेतमग्निमैन्धत प्रज्वलितवन्तस्तस्मादेवेद्ध इत्युच्यते। द्वितीयपदस्यार्थं दर्शयति मन्विद्ध इति। देवेभ्य उत्तरो देवैरिन्धनादूर्ध्वं स्वकीययागे मनुरैन्ध। उत्तरेष्यपि पञ्चसु पदेषु प्रसिद्धार्थतां हिशब्दो द्योतयति ऋषिष्टुत इति। शुश्रुवांस श्रुताध्ययनसंपन्ना जात्या विप्रा विद्यया बिबुधाः कवयश्च भवन्ति। तैरयमनुमदितस्तोपितः शस्तः स्तुतश्च। ब्रह्मणा मन्वेण संशितस्तीक्ष्णीकृतः। घृतरूपमाहवनमाहुतियस्यासौ घृताहवनः। अनुच्छ्वासेन पठनीयानां सप्तपदानामर्थं दर्शयित्वोच्छ्वासादूर्ध्यं पठनीयानां चतसृणां निविदामर्थं दर्शयति प्रणीर्यज्ञानामिति। यज्ञानां नेतृत्वमग्नौ प्रसिद्धम्। रथीर्देवानां हविर्व हनायाध्वराणां संबन्धी रथोयमग्निः। यस्मादह्वातारमेतमग्निं कोपि देवो न तरति नातिक्रामति तस्मादयमतूर्तो होतेत्युच्यते। यस्मात्सर्वमपि देवमयं हविर्वहनात्तरति प्राप्नोति तस्यात्तूर्णिर्हव्यवाडित्युच्यते। एताभ्यश्चतसृभ्यो निविद्भ्य ऊर्ध्वमुच्छ्वासं कृत्वा पश्चात्पठनीयानां चतसृणां निविदामर्थं दर्शयति आस्पात्रमिति। एषोग्निर्देवानां जुहूसदृशो जुह्वामिवास्मिन्हविष्प्रक्षेपात्। न चास्य दारुमयजुहूवच्छैथिल्यं, किंत्वास्पात्रं लोहपात्रवद्दृढमित्यर्थेः। यथा मनुष्याणां सोमपानहेतुश्चमसस्तथादेवानां पानसाधनचमसस्तानीयोयमग्निः। हेग्ने त्वं यथा शकटचक्रास्थितान्कुलालचक्रस्थितान्वा तिर्यक्विलरूपानरान्नेभिः परितो व्याप्नोति तथा देवानां परिभूः परितो व्याप्तवानसि। चतुर्थ्यां निविदि देवयत इति पदं शाखान्तरे पठ्यते। तदव यदि ब्रूयात्तदा होता यजमानस्य भ्रातृव्यं जनयेत्। देवानिच्छतीति देवयत्त (यस्त) स्मै देवयते यजमानाय। एतत्पदप्रयोगेणान्यः कश्चिदेतदीयान्देवानिच्छतीति प्रतिभा भवति। तदेतद्भ्रातृव्यस्योत्पादनम्। तस्मात्तत्पदं परित्यज्यास्मै यजमानाय देवानावहेत्येतावदेव वाक्यशेषात्तेनैवैतेन यजमानं वर्धयति वृद्धिं प्रापयति। कल्पः “देवतां देवतामावाह्य व्यनित्यग्निमग्न आवह सोममावहाग्निमावह प्रजापतिमित्युपांश्वावहेत्युच्चैर्यद्देवत्यो वा भवत्यग्नीषोमावावहेन्द्राग्नी आवहेन्द्रमावह महेन्द्रमावह देपाँ आज्यवाँ आवहाग्निं होत्रायावह स्वं महिमानमावहेति न स्वं महिमानमावहेदा चाग्ने देवान्वह सुयजा च यज जातवेद इत्युक्त्वा” इति। अत्रावाहननिगदो मन्त्रकाण्डे समाम्नातः सर्वोपि सूत्रकारेण पठितः।* तस्य सर्वस्य तात्पर्यं दर्शयति अग्निमग्न आवह सोममावहेत्याह देवता एव तद्यथापूर्वमुपह्वयते, इति। *घनुश्चिन्हान्तर्गतो ग्रन्थोधिकः। तत्तेनावाहननिगद आवहेति पाठेनाज्यभागादिसर्वयागदेवता अनुक्रमेण ह्वयते)। हे आहुत्याधारभूताग्ने प्रथमाज्यभागदेवतामग्निमावह। द्वितीयाज्य भागदेवं सोममावह। पौर्णमास्याममावास्यायांच प्रथमपुरोडाशदेवमग्निमावह। पौर्णमास्यामुपांशुयागदेवं प्रजापतिमावह । प्रजापतिपदं शनैरुच्चार्यावहेतिपद मुच्चैरुच्चारयेत्। पौर्णमास्यां द्वितीयपुरोडाशदेवमग्नीषोमरूपमावह। अमावास्या यामसांनाय्यिनो द्वितीयपुरोडाशदेवत्वेनेन्द्राग्नी आवह। अगतश्रियः सांनाय्य देवमिन्द्रमावह। गतश्रियो महेन्द्रमावह। आज्यापान्प्रयाजानूयाजदेवानावह। अग्निं होत्राय होमस्य स्विष्टकरणाय। आवाहनविषयाणामुक्तानां देवानां यो यस्य देवस्य स्वकीयो महिमा सामर्थ्यतिशयस्तं महिमानमावह। अत्र हविर्भुज एव देवानभिप्रेत्य स्वं महिमानमित्युच्यते, न त्वामावाहनकर्तुरग्नेर्महिमानं तस्यावाहनविषयत्वाभावात्, इति कल्पसूत्रस्यार्थः। जातानि वेदांसि ज्ञानानि यस्मादसौ जातवेदाः सर्वज्ञोयं सर्वदेवमहिमाभिज्ञत्वादित्यर्थः। तादृश हेग्ने त्वं देवानावह च सुयजा शोभनेन यज्ञेन यज च। न केवलमावाहनं कर्तव्यं किंतु हविष्प्रापणलक्षणो यागोपि त्वयैव कर्तव्यः। अत्र सूत्रे प्रजापतिमित्युपांश्वावहेत्युच्चैर्यद्देवत्यो वा भवतीत्युक्तं तच्चोपांशुयाजे प्रजापतिविष्ण्वग्नीषोमाणां विकल्पाभिप्रायेण द्रष्टव्यम्। एतस्यावाहननिगदस्य तात्पर्यं संक्षेपेण दर्शयति अग्निमग्न इति। तत्तेनावाहननिगदेनाज्यभागादिस्विष्टकृदन्तदेवताः सर्वाः क्रमेण हूतवान्भवति। प्रथमाज्यभागदेवौ तथा प्रधानदेवता इत्यादिक्रमो यथा पूर्वमित्यादिनोच्यते। आवाहननिगदावसाने यदेतन्निगमनवाक्यं तस्य तात्पर्यं दर्शयति आ चाग्न इति। तत्तेन वाक्यपाठेनाग्निमेव संश्यति तीक्ष्णी करोति। सोग्निस्तीक्ष्णीकृतोप्रमत्तः संस्तस्य यजमानस्य हव्यं देवेभ्यः क्रमेण वहति। कल्पः“अथ स्रुगादापनेन स्रुचावादापयत्यग्निर्होता वेत्त्वित्यनुवाकेनाध्वर्युर्जुहूपभृतौ स्रुचावादत्ते” इति। घृतवतीशब्दे जुहूपभृतावादायेत्याध्वर्यवसूत्रे दर्शितवान्। होता तु घृतवतीमध्वर्योः स्रुचमास्यस्वेत्यनेन शब्देन युक्तमनुवाकं पठति। तदिदं स्रुचोरादापनम्। सोयमनुवाको मन्त्रकाण्डे समाम्नातः। तस्य पाठस्तु “अग्निर्होता वेत्त्वग्निः। होत्रं वेत्त प्रावित्रम्। स्मो वयम्। साधु ते यजमान देवता। घृतवतीमध्वर्यो स्रुचमास्यस्व। देवायुवं विश्ववाराम्। ईडामहै देवा ईडेन्यान्। नमस्याम नमस्यान्। यजाम यज्ञियान्” (ब्रा. का. ३प. ५अ. ४) इति। अयमग्निर्होता होमस्य कर्ता। तथा चान्यत्र मन्त्रब्राह्मण आम्नातम्-“अग्ने यष्टरिदं नम इत्याह। अग्निर्वै देवानां यष्टा ” इति। अतोयमग्निर्वेत्तु होमक्रमं जानातु। तदेव वेदनमुत्तरवाक्येन (ण) स्पष्टी क्रियते प्रकृष्टमवित्रं फलदानरूपमस्पद्रक्षणं यस्मिन्होमानुष्ठाने तदिदं प्रावित्रम्। तादृशं होत्रहोमानुष्ठानं वेत्तु होमक्रमं जानातु। न केवलं दैव्यस्य होतुरग्नेरुपरि भारः प्रक्षिप्यते किंतु वयं स्मो मनुष्यहोतारो वयमप्यत्र वर्तामहे। अतो वयमपि होमक्रमज्ञानवन्तस्तिष्ठामः। हे यजमान ते तव हविःस्वीकर्त्री देवता साधु फलं ददात्विति शेषः। हेध्वर्यो घृतपूर्णा स्रुचं जुहूमास्यस्वाक्षिप स्वी कुर्वित्यर्थः। कीदृशीं स्रुचं, देवायुवं देवान्यौति मिश्रयतीति देवायुस्तादृशीम्। विश्ववारां विश्वान्सर्वान्राक्षसकृतान्विघ्नान्वारयतीति विश्ववारा तादृशीम्। ईडेन्यान्स्तुतिप्रियान्मनुष्यान्वयं स्तुमः। नमस्यान्नमस्कारप्रियान्पितृन्नमस्कुर्मः। यज्ञियान्यज्ञप्रियान्देवान्यजाम। अग्नेर्होतृत्वं वेदेषु प्रसिद्धमित्येतद्दर्शयति अग्निर्होतेति। दैव्यस्य होतुः साहाय्यमाचरितुं मानुषस्य स्वस्य सद्भाव इत्येतद्दर्शयति स्मो वयमिति। ददात्वित्येतादृशेनाशीरर्थेन वाक्यपूरणाय तात्पयार्थं दर्शयति”
साधु त इति। शाखान्तरे साधु ते यजमान देवतेत्यस्योपरि योग्निं होतारमवृथा इति किंत्तिद्वाक्यमाम्नातम्। तस्यायमर्थः- हे यजमान यस्त्वमग्निं होतारमवृथा होतृत्वेन वृतवानसि तस्य तव साधु ददात्विति।
तमिमं शाखान्तरपाठं दूषयति यद्ब्रूयादिति। अग्निर्होता वेत्त्वग्निरित्युपक्रमे पठितं साधु ते यजमानदेवतेत्यस्गादप्यूर्ध्वं यद्यग्नि होतारमिति ब्रूयात्तदोभयोः पार्श्वयोर्यजमानोग्निनापरिगृहीतो भवेत्। ततो दाहाधिक्येन म्रियेत। तस्माच्छाखान्तरपाठो नादर्तव्यः। यद्यपि जुहूपभूतौ द्वे अपि आदातव्ये तथापि तयोः समं प्राधान्यं निर्वायजुह्वा एव प्राधान्यं द्योतयितुं स्रुचमित्येकवचनमेव पठनीयमित्येतद्दर्शयति यजमानदेवत्येति। स्रुचावित्येव द्विवचनेन द्वे इव द्वे अपि समप्रधाने इव यदि ब्रूयात्तदा यजमानसमानं भ्रातृव्यमुत्पादयेत्। तस्मादुपभृतमुपेक्षितामिव तिरस्कर्तुं जुहूप्रधान्यायैकवचनाभिधानेन यजमानं वधितवान्भवति। नहिजुह्वा इवोपभृतः क्वचिदपि साक्षाद्धोमसाधनत्वमस्ति। तस्मादुपसर्जनत्वं तस्या युक्तम्। देवमिश्रेण देवरक्षणं विघ्ननिवारणेन विश्वरक्षणमभिप्रेतमित्येतद्दर्शयति देवायुवमिति। ईडेन्यादिशब्दैर्विवक्षितं दर्शयति ईडामहा इति। देवता यजतीत्येदुपलक्षणम्। मनुष्यान्स्तौति पितृन्नमस्यतीत्येतदपि द्रष्टव्यम्। एवं च सति यस्य मनुष्यादेयो भागः स्तुत्यादिरूप उपचरितस्तं भागमनतिक्रम्यानुष्ठितवान्भवति। अत्र मीमांसा। दशमाध्यायस्य चतुर्थपादे चिन्तितम् “चातुर्मास्यातिदिष्टेषु निगमेष्वाज्यपानिति। विक्रियेत न वाद्येपि किं स्याद्दध्याज्यपानिति।। दधिपानिति वा यद्वेत्येवं स्यात्पृषदाज्यपान। द्रव्यद्वयोक्तेराद्यः स्याद्दधिमात्रहविष्ट्वतः।। द्वितीयः स्यात्तृतीयोस्तु द्रव्यान्तरविधानतः।
गुणो दध्ना चित्रताज्ये ततो विक्रियते नहि।। चातुर्मास्येषु चोदकेनावाहनस्वाहाकारायाड्जोषणानिगमा अतिदिष्टाः।
तत्राज्यपशब्दः प्रयुक्तः– “देवा आज्यपा आवह”। “स्वाहा देवा आज्यपान्” “अयाड्देवानामाज्यपानां प्रिया धामानि”। “देवा आज्यपा आज्यमजुर्षन्त” इति। सोयमाज्यपशब्दो विक्रियते न वेति संशयः। तत्र विकारोपि त्रिविधः। तत्र दध्याज्यपानित्याद्यस्तावत्प्राप्नोति। कुतः । अथ पृषदाज्यं गृह्णाति द्वयं वा इदं सर्पिश्च दधि चेति द्रव्यद्वयस्योक्तत्वात्। आज्यस्योपस्तरणाभिधारणार्थत्वेन हविःशेषत्वाद्धविष्ट्वं नास्तीति दध्येव हविः। ततो दधिपानिति द्वितीयः पक्षः। दध्याज्यमेलनेन निष्पद्यते पृषदाज्यं द्रव्यान्तरम्। तदेव हविरिति पृषदाज्यपानिति तृतीयः पक्षः। दधिमेलनादाज्ये पृषत्ता गुणो निष्पद्यते। तस्मादाज्यस्यैव हविष्ट्वमित्याज्यपशब्दोपेता एव निगमाः पठितव्याः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके नवमोनुवाकः ।। ९ ।।
(अथ द्वितीयाष्टके पञ्चमप्रपाठके दशमोनुवाकः)। (काम्यसामिधेनीनैमित्तिकसामिधेनीनामभिधानम्
व्याख्याता नवमे स्पष्टं प्रवरा निगदादयः। अथ दशमे नैमित्तिक्यः काम्याश्च सामिधेन्य उच्यन्ते।
तत्र राजन्यं निमित्तीकृत्य विधत्ते त्री स्तृचानिति। प्र वो वाजा इत्येका त्रिरावृत्तत्वात् ( त्ता)। अग्न आयाहीत्येकस्तृचः। त्वं वरुण इत्येका परिधानीया त्रिरावृत्ता। एवं त्रयस्तृचाः। तेन तृचानां त्रित्वेन राजन्यव्यतिरिक्तान्ब्राह्मणादींस्त्रीन्वर्णान्राजन्यस्यानुकूलान्करोति। पक्षान्तरं विधत्ते पञ्चादशानु ब्रूयादिति। प्रजापतेरुरसो बाहुभ्यां च पञ्चदशस्तोमस्य राजन्यस्य चोत्पन्नत्वादसौ स्तोमो राजन्यस्य स्वकीयः । यद्यपि पञ्चदश सामिधेनीरन्वाहेति वर्णत्रयसाधारणवचनेनैवायं पक्षः प्राप्तस्तथापि त्री स्तृचानित्यनेन विशेषवचननेन नित्यबाधप्राप्तौ विकल्पार्थं पञ्चदशेति प्रतिप्रसवो विधीयते। त्वं वरुण इत्येतां परिधानीयां विधत्ते त्रिष्टुभा परीति। त्रिष्टुभ इन्द्रेण सहोत्पन्नत्वात्तत्संबन्धीन्द्रियरूपत्वम्। राजन्यस्य युयुत्सत्वादिन्द्रियसामर्थ्यकामः। राजन्यस्य नित्यां परिधानीयां विधाय काम्यां विधत्ते यदि कामयेतेति। आजुहोत दुवस्यतेत्येषा गायत्री। तत्सवितुरित्यस्यागायत्र्या उपदेशेन ब्रह्मवर्चसनिष्पत्तेस्तस्य गायत्रीरूपत्वम्। वैश्यं निमित्तीकृत्य विधत्ते सप्तदशानु ब्रूयादिति।“समिध्यमानो अध्वरे” “समिद्धो अग्नआहुत” इत्यनयोर्मध्ये “पृथुपाजा मर्त्यः” “त सबाधो यतस्रुचः” इत्येतयोर्धाय्ययोः प्रक्षेपेण सप्तदशसंख्यानिष्पत्तिः। प्रजापतेर्मध्यदेशात्सप्तदशस्तोमवैश्ययोरुत्पन्नत्वात्सप्तदशस्तोमस्तदीयः। वैश्यस्य समिध्यमानो अमृतस्य राजसीत्येतां परिधानीयां विधत्ते जगत्या परीति। जगत्यनुष्ठानलब्धत्वात्पशूनां जागतत्वम्। वैश्यस्य क्षीरदध्यादिविक्रयाय पशुकामत्वं प्रसिद्धम्। नैमित्तिकीं विधाय काम्यां विधत्ते एकवि शतिमिति।
अत्र संख्यापूरणं संप्रदायविद्भिरेवमुक्तम् एकाविंशत्यादिषु प्रथमाया उत्तरे द्वे ईडे अग्निमित्यादिके। अथाग्न आयाहीत्यादि। अथ त्वामग्ने पुष्करादधीतित्रयस्तृचाः। अग्निमग्निमित्येकादश। पृथुपाजा इत्यष्टौ। अष्टाचत्वारिंशत्यक्षरस्य दाशतय्यास्तिस्र आगमयितव्याः। एकविंशत्यादिषु कार्येषु एतासां यथार्थमागम इति। अस्यायमर्थः—यदा सामिधेनीबुद्धिरपेक्षिता तदाभ्नातायाः प्र वो वाजा इत्यस्या उपरीडे अग्निमित्यादिकं द्वयं प्रक्षेपणीयम्। तत ऊर्ध्वमग्नआयाहीत्यादिकं यथाम्नातं पठितम्। तत्र समिध्यमानसमिद्धवत्योर्मध्ये त्वामग्नइत्यादिका उदाहृताः प्रक्षेपणीयाः। यावतीनां प्रक्षेपेण संख्या पूर्यते तत्प्रमाणवतीनां प्रक्षेप इति। मीमांसकास्तु धाय्यासंज्ञकानामेव समिध्यमानसमिद्धवत्योर्मध्ये प्रक्षेपः। इतरानां त्वन्ते प्रक्षेपमाहुः। तत्रापि परिधानीयाया उत्तमायाः प्रागेवेत्ययं विशेषो द्रष्टव्यः। त्रिवृत्पञ्चदशसप्तदशानां संख्या चतुर्थएकविंशस्तोमेन्तर्भूतेति स स्तोम इतरेषां स्तोमानां प्रतिष्ठा। फलान्तराय विधत्ते चतुर्वि शतिमिति। पुनरपि फलान्तराय विधत्ते त्रि शतमिति। दशाक्षरैस्त्रिभिः पादैर्विराजस्त्रिंशदक्षरत्वम्। तच्छान्दोनुष्ठानेनान्नस्य लभ्यत्वात्तस्य च्छन्दसोन्नत्वम्। पुनः फलान्तराय विधत्ते द्वात्रि शतमिति। अन्यत्र वाग्वा अनुष्टुगिति श्रवणाद्वाग्रूपत्वमनुष्टुभः। वाचि सर्वेवां छन्दसामन्तर्भावादनुष्टुवितरच्छन्दसां प्रतिष्ठा। पुनः फलान्तराय विधत्ते षट्त्रि शतमिति। पशूनां बृहतीच्छन्दसोनुष्ठानेन लभ्यत्वाब्दार्हतत्वम्। फलान्तराय विधत्ते चतुश्चत्वारि शतमिति। पुनः फलान्तराय विधत्ते
अष्टाचत्वारि शतमिति। सोमयाजिनमधिकृत्य विधत्ते सर्वाणि छन्दा सीति। बहुभिदर्क्षिणीयादिभिरिष्टिभिरग्नीषोमीयादिपशुभिरैन्द्रवायवादिग्रहैश्च यजत इति बहुयाजी। एतस्य बहुयाजिनः सवनत्रयेगायत्र्युष्णिगनुष्टुब्जगतीरूपाणि सर्वाणि च्छन्दांस्यवरुद्धानि भवन्ति। तस्मात्सोमयाजी यदा दर्शपूर्णमासावनुतिष्ठति तदा तस्य त्रीणि च्छन्दांस्यनुब्रुयात्। ( अत्र ख. पुस्तके याज्यासंज्ञकानामिति पाठान्तरम्।)
‘समिध्यमानः प्रथमोनुधर्मः’ इत्येषा त्रिष्टुप्। ‘त्वामग्ने प्र दिव आहुतं घृतेन’ इत्येषा जगती। एतदुभयं समिद्धवत्याः पूर्वं पठनीयम्।
“तस्य सोमयाजिनस्त्री स्तृचानित्यनुवाकेष्टाचत्वारि शतमनुब्रुयादित्यन्तेयः संख्याविशेषस्तत्र स्वेच्छैव नियामिका, न तु वाचनिको नियमोस्तीत्येतद्विधत्ते अपरिमितमिति। अपरिमितस्याधिकस्य फलस्येत्यर्थः। "
अत्र मीमांसा।
तृतीयाध्यायस्य षष्ठपादे चिन्तितम् “सामिधेनीः सप्तदश प्रकृतौ विकृतावुत। पूर्ववत्प्रकृतौ पाञ्चदश्येनैतद्विकल्पते।।
विकृतौ साप्तदश्यं स्यात्प्रकृतौ प्रक्रियाबलात्। पाञ्चदश्यावरुद्धत्वादाकाङ्क्षाया निवृत्तितः” । अनारभ्य श्रूयतेः ‘सप्तदश सामिधेनीरनुब्रूयात्’ इति। प्र वो वाजा अभिद्यव इत्याद्या अग्निसमिन्धनार्था ऋचः सामिधेन्यः। तासां साप्तदश्यं पूर्वन्यायेन प्रकृतिगतम्। यदि प्रकृतौ पञ्चदश सामिधेनीरन्वाहेति विधिः स्यात्तर्हि पाञ्चदश्यं साप्तदश्यं च विकल्पेयातामिति प्राप्ते ब्रूमः—विकृतावेव साप्तदश्यं निविशते। प्रकृतौ पञ्चदश्येनावरुद्धानां सामिधेनीनां संख्याकाङ्क्षाया अभावात्। न च पाञ्चदश्यासाप्तदश्ययोः समानबलत्वादवरोधाभाव इति शङ्कनीयम्। पाञ्चदश्ये प्रकरणानुग्रहस्याधिकत्वात्। तस्मान्मित्रविन्दाध्वरकल्पादिविकृतौ साप्तदश्यमवतिष्ठते। न चात्र पूर्वन्यायोस्ति। साप्तदश्यस्य चोदकप्राप्त्यभावेन पुनर्विधानदोषाभावात्। तत्रैवान्यच्चिन्तितम् “साप्तदश्यं तु वैश्वस्य विकृतौ प्रकृतावुत। पूर्ववच्चेन्न संकोचान्नित्ये नैमित्तिकोक्तितः।। गोदोहनेन प्रणयेत्कामीत्येतदुदाहरत्।
“भाष्यकारस्तदप्यस्तु न्यायस्यात्र समत्वतः” ।। सप्तदशानुब्रुयाद्वैश्यस्येति विहितं वैश्यनिमित्तं साप्तदश्यं पूर्तन्वायेन विकृतिगामीति चेन्मैवम्। नैमित्तिकेनानेन वचनेन प्रकृतिगतस्य नित्यस्य पाञ्चदश्यस्ववैश्यव्यतिरिक्तविषयतया संकोचनीयत्वात्। नित्यं सामान्यरूपतया सावकाश त्वेन च दुर्बलं, नैमित्तिक तु विशेषरूपत्वनिरवकाशत्वाभ्यां प्रबलम्। तस्माद्वैश्यनिमित्तकं साप्तदश्यं प्रकृताववतिष्ठते। अत्र भाष्यकारोन्यदुदाजहार ‘चमसेनापः प्रणयेद्गोदोहनेन पशुकामस्य’ इति। तत्र प्रकृतेश्चमसेनावरुद्धत्वाद्गोदोहनं विकृताविति पूर्वः पक्षः। कामनानिमित्तकेन गोदोहनेन नित्यस्य चमसस्य निष्कामविषयतया संकोचनीयत्वात्प्रकृतावेव गोदोहनमिति सिद्धान्तः। दशमाध्यायस्याष्टमपादे चिन्तितम् “सामिधेनीसाप्तदश्यं वैमृधादावपूर्वगीः। संहृतिर्वोपकारस्य क्लृप्त्यास्द्योत्वाज्यभागवत्। सामिधेन्यश्चोदकाप्ताः साप्तदश्यं तु वैमृधे। पुनर्वाक्येन संहार्यमनारभ्योक्तिचोदित्”।। अनारभ्य किंचिदाम्नायते सप्तदश सामिधेनीरनुब्रूयात्” इति। तथा वैमृधेध्वरकल्पायां पशौ मित्रविन्दायामाग्रयणेष्टयादौ च पुनः साप्तदश्यं विहितम्। यद्यप्यनारभ्याधीतानां प्रकृतिगामित्वं न्याय्यं तथापि श्रुतेन पाञ्च दश्येनावरुद्धत्वाद्विकृतिष्वेतन्निविशते। तथा सति वैमृधादिविकृतिष्वनारभ्यगादप्राप्ताः सप्तदश सामिधेन्यः प्राकरणिकेन विधिना पुनर्विधीयमाना गृहमेधीयाज्यभागवत्क्लृप्तोकारकत्वेनेतिकर्तव्यताकाङ्क्षां पूरयन्त्यश्चोदकं लोपयन्त्यो वैमृधादेरपूर्वकर्मतां गमयन्ति। साप्तदश्यं त्वनारभ्यवादप्राप्तमनूद्यत इति प्राप्ते ब्रूमः- वैमृधादिषु सामिधेन्य आज्यभागवन्न विधीयन्ते, किंतु चोदकप्रा "
प्तास्ता अनूद्य साप्तदश्यं विधीयते। तत्र साप्तदश्यं वैमृधादिप्रकरणेष्वाम्नातैर्विधिभिः कासुचिदेव विकृतिषु प्राप्तम्। अनारभ्यवादेन तु सर्वासु विकृतिषु । तत्रानारभ्यवादो विलम्बते। प्रथमं विधेयस्य साप्तदश्यस्य सामिधेनीसंबन्धमवबोध्य तत्संबन्धान्यथानुपपत्या क्रतुसंबन्धं परिकल्प्य प्रकृतौ पाञ्चदश्यपराहतत्वेन विकृतिषु सर्वासु प्रवेशः क्रियत इति विलम्बः। प्राकरणिकैर्वि धिभिः सामिधेनीसंबन्ध एव बोधनीयः। क्रतौ तद्विशेषे च प्रवेशो न बोधनी यः। प्रत्यक्षप्रकरणेनैव तत्सिद्धेः। तत्र साप्तदश्यस्य वैमृधादिविकृतिविशेष संबन्धे सहसा प्रतिपन्ने सति तद्विरोधी विकृतिसंबन्धो न कल्पयितुं शक्यः। अनारभ्यवादस्तु वैमृधादिषु प्राप्तस्य नित्यानुवादोस्तु यद्वा प्रकरणविधिवैमृधादिषु साप्तदश्यस्य प्रापकः। अनारभ्यवादस्तु चोदकप्राप्तस्य पाञ्चदश्यस्य बाधकः। सर्वथापि चतुर्धाकरणबदुपसंहारो न त्याज्यभागवदपूर्वं कर्म। तत्रैव पत्र्चमपादे चिन्तितम् “सामिधेनीविवृद्धौ किमागमोभ्यस्यतामुत। आगमः पूर्ववन्मैवमभ्यासप्रकृतित्वतः।। तत्राप्याद्यन्तयोर्यावत्पूर्त्यभ्यासो यथोक्ति वा।
अभ्यस्यागमतः पूर्तिः पूरणार्थत्वतोग्रिमः।। त्रित्वं न पूरणायोक्तमन्यथाप्यत्र पूरणात्।
“विवक्षितमबाधित्वा भवेत्पूरणमागमात् ” ।। दर्शपूर्णमासयोः पञ्चदश सामिधेनीर्विधाय काम्या तद्वृद्धिर्विधीयत—“एकवि शतिमनुब्रूयात्प्रतिष्ठाकामस्य” इत्यादिना। यथा बहिष्पवमान ऋगागमस्तथात्रापीति प्राप्ते ब्रूमः एकादशभिः पठिताभिः पञ्चदशसंख्याया अपूर्ता वृगन्तरागमनेन तत्पूरणं न कृतं, किंतु तत्पूरणायाभ्यासो विहितः “ त्रिः”
प्रथमामन्वाह त्रिरुत्तमाम्” इति। अतः काम्यानामभ्यासेन पूरणं युक्तम्। अभ्यासपक्षेपि यावत्कृत्वोभ्यासे सत्येकविंशतिसंख्या पूर्यते तावत्कृत्वः प्रथमोत्तमे अभ्यसनीये। कुतः। विहितस्य त्रिरभ्यासस्य पूरणार्थत्वदर्शनात्। मैवम्। न हि त्रित्वं पूरणार्थं विहितम्। प्रथमाया द्विरभ्यासेनोत्तमायाश्चतुरभ्यासेन पञ्चदशसंख्या पुरणात्। अतो विवक्षितं त्रित्वम्। तथा सति तदेवाधाय प्रथमोत्तमे त्रिरभ्यस्य षण्णामृचामागमेनैकविंशसंख्या पूरणीया।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके दशमोनुवाकः ।। १० ।।
(अथ द्वितीयकाण्डे पञ्चमप्रपाठके एकादशोनुवाकः।)
(सामिधेनीषू होतृ नियमविशेषाध्वर्य्वाधारविशेषयोरभिधानम्) नैमित्तिक्यः सामिधेन्यः काम्याश्च दशमे श्रुताः। अथैकादशे सामिधेनीषु होतुर्नियमविशेषोध्वर्योराधारविशेषश्चाभिधीयते। तत्रादौ तावद्यागकर्तृणामुपवीतं विधातुं प्रस्तौति
निवीतमिति। यत्रोभावपि बाहू न्यग्भूतौ सन्तौ ब्रह्मसूत्रेण वस्त्रेण वाधीयेते संवृतामाच्छादितौ क्रियेते तन्निवीतम् तच्च मनुष्याणां कार्येषु प्रशस्तम्। तस्मादृषितर्पणं निवीतयुक्तैः पुरुषैरनुष्ठीवते। प्राचीनो दक्षिणो हुराधीयतेधस्तात्कियते यत्र तत्प्राचीनावीतम्। तच्च पितृणां कर्मणि प्रशस्तम्। अत एव शिष्टाः प्राचीनावीतयुक्ताः पिण्डदानं कुर्वन्तीति। उपवीतस्य लक्षणं स्वाध्यायब्राह्मणे समाम्नातम्—‘दक्षिणं बाहुमुद्धरतेवधत्ते सब्यमिति यज्ञोपवीतम्’ इति। तच्च देवानां कर्मणि प्रशस्तम्। अत एव शिष्टाः स्वाध्यायादिकं तथैवाचरन्ति इदानीं विधत्ते उप व्ययत इति। तत्तेनोपवीतेन देवलक्ष्ममेव देवचिन्हमेव कृतं भवति यागकर्तृणामुपवीतं विधाय होतुः सामिधेन्याद्यनुवचनकाले स्थितिं विधत्ते तिष्ठन्नन्वाहेति। आसीनो नानुबूयात्किंतु तिष्ठन्नेप ब्रुयात्। तस्मात्तिष्ठन्मनुष्य आ समन्तादतिशयेत श्रुतं यथा भवति तथा वदितुं प्रभवति। तस्मात्तिष्ठन्ननुब्रूयात्। तदेवानूद्य प्रशंसति तिष्ठन्नन्वाहेति। आसनादुत्थितस्य प्रत्यासन्नः श्वर्गः। तस्मात्तस्याभिजित्यै संपद्यते। याज्याकाल उपवेशनं विधत्ते आसीनो यजतीति। यजति याज्यां पठेदित्यर्थः। आसीनस्य चलनाभाबादत्र प्रतिष्ठा। अत्युच्चध्वनिमतिनीचध्वनिं चापवदन्मध्यमध्वनिं विधत्ते यत्क्रौञ्चमन्वाहेति। यथा कौञ्चाख्यः पक्षिविशेष उच्चध्वनिं करोति तत्सदृशे सत्यासुरं भवेत्। मनुध्यास्तूपविश्य मन्द्रस्वरेण संभापन्ते। अतः सोपि वर्ज्यः। मध्यमध्वनेर्देवप्रियत्वात्तथैवानुवचनं कार्यम्। अपरं कंचिद्विशेषं विधत्ते -
“विद्वा सो वा इति। मूढः कश्चिद्धोता वेदेर्वहिरेव पादद्वयमवस्थाप्यानुब्रूते, तस्य पादद्वयस्थापनान्मार्गः संकीर्णो भवति। अपरस्तु मूढः पादद्वयं वेदिमध्य एव प्रक्षिप्यानब्रूते। स तु मार्गं न जानाति, तदिदं दोषद्वयं विद्वांसः केचित्कुशलाः पुरा यज्ञेषु होतारोभूवन् ते च दक्षिणं पादं वहिर्नप्रक्षिपन्ति। तेन तेषामध्वानो विस्तीर्णत्वेन धृता भवन्ति। वामपादमन्तर्न प्रक्षिपन्ति, किंतु बहिरेव स्थापयन्ति। तेन बहिःस्थापनेन पन्थानस्तान्विदुषः पुरुषान्नैव समरुक्षन्संरोहं न कृतवन्तः। अन्यो मार्गोन्यत्र च गच्छन्तीत्येतादृशो मार्गभ्रंशो मार्गकृतः संहोहः सोप्येषां नासीत्। तस्मात्पुरातनविद्वांस इवायमपि दक्षिणं पादं वेदेरन्तः प्रक्षिपेत्। वामपादं बहिः प्रक्षिपेत्। ततोनुब्रूयात्। एवं च सत्यध्वनां विस्तीर्णत्वेन धारणं भवति। पथिविषये संमोहश्च न भवति। परस्परविलशणं पादविन्यासं बहुधा प्रशंसति "
“अथो भूतमिति। चतुर्ष्वप्येतेषु प्रथमेनान्त पादप्रशंसा द्वितीयेन बहिष्पादप्रशंसेति द्रष्टव्यम्। तदेवं सामिधेनीषु विशेषनियमा हौत्राः समापिताः। अथार्ध्वयवस्त्रौवाधारं विधत्ते देवा वा इति। पूर्वं देवाः सामिधेनीरनूच्य तत्रत्येषु नियमविशेषेषु व्यापृतमनस्काः सन्त उपरितनयज्ञगतं कतर्व्यविशेषं कंचिदपि नैव स्मृतवन्तः। ततः प्रजापतिर्मन्त्रं कमप्यनुच्चार्य तूष्णीमेव ऋजुमाघारमनुष्ठितवान्। तावता कालेन देवाः सामिधेनीषु विक्षिप्तं चित्तं समाधायैकाग्रेण मनसा यज्ञगतकर्तव्यविशेष मनुस्मृतवन्तः। अतोत्रापि तूष्णीमनुष्टितः प्रथमाघारोनन्तरभाविनो यज्ञकर्तव्यस्यानुस्मरणाय भवति। यद्यपि पौरोडाशिककाण्ड वेदेनोपयत्य स्रुवेण प्राजापत्यमाघारमाघारयतीति अपमाघारो विहितः, तथापि तूष्णींभावादयो गुणविशेषा न विहिता इति नास्ति पुनरुक्तिः। तमेवाघारं प्रशंसति अथो सामिधेनीरिति। न केवलमनन्तरभावियज्ञकर्तव्यप्रतिमानमाधारस्य प्रयोजनं, किंतु वन्हौ प्रक्षिप्तानां सामिधेनीकाष्ठानामभ्यञ्जनमप्येकं प्रयोजनम्। एतद्वेदनं प्रशंसति अलूक्षो भवतीति। उक्ताभ्यञ्जनाभिज्ञः स्वयमरूक्षः पारुष्यरहितः स्नेहोपेतो भवति। आवारमेव पुनः प्रशसंति अथो तर्पयतीति। किंचानेनाधारणैनाः सामिधेन्यभिमानिदेवतास्तर्पयति। एतदीयतृप्तिवेदनं प्रशंसति तृप्यतीति। बदुक्तं सूत्रकारेण “स्रुवेण ध्रुवाया आज्यमादाय वेदेनोषयम्यासीन उत्तरं परिधिमन्ववहृत्य प्रजापतिं मनसा ध्यायन्दक्षिणाप्राञ्चमृजु संततं ज्योतिष्मत्याधारयन्सर्वाणीध्मकाष्ठानि स स्पर्शयति” इति। वेदेनोपयभ्य स्रुवस्याधस्ताद्वेदं धारयित्वोत्तरं परिधिसंधिमन्ववहृत्य वायवीये संधौ स्रुवद्युक्तहस्तमन्तः प्रसार्य ज्योतिष्मति वन्हौ घृतं क्षारयंस्तद्घृतं सर्वसामिधेनीकाष्ठस्पृष्टं कुर्यादित्यर्थः। तत्र मनसा प्रजापतर्यद्ध्यागं तदेतत्द्विधत्ते यदेकयेति। यद्येकामृचं पठित्वाधास्येत्तदानीमेकैव सामिधेनी तृप्ता भवेत्। द्वाभ्यामृग्भ्यां द्वे एव तृप्ते भवेताम्। त्रिप्रभृतिभिर्ऋग्भिराधारं यदि कुर्यात्तेनायमाघारः सर्वाणि कर्माण्यतिरिक्तवान्भवति। एकस्य हि कर्मण एकैव ऋक्प्राप्ता। तथा सति बहुभिरनुष्ठानमतिरेकः। तस्य सर्वस्य दोषस्य परिहाराय मनसैवाघारयेन्मनसोप्रतिहतगतित्वात्। यद्वागादिभिर्न प्राप्तं तत्सर्वं मनसा प्राप्तुं शक्यते। दक्षिणाप्राञ्चमित्युदाहृते सूत्रे वायवीं दिशमारभ्याग्नेय्यां समापनमुक्तम्। स एव सूत्रकार आधारयोः पुनरपि द्वे पक्षान्तर दर्शितवान्—“ऋजू प्राञ्चौ होतव्यौ तिर्यञ्चौ वा” इति। तत्र तिर्यक्पक्षं विधत्ते "
तिर्यञ्चमेति। दक्षिणां दिशमारभ्योत्तरस्यां समापनं तिर्यक्त्वम्। प्रतीची मारभ्य प्राच्यां समापने सत्येकस्या एव समिध उपरि घृतं पतेत्। तथा सति समिदन्तराणामस्पर्शाच्छम्बट्कारो वैयर्थ्यं भवेत्। तस्मादच्छम्यट्कारं यथा
“भवति तथा होतव्यम्। तिर्यक्त्वे सति सर्वसमित्संस्पर्शाद्वैयर्थ्यं न भवति । मनसाघारयतीति यद्विहितं तदेव पुनः प्रशंसति वाक्च मनश्चेति। आर्तिरतिशयस्तामिच्छेताम्। सैवार्तिः स्पष्टी क्रियते “अहं देवेभ्यो हव्यं वहामि” इति वाक्येन। ततो वाक्च मनश्चेत्येतौ हविर्वहननिर्णयाय प्रश्नं कर्तुं प्रजापतिं प्राप्नुताम्। स प्रजापतिर्वाचगब्रवीत् हे वाक्त्वं मनसो दूतीरेवासि दासीभूतैवासि न तु स्वतन्त्रा। तत्कथमित्युच्यते यस्माल्लोके पुरुषो यत्पूर्वं मनसा ध्यायति तत्पश्चाद्वाचा वदति तस्माद्वाचो दूतीत्वमेवेति। अनन्तरं क्रुद्धा वागब्रवीत्—हे प्रजापते यद्यहं दूती तर्हि तुभ्यं कोपि वाचा मा जुहोत्विति। तस्मादाघारं प्रजापतये मनसा जुह्वति। यथा मनः संकल्पेन कार्यं साधयति तथा प्रजापतिरपि। अतः सादृश्यान्मनसा होम प्रजापतेराप्त्यै भवति। यदुक्तं सूत्रकारेण “इध्मसंनहनैः सह स्फ्यैऋते स्फ्यैर्वाग्निघ्रोनुपरिकामन्परिधीन्यथापरिधि तमन्वग्रं त्रिस्त्रिः संमृज्य” इति। तदेत्संमार्जनं स्फ्येन सहितैरिध्मसंनहनदर्भैः कर्तव्यमिति विधत्ते परिधीन्त्समिति। क्रमेणैकैकस्य परिघेः संमार्जनावृत्तिं विधत्ते त्रिर्मध्यममिति। प्राणापानव्याना इति त्रित्वं, लोकत्रित्वं प्रसिद्धं, स्वर्गलोकयमलोकब्रह्मलोकविषयास्त्रयः पन्थानः। तत्र यमलोकाविषयस्म परिहारो जय इतरयोः प्राप्तिर्जयः। त्रित्वसाम्यात्तज्जय इति स्तूतये। यदुक्तं सूत्रकारेण—“वेदेनाग्निं त्रिरुपवाज्य” इति। तदेतद्विधत्ते त्रिरुप वाजयतीति। देवलोकानां त्रित्वं तदभिजयश्च मार्गत्रित्वज्जयवद्व्याख्येयम्। त्रिषु परिधिषु वह्नौ च येयं प्रत्येकं त्रिः क्रियावृत्तिस्तामेकीकृत्य प्रशंसति”
द्वादश समिति। न केवलं संवत्सरदेवतायाः प्रीतिः किंतु तत्संवत्सरं यजमानार्थं कर्मानुष्ठानकालत्वेन संपादयति। तच्च स्वर्गलोकाप्राप्त्यै भवति। पूर्वत्र विहितं तिर्यञ्चमाघारमनूद्य प्रशंसति आघारमिति। प्राङ्मुखेन यजमानेन दृश्यमानः स्वर्गो लोको दक्षिणोत्तरायामेन प्रतीयमानत्वात्तिर इव भवति। अतिस्तिर्यगाधारेण यजमानाय स्वर्गमुत्पादितवान्भवति। अथवा स्रुच्याघारस्य द्वितीयस्यायं विधिर्द्रष्टव्यः। आघारे गुणान्तरद्वयं विधत्ते ऋजुमिति। दक्षिणां दिशामारम्योत्तरदिगवसानपर्यन्तमाघारधाराया वक्रत्वं यथा न भवति यथा च विच्छेदो न भवति तथा कुर्यात्। प्राणवायुश्च हृदयमारभ्य मुखे निःसरन्मामदक्षिणापार्श्वयोरप्रवेशेन ऋजुरेव भवति संततश्च भवति। अतः प्राणस्यान्नस्य च संतत्यै संपद्यते। किंच सांतत्येन रक्षसामवकाशाभावदपहतिर्भवति। ऋजुत्वस्य नित्यप्रयोगाङ्गत्वात्काम्यत्वेन वक्रत्वं विधत्ते यं कामयेतेति। यं यजमानमुद्दिश्य मरणं कामयेत तस्य जिह्मं वक्रं यथा भवति तथाधारयेत्। तेन वक्रत्वेनास्माद्यजमानात्प्राणं वामादिपार्श्वनाडीषु प्रविश्य वक्रत्वं प्रापयति। तेन श्वासोपरोधेन तदानीमेवासौ म्रियते। आघारशेषेण ध्रुवायामञ्जनं विधत्ते शिरो वा इति। स्वात्मस्थानीयायां ध्रुवायां यज्ञशिरःस्थानीयस्याधारस्य प्रक्षेपे सति स्वस्मिन्नेव यज्ञशिरः स्थापितवान्भवति। ननु परिधिसंमार्जनादयः पौरोडाशिककाण्डेपि विहिताः। बाढम्। तत्र ह्यनुक्रमेण मन्त्राणां ख्यायमानत्वाद्भुवनमित्यादिमन्त्रव्याख्यानावसरे युक्ता एतिद्विधयः। इह तु तदनुवादेन प्रत्यभिज्ञाप्य तेष्वृजुत्वादयो गुणा विधीयन्ते। ततो नास्ति पुनरुक्तदोषः। अत एवोक्तानुवादकत्वादनुब्राह्मणमेतदिति संप्रदायविदः। यदुक्तं सूत्रकारेण “ऊर्ध्वस्तिष्ठन्होतारं वृणीतेग्निर्देवो होता देवान्यक्षद्विद्वा श्चिकित्विन्मनुष्यद्भरतवदमुवदमुवदिति यथार्षेयो यजमानः।” इति “इत ऊर्ध्वानध्वर्युर्वृणीतेमुतोर्वाचो होता” इति च। अस्यायमर्थः- यजमानस्य यादृशान्यार्षेयणि तादृशानि होतारं प्रत्यमुवदमुवदिति तत्तन्नामपुरःसरं प्रयोक्तव्यानि। तदिदमध्वर्युकर्तृकं होतृविषयं वरणम्। समिधेनीप्रस्तावे त्वार्षेयं वृणीत इति होतृकर्तृकमग्निविषयं वरणमुक्तम्। तयोरय विशेषः। अर्वाञ्चमारभ्येत ऊर्ध्वानुत्तरोतरानध्वर्युर्वृणीते। होता तूत्तममारभ्याधस्तनान्वृणीते। तद्यथा भार्गवच्यावनाप्नवानौर्वजामदग्नेत्येवं होतृकर्तृकं पूर्वमुदाहृतम्। अध्वर्युकर्तृके तु मनुष्वद्भरतवदित्यन्तं मन्त्रं पठित्वा जमदग्निवदूर्ववदप्नवानवच्च्यवनवद्भृगुवदिति प्रयोक्तव्यमिति। तदिदमध्वर्युकर्तृकं होतृविषयं वरणं विधत्ते अग्निर्देवानामिति। द्विविधो ह्यग्निर्मानुषो दैव्यश्चेति। भूलोके वर्तमानो होमसाधनभूतो मानुषोग्निः स च देवानां हविर्वहनेन तदीयो दूत आसीत्। दिवि वर्तमानो दैव्यः। स चान्यत्रापि श्रूयते—“दिवि नाको नामाग्निः। तस्य विप्रुषो भागधेयम्” इति। स चासुराणां हितमाचरंस्तदीयो दूत आसीत्। तावुभावावयोः कस्य दौत्यमुचितामिति प्रश्नमभिलक्ष्य प्रजापतिं प्राप्नुताम्। तत्र योयं मानुषोग्निः स ब्राह्मणः। ब्रह्मणि वेदे विहितं कर्म साधयितुं प्रवृत्तत्वात्। दैव्यस्त्वसुराणां कर्म साधयितुं प्रवृत्तत्वादासुर इत्युच्यते न ब्राह्मण इति। तयोर्मध्ये ब्राह्मणमग्निं प्रति प्रजापतिरब्रवीत् हे मानुवाग्ने त्वमेव दूत्यमर्हसि। तस्मात्त्वमेव यागे वक्तव्यमेतत्सर्वं ब्रूहीति। किं तत्सर्वमिति तदुच्यते—होतारं प्रत्यध्वर्युराश्रावयेति प्रयुङ्क्ते तस्य प्रयोगस्याभिप्रायः कथ्यते—हे देवा इदं यजमानसंबन्धि हविर्दानं शृणुतेत्येतमर्थमेव होतर्ब्रहीत्यभिप्रेत्य तदाश्रवणवाक्यं हे होतस्त्वां प्रत्यध्वर्प्रुरब्रवीत्। तस्मात्तमेव याज्यापाठमुरवेन देवानां श्रवणं यथा भवति तथा हौत्रमेतत्सर्वं त्ममेव ब्रूहीति। आसुरं प्रत्यध्वर्युणाश्रावयेत्यनुक्तत्वादसौ याज्यादिकं मा ब्रवीत्यभिप्रायः। यस्मात्प्रजापतिर्ब्राह्मणाग्निवरणं कृतवांस्तस्माद्देवा उत्कृष्टा अभवन्। पराभूता असुराः। प्रशंसति—
यद्ब्राह्मणश्चेति। यदि लोके ब्राह्मणाब्राह्मणौ विवदमानावहमेवाधिक इति अधिविषयं प्रश्नं कर्तुं कंचिदभिज्ञं प्रत्यागच्छेतां सोभिज्ञो ब्राह्मणस्यैवाधिक्यं ब्रूयात्तेन वक्तुः स्वस्यैवाधिक्यं संपादितं भवति। ब्राह्मणस्य पराभववचने स्वस्यैव पराभव उक्तो भवति। तस्मात्कदाचिदपि ब्राह्मणः पराभवविषयो न कर्तव्यः। सोयं प्रासङ्गिकः पुरुषार्थो विधिर्द्रष्टव्यः।
अत्र मीमांसा।
“तृतीयाध्यायस्य चतुर्थपादे चिन्तितम “निवीतं तु मनुष्याणां विधिर्वैषोर्थवादकः। अपूर्वत्वात्प्रकरणान्नुः ऋतोर्वा विधीयते। प्राप्तं निवीतं मर्त्येषु प्रायेणैतस्य दर्शनात्। उपवीतविधावेकवाक्यत्वादर्थवादता”।। दर्शपूर्णमासयोः श्रूयते—“निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुते” इति। तत्र निवीतस्य पूर्वं मानान्तरेणाप्राप्तत्वाद्विधेयत्वमभ्युपेतव्यम्। तच्च निवीतं मनुष्याणामिति षष्ठ्या पुरुषार्थत्वेन विधीयत इत्येकः पूर्वपक्षः। अस्मिन्पक्षे मनुष्यसंबन्धो द्विविधः-सुवर्णसाधारणवत्सर्वपुरुषार्थ इत्येक प्रकारः। उपवीतप्राचीनावीतयोः क्रतुप्रवेशरहितयोः स्वतन्त्रदैविकमैतृककर्मणोरपि दर्शनात्तत्साहवर्येण स्वतन्त्र आचार्यातिथ्यादिमनुष्यविषये कर्मणि निवीतमित्यपरः प्रकारः प्रकरणबलाद्यागधर्म इति द्वितीयः पूर्व पक्षः। अस्मिन्पक्षे मनुष्यग्रहणं कर्तृसंबन्धानुवादः। षष्ठीश्रुतिप्रकरणयोरविरोधादुभयावलम्बनेन क्रतुसंबन्धिमनुष्यधर्म इति पक्षान्तरमुदेति। तच्च द्विविधं, लोहितोष्णीषादिवदृत्विग्धर्म इत्येकः प्रकारः। क्रतावेव यन्मनुष्यप्रधानं कर्मान्धाहार्यदानादि तद्धर्मत्वे सति उपवीतप्राचीनावतिसाहचर्यमप्यनुगृह्यत इत्यपरः प्रकारः। सर्वथा निवीतं नार्थवाद इत्येवं प्राप्ते ब्रूमः- अत्र प्रतीयमानं निवीतादिकं वासोविषयं न तु त्रिवृत्सूत्रविषयम्। अजिनं वासो वा दक्षिणत उपवीयेत्यनेन सदृशत्वात्। वस्त्रस्य च निवीतं सौकर्याय प्राप्तम्। अत्र प्राचीनावीतोपवीतयोरवश्यमेकास्मिन्पार्श्वे वस्त्रमधः पतेत्। अतः प्राप्तेर्थे मनुष्याणामिति षष्ठीश्नुतिर्न विधायिका। न च प्रकरणात्क्रत्वङ्गत्वेन विधिः। वाक्यभेद प्रराङ्गात्। उपवीतं तावद्विधीयते। अन्यथा देवलक्ष्ममेव तत्कुरुत इति प्रशंसावैयर्थ्यापत्तेः। तस्मिंश्चोपवीतविधावर्थवादत्वेन निवीतप्राचीनावीतयोरे कवाक्यत्वसंभवे पृथग्विधानमयुक्तम्। निवीतप्राचीनावीते मनुष्यपितृविषयत्वाद्दैविके कर्मण्ययोग्ये उपवीतं तु योग्यमिति ब्यतिरेकमुखेन (ण) स्तावकं निवीतम्। तस्मादर्थवादः। उपव्ययत इत्यस्य तु विधित्वं प्रथमकाण्डस्याद्यानुवाके चिन्तीतम्। "
““तृतीयाध्यायस्यैव प्रथमपादे चिन्तितम् उपव्ययत इत्यस्य सामिधेन्यङ्गताऽथवा । दर्शाङ्गता प्रक्रियैषाऽवान्तराऽतोऽस्त्विहाग्रिमः”।। लिङ्गादग्नेरङ्गभूतैर्निवित्संज्ञकमन्त्रकैः। विच्छेदे सति दर्शाङ्गं महाप्रकरणोक्तितः।। दर्शपूर्णमासप्रकरणे विश्वरूपो वै त्वाष्ट्र इत्यस्मिन्प्रपाठके सप्तमाष्टमयोरनुवाकयोः सामिधेनीब्राह्मणमाम्नातम्। नवमे निवित्संज्ञकानामग्ने महाँ असि ब्राह्मण भारतेत्यादीनां मन्त्राणां ब्राह्मणम्। दशमे काम्याः सामिधेनीपक्षाः। एकादशे तूपवीतमेवं विहितम्—“निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुते” इति। तत्र पूर्वन्यायेन सामिधेनीप्रकरणास्यावान्तरस्यं स्वीकारात्सामिधेन्यङ्गत्वमुवीतस्येति चेन्न। निविद्ब्राह्मणेन सामिधेनीप्रकरणस्य विच्छिन्नत्वात्। न च निविदामपि साभिधेनीन्यङ्गतया तत्प्रकरणपाठादविच्छेदकत्वामिति वाच्यम्। लिङ्गेन निविदामग्न्यङ्गत्वावगतत्वात्। आहुत्यधिकरणभूतमग्निं संबोध्य महा असीत्याद्वार्मिनिविदाक्यैरग्नेरुत्साहजननाय तद्गुणा आवेद्यन्ते। अत एव निर्वचनमेवं श्रूयते-निविद्भिर्न्यवेदयन्। तन्निविदां निवित्त्षम् इति। ननु सम्यगिध्यतेग्निर्याभिर्ऋग्भिस्ताः साविधेन्य इति व्युत्पत्त्या ता अप्यत्र ज्वलनद्वारेणाग्न्यर्था एवेति चेत्। भवतु नाम। नैतावता परस्परमङ्गाङ्गिभावः। ननु विच्छिद्यतां सामिधेनीप्रकरणं, निवित्प्रकरणेनोपवीत्तस्य निविदङ्गत्वं स्यादिति चेन्न। पूर्वोत्तरानुवाकयोर्निविदामश्रवणेन प्रकरणाभावात्। संनिधिना तदङ्गत्वमिति चेन्न। काम्यसामिधेनीभिर्व्यवहितत्वात्। न च काम्यसामिधेन्यङ्गता शङ्गनीया। संनिधितः प्रकरणस्य प्रबलत्वात्। तस्मादिह प्रयाजन्यायाभावान्महाप्रकरणेन दर्शपूर्णमासाङ्गमुपवीतम्। तत्रैव चतुर्थपादे चिन्तितम् "
सर्वार्थमुत दर्शार्थमुपव्ययत इत्यदः। सर्वार्थमग्निहोत्रे स्यादुपवीतीति लिङ्गतः।।
दर्शाद्यर्थं प्रकरणाल्लिङ्गे स्यात्सिद्धिरन्यथा। दोहं मृताग्निहोत्रस्य स्तोतुमेतदनूदितम्।।
" “यज्ञोपवीती हि देवेभ्यो दोहयति” इत्येवमग्निहोत्रे यज्ञोपवितस्य सिद्धवदनुवादेन लिङ्गेन सर्वकर्मार्थमुपवीतमिति चेन्न। लिङ्गस्यान्यथोपपत्तेः। मृताग्निहोत्रं तस्मिन्दिनेन्येन हूयते। तत्र प्राचीनावीती दोहयेदिति विधाय तस्य स्तुतये यज्ञोपवीतीत्याद्यनूदितम्। अतो लिङ्गाभासेन बाधासंभवात्प्रकरणाद्दर्शपूर्णमासाङ्गमुपवीतम्। द्वादशध्यायस्य तृतीयपादे चिन्तितम् “ऋजुत्वादय आघारे विकल्पन्ते न वाग्रिमः। एकार्थत्वाददृष्टार्थभेदात्संभवतोन्तिमः”।। दर्शपूर्णमासयोराम्नायते—ऋजुमाभारयति, संततमाघारयति, आघारमाचारयति इति। तेषामृजुत्वादीनामाघारोपकारद्वारा कार्यस्यैकत्वाद्विकल्प इतिचेन्न। दृष्टद्वारभेदाभावेप्यदृष्टाद्वारभेदात्सहानुष्ठानसंभवाच्च न विकल्पः। तत्रेवान्यच्चिन्तितम् “आघारे मन्त्रसाहित्यं धारा वा संतताग्रिमः। कर्मैकत्वान्नाज्यधारातैरन्तर्यस्य संभवात्।।” संततमाघारयतीत्यत्र पूर्ववदाहुतिनैरन्तर्यं न संभवति। आहुतेरेकत्वात् अतो मन्त्रकर्मसाहित्यस्यैत्र संततशब्दार्थत्वान्मन्त्रादौ कर्मोपक्रम इति चेन्मेवम्। धा (घा) र्यमाणाज्ययिन्दुनैरन्तर्यस्य संततशब्दार्थ वसंभवात्। न ज प्रयाजाद्याहुतिष्वपि नैरन्तर्यमस्तीति शङ्कनीयम्। तत्र विच्छिद्य विच्छिद्य बिन्दुपातेपि कर्गवैकल्याभावात्। अत्र तु न तथेति वैषम्यम्। तथा सत्याघाराय यदाज्यं जुह्वा गृहीतं तत्सर्वं शनैरविच्छेदेनाहवनीये पातयेदिति संततशब्दार्थः। यदि मन्त्रकर्मणोः सहोपक्रमः स्थात्तदानीमनेन मन्त्रेणेति तृतीयाश्रुत्युक्तं पूर्वकालवर्तित्वलक्षणं मन्त्रस्य करणत्वं हीयेत। तस्मात्पूर्ववन्मन्त्रान्ते कर्मसंनिपातः।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके एकादशोनुवाकः ।। ११।।”
" (अथ द्वितीयकाण्डे पञ्चमप्रपाठके द्वादशोनुवाकः)। (काम्येष्टियाज्यानुवाक्याभिधानम्) होतुर्नियम आघारश्चोक्तमेकादशे द्वयम्। अथ द्वादशे काम्येष्टियाज्यानुवाक्या उच्यन्ते। अतीते तृतीयप्रपाठके इदमाम्नातम् यो ज्योगामयावी स्माद्यो वा कामयेत सर्वमायुरियामिति तस्मा एतामिष्टिं निर्वपेदाग्नेयमष्टाकपाल सौम्यं चरुं वारुणं दशकपाल सारस्वतं चरुमाग्नावैष्णवमेकादशकपालम्” इति। तथा “यावतोश्वान्प्रतिगृह्णीयात्तावतो वारुणाञ्चनुष्कपालान्निर्वपेत्” इति। “यद्यपरं प्रतिग्राही स्यात्सौर्यमेककपालमनुनिर्वपेत्” इति च। एतेषु सप्तसु हविःषु क्रमेण याज्यानुवाक्याप्रतीकानि दर्शयति आयुष्ट इति। तत्राग्नेयस्यायुष्टे विश्वतोदधदिति पुरोनुवाक्या। आयुर्दा अग्ने हविषो जुषाण इति याज्या। तदुभयं त्वमग्ने रुद्र इत्यनुवाके व्याख्यातम्। सौम्यस्य त्वा प्यायस्व समेतु त इति पुरोनुवाक्या। सं ते पया सि समु यन्तु वाजा इति याज्या। एतदुभयं चतुर्थकाण्डे मा नो हि सीदित्यनुवाके व्याख्यास्यते। वारुणदशकपालस्याव ते हेड इति पुरोनुवाक्या। उदुत्तममिति याज्या। एतच्चोभयं वैश्वानरो न इत्यनुवाके व्याख्यातम्। सारस्वतस्य प्र णो देवीत्यनुवाक्या। आ नो दिवो बृहत इति याज्या। आग्नावैष्णवस्याग्नाविष्णू महि तद्वामिति पुरोनुवाक्या। अग्नाविष्णू महि धामेति याज्या। चतुष्टयमप्येतत्प्रथमकाण्डस्याष्टमप्रपाठकस्यान्त्यानुवाके व्याख्यातम्। वारुणचतुष्कपालस्येमं मे वरुणेति पुरोनुवाक्या। तत्त्वा यामीति याज्या। एताच्चोभयमस्मिन्नेवकाण्डे प्रथमप्रपाठकस्यान्त्यानुवाके व्याख्यातम्। सौर्यस्योदु त्यं जातवेदसमिति पुरोनुवाक्या। चित्रं देवानामिति याज्या। एतच्चोभयं पूर्वकाण्डस्य चतुर्थप्रपाठके व्याख्यातम्। अथापोनप्त्रीयं चरुं पुनरेत्य निर्वपेदितस्य पुरोनुवाक्यामाह अपा नपादिति। अपामुदकानां नपादविनाशयिता तथाविधनामकः कश्चिद्देव उपस्थं स्वस्योपवेशनस्थानमास्थादातिष्ठति प्राप्नोमीत्यर्थः। कीदृशो देवः। जिह्मानामूर्ध्व आवर्तरूपेण कुटिलगतीनामुदकानामुपरि वर्तमानः। विद्युतं वसानो मेघमण्डलमध्य उपविष्टत्वाद्विद्युदेव तस्याच्छादकं वस्त्रम्। आपश्च तं देवं परियन्ति परितो व्याप्य वर्तन्ते। कीदृश्य आपः। तस्य देवस्य ज्येष्ठं प्रशस्तं महिमानं माहात्म्यं वहन्तीर्धारयन्त्यः। बहुलवृष्ट्या स्वकीयस्य स्वामिनस्तस्य देवस्य माहात्म्यं ख्यापयन्त इत्यर्थः। हिरण्यवर्णा बहूनां विद्युतां मध्ये वर्तमानत्वाद्धेमवर्णत्वम्। यह्वीर्महत्यः। तत्रैव याज्यामाह समन्या इति। अन्याः कश्चिदापः संयन्ति परस्परं संगताः प्रवाहरूपेण गच्छन्ति। ताभ्योन्याः काश्चिदुपयन्ति प्रवाहमन्तरेण *प्रविष्टा इव तिष्ठन्ति। ऊर्वो वडवाग्नेराधारः समुद्रः। स च वहन्तीषु स्थिरासु चाप्सु समानः। न तावदयं प्रवहन्तीनामपां प्रवेशेन वर्धते स्वयम्। नापि तासामभावे सति स्थिराभिरद्भिः परिक्षीयते। तादृशं समुद्रं नद्यः पृणन्ति स्वप्रवेशेन प्रीणयन्ति। तमु शुचय आपः परितो व्याप्य तस्थृः स्थिताः। कीदृशं, शुचिं शोधयितारं दीदिवांसं वडवाग्निजनकत्वेन दीप्यमानमपां नपातमविनाशयितारम्। तत्रैव विकल्पितां याज्यामाह तमस्मेरा इति। तमपां नपातमापः परियन्ति। कीदृशं तं युवानं सर्वदा यौवनोपेतम्। कीदृश्य आपः, अस्मेरा विडम्बनारूपेण स्मयरहिता अनुकूला इत्यर्थः। युवतयः सर्वदा यौवनोपेताः। मर्मृज्यमानास्तत्संयोगे शोध्यमानाः। *स्त्र. पुस्तके “उपरिष्टादिव” इति पाठान्तरम्। सोपा नपादग्निरनिध्मः काष्ठरहितोप्यप्सु दीदाय दीप्यते। कीदृशः शुक्रेण शिक्वना युक्तः शुद्धेन प्रकाशेन युक्तः, रेवद्धनवान्, धृतनिर्णिग्विलापनेन घृतं निर्णेनेक्ति निःशेषेण शोधयतीति घृतनिर्णिक्।”
“या पाप्मना गृहीतः स्यात्तस्मा एतामैन्द्रावरुणीं पयस्यां निर्वपेदित्यस्याः पुरोनुवाक्यामाह इन्द्रावरुणयोरिति। सम्राजोः सम्यग्दीप्यमानयोरिन्द्रावरुणयोरवो रक्षणमहमावृणे सर्वतः प्रार्थये। तौ चेन्द्रावरुणावीदृशे रक्षणे वृतौ नोस्मान्मृडातः सर्वदा सुखयताम्। तत्रैव याज्यामाह इन्द्रावरुणेति। हे इन्द्रावरुणौ युवं नोस्मभ्यं महि शर्म महत्सुखमापन्निवारणरूपं यच्छतम्। किमर्थम्, अध्वराय यागानुष्ठानाय विशे प्रजासमृद्धये जनाय परिवारकजनसिद्धये च। यः पाप्मा दीर्घप्रयज्युमति अस्मदीयं दीर्घकालभावियागप्रयोगमतिलङ्घ्य नोस्मान्वनुष्यति पीडयति। वयं तु युवयोरनुग्रहवशात्पृतनासु पापकृतासु पीडासु दूढ्यो दृढतरा अपीडिताः सन्तस्तं पाप्मानं जयेम। "
“पञ्चमकाण्डे मैत्रावरुण्यामिक्षा विहिता “यथा वे हविः स्कन्दत्यैवं वा एष स्कन्दति योग्निं चित्वा स्त्रियमुपेति मैत्रावरुण्यामिक्षया यजेत” इति। तत्र याज्यानुवाक्योः प्रतीके दर्शयति आ नो मित्रेति। आ नो मित्रावरुणेति पुरोनुवाक्या। प्र बाहवेति याज्या। एतदुभयमग्नाविष्णू महि तद्वामित्यनुवाके व्याख्यातम्। पुनराधेयप्रकरण आम्नातम्—“वीरहा वा एष देवानां योग्निमुद्वासयते यस्य वरुण एवर्णंयादाग्निवारुणमेकादशकपालमनुनिर्वपेत्” इति। अत्रपुरोनुवाक्यामाह त्वां नो अग्ने इति। हेग्ने त्वं नोस्माकं भक्तिं विद्वान्सन्वरुणस्य देवस्य हेडोस्मद्विषयं क्रोधमवयासिसीष्ठा अपनय। यजिष्ठो यष्टतमोतिशयेन यागनिष्पादकः। वन्हितमोतिशयेन देवहविर्वोढा। शोशुचानोत्यन्तं दीप्यमानः। त्वेश्वा द्वेषांसि सर्वान्विरोधिकृतान्द्वेषानस्मत्प्रमुमुग्ध्यस्मत्तः प्रमोचय। तत्रैव याज्यामाह स त्वं न इति। हेग्ने स त्वं नोस्माकमूत्या रक्षणेनावमो भव रक्षको भव। कीदृशस्त्वम्। अस्या उषसो व्युष्टौ नेदिष्ठोद्यतनस्योषःकालस्योपरितने प्रातः-कालेत्यन्तं प्रत्यासन्नौ नोस्माकं वरुणं वरुणेन कृतमभीष्टनिवारकं पापादिकमवयक्ष्व नाशय। रराणो रममाणः सन्मृडीकं सुखसाधनमस्मदीयं हविर्वीहि भक्षय। ततो योस्माकं सुहव एधि सुखेनाह्वातुं शक्यो भव। यो भ्रातृव्यवान्त्स्यात्स स्पर्धमान एतयेष्ट्या यजेताग्नये प्रवते पुरोडाशमष्टाकपालं निर्वपेदग्नये विबाधवतेग्नये प्रतीकवते इत्यव प्रवतोग्नेर्हविषः पुरोनुवाक्यामाह प्रप्रायमिति। अयमग्निर्भरतस्य हविर्भरणवतो यजमानस्याह्वानं प्रप्रशृण्वेतिप्रकर्षेण शृणोतु। यद्योग्नि सूर्यो न सूर्य इव भा भासमानः सन्बृहद्रोचतेत्यन्तं दीप्यते। योग्निः पृतनासु सङ्ग्रामेषु पुरुं जयपूर्तिमभितस्थौ सर्वतः करोति सोग्निर्नोस्माकमतिथिर्दीदाय भवतु अतिथिरिवेह समागच्छतु। कीदृशोग्निः। दैव्यो देवेभ्यो हितः शिवः परममङ्लभूतः। तत्रैव याज्यामाह प्र ते यक्षीति। हेग्ने ते त्वदर्थं प्रयक्षि प्रकर्षेण यजे ते त्वदीयं मन्म मननं मानसमनुग्रहविशेषं प्रकर्षेणेयर्मि व्याप्नोमि। नोस्माकं हवेषु यागेषु वन्द्यो नमस्कार्यो यथा भुवो येन प्रकारेण भवति तेन प्रकारेणानुग्रहमियर्मीति पूर्वत्रान्वयः। हेग्ने त्वमियक्षवे यष्टुमिच्छते पुरवे हविः पूरयित्रे यजमानाय प्रियं दातुं धन्वन्प्रपेवासि मरुभूमौ शीतलपानीयपूर्णशलिवाति। हे प्रत्न पुरातन, हे राजन्दीप्यमान। एतदूभवं बह्निविशेषणम्। अथ विबाधवतोग्नेर्याज्यापुरोनुवाक्ये प्रतीकेन दर्शयति वि पाजसेति। वि पाजसा पृथुना शोशुचान इत्येषा पुरोनुवाक्या। सेयं चतुर्थकाण्डस्य प्रथमप्राठके व्याख्यास्यते। वि ज्योतिषा बृहतेति याज्या कृणुष्व पाज इत्यनुवाके व्याख्याता। अथ प्रतीकवतोग्नेर्हाविषि पुरोनुवाक्यामाह स त्वमग्न इति। हेग्ने स त्वं प्रतीकेन कर्मप्रारम्भमात्रेण यातुधान्यो राक्षसजातीः सर्वाः प्रत्योष प्रत्येकं दह। कीदृशस्त्वम्, उरुक्षयेषु विस्तीर्णेषु याग गृहेषु दीद्यद्दीप्यमानः। तत्रैव याज्यामाह त सुप्रतीकमिति। वयं तमग्निं सपेम समवेतः प्राप्ता भूयास्म। कीदृशमग्निं सुप्रतीकं शोभनोपक्रमम्, अस्मास्वनुग्रहस्तेन सुष्टूप्रक्रान्तं, सुदृशं शोभनकटाक्षेणास्मान्पश्यन्तं, स्वञ्चमस्पदीये कर्मणि सुष्ट्वागच्छन्तं, विदुष्टरमतिशयेन भक्तचित्तवेदिनम्। यद्यपि वयमविद्वांसस्त्वदीयं महिमानं न जानीमस्तथापि तं प्राप्तास्मः। सोग्निर्बक्षद्यष्टुमिच्छतां पुरुषाणां विश्वा वयुनानि सर्वानभिप्रायविशेषन्विद्वाञ्जानन्नवतिष्ठति। अतः सोग्निरस्मदीयं हव्यं प्रवोचत्प्रकर्षेण ब्रवीतु। अथ “योभारतृव्यवान्त्सात्स स्पर्धमान एतयेष्ट्या यजेतेन्द्राया होमुचे पुरोडाशमेकादशकपालं निर्वपेदिन्द्राय वैमृधायेन्द्रायेन्द्रियावते” इत्येतेषु त्रिहविःषु याज्यापुरोनुवाक्ययोः प्रतीकानि दर्शयति अ होमुच इति। अ होमुचे प भरेमेत्येषा प्रथमस्य हविषः पुरोनुवाक्या। विवेष यन्मेति याज्या। वि न इन्द्र मृध इति द्वितीयस्य हविषः पुरोनुवाक्या। इन्द्र क्षममभि वाममिति याज्या। इन्द्रियाणी शतक्रतो, इति तृतीयस्य हविषः पुरोनुवाक्या। अनुतेदायि मह इत्येषा याज्या। तदेवत्षट्कं प्रथमकाण्डे षष्ठप्रपाठकेन्त्यानुवाके व्याख्यातम्। अत्र विनियोगसंग्रहः “ज्योगामयाविनो ह्यायुरायुर्दाग्नेयके तथा। आप्या सं ते च सौम्ये स्यादवोदुत्तेति वारुणे।। सारस्वते प्र णी ह्यानोग्नाग्नावैष्णवे भवत्।इमं तत्त्वाश्वदानीष्टौ उदु चित्रं तु सोर्यके।।”
अपां न समपोनप्त्र इन्द्रावेत्यैन्द्रवारुणे।मैत्रावरुण आमिक्षायागे त्वा नः प्र वेति च।।
पुनराधेयके त्वाग्निवारुणे त्वं न इत्युभे। प्रप्रेति प्रवदाग्नेये विद्वयं बाधसंयुते।।
स त्वं प्रतीकसंयुक्ते अ हवित्यैन्द्रयामके। वीन्द्रेति वैमृधे हीन्द्रियानु ते त्विन्द्रियावते।
मन्त्रा ह्यस्मिन्ननुवाके पञ्चत्रिंशदुदीरिताः ।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-
दीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके द्वादशोनुवाकः ।। १२ ।।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्। पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः।।
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधि राजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याज्ञापरि
पालकेन माधचार्येण विरचिते वेदार्थप्रकाशेकृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
द्वितीयकाण्डे पञ्चमः प्रपाठकः।। ५ ।।