प्रश्नः-4

(अथ द्वितीयकाण्डे चतुर्थः प्रपाठकः) । (भ्रातृव्यवत इष्टिविधिः (अथ द्वितीयकाण्डे चतुर्थः प्रपाठके प्रथमोनुवाकः)। (भ्रातृव्यवत इष्टिविधिः)
यस्य निःश्वसितं वेदा यो वेदेभ्योखिलं जगत्। निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्।।
प्रपाठके द्वितीये च तृतीये चेष्टयः क्रमात् । प्रोक्तास्तत्रावशिष्टास्तु वक्ष्यन्तेऽस्मिंश्चतुर्थके ॥ १ ॥
आद्येनुवाके काम्येष्टिः स्पर्धमानस्य वर्णिता ।
चतुर्थस्य प्रथमानुवाके भ्रातृव्यवतः स्पर्धमानस्य त्रिहष्विकां कांचिदिष्टिं विधातुं प्रस्तौति। देवा मनुष्या इति। देवानामसुरादीनां च सैन्यद्वयं युध्दाय संनद्धमासीत्। असुराणां रक्षसां चास्त्येवान्तरजातिभेदः। तदीये युध्दे स्वल्पप्रहारेण देवानां शरीरे यल्लोहितमितरेकुर्वंस्तल्लोहितस्थानं रक्षांसि प्रतिदिनं रात्रिष्वागत्य केनचिद्विषादिप्रयोगेणासुभ्नन्क्षुभितं कृतवन्तः। तदानीमेव तेन क्षोभेण देवा म्रियन्ते। तान्मृतानभिलक्ष्य पश्चाद्व्यौच्छद्रात्रिः प्रभातं प्राप्तवती। ततो देवा रक्षसां कृत्यमिदमित्यवगत्य रक्षांस्युपामन्त्रयन्तोत्कोचं प्रतिश्रुत्य स्वाधीनानि कृतवन्तः। ततो रक्षांसि विजयफले भागं संप्रार्थ्य स्वसैन्यान्निर्गत्य देवसैन्ये प्रविष्टानि। ततो देवा असुराञ्जित्वा रक्षांस्यपनोदितवन्तः। तानि रक्षांसि देवा अनृतमकुर्वन्निति निश्चत्य प्रहर्तुं परितो वेष्टनमकुर्वन्। तदानीं देवा अग्नौ स्वकार्यसिध्दिमयाचन्त। याचित्वा त्रिहविष्कामिष्टिं निरवपन्। तत्र प्रथमस्य हविषः प्रवानग्निर्देवता, याज्यापुरोनुवाक्योः प्रप्रायमग्निर्भरतस्येत्यादिकयोः श्रुतः प्रशब्दो यस्याग्नेरस्ति सोयं प्रवान्। द्वितीयस्य हविषो विबाधवानग्निर्देवता, वि पाजसा पृथुनेत्यस्मिन्मन्त्रे श्रूयमाणो विबाधशब्दो यस्याग्नेरस्ति सोयं विबाधवान्। तृतीयस्य हविषः प्रतीकवानग्निर्देवता, स त्वमग्ने प्रतीकेनेति मन्त्रे प्रतीकशब्दो यस्याग्नेरस्ति सोयं प्रतीकवान्। तत्र प्रवतोग्नेरिष्ट्या पूर्वस्यां दिशि रक्षांसि प्रणोदितवन्तः। विभाधवतोग्नेरिष्ट्या दक्षिणोत्तरयोः पार्श्वयो रक्षांसि विबाधितवन्तः। प्रतीकवतोग्नेरिष्ट्या प्रतीच्यां दिशि रक्षांस्यपनोदितवन्तः। ततो देवा विजयिनोभवन्नसुराः पराजिता अभवन्। इष्टिं विधत्ते यो भ्रातृव्यवनिति। क्षिविधो हि भ्रतृव्यः, प्रबलः समानबलो हीनवलश्चेति। तोषां त्रयाणां क्रमेण त्रिभिरहविर्भिरपाकरणं भवति। वेदनं प्रशंसति प्र श्रेयांसमिति। भ्रातृव्यं श्रेयांसे प्रणुदते, सदृशमतिक्रामति, पापीयांस्तु न प्राप्नोत्येव।।इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके प्रथमोनुवाकः।।१।।"

" (अथ द्वितीयकाण्डे चतुर्थप्रपाठके द्वितीयोनुवाकः)। (भ्रातृव्यवतो विजितिसंज्ञकेष्टिविधिः)
द्वितीये विजयार्थेष्टिः प्रोक्ता विजितिनाम(मि)का ॥ २ ॥
अथ द्वितीये तस्यैव विजितिसंज्ञामिष्टिं विधातु प्रस्तौति देवसुरा इति। युध्दायोद्युक्ता देवाः परस्परमिदमब्रुवन्नोस्माकं मध्ये योतिशयेन वीर्यवांस्तमनुसृत्य वयं सर्वे समारभामहे सम्यग्युध्दोपक्रमं कुर्व (म) इति। ततस्त इन्द्रमतिशयेन वीर्यवन्तं निश्चित्य तेनोक्तास्तदीयास्तिस्रास्तनूर्हविर्भिस्तर्पितवन्तः। तैश्च हविर्भिः क्रमेण पापविमोकं वैर्यपघातं सामर्थ्यधारणं च कृतवन्तः। त्रिष्वेकादशकपालपुरोडाशेषु मिलित्वा त्रयस्त्रिंशत्कपालः पुरोडाशः संपद्यते। तेन च त्रयस्त्रिंशत्संख्याकान्देवानिन्द्र आत्माधीनान्करोति। तच्चैश्वर्याय संपद्यते। ततो देवा असुरैः सह युध्दार्थ तां पूर्वोक्तां पापविमोकशत्रुवधेन्द्रियधारणरूपामुत्तमां विजितिं प्राप्नुवन्। विधत्ते यो भ्रातृव्यवानिति। पूर्वोक्तप्रवदादिविशेषणवदंहोमुगादिविशेषणानियाज्यानुवाक्यागतशब्दाभिप्रायेण वा स्वार्थपरत्वेन वा योजनीयानि। अंहोमुचे प्रभरेमा मनीषामत्यस्मिन्मन्त्रेस्त्यहोमुक्शब्दः वि न इन्द्रो मृधो जहीत्यस्मिन्मन्त्रेस्ति विमृधशव्दः । इन्द्रियाणि शतक्रतो इत्येस्मिन्त्रेऽस्तीन्द्रियशब्दः अर्थपरत्वं तु विस्पष्टम्। पूर्वोक्तेषु प्रवदादिष्वपि प्रणोदनवत्त्वं शत्रुविबाधवत्वं प्रत्यङ्मुखवत्वं योज्यम्। यस्माद्यजमानाद्भ्रातृव्यः श्रेयान्भवति स एब यजमानः पाप्मना गृहीतो भवति। स च प्रथमहविषा पापान्मुच्यते। समानेषु मध्ये यस्माद्यजमानादन्यः श्रेयान्भवति सोन्यो यद्यप्यभ्रातृव्यस्तथाप्येषोऽश्रेयान्यजमानः श्रेयस्त्वम (मा) त्रसंपादितवैरित्वेन तेनान्येनाभिषण्णोभिभूतो भवति, तदीयश्रेयस्त्वमसहमानः सम्रहमभिभूतोस्मीति क्लिश्नाति। स तु द्वितीयेन हविषा मृधस्तादृशाशत्रूनपहते। तृतीयेन हविषेन्द्रियधारणं भवति। पूर्ववत्समुदितया त्रयस्त्रिंशत्संख्यया यजमानस्य सर्वा देवताः स्वाधीना भवन्ति। तच्च भूत्यै संपद्यते। इष्टेर्नामोपदिश्य तद्वदेनं प्रशंसति सा वा इति। विशेषेण जनयन्त्यनयेति विजितिः एतद्वेदिता भ्रातृव्येणसह युद्ध्वा तां पूर्वोक्तां पापमोक्षादिरूपामुत्तमां विजिंति प्राप्नोति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके द्वितीयोऽनुवाकः।। २ ।

" (अथ द्वितीयकाण्डे चतुर्थप्रपाठके तृतीयोनुवाकः)। (भ्रातृव्यवतः स्पर्धमानस्य संवर्गेष्टिविधिः)
स्पर्धमानस्य विहिता संवर्गेष्टिस्तृतीयके ।
अथ तृतीये भ्रातृव्यवतः स्पर्धमानस्य संवर्गेष्टिं विधित्सुरादौ तदङ्गभूतं मन्त्रं पठितुं प्रस्तौति देवासुरा इति। ओजस्त्वसृङ्गमासादिधातुभ्यो जातोष्टमो धातुः। तथा च संप्रदायविद्भिरुक्तम् “ओजो नामाष्टमी दशा” इति। बलं शरीर शक्तिः। इद्रियं दृष्ट्यादिपाटवम्। वीर्यमुत्साहः। प्रजाः पुत्रादिकाः पशवः गवादिकाः। देवासुरेषु युध्दार्थं गतेषु तदीयानोजःप्रभूतीन्षट्पदार्थान्गायत्री संगृह्य तदुभयेभ्योपक्रभ्य दूरे स्थितवती। तां दृष्ट्वा ते देवासुराश्चैवममन्यन्त—उभयोर्वर्गयोर्मध्ये यतरान्यद्वर्गस्थितानियं गायत्री प्राप्स्यति तद्वर्गस्थिता इदं सर्वैश्वर्यं प्राप्स्यन्तीति। तदुभयेपि तां गायत्रीं विलक्षणेन शब्देनाहूतवन्तः। हे विश्वकर्मन्निति देवानामाह्वानं, दाभीत्यसुराणामाह्वानं विश्वानि कर्माणि यस्याः सा विश्वकर्मा तत्सलंबोधनं हे विश्वकर्मन्निति। दभ्नोति विरोधिनो हिनस्तीति दाभी तत्संबोधनं हे दाभीति। सा गायत्रयन्यतरानुभयोर्मध्ये कानपि पुरुषान्नैव प्राप्नोत्। ततस्ते देवास्तत्प्राप्त्युपायत्वेनैतद्यजुरपश्यन्। तदिदं यजुः पठति ओजोसीति। अत्र सर्वात्मकत्वेन गायत्री स्तूयते। ओजोबले व्याख्याते। सहः सहिष्णुत्वं धैर्यम्। भ्राजो दीप्तिः। देवानां धाम स्वर्गः। नामेन्द्रादिकम्। विश्वमचेतनं कृत्स्नं जगत्। विश्वायुः कृत्स्नान्नयुक्तम्। सर्व चेतनरूपं कृत्स्नं जगत्। सर्वाण्यायुष्याणि यस्य चेतनस्य जगतस्तत्सर्वायुः। वैरिणोभि भवतीत्यभिभूः यथाय (जुर्म) न्त्रस्यार्थं (प्राप्यं) फलं दर्शयति इति वावेति। अनेनवोक्तेन स्तुतिरूपेण मन्त्रेण गायत्रीं प्रसाद्य तत्प्रसादादसुराणामोजआदिषट्कं विनाश्य स्वयं तल्लब्धवन्तः। अथेष्टिं विधातुं प्रस्तौति यद्गायत्रीति। विधास्यमानाया इष्टेर्गायत्री संवर्ग इति नामद्वयम्।यस्याद्गायत्री सर्वमादायापक्रम्य स्थित्वा मन्त्रेण स्तुता सती सर्वमानीतवती तस्मात्तेन मन्त्रेण हविरभिमृश्य क्रियमाणेष्टिर्गायत्रीत्युच्यते। सा च गायत्री संवत्सररूपा। तदीयाक्षरेष्वर्धमासेषु च चतुविंशतिसंख्याकायाः समानत्वात्। अतः संवत्सर एव तदानीं गायत्रीरूपेणापक्रम्यातिष्ठदिति संवत्सरात्मकत्वात्प्रशस्तेयमिष्टिः। यस्मादेतयेष्ट्या देवा असुराणां संवर्गनामकोयं यागः इदानीं विधत्ते यो भ्रातृव्यानिति। संवर्ग ,स रयिं जयेति याज्यायां संवर्गशब्दश्रवणाद्वैरिसंबन्ध्योजआदिवर्जनहेतुत्वाच्चायमग्निः संवर्ग। पूर्वपठितमोजोसीत्यादिमन्त्रं विनियुङ्क्ते त शृतमिति। तं पुरोडाशं शृतं पक्वमासन्नं वेद्यामासादितम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके तृतीयोनुवाकः।। ३ ।।"

(अथ द्वितीयकाण्डे चतुर्थप्रपाठके चतुर्थोनुवाकः।) (गाप्रुचरुविधिः)
प्रजापश्वर्थिनोरुक्तश्चतुर्थे गार्मुतश्च ॥ ३ ॥
“अथ चतुर्थे गार्मुतं चरुं विधातुं प्रस्तौति प्रजापतिरिति। ताः पराङ्मुखत्वेनापगताः प्रजा यत्र देशे निवासं कृतवत्यस्तत्र देशे भाण्डक्षालनादिनिष्कासपातेन ततो देशाद्गर्मुत्संज्ञकमकृष्टपच्यमरण्यमृद्गरूपं धान्यमुदतिष्ठत्तदानीं बृहस्पतिश्च प्रजापतिश्च ताः प्रजा अनुगतवन्तौ। अत्र चकारादनाम्नातोपि प्रकृतः प्रजापतिः सगुच्चीयते। तदा प्रजापतिं प्रति बृहस्पतिरेवमब्रवीत्। अनया गार्मुतधान्यरूपया त्वां प्रतिष्ठानि धान्यवत्त्वेन प्रतिष्टतं करोमि, ततो धान्यवन्तं त्वां तदर्थिन्यः प्रजा उपगमिष्यन्तीयुक्त्वा तं प्रजापतिं प्रति प्रतिष्ठितवान्। ततो धान्यवन्तं प्रजापतिं धान्यार्थिन्यः प्रजा उपगताः। विधत्ते यः प्रजाकाम इति। अथ पशुकामस्य सोमापौष्णं गार्मुतं चरुं विधातुं प्रस्तौति”
प्रजापतिरिति। पशुनिवासस्थानेपि भक्षिततृणशेषगोमयादिपातेन गर्मुत उत्पत्तिः। तया गर्मुता प्रजापतिः पूषणं सोमं च प्रतिष्ठाप्य पशूनाप्तवान्। अथष्टिं विधत्ते—यः पशुकाम इति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके चतुर्थोनुवाकः ।। ४ ।।

“(अथ द्वितीयाष्टके चतुर्थप्रपाठके पञ्चमोनुवाकः)। (चित्रायागस्योपहोममन्त्राः) प्रजापश्वर्थिनोरुक्तश्चतुर्थे गार्मुतश्च. । अथ व्यवहितेन षष्ठेन चित्रायागं विधित्सुरादौ पञ्चमेनानुवाकेनोपहोममन्त्रान्पठति। कल्पः‘चित्रापौर्णमासे चित्रामिष्टिं निर्वपेदाग्नेयादीनि सप्ताग्ने गोभिर्न आगहीत्येतेनानुवाकेपहोमाः’ इति। तत्र प्रथममन्त्रपाठस्तु अग्ने गोभिरिति। हेग्ने गोभिः सह नोस्मान्प्रत्यागद्यागच्छ। हे इन्द्रो पशुपुष्ट्या नोस्माञ्जुषस्व प्रीणय। इन्द्रो नोस्माकं गृहेषु धर्ता पशूनां धारयिता भवतु। द्वितीयमन्त्रपाठः तु सवितेति। पशूंना सहस्रं यस्यास्त्यसौ सहस्त्रियः तादृशो यः सविता नोस्माकं गृहेषु रारणद्भृशं रमताम्। पशुपोषकश्च देव आ गच्छतु। वसु धनमपि आगच्छतु। तृतीयमन्त्रपाठस्तु धातेति। सर्वस्य विधाता जगतः पालक ईश्वसो नोस्मभ्यं रयिं धनं ददातु। स ईश्वरो नोस्मान्पूर्णेन धनेन वावनद्भृशं भजतु रक्षतु। चतुर्थमन्त्रपाठस्तु त्वष्टा य इति। यस्त्वष्टा वृषभः श्रेष्ठो वृषा कामानां वर्षिता सोस्माकं गृहेषु पशुनां सहस्रेणायुतेन च सह रारणद्भृशं रमताम्। पञ्चममन्त्रपाठस्तु येन देवा इति। हे रायस्पोष धनपोषक येन त्वया देवा अमृतं पीयूषं दीर्घं सुपूर्णं श्रवः कीर्तिहेतुभूतमन्नं दिव्यैरयन्त स्थापितवन्तः, तादृशस्त्वमस्मदर्थं गवां कुल्मिं संघं जीवसे जीवनार्थमायुवस्वानीय मिश्रय। षष्ठमन्त्रपाठस्त अग्निर्गृहपतीरीति। अग्निरस्मद्गृहस्याधिपतिः। सोमो विश्वं वनते भजत इति विश्ववनिः। सविता शोभना मेधा यस्येति सुमेधाः। एतेभ्य इदं स्वाहुतमस्तु। सप्तममन्त्रपाठस्तु अग्ने गृहपते इति।”
“हे गृहपतेग्ने घृतमर्हतीति घृत्यो यस्ते भागस्तेन सह ओजोष्टमधातुरूपं शरीरसारमाक्रममाणायानुतिष्ठते यजमानाय धेहि स्थापय। यजमानोहं श्रैष्ठ्यात्पथः श्रेष्ठानां मार्गकर्तणां संबन्धिनोस्मादनुष्ठानमार्गान्मा योषं वियुक्तो मा भूवं, मूर्धा यजमानानां मध्ये शिरोवदुत्तमो भूयां, तुभ्यमिदं स्वाहुतमस्तु। अत्र विनियोगसंग्रहः ‘अग्ने गोभिस्तूपहोमाश्चित्रायागे हि सप्त ते।।’ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके पञ्चमोनुवाकः।। ५ ।।”

(अथ द्वितीयकाण्डे चतुर्थप्रपाठके षष्ठोनुवाकः)। (चित्रायागविधिः) चित्रायागस्योपहोममन्त्राः पञ्चम ईरिताः ।
“अथ षष्ठे तं यागं विधत्ते—चित्रया यजेतेति। चित्रेति यागस्य नामधेयम्। सा च चित्रा भूमिस्वरूपा यस्मात्कारणादस्यां भूमौ सर्वं प्राणिजातमाधिक्येनोत्पद्यते तेन चित्रप्राण्युत्पादनेनेयं भूमिश्चित्रा। तद्वद्विचित्रप्रजापशुहेतुत्वाद्यागोपि चित्रेत्युच्यते। चित्रायाः स्वरूपभूतान्सप्त यागविशेषान्विधातुं तद्विधिं क्रमेणोन्नयति प्रैवाग्नेयेनेति। अत्राग्नेये हविषा प्रवापयति प्रकर्षेण पशूत्पत्तिबीजं प्रक्षिपति। सौम्येन हविषा व्रीह्यादिबीजेषु गोमयमिव प्रजादिवीजेषु पोषकं रेतो धारयति। तृतीयहविदेवता त्वष्टा च हितं रेतो नानाविधरूपाकारेण विकरोति। अतः सरस्वतीदेवताकः सरस्वद्देवताकश्चेत्युभौ सारस्वतौ भवतः । एतच्च द्वयं स्त्रीपुरुषरूपत्वाद्देवतासंबन्धि मिथुनम्। तस्य हविषां मध्येनुष्ठानेन यजमानार्थं दैव्यं मिथुनं गृहमध्ये संपादितवान्भवति। तच्चोत्पन्नानां प्रजानां पशूनां च पुष्ट्यै संपाद्यते, प्रजानां पशूनां च प्रजननायोत्पत्तये संपद्यते। तत्र सिनिवाल्यै चरुः कर्तव्यः। सिनीवाल्या वाक्त्वमर्थवादान्तरे द्रष्टव्यम्। वाचः पुष्टिहेतुत्वं सभामध्ये पण्डितेष्ववलोक्यते। तस्मादनेन चरुणा पुष्टिहेतुं वाचं प्राप्नोति। ऐन्द्रो यागश्चरमः कर्तव्यः। तेनैवेन्द्रस्य पुरुषत्वेन सिनीवाल्याः स्त्रीत्वेन च तदुभयं मिलित्वा मिथुनं भवति। अत्र द्रव्यविशेषाः शाखान्तरे द्रष्टव्याः। पाठप्राप्तां हविःसंख्यां प्रशंसति सप्तैतानीति। गोपुरुषाश्वाजाविगर्दभोष्ट्रा ग्राम्याः द्विखुरपश्वापदपक्षिसरीसृपहस्तिमर्कटनादेयाः सप्तारण्याः। यत्र्युष्णिग्बृहतीपङ्क्तित्रिष्टिब्जगत्यश्छदांसि। उभयस्य पशुसंघस्य च्छन्दः संघस्य च। अग्ने गोभिर्न आ गृहीत्यादिभिर्मन्त्रैरुपहोमान्विधत्ते अथैता इति। एते वै मन्त्रोक्ता अग्नीन्द्रादयः । "
“अत्र मीमांसा। प्रथमाध्यायस्य चतुर्थपादे चिन्तितम् “यच्चित्रया यजेतेति तद्गुणो नाम वा भवेत्। चित्रस्त्रीत्वगुणो रूढेरग्नीषोमीयके पशौ।। द्वयोर्विधौ वाक्यभेदो वैशिष्ट्ये गोरवं ततः। स्यान्नाम पृष्ठाज्यबहिष्पवमानेषु तत्तथा” ।। “चित्रया यजेत पशुकामः” इत्याम्नायते। तत्र चित्राशब्दो नोद्भिच्छब्दवद्यौगिकः, किंतु रूढ्या चित्रस्त्रीत्वमभिधत्ते। ततो न पूर्वन्यायेन नामत्वम्। तथा सत्यग्नीषोमीयं पशुमालभेतेति विहितं पशुयागमत्र यजेतेत्यनेन पदेनानूद्य तस्मिन्पशौ चित्रस्त्रीत्वगुणो विधीयत इति प्राप्ते ब्रूमः चित्रत्वं स्त्रीत्वं चेति द्वावेतौ। गुणौ तयोर्द्वयोर्विधाने वाक्यं भिद्येत। तथा चोक्तम् “प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः। अप्राप्ते तु विधीयन्ते बहवोप्येकयत्नतः।।” इति। अथ वाक्यभेदपरिहाराय गुणद्वयविशिष्टपशुद्रव्यरूपं कर्म विधीयते तदा गौरवं स्यात्। तस्माच्चित्राशब्दः पूर्ववद्यजिसामानाधिकरण्येन यागनामधेयं भवति। चित्रत्वं च तस्य विलक्षणद्रव्यद्वारेणोपपद्यते। दधि मधु घृतमापो धानास्तण्डुलास्तत्संसृष्टं प्राजापत्यमिति दध्यादीनि विचित्राणि प्रदेयद्रव्याणि षडाम्नातानि। तदेतच्चित्रानामकस्य यागस्योत्पत्तिवाक्यम्। यागस्वरूपभूतयो र्दध्यादिद्रव्यप्रजापतिदेवतयोरत्रोपदिश्यमानत्वात्। उत्पन्नस्य तस्य यागस्य चित्रया पशुकाम इत्येतत्फलवाक्यम्। एवं सति प्रकृतार्यो लभ्येत। अग्नीषोमीयपश्वनुवादेन गुणविधाने प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम्। लिङ्प्रत्ययस्य चानुवादत्वाङ्गीकारान्मुख्यविध्यर्थो बाध्येत। तस्माच्चित्रापदं कर्मनामधेयम्। यथा चित्रशब्दे नामधेयत्वं तथा वहिष्पवमानशब्द आज्यशब्दे पृष्ठशब्दे च तत्तत्कर्मनामधेयत्वं योजनीयम्। चतुर्थाध्यायस्य तृतीयपदे चिन्तितम्— "
““चित्रया पशवोमुष्मिन्नेव स्युर्नियता न वा। आद्यः स्वर्गेण तुल्यत्वाद्देहस्योत्पादकत्वतः।। चित्रोत्पतौ तु नियमो न श्रुतो नापि कल्पकम्। पुस्प्रवृत्त्यादिनो (ना) पेते प्रतिबन्धे भवेत्फलम्” ।। काम्यकर्मण्येवं श्रूयते—-‘चित्रया यजेत पशुकाम ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः’ इति। तत्र यथा स्वर्गफलस्यामुष्मिकत्वं नियतम्, एवं पश्वादिफलस्यापि। यदि स्वर्गहेतुर्ज्योतिष्टोमो देहान्तरस्योत्पादकः, तर्हि चित्रादिरपि तथा स्त्वति चेत्। मैवम् । वैषम्यात्। अस्मिन्देहे स्वर्गस्य मोक्तुमशक्यत्वादश्रुता प्यन्यदेहोत्पत्तिरर्थापत्त्या कल्प्यते। चित्रया त्वन्यदेहो वश्यमुत्पाद्यत इति नियमो न श्रुतो नापि किंचित्तस्य कल्पकमस्ति। अनेनापि देहेन पश्वादिफलस्य भोक्तुं शक्यत्वात्। अस्मिन्देहे प्रतिग्रहादिदृष्टोपायमन्तरेण पश्वाद्यलाभाद्वैधं चित्रादिफलमामुष्मिकमेवेति चेन्न। परिग्रहादेः प्रतिवन्धनिवृत्तावुपयुक्तत्वात्। तस्मादसति प्रतिबन्धे फलमैहिकं सति त्वामुष्मिकम्। पञ्चमाध्यायस्य प्रथमपादे चिन्तितम् ‘स्त्रीपुंसदेवकौ सारस्वतौ तद्धर्मगः क्रमः। नास्त्यस्ति वात्र नास्त्वेष तन्नियामकवर्जनात्।। याज्यानुवाक्यापाठेन स्त्रीप्राथम्यं हि मुख्ययोः। मुख्यार्थत्वेन धर्माणां स्यान्मुख्यक्रमतः क्रमः’ ।। चित्रायागे सप्तानां हविषा मध्ये चतुर्थपञ्चमे इत्थमाम्नायते—-‘सारस्वतौ भवत एतद्वै दैव्यं मिथुनम्’ इति। सरस्वती च सरस्वांश्चेति विगृह्य समासे कृते पुमान्स्त्रीयेतिसूत्रेणैकशेषात्सरस्वन्ताविति भवति। तौ देवते ययोर्यागयोस्तौ सारस्वतौ यागौ। एतच्च मिथुनमिति वाक्यशेषादवगम्यते। तयोर्यागयोर्निर्वापादयो धर्माश्चोदकप्राप्ताः। तत्र स्वेच्छया स्त्रीयागस्य पुंयागस्य वा प्रथमं निर्वापः कार्यः। कुतः । श्रुत्यर्थपाठप्रवृत्तिस्थानानामन्यमतमस्य नियामकस्याभावादिति प्राप्ते ब्रूमः हौत्रकाण्डे स्त्रीदेवतायाः पूर्वं याज्यानुवाक्ये आम्नाते—‘प्र णो देवी सरस्वती’ ‘आ नो दिवः’ इति। पश्चात्पुंदेवतायाः ‘पीपिवा ँ् स ँ् सरस्वतः’ ‘यै ते सरस्व ऊर्मयः’ इति। अनेन याज्यानुवाक्याक्रमेण मुख्ययोर्द्वयोयागयोर्मध्ये स्त्रीयागस्य प्राथम्यमवगम्यते। ततो धर्माणां मुख्ययागार्थत्वान्मुख्यक्रमेणैव क्रमे नियते सति स्त्रीयागस्यैव प्रथमं निर्वापः कार्यः।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके षष्ठोनुवाकः।। ६ ।। "

(अथ द्वितीयाष्टके चतुर्थप्रपाठके सप्तमोनुवाकः)। (करीरीष्टिविधिः) पशुकामस्य चित्राख्यो यागः षष्ठे निरूपितः।
अथ सप्तममारभ्य दशमान्तैश्चतुर्भिरनुवाकैः कारीरीष्टिः प्रतिपाद्यते। तत्रतावत्सप्तमेनुवाके केचिन्मन्त्राः पठ्यन्ते।
“कल्पः ‘कारीया वृष्टिकामो यजेताग्नीनन्वाधायापरेणाहवनीयं दक्षिणातिक्रम्य यजमानो मारुतमसि मरुतामोज इति कृष्णं वासः कृष्णतूषं परिधत्ते’ इति पाठस्तु मारुतमिति। हे कृष्णवासरस्त्वं मरुत्संबन्ध्यसि, वस्त्रे प्रक्षिप्तस्य कृष्णद्रव्यमिश्रस्य जलस्य मरुद्भिः शोषणीयत्वात्। अत एव मरुतामोजो बलमसि, मेघेषु प्रतिबध्दानामपां धारामुद्दिश्य प्रतिबन्धरूषं मेघं भिन्धि। कल्पः‘रमयत मरुतः श्येनमायिनमिति पश्चाद्वातं प्रतिमीवति पुरोवातमेव जनयति’ इति। प्रतिमीवति प्रतिबध्नाति। पाठस्तु रमयतेति। हे मरुतः श्येनं श्येनवत्प्रबलगतिं पुरोवातं रमयत क्रीडयत। क्रीदृशम् आयिनमागच्छन्तं, मनोजवसं मनस इव जवो वेगो यस्य तादृशं, वृषणमुदकस्य वर्षयितारं सुवृक्तिं सुष्ठु पाश्चात्यवातस्य वर्जयितारम्। येन पुरोवातेनावसृष्टं मेघेभ्यो मोचितं जलमुग्रं तीव्रधारारूपं भूत्वा शर्धः शीर्णमतिशोषेण हिंसितमेति प्राप्नोति। तादृशं पुरोवातं रमयतेति पूर्वत्रान्वयः। हेश्विनौ देवभिषजौ तज्जलं स्वस्ति क्षेमकरं यथा परितो धारयतम्। कल्पः पुरोवातो वर्षन्नित्यष्टौ वातनामानि हुत्वा इति। पाठस्तु पुरोवात इति। यः पुरोवातो वर्षन्वृष्टिं प्रवर्तयञ्जिन्वः प्रजाः प्रीणयन्नावृदावर्ततां तस्मै स्वाहुतमस्तु। वातावत्प्रवातेन युक्त उग्रस्तीव्रधारायुक्तः स्तनयन्गर्जन्भीमो गर्जनाधिक्येन भयंकर इव, अनशनि प्राणघातकोशनिर्यथा न पतति यथावस्फूर्जन्नवनेन शब्दयन्, दिद्युद्विद्युल्लक्षणेन प्रकाशनेन युक्तः, त्वेषो वर्षधारया सस्यक्षेत्रादेर्दिपकः, अतिरात्रं रात्रिमतीत्य दिवारात्रमित्यर्थः। पूर्तिर्महीतलं पूरयिता। अयं वातो बहु यथा भवति तथा वृषाद्धावर्षयत्किलेति श्रुतो जनेषु ख्यातः। आतपति आतपे स्थिते सति विराड्विशेषेण राजमानः। अवस्फूर्जन्दिद्युदितिशब्दौ व्याख्यातौ।आदरार्थं पुनर्वचनम्। इत्थंभूतो यथोक्तगुणैर्युक्तः सन्सर्वलोकधारणक्षम इत्यर्थः। कल्पः अन्तर्वेदि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्खर्जू रसक्तून्करीरसक्तून्वा मान्दा वाशा इति कृष्णमधुषा संयुज्य तिस्र पिण्डिः कृत्वा पुष्करपलाशैः संवेष्ट्य इति। पाठस्तु मान्दा वाशा इति। मान्दादीन्येकादशापां नामानि संबुद्ध्यन्तानि। तादृश्यो हे आपो यूयमिहास्मिन्कर्मणि मामवत फलप्रदानेन रक्षत। मान्दा हर्षहेतवः। वाशाः शब्देन वर्षणजन्येन युक्ताः। शुन्ध्यूः शुद्धिहेतवः। अजिराः प्रवाहरूपेण गमनशीलाः। ज्बोतिष्मतीःशुक्लरूपयुक्ताः। तमस्वरीः सूर्यप्रकाशाच्छादनेन तमो यथा भवति तथा स्वरन्त्यो गच्छन्त्यः। उन्दतीर्भूमिं क्लेदयन्त्यः। सुफेना जलप्रवाहबाहुल्येन बहुफेनयुक्ताः। जगन्मित्रभूता ओषधीर्विभ्रति पोवयन्तीति मित्रभृतः। क्षत्त्रं देशाधिपतिं राजानं सवृष्टिज यशंतोषेण बिभ्रति पोषयन्तीति मित्त्रभृतः। सुष्ठु शोभनं सस्येन संपूर्णं राष्ट्रं यासां ताः सुराष्ट्राः। कल्पः- ‘समुद्यम्य कृष्णाजिनस्यान्तौ वृष्णो अश्वस्य संदानमसीति कृष्णेन दाम्नोप न ह्यति’ इति। पाठस्तु वृष्णो अश्वस्येति। हे रज्जो त्वं वृष्णोश्वस्य सेचनसमर्थस्याश्वमुख्यस्यैवास्य कृष्णाजिनस्य संदानं दृढबन्धनसाधनमसि । अतोवृष्टिसिद्ध्यर्थमनेन संदानेन हे कृष्णाजिन त्वामुपनह्यामि बध्नामि। अत्र विनियोगसंग्रहः ‘कारीर्यां मारुतं कृष्णं स्वामी धारयते पटम्। रमेति पश्चिमं वातं पुरोवातं करोति हि ।। पुरोष्टावाहुतीर्हुत्वा मान्दाः संयौति सक्तुकम्। वृष्णः संनह्यते सक्तुं मन्त्रा द्वादश वर्णिताः’’ ।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके सप्तमोनुवाकः ।। ७ ।।”

(अथ द्वितीयकाण्डे चतुर्थप्रपाठके अष्टमोनुवाकः)। (कारीरीष्टिमन्त्राः) प्राच्याङ्गमन्त्राः कारीर्यां सप्तमे समुदीरिताः।
“अथावशिष्टमन्त्रा अष्टमे वर्ण्यन्ते। कल्पः- उत्करे प्रागीषं त्रिगधमनोवस्थितं भवति (त्रि) च्छदींषीत्यर्थो (दिष्कमथो देवा वसव्या इति पूर्वस्यां गधायां कृष्णजिनमाबध्नीयादहोरात्रावसक्तं भवति यदि वर्षेत्पिण्डीरेव जुहुयाद्यदि न वषद्देवा शर्मण्या इति मध्यमायाबध्नीयादहोरात्रावसक्तं भवति यदि वर्षेत्पिण्डीरेव जुहुयाद्यदि न वर्षेद्देवाः सपीतय इति जघन्यायामाबध्नीयादहोरात्रावसक्तं भवति यदि वर्षेत्पिण्डीरेव जुहुयाद्यदि न वर्षच्छ्वोभूते धामच्छदादीनि त्रीणि हवींषि निर्वपति इति। पाठस्तु देवा वसव्या इति। अत्रोद्रो दत्तेत्येष त्रयाणां मन्त्राणां शेषत्वेतानुषज्यते। हे देवा उद्गो दत्तोदकानि प्रयच्छत। कीदृशा देवाः, वसव्याः प्रजानांवासयितारः क एते देवा इत्युच्यते अग्नो सोम सूर्येति। एवमादिका हे देवा पूर्वत्रान्वयः। उदकदाने क उपाय इति तदुच्यते—उदधिं भिन्त, उदकं धीयतेस्मिन्नित्युदधिर्मेघस्तं विदारयत। केभ्यो निमित्तेभ्यः, दिवोन्तरिक्षात्पृथिव्याः। लोकत्रयं निमित्तीकृत्येत्यर्थः। ततो मेघविदारणादूर्ध्वं पर्जन्यादागतया वृष्ट्या नोस्मानवत रक्षत। द्वितीयमन्त्रे तु मित्रावरुणार्यमन्नित्येवमादयो हे देवाः शर्मण्याः सुखप्रदा इति व्याख्येयम्। तृतीयमन्त्रे त्वपां नपादुदकानामविनाशयितराशुहेमत्र्शीघ्रगत इत्येवमादयो हे देवाः सपीतयः समानां पीतिः सोमपानं येषां ते तादृशा इति व्याख्येयम्। कल्पः-“उपहोमकाले दिवा वित्तमः कृण्वन्तीति प्रतिमन्त्रं पिण्डीराबध्नाति जुहोतीत्येके” इति। तत्र प्रथममन्त्रपाठस्तु दिवा चित्तम इति। यदा देवा पृथिवीं विशेषेण क्लेदयन्ति तदानीमुदकं बहता पर्जन्येन दिवापि तमः कृण्वन्ति किमुत रात्रौ। द्वितीयमन्त्रपाठस्तु आ यमिति। नरो मनुष्या ऋत्विजः सुदानवः सुष्ठु हविषोः दातारो ददाशुषे हविर्दत्तवते यजमानाय यजमानार्थं यं कोशमुदकधारकं मेघं दिवः सकाशादाचुच्यवुः समन्ताच्यवितवन्तः प्रसारितवन्त इत्यर्थः। स मेघः पूर्वमेकोपि पर्जन्या बहवो मेघा भूत्वा रोदसी अनु द्यावापृथिव्यावनुलक्ष्य विविधां वृष्टिं सृजन्ति। बहुपर्जन्यभावाभिप्रायेण बहुवचनम्। ताश्च वृष्टयो धन्वना मरुभूमावुदकरहितायां यन्ति प्रवर्तन्ते। तृतीयमन्त्रपाठस्तु उदीरयथा इति। हे मरुतो यूयं समुद्रसदृशान्मेघाद्वृष्टिमुदीरयथोत्पादयत। ततः पुरीषिणः पांसुयुक्तान्भूप्रदेशान्वर्षयथाप्लावयथ। हे दस्रा भूमिशोषमुपक्षपयितारो मरुतो यो युष्माकं धेनवो धेनुसदृशा मेघा नोपदस्यन्ति नैवोपक्षीयन्ते। किं कुर्वतां युष्माकं, शुभं यातां जगदनुग्रहरूपमिदं मङ्गलकार्यं प्राप्नुवताम्। किंच इतरेषां देवानां रया अन्ववृत्सत भवदीयान्रथाननुवर्तन्तां वृष्टिं दातुमस्मदीये कर्मणि रथानारुह्य युष्मासु समागच्छत्सु पृष्ठतः सर्वेप्यन्ये देवा रथामारुह्य समागच्छन्त्वित्यर्थः। कल्पः- “उत्करे कृष्णामामपक्वां स्थालीमद्भिः पूरयति सृजा वृष्टिमिति, यदि भिद्येत वर्षिष्यतीति विद्यात्” इति। पाठस्तु सृजा वृष्टिमिति। हे मरूत्संघ दिवः सकाशात्वृष्टिं सृज। अद्भिः समुद्र सदृशं वह्निदाहमन्तरेणातपेन शुष्कमिमं कुम्भमापृण समन्तात्पूरय। कल्पः-“अनउपस्तम्भने शङ्कौ वा कृष्णाविर्बद्धा भवत्यब्जा असीति तां प्रोक्षति” इति। पाठस्तु अब्जा असीति। हेवेब्जा उदकाज्जातानि मातृपित्रुदकाद्रेतोरूपेण परिणतादुत्पन्नासि। किंच, प्रथमजा असि सुवर्भानुप्रसारितादादित्यावरकतमोभागात्प्रथममपहतादुत्पन्नाऽसि “तस्य यत्प्रथमं तमोपाध्नन्त्सा कृष्णाविरभवत्” इति श्रुतेः। समुद्रियं समुद्रसदृशमेघसंबन्धि बलं वृष्ट्युत्पादनसामर्थ्यमसि। त्वय्याक्रन्दन्त्यां वृष्टिर्भविष्यतीति ज्ञातुं शक्यत्वादित्यर्थः। कल्पः- “उत्करे वर्षाहुस्तम्बं प्रतिष्ठाप्योन्नम्भय पृथिवीमिति वर्षाह्वां जुहोति” इति। वर्षाहुः पुनर्नवा। पाठस्तु उन्नम्भयेति। हे पुनर्नवे पृथिवीमुन्नम्भयोत्कर्षेण क्लेदय, तदर्थं दिव्यं दिवि भवमिदं नभ आकाशवद्व्याप्तं मेघमण्डलं भिन्धि विदारय। विदार्य च दिव्यस्य दिवि भवस्योदन उदकस्य वर्षणं नोस्मभ्यं देहि। पुनर्नवाया ओषध्या उत्पादक हे देव त्वमीशानः सन्दृतिं विसृजोदकपूर्णदृतिसमानं मेघं वर्षणाय विसृष्टद्वारं कुरु। कल्पः-“ये देवा दिविभागा इत्युपर्याहवनीये कृष्णाजिनमव धूनोत्यूर्ध्वग्री वंबहिष्टादिशसनम्” इति। पाठस्तु ये देवा इति। लोकत्रयभाजो ये देवास्ते प्रथमं यज्ञं प्रविश्य सस्य निष्पादकं क्षेत्रं सामान्येनाविश्य ततः प्रतिक्षेत्रमनु च विशेषेण विशन्त। "
अत्र विनियोगसंग्रहः-
वृष्टिप्रदायां कारीर्यां देवा इत्यादिकैस्त्रिभिः। दिनत्रये चर्मबन्धः शकटस्थे छदिस्त्रये।।
उद्नो दत्तेति वाक्यं तु त्रयाणा शेष इष्यते।दिवात्रिभिः सक्तुहोमः सृजेत्युत्तरसंस्थिताम्।।
स्थालीमिद्भिः पूरयित्वा ह्यब्जाः प्रोक्षत्यविं स्थिताम्।उन्नं पुनर्नावाहोमो ये चर्माग्नौ तु धूयते।।
अष्टमे त्वनुवाकेस्मिन्दश मन्त्रा उदीरिताः।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके ष्टमोनुवाकः ।। ८ ।।

(अथ द्वितीयकाण्डे चतुर्थप्रपाठके नवमोनुवाकः)। (कारीरीमिष्टमन्त्रव्याख्यानम्) कारीर्युत्तरभागस्था मन्त्रा अष्टम ईरिताः। अथ नवमे पूर्वभागस्थाः सप्तमानुवाकोक्तमन्त्रा व्याख्यायन्ते। तत्र यजमानस्य वस्त्रपरिधानं विधत्ते मारुतमसीति। तूषा वस्त्रस्य दशान्ताः कृष्णा यस्य तत्कृष्णतूषम्। जलपूरितैर्मेवैरादित्यप्रकाशे सर्वत आवृते सति वृष्टेः स्वरूपं कृष्णं भाति। यजमानोपि कृष्णवस्त्रप्रावरणो वृष्टिसमानरूपः सन्पर्जन्यं वर्षयितुं प्रभुर्भवति। मन्त्रान्तरं विनियुङ्क्ते रमयतेति। प्रतिमीवति प्रतिबध्नाति। पुरोवातो वर्षन्नित्यादिमन्त्राणां विनियोगं दर्शयति वातनामानीति। जिन्वरुग्ररित्यादीनि वायोर्नामानि तदुद्देशेन होमे सति यो वायुर्वृष्टेरीश्वरः स तुष्टः सन्वर्षयति। पाठप्राप्तां मन्त्रसंख्यां प्रशंसति अष्टौ जुहोतीति मान्दा वाशा इति मन्त्रेण सक्तूनां संयवनं यद्विधास्यते तस्याधारं विधत्ते कृष्णाजिने इति। प्रकृतौ कृष्णाजिने हविः रूपान्व्रीहनिवहन्ति तण्डुलान्पिनष्टि च। अतोत्रापि कृष्णाजिने संयवने वा हविः कृतं भवति। देशविशेषं विधत्ते—
“अन्तर्वेदीति। वेदेर्बाहिः संयवने यज्ञभूमिमप्रविश्य हविनावरुध्यते। करीराणि विधातुं प्रस्तौति। यतीनामिति। पारमहंस्यरूपं चतुर्थाश्रमं प्राप्तानां येषां यतीनां मुखे ब्र ह्मात्मप्रतिपादको वेदान्तशब्दो नास्ति तान्यतीनिन्द्र आरण्येभ्यः श्वभ्यः प्रायच्छत्। तथा कौषीतकिब्राम्हणोपनिषदीन्द्रस्य प्रतिज्ञा समाम्नायते। “अरुन्मुखा न्यतीन्त्सालावृकेभ्यः प्रायच्छम्” इति। पतितत्वातेषां तथात्वं युक्तम्। तथा च स्मर्यते “नित्यकर्म परित्यज्य वेदान्तश्रवणं विना। वर्तमानस्तु संन्यासी पतत्येव न संशयः।। इति।” तेषां च सालाबृकैर्भक्षणं षष्ठकाण्डे समाम्नायते “इन्द्रो यती त्सालावृकेभ्यः प्रायच्छत्तान्दक्षिणत उत्तरवेद्या आदन्” इति। वेदान्तश्रवणवाञ्छां विना नित्यकर्म परित्यक्तवतां भवतामपीदृशी गतिरिति दर्शयितुं वेदिसमीपे भक्षणम्। सा लावृकैरद्यमानानां यतीनां यानि शीर्षाणि कपालास्थीनि भूमावपतन्, तानि खर्जूरवृक्षत्वेनोदभवन्। ये तालाभिधाना महाखर्जूरास्तेषां फलानि शिरः कपालसदृशानि लक्ष्यन्ते। तेषां फलानां रस ऊर्ध्वनुत्क्रम्य भूमावपतत्। पतित्वा च सोमलतासदृशीनां लतानां सोमप्रतिनिधि भूतानामङकुररूपाणि करीर शब्दवाच्यान्यभवन्। अत एव सोमाङकुरसदृशत्वातसौम्यानि करीराणि, तदाहुतिश्च सौम्या सती दिवः सकाशाद्वृष्टिं प्रच्यावयति। “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिः” इति स्मृतेः। सक्तूनां प्रकृतिद्रव्यं विधत्ते—यत्करीराणीति ।संयवनसाधनं माक्षिकद्रव्यं विधत्ते "
“मधुषा समिति। माक्षिका हि नानाविधेभ्य पुष्पभ्यो रसानादाय मधू कुर्वन्ति। तेषां च सानामोषधिजन्यत्वाच्चोभयसारत्वम्। मन्त्रेण संयवनं विधत्ते मान्दा वाशा इति। मान्दादीन्यपां नामानि तैरेना अभिमुखत्वेन प्राप्नोति। किंच, हे देवदत्त समागच्छेति यथा लोके ब्रूयादेवमेवैना अपः स्वनामभिराच्या वयति। कृष्णाजिनबन्धनमन्त्रं व्याचष्टे वृष्णो अश्वस्येति। यथाश्वो वृषा सेचनसमर्थ एवं पर्जन्योपि सेचनसमर्थः संन्नुदकपूर्णे (रणे) न कृष्ण एव भूत्वा पश्चाद्वर्षति। अतः कृष्णेन रज्जु रूपेणैनं पर्जन्यं समृद्धं करोति। तच्च वर्षस्यावरोधाय संपद्यते।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके नवमोनुवाकः ।। ९ ।।”

(अथ द्वितीयकाण्डे चतुर्थप्रपाठके दशमोनुवाकः)। (कारीर्युत्तरभागस्थमन्त्रव्याख्यानम्) प्राच्याङ्गमन्त्राः कारीर्या व्याख्याता नवमे स्फुटम्। अथोत्तरभागस्थमन्त्रा दशमे व्याख्यायन्ते। तत्र त्रिषु दिनेषु क्रमेण च्छदिस्त्रये सक्तुबन्धनार्थं मन्त्रान्विनियुङक्ते देवा इति। तत्तन्मन्त्रोक्ताभिर्देवताभिरनुगृहीतः प्रतिदिनं वृष्टिमिच्छति। तत्र वर्षावर्षपक्षयोर्व्यवस्थया सक्तुहोमं पुरोडाशनिर्वापं च विधत्ते यदि वर्षेदिति। तावत्ये सक्तुबन्धने कृते सति वर्षणपक्षे पुरोडाशनिर्वापमन्तरेण पिण्डिर्जुहुयात्। प्रथमदिने वृष्टो सन्यां पिण्डत्रयहोमेनैव कर्मसमाप्तिः। तथा द्वितीयतृतीययोर्दिनयोः। त्रिष्वपि दिनेषु वृष्ट्यभावे चतुर्थदिने पुरोडाशनिर्वापं कुर्यात्। अहोरात्रावसक्तं भवतीति वदता सूत्रकारेणात्यन्तसंयोगवाचिनीं द्वितीयां प्रयुञ्जानेनाहोरात्रयोर्निरन्तरं बन्धनं यदुक्तं तद्विधिमर्थंवादेनोन्नयति अहोरात्रे इति। अह्नः सूर्यप्रकाशयुक्तत्वान्मित्रत्वम्। रात्रेरन्धकारेण लीन (णावरक) त्वाद्वरुणत्वम्। पर्जन्यश्चाहोरात्राभ्यामन्तरेण त्रर्षितुं न क्षमः। कुतः। कालान्तरस्याभावात्। तथा सति रात्रौ दिवसे वा सर्वदा विर्षिष्यतीति ज्ञातुमशक्यत्वान्निरन्तरं बन्धनीयम्। तेन तुष्टौ मित्रावरुणौ वर्षयतःहविर्निर्वपेदिति सामान्येन् यदुक्तं तदेव विशेषतः प्रपञ्चयति अग्नय इति। धामा ह यत्ते अजरेति याज्यानुवाक्ययोर्धामशब्दोपेतत्वद्धामच्छदग्निः। तदर्थस्तु धामान्यस्मदद्गृहादीन्यन्धकारापादिकया वृष्ट्याच्छादयतीति धामच्छत्तस्मै निर्वाप। अग्नौ प्रास्ताहुतिरितिस्मृत्यनुसारेणाग्निरस्माल्लोकादाहुत्यादित्यद्वारा वृष्टिमुत्पादयति। सृष्टामुत्पादितां तां वृष्टिं मरुतो यत्र तत्र नयन्ति। यस्मिन्कालेसावादित्यो न्यग्भूतैस्तीव्रै रश्मिभिः परि आवर्ततेतिशयेन संतापं करोति तदा पर्जन्यद्वारा वर्षति। वर्षन्स धामानि गृहादीन्याच्छादयन्निव बहुलमेघयुक्तो भूत्वा वर्षंति। तथा सत्यग्निमरुत आदित्य इत्येता एव देवता वृष्टिनियमनाय समर्थाः। ताश्च हविर्भिस्तुष्टा यजमानार्थं वर्षयन्ति यद्यपि पर्जन्यः स्वयमेवावर्षिष्यन्निव पूर्वं स्थितस्तथाप्येताभिर्देवताभिः प्रेरितः क्षणमात्रेण पुरो वातादिसामग्रीं संपाद्य सर्वथा वर्षत्येव। आमस्थालीपूरणमन्त्रं व्याचष्टे सृजा वृष्टिमिति। अद्भिः पृणेत्येनेनेमा भूलोकस्था अपः समर्धयति। सृजा वृष्टिमित्यनेनामूः स्वर्गस्था अपः समर्धायति। किंचाभिरेव भूलोकस्थाभिरद्भिरमूरच्छैति स्वर्गस्था अपः प्राप्तुं गच्छति कृष्णाविप्रोक्षणमन्त्रस्य स्पष्टार्थतां दर्शयति अब्जा इति। पुनर्नवायां होमं विधत्ते उन्नम्भयेति। एषा वै पुनर्नवैवौषधीनां सर्वासां मध्ये वृष्टिवनिर्वृष्टिभाक्। वर्षर्तौ बहुलतरसमुद्भवात्। मन्त्रान्तरं विनियुङ्क्ते ये देवा इति। दिवि भागा अन्तरिक्षभागाः पृथिवीभागा इत्युक्तत्वाल्लोकाः प्रीताः सन्तो यजमानायाभीष्टप्रदा भवन्ति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके दशमोनुवाकः ।। १० ।।

“(अथ द्वितीयकाण्डे चतुर्थप्रपाठकः एकादशोनुवाकः)। (त्रैघातवीयेष्टिविधिः) अनुवाके तु दशमे कारीरीष्टिः समापिता। अथैकादशे त्रैधातवीयेष्टिर्विधीयते। तत्रादौ सामिधेनीषु द्वे धाय्ये विधत्ते सर्वाणि छन्दा सीति। एतस्यां त्रैधातवीयेष्टौ सामिधेनीरूपेण सर्वाण्यपि च्छन्दांस्यनुवक्तव्यानीत्यभिज्ञा आहुः। तत्तु सर्वच्छन्दोनुवचनं कथं घटत इति तदुच्यते—ककुच्छन्दस्त्रिष्टुभः सारम्, उष्णिक्छन्दो जगत्याः सारम्। अतस्तदुभयानुवचनेन सर्वच्छन्दोनुवचनं संपद्यते। प्र सो अग्ने तवोतिभिरित्येषा ककुतदीयेषु त्रिषु पादेषु मध्यमपादस्य द्वादशाक्षरत्वात्। प्र होमे पूर्व्यं वच इत्येषोष्णिक्तदीयेषु त्रिषु पादेष्वान्तिमपादस्य द्वादशाक्षरत्वात्। एतदुभयवचनेन त्रिष्टुब्जगत्योर्लाभेपि गायत्र्या अलाभशङकां वारयितुमन्तर्भावं दर्शयति गायत्री वा इति। उष्णिक्छन्दसोष्टाविंशत्यक्षराणि तत्र चतुर्विंशत्यक्षरैर्गायत्र्यन्तर्भूता। यान्यधिकाक्षराणि चत्वारि सन्ति ते चतुष्पात्पशुस्वरूपा एव। पूर्वस्मिन्प्रपाठके त्रिधाताविष्टौ पुरोडाशस्योपरि पुरोडाशान्तरस्थापनं विहितम्। एवमत्रापि विधास्यते। एवं सति यथा पुरोडाशेध्युपर्यन्यः पुरोडाशः स्थाप्यते, एवमेवोष्णिक्छन्दस्कायामृचि गायत्रीछन्दोक्षरसंख्याया अधिकाक्षराणि चत्वारीति यत्तदवमन्तव्यम्। अतः पुरोडाशसाम्यायाक्षराधिक्यं युक्तमित्यभिप्रायः। * प्रकृतौ द्वै ऋचावुक्ते आ जुहोत दुवस्यतेति गायत्री सामिधेनी, त्वं वरुण इति जगती भवति, ते अपवदितुं त्रिष्टुभं विधत्ते यज्जगत्येति। उष्णिक्छन्दसो जगतीवीर्यत्वेन निरूपितत्वात्तदेवात्र जगतीशब्देन विवक्ष्यते। तस्मिंश्चोष्णिक्छन्दसि गायत्र्यन्तर्भावस्योक्तत्वाल्लाक्षितलक्षणया जगतीशब्दो गायत्रीं ब्रूते। तथा सति प्रकृतिवद्रयत्र्या परिधानं यत्तदेवात्र जगतीपरिधानमिति विवक्षितत्वात्तत्र बाध इत्युच्यते। अथवा शाखान्तरानुसारेण मुख्ययैव जगत्यात्र प्राप्तं परिधानं दूष्यते। तत्परिधाने हि यज्ञं नाशितवान्भवति। अथ त्रिष्टुभा परिदध्यात्सामिधेनीः समापयेदित्यर्थः। त्रिष्टुभ इन्द्रियसामर्थ्यरूपत्वाद्यज्ञं सामर्थ्ये प्रतिष्ठापितवान्भवति। ततो यज्ञं न नाशयति। तां त्रिष्टुभं दर्शयति अग्ने त्री त इति। त्रिशब्दा बहवो यस्यां सन्तीति त्रिवती। सेयं तृतीयकाण्डस्य द्वितीयप्रपाठके समाम्नास्यमानत्वात्तत्रैव व्याख्यास्यते। यथास्यामृचि त्रिशब्दस्तथा त्रैघातवीयकर्मनामन्यपि त्रिशब्दोस्तीति सारूप्यम्। सर्वकामसाधनत्वेन यागं विधत्ते सर्वो वा इति। सर्वेषु यज्ञेषु यानि च्छदांसि प्रयोक्तव्यानि तानि सर्वाण्यत्रोष्णिक्कु द्भ्यामेवावरुध्यानीत्युक्तम्। अतोयं सर्वयज्ञस्वरूपत्वाद्यस्य यः कामोस्ति तेन तदर्थं प्रयोक्तव्यः। यस्माज्जोतिष्टोमादिरखिलो यज्ञः सर्वकामार्थं प्रयुज्यते तस्मात्सर्वज्ञस्वरूपस्यास्य सर्वकामार्थत्वं युक्तम्।”””
(* प्रकृतावा जुहोत दुवस्यतेति गायत्री सामिधेनीषु परिधानीया भवति तामपवदितुमिति तै. इति ख. पुस्तके पाठान्तरम्। ) सामान्येन सर्वकामार्थत्वं विधाय विशेषतोभिचारहेतुत्वं विधत्ते त्रैधातवीयेनेति। अभिचारपरिहारार्थत्वं विधत्ते एतयैवेति। एतयैव त्रैधातवीयेष्ट्यैव। सहस्रदक्षिणाकस्य ज्योतिर्विश्वज्योतिरप्तोर्याममहाव्रतादेरनुष्ठानसिद्धिं प्रति साधनत्वं विधत्ते एतयैवेति। यस्तु सहस्रदक्षिणाकेन यागेन यष्टुमसमर्थः सन्नहं तेन यक्ष्य इति कामयते सोयमेतयेष्ट्या यजेत पश्चात्तत्र प्रजातं प्रभूतं बहुविधं सहस्रं दातुं शक्तो भवत्येव। ततस्तादृशकर्मानुष्ठानं सिध्यति। अथ सहस्रदक्षिणाकेन यागेनेष्टवत उपरितनहुविधयज्ञसाधनद्रव्यार्थं विधत्ते
एतयैवेति। यः पुमान्गोसहस्रदक्षिणाकेन यागेनेष्टवान्भवति स एष पशू नामवसानं प्राप्नोति। तेनोत्तरक्रतूननुष्ठातुमसमर्थो भवति। अतस्तत्सामर्थ्याय पशुकामः सन्प्रजापतिवदेतेनष्ट्वा पशुयोनेरस्मादेव यागात्पशून्प्राप्नोति। तदुत्तर क्रतुषु दातव्यं गोसहस्रमेनं यजमानं प्राप्नोति। यज्ञं संकल्प्याननुष्ठातुः संकल्प भ्रंशपरिहारार्थं विधत्ते देवताभ्यो वा इति। आवृ (व्र) श्चनं सर्वथा विच्छेदो देवताद्रोह इति यावत्।
अस्मिन्कर्मणि द्रव्यं विधत्ते द्वादशकपाल इति। समूहाकारेण गणनायां द्वादशकपालत्वेप्यनुष्ठाने त्रिसंख्याकाश्चतुष्कपालाः कर्तव्याः। तथा त्रिसंख्याया यजमानस्य त्रिवारं समृद्धत्वं संपद्यते। पुरोडाशसंख्यां प्रशंसति त्रयः पुरोडाशा इति। पूर्वप्रपाठकोक्तत्रिधाताविव प्रमाणवैषम्यं विधत्ते उत्तरउत्तर इति । चोदकप्राप्तं व्रीहिमयत्वपवादितुं यवमयं विधत्ते यवमयो मध्य इति। भूलोकवर्तिनो मनुष्याः। स्वर्गलोकवर्तिनः सूर्यचन्द्रादयश्च विस्पष्टमुपलभ्यन्त इत्यस्ति तयोरेकविधत्वम्। अन्तरिक्षवर्तिनस्तु यक्षगन्धर्वादयो नोपलभ्यन्त इति वैलक्षण्यम्। एवं यवमयस्येतरवैलक्षण्यादन्तरिक्षरूपत्वम्। तच्च समृद्ध्यै संपद्यते। त्रिधातुवत्त्रिष्वपि पुरोडाशेषु सकृदेव हस्तस्पर्शे नावदानं विधत्ते सर्वेषामिति। यदुक्तं सूत्रकारेण “हिरण्यं तार्प्यं धेनुरिति दक्षिणा” इति तदेतद्विधत्ते हिरण्यमिति। हिरण्यस्य तेजस्वित्वात्तद्दानेन तेजःप्राप्तिः। तार्प्यस्य घृताक्तवस्त्रत्वात्तद्दानेन पशुप्राप्तिः। धेनोः कामधेनुत्वसाम्यात्तद्दानेनाशिषां प्राप्तिः सर्व तेजः सामरूप ह शश्वदित्याम्नानाद्धिरण्यस्य सामवर्णत्वम्। यजुर्वेदं क्षत्त्रियस्याहुर्योनिमित्याम्नातत्वात्तार्प्यस्य च राजसूये क्षत्त्रियेण परिहितत्वादीदृशं संबन्धमभिप्रेत्य तार्प्यं यजुषां वर्णः स्वरूपमित्युच्यते। उक्थैः शस्त्रैर्देवतानां जायमाना प्रदा यास्वृक्षु ता ऋच उक्थामदास्तासां नवप्रसूतधेनुवद्वर्षणहेतुत्वाद्धेन्वा ऋग्वर्णत्वम्। उक्तद्रव्यत्रयदानेनोक्तान्वर्णान्प्राप्नोति।
अथ मीमांसा।
षष्ठाध्यायस्य द्वितीयपादे चिन्तितम् “असमाप्यं समाप्यं वा काम्यं कामे निवर्तिते।
“आद्यः प्रयोजनाभावादन्त्यो निन्दादिसंश्रवात्।।” चित्रया यजेत पशुकामः, कारीर्या वृष्टिकामो यजेत इत्यादिषु कामप्रेरितेन पुरुषेण कर्मोपक्रान्तम्। तस्य च समाप्तेः प्रागेव केनचिन्निमित्तेन तत्फलप्राप्तौ दौषदर्शनेन वा कामो निवर्तते तदानीं कर्मानुष्ठाने प्रयोजनभावान्न समापनीयमिति चैन्मैवम्। प्रक्रान्तस्य कर्मणोसमाप्तौ निन्दाप्रायश्चित्तयोः श्रवणात्। “देवताम्यो वा एष आवृश्च्यते यो यक्ष्य इत्युक्त्वा न यजते त्रैधातवीयेन यजेत” इति तदुभयं श्रुतम्। तस्मात्समापनीयम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठक एकादशोनुवाकः ।। ११ ।।”

(अथ द्वितीयकाण्डे चतुर्थप्रपाठके द्वादशोनुवाकः)। (त्रैधातवीयद्रव्योद्देशेनेन्द्राविष्णुदेवताकत्वसहस्र दक्षिणोयोविधिः)
“त्रैधातवीयतद्द्रव्ये एकादश उदीरिते। अथ द्वादशे तस्य द्रव्यस्येन्द्राविष्णुदेवताकत्वं सहस्रदक्षिणां च विधास्यन्नादौ कर्मनाम्नि विधातुत्वसंपादनायोपाख्यानं दर्शयति त्वष्ट हतपुत्र इति। विश्वरूपनाम्नस्त्वष्टुपुत्रस्येन्द्रेण कृतो वध उपरितनप्रपाठकस्य प्रथमनुवाके स्पष्टी भविष्यति। स च हतपुत्रास्त्वष्टा कोपादिन्द्ररहितं सोमयागं कर्तुमुद्यतः। तस्मिन्यागे मामाह्वयेत्येवमिन्द्रोब्रवीत्। स तु त्वष्टा तं पुत्रं मेवधीरित्यवदत्। तमिन्द्रं नोपाह्वयत। स चेन्द्रो यज्ञस्य विधातं कृत्वा बलात्कारेण सोमं पीतवान्। अथ त्वष्टुरभिचारहोमेनेन्द्रवधहेतोः पुरुषस्योत्पत्तिं दर्शयति तस्य यदिति। तस्येन्द्रेण बलात्पीतस्य सोमस्य संबन्धि रसरूपं यदल्पमत्यशिष्यत तद्गृहीत्वा त्वष्टाभिचारं कर्तुमाहवनीयमुपेत्य होमेनाग्निं वैर्युत्पादनाय प्रवृत्तमकरोत्। तस्मिन्होमे मन्त्रमिममुच्चारितवान्स्वाहेन्द्रशत्रुर्वर्धस्वेति। तस्यायमर्थः हेग्ने तुभ्यमिदं स्वाहुतं, पुनरिन्द्रस्य शातयिता कश्चित्पुरुषो भूत्वा वर्धस्वेति। सोग्निर्यावता कालेनोर्ध्वज्वालारूपो भूत्वा पराभूतमिन्द्रं कर्तुं विध्या मीत्युद्यतो भवति तावति काले वह्निः स्वयमेव त्वरतोभूज्ज्वाला शान्तेत्यर्थः। तत्र मन्त्रगतस्वरापराधो निमित्तम्। तथा हि, इन्द्रस्य शातयितेन्द्र शत्रुरिति विवक्षायां तत्पुरुषसमासस्यान्तोदात्तत्वेनं भवितव्यम्। आद्युदात्तस्त्वयं शब्दः प्रयुक्तः। स च बहुव्रीहितां द्योतयति। “बहुव्रीहो प्रकृत्या पूर्वपदम्” इति पूर्वपदाद्युदात्तत्वविधानात्। सति बहुव्रीहाविन्द्रः शातयिता यस्येत्प्रर्थो भवति। सोयं मन्त्रगतः स्वरापराधः अपराधाभावे सत्युन्नतया ज्वालया यजमानस्य कार्यसिद्धिः सूचिता भवति। अपराधे त्ववनतया ज्वालया यजमानस्य कार्यसिद्ध्यभावः सूच्यते। यद्यत्र कार्यासिद्ध्यभावसूचनायाग्निः (ग्नेः) प्रवणमवनतमासीत्, यदि वा कार्यसिद्धेः सूचनार्थमग्निज्वा (ग्नेर्ज्वा) लयाधिका वृद्धिरभूत्, तद्यथा तथा वा तिष्ठतु। स त्वग्निः पुरुषरूपेण संभवन्नेवाग्नीषोमावभिव्याप्य समुत्पन्नो होमाघाराङ्गाराभिमानिनमग्निदेवं हूयमानरसाभिमानिनं सोमदेवं च स्वमुखे मक्षिप्योभयोः पार्श्वयोरूर्ध्वाधोदन्तपङ्क्तिभ्यां दष्टवानित्यर्थः। एतच्चोपरितनप्रपाठके “नावब्रूतामभिसंदष्टौ वै स्वः” इत्यत्र स्पष्टी भविष्यति। एतस्योत्पन्नस्य पुरुषस्य वृत्रत्वं दर्शयति स इषुमात्रमिति। इषुपातो यावति देशे भवति तावन्तं देशं सर्वासु दिक्षु व्याप्य प्रतिदिनमयमवर्धत, तेन सर्वलोकावरणादस्य वृत्रत्वम्। अथास्य वृत्रस्य वधाय साधनभूतस्य वज्रस्योत्पत्तिं दर्शयति तस्मादिति। तस्मात्सर्वलोकावरकाद्वृत्रादिन्द्रोबिभेत्। यथेन्द्रस्तथा त्वष्टाप्यबिभेत्। त्रिष्वपि लोकेष्वनेनावृतेषु त्वष्टुरिन्द्रस्य चोभयोः समान एव स्थानाभावः। ततस्त्वष्टा तं वृत्रं हन्तुं तेनेन्द्रेण सह मैत्रीं कृत्वा तस्या इन्द्राय वज्रमसिञ्चत्। अस्त्ररूपत्वायाभिमन्त्रितेन जलेन तदीयं वज्रं प्रक्षाल्य तस्मै दत्तबानित्यर्थः। सोयमिन्द्रसंबन्धी वज्रोभिमन्त्रितत्वात्तपोरूप एवासीत्। तपोरूपस्य तस्य वज्रस्योद्यमनाय विष्णु सहकार्यपेक्षामिन्द्रस्य दर्शयति तमुद्यन्तुमिति। येदेन्द्र उद्यमने शक्तो नाभूत्तदानीं तस्येन्द्रस्य पुरतो विष्णुर्नाम काचिद्देवतासीत्तं विष्णुमेवं प्रार्थितवान्वृत्रस्य वीर्यं स्मृत्वा भयमापन्नस् मम हस्तो वज्रमुद्यन्तुं न प्रभवति। यन वीर्येणायं वत्र इदं जगद्व्प्राप्तवान् तादृशं वीर्यमावामुभावस्माद्वृत्रादाहरिब्यावः। अतो हे विष्णो मम सहकारित्वभागच्छेति। प्रार्थितस्य विष्णोः साहाय्याचरणप्रकारं दर्शयति स विष्णुरिति। विष्णुर्मूर्तित्रयं संपाद्य रक्षणाय लोकत्रये स्थापितवान्। यस्मादस्य वृत्रस्याभिपर्यावर्तात्सर्वदिग्व्यापिरूपाया वृद्धेरयमिन्द्रोबिभेत्तस्मादिन्द्रभीतिनिवारणाय मूर्तिप्रयस्थापनं युक्तमित्यभिप्रायः। मूर्तित्रयस्थापनादूर्ध्वं प्रवृत्तमिन्द्रव्यापारं दर्शयति यत्पृथिव्यामिति। विष्णुना स्वकीयवक्ष्यमाणद्वयापक्षेया तृतीयं शरीरं पृथीव्यां यत्स्थापितमासीत्तेन युक्त स इन्द्रस्तस्य विष्णोः पृष्ठतः स्श्चितस्तं वज्रमुदयच्छत्। तदानीं स वृत्रो भीतः सन्निन्द्रमिदमब्रवीत्-हे इन्द्र मे शरीरं मा प्रहारस्ति वा इदं किंचिन्मयि वीर्य पृथिवीव्याप्तिक्षमं तत्सर्वं तुभ्यं दास्यामीत्युक्त्वा तदिन्द्राय दत्तवान्। स चेन्द्रस्तत्स्वी चकार। स्वीकृत्य च मां धारयेति ब्रुवन्विष्णवे तद्वीर्यमत्यादरेण प्रायच्छत्। स च विष्णुरस्मासु मध्येयमिन्द्रो वीर्यं धारयत्वित्यभिप्रेत्येन्द्रार्थं तद्वीर्यं प्रत्यगृह्णात्। ईदृशमिन्द्रकृत्यं द्वितीयपर्याये दर्शयति यदन्तरिक्ष इति। हे विष्णो पूर्वं सकृद्वीर्यग्रहणेन मां धारितवानसि, तदपेक्ष्य द्विर्मां धारयेति ब्रुवन्वीर्यं प्रायच्छत्। तृतीयपर्याये तस्येन्द्रस्य कृत्यं दर्शयति यद्दिवीति। येन वीर्येणाहमिदं जगदव्याप्तवानास्मि तत्सर्वं ते प्रदास्यामीत्युक्त इन्द्रोङ्गी चकार। अङ्गीकारार्थोयं त्वीशब्दः। अस्तु तथेत्यर्थः। तस्य वीर्यस्य प्रदानात्प्रागेवेन्द्रवृत्रयोः संधिं दर्शयति संधां तु समिति। तुशब्दो वक्तव्यशेषसद्भावद्योतनार्थः। तत्सर्वं वीर्यं तुभ्यं दास्यामीति (मि) किंत्वन्यच्छेषं वक्तव्यमस्ति। तावदुभौ संधानं करवाव। कीदृशं संधानमिति तदुच्यते—हे इन्द्र त्वामेवाहं प्रविशानीति। तत इन्द्र एवमब्रवीद्यदि त्वं मां प्रविशेस्तदा किं मामेव भोक्ष्यस इति। ततो बृत्र इदमब्रवीन्नाहं त्वां भोक्ष्ये, किंतु त्वाभिन्धीयोदराग्निपाटवेन प्रकाशयेयं दीपयेयं, तच्च तव बहुविधान्नभोगायोपयुज्येत। ततस्त्वां प्रविशामीत्युक्त्वा तमिन्द्रं वृत्रः प्राविशत्। प्रविष्टश्च वृत्रो बह्वन्नपूरणक्षममवकाशरूपमुदरमभवत्। लोकेपि मनुष्योदरे वर्तमाना क्षुदेवात्यन्तबाधकत्वात्सहजो भ्रातृव्यः। एतद्वेदनस्य क्षुदपघातः फलम्। तस्य वृत्रस्य प्रवेशात्पूर्वं द्युलोकगतवीर्यदानं यदस्ति तदिदानीं दर्शयति तदस्मा इति। पूर्ववद्व्याख्येयम्। इदानीं त्रिधातुनिर्वचनं दर्शयति यत्त्रिः प्रेति। वृत्रस्य त्रिवारप्रदानेनेन्द्रस्य त्रिवारप्रतिग्रहेण च वीयर्रूपस्य पुरोडाशस्य हविषास्त्रिधा भिन्नस्य त्रिधातुनाम संपन्नम्। त्रयो धातवश्चतुष्कपालरूपा भेदा यस्य द्वादशकपालपुरोडाशस्य सोयं त्रिधातुः। त्रिसंख्यातस्य हविषो व्यासक्तदेवतां विधत्ते यदविष्णुरिति। यस्माद्विष्णुरनुकूलत्वेन स्थितस्तस्मै च विष्णवेयमिन्द्रोत्यादरेण प्रायच्छत्तस्माद्व्यासक्तयोरिन्द्रविष्ण्वोस्तत्र देवतात्वम्। त्रिवारं प्रत्तं तद्वीर्यरूपं हविर्वेदत्रयरूपेण प्रशंसति यद्वा इदमिति। अत्र च या हिरण्यदक्षिणा पूर्वमुक्ता तस्याः संख्याविधिमुन्नयति सहस्रमिति। यस्मात्सहस्रभेदाभिन्नं वीर्यं दत्तवांस्तस्मात्सहस्रदक्षिणाकमिदंकर्म द्रष्टव्यम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके द्वादशोनुवाकः ।। १२ ।।”

(अथ द्वितीयाष्टके चतुर्थप्रपाठके त्रयोदशोनुवाकः)। (ऐन्द्राबार्हस्पत्यचरुविधिः)त्रैधातवीययागस्य द्वादशे देवतेरिता। अथ त्रयोदशेनुवाक ऐन्द्राबार्हस्पत्यं चरुं विधातुं प्रस्तौति देवा वा इति। राजन्यस्याप्रतिबद्धशक्तिकत्वेनेतरवैरिवद्देवानपि हनिष्यतीति मत्वा देवा भीताः सन्तो गर्भमध्य एव स्थितं सन्तं राजन्यं शक्तिप्रति बन्धलक्षणेन दाम्नापगतशक्तिको यथा भवति तथौम्भञ्शक्तिप्रतिबन्धं पूरि तवन्तः। अत एव सर्वत्र लोके राजन्यः प्रतिबद्धशक्तिक एव जायते। यद्यप्रतिबद्धशक्तिको जायेत गर्भनिर्गमनमारभ्य वैरिणो मारयन्निव लोके चरेत्। इदानीं विधत्ते यं कामयेतेति। यं राजन्यं इत्यध्वर्युरेवं कामयेत देवैरप्रतिबद्धसक्तिकोयं जायतां सर्वत्र निवारकान्वैरिणो मारयन्नेव चरित्विति तस्येयमिष्टिः। देवेष्विन्द्रस्य क्षत्रियत्वं बृहदारण्यके समाम्नातम् –“यान्येतानि देवत्रा क्षत्त्राणीन्द्रो वरुणः सोमो रुद्रः” इति। तस्मान्मनुष्येषु राजन्य ऐन्द्रः। “ब्रह्म वै देवानां बृहस्पतिः” इत्यस्य श्रवणाद्बृहस्पतेर्ब्राह्मणजातित्वम्। अत ऐन्द्राबार्हस्पत्यचरौ निरुप्ते सत्येनमैन्द्रं राजन्यं ब्रह्मणा बृहस्पतिसामर्थ्येन दैविकाच्छक्तिप्रतिबन्धान्मोचयति। अत्रोचितां दक्षिणां विधत्ते हिरण्मयमिति। दाम रज्जुः। बन्धके दामनि दत्ते सति प्रत्यक्षत एव बन्धमोक्षो भवति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके त्रयोदशो नुवाकः ।। १३ ।।

(अथ द्वितीयकाण्डे चतुर्थप्रपाठके चतुर्दशोनुवाकः)। (याज्यानुवाक्याभिधानम्)त्रयोदशे चरुः प्रोक्तः शक्तिस्तम्भनिवारकः।
“इत्थं काम्येष्टयः समाप्ता। अथान्तिमानुवाके चतुर्दशे याज्मानुवाक्या वक्तव्याः। तत्र “यः अपयक्ष्मगृहीतः स्यात्तस्मा एतमादित्यं चरुं निर्वपेत” इत्यत्र पुरोनुवाक्यामाह—नवो नव इति। आदित्यस्य चन्द्रदीप्तिकारणत्वाच्चन्द्राभेदेनादित्य इह स्तूयते। चन्द्रमा जायमानः प्रतिदिनमुदयं गच्छन्नवो नवो भवति। शुक्लप्रतिपद्येककलायुक्तः। द्वितीयायां कलाद्वययुक्तः इत्येवं कलावृद्धियाभ्यां प्रतिदिनं नूतनत्वम्। चन्द्रवद्दी (न्द्रेदी) प्तिकारणभूत (णभूत) आदित्योपि प्रतिदिनं नूतनो भवति। स्वरूपे वृद्धिक्षयाभावेपि दक्षिणोत्तरगतिभ्यां नूतनत्वम्। स चाह्नां केतश्चिह्नं, तस्मिन्नुदिते सत्यहरिदमिति ज्ञायमानत्वात्। उषसां प्रभातकालानामग्र उपक्रमे प्राच्यामुदयमेति, तदनुरोधेन प्रातरग्निहोत्रादीनां प्रवृत्तेर्देवेभ्यो भागं विदधाति। तादृशश्चन्द्रकलावृद्धिक्षयहेतुरादित्य इह कर्मण्यागच्छन्दीर्घमायुः प्रतिरति प्रकर्षेण ददातु। तत्रैव याज्यामाह यमादित्या इति। यं चन्द्रसमंशुं स्थिरभूतैककलामात्रावशिष्टमादित्याशुक्लपक्षे प्रतिदिनमेकैककलाप्रदानेनाप्यायबन्ति। किंच, यमक्षितं पौर्णमास्यामक्षीणचन्द्रं कृष्णपक्षे प्रतिदिनं वह्न्यादयो देवाः स्वयमक्षितयः क्षयरहिता पिबन्ति, एकैकां कलामपक्षयन्ति। अत एव सोमोत्पतौ स्मर्यते “प्रथमां पिबते वह्निः”, इति। ज्योतिःशास्त्रप्रक्रियया त्वादित्यरश्मय एव स्वयमक्षितय एवैकैकां कलां पिबन्त्याच्छादयन्ति। तेन चन्द्रेणामृते (तमये) न राजा दीप्यमान आदित्यो वरुणो बृहस्पतिरित्येवमादयो भुवनस्य गोप्तारो देवा नोस्मान्रोगग्रस्तान्रोगं निवार्याप्याययन्तु। “यं कोमयेतान्नादः स्यादिति तस्मा एतं विधातुं निर्वपेदिन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञे” इत्यत्र राजेन्द्रहविषः पुरोनुवाक्यारूपां स्वराडिन्द्रहविषो याज्यारूपामुभयाकारामृचं पठति प्राच्यामिति। हे इन्द्र त्वं प्राच्यां दिशि राजाधिपतिरसि। अपि च, हे वृत्रहन्नुदीच्यां वृत्रहा वैरिघातकोसि। किंच स्रोत्या नद्यो यव यन्ति तत्सर्वं ते जितन्। नद्यो हि सर्वांसु दिक्षु प्रवहन्ति। अतः सर्वत्र तव विजय इत्यर्यः। किंच, त्वं वृषभः कामानां वर्षयिता हव्यो होमयोग्यः सदक्षिणत एध्याहवनीयस्य दक्षिणभागे स्थितो भव। तत्र स्थित्वां हि ऋत्विग्भिर्हंविर्दीयते। राजेन्द्रहविषो याज्या, अधिराजेन्द्रहविषः पुरोनुवाक्येत्युभयरूपामृचं पठति इन्द्र इति। इन्द्रः सर्वत्र जयत्येव न तु क्वापि पराजयते, सर्वषु राजस्वधिको राजा भूत्वा सर्वानन्यान्राजयाति अराज्ञामपि राज्यप्रदानेन राजत्वं संपादयति। किंच, सर्वेषां राज्ञामुपसद्यः शरण्यो नमस्कारार्हश्च यथासद्येन प्रकारेणासि तथा विश्वाः पृतनाः परकीयसेना अभिष्टीरभिभवतुं समर्थो भूयाः। अधिराजेन्द्रहविषो याज्या, स्वराडिन्द्रहविषः पुरोनुवाक्येत्युभयरूपामृंच पठति अस्येदेवेति। इदेवेत्युभयं मिलित्वा वधारेण वर्तते। अपि च ननु चेत्यादिवन्निपातसमुदायस्यैकार्थत्वम्। प्ररिरिच इत्यत्र प्रशब्दो तिशब्दार्थे वर्तते। अस्येदेवास्येन्द्रस्यैव महित्व महिमा परितो दिवः पृथिव्या अन्तरिक्षाच्च प्ररिरिचे सर्वतो लोकत्रयमतिरिच्य वर्तत इत्यर्थः। किंचेन्द्रो रणाय युद्धार्थभाववक्ष आभिमुख्येन वहति सेनां प्रापयति। कीदृश इन्द्रः, स्वराट् स्वयमेव राजा न तु पर तन्त्रः। दमे गृहे विश्वगूर्तो विश्वानि सर्वाण्यायुधानि गूर्तान्युद्यतानि येनासौ विश्वगूर्तः। युद्धार्थं त्वरया निर्गन्तुं गृहेप्युद्यतायुध एव वर्तते, किमु वक्तव्यं रणभूभावित्यर्थः। स्वरितुं परकीयसेनानामुपरि गन्तुं शीलमस्येति स्वरिः। अमत्रोमाद्रोगात्क्षुद्रूपादन्नदानेन त्रायत इत्यमत्रः। य इन्द्रियकामो वीर्यकामः स्यात्तमेतया सर्वपृष्ठया याजयेत् इत्यत्र राथंतरेन्द्रहविषः पुरोनुवाक्या, रैवतेन्द्रहविषो याज्येत्युभयरूपामृचं पठति अभि त्वेति। अदुग्धा धेनवो यथा वत्सान्प्रत्यादरेण हम्भारवं कुर्वन्ति तथा शूरेन्द्र त्वामभितो नोनुव पुनः पुनः स्तुमः। कीदृशं त्वाम्, अस्य जगतोजङ्गमस्य प्राणिजातस्येशानं तस्थुषः स्थाबरस्यापीशानं सुवर्दृशं स्वर्गस्य प्रदर्शयितारम्। राथंतेरेन्द्रहविषो याज्या, बार्हतेन्द्रहविषः पुरोनुवाक्येत्युभयरूपामृचं पठति त्वा मिद्धीति। हे इन्द्र कारवः कर्तारो वयं त्वामित्त्वामेव हवामह आह्वयामः। किंनिमित्तं, वाजस्य सातान्नस्य दाननिमित्तम्। अत एव साताविति सप्तम्यन्ततया छन्दोगा अधियते। वृत्रेषु वैरिषु प्राप्तेषु सत्पतिं सन्मार्गपालकं त्वामाह्वयामः। नरो मनुष्या वयं काष्ठासु सर्वासु दिक्षु अर्वतः त्रुसेनागतानश्वान्दृष्ट्वा त्वामाह्वयामः। हि यस्मादेवं तस्माद्वीर्यदानेनास्मान्पालयेत्यर्थः। बार्हतेन्द्रहविषो याज्या वैरूपेन्द्रहविषः पुरोनुवाक्येत्युभररूपामृचं पठति यद्द्याव इति। हे इन्द्र यद्यपि शतं द्यावः स्युर्द्युलोकाः शतसंख्याका भवेयुः ,अपि च भूमयोपि शतसंख्याका भवेयुः, तथापि शतसंख्याकैरेवान्तरविशेषैर्युक्ते ते द्यावापृथिव्यौ जातं त्वामनु नाष्ट जातमात्रं त्वामैश्वर्येणानुकर्तुं न व्याप्नुतो न शक्नुत इत्यर्थः। तथा यद्यपि सूर्याः सहस्रसंख्याकाः स्युस्तथापि हे वज्रिंस्तेजसा त्वामनुकर्तुं न क्षमन्त इत्याभिप्रायः। वैरूपेन्द्रस्य याज्या, वैराजेन्द्रस्य पुरोनुवाक्येत्युभयरूपा कदा चनस्तरीरसीत्येषा नात्राम्नाता किंतु शाखान्तरवशाद्व्याहर्तव्या। सा च प्रथमकाण्ड एव व्याख्याता। वैराजेन्द्रस्य याज्या, शाक्वरेन्द्रस्य पुरोनुवाक्येत्युभयरूपामृचं पठति पिबा सोममिति। हे इन्द्र त्वं सोमं पिब। स च पीतः सोमस्त्वा मन्दतु त्वां हर्षयतु। हरिनामका अश्वा यस्यासौ हर्यश्वः हे हर्यश्व ते त्वदर्थमद्रिरूपांशुसवनादिरूपः पाषाणो यं सोमं सुषावाभिषुतयांस्त्वं (स्तं) पिबेति पूर्वत्रान्वयः। कीदृशोद्रि, सोतुरभिषोतुर्ऋत्विजो बाहुभ्यां सुयतः सुष्ठु नियमितः अत एव नार्वा न त्वेवाचीन्मे नियमनरहितः सोमं यत्र तत्र पातयित्वा विनाशयति। तादृशं सोमं पीत्वा वीर्यं देहीत्यभिप्रायः। शाक्केस्न्द्रस्य याज्या, रेवतेन्द्रस्य पुरोनुवाक्येत्युभयप्यामृचं पठति रेवतीर्न इति। रेवत्यो धनवत्य, सधमादोस्माभिः सह मादयन्त्यो हर्षयुक्ताः, तुविवाजा वह्यन्नोपेता आपो नोस्माकं स्वामिनीन्द्रे सन्तु अस्माकं सुखाय तिष्ठन्तु। याभिरद्भिः सह वयं क्षुमन्तः शब्दयन्त इन्द्रं स्तुवन्तो मदेन हृध्याम। यश्चक्षुष्कामः स्यात्तस्मा एतामिष्टिं निर्वपेदग्नये भ्राजस्वते पुरोडाशमाष्टाकपाल सौर्यं चरुमग्नये भ्राजस्वते पुरोडाशमष्टाकपालम् इत्यत्राग्नेये कर्मणि याज्युनुवाक्ययोः प्रतीके दर्शयति। उदग्ने शुचय इति। उदग्ने शुचयस्तव शुक्रा इत्येषा पुरोनुवाक्या। सा च प्रथमकाण्डस्य तृतीयप्रपाठके व्याख्याता। वि ज्योतिषा बृहता भात्यग्निरित्येषा याज्या। सा तु प्रथमकाण्डस्य द्वितीयप्रपाठके व्याख्याता। सौर्ये कर्मणिपुरोनुवाक्याः प्रतीकं दर्शयति। उदु त्यमिति। सेयं प्रथमकाण्डस्य चतुर्थप्रपाठके व्याख्याता। तत्रैव याज्यामाह सप्त त्वेति। हे सूर्य देव त्वां सप्त हरितोश्वा रथे वहन्ति। कीदृशं त्वां शोचिष्केशं शोचींषि दीप्यमानाः केशस्थानीया रश्मयो यस्य तादृशम्। हे विचक्षणेति सूर्यविशेषणम्। तत्रैव विकल्पितां याज्यामाह चित्रं देवानामिति। चित्रं रक्तश्वेतादिविविधवर्णं देवानां रश्मीनामनीकं सैन्यसदृशं मण्डलमुदगादुदेति। कीदृशं मित्रादिदेवोपलक्षितस्य कृत्स्नस्य प्राणिजातस्येन्द्रियाधिष्ठातृत्वाच्चक्षुःस्थानीयम्। तन्मण्डलस्थः सूर्यो जगतो जङ्गमस्य तस्थुषः स्थावरस्य चात्मा। स लोकत्रयमाप्राः सर्वतः पूरितवान्। वैश्वदेवी सांग्रहणीं निर्वपेद्ग्रामकामः इत्यत्र पुरोनुवाक्यामाह विश्वे देवा इति। विश्वे देवा युज्यं योग्यं षयः क्षीरवत्सारभूतं हविर्जुषन्ताम्। कीदृशा देवा, ऋतावृध ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारः, ऋतु भिर्हवनश्रुतस्तैस्तैर्ऋतुभिरुपलक्षिते कर्मण्याह्वानस्य श्रोतारः। तत्रैव याज्यामाह विश्वे देवा इति। हे विश्वे देवा मे मदीयमिमं हवमाह्वान शृणुत। ये यूयमन्तरिक्षे स्थान्तरिक्षलोके स्थिता ये चोप समीपे पृथिव्यां स्थिता ये च द्यवि द्युलोके स्थ ये चाग्निजिह्वा अग्निरेव जिह्वा येषां तेग्निजिह्वा अग्निद्वारेण हविषः स्वीकर्तार उत वा न्ये पि वा यजत्रा यष्टव्यास्ते सर्वेपि अस्मिन्बर्हिषि यज्ञ आसद्योपविश्य मादयध्वं हृष्टा भवत यजमानं हर्षयध्वम्। अत्र विनियोग संग्रहः “आदित्येष्टौ नवोद्वे तु प्राच्यामित्यादिकं त्रय (चाष्टक) म्। राजादिगुणकेन्द्रस्य पुरोडाशसमूहके।।”
आग्नेय उदविज्योद्वे उदु त्यं जातवेदसम्। सप्त चित्रं त्रयं सौर्ये सांग्रहण्या उ (मु) मे इमे।
विश्वे देवा इति प्रोक्ता मन्त्राः सप्तदशैव हि।।” इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके चतुर्दशोनुवाकः ।। १४ ।। वेदार्थस्य प्रकाशेन तमो हर्दि निवारयन्। पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः।। इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थः प्रपाठकः।। ४ ।।