प्रश्नः-3

पूर्वप्रपाठकान्त्यानुवाकेऽस्यार्थ ई(उदी)रितः । द्वादशेऽन्त्यानुवाकेऽत्र काम्ययाज्याः श्रुतौ श्रुताः ।
व्याख्यास्यन्ते तदर्थेष्टीरुदाहृत्यात्र पूर्ववत् ॥५२॥ (तै.सं. 2-1-12 अनुवाके)
(अथ द्वितीयकाण्डे तृतीयः प्रपाठकः) ।
(यज्ञविभ्रष्टादीनामिष्टिविधिः) (तत्र प्रथमादितृतीयान्ता अनुवाकाः) ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥१॥
काम्येष्टयः श्रुताः काश्चिद्द्वितीये तु प्रपाठके । तृतीये तु विधास्यन्ते तत्तत्फलमभीप्सिनः ॥२॥
काम्येष्टित्वे समानेऽपि संप्रदायकृता भिदा । प्रपाठकद्वयस्यैवं चतुर्थस्यापि गम्यताम् ॥३॥
चतुर्दशानुवाकाः स्युस्तृतीयेऽस्मिन्प्रपाठके । तदर्थास्तु क्रमेणेह वक्ष्यन्तेऽवसरे सति ॥४॥
भूतिकामो भुवद्वद्भ्य आदित्येभ्यश्चरुं चरेत् । रूद्धोऽवरुध्यमानो वा धारयद्वद्भ्य आचरेत् ॥५॥
शुक्लैर्व्रीहिभिरादित्यं चरुं कृष्णैस्तु वारुणम् । रुध्यमानः प्रकुर्वीत मयूखानां च कीर्तनम् ॥६॥
तद्बन्धनं तथादित्यं चरुमेव समाचरेत् । आद्यानुवाके कथितमेतत्सर्वं विशेषतः ॥७॥
इन्द्रं वो विश्व इत्यत्राक्षरार्थस्तूपवर्णितः ॥
1 इष्ट्यन्तरं विधत्ते “आदित्येभ्यो भुवद्वद्भ्यश्चरुं निर्वपेद्बूतिकाम आदित्या वा एतं भूत्यै प्रति नुदन्ते योऽलं भूत्यै सन्भूतिं न प्राप्नोत्यादित्यानेव भुवद्वतः स्वेन भागधेयेनोप धावति त एवैनं भूतिं गमयन्ति भवत्येव” (सं. का.२ प्र.३ अ.१) इति । यदीययोर्याज्यापुरोनुवाक्ययोर्भुवच्छब्दः श्रूयते त एत आदित्या भुवद्वन्तः । यद्यपि पुरोनुवाक्यायां भवता मृडयन्त इति भवतेत्ययं शब्दः पठितः, यद्यपि च याज्यायां भवति प्रणीताविति भवतीत्येष शब्दः पठितो, न तु भुवच्छब्दः क्वाप्यस्ति, तथापि वर्णविकारमभिप्रेत्य भुवद्वद्भ्य इत्युच्यते । एवमन्यत्रापि वायवे नियुत्वत आलभेत, अग्नेय पथिकृत इत्यादौ विशेषणैर्याज्यानुवाक्यागताः शब्दाः स्मार्यन्त इति द्रष्टव्यम् । ते च याज्यादिगताः शब्दास्तत्तत्प्रकृतोचितफलस्य सूचकाः । अतोऽत्रापि भूतिसूचकभुवच्छब्दवन्त इत्युक्तं भवति । तथा सति भुवद्वन्तः फलत्वेन दातव्यभूतिमन्त इत्यर्थोऽपि लभ्यते ।"
“तत्र पुरोनुवाक्यामाह — यज्ञो देवानामिति । अयं यज्ञो देवानां सुम्नं सुखं प्रत्येति गच्छति प्रवर्तते । हे आदित्यासो यूयमस्मान्मृडयन्तः सुखयन्तो भवत तिष्ठत । युष्माकं सुमतिरनुग्रहबु द्धिरर्वाचीनेष्बस्मासु प्रवृत्ता सती, आ ववृत्यादावर्तताम् । या सुमतिरंहोश्चिदस्मदीयपापादपि आवर्तते पापं विनाशयतीत्यर्थः । सा सुमतिर्वरिवोवित्तरासदतिशयेन परिचर्याभिज्ञा भवतु ।
तत्रैव याज्यामाह — शुचिरप इति । अयं यजमानः शुचिः सन्नपोऽनुष्ठीयमानं कर्मोपक्षेति समीपे प्राप्नोति । कीदृशोऽयं, सूयवसाः शोभनं यवसं तृणं तेनोपलक्षितमन्नादिभोग्यं यस्य सोऽयं सूयवसाः अदब्धः कैरपि शत्रुभिरतिरस्कृतः, वृद्धं दीर्घं वय आयुर्यस्यासौ वृद्धवयाश्चिरजीवीत्यर्थः । शोभना वीराः पुत्रा भृत्याश्च यस्यासौ सुवीरः । य ईदृशो यजमान आदित्यानां प्रणीतौ प्रणयने कर्मणि भवति प्रवर्तते, तं यजमानं शत्रवोऽन्तितः समीपे नकिर्घ्नन्ति न विनाशयन्ति । दूरादपि न घ्नन्ति । नकिः शब्दो निषेधवाची ।
2 इष्ट्यन्तरं विधत्ते — “आदित्येभ्यो धारयद्वद्भ्यश्चरुं निर्वपेदपरुद्धो वापरुघ्यमानो वादित्या वा अपरोद्धार आदित्या अवगमयितार आदित्यानेव धारयद्वतः स्वेन भागधेयेनोप धावति त एवैनं विशि दाध्रत्यनपरुध्यो भवति” (सं. का.२ प्र.३ अ.१) इति । धारयच्छब्दो यदीययोर्याज्यानुवाक्ययोः प्रवर्तन्ते त इमे धारयद्वन्तः । स्थानभ्रष्टं स्वस्थाने धारयितुं क्षमा इति तस्य पदस्य पर्यवसितार्थः । ये राजा पूर्वं स्वराष्ट्राद्वैरिणा निःसारितः सोपरुद्धः, यस्त्विदानीं निःसार्यते सोपरुध्यमानः, तयोरन्यतरस्येयमिष्टिः । अपरोद्धारः पूर्वं निःसारयितारः । अवगमयितार इदानीं निःसारयितुमुद्युक्ताः अथवा पुनः स्वराष्ट्रं प्रापयितारः । विशि स्वराष्ट्रगतप्रजायां दाध्रति धारयन्ति स्थापयन्तीत्यर्थः । ततोऽयं वैरिभिरपरोद्धुमशक्यो भवति ।
तत्र पुरोनुवाक्यामाह - धारयन्त इति । आदित्या अस्मदभिमतं कुर्वन्त्विति वाक्यशेषः । कीदृशाः, धारयन्त उपरुद्धं यजमानं स्वराष्ट्रे स्थापयन्तः, जगत्स्थाः कृत्स्नं जगदनुग्रहीतुं तत्र तत्र तिष्ठन्ति, यद्वा जगद्धारयन्त इत्यत्रान्वयः । स्थाः स्थिताः, देवा दीव्यन्तः । विश्वस्य भुवनस्य गोपाः पालयितारः, जगद्धारयितुं दीर्घभूता धीर्येषां ते दीर्घाधियः, असवः प्राणास्ते यस्य सन्ति सोऽयं यजमानोऽसुरस्तस्मै हितमिदं कर्मासुर्यम् । यद्वा राक्षसवद्वारको राजासुरस्तन्निवारणायोपयुक्तमिदं कर्मासुरवदिति असुर्यं, तद्रक्षमाणः ऋतं सत्यं स्वराष्ट्रे यजमानं स्थापयाम इत्येतादृशवचनं तद्युक्ता ऋतावानः, ऋणानि चयमाना अपरोद्धुर्वैरिणो दारिद्र्यसंपादनेन बहून्यृणानि संपादयन्तः ।
तत्रैव याज्यामह — तिस्रो भूमीरिति । हेऽर्यमन्वरुण मित्र, एतैस्त्रिभिर्नामभिरुपलक्षिताः सर्वेऽपि द्वादशादित्या वो युष्माकं तन्महित्वं माहात्म्यं चारु रमणीयं महि महदधिकं च । कथं माहात्म्याधिकं तदुच्यते — तिस्रो भूमीः स्वर्गमर्त्यपातालरूपा धारयन्धारितवन्तः । अपि च त्रीन्द्यून्सूर्यचन्द्रवह्निगतान्प्रकाशान्धारितवन्तः । तत्र सूर्यरश्मिरूपस्य प्रकाशस्य धारयितृत्वं स्पष्टम् । सूर्यरश्मय एव जलमयेन चन्द्रमण्डलेन व्यवहिताः शीतस्पर्शा अभिभूतोष्णस्पर्शा ज्योत्स्नारूपेणावभासन्त इति केषांचिन्मतम् । एतदेवाभिप्रेत्य श्रूयते — “सुषुम्नः सूर्यरश्मिश्चन्द्रमा गन्धर्वः” इति । अग्निदीप्तेरादित्यसंबधश्च स्पष्टमेव श्रूयते — “उद्यन्तं वावादित्यमग्निरनुसमारोहति इति । तस्मात्प्रकाशत्रयधारयितृत्वं युक्तम् । किंचैषां यजमानानां विदथे यज्ञे यानि त्रीणि व्रतान्यन्तःस्थितानि मनोवाक्कायकर्मनिष्पाद्यानि वा नित्यनैमित्तिककाम्यरूपाणि वा तानि सर्वाणि ऋतेन पालयिष्माम इत्येतादृशेन सत्यवचनेन धारितवन्तः ।” अत्र पूर्वमपरुद्धस्य नास्ति विशेषाङ्गोपदेशः । अपरुध्यमानस्य तु प्रयोगे सोऽस्ति । तत्र कंचिन्मन्त्रमुत्पाद्य विनियुङ्क्ते “अदितेऽनु मन्यस्वेत्यपरुध्यमानोऽस्य पदमा ददीतेयं वा अदितिरियमेवास्मै राज्यमनु मन्यते” (सं. का.२ प्र.३ अ.१) इति । हेऽदिते भूमे, त्वमनुमन्यस्व राष्ट्रप्रवेशार्थं मामनुमन्यस्वेत्येतं मन्त्रमुच्चारयन्नस्य शत्रोः पदाङ्कितभूरज आददीत । इयं पृथिव्येवादितिशब्दवाच्या, सैवास्या अपरुध्यमानार्थं राज्यमङ्गी करोति ।”
“मन्त्रान्तरमुत्पाद्य व्याचष्टे - “सत्याशीरित्याह सत्यामेवाशिषं कुरुते” (सं. का.२ प्र.३ अ.१) इति । आशीरस्मदपेक्षितं फलं सत्यमस्त्विति शेषः । अन्यं मन्त्रमुत्पाद्य व्याचष्टे - “इह मन इत्याह प्रजा एवास्मै समनसः करोति” (सं. का.२ प्र.३ अ.१) इति । इह मदीये राष्ट्रप्रवेशे प्रजानां मनोऽनुकूलं भवत्विति शेषः । पुनरपि मन्त्रान्तरमुत्पाद्य व्याचष्टे - “उप प्रेत मरुतः सुदानव एना विश्पतिनाभ्यमु राजानमित्याह । मारुती वै विड्ज्येष्ठो विश्पतिर्विशैवैन राष्ट्रेण समर्धयति” (सं. का.२ प्र.३ अ.१) इति । हे सुदानवः सुष्ठु राष्ट्रप्रवेशदातारो मरुतो यूयमेना विश्पतिनैतेन विरोधिना राष्ट्रपतिना सह योद्धुममुं वीरसिंहवर्माणं संजिहीर्षमाणमपरुध्यमानं राजानमभिमुखीकृत्योपप्रेत समीपे गच्छत । अस्मिन्मन्त्रे विश्पतिनेति यदुक्तं तत्र या विट्प्रजा सा मरुतामधीनत्वान्मारुती, तस्या विशः पतिः ज्येष्ठोपरोद्धा, तेन ज्येष्ठेन विश्पतिना सह योद्धुमित्येवं ब्राह्मणेनोक्तस्य व्याख्यानस्य शेषः पूरणीयः । एतस्य ब्राह्मणव्याख्यानमन्त्रस्य पाठे सति प्रजया देशेन चैनं यजमानं समृद्धं करोति । एतेषां मन्त्राणां विनियोगमापस्तम्बो दर्शयति — “हविष्कृता वाचं विसृज्योप प्रेत मरुतः सुदानव इति यजमानमभ्येति सत्याशीरिति यजमानस्योत्तरे वाससि पदैकदशं निवपतीह मन इत्युरसि शेषं निवपति” इति ।”
अत्र कंचित्प्रयोगविशेषं क्रमेण विधत्ते - “य परस्ताद्ग्राम्यवादी स्यात्तस्य गृहाद्व्रीहीना हरेच्छुक्लाश्च कृष्णाश्च विचिनुयाद्ये शुक्ला स्युस्तमादित्यं चरुं निर्वपेदादित्या वै देवतया विडविशमेवाव गच्छति” (सं. का.२ प्र.३ अ.१ ) इति ।
“ग्रामेभ्यो हितं ग्राम्यं तद्राज्ञोऽग्रे वदतीति ग्राम्यवादी । स द्विविधः अन्तरङ्गो बहिरङ्गश्च । तत्र बहिरङ्गः सभायामेव वदति । अन्तरङ्गस्तु सभायाः परस्तादन्तःपुरे गत्वा गूढं हितं वदति । तस्य गृहाद्व्रीहीनाहरेत् । विट्शब्दवाच्यायाः प्रजाया आदित्यदेवताकत्वादादित्यचरुणा विशमेव प्राप्नोति । विभक्तानां द्विविधतण्डुलानां मध्ये शुक्लैरादित्यचरुं विधाय कृष्णैर्वारुणं चरुं विधत्ते - “अवगतास्य विडनवगत राष्ट्रमित्याहुर्ये कृष्णा स्युस्तं वारुणं चरुं निर्वपेद्वारुणं वै राष्ट्रमुभे एवं विशं च राष्ट्रं चाव गच्छति” (सं. का.२ प्र.३ अ.१ ) इति । अस्य यजमानस्यादित्यचरुणा यद्यपि प्रजा प्राप्ता भवति तथापि राष्ट्रं भूमिविशेषस्तावता न प्राप्यत इत्यभिज्ञा आहुः । अतस्तत्प्राप्तये वारुणं निर्वपेत् । यथा प्रजाया आदित्यो देवता तद्वद्राष्ट्रस्य वरुणो देवता, ततस्तयोस्तुष्ट्या तदुभयं प्राप्यते । योऽयमरुध्यमानस्तस्यापरुद्धवद्यत्कर्म विहितं तस्मिन्कर्मणि पूर्वोक्ते एव याज्यानुवाक्ये । यत्तु यः परस्तादित्यादिना हर्विद्वयप्रयोगरूपं कर्मान्तरं विहितं तत्र शुक्लहविषः पुरोनुवाक्यामाह - त्यान्नु क्षत्रियानिति । वयं यजमाना अभिष्टये देवताभिमुख्येन कर्तव्येष्टिसिद्ध्यर्थमादित्यान्प्रत्यवो याचिषामहे रक्षणं प्रार्थयामहे । कीदृशानादित्यान् येषां पूर्वमन्त्रे माहात्म्यं प्रपञ्चितं त्यान्नु तानेव क्षत्रियान्क्षत्रियवत्प्रबलान्सुमृडीकान्सुष्ठु सुखयितॄन् । तत्रैव याज्यामाह - न दक्षिणेति । हे वसवो वासयितार आदित्या वैरिणापरुध्यमानोऽहं तेनापराधेन व्यामूढचित्तः सन्किमपि न विचिकिते विशेषेण न जानामि, इदं दक्षिणमिदं सव्यमिदं प्राचीनमिदं प्रतीचीनमिति कमपि विवेकं नानुभवामि । क इव, पाक्या चित्पाक्य इव धीर्या चिद्धीर्य इव । पूर्वं पक्वो न भवतीतः परं पाकं नेतव्यः पाक्योऽपरिपक्वधीर्बाल इत्यर्थः । युष्मानीतो युष्माभिः स्वकीयां विशं प्रापितः सन्नभयं ज्योतिः शत्रुभयरहितं विवेकज्ञानमश्यां प्राप्नुयाम् । तत्रैव विकल्पितामन्यां याज्यामाह - आदित्यानामिति । यजमाना वयमादित्यानां संबन्धिना नूतनेनेदानीं संपादितेनावसा रक्षणेन युक्ताः । शर्मणा शन्तमेन सर्वोपद्रवरहितत्वादतिशान्तेन सुखेन सक्षीमहि सक्ता भवेम । हे आदित्या भवन्तोऽनागास्त्वेस्मदीये निरपराधित्वेऽदितित्वे सर्वदैवाखण्डितत्वे निमित्तभूते सति श्रोषमाणा अस्मदीयां स्तुतिं शृण्वन्तस्तुरासस्त्वरमाणा इमं यज्ञं दधतु धारयन्तु । कृष्णव्रीहिचरौ पुरोनुवाक्यामाह — इमं म इति ।”
हे वरुण म मदीयमिमं हवमाह्वानं श्रुधि शुणु । श्रुत्वा चाद्यास्मान्मृड्य सुखय । अहं चावस्युः पालनेच्छुस्त्वामाचक आ समन्ताच्छब्दयामि प्रार्थयामि । तत्रैव याज्यामाह — तत्त्वा यामीति । तत्तस्मै रक्षणाय ब्रह्मणा मन्त्रेण वन्दमानस्त्वा यामि त्वां प्राप्नोमि । अयं यजमानो हविर्भिराराध्य तद्रक्षणमाशास्ते । हे वरुणाहेडमानः क्रोधरहित इह क्रर्मणि बोधि अस्मद्विज्ञापनां बुध्यस्व । हे उरुशंस प्रभूतस्तुते नोऽस्माकमायुर्मा प्रमोषीर्मा विनाशय । अपरुध्यमानस्य विशो राष्ट्रस्य च प्राप्तये द्विहविष्का काचिदिष्टिरुक्ता । केनचित्प्रतिबन्धविशेषेण यदि कृतायामपीष्टो तत्प्राप्तिः प्रतिबध्येत तदानीं विशेषं विधत्ते - “यदि नावगच्छेदिममहमादित्येभ्यो भागं निर्वपाभ्यामुष्मादमुष्यै विशोवगन्तोरिति निर्वपेदादित्या एवैनं भागधेयं प्रेप्सन्तो विशमव गमयन्ति” (सं. का.२ प्र.३ अ.१) इति । इममित्यादिनिर्वापमन्त्रोऽत्रैवोत्पाद्यते । अहं यजमानोऽमुष्माद्वैरिणोऽमुष्यास्तदीयप्रजायाश्चानीयेमं व्रीहीरूपं हविर्भागमादित्येभ्यो निर्वपामि । किमर्थम् । अवगन्तोरस्मदीयां प्रजां राष्ट्रं चावगन्तुम् । अनेन मन्त्रेण निर्वापे सत्यादित्याः स्वयमेव तं भागमपेक्षमाणा एनं यजमानं स्वकीयां विशं प्रापयन्ति । प्रतिबन्धाधिक्ये सति तावताप्यप्राप्तौ पुनरन्यं विशेपं विधत्ते - “यदि नावगच्छेदाश्वत्थान्मयूखान्त्सप्त मध्यपेषायामुप हन्यादिदमहमादित्यान्बध्नाम्यामुष्मादमुष्यै विशोवगन्तोरित्यादित्या एवैनं बद्धवीरा विशमव गमयन्ति” (सं. का.२ प्र.३ अ.१) इति । इदमित्यादिर्बन्धनमन्त्रः । अमुष्माद्वैरिणः सकाशादमुष्या मदीयाया विशोऽवगन्तोः प्राप्तये यजमानोऽहमादित्यानिदं बध्नामि । इदमिति हस्तेन प्रदर्शनम् । अनेन मन्त्रेणाश्वत्थजन्यान्सप्त शङकूर्हविर्धारिणः शकटस्य मध्यमायामीषायां कीलप्रक्षेपेण बध्नीयात् । तथा सत्यादित्याः स्वयमेव बद्धवीराः सन्तः स्वकीयान्भृत्यान्मोचयितुमेनं यजमानं विशं प्रापयन्ति । ततोऽपि प्रबलतरप्रतिबन्धके सति पुनरप्यन्यं विशेषं विधत्ते - “यदि नावगच्छेदेतमेवादित्यं चरुं निर्वपेदिध्मेऽपि मयूखान्त्सं नह्येदनपरुध्यमेवाव गच्छति” (सं. का.२ प्र.३ अ.१) इति । पूर्वत्र मध्यमायामीषायां शङ्कवः कीलिताः इदानीमिध्मेपि शङकुबन्धनं विशेषः । तेषां शङकूनां पूर्ववद्वृक्षविशेषं विधत्ते - “आश्वत्था भवन्ति मरुतां वा एतदोजो यदश्वत्थ ओजसैव विशमव गच्छति” (सं. का.२ प्र.३ अ.१) इति । अश्वत्थस्य मरुदोजस्त्वमर्थवादान्तरे द्रष्टव्यम् । शङ्कुसंख्यां विधत्ते “सप्त भवन्ति सप्तगणा वै मरुतो गणश एव विशमव गच्छति” (सं. का.२ प्र.३ अ.१) इति । एतेषु सर्वेष्वपि योगेषु पूर्वोक्ते एव याज्यानुवाक्ये द्रष्टव्ये ॥

मृत्योर्भीतो ह्यायुरर्थे निर्वपेच्छतकृष्णलाम् ॥ ८ ॥
ब्रह्मवर्चसकामो यः स सौर्यं चरुमाचरेत । हिरण्यकामः कुर्वीत ह्याग्नेयादिहविस्त्रयम् ॥ ९ ॥
हिण्यलाभे तन्नाशेऽप्येतदेव समाचरेत् । सोमवामी तु सोमेन्द्रं चरुं श्यामाकतश्चरेत् ॥ १० ॥
पश्वर्थं ह्यग्नये दात्र इत्यादित्रयमाचरेत् । अनुवाके द्वितीयेऽर्थां एतावन्त उदीरिताः ॥ हिरण्यगर्भ इत्यत्राक्षरार्थः स्पष्टमीरितः ॥ ११ ॥
1 मृत्युभीतस्येष्टिं विधातुं प्रस्तौति — “देवा वै मृत्योरबिभयुस्ते प्रजापतिमुपाधावन्तेभ्य एतां प्राजापत्या शतकृष्णलां निरवपत्तयैवैष्वमृतपदधात्” (सं. का.२ प्र.३ अ.२) इति । शतं सुवर्णानि कृष्णलतुलितानि यस्याः समष्टेः सा कृष्णलसमष्टिः शतकृष्णला, तां प्रजापतिदेवताकां निरवपत्, तयैव शतकृष्णलया देवेष्वपमृत्युवारणरूपममृतमदधात् ।विधत्ते - “यो मृत्योर्विभीयात्तस्मा एतां प्राजापत्याँ शतकृष्णलां निर्वपेत्प्रजापतिमेव स्वेन भागधेयेनोपि धावति स एवास्मिन्नायुर्दधाति सर्वमायुरेति” (सं. का.२ प्र.३ अ.२) इति । मृत्योरपमृत्योः । सर्वमायुर्जन्मकाले यावदायुरारब्धेन कर्मणा प्रापितं तत्सर्वं विघ्नेन विना प्राप्नोति ।शतसंख्यां प्रशंसति - “शतकृष्णला भवति शतायुः पुरुषः शतेन्द्रिय आयुष्येवेन्द्रिये प्रति तिष्ठति” (सं. का.२ प्र.३ अ.२) इति । पाकाय घृतद्रव्यं विधत्ते - “घृते भवत्यायुर्वै घृतममृतँ हिरण्यमायुश्चैवास्मा अमृतं च समीची दधाति” (सं. का.२ प्र.३ अ.२) इति । “आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीक इति मन्त्रे घृतप्रियस्याग्नेरायुष्प्रदत्वाद्घृतस्याऽऽयृष्ट्वम् । यद्वा घृतजन्येन बलेनेन्द्रियाणां देहे दृढबद्धतया निर्गमनाभावादायुर्भवतीति तद्धेतुत्वम् । समीची स्वस्वकार्यक्षमे मृत्युपरिहारायानुकूले । अवदानपरिमाणं विधत्ते - “चत्वारिचत्वारि कृष्णलान्यव द्यति चतुरवत्तस्याऽऽप्त्यै” (सं. का.२ प्र.३ अ.२) इति । पुरोडाशे प्रकृतिभूते सकृदुपस्तीर्य द्विरवदाय सकृदभिघारणेन चतुरवत्तं संपद्यते । अत्र त्वेकैकस्मिन्नवदाने कृष्णलगतया चतुःसंख्यया चतुरवत्तं संपद्यते । तत्र प्रधानस्य हविषश्चतुष्टयं द्विवरदातव्यमिडार्थमपि चतुष्टयम् । अनेनाभिप्रायेण वीप्सा । तदेतन्मनसि निधाय सुत्रकार आह – “तानि पवित्रवत्याज्य आवपति धर्ममात्रं श्रपणं प्रचरणकालेऽष्टौ देवताया अवद्यति चत्वारि स्विष्टकृति द्वे प्राशित्रेऽष्टाविडायां चतुर्धाकरणकाले सर्वाणि प्राशित्रे समोप्यैकधा ब्रह्मण उपहरति तानि ब्रह्मा भक्षयति भक्षापयत इतरेषाम्” इति । सर्वेषामृत्विग्भागानां सहैव ब्रह्मणे प्रदानं विधत्ते - एकधा ब्रह्मण उप हरत्येकधैव यजमान आयुर्दधति (सं. का.२ प्र.३ अ.२) इति । एकधेत्यनेन सर्वभागसाहित्यमुच्यते । उपहरति दद्यादित्यर्थः । अनेन दानेन यजमानेऽपि सर्वमायुरेकीकृत्य स्थापयति । अस्यामिष्टौ याज्यानुवाक्ये द्विविधे विकल्पिते, तासु चतसृष्वृक्षु तिसृणां प्रतीकान्याम्नायन्ते हिरण्यगर्भ इति । हिरण्यगर्भः समवर्तताग्र इत्येका । आपो ह यन्महतीर्विश्वमायन्निति द्वितीया । ते उभे अपि चतुर्थकाण्डस्य प्रथमप्रपाठके समाम्नातत्वात्तत्रैव व्याख्यास्येते । प्रजापते न त्वदेतान्यन्य इत्येषा तृतीया । सा तु प्रथमकाण्डस्याष्टमप्रपाठके व्याख्याता । अथ चतुर्थीमृचमाह - स वेदेति । द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुरितिमन्त्रवर्णाद्ब्रह्माण्डमध्ये सत्यलोके वर्तमानस्य प्रजापतेरण्डस्योपरितनकपालरूपा द्यौः पिताऽधस्तनकपालरूपा पृथिवी माता । स पुत्रः प्रजापतिस्तं पितरं मातरं च वेत्ति । अभिज्ञः स प्रजापतिः सूनुर्भवत्तयोर्मातापित्रोः पुत्रो भवति । अत एव तयोर्वेदनं तस्योपपन्नम् । मघशब्दो धनवाची । पुनः पुनर्यजमानाय दातव्यं धनं यस्यायौ पुनर्मघः । तादृशोऽयं प्रजापतिर्भुवद्भवति । किंच, स प्रजापतिः सर्वव्यापि विराड्रूपं धृत्वा द्यामुपरितनकपालमौर्णोच्छादितवान् । तथाऽन्तरिक्षं स्वर्गं च स और्णोत् । किंचात एव विश्वा भुव इमं लोकमारभ्याधस्तनाः सर्वा भूमीरभवत्प्राप्नोदाच्छादितवानित्यर्थः । किंच सत्यलोके समागत्य चतुर्मुखत्वेन रूपान्तरेण परिमितोऽभवत् ।2 इष्ट्यन्तरं विधत्ते — “असावादित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिमैच्छन्तस्मा एत सौर्यं चरुं निरवपन्तेनैवास्मिन्रुचमदधुर्यो ब्रह्मवर्चसकामः स्यात्तस्मा एत सोर्यं चरुं निर्वपेदमुमेवाऽऽदित्यँ स्वेन भागधेयेनोप धावति स एवास्मिन्ब्रह्मवर्चसं दधाति ब्रह्मवर्चस्येव भवति” (सं. का.२ प्र.३ अ.२) इति । यदुक्तं सूत्रकारेण सौर्यं चरुं रुक्माभ्यां परिगृह्याऽऽसादयतीति ।तदेतद्विधत्ते - “उभयतो रुक्मौ भवत एवास्मिन्रुचं दधाति” (सं. का.२ प्र.३ अ.२) इति । उभयत उपरिष्टादधस्ताच्चेत्यर्थः । प्रयाजार्थ आज्ये कृष्णलं प्रक्षिप्य होमं विधत्ते - “प्रयाजेप्रयाजे कृष्णलं जुहोति दिग्भ्य एवास्मै ब्रह्मवर्चसमव रुन्धे” (सं. का.२ प्र.३ अ.२) इति । पञ्चसु प्रयाजेषु हूयमानैस्तैजसैः पञ्चभिः कृष्णलैः पञ्चभ्यो दिग्भ्यो ब्रह्मवर्चसाख्यस्य तेजसः प्राप्तिर्भवति । अत्र याज्यानुवाक्ययोः प्रतीके दर्शयति - उदु त्यमिति । उदु त्यं जातवेदसमिति पुरोनुवाक्या । चित्रं देवानामुदगादनीकमिति याज्या । ते उभे अपि प्रथमकाण्डस्य चतुर्थप्रपाठके व्याख्याते ।3 हिरण्यार्थिनस्त्रिहविष्कामिष्टिं विधत्ते - “आग्नेयमष्टाकपालं निर्वपेत्सावित्रं द्वादशकपालं भूम्यै चरुं यः कामयेत हिरण्यं विन्देय हिरण्यं मोप नमेदिति यदाग्नेयो भवत्याग्नेयं वै हिरण्यं यस्यैव हिरण्यं तेनैवैनद्विन्दते सावित्रो भवति सवितृप्रसूत एवैनद्विन्दते भूम्यै चरुर्भवत्यस्यामेवैनद्विन्दत उपैनँ हिरण्यं नमति” (सं. का.२ प्र.३ अ.२) इति । हिरण्यं विन्देय प्रथमतः प्रयत्नं कृत्वा कियदपि लभेय, तत ऊर्ध्वं वृद्ध्यादिरूपेणाधिकं स्वयमेव मां प्राप्नुयादिति कामयितुरियमिष्टिः ।4 फलान्तराय त्रिहविष्कां तां विधत्ते - “वि वा एष इन्द्रियेण वीर्येणर्ध्यते यो हिरण्यं विन्दत एतामेव निर्वपेद्धिरण्यं वित्वा नेन्द्रियेण वीर्येण व्यृद्ध्यते” (सं. का.२ प्र.३ अ.२) इति । हिरण्यं लब्धवतश्चोरादिभीत्या कातरत्वमिन्द्रियव्यृद्धिः ।5 पुनरपि फलान्तराय तां विधत्ते - “* एतामेव निर्वपेद्यस्य हिरण्यं नश्येद्यदाग्नेयो भवत्याग्नेयं वै हिरण्यं यस्यैव हिरण्यं तेनैवेनद्विन्दति सावित्रो भवति सवितृप्रसूत एवैनद्विन्दति भूम्यै चरुर्भवत्यस्यां वा एतन्नश्यति यन्नश्यत्यस्यामेवैनद्विन्दति” (सं. का.२ प्र.३ अ.२) इति । मार्गपातनस्थानविस्मृत्यादिना विनष्टस्य हिरण्यस्य पुनर्लाभार्थमियमिष्टिः ।एतेषु त्रिषु हविःषु प्रथमस्य पुरोनुवाक्यामाह - स प्रत्नवदिति । हेऽग्ने त्वं द्युम्नेन हिरण्येन बृहत्ततन्थ महदैश्वर्यं विस्तारय । किंवत्, प्रत्नवत्, पुरातना धनिका उदाराः सन्त ऐश्वर्यं यथा विस्तारयन्ति तद्वत् । कीदृशेन द्युम्नेन नवीयसाऽत्यन्तनूतनेन पितृपितामहाद्युपार्जितव्यतिरिक्तेनेदानीमेवार्ज्यमानेन । संयताऽस्मान्प्राप्नुवता । भानुना कालुष्याभावादत्यन्तं भासमानेन ।तत्रैव याज्यामाह - नि काव्येति । कविः पण्डितस्तस्य भावः काव्यं पाण्डित्यं बुद्ध्यतिशयः । अयमग्निः काव्या काव्येन स्वकीयबुद्ध्यतिशयेन यजमानाञ्शश्वतो निरन्तरानुष्ठानशाश्वतिकान्वेधसो विधातृसदृशान्निकर्नितरां करोतु । कीदृशोऽग्निः । नर्या मनुष्येभ्यो हितानि पुरूणि बहुधनानि हस्ते दधानः । किंच, सोऽग्नी रयीणां रयिपतिर्भुवत्सर्वेषां धनानामधिपतिरासीत् । अतोऽमृतानि हिरण्यानि विश्वा सर्वाणि सत्रा चक्राणः सहस्थितानि कर्तुं शक्तः । तादृशोऽस्मभ्यं हिरण्यं ददातु ।द्वितीयस्य हविषः पुरोनुवाक्यामाह - हिरण्येति । अस्मभ्यं दातुं हिरण्यं पाणौ यस्य स हिरण्यपाणितादृशं सवितारमुपगम्य ह्वय आह्वयामि । किमर्थम् । ऊतये रक्षणाय । सविता देवतारूपः पदमस्मद्योग्यं स्थानं चेत्ता ज्ञाता ।अत्रैव याज्यामाह — ("*सर्वेष्वादर्शपुस्तकेषु एतामेवेत्यादि व्यृध्यत इत्यन्तमग्रिमावतरणान्तरमेव गृहीतं दृश्यते, तथाऽपि प्रमादमूलकमेवैत्पूर्ववाक्यपूर्तेरभावादिति बोध्यम् ।”) “वाममद्येति । हे सवितरद्यास्मभ्यं वामं वननीयं कर्मफलं सावीः प्रेरय देहीत्यर्थः । श्वोऽपि वामं सावीस्तदूर्ध्वं दिनेदिने वामं सावीः । हे देव वामस्य वननीयस्य भूरेर्विस्तीर्णस्य क्षयस्य स्वर्गनिवासस्य सिद्धयेऽयाऽनया धिया श्रद्धायुक्तबुद्ध्या वामभाजो वननीयकर्मानुष्ठायिनः स्याम । तृतीयहविषः पुरोनुवाक्यामाह - बडित्थेति । हे पृथिवि त्वं पर्वतानां संबन्धिनं खिद्रं खेदजनकं भारमित्था बड्बिभर्षि, इत्थमिति हस्तेनाभिनयः । बट्, बाढं दृढमित्यर्थः । हे भूमि त्वं महना त्वदीयेन महिम्ना या प्रजिनोषि यान्पर्वतान्प्रकर्षेण प्रीणयसि तेषां खिद्रमिति पूर्वत्रान्वयः । प्रवत्वति महिनीति द्वयं संबुद्ध्यन्तस्य भूमिपदस्य विशेषणम् । प्रवत्वति प्रवणवति महिनि महत्त्वयुक्ते वा । अत्र प्रवणवत्त्वेन जलसमृद्धिः सूच्यते तया च जलसमृद्ध्या यान्प्राणिनः प्रीणयसि तानपि बाढं बिभर्षीत्यपि योजनीयम् । तत्रैव याज्यामाह — “स्तोमास इति । विविधश्चारो जनानां संचारो यस्यां पृथिव्यां सा विचारिणी, तथाविधे हे पृथिवि स्तोमासः प्राणिनां संघा अक्तुभिरभिव्यक्तैर्नानाविधसस्यैर्निमित्तभूतैस्त्वां प्रतिष्टोभन्ति प्रत्येकमाश्रयन्ते । हेऽर्जुनि धवले निर्मले पृथिवि या त्वं पेरुं पानादिभोग्यवस्तुकमिदं प्रकर्षेणास्यसि भोगाय प्रेरयसि । कमिव, हेषन्तं वाजं न वाजिनमिव । यथा लोके बाह्यादिप्रदेशे तुरंगान्तरं दृष्ट्वा स्वोत्साहेन हेषाशब्दं कुर्वन्तमुत्तमाश्वं सादिनोऽभ्यासाय प्रेरयन्ति तद्वत् । सोमवामिनश्चरुं विधातुं प्रस्तौति इन्द्रस्त्वष्टुः सोममभीषहाऽपिबत्स विष्वङ्व्यार्छत्स इन्द्रियेण सोमपीथेन व्यार्ध्यत स यदूर्ध्वमुदवमीत्ते श्यामाका अभवन्त्स प्रजापतिमुपाधावत्तस्मा एतँ सोमेन्द्रँ श्यामाकं चरुं निरवपत्तेनैवास्मिन्निन्द्रियँ सोमपीथमदधात् (सं. का. २ प्र. ३अ. २ इति । इन्द्रो विश्वरूपं त्वष्टुः पुत्रं हत्वा सोमयागे तेन त्वष्ट्रां स्वयमनाहूतः सन्कुपितो यज्ञस्य भ्रंशं कृत्वा प्रसह्य सोममपिबदिति पञ्चमप्रपाठके प्रपञ्चयिष्यते । तदत्र संगृह्योच्यते । अभीषहा बलात्कारेणेत्यर्थः । सोमं पीत्वा त्वष्टुर्भीतो नानादिगभिमुखो विशेषेण पलायनं कृतवान् । पलायमानश्च तदुपघातादिन्द्रियस्वास्थ्यकरेण सोमपानेन व्यृद्धोऽभूत्तदानीमिन्द्रो यत्सोमरसस्वरूपमूर्ध्वमुखेन वमनं कृतवान्, तद्भूमौ पतित्वा श्यामाकरूपेण निष्पन्नम् । ततः स इन्द्रः प्रजापत्युपदेशेन सोमेन्द्रचरुं कृत्वा स्वोदर एव रणेन्द्रियप्रदं सोमपानं प्राप्तवान् । अथ विधत्ते - “वि वा एष इन्द्रियेण सोमपीथेनर्ध्यते यः सोमं वमिति यः सोमवामी स्यात्तस्मा एतँ सोमेन्द्रँ श्यामाकं चरुं निर्वपेत्सोमं चैवेन्द्रं च स्वेन भागधेयेनोप धावति तावेवास्मिन्निन्द्रियँ सोमपीथं धत्तो नेन्द्रियेण सोमपीथेन व्यृध्यते” (सं. का. २ प्र. ३ अ. २) इति । प्रातःसवनादिप्रयोगे यो यजमानः पीतं सोमं वमिति स एष सोमस्य वमनादिन्द्रियसामर्थ्यप्रदेन सोमपानेन व्यृद्धो भवति । तादृशसोमवामिनो यजमानस्यायं चरुः । द्वौ देवौ द्रव्यं च प्रशंसति “यत्सौम्यो भवति सोमपीथमेवाव रुन्धे यदैन्द्रो भवतीन्द्रियं वै सोमपीथ इन्द्रियमेव सोमपीथमव रुन्धे श्यामाको भवत्येष वाव स सोमः साक्षादेव सोमपीथमव रुन्धे” (सं. का. २ प्र. ३ अ. २) इति । अत्र पुरोनुवाक्यामाह ऋदूदरेणेति । हे हर्यश्वेन्द्र यः सोमः पीतो मा न रिष्येद्वमनेन मां न हिंस्यात्तादृशेन सख्या सखिवद्धितकरिणा सोमेन सचेय संगतो भूयासम् । कीदृशेन सोमेन । ऋदूदरेण । अत्र मकारो लुप्तः । वमनाभावान्मृदुत्वं स्वास्थ्यमापन्नमुदरं यस्य सोमस्य स एष ऋदूदरः । सोऽयं सोमोऽस्मे अस्मदीयोदरे न्यधायि निहितः । तस्मै तदर्थं सोमस्य जरणार्थं प्रतिरं प्रकर्षेण वमनापदं तारयितारमिन्द्रमैम्याभिमुख्येन प्राप्नोमि भजामीत्यर्थः । तत्र याज्यामाह - आपान्तेति । अत्र प्रादत्रयेण सोमस्य स्तुतिश्चतुर्थपादेनेन्द्रस्य । अन्ततोऽपगत आपान्तः सर्वात्मना विनष्टो मन्युः कोपो यस्य सोऽयमापान्तमन्युः । बहुभिर्ग्रावभिरभिषूयमाणोऽपि न क्रुध्यतीत्यर्थः । त्रिषु सवनेष्वभिषवार्थमासादिता उपलास्तृपलास्तेषां प्रभर्म प्रहारो यस्य सोमस्य सोऽयं तृपलप्रभर्मा । धुनिः कम्पमानः प्रहारैरितस्ततः कम्पते । शिमीशब्दः कर्मवाची, शिम्यो बहुविधान्यभिषवशोधनग्रहणादीनि कर्माण्यस्य सन्तीति शिमीवान् । शरवोऽभिषवकाले शीर्णावयवाः, ते च बहवो यस्यासौ शरुमान् । रसनिष्पीडनेन यदवशिष्टं नीरसं तदृजीषं तदस्यास्तीत्यृजीषी । ईदृशः सोमो विश्वानि वनानि वर्धयतीति शेषः । “सोमो वा ओषधीनाँ राजा”। “सोमो वनस्पतीनाम्”। “वनस्पतिगते सोमे” इत्यादिश्रृतिस्मृतिभ्यां चान्द्ररश्मिभिर्वनस्याभिवृद्धिदर्शनाच्च वर्धयितृत्वम् । कीदृशानि वनानि । अतसा सर्वत्र संततानीत्यर्थः । अर्वागर्वाचीनानि प्रतिमानानि लौकिकोपमानानीन्द्रं न देभुर्न हिंसन्ति । नीचैरुपयातैः स्वसाम्यापादनमेवोत्तमस्य हिंसा । तां कर्तुमुपमानानि न प्रवर्तन्त इत्यर्थः । तत्रैव विकल्पिता पुरोनुवाक्यामाह - प्र सुवान इति । ऋतयुर्यज्ञमिच्छुर्यजमानः सोमः सुवानः सोममभिषुण्वन्निन्द्राय ब्रह्मेन्द्रार्थं बृहत्सोमपानं प्रचिकेत प्रकर्षेण जानाति । कीदृशो यजमानः । जमदग्निरेतन्नामकमुनिसदृशः । किं कुर्वन् । अर्चन्स्तुतिभिः पूजयन् । हे इन्द्र त्वं वृषा फलस्य वर्षयिता यन्ताऽसि सोमस्य नियामकोऽसि । कीदृशस्य, शवसो बलवतः । उदरे स्थापयितुमशक्यस्येत्यर्थः । तुरस्य वमनाय त्वरमाणस्य । अन्तर्यच्छ नियन्तृत्वादुदरमध्ये तं सोमं जरयितुं नियच्छ । गृणते तां स्तुवते यजमानाय धर्त्रं दृंह सोमस्य धारकं वायुं दृढी कुरु । तत्रैव विकल्पितां याज्यामाह - सबाधस्त इति । हे सोम नरो मनुष्या ऋत्विजस्ते ब्रह्म श्यामाकचरुरूपं परिवृढं हविः सपर्यन्पूजयन्ति समर्पयन्ति, कीदृशस्य ते । सबाधः । धकारान्तो बाध्शब्दोऽभिषवकृतमुपद्रवं ब्रूते । तेनोपद्रवेण सह वर्तत इति सबाध्, इति प्रतिपादकं तस्य षष्ठी सबाध इति । अभिषवपीडितस्य तवेत्यर्थः । कीदृशं ब्रह्म, मदं च हर्षकरमपि शुष्मयं च बलप्रापकमपि । कीदृशा नरः । ब्रह्मकृत इष्टिरूपं परिवृढं कर्म कुर्वन्तीति ब्रह्मकृतः । सोमचक्षा अर्को वा सोमशब्देनाभिधीयमानस्त्वं सूर्य एव । अतस्तेजस्वित्वान्नास्ति तव कश्चिदप्युपद्रव इत्यभिप्रायः । यद्यत्रास्मदुदरे पीतो रसस्तुरते वमनाय व्यग्रतां करोति तत्रैत्तत्रैवोदरेऽयमिन्द्रः पृत्सु सङ्ग्रामेष्विव तुर्यां दधते तूर्णं यातारं करोति वमनाय संभ्रमं कुर्वतः सोमस्य निवारकं वायुं शीघ्रं तत्र प्रेरयतीत्यर्थः । अथ पञ्चमप्रपाठके विहितायामभ्युदयेष्टौ विष्णवे शिपिविष्टाय शृते चरुमित्युक्तं यत्तृतीयं हविस्तत्रानन्तरभावि मन्त्रत्रयमुत्कर्षणीयम् । तस्मिंश्च त्रये पुरोनुवाक्यां दर्शयति - वषट् त इति । अस्यते क्षिप्यते कर्मानुष्ठानाय देवतया विधिना वा प्रेर्यत इत्यासो यजमानः । तादृशोऽहं ते तवाऽऽसमन्ताद्वषट्कृणोमि हविर्दानं करोमि । शिपिषु पशुषु विष्टः प्रविष्टो यज्ञः शिपिविष्टः पशुसाध्यो यज्ञ इत्यर्थः । “यज्ञो वै विष्णुः । पशवः शिपिः” इति श्रुतेः । हे शिपिविष्ट यज्ञात्मक विष्णो मे मदीयं तद्धव्यं जुषस्व । सुष्टुतयः शोभना स्तुतिरूपा मे गिरस्त्वां वर्धन्तु वृद्धिं प्रापयन्तु । एकस्विन्नपि विष्णौ यूयमिति पूजार्थं बहुवचनम् । पूज्या यूयं स्वस्तिभिः श्रेयोभिर्नोऽस्मान्सदा पात रक्षत । तत्रैव याज्यामाह - प्र तत्त इति । हे शिपिविष्टाद्यास्मिन्यज्ञे ते त्वदीयं तन्नामाहं प्रशंसामि । कीदृगहं, वयुनानि विद्वान्, ज्ञापकानि नामनिर्वचनानि जानन् । “यज्ञो वै विष्णुः । पशवः शिपिः । यज्ञ एव पशुषु प्रतितिष्ठति” इति श्रुत्याऽऽख्यातं शिपिविष्टनाम्नो निर्वचनं जानामीत्यर्थः । अत एवार्योऽहं शब्दार्थाभिज्ञानः स्वामी हे विष्णो तं त्वा गृणामि तथाविधं त्वां स्तौमि । किंविधम् । अस्य रजसः पराके क्षयन्तं दृश्यमानस्य मलिनलोकस्यात्यन्तं दूरे निवसन्तं तवसं तपस्विनम् कीदृशोऽहम् । अतवीयानतपस्वी । यद्यप्यहं तपोरहितस्तथाऽपि तपस्विनस्तव प्रसादात्स्तोतुं शक्त इत्यर्थः । तत्रैव विकल्पितां याज्यामाह - किमित्त इति । हे विष्णो त्वं यद्यस्मात्कारणाच्छिपिविष्टोऽस्मीति प्रकर्षेण ववक्षे पुनः पुनर्वक्षि तस्मात्ते तव मनसि किमित्परि चक्ष्यं भूत्किमिदं गर्हणीयमभूत् । नैतद्गर्हणीयं वृथैव तव लज्जेत्यभिप्रायः । यद्यप्येतन्नाम लोकेऽत्यन्तरोगिण्युत्पाटितगुह्यत्ववि (चि) मूढैः प्रयुज्यते शिपिविष्टोऽयमिति, तथाऽप्यवयवार्थस्य ब्राह्मणेन व्याख्यातत्वान्नास्त्यत्र तव लज्जाकारणम् । तस्मादेतद्वर्पो वरिष्ठं नामास्मन्माऽपगूह, अस्माकमग्रे गूढं मा कुरु । यद्यस्मात्त्वं गूहनायैव समिथे युद्धे कवचशीर्षकाभ्यां गूढोऽन्यरूपो बभूव बभूविथ तदन्यथा यथा तथा वा भवतु, तथाऽप्यस्मद्बुद्धौ प्रशस्तमिदं मा गोपायेत्यर्थः । पशुकामस्य त्रिहविष्कामिष्टिं विधत्ते - “अग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेदन्द्राय प्रदात्रे पुरोडाशमेकादशकपालं पशुकामोऽग्निरेवास्मै पशून्प्रजनयति वृद्धानिन्द्रः प्र यच्छति” (सं. का. २ प्र. ३ अ. २) इति ।““पञ्चद्रव्यसमष्टिरूपं तृतीयं हविर्विधत्ते “दधि मधु घृतपामो धाना भवन्त्येदतद्वै पशूनाँ रूपँ रूपेणैव पशूनवरुन्धे” (सं. का. २ प्र. ३ अ. २) इति । तत्र दधिघृतयोः पशुसंबन्धात्तत्साहचर्येण सर्वेषां पशुरूपत्वम् । अस्मिन्हविषि द्रव्यसंख्यां विविधद्रव्यत्वं च प्रशंसति “पञ्चगृहीतं भवति पाङ्क्ता हि पशवो बहुरूपं भवति बहुरूपा हि पशवेः समृद्ध्यै” (सं.का. २ प्र. ३ अ. २ इति । एकैकस्य द्रव्यस्य ग्रहणेन पञ्चगृहीतत्वं, गोमहिषाश्वादिरूपेण पशूनां बहुरूपत्वम् । द्रव्यं विधाय देवतां विधत्ते - “प्राजापत्यं भवति प्राजापत्या वै पशवः प्रजापतिरेवास्मै पशून्प्र जनयति” (सं. का. २ प्र. ३ अ. २) इति । घृतं न पूतमुभे स्रुश्चन्द्रेत्येते ऋचौ विधत्ते - “आत्मा वै पुरुषस्य मधु यन्मध्वग्नौ जुहोत्यात्मानमेव तद्यजमानोऽग्नौ प्रदधाति पङ्क्त्यौ याज्यानुवाक्ये भवतः पाङ्क्तः पुरुषः पाङ्क्ताः पशव आत्मानमेव मृत्योर्निष्कीय पशूनव रुन्धे” (सं. का. २ प्र. ३ अ. २) इति । यस्मिन्कस्मिंश्चिद्दुर्गे समुत्पन्नस्य मधुनो दध्यादिवत्सर्वप्राणिसुलभत्वं नास्ति, आत्मापि हस्तपादादिवत्सर्वैः सुष्ठु विज्ञेयो न भवति, तत्साम्यान्मधुनः पुरुषत्वं, मधुहोमेन वह्नौ प्रक्षिप्तस्याऽऽत्मनः पङ्क्तिच्छन्दसोः पाठेन मृत्योर्निष्क्रयो भवति । तत्र प्रथमहविषः पुरोनुवाक्यामाह - अग्ने दा इति । हेऽग्ने दाशुषे हविर्दत्तवते यजमानाय रयिं दा धनं देहि । तथा वीरवन्तं वीरैर्भृत्यादिभिरुपेतं पुत्रं देहि । कीदृशं परीणसं परितः शोभना नासिकाद्या अवयवा यस्य तं तथाविधम् । सूनुमतस्त्वया दीयमानैः पुत्रैयुक्तान्नोऽस्माञ्शिशीहि सर्वेषु कार्येषु तीक्ष्णीकुरु । तत्रैव याज्यामाह - दा नो अग्ने इति । हेऽग्ने नोऽस्मभ्यं शतिनो दाः शतसंख्याकान्पशून्देहि । तथा सहस्रसंख्याकान्देहि । दुरो न द्वाराणीव पशुसंपत्तौ हि *“वायव्यँ श्वेतमालभेत” “सरस्वत्याज्यभागा स्यात् इत्यादीनि बहूनि कर्माणि सुखेनानुष्ठातुं शक्यन्ते ।” अतोऽनुष्ठानस्य द्वारभूतान्पशून्देहि । ततः पशुप्राप्तेरूर्ध्वं वाजमन्नं श्रुत्यै ब्राह्मणभोजनादिजन्यकीर्तयेऽपावृधि विघ्नमपनीय वर्धय । प्रकर्षेणाऽऽनुकूल्यमञ्चतो गच्छत इति प्राच्यौ कुरु । ब्रह्मणा मन्त्रपुरःसरेण कर्मणा तुष्टः सन्द्यावापृथिव्यौ प्राच्यौ कुरु । उषस उषःकालाः सुवर्ण स्वर्गं इवास्मद्गृहे शुक्रं प्रकाशं विदिद्युतुर्विशेषेण द्योतितं कुर्वन्तु प्रभूतं कुर्वन्त्वित्यर्थः ।“तत्रैव विकल्पितां याज्यामाह - अग्निर्दा इति । अयमग्निर्द्रविणं दा ददातु । वीरपेशा वीराणामस्मत्पुत्रादीनां पालको योऽग्निरसावृषिमृषिसमानं पुत्रं सहस्रा सहस्रप्रकारेण सनोति ददातु । सोऽग्निर्दिवि स्वर्गे हव्यमस्मदीयमाततान समन्ताद्विस्तारितवान् । तादृशस्याग्नेः पुरुत्रा पुरुषु प्रदेशेषु धामानि स्थानानि विभृता विशेषेण संपादितानि ।“द्वितीयहविषो याज्यानुवाक्ययोः प्रतीके दर्शयति - मा नो मर्धीरिति । मा नो मर्धीरा भरा दद्धि तन्न इति पुरोनुवाक्या । आ तू भर माकिरेतत्परि ष्ठादिति याज्या । तदुभयं पूर्वकाण्डे सप्तमप्रपाठके व्याख्यातम् । तृतीयहविषः पुरोनुवाक्यामाह - घृतं न पूतमिति । हे स्वधावोऽन्नवन्प्रजापते तनूररेपास्त्वदीयं शरीरं पापरहितम् । किमिव, पूतं घृतं न घृतमिव । नेत्युत्तरत्रानुवर्वते । शुचि हिरण्यं न शुद्धं सुवर्णमिव, रुक्मो न आभरणमिव । ते त्वदीयं तच्छरीरं रोचत सर्वेभ्यो रोचताम् । तत्रैव याज्यामाह - उभे सुश्चन्द्रेति । हे सुश्चन्द्र सुष्ठ्वाह्लादनकर, आसनि त्वदीय आस्ये सर्पिषः बन्धिन्यावुभे दर्वीसदृशे हनू श्रीणीषे सेवसे । हनुपूरणपर्यन्तं सर्पिस्त्वया * सर्वपुस्तकेषु हीत्यस्य स्थाने देहीति वर्तते, तत्वयुक्तम् । पीतमित्यर्थः । उतापि च हे शवसस्पते बलस्याधिपत उक्थेषु शस्त्रवत्सु यज्ञेषु नोऽस्मानुत्पूपूर्या उत्कर्षेण पूरय प्रापयेत्यर्थः । स्तोतृभ्यो यजमानेभ्य इषमन्नमाभर संपादय । अथान्यत्र वायव्यां यवागूं निर्वपेदित्यादिना विहिते कर्मण्युत्कर्षणीयां पुरोनुवाक्यामाह - वायो शतमिति । हे वायो पोष्याणां पुष्टिमतां हरीणामश्वानां शतं युवस्वास्मद्गृहे समागन्तुं रथे योजय उत वा ते सहस्रिणः, अथवा ते सहस्रसंख्याका अश्वा रथे युज्यन्तामिति शेषः । स च रथो पाजसा बलेन शीघ्रमायातु । तत्रैव याज्यामाह - प्र याभिरिति । हे वायो दुरोणे यज्ञगृह इष्टये क्रियमाणेष्टिसिद्ध्यर्थं नियुत्संज्ञकाभिर्याभिर्वडवाभिर्दाश्वांसमच्छ हविर्दत्तवन्तं यजमानं प्राप्तुं प्रकर्षेण यासि ताः समीचीना अस्माकमनुकूला इति शेषः । इह कर्मणि नोऽस्माकं सुभोजसं रयिं सुष्ठु भोजनोपयुक्तं धनं नियुव नितरां मिश्रय । किंच, राधोऽन्नं नियुव । कीदृशं राधः । वीरवद्द्रव्यमश्वियं पुत्रैर्गोभिरश्वैर्युक्तमित्यर्थः । अथ क्काप्यैन्द्रकर्मण्युक्तयाज्यानुवाक्ये आम्नायेते । तत्र पुरोनुवाक्यामाह - रेवतीर्न इति । रेवत्यो धनवत्यः सधमादोऽस्माभिः सह मादय (द्य) न्त्यो हर्षयुक्तास्तुविवाजा बह्वन्नोपेता आपो नोऽस्माकं स्वामिनीन्द्रे सन्त्वस्मत्सुखाय तिष्ठन्तु । याभिरद्भिः सह वयं क्षुमन्तं शब्दयन्त इन्द्रं स्तुवन्तो मदेम हृष्यास्म । तत्रैव याज्यामाह - रेवाँ इद्रेवत इति । हे हरिव इन्द्रायं यजमानो रेवा इद्धनवानेव सन्रेवतो धनवतो देवस्य प्रेदु अन्यन्तप्रकर्षेण स्तोता स्यात् । कीदृशस्य देवस्य । त्वावतस्त्वत्सदृशस्य मघोनो धनवतः श्रुतस्य देवेषु श्रूयमाणस्य । तादृशं देवं स्तुत्या स्वाभीष्टं प्राप्नोतीत्यभिप्रायः ॥

(अथ द्वितीयकाण्डे तृतीयः प्रपाठकः)।
(यज्ञविभ्रष्टादीनामिष्टिविधिः)
तृतीये यज्ञविभ्रष्टो यः कामं प्राप्तुमिच्छति। ब्रह्मवर्चसकामो यः क्लीबत्वाद्यो बिभेति च ॥ १२ ॥
ग्रामकामो ब्राह्मणो यो विशः स्थापनमिच्छति। एतेषामिष्टयः प्रोक्तास्तत्तत्फलसमाप्तये ॥ १३ ॥
अथ तृतीयेऽनुवाके यज्ञविभ्रष्टादीनामिष्टयो विधातव्याः । तत्राऽऽदौ यज्ञविभ्रष्टेष्टिविधानाय प्रस्तौति देवा वै सत्रमिति । ऋद्ध्या काम्यमानेन यशोलक्षणेन फलेन परिमितं सत्रमनुष्ठितवन्तः । सन्ति सहस्रं सत्राणि तेषु येन यशः सिध्यति तदन्वतिष्ठन्। तेषां देवानां मध्ये फलीभूतं यशः सोमं प्राप्नोत् । स च सोमोऽन्येषां यशो मा भूदिति मन्वानस्तेन यशसा सह गिरिं कंचिद्दुर्गं पर्वतमारोहत् । अग्निश्च सहसा तस्य पृष्ठत एवाऽऽरोहत् । तौ द्वावग्नीषोमौ परस्परमैकमत्यं गतौ । ततस्तावुभावनु फलरहित इन्द्रश्चिरकालेन गत्वा मां फलाय योजयतमिति अयाचत् । तौ च तस्मै त्रिहविष्कामिष्टिं निरवपताम् । तैस्त्रिभिर्हविर्भिस्तेजआदिकं त्रयं लब्धम् ।
“अथ विधत्ते यो यज्ञविभ्रष्ट इति । इष्टिपशुसोमानां स्वस्वकालेष्वननुष्ठानं भ्रेषस्तं भ्रेषं प्राप्तस्येयमिष्टिः । अत्रैव कंचिद्विशेषं विधत्ते आग्नेयस्येति । तेन समाश्लेषणेनास्मिन्यजमान आज्ञाशक्तिः श्रुताध्ययनसंपत्तिश्चेत्येते संपूर्णे स्थापयति ।
कमितार्थसिद्ध्यर्थमिष्ट्यन्तरं विधत्ते अग्निषोमीयमिति । अग्निना सह मुखे जातत्वात्सोमपातृत्वाच्च तदुभयं ब्राह्मणस्य देवता । ब्रह्मवर्चसार्थं श्यामाकपुरोडाशं विधत्ते अग्नीषोमीयमिति । कपालगतयाऽष्टसंख्यया गायत्रीस्मरणात्तदद्वारेण हविष आग्नेयत्वम्। “अष्टाक्षरा गायत्री गायत्रोऽग्निः” इति श्रुत्यन्तरात्। तथा “सोमो वा अकृष्टपच्चस्य राजा” इत्यादिश्रुतेः श्यामाकधान्येन हविषः सोम्यत्वम्। अनेनैवार्थवादेन विधिवाक्ये पुरोडाशस्य श्यामाकमयत्वमुन्नेयम्। क्लीबत्वपरिहारायेष्टिं विधत्ते सोमायेति। प्रजननत्तमर्थोऽन्नरसो वाजस्तद्वते वाजिने। यदा वाजिनं प्रजननसमर्थान्नरसरूपं रेतोऽस्मात्पुरुषादपक्रामति रोगेणादृष्टविशेषेण वा तत्सामर्थ्यं प्रतिबध्यते तदानीमस्य क्लीबत्वं संपद्यते तस्मात्क्लीबत्वाद्विभाव बिभेति। इष्ट्यन्तरं विधत्ते ब्राह्मणस्पत्यमिति। अत्र गणानां त्वा, स इज्जनेनेत्येते ऋचावन्त्यानुवाके समाम्ना स्थमाने विधत्ते गणवतीति। गणशब्दो ययोऋचोरस्ति ते गणवत्यौ।”
यदा वैश्यजातिर्धनिकत्वगर्वेण ब्राह्मणमतिक्रामति तदा तस्मिब्राह्मणे तां जातिं वश्यां कर्तुं तामेवेष्टिं विधत्ते—
एतामेवेति। ब्रह्मन्ब्राह्मणे विनाशयेयं गर्वविनाशनेनाऽऽत्मसात्कुर्याम्। मरुतो यद्ध वो दिवो या वः शर्मेत्येते ऋचो वैश्वानरो न ऊत्येस्मिन्ननुवाके समाम्राते अत्रापि प्रतीकेन ग्रहीष्येते। तदुभयमत्र विधत्ते—
मारुतीति मरुतां संबन्धिन्यौ मारुत्यौ। मरुतो वै देवानां विश इति श्रुतेस्तदनुग्रहेण मानुषीं विशमधीनां करोति।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
प्रथमादितृतीयान्ता अनुवाकाः ।। ३ ।।

(अथ द्वितीयकाण्डे तृतीयप्रपाठके चतुर्थोऽनुवाकः)। (स्वर्गकामादीष्टिविधिः)
स्वर्गकामो दानकामः सभां गन्तुं य इच्छति । राजन्यो ब्राह्मणश्च द्वौ यौ स्यातामानुजावरौ ॥ १४ ॥
तुर्येनुवाक एतेषामाम्नाता इष्टयः क्रमात् ।
“अथ चतुर्थे स्वर्गकामादीनामिष्टयो विधातव्याः। तत्र स्वर्गार्थिन इष्टिं विधत्ते अर्यम्णे चरुमिति। प्रतिग्रहार्थिनस्तामेवेष्टिं विधत्ते अर्यम्णे चरुमिति। लोके यः कोऽपि द्रव्यं ददाति सोऽयं ददाति सोऽयं सूर्यवत्कीर्त्या भासमानत्वादर्यमेत्युपचर्यते। तं प्रेरयितुं मुख्यायार्यम्णे चरुर्युक्तः। सभां जिगमिषोरिष्टिं विधत्ते अर्यम्णे चरुमिति। स्वस्ति निर्विघ्नेन, जनतां जनसमूहम्। य समानांना मध्ये श्रैष्ठ्यमलभमानस्तदीयानुजाववरो निकृष्टो वर्तते तस्य श्रैष्ठप्राप्त्यर्थमिष्टिं विधातुं प्रस्तौति इन्द्रो वै देवानामिति। अनु पश्चाज्जातो भ्राताऽनुजस्तस्मादप्यवरोऽनुजावरस्तद्वद्वर्तमान आनुजावरः। अत्यन्तनिकृष्ट इत्यर्थः। ब्रीहिस्तम्बेषु लूनेष्ववशिष्टमूलेभ्योऽनुसूयन्ते पश्चादुत्पद्यन्त इति द्वितीयाफलरूपा ब्रीहयोऽनुषूकाः, तेभ्यो निष्पन्नमानुषूकम्। तेन हविषा प्रजापतिर्दवतानां मध्य इदं श्रैष्ठ्यं प्रापितवान्। बुध्नशब्दोऽस्ति ययोऋचोस्ते बुध्नवत्यौ। अग्रशब्दोऽस्ति ययोऋचोस्ते अग्रवत्यौ। बुध्नादग्रं बुध्नादग्रेणेत्येते अन्त्यानुवाके समाम्नास्यमाने। बुध्नान्मूलादारभ्याग्रमवसानं प्रापयत्। कर्मानुष्ठानकालमारभ्य यावज्जीवं श्रैष्ठयं प्रापितवानित्यर्थः। अथ विधत्ते यो राजन्य इति। य आनुषूक आनुजावर एतस्येयमानुषूकधान्यभागिन्येव देवता युक्ता। सदृशत्वात्। तस्मादानुषूकपुरोडाशः समृद्ध्यै संपद्यते। आनुजावरब्राह्मणस्येष्टिं विधत्ते यो ब्राह्मण इति। अत्र प्र यो जज्ञे महान्मही, इति द्वे याज्यानुवाक्ये स बुध्नादाष्ट अनुषाऽभ्यग्रमिति बुध्नाग्रशब्दयोस्तत्र विद्यमानत्वात्।। इति श्रीमत्सायणाचार्यविरचिते माघवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।”

(अथ द्वितीयकाण्डे तृतीयपाठके पञ्चमोनुऽवाकः।) (राजयक्ष्मगृहीतस्येष्टिविधिः)
इष्टिर्यक्ष्मगृहीतस्य पञ्चमे समुदीरिता ॥ १५ ॥
पञ्चमे राजयक्ष्मगृहीतस्येष्टिं विधातुं प्रस्तौति “प्रजापतेरिति। अम्बा दुला नितत्निरभ्रयन्ती मेघयन्ती वर्षयन्ती चुषुणीका इत्येवमाम्नाताः सप्त कृत्तिकाः। अवशिष्टा अश्विन्यादयः षड्विंशतिता (स्ता) रकाः। ता एतास्त्रयस्त्रिंशत्। तत्र रोहिणीव्यक्तिरिका ईर्ष्यन्तीस्तदीयं सुखमसहमानाः पुनः प्रजापतिमगच्छन्। सोमस्ता अनुगम्य प्रजापतिं याचितवान्। स प्रजापतिरेवमब्रवीच्छपथं प्रतिपद्यस्व तद्यथा समावच्छः साम्येन ता उपैष्यामिति ततस्ताः पुनर्दास्यामीति। स च सोमः शपथं कृत्वा ताः स्वीकृत्य शपथमुल्लङ्घ्य पूर्ववद्रोहिणीमेवोपैत। ततः स यक्ष्मव्याधिगृहीतोऽभूत्। ततो राजानं यक्ष्मः प्राप्तवानीति व्युत्पत्ता राजयक्ष्मनाम्नो व्याधेर्जन्म संपन्नम्। य स्माज्जायाभ्यो विमित्तभूताभ्यो व्याधिमलभत तस्माज्जायेन्यनामकस्य व्याधेर्जन्म संपन्नम्। त एते त्रयो यक्ष्मव्याधेरवान्तरविशेषाः, सज्जन्मवेदिनो व्याधेरलाभः फलम्। तत सोमेन नमस्कृताः सेविताश्चैताः सर्वाः साम्येनोपगमनं वरं वृत्वा व्याधिपरिहाराय चरुं निरुप्य सोमं तस्मात्पापात्स्रामात्प्रबलाद्रोगादमोचयत्। इदानीं विधत्ते यः पापयक्ष्मेति। आदित्यानित्यर्थवादे श्रवणादस्य चरोरदितिदेवता न भवति। पौर्णमासीं वारयितुं विधत्ते अमावास्यायामिति। अमावास्यायामतीतायां शुक्लप्रतिपदमारभ्य सोमस्य कलावृद्ध्याऽऽप्यायनं भवति। चतुर्थप्रपाठकस्यान्त्यानुवाके समाम्नास्यमाने ऋचौ विधत्ते नवोनव इति। ते एते ऋचो तत्रैव व्याख्यास्येये। प्रथमायामृच्यन्ते दीर्घमायुस्तिरतीत्युक्तत्वात्तत्पाठेनाऽऽयुष्प्राप्तिः। अमावास्यायामादित्ये प्रविष्टानां चन्द्रकलानां पुनरादित्यादेव चन्द्रेण लब्धत्वाच्चन्द्रोत्कर्ष आदित्यस्यैवोत्कर्ष इति कृत्वा तस्या ऋच आदित्यचराववैयधिकरण्यम्। द्वितीयस्यामृच्याप्याययतीति श्रवणात्तयर्चा यजमानस्याऽऽप्यायनं युक्तम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।”

(अथ द्वितीयकाण्डे तृतीयप्रपाठके षष्ठोऽनुवाकः)। (अन्नादनशक्तिकामस्येष्टिविधिः)
षष्ठेऽन्नादनकामस्य त्रिधातुर्यांग ईरितः ।
“षष्ठे त्वन्नादनशक्तिकामस्येष्टिं विधातुं प्रस्तौति प्रजापतिरिति । प्रजापतिरत्तुं योग्यमन्नं देवेभ्यो विभज्य तवेदं तवेदमित्यादिशत्। तस्मादन्नं स्वीकर्तुं प्रवृत्तान्देवान्प्रत्येवमब्रवीद्यदन्नमिमाल्ँ लोकानभिव्याप्यातिरिक्तं भवति तन्ममास्त्विति। तद्वक्ष्यमाणमन्नमिमाल्ँ लोकानभिव्याप्यातिरिक्तमासीत्। क इमे लोका इत्युच्यन्ते -इन्द्रराजादिशब्दाभिधेया एवेमे लोका इन्द्रराजादीनां पृथिव्यादिलोकत्रयपालकत्वात्। एवमुक्त्वा स प्रजापतिरिन्द्रराजादील्लोँकांस्त्रेघाऽदुहत्। तेभ्यो लोकेभ्यस्त्रिविधं सारं गृहीतवानित्यर्थः। तदिदं सारं प्रजापतिः स्वप्रियत्वेन स्वीकृतवाल्लोँकातिरिक्तमन्नम्। यस्मात्वेधा दोहनमकरोत्तस्मात्त्रिधातुनाम्नो यागस्य विधातुत्वं संपन्नम्। लोकेभ्यो दुग्धास्त्रयो धातवो भागा यास्मिन्यागे स यागस्त्रिधातुः।। अथ विधत्ते यं कामयेतेति। यं यजमानमुद्दिश्याध्वर्युः कामयेतायं यजमानोऽन्नादः स्यदिति तस्मै यजमानायेयमिष्टिः। अथं भूलोकाधिपतिरिन्द्रो राजा। अयमन्तरिक्षाधिपतिरिन्दोऽधिराजः। असौ स्वर्गलोकाधिपतिरिन्द्रः स्वराट्। इमानेव लोकाल्लोँकाधिपतीनिन्द्रराजादीन्स्वेन भागधेयेन सेवते। यथा लोके वत्सेन वत्सचोषणेन प्रत्तां प्रस्नवनं प्रापितां गां जनो दोग्धि, एवमेवेमाल्ँ लोकान्प्रत्तान्देवैरभिवर्धितान्प्राप्यस्वाभीष्टमन्नाद्यं लभते।। अत्र यदुक्तं सूत्रकारेण – “अथैनं त्रिधातुमेकादशसूत्तानेषु कपालेष्वधिश्रयति प्रथमं पुरोडाशमधिश्रित्य परिदपनान्तं कृत्वा तस्मिन्नुपरि द्वितीयं ज्यायांसमधिश्रित्य तावदन्तमेव कृत्वा तस्पिन्नुत्तरं ज्यायांसवधिश्रयति प्रचरणकाले दक्षिणार्धात्प्रथमां देवतां यजेन्मध्याद्द्वितीयामुत्तर्धांत्तृतीयां सर्वेषामभिगमयन्नवद्यति” इत्युक्तम् (ति)। “प्राच्यां दिशि त्वमिग्द्रेति तिस्र ऋचो व्यत्यासमन्वाह प्रथमामनूच्य मध्यमया यजेन्मध्यमामनूच्योत्तमया यजेदुत्तमामनूच्य प्रथमया यजेदेवं सर्वा याज्याः पुरोनुवाक्याश्च भवन्ति” इति (च)। तत्राधिश्रयणं विधत्ते उत्तानेष्विति। प्रकृतावधोमुखानां कपालानामुपरि पुरोडाशावधिश्रयति। अत्रापि तथात्वे यातयामत्वं गतसारत्वं तत्परिहारायोत्तानत्वम्। पुरोडाशसंख्यां प्रशंसति। "
त्रयः पुरोडाशा इति। ज्यायस्त्वं विधत्ते उत्तरउत्तर इति। भूलोकादन्तरिक्षं ज्यायस्तस्मादपि स्वर्गो ज्यायान्। ऊर्ध्वाधोभावेन स्थितानां सर्वेप्षां पुरोडाशानामंशमभिलक्ष्य यथा युगपदेव हस्तप्राप्तिर्भवति तथाऽवदानं विधत्ते—
सर्वेषामिति। छम्बट्कारो वैयर्थ्यम्। एकस्यापि पुरोडाशस्य यथा वैयर्थ्यं न भवति तथेत्यर्थः। याज्यानुवाक्यासु विपर्यासं विधत्ते व्यत्यासमिति। अविनाशायेत्यर्थः। व्यत्यासाभावे ह्यृचां त्रित्वाद्धवींषि विनश्येरन्नेकैकस्य हविषः पृथग्याज्यानुवाक्योः संपादयितुमशक्यत्वात्। सूत्रोक्तप्रकारेण तु व्यात्यासेन षडृचः संपद्यन्त इति नास्ति हविर्नाशः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्ण-
यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
षष्ठोऽनुवाकः ।। ६ ।।

(अथ द्वितीयकाण्डे तृतीयप्रपाठके सप्तमोऽनुवाकः)। (इन्द्रियसामर्थ्यशरीरसामर्थ्यकामस्येष्टिविधिः)
सप्तमे सर्वपृष्ठोक्ता वीर्यकामाभिशस्तयोः ॥ १६ ॥
अथेन्द्रियसामर्थ्यं शरीरसामथ्यं च कामयमानस्येष्टिं विधातुं प्रस्तौति
“देवासुरा इति। पराजिग्यानाः पराजयं प्राप्नुवन्तो देवा असुराणां संबन्धि वैश्यं प्राप्ताः विशो भावो वैश्यम्, असुरसेवकप्रजारूपत्वमित्यर्थः। तदानीं तेषां यदिन्द्रियसामर्थ्यं यच्छरीरसामर्थ्यं तदुभयं तेभ्यो देवेभ्योऽपाक्रामत्। इन्द्रस्तद्विदित्वा तत्सामर्थ्यद्वयमनु स्वयमप्यवरोद्धुमकामत्। गत्वा च तदवरोद्धुं नाशक्नोत्। तदानीमिन्द्रोऽस्मात्सामर्थ्यद्वयादभिप्राप्तार्धः सन्नचरत्। तत इतरार्धप्राप्त्यर्थं प्रजापतिमुपसेव्य सर्वपृष्ठयेष्ट्या संपूर्णं प्राप्तवान्। रथंतरबृहद्वैरूपवैराजशाक्वररैवतसाध्यानि सर्वाणि पृष्ठस्तोत्राणि तैर्युक्त इन्द्रोऽत्र देवता। तस्मादियमिष्टिः सर्वपृष्ठा। नात्र स्तोत्रपाठः प्रयोक्तव्यः, किं तु स्तोत्राभिज्ञत्वं देवताया विशेषणम्।। इदानीं विधत्ते य इन्द्रियकाम इति। राथंतरादिगुणाविशिष्टाः षडिन्द्रविशेषा एता एव देवता इत्युच्यन्ते।।तान्देवताविशेषान्विधत्ते यदिन्द्रायेति। पृष्ठस्तोत्रनिष्पादकं रथंतरं साम वेत्तीति राथंतरः। एवं बार्हतादिषु योज्यम्। अग्नीन्द्रादीना रथंतरादिसामाभिमानित्वाद्राथंतरत्वादिविशेषणैस्तदीयतेजः प्राप्तिर्भवति। पूर्वोक्तत्रिधाताविव विशेषं विधत्ते—”
“उत्तानेष्विति। अत्र निर्वापविधिभेदात्पुरोडाशषट्कप्राप्तेस्तदपवादायैकत्वं विधत्ते द्वादशकपाल इति। अन्यत्र वैश्वदेवं द्वादशकपालं ग्रामकाम इत्यादि विधानात्कपालगतद्वादशसंख्या विश्वेषां देवानां प्रिया। अतोऽत्रापि यथोक्तगुणविशिष्टानां विश्वेषामिन्द्रादिदेवानां प्राप्तिर्भवति। यदुक्तं सूत्रकारेण—सर्वपृष्ठां निर्वपति यदिन्द्राय राथंतरायेति यथासामाभ्नातं द्वादशसूत्तानेषु कपालेष्वधिश्रयति प्रचरणकाले पूर्वार्धात्प्रथमां देवतां यजत्येवमितराः प्रदक्षिणमुत्तरापवर्गं समन्तं पर्यवद्यति इत्युक्तम् ति)। अभि त्वा शूर नोनुम इति षड्ऋचो व्यत्यासमन्वाहेति (ह) कदा चन स्तरीरसीति चतुर्थं दधाति इति च। तत्र पूर्वार्धादित्यादिनोक्तं सर्वतोऽवदानं विधत्ते समन्तमिति। चतुर्थप्रपाठकस्यान्त्यानुवाके समाम्नास्यमानाना त्वा शूर नोनुम इत्यादीनां पञ्चानामृचां चतुर्थीत्वेन प्रक्षेष्यमाणायाः चन स्तरीरसीत्यस्याश्च पूर्वोक्तत्रिधातुन्यायेनैकैकस्याःपुरोनुवाक्यात्वं याज्या विधत्ते व्यत्यासमिति। चोदकप्राप्तामन्वाहार्यदक्षिणां बाधितुं विधत्ते अश्व ऋषभ इति। अविजातौ पुमान्वृष्णिः अजजातौ पुमान्वस्तः वृषत्वाय पुस्त्वाधिक्याय। मिथ्यापवादपरिहारार्थं तामेवेष्टिं विधत्ते एतयैवेति। एता राथंतरेन्द्रादयो देवता अस्यान्नं पुरोडाशरूपं यद्यदन्ति तदानीं मनुष्याः सर्वथाऽप्यदन्त्येव वैदमनूच्याचार्योऽन्तेवासिनमनुशास्ति इत्यादौ शिष्यानुशासने शिष्यस्य मिथ्यापवादयुक्तेषु व्यवहारसंदेहे साति शिष्टाचारेण निर्णय आम्नातः-“यथा ते तेषु वर्तेरन्, तथा तेषु वर्तेथाः” इति। यदा मनुष्येष्वपि शिष्टानामाचारो नियामकस्तदा देवतानामाचारो नियामक इति किमु वक्तव्यमिभिप्रेत्यादन्त्येवेत्यवस्थापितम्। "
अथ मीमांसा।
तृतीयाध्यायस्य पञ्चमपादे चिन्तितम्— “रथंतरादिभिर्भिन्ना इन्द्रास्तेषां न भिद्यते। पुरोडाशस्तत्र शेषकार्य किं भिद्यते न वा। भिद्येत कर्मणां भेदाच्चोदकैः पृथगुक्तितः। शेषस्य सर्वतुल्यत्वात्तत्कार्यं सकृदिष्यताम्।।”
(य) इन्द्रियकामो वीर्यकामः स्यात्तमेतया सर्वपृष्ठया याजयेदिति विहितायामिष्टौ षडिन्द्रा एवं श्रूयन्ते—“इन्द्राय राथंतरायेन्द्राय बार्हतायेन्द्राय वैराजायेन्द्राय शाव्करायेयन्द्राय रैवताय” इति। तत्र स्वरूपेणैकोऽपीन्द्रः पृष्ठस्तो त्रेषु षट्सु विहितानां षण्णां रथंतरादिसाम्नां संबन्धेन विशेष्यमाणः षोढा भिद्यते। तासां सर्वासामिन्द्रदैवतानामेक एव पुरोडाशो विधीयते—“द्वादशकपालः पुरोडाशो भवति वैश्वदेवत्वाय” इति। तस्मिन्पुरोडाश उक्तदेवताभ्यः पृथक्प्रदानाय बहुभ्यः प्रदेशेभ्योऽवदानं श्रूयते “समन्तं पर्यवद्यति” इति। तत्र देवता प्रदेन प्रदानभेदेन च कर्मणां भेदे सति चोदकैः पृथगतिदेशात्स्विष्टकृदिडादि शेषकार्यं षट्कृत्वः पृथक्कर्तव्यमिति चेन्मैवम्। शेषस्यैकत्वेन तत्प्रतिपत्तेः पृथक्त्वासंभवात् तस्मात्सकृदेव कार्यम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
सप्तमोऽनुवाकः ।। ७ ।।

(अथ द्वितीयकाण्डे तृतीयप्रपाठकेऽष्टमोऽनुवाकः)। (चक्षुष्कामस्येष्टिविधिः)
अष्टमे दृष्टिकामस्य त्रिहविष्केष्टिरीरिता ।
अथाष्टमे चक्षुष्कामस्य त्रिहविष्कामिष्टिं विधातुं प्रस्तौति । “रजनो वा इति । रजननामकः कश्चित्पुरुषः ऋतुजिन्नामकं पुरुषमयात्प्राप्नोत्। रजनः कुणेरपत्यं, ऋतुजिच्चनकस्यापत्यं, स तु चक्षुर्वन्यश्चक्षुषो दृष्टिर्वननं संभजनं तदर्हतीति चक्षुर्वन्यः, रोगोपहतां दृष्टिं समाधातुं शक्त इत्यर्थः। अतो दृष्टिपाटवाय ऋतुजितं प्राप्य त्रिहविष्कयेष्ट्यात्पाटवं प्राप्तवान्।। विधत्ते यश्चक्षुष्काम इति। भ्राजस्वते दीप्त्याधिक्ययुक्ताय। उन्मेषनिमेषसद्भावान्मनुष्यदृष्टिरनित्या। अग्निश्च कदाचिज्जवति कदाचिदुपशाम्यति। तस्मादनित्यत्वसाम्यलक्षणेन मनुष्यदृष्टेरग्नेश्च संबन्धः। देवानां त्वनिमिषत्वात्सूर्यप्रकाशवन्नित्या तदीया दृष्टिरित्यस्ति तस्याः सौर्यसंबन्धः।। आग्नेयद्वयमध्यवर्तिनासिकासाम्येन प्रशंसति यदाग्नेयाविति। तेनाऽऽग्नेयद्वयेनास्मिन्यजमाने चक्षुषोः प्रतिष्ठा। तेन सौर्येण नासिकायाः प्रतिष्ठा। नासिकया चक्षुषी विधृते परस्परामिश्रणाभावाय विविधत्वेन स्थापिते। अत्राऽऽग्नेयस्य प्रथमस्योदग्ने शुचस्तव शुक्रा इति पुरोनुवाक्या, ज्योतिषा बृहता भात्यग्निरिति याज्या।। चरमस्य मन्त्रान्तरशङ्कां वारयितुं विधत्ते समानी इति। समानी एकविधे। यदुक्तं सूत्रकारेण—चतुर्धाकरणकाले सौर्यात्त्रीन्पिण्डानुद्धृत्योदु त्यं जातवेदस सप्त त्वा हरितो रथे चित्रं देवानामुदगादनीकमिति पिण्डान्यजमानाय प्रयच्छति तान्यजमानः प्राश्नाति इति। तत्र त्रिभिर्मन्त्रैः पिण्डदानं विधत्ते "
उदु त्यमिति। उदु त्यं चित्रं देवानामित्येतदुभयं प्रथमकाण्डस्य चतुर्थप्रपाठके व्याख्यातम्। सप्त त्वा हरित इत्येषा तूपरितनस्य प्रपाठकस्यान्त्यानुवाके समाम्नास्यमानत्वात्तत्रैव व्याख्यास्यते। तस्य यजमानस्य रोगोत्पत्तेः पुरा यदेव चक्षः पाटवोपेतमासीत्तत्पिण्डदानेन दत्तमेव भवति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु र्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठकेऽ-ष्टमोऽनुवाकः ।। ८ ।।

“(अथ द्वितीयकाण्डे तृतीयप्रपाठके नवमोनुऽवाकः।)(सांग्रणीष्टिविधिः)
इष्टिः सांग्रहणी प्रोक्ता नवमे ग्रामकामिनः (णः)॥ १७ ॥
अथ नवमे सांग्रहणीष्टिं विधास्यन्नादौ चोदकप्राप्तान्गन्धर्वोऽसि विश्वावसुरित्यादिकान्परिधिमन्त्रानपवदितुं मन्त्रान्तराणि दर्शयति ध्रुवोसीति। हे मध्यमपरिधे त्वं स्थिरोसि त्वदीयस्थापनेनाहमपि ज्ञातिषुमध्ये स्थिरो भूयासम्। किंच, धैर्यवानभिज्ञो धनवांश्च भूयासम्। एवं दक्षिणोत्तरपरिधिमन्वयोर्व्याख्या। ज्ञातीनां प्रतिवादित्वराहित्यायाज्ञाधारित्वमुग्रत्वम्। आज्ञामुल्लङ्घ्य प्रतिवादिनस्तिरस्कृत्वमभिभत्वम्। परिधिमन्त्रानाम्नायोपहोममन्त्रान्पठति आमनमस्येति। अत्र सजाताः कुमारा इति पदभेदमवलम्ब्यावशिष्टानुषङ्गेण मन्त्रद्वयं द्रष्टव्यम्। सजातानाकामयितुं मनुत इत्यामनम्। हे हूयमाना ज्य त्वं तादृशमसि। अत आमनस्य सजातानाकामयितुं मन्वानस्य यजमानस्य ये सजाता ज्ञातिप्रभृतयः समनसः समनस्का अनुकूलाः सन्ति हे देवास्तान्सजातानहं हृदा चित्तेन कामये। ते च मां हृदा कामयन्ताम्। तान्सजातान्मे मदर्थमामनोस मामाकामयितुं मन्वानान्कुरु। इदमाज्यं स्वाहुतम्। एवं कुमारमन्त्रस्त्रीमन्त्रौ व्याख्येयौ। इदानीमिष्टिं विधत्ते वैश्वदेवीमिति। मनसा परस्परमैकमत्येन सम्यक्स्वीकारः संग्रहणम्। तद्यस्यामिष्टावस्ति सा सांग्रहणी। तदेतदभिप्रेत्येष्टिविशेषणं प्रशंसति सांग्रहणीति। ज्ञातिमनसः स्वाधीनत्वेन ग्रहणं मनोग्रहणं, तदेव सम्यग्ग्रहणमित्युच्यते। ततः सांग्रहण्येष्ट्या सजातानां मनांसि स्वाधीन करोति। आदावाभ्नादान्मन्त्रान्विनियुङक्ते-”
ध्रुवोसीति। त्रिष्वपि मन्त्रेषु भूयासमित्यभिधानादाशासनं गम्यते। किं चैवं विदुषस्तैर्मन्त्रैः परिधाने सति सजातेषु मध्ये मन्त्रैः प्रार्थितम सर्वमधिकं संपद्यते। मन्त्रान्तराणि विनियुङक्ते आमनमसीति। अत्र सजाता ईत्यन्ते मन्त्रभागे सप्रनस इत्याद्युक्तभागोनुषञ्जनीयः। कुमारा इत्यादिके मन्त्रभाग आमनमसीत्यादिमन्त्रपूर्वभागोनुषञ्जनीयः। तथा सति त्रिभिर्मन्त्रैराहुतित्रयं संपद्यते। स्वकुले स्वजातिषु मध्येमे च ये महान्तः पुरुषाः प्रौढा ये च क्षुल्लका बाला याश्च पत्नीभगिनीमात्रादयः स्त्रिय एतावन्त एवापेक्षिताः सजातास्ताननयेष्ट्या स्वाधीनान्करोति। ते च जना स्वाधीना एव सन्त एनं सेवन्ते। अत्र विनियोगसंग्रहः– ‘सांग्रहण्यां तु परिधीन्परिधत्ते ध्रुवस्त्रयात्। आमनेति त्रिभिस्तत्र उपहोमास्त्रयो मताः।। मन्त्रभेदः सजातेति कुमारेति पदद्वयात्’ ।।
“अत्र मीमांसा। दशमाध्यायस्च श्चतुर्थपादे चिन्तितम्। आमनाहुतिभिर्बाध्या अनुयाजा न वाग्रिमः। वित्वलिङ्गादिशिष्टोक्तेर्भेदो मध्योक्तितोन्तिमः ’।। इति। ‘सांग्रहणीष्टौ श्रूयते— आमनस्यामनस्यदेवा इति तिस्र आहुतीर्जुहोति’ इति। एताभिस्तिसृभिराहुतिभिः प्राकृतास्रयोनूयाजा बाध्याः। कुतः। त्रित्वलिङ्गात। पूर्वाधिकरणे सप्तदशसंख्याविशिष्टप्राकृतपश्वभावेन मा भूद्बा ध्यत्वम्। इह तु त्रित्वविशिष्टत्वादनूजाया बाध्यन्ताम्। यदा– तदनुवादेन मन्त्रगुणविधानात्प्राकृतमन्त्रबाध इति पूर्वः पक्षः। किं त्रित्वमात्रमनूद्य मन्त्र सहिता आहूतयो विधियन्ते, आहोस्वित्रित्वविशिष्टा आहुतीरनूद्य मन्त्रविधिः आद्ये त्रित्वनग्न्यादिष्वपि सत्वेन नानूयाजलिङ्गम्। द्वितीये विशेषणविशेष्ययोरुद्देश्ययोरेर्भेदेन वाक्यं भिद्येत। तत्कर्मान्तरविधानान्न वाधः, किंतु समूच्चयः। तत्र मध्योक्तिर्लिङ्गम्। तथा चाम्नायते—“यत्प्रयाजानूयाजानां पुरस्ताद्वोपरिष्टाद्वा जुहूयाद्बहिरात्मन्सजातामादधीताथ यन्मध्यतो जुहोति मध्यत एव सजातानात्यन्धते” इति। तस्मादामनहोमानामनूयाजैः सह समुच्चयः।।”
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
नवमोनुवाकः ।। ९।।

“(अथ द्वितीयकाण्डे तृतीयप्रपाठके दशमोनुवाकः)। (आयुष्कामेष्टिमन्त्राः)
इष्टेर्विधास्यमाताया दशमे मन्त्र ईरितः ।
अथ व्यवहितेनैकादशानुवकेनायुष्कामेष्टिं विधित्सुर्दशभे तन्मन्त्रान्पठति। कल्पः—“यन्नवमैतन्नवनीतमभवदित्याज्यमवेक्ष्य” इति। अनेन प्राकृत आज्यमसीत्यवेक्षणमन्त्रो बाधितः। पाठस्तु यन्नवमैत्तमिति। यद्यस्मात्कारणाद्दघ्न उदध्रियमाणं सन्नवमैन्नवं नूतन रूपमभवत्तस्मान्नवं च तन्नीतं चेत्युद्धृतस्य सारपिण्डस्य नवतीतनाम संपन्नम्। यद्यस्मात्कारणादग्निसंपर्के सति पिण्डो विलीयमानोसर्पत्प्रसृतोभूत्तस्मात्सर्पिरिति नाम। यस्मात्प्रसृतस्य शीतलपात्रस्थापनेन तत्पुनरध्रियत तद्घनीभूतमभवत्तस्माद्घृतमिति नाम। घृक्षरणदीप्त्योरिति धातोर्नैतद्रूपं किंतु घृतमित्यत्र घकारस्य घकारादेशः। कल्पः—“उपहोमकालेश्विनोः प्राणोसीत्येतैः प्रतिमन्त्रं चतुर उपहोमाञ्जुहोति” इति। पाठस्तु अश्विनोरिति। हे यजमान त्वमश्विनोः प्राणोसि प्राणवत्प्रियोसि। तस्वाद्ययोः प्राणोसि तावश्विनौ तस्य ते प्रियस्य तवायुर्हेतुभूतं प्राणं दत्ताम्। प्राणिमित्येतत्सामर्थ्याल्लभ्यते। तयोरश्विनोरिदमाज्यं स्वाहुतमस्तु। एवमुत्तरेषु योज्यम्। कल्पः—“यत्खादिरं आज्यं तदग्रेणाहवनीयं पर्याहृत्य तेन दक्षिणस्यां वेदिश्रोण्यामासादयति तद्यजमानोवेक्षते घृतस्य धारममूतस्य पन्थामिति ” इति। पाठस्तु घृतस्य धारमिति। घृतस्य धारमवेक्षेतेत्यध्याहारः। कीदृशीं धारम्। अमृतस्य पन्थां कर्मफलस्य साधनत्वेन मार्गभूताम्, इन्द्रेण वृष्टितृणोत्पत्यादिपरम्परया दत्तां संपादिताम, मरुद्भिर्वैश्याधिपैः प्रयतां *क्रयणभाण्डेषु प्रयत्नेन धृताम्। हे घृत तत्वा तथाविधं त्वां विष्णुसदृशो यजमानः पर्यपश्यत्परिपश्यति। इडा पश्वाभिमानीनी देवता तादृशं त्वां गव्यैरयत्प्रेरयति गोषु स्थापयति। कल्पः “अथास्य ब्रह्मा दक्षिणं हस्तं गृह्णाति ब्रह्मण इतर ऋत्विजो हस्तमन्वारभ्य यजमानं पर्याहुः पानमानेन त्वा स्सोमेनेति” इति। पाठस्तु पावमानेनेति। हे यजमान त्वां सविता देव उत्सृजतु दीर्घरोगान्मोचयतु। केन साधनेन। बहिष्पवमानादीना संबन्धिना त्रिवृदादिस्तोमसाध्येन स्तोत्रेण, गायत्रस्य वर्तन्या गायत्रवच्छन्दसो यो मार्गस्तेन सोमाहरणरूपेण यज्ञाङ्गसंपादनेन, उपांशोर्वीर्येणोपांशुग्रहहोमसामर्थ्येन। अत्र प्रतिसाधनं वाक्यभेदेनान्वेतुं त्वेतिशब्दस्य पुनरुक्तिः। किमर्थमुत्सृजत्विति तदुच्यते। जीवातव जीवनहेत्वौषधादिसंपादनाय। तदपि किमर्थमिति तदुच्यते। जीवनस्यायै चिरं जीवितुमिच्छा जीवनस्या तदर्थम्। एवं द्वितीयतृतीयमन्त्रौ योजनीयौ। अग्नेर्मात्रयामीयतेग्निर्यया गीत्या सा गीतिर्मात्रायज्ञायज्ञियस्य गानमित्यर्थः। कल्पः ‘अथ यजमानो हिरण्याद्वृतं निष्पिबतीममग्न आयुषे वर्चसे कृघीतिप्राश्रन्तमभिमन्त्रयते” इति। पाठस्तु *विक्रयाय भाण्डेषु संचितामिति ख, पुस्तकस्य पाठान्तरम्। इममग्न इति। हेग्न इमं यजमानं दीर्घायुषे बलाय च समर्थं कुरु। हे वरुण हे सोम राजन्नस्य यजमानस्य प्रियं रेतः पुत्रोत्पादकं संपादय। हेदितेपृथिवि मातृवदस्मै सुखं प्रयच्छ। विश्वे देवा अयं यजमानो यथा जरदष्टिरसत्तथा कुर्वन्तु। जराया अष्टिर्व्याप्तिर्यस्यासौ जरदष्टिः। बाल्ये यौवने च मरणरहितो जरामायुःसंपूर्तिपर्यन्तां यथा व्यप्नोति तथा कुर्वन्त्वित्यर्थः। कल्पः– ‘अग्निरायुष्मानित्यनुवाकशेषेणास्याध्वर्युर्दक्षिणं हस्तं गृह्णाति’ इति। पाठस्तु "
अग्निरायुष्मानिति। अग्निरायुष्मान्भवति। तत्कथमिति तदुच्यते। सोग्निर्वनस्पतिभिरायुष्मान्काष्ठेषु प्रक्षिप्यमाणेषु ज्वालापरम्परया वर्धते न तूपशाम्यति। तेनाग्नेरायुषाभिवर्धमानेन त्वमायुष्मन्तं करोमि। एवमुत्तरत्र योज्यम्। सोमः सोमरस ओषधीष्वभिषूयमाणासु वर्धते। यज्ञो दक्षिजाभिर्वशीकृतेष्वृत्विक्षु वर्धते। वेदश्च ब्राह्मणेष्वध्यापकेषु अविच्छेदेन वर्धते। देवाश्च हवीरूपेजामृतेन जीवन्ति। पितरश्च स्वधाकारपूर्वकेण पिण्डादिना जीवन्ति। प्रतिवाक्यमनुषङ्गद्योतनाय तेनत्वायषेति पनः पठ्यते। अत्र विनियोगसंग्रहः ‘ज्योगामयाविनस्त्विष्टौ यन्नवेत्याज्यमीक्षते। अश्विनोरुपहोमा स्युर्घृत स्वाम्याज्यमक्षिते।। स्पृष्ट्वार्त्विजो ब्रह्महस्तं पावेति स्वामिनं जगुः।
इमं घृतं पिबन्तं तु स्वामिनं मन्त्रयेत हि।। अग्निः सोमश्च यज्ञश्च ब्रम्ह देवाः पितेति षट्। यथोचितानुषङ्गैस्तैर्गृह्णीते स्वामिहस्तकम् । दशमे त्वनुवाकेस्मिन्मन्त्राः षोडश वर्णिताः।।” इति। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे दीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके दशमोनुवाकः ।। १०।।

“(अथ द्वितीयकाण्डे तृतीयप्रपाठक एकादशोनुवाकः)। (आयुष्कामेष्टिविधिः)
इष्टेर्विधास्यमाताया दशमे मन्त्र ईरितः ॥ १८ ॥
अथैकादशे तामिष्टिं विधातुं प्रस्तौति अग्निं वा इति। यं दीर्घव्याधिः पीडयति एतस्य शरीरमग्निं प्रविशति, मांसभक्षणेन कृशत्वात्। सोमेन रसस्वीकाराद्वलक्षयः। वरुणपाशेन ग्रहणादुदरादिव्यथा। सरस्वतीमेतदीया वाग्भाषा गच्छति, तेनायं भाषितुं न शक्नोति। जीवात्मा त्वग्नाविष्णू प्राप्नोति, तेन मुमूर्षति। इदानीं विधत्ते यो ज्योगामयावीति । ज्योगामयाविनो रोगपरिहारार्थमरोगस्य चापमृत्युपरिहारार्थमियं पञ्चहविकेष्टिः मन्त्रं विनियुङ्क्ते यन्नवमैत्तदीति। मन्त्रोक्तैर्नवनीतसर्पिर्घृतनिर्वचनैरस्याज्यस्यैतद्विद्यमानरूपं महिमानं ख्यापनाय मन्त्रौ व्याचष्टे। यद्वा मन्त्रस्यैतत्स्वरूपमेव घृतस्य महिमानं व्याचष्टे। मन्त्राक्षरेरेव स्पष्टं प्रतीयते नाव पृथग्वक्तव्यमस्तीत्यर्थः। उपहोममन्त्रान्व्याचष्टे अश्विनोरिति। यजमानस्याज्यावेक्षणमन्त्रे स्पष्टार्थतां दर्शयति”
“घृतस्येति। ऋत्विग्भिः पठ्यमानानां मन्त्राणां तात्पर्य दर्शयति पावमानेनेति। पवमानस्य वायोः प्राणरूपत्वात्तेन प्राणस्थापनं, बृहद्रथंतरयोः पृष्ठस्तोत्रप्रकृतित्वेन सारत्वात्तेनौजोधारणम्। अग्नेरात्मा मीयतेनयेत्युक्तत्वात्तेनात्मस्थापनम्। एतेषां पाठं विधत्ते ऋत्विज इति। पाठकाले हस्तग्रहणं विधत्ते ब्रह्मणो हस्तमिति। एकधैव सर्वषामृत्विजामैकमत्येनैव यजमानस्य यदेषायुः संपादनीयमस्ति तत्सर्वं तस्मिन्यजमाने स्थापयन्ति। यदुक्तं सूत्रकारेण—-‘पात्रसंपादनकाले खादिरं पात्रं चतुस्रक्ति प्रयुङक्ते ,सौवर्णस्य प्रवर्तं शतमानस्य कृतम्, अथो खलु यावतीः समा एष्यन्मन्येत वावन्मान स्यात्’ इति। आज्यग्रहणकाले तूष्णीं खादिरे चतुर्गृहीतं गृहीत्वा सादनकाल उत्तरेण ध्रुवां खादिरं सादयित्वा तस्मिन्प्रवर्तमवदधाति” इति च। प्रवर्तः कर्णाभरणं कुण्डलम्। (तत्र घृते स्थापितात्प्रवर्तान्निष्पीडितस्य घृतस्य पानं विधत्ते हिरण्यादिति। तस्य परिमाणं द्वेधा विधत्ते शतमानमिति। शतमानं पञ्चपणपरिमितमित्यसकृदुक्तम्। अथवा रुग्णो यजमानो योवतो भाविनः संवत्सरान्प्राप्नोत्वित्यध्वर्युर्युर्मन्यते तावद्भिर्मानैः परिमितं कर्तव्यम्। मानशब्दो गुञ्जाबीजं ब्रूते। रुग्णस्यातीतमायुः परित्यज्या गामिन आयुषो यावन्तः संवत्सरा एतस्य मनसि निश्चितास्तावद्भिर्गुञ्जाबीजैः परिमितमित्यर्थः। प्राश्नतो यजमानस्याभिमन्त्रणमन्त्रे प्रथमचरमभागयोरभिप्रायं दर्श यति इदमग्न इति। आयुषञ्चरमभागस्थाया जराया अष्टिर्व्याप्तिर्यस्य। अथवा जीर्यत्यष्टिरशनं यस्यासौ जरदष्टिः नीरोग इत्यर्थः। अध्वर्यार्यजमानदक्षिण हस्तग्रहणं विधत्ते अग्निरायुष्मानिति। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायभाष्ये द्वितीयकाण्डे तृतीयप्रपाठक एकादशोनुवाकः।। ११।।”

“(अथ द्वितीयकाण्डे तृतीयप्रपाठके द्वादशोऽनुवाकः) । (अश्वदानवत इष्टिविधिः)
एकादशे त्विष्टिरुक्ता दीर्घरोग्यायुरर्थिनोः । अथ द्वादशेऽश्वदानवत इष्टिं विधास्यन्प्रस्तौति प्रजापतिरिति । अनयद्दत्तवान् । देवस्य भावो देवता । स प्रजापतिः स्वकीयं देवत्वमार्छदार्तमकरोत् । प्राजापत्यो वा अश्व इति श्रुतेः प्रजाप्रतिरेव पूर्वमश्वस्य देवता । तस्मिन्नश्वे वरुणाय दत्ते सति स्वकीयमश्वस्वामित्वम् अपगतं तन्निमित्तेन दुःखेन स प्रजापतिः पर्यदीर्यत तदीयं परितो दीर्णं दीर्घरोगग्रस्तमभूत् । स च रोगो वरुणपाशरूपत्वाद्वारुणेष्ट्या निवृत्तः ।
इदानीमिष्टिं विधत्ते - वरुणो वा इति । प्रतिगृह्णातीत्यस्यान्तर्भावितण्यर्थत्वात्प्रतिग्राहयति ददातीत्ययमर्थः संपद्यते । कपालसंख्यां प्रशंसति चतुष्कपाला इति । अश्वसंख्यातोधिऽकं पुरोडाशं विधत्ते एकमतिरिक्तमिति । यमेवाश्वमित ऊर्ध्वं यदा कदाचित्कालान्तरे प्रतिग्रहीष्यति दास्यति, अथवा यं कंचिदश्वं प्रतिगृहीतं नाध्येति विस्मरति तदर्थोऽयमतिरिक्तः पुरोडाशः । निमित्तविशेषेणाङ्गाधिक्यं विधत्ते - यद्यपरमिति । कांश्चिदश्वान्दत्वा तदानीमेवेष्ट्यनुष्ठाने सत्येकेनातिरिक्तेन सहितास्तावन्तः पुरोडाशाः पर्याप्ताः । यदा तु दानानन्तरमेवेष्टिर्नानुष्ठिता किंतु कंचित्कालमतिलङ्घ्य पुनरप्यपरोऽश्वो दत्तस्तदा सातिरिक्तान्दत्ताश्वसंख्याकान्पुरोडाशान्निरुप्य सौर्यमनुनिर्वपेत् । तेनादित्यमेवोर्ध्वचारिणं कुरुते । स चादित्यो विलम्बदोषं परिहरन्नुपरिष्टाद्वर्तत इत्यभिप्रायः । इष्ट्यङ्गत्वेनावभृथं विधत्ते - अपोऽवभृथमिति । अपः प्राप्य तत्रावभृथं कर्म कुर्यात् । तेन वरुणो निराकृतो भवति । अङ्गान्तरं विधत्ते - अपोनप्त्रीयमिति । अपो नप्ता देवता यस्य सोऽयमपोनप्त्रीयस्तं चरुमवभृथदेशाद्यज्ञभूमौ समागत्य निर्वपेत् । अप्सु योनिरुत्पत्तिर्यस्याश्वस्य सोऽयमप्सुयोनिः । उच्चैःश्रवसोऽश्वस्य समुद्रादुत्पत्तिः पुराणेषु प्रसिद्धा । तस्मादपोनप्त्रीयचरुणा तमश्वं स्वकीययोनिगामिनं करोति । स चाश्वः शान्तः सन्ररोगमनुत्पाद्यैनं यजमानं सेवते ।”
अत्र मीमांसा ।
“तृतीयध्यायस्य चतृर्थपादे चिन्तितम् -
“अश्वप्रतिग्रहेष्टिस्तु दातुरित्यभिधास्यते । दानद्वये लौकिके वा वैदिके वा भवेदियम् ॥अविशेषाद्द्वयोर्यद्वा न देयः केसरीत्यतः । निषेधाल्लौकिकात्तत्र प्रायश्चित्तित्तिरियं भवेत् ।
न जलोदरहेतुत्वं प्रमितं लौकिके क्वचित् । वैदिके तु श्रुतं तस्मात्तत्प्रायश्चित्तयेऽत्र सा ॥” इदमाम्नायते - “यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणाञ्चतुष्कपालान्निर्वपेत्” इति । तत्र प्रतिग्रहशब्दो दानपर इत्यनन्तरमेव वक्ष्यते । तत्र विशेषाश्रवणाल्लौकिकवैदिकदानयोरप्यसाविष्टिरित्येकः पक्षः । न केसरिणो ददातीति स्मृत्या मित्रदायादादिभ्यः प्रीत्या क्रियमाणमश्वदानं लौकिकं निषिद्धं, तदनुष्ठाने प्रायश्चित्तरूपेयमिष्टिरिति द्वितीयः पक्षः । “वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति” इत्यश्वदाने जलोदरव्याधिरूपो दृष्टो दोषो वरुणग्रहवाक्येनोच्यते । न च लौकिकस्याश्वदानस्य तद्धेतुत्वं प्रमितम् । वैदिकस्य तु जन्मान्तरविषयं दोषश्रवणम् । अतो वैदिकदाने सेष्टिः प्रायश्चित्तम् । अस्ति हि वैदिकमश्वदानं “वडबा दक्षिणा” इत्यादिश्रवणात् ।
अत्रैवान्यच्चिन्तितम् -
“यावतः प्रतिगृह्णीयादश्वांस्तावत्य इष्टयः । प्रतिग्रहीतुर्दातुर्वा स्यादाद्योऽस्तु यथाविधि ॥ असंजातविरोध्यर्थवादाद्दातुः प्रजापतेः । इष्टिः श्रुतां ततो दातुर्णिजर्थेऽपि विधिं नयेत् ॥”
पूर्वादाहृते वाक्ये प्रतिगृह्णीयादिति विधिपदश्रवणात्प्रतिग्रहीतुरिष्टिरिति चेन्न । उपक्रमरूपेणार्थवादेन दातुस्तदिष्टिप्रतीतेः । उपक्रमश्चैवं श्रूयते - “प्रजापतिर्वरुणायाश्वमनयत्स स्वां देवतामार्छत्स पर्यदीर्यत स एतं वारुणं चतुष्कपालमपश्यत्तं निरवपत्ततो वै स वरुणपाशादमुच्यत” इति । अनयद्दत्तवान् । स च दाता प्रजापतिः स्वकीयां वरुणदेवतां जलोदररोगप्रदां प्राप्तवान् । तेन च रोगेण ग्रस्तः प्रजापतिर्विदीर्णो भूत्वा रोगपरिहारायेष्टिं कृत्वा रोगादमुच्यतेत्यत्र दातुरिष्टित्यवगम्यते । असंजातविरोध्युपक्रमानुसारेण विधायकमपि प्रतिग्राहयेदित्येवमन्तर्भावितणिजर्थपरतया व्याख्येयम् । पञ्चमाध्यायस्य द्वितीयपादे चिन्तितम् -
“प्रतिग्रहे तु बह्वश्वे पूर्वन्यायोऽस्ति वा न वा । अस्ति तत्साम्यतो मैवं पुरोडाशस्य शोषतः ॥” ‘यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणाञ्चतुष्कपालान्निर्वपेत्’ इति । अत्र शतसंख्यादियुक्तबह्वश्वप्रतिग्रहे बहुपुरोडाशेषूदाहृतप्रत्यक्षवचनेन साहित्यं प्राप्तम् । तत्र पर्वन्यायेन सर्वेषु पुरोडाशेष्वेकैकेऽधिश्रयणादिधर्मोऽनुष्ठेय इति चेन्मैवम् । तप्तेषु चतुर्षु कपालेषु क्रमेण पुरोडाशानधिश्रित्य यावता कालेन प्रथमपुरोडाशे द्वितीयसंस्कारं कर्तुमागच्छति तावता कालेनासौ शुष्को भस्मीभवति तस्मादेकैकस्मिन्पुरोडाशे कृत्स्त्रधर्मसमापनमित्येवं काण्डानुसमयोभ्युपेतव्यः । एकादशाध्यायस्य चतुर्थपादे चिन्तितम्
‘तन्त्रे चतुष्कपालानां भेदो वा तन्महत्त्वतः । कुम्भीवत्तन्त्रता मैवं भेदः स्यात्प्रकृताविव ॥’
इदं श्रूयते - ‘यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेत्’ इति । यथा प्राजापत्येषु कुम्भ्या महत्त्वेन तन्त्रं, तथात्रापि कपालमहत्त्वेन तन्त्रमिति चेत् । मैवम् । प्रकृतौ प्रतिपुरोडाशं कपालभेदेन तद्भेदस्यैव चोदकप्राप्तेः । किंचात्यन्तविशालेषु कपालेषु चतुर्षु पुरोडाशानां शतेष्ववस्थापितेष्वेकस्यैव कपालस्यैकदशे पुरोडाशस्यैकस्य समाप्तेर्न कोऽपि पुरोडाशश्चतुष्कपालः सिध्येत् । तस्मात्प्रतिपुरोडाशं कपालचतुष्ट्वभेदः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके द्वादशोनुवाकः ॥१२॥

(अथ द्वितीयकाण्डे तृतीयप्रपाठके त्रयोदशोऽनुवाकः।) (पाप्मना गृहीतस्येष्टिविधिः) चतुष्कपाला विहिता द्वादशे त्वश्वदानिनः।
“अथ त्रयोदशे पाप्मना गृहीतस्येष्टिं विधित्सुरादौ मन्त्रान्पठति। कल्पः—‘एन्द्रावरुणं पुरोडाशं निरुप्यैन्द्रावरुणीं पयस्यां निर्वपेदुद्वास्यालं कृत्य पयस्यायां पुरोडाशमवदधात्येतयैव प्रच्छाद्यासादयत्यथास्मात्प्रतिदिशं पयस्यां व्यूहति या वामिन्द्रावरुणा यतव्या तनुरित्येतैरेव पुनः समूहति मुञ्चतमित्यस्य स्थानेमुक्तमिति मन्त्रान्तान्संनमति सहैव पयस्यायाः पुरोडाशस्यावद्यति यो वामिन्द्रावरुणावग्नौ स्राम इत्युपहोमाः’ इति। तत्र प्रथमस्य प्यूहनमन्त्रस्य पाठस्तु या वामिति। हे इन्द्रावरुणौ वां युवयोर्या तनूर्यतव्या पापाम्मोचने प्रयत्नवती तया तन्वा यजमानं पापान्मोचयतम्। द्वितीयतृतीयचतुर्थमन्त्राणां पाठस्तुं। या वामिति। सहस्येत्यत्र तनूरित्यस्यान्त्यभागस्यानुषङ्गः। तेजस्येत्यत्र या वामित्याद्यभागस्यानषङ्गःष। रक्षस्येत्यत्रोभयोर्भामनारनुषङ्गः। सहो बलं तदर्हतीति सहस्या। रक्षो रक्षणं तदर्हतीति रक्षस्या। तेजो रोचनशक्तिस्तदर्हतीति तेजस्या उपहामे प्रथममन्त्रस्य पाठस्तु यो वामिति। इन्द्रावरुणाग्नौ वां युवयोर्यः स्रामः पापविशेषो युवयोर्होमार्थे वह्नौ यजमानेन योपराधः कृतस्तमपराधं युवयोः संवन्धिनैतेन होमेनावयजे विनाशयामि। द्वितीयादीनां सप्तानां मन्त्राणां पाठस्तु यो वामिति। द्विपात्सु पशुष्वित्यत्र स्रामस्तं वामित्याद्युत्तरभागस्यामनुषङ्गः। वनस्पतिषु स्राम इत्यत्र यो वामित्यादेः प्रथमभागस्यानुषङ्गः। * चतुष्पात्स्वदिषु पञ्चसु पूर्वोत्तरभागयोरनुषङ्गः। हे इन्द्रावरुणौ युवयोः संबन्धी यो यजमानस्य द्विपात्सु पशुषु मनुष्यादिरूपेषु यः स्रामः पापविशेषस्तं पापविशेषं युवयोः संबन्धिनैतेन कर्मणा विनाशयामि। एवं सर्वत्र योज्यम्। अथेष्टिं विधत्ते *चतुष्पास्त्विति मन्त्रे तु चतुष्पात्स्वित्यनन्तरं पशुष्वितिपदस्यानुषङ्गो ज्ञेयः। इन्द्रो वा इति। य पापगृहीत एसदीयेनेन्द्रियेण सहेन्द्रोपगच्छति, वरुणो रोगेणैनं बाधते, अतः पाप्मना गृहीतस्य तदुभयविषयेष्टिः। पयसि प्रभवामिक्षा पयस्या। तां प्रशंसति पयस्येति। पयः शब्देन क्षीरादिसात्विकाहारजनितश्रध्दया कृतं पुण्यमुपलक्ष्यते। तत्पुण्यानुष्ठानमेवैतस्माद्यजमानाद्यद्यपक्रामति तदानीमेव पाप्मना गृहीता भवति। यद्यत्र हविः पयस्या भवेत्तर्ह्यस्मिन्यजमाने तया पयस्ययाहारोपलक्षितं पुण्यमाहितं भवति। यथाप्राप्तं कंचिदंशविशेषं विधत्ते पयस्यायामिति। शरीरसदृशस्य कठिनस्य पुरोडाशस्य प्रक्षेपेणैनं यजमानमात्मन्वन्तं दृढशरीरोपेतं करोति। सति हि पापे तज्जन्यरोगेण शरीरस्यादर्ढ्यम्। किंच * पयस्याधारत्वेन यजमानमप्यायतनवन्तं गृहग्रामादिरूपाधारवन्तं (करोति)। या वामिन्द्रावरुणेत्यादिमन्त्रर्हविषो विभागं विधत्ते चतुर्धेति। विभक्तस्यैकीभावं विधत्ते पुनरिति। मिश्रितयोः पुरोडाशामिक्षयोः सहाबदानं विधत्ते समृह्यावेति। यथा लोके वैरिणा मुक्तमाविध्दं स्वशरीरं बाणादिकं संदशादिना निष्कृष्य छिनत्ति तादृगेव तत्समूह्यावदानं संपद्यते। उपहोमे प्रथममन्त्रं व्याचष्टे यो वामिति। होमाधारेग्नौ कृतेन स्रामेणापराघेन दुरिष्टिर्भवति तमपराधमवजय इत्युक्त्या तस्या दुरिष्टेः सकाशादेनं यजमानं रक्षति । अवशिष्टानां मन्त्राणां तात्पर्यं दर्शयति यो वामिन्द्रेति। पशुषु स्रामस्तं वामित्येवमनुषङ्गो योजयित्वा प्रदर्शितः। प्राण्युपजीवनयोग्या अबादयः पञ्च पदार्थाः। तत्र पशुशब्देन द्विपादचतुष्पादश्च गृह्यते। गृहा () अत्रोपल्लक्ष्यन्ते। या एतावत्य उपजीवनीयास्ताः सर्वा अपि यजमानार्थं वरुणपाशादुपद्रवान्मोचयति अत्र विनियोसंग्रहः * पुरोडाशस्येति शेषः । () अपिना गोष्ठोपलक्षणमभिप्रेतम्। “यावामिति चतुर्मन्त्रैश्चतुर्धा व्यूहते हविः।”
यो वामित्यष्टभिर्मन्त्रैरुपहोमा उदीरिताः।। द्विपात्स्वित्यादिना मन्त्रभेदः सप्तविधो भवेत्।
त्रयोदशेनुवाकेऽस्मिन्मन्त्रा द्वादश कीर्तिताः।। ” इति। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय
तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके त्रयोदशोनुवाकः।। १३।।

“(अथ द्वितीयकाण्डे तृतीयप्रपाठके चतुर्दशोनुवाकः)। (काम्ययाज्यापुरोनुवाक्याभिधानम्) विहीता पापिनस्त्विष्टिरनुवाके त्रयोदशे। अथास्मिन्नन्तिमे चतुर्दशेनुवाके काम्ययाज्या (पुरोनुवाक्या) उच्यन्ते। तत्र त्रिहविष्का येयं यज्ञविभ्रष्टेष्टिस्तृतीयानुवाके समाम्नाता, प्रथमद्वितीययोर्हविषोः क्रमेण याज्यानुवाक्या (नां) प्रतीकं (कानि) दर्शयति स प्रत्नवन्निति। स प्रत्नवन्नवीयसेत्यनुवाक्या। नि काव्या वेधस इति याज्या। एतदुभयमाग्नेये हविषि द्रष्टव्यम्। तच्च हिरण्यगर्भ आपो हेत्यस्मिन्ननुवाके व्याख्यातम्। इन्द्रं वो विश्पस्परीत्यनुवाक्या। इन्द्रं नरो नामधितेति याज्या। एतदुभयमैन्द्रे हविषि द्रष्टव्यम्। तच्च प्रथमकाण्डस्य षष्ठप्रपाठके व्याख्यातम्। अथ सौम्यस्य हविषः पुरोनुवाक्यामाह त्वं नः सोमेति। अघं पापमस्मदुपद्रवमिच्छन्नधायंस्तस्मात्पापसमघाद्वि श्वतः सर्वस्मान्नोस्मान्हे सोम राजंस्त्वं रक्ष। त्वावतत्स्वादृशस्य प्रभोः सखा कश्चित्सममर्थोपि त्वदनुग्रहान्न रिष्येदस्मान्न हिनस्ति। तत्रैव याज्यामाह या ते धामानिति। हे सोम राजंस्ते तव दिवि पृथव्यादिषु च प्रदेशेषु यानि धामानि स्थानानि सन्ति। प्रतिप्रदेशं पृथगनुवादार्था यच्छब्दावृत्तिः। तेभिर्विश्वैस्तैः सर्वेः स्थानैर्युक्तः शोभनमनस्कः क्रोधरहितः सन्नोस्माकं हव्या हवींषि प्रतिगृभाय प्रतिगृहाण। यस्मिन्स्थाने त्वं स्थितस्तत आगत्य हविः स्वीकुर्वित्यर्थः। “अग्नीषोमीयमेकादशकपालं निर्वपेद्यं कामो नोपनमेत्। इत्यत्र पुरोनुवाक्यामाह अग्नीषोमेति। हेग्नीषोमौ गिरोस्मदीयाः स्तुतीर्वनतं भजतम्। कीदृशौ। सवेदसा समानज्ञानयुक्तौ। सहूती समानाह्वानयुक्तौ देवत्रा देवषु मध्ये संबभूवथुर्युवां संभूयैव सन्तौ न कदाचिदप्यन्योन्यं वियुक्तावित्यर्थः। तत्रैव याज्यामाह युवमेतानीति। हे सोम त्वमग्निश्चेत्येतौ युवां सक्रतू समानसंकल्पौ सन्तौ दिवि एतानि रोचनानि नक्षत्रादीनि अधत्तमस्थापयतम्। हेग्नीषोमौ युवां गृभीतान्सिन्धून्मध्योदकादिनिमित्तेनापूर्णत्वापवादेन पङ्कादिरूपेण दृष्टेन दोषेण च गृहीताः सर्वा नदीरभिशस्तेस्तस्मादपवादादवद्यात्पङ्कादिदृष्टदोषाच्चामुञ्चतं मोचि तवन्तौ। यद्यप्येतत्सर्वभीश्वरकृत्यं तथापि तद्रूपत्वेनैतौ स्तूयेते। “अग्नीषोभी यमष्ट कपालं निर्वपेद्ब्रह्मवर्चसकामः” इत्यत्र पुरोनुवाक्यामाह अग्नीषोमाविममिति। हेग्नीषोमौ वृषणा कामानां वर्षयितारौ युवां मे मदीयमिमे हवमाह्वानं सुष्ठु शृणुतं, सूक्तानि अस्मदीयानि प्रतिहर्यतं मनसा प्रतीगृह्णीत, दाशषे हविर्दत्तवते यजमानाय मयः सुखं भवतं संपादयतम्। तत्रैत्र याज्यामाह आन्यं दिव इति। मातरिश्वा वायुरन्यं युवयोरेक्रमग्निं दिवो द्युलाकस्या दादित्याद्यादाजभारादृतवान्। तथा चान्यत्र मन्त्र आम्नायते “आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः इति। श्येनो गायत्र्याः पक्षिरूपावतारोन्यं युक्येरिकं सोममद्रेः परि पर्वतवदुन्नततमस्य द्युलोकस्योपरि अमथ्नात्सोमरक्षकाणां तत्रत्यानां मन्थनं विलोडनं पराजयरूपं क्षोभं कृत्या समानीतवानित्यर्थः । एतच्च ‘कद्रूश्च वै सुपर्णी च” इत्यस्मिन्ननुवाके समाम्नातम्। हेग्नीषोमौ युवां ब्रह्मणा वावृधाना मन्त्रेण वर्धमानो यज्ञार्थमुरुं लोकं विस्तीर्णं स्थानं चक्रथुरुरुकृतन्तावेव। यजमानस्य फलभूतं लोकं संपादितवन्तावित्यर्थः । तत्रैव विकल्पितां याज्यामाह अग्नीषोमेति। हेग्नीषोमौ वृषणा कामानां वर्षयितारौ युवां प्रस्थित तस्य समर्पितस्य हविषः सारं वतिं प्राप्नुतं हर्यंत प्रतिगृह्णीतं जुषेथां सेवथां, सुशर्माणा शोभनसुखयुक्तै स्ववसा शोभनरक्षणोपेतौ भूतं भवतम्। हि यस्मादेवं तस्मादथानन्तरं यजमानाय यजमानार्थं शँ सुखं योः पुत्रादिमिश्रणं च धत्तं कुरुतम्। “सोमाय वाजिने श्यामाकं चरुं विर्वपेत्” इत्यत्र याज्यानुवाक्ययोः प्रतीके दर्शयति आ प्यायस्वेति। आ प्यायस्व समेतु त इत्येषा पुरोनुवाक्या। सं ते पया सीत्येषा याज्या। एते उभे चतुर्थकाण्डस्य द्वितीयप्रपाठके मा नो हि सीज्जनिता इत्यस्मिन्ननुवाके समाम्नास्येते अतस्तत्रैव व्याख्यास्येते। “ब्राह्मणस्पत्यमेकादशकपालं निर्वपेद्ग्रामकामः” इत्यत्र पुरोनुवाक्यामाह गणानां त्वेति। ब्रह्मणां ब्रह्मणस्पते हे कृत्स्नमन्त्रपते गणानां गणपतिं कृत्स्नदेवगणस्वामिनं त्वां हवामह आह्वयामः। कीदृशं त्वां कविं कवीनां विदुषां मध्ये प्रशस्तं विद्वांसम्, उपमश्रवस्तममुपमानत्वेन श्रवः कीर्तिर्यस्यासावुपमश्रवाः, सर्वगुणसंपन्नत्वेनायमेव सर्वेषां पदार्थामुपमानमित्येतादृशी कीर्तिः, अति शयेनोपमश्रवा उपश्रवस्तमस्तादृशं, राज्ञां मध्ये ज्येष्ठो ज्येष्ठराजस्तादृशम्। यथोक्तगुणोपेतस्त्वं नोस्माकमूतिभिः पालनैर्निमित्तभूतैर्बुक्त सन्सादनमस्मिन्कर्मण्युपवेशनमासीद प्राप्नुहि। तत्रेव याज्यामाह स इज्जनेनेति। स इत्स एव यजमानो अनेन किंकरादिना युक्तं वाजमर्न्न भरते दधाति। स एव विशा करप्रदया प्रजया सहितं वाजं भरते। स एव ब्राह्मणादिजन्मना सहितं वाजं भरते। स एव पुत्रैः सहितं वाजं भरते । स एव नृभिर्बन्धुभिः सहितानि धना द्रव्याणि भरते । यो यजमानः श्रध्दामनाः श्रध्दायुक्तमनस्को देवानां पितरं पालयितारं ब्रह्मणस्पतिं हविषा स्वकीयेनाविवासति आ समन्ताद्विशेषेण परिचरति, स इज्जनेनेति पूर्वत्रान्वयः। अत्रैव विकल्पितां याज्यामाह। यद्वा तत्रैवोपहोममन्त्रमाह स सुष्ठुभेति। स देवः सुष्टुभा, शोभना स्तुभः सामावयवाः स्तोभा यस्य मन्त्रगणस्य सोऽयं सुष्ठुप्तेन सुष्ठुभा, ऋक्वता, ऋचो बहुविधा यस्मिन्मन्त्रगणे स ऋक्वांस्तेन ऋक्वता, रवेण ध्वनियुक्तेन गणेन मन्त्रसमूहेन तुष्टः सन्रुरोज बभञ् जेत्यन्वयः। कं बलं फलिगं फलमस्यास्तीति कली यजमानस्तं गच्छति प्राप्नोतीति फलिगस्तादृशं बलं प्रबलं प्रतिबन्धं रुरोज। हव्यसूदो हविर्भोक्ता कनिक्र ददहो स्वादुतमं हविरिति क्रन्दनं कुर्वाणो बृहस्पतीर्वावशतीः प्रस्रुवस्तनत्वेन वत्सान्प्रति हम्बारवं कुर्वतीरुस्त्रिया गा उत्कर्षेणैतदीयगृहं प्रति प्रेरयति। स इत्यभ्यास आदरार्थः। ‘एतामेव निर्वपेद्यः कामयेत ब्रह्मन्विशं विनाशयेयमिति मारुती याज्यानुवाक्ये कुर्यात्’ इति विहितयोः प्रतीके दर्शयति। मरुतो यद्धेति। मरुतो यद्ध व इत्यनुवाक्या। या वः शर्मेति याज्या। एतच्चोभयं प्रथमकाण्डस्य पञ्चमप्रपाठके व्याख्यातम्। ‘अर्यम्णे चरुं निर्वपेत्सुमर्गकामः’। इति चतुर्थेनुवाके यद्विहितं तत्र पुरोनुवाक्यामाह अर्थभातीति। ‘असौ वा आदित्योर्यमा’ इतिश्रुतेरयमशब्ध आदित्यं ब्रूते। स चेन्द्राभेदोपचारेणेन्द्रधर्मैः स्तूयते। वृषभः कामानां वर्षयिता। तुविष्मान्महावलः। वसूनां धनानां दाता। पुरुषु बहुषु यज्ञेषु हूत आहूतः। अह न्स्वर्गं दातुं योग्यः। सहस्राक्षत्वादिकं स्पष्टम्। तत्रैव याज्यामाह यो तेर्यमन्निति। हेर्यमन्राजंस्ते त्वदीया देवयाना देवैर्गन्तुमर्हा ये बहवः पन्थान आ दिवः स्वर्गपर्यन्तं चरन्ति गच्छन्ति हे देव तेभिस्तः पथिभिर्नोस्माकं महि शर्म महत्सुखं यच्छ, द्विपदे मनुष्याय नोस्माकं संबन्धिने शमेधि सुखकरो भव, चतुष्पदे गवादिरूपाय शमेधि। ‘अर्यम्णे चरुं निर्वपेद्यः कामयेत दानकामा मे प्रजाः स्युः’ ‘अर्यम्णे चः निर्वपेद्यः कामयेत स्वस्ति जनतामियाम्’ इत्यनयोरपि एते एव याज्यानुवाक्ये। ‘यो राजन्य आनुजावरः स्यात्तस्मा एतमैन्द्रमानुषूकमेकादशकपालं निर्वपेत्’ इत्यत्र पुरोनुवाक्यामाह बुध्नादग्रामिति। बुध्नादग्रं कर्मोपक्रमादारभ्य समाप्तिपर्यन्तमङ्गिरोभिर्गृणानोङ्गिकारोनाम्ना मुनिना सदृशैर्ऋत्विग्भिः स्तूयमान इन्द्रः पर्वतवत्सर्वा धीरस्य राज्ञो दृंहितानि समानैर यैः क्रियमाणान्द्रोहविशेषाव्यैराद्वंगतानकरोत्। किं कुर्वन्। एषां समानानं कृत्रिमाणि बलात्संपादितानि रोधांसि श्रैष्ठ्यप्रतिबन्धकाकाव्यवरोधिनानि र जज्जम्भयन्। कदैतत्सर्वमकरोदित्युच्यते। सोमस्य मदे सोम पानसंबन्धिनि भदे सतीन्द्रस्ता चकार तानु द्रोहनिवारणादीति कृतवान्। तत्रैव याज्यामाह बुध्नादग्रेणेति। इन्द्रो नदीनां बुध्नादग्रेण मुलादग्रपर्यन्तं मानद (नैर्द) ण्डैर्विभिमाय विशेषेण निश्चितवान्। निश्चित्य च नदीनां खानि जलप्रवाहार्थानवकाशान्प्रति वज्रणातृणज्जलवाहनिरोधकपर्वतान्वज्रेण हिंसितवान्। दीर्घयाथैर्दीर्घाणां प्रवाहाणां गमनोपयुक्तैः पथिभिर्मार्गैर्युक्तान्नदीविशेषानसृजत्। न चात्रास्य भूयान्प्रयासः किंतु वृथा। यथा लोके नखैस्तृणच्छेदादिव्यर्थचेष्टामायासमन्तरेण जनाः कुर्वन्ति तद्वदित्यर्थः। सोमस्येत्यादि पूर्ववत्। नखालम्भनमात्रेण महतीर्नदीः सृजत इन्द्रस्य श्रैष्ठ्यप्रापणे कः प्रयास इत्यभिप्रायः।”
“‘यो ब्राह्मण आनुजावरः स्यात्तस्या एतं बार्हस्पत्यमानुषूकं चरुं निर्वपेत्’ इत्यत्र पुरोनुवाक्यामाह प्र यो जज्ञ इति। विद्वान्सर्वज्ञो यो बृहस्पतिरस्य ब्राह्मणस्य यजमानस्य बन्धुं समानानां मध्येनुकूलं प्रजज्ञे प्रकर्षेण जानाति। तदीयमभिज्ञत्वं कथं निश्चियत इति चेदुच्यते। यतोयं देवो विश्वानि जनिमा सर्वेषां प्राणिनां सर्वाणि जन्मानि विवक्ति पुनः पुनः कथयति तस्मादभिज्ञत्वं निश्चियते। अ (सो) भिज्ञो बृहस्पतिर्बह्मणो वेदस्य मध्यान्नीचादुच्चा मध्यमभागात्प्रथमभागादुत्तप्रभागाच्च व्र परिवृढं कर्मोज्ज प्रारोद्धृतवान्। स्वधयामृतेन श्रैष्ठ्यप्रापणलक्षणेनाभि प्रतस्थौ एनं यजमानसभिलक्ष्य प्रस्थानं कृतवान्। समानानां मध्ये श्रैष्ठ्यं दातुं यजमानसमीपे समागतवानित्यर्थः। तत्रैव याज्यामाह महान्महीति। महान्सामर्थ्येनाधिको बृहस्पतिर्मही प्रौढे पृथिव्यन्तरिक्षे द्यां द्युलोकं सद्म मनुष्याणां गृह पार्थिव रजश्च जात उत्पत्तिमात्रेण व्यस्तभायद्विविधं स्तम्भितवान्। यद्यप्येतत्सर्वमीश्वरस्यैव कर्म तथापि तदभेदेन बृहस्पतिः स्तूयते। यद्वा परमेश्वरानुग्रहादयमेव लोकत्रयादिकं स्वस्वव्यापारक्षममकोरोत्। यस्य यजमानस्य सम्राड्यथोक्तरीत्या साम्राज्यं प्राप्तो बृहस्पतिर्देवता स यजमानो जनुषा जन्ममात्रेणैव बुध्नादग्रमभि आयुषोनुष्ठियमानकर्मणो वा मृला दारभ्य समाप्तिपर्यन्तमाष्ट व्याप्तवान्। ईदृशेन बृहस्पत्यनुग्रहेण युक्तो यजमानः सर्वथा श्रैष्ठ्यं प्राप्नोत्येवेत्यभिप्रायः। तत्रैव विकल्पितां याज्यामाह बुध्नाद्य इति। यो बृहस्पतिर्जगतो देहस्य कर्मणो वा बुध्नादारभ्याग्रमभ्यर्त्यवसानमोजसा स्वबलेन प्राप्नोति तं बृहस्पतिमितरे देवा आविवासन्ति आगत्य विशेषेण वासयन्ति परिचरन्तीत्यर्थः। बृहस्पतिर्बलं यजमानसंबन्धिनां मध्ये प्रबलं पुरुषं भिनद्भिनत्ति प्रातिकूल्यान्निवारयति, पुरः समानानां पुराणि विशेषेण दर्दरीति प्रातिकूल्यनिवारणाय पुनः पुनर्दारितवान्। कनिक्रददुत्साहेन शब्दं कुर्वन्, सुवः, तत्सदृशं श्रैष्ठ्यमपस्तत्साधनं सर्वं जलक्षेत्रादिकं जिगाय जितवान्य जमानार्थे संपादितवानित्यर्थः। अत्र विनियोगसंग्रहः “यज्ञविभ्रष्टयागे तु याज्याः स प्र निकेति च । इन्द्रमिन्द्रं चैन्द्रयागे त्वं नः साम्यचरौ तथा।। अग्नी कामप्रापकेग्नी ब्रह्मवर्चसिनस्त्रयम्। आप्या सं ते चरौ सौम्ये गणां ग्रामप्रदे त्रयम्।। मरु यागे नाशकेष्टावर्यमार्यमणे चरौ "
बुध्नादैन्द्रे प्र यस्तिस्रो बार्हरस्पत्यानुषूकके। पञ्चविंशतित (र) त्रोक्ता अनुवाके चतुर्दशे।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
चतुर्दशोनुवाकः।।१४।। वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः।। इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयः प्रपाठकः।।३।।