“(अथ द्वितीयकाण्डे प्रथमप्रपाठके प्रथमोऽनुवाकः) ।
भूतिकामो ग्रामकामः प्रजार्थी दीर्घरोगवान् । प्रजापश्वर्थिनौ चैषां श्वेताद्याः पशवः श्रुताः ॥ १ ॥
तत्र च प्रथमानुवाकस्याऽऽदावैश्वर्यकामिनः पशुं विधत्ते - वायव्यमिति । वायुर्देवता यस्य पशोः सोऽयं वायव्यः । स च श्वेतवर्णः । तमालभेत संस्पृशेत् । बर्हिःप्लक्षशाखाभ्यां यागार्थमुपाकुर्यादित्यर्थः । यद्यप्यत्र यजेतेति न श्रूयते तथाऽपि द्रव्यदेवतात्मकस्य यागरूपस्य श्रूयमाणत्वादन्यथाऽनुपपत्त्या वायव्येन यजेतेत्येवं यागः कल्पनीयः । न च सत्सु सहस्रसंख्याकेषु देवेषु कुतो वायुरेवापेक्ष्यत इति शड्कनीयम् । वायोरतिशयेन क्षिप्रगामिदेवत्वात् श्वेतपशुष्वतिप्रियत्वाद्वायोः स्वकीयो भागः । स्वार्थे धेयप्रत्ययः । यद्वा वर्णव्यत्ययेन दातव्यत्वमुच्यते । स्वेन च भागधेयेनासाधारणेन वायुमेवोपधावति समीपं प्राप्नोति सेवत इत्यर्थः । इतरदेवानामस्मिन्पशावत्यन्तप्रियत्वाभावाद्वायुमेवेत्यवधार्यते । यद्वा यजमानस्यानादरव्यावृत्त्यर्थमुपधावत्येवेति योज्यम् । तेन तुष्टः स वायुरेवैनं यजमानमैश्वर्यं गमयति पूर्ववद्गमयत्येवेति योज्यम् । तदनुग्रहादयं भवत्येवैश्वर्यं प्राप्नोत्येव ।
विशेषं विधत्ते - अतिक्षिप्रेति । अत्राभिज्ञाः पूर्वोक्तविशेषेण वायुदेवताऽत्यन्तं क्षिप्रकारिणीत्येतद्गुणदोषाभिज्ञाः सन्तः प्रथममाहुः । सा चोग्रा देवतैनं यजमानं प्रदहः प्रदग्धुमीश्वरा समर्थेति चाभिप्रायं प्रकटयन्ति । वायौ क्षिप्रं वाति सति जाज्वल्यमानोऽग्निर्गृहान्दहल्ँ लोके दृश्यते । अतोऽग्निद्वारा वायोर्दाहकत्वम् । तत्परिहर्तुं नियुद्विशेषणयुक्ताय वायवे पशुमालभेत । नितरां युता रथे मिश्रिता इति नियुतो वायोरश्वाः (निघण्टु 1.15.10) तेऽस्य सन्तीति नियुत्वान् । अत एव तदीययाज्यानुवाक्याप्रतिपादके पीवोऽन्नाँ रयिवृध (तै.ब्रा. 2.8.1) इत्यस्मिन्सूक्ते शतसहस्रसंख्याकाभिरश्वजातिभिर्वायोर्गमनमाम्नायते — “आ नो नियुद्भिः शतिनीभिरध्वरम् । सहस्रिणीभिरुपयाहि यज्ञम् । वायो अस्मिन्हविषि मादयस्व” (तै.ब्रा. 2.8.1) इति । येयं नियुत्सज्ञकाऽश्वजातिः सैवास्य वायोर्धृतिर्धारयित्री । नहि वाहनेषु अश्वेषु शनैर्गच्छत्सु वायुः क्षिप्रं गन्तुं शक्नोति । तेन नियुदेवास्य धृतिर्धारणमतो नियुत्वतो वायोर्हविष्प्रदानेन यजमानोऽपि धृत एवाविनष्ट एव सन्नैश्वर्यं प्राप्नोति । तच्चैश्वर्यमप्रदाहाय भवत्येव नियुत्वतो वायोरनुग्रहेण धैर्ययुक्तस्य यजमानस्य स्वकीयान्पुरुषान्नियन्तुं स्वकीयद्रव्यमविनाशेन पालयितुं च समर्थत्वान्मनः संतापरूपः प्रदाहः सर्वथा न भवत्येव ।
तमेव पशुं फलान्तराय विधत्ते - वायव इति । नासिकायामोता नस्योताः । यथा लोके बलीवर्दा नासिकाछिद्रे रज्जुबन्धने सति सुखेन नीयन्ते तद्वत्सर्वाः प्रजा ग्रामवासिनीरधीनाः कृत्वा वायुस्तव तत्र भृशं नयति । स च वायुः पशुना तुष्टः सर्वाः प्रजा यजमानाधीनाः करोति । स्वाधीनप्रजो यजमानो ग्रामस्वामी भवत्येव ।
देवतागुणं प्रशंसति - नियुत्वत इति । नियुत्वद्गुणयुक्ताय पशुर्भवतीति यत् तेन ग्रामस्थाः सर्वाः प्रजा अस्मिन्यजमाने ध्रुवा अनुरक्ताः करोति न तु ताः कदाचिदप्यपरक्ता भवन्ति ।
पुनरपि फलान्तराय विधत्ते - वायव इति । प्रकर्षेणानिति मुखबिलाद्बहिश्चेष्टत इति प्राणः । वायुश्च तथाविधः । अपकर्षेण मुखादधस्तादुदरस्यान्तरानिति चेष्टत इत्यपानः । नियुच्छब्दो नितरां यौति मिश्रीभवतीति व्युत्पत्त्या तथाविधमर्थमाचष्टे । यः पुरुषः प्रजार्थमलं सन्ननुकूलस्त्रीयुक्तः सन्युवा च सन्नपत्यं न लभत एतस्य पुरुषस्य प्रजायाः सकाशात्प्राणापानावपक्रान्तौ भवतः । अपत्यलाभाभावेन पुरुषेण गर्भाशये निषिक्ते रेतसि नियुत्वतो वायोरनुग्रहाभावात्प्राणापानयुक्तं जीवान्तरं न प्रविशति । एतदेवाभिप्रेत्यैतरेयोपनिषदि श्रूयते — “न ह वा ऋते प्राणाद्रेतः सिच्यते यद्वा ऋते प्राणाद्रेतः सिच्यते पूयेन्न संभवेत्” इति । नियुत्वान्वायुर्भागधेयेन तुष्टो यजमानार्थं तदीयरेतसि प्राणापानाभ्यां युक्तं जीवं प्रवेश्य प्रजाः प्रजनयति । ततो यजमानः पुत्रं लभते ।
पुनरपि फलान्तराय विधत्ते - वायवे नियुत्वत इति । ज्योगामयावी दीर्घरोगयुक्तः । यस्य ज्योगामयति यं पुरुषं चिरमामयो बाधत एतस्मात्प्राणापानावतिकान्तुमुद्यतौ । अस्मिन्प्राणापानौ दधाति चिरं स्थापयति । अपि च यदि कथंचिद्भूमौ शयानो रुग्णो मुहूर्तमात्रं याममात्रं वा परेतो भवेत्तथाऽपि वायोरनुग्रहादागतप्राणो जीवत्येव ।
कर्मान्तरं विधातुं प्रस्तौति - प्रजापतिरिति । यदिदं प्रजापशुरूपं जगदिदानीं दृश्यते तदिदं सृष्टेः पूर्वं प्रजापतिरेक आसीत्प्रजापतिरेव स्थितो नान्यत्किंचिदित्यर्थः । स च प्रजापशुसृष्टिकामस्तत्साधनत्वेन स्वशरीरादुदरमध्यवर्तिनीं पटसदृशीं वपामुदक्खिददुत्खिद्योद्धृतवान् । तां च वपामग्नौ प्रक्षिप्तवान् । ततो दग्धाया वपाया अजस्तूपरः शृङ्गरहितः समुत्पन्नः । तं चाजं स्वात्मरूपां देवतामुद्दिश्याऽऽलभत । तत्कर्मसामर्थ्यात्प्रजाः पशूनसृजत । ननु स्वयमेव स्ववपामुत्खिद्याजं तत उत्पाद्य तं च स्वार्थमालभ्य जगत्सर्वमप्यसृजतेति महदेवैतदिन्द्रजालम् । बाढमिन्द्रजालमेवैतत् । अत एवन्यत्राऽऽम्नातम् — “इन्द्रो मायाभिः पुरुरूप इयते” इति । “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्” इति । न खल्विन्द्रजालविषये विस्मेतुं च भवानपीच्छति । यदा तु लौकिकेऽपीन्द्रजाले न काऽप्यनुपपत्तिस्तदानीमचिन्त्यमहिम्नि सर्ववेदसिद्धे परमेश्वरे का नाम तवानुपपत्तिः । अन्यथा क्व वीर्यं क्व वा पुरुषः क्व बीजं क्व वा वृक्ष इत्यादिकं भवानुपपादकंमन्यः कथं युक्तिभिरुपपादयति । कल्पसिद्धे जगदीश्वरे को नाम विस्मय इति चेत्तर्ह्येतत्प्रकृतेऽपि न विस्मयः । संकल्पसिद्धस्य किमेतावता प्रयासेनेति चेत् । नानाविधभोगैस्तृप्तस्य राजादेः किं द्यूतमृगयादिप्रयासेनेति त्वया वक्तव्यम् । लीलेति चेत् । तदत्राप्यनुसंधेहि । तथा च श्रुतिः । “भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे” इति । विष्णुपुराणेऽपि - “क्रीडतो बालकस्येव चेष्टां तस्य निशामय” इति । व्याससूत्रमपि — “लोकवत्तु लीलाकैवल्यम्” इति । अलमतिप्रसङ्गेन ।
विधत्ते - य इति । पशुं प्रशंसति - यच्छ्रमश्रुण इति । पुंस्पशावजे श्मश्रूणि विद्यन्ते । तूपरत्वं सर्वेष्वजेष्वभावेऽपि प्रकृते विद्यते । अन्यतोऽध एव दन्ता इत्यन्यतोदन्नन्यतोदत्वम् । अविखुरसदृशाः शफा दृश्यन्त एव । अजत्वजातिश्चास्ति । तस्मात्पुरुषादिरूपत्वम् । यद्यपि ग्राम्येषु पशुषु गर्दभोष्ट्रावपि सप्तसंख्यासिद्धये तत्र तत्र गृह्येते, तथाऽपि पुरुषादधः पञ्चैव प्रशस्ता विप्रराजादिभिरत्यन्तमादृतत्वात् । अत एव तदीयेन रूपेण सर्वरूपसदृशेन तान्पुरुषादीन्सर्वानधीनान्करोति ।
पश्वन्तरं विधत्ते - सोमापौष्णमिति । त्रयाणां वत्सानां युगपज्जातानां समुदायस्त्रितं, तत्र भवस्त्रैतस्तैषामन्यतम इत्यर्थः । त्रयाणामुत्पत्तौ प्रयोजनमेवमुन्नेयम् । अजायास्तावद्द्वौ स्तनौ प्रसिद्धौ । तौ नानैव पृथगेव पातुं द्वौ वत्सौ जायेते । मातृरूपायामजायां योऽयमूर्ग्रसः सारं, या च शरीरगता पुष्टिस्तदुभयं ख्यापयितुं तृतीयो वत्स उत्पन्नः । द्वावेव हि सर्वत्र जायेते, तृतीयस्तु क्वचिदेव । तथा सति यस्यां तृतीयो जातस्तस्याः शरीरे वीर्याधिक्यं पुष्ट्याधिक्यं चास्तीति लक्षयितुं शक्यते ।
किं बहुना, त्रैतः प्रशस्त इति द्रष्टव्यम् । गर्भाशये रेतो यथा न स्रवति तथा सोमो धारयति । पूषा भूमिरूपत्वात्स्वकीयौषधिरसेन पोषयित्वा प्रजनयति ।
चोदकप्राप्तं खादिरं बाधितुं विधत्ते — औदुम्बर इति फलानां यथा बहुत्वादुदुम्बरस्योर्ग्रूपत्वं क्षीरद्वारेण पशुरपि तथाविधः । अत ऊर्जैवोदुम्बररूपया यजमानार्थमूर्ग्रूपान्पशून्संपादयति ।
अत्र मीमांसा -
(8.1) यदत्र पूर्वमग्निहोत्रादीनां मूलप्रकृतित्वमुक्तं तदष्टमाध्यायस्य प्रथमपादे चिन्तितम् -
“इष्ट्यग्निहोत्रसोमानां मूलप्रकृतिता नहि । अस्ति वा नालौकिकत्वादियत्तानवधारणात् ॥
लोकवत्संनिपत्यारादुपकारिद्वयश्रुतेः । इयत्ताया निश्चितत्वान्मूलप्रकृतिता त्रिषु” ॥
“अलौकिकत्वेनैतावद्भिरङ्गैः संपूर्ण उपकार इति निश्चेतुमशक्यत्वादिष्ट्यादीनां नास्ति मूलप्रकृतित्वमिति चेन्मैवम् । लौकिकसदृशत्वात् । यथा लोके भुजिक्रियायामोदनः करणं तस्य संनिपत्योपकारिणः शाकसूपादय आरादुपकारिणः पीठप्रदीपादयस्तथा भावनायां यागः करणमवघातादयः संनिपातिनः प्रयाजादय आरादुपकारिणोऽतो नात्यन्तमलौकिकत्वम् । इयत्ता तु लौकिके यथा प्रत्यक्षेण निश्चीयते तथा श्रौते श्रुत्या निश्चीयताम् । तस्मादिष्ट्यग्निहोत्रसोमानां मूलप्रकृतित्वमस्ति ।
(2.3) मासाग्निहोत्रस्य नित्याग्निहोत्राद्भेदो द्वितीयाध्यायस्य तृतीयपादे चिन्तितः -
“मासं जुहोत्यग्निहोत्रं गुणोऽन्यत्कर्म वा गुणः । अनूद्य प्राप्तं कर्मात्र मासोऽप्राप्तो विधीयते ॥
उपसद्भिश्चरित्वेति नित्ये तासामसंभवात् । अनेकस्याविधेश्चान्यत्कर्म प्रकरणान्तरात्” ।
कुण्डपायिनामयने श्रूयते — “मासमग्निहोत्रं जुहोति मासं दर्शपूर्णमासाभ्यां यजेत” इति । अत्र प्राप्तं नित्याग्निहोत्रमनूद्य मासलक्षणो गुणोऽप्राप्तत्वाद्विधीयत इति चेन्मैवम् । किं मास एव विधीयत उतोपसद्भिश्चरित्वेत्युक्तत्वादुपसदोऽपि । नाऽऽद्यः । उपसदामपि नित्याग्निहोत्रे प्राप्तिरहितानां त्वन्मते विधातव्यत्वात् । न द्वितीयः । प्राप्ते कर्मण्यनेकगुणविधौ वाक्यभेदापत्तेः । ननु मा भुत्तर्हि गुणविधिः, कर्मान्तरत्वे किं प्रमाणमिति चेत् । प्रकरणान्तरमिति वदामः । नह्येतन्नित्याग्निहोत्रस्य प्रकरणमसंनिहितत्वात् । अयनस्य त्वेतत्प्रकरणम् । अयनमारभ्याधीतत्वात् । का तर्हि नित्याग्निहोत्रे गुणविधिशङ्केति चेत् । प्रकरणस्यासमर्थत्वेऽप्यग्निहोत्रशब्देन सत्समर्पणादेषा शङ्का भवति । सा च वाक्यभेदापत्त्या निराकृता । तथा सति स्वतःसिद्धं प्रकरणभेदं निराकृत्य प्रकरणैक्यापादनेन गुणं विधापयितुं प्रवृत्तस्याग्निहोत्रशब्दस्य शक्तौ निरुद्धायां तदवस्थः प्रकरणभेदो नित्याग्निहोत्रादिदं कर्म भिनत्ति । अग्निहोत्रशब्दो धर्मातिदेशार्थ इति सप्तमे वक्ष्यते । ननूपसन्मासाभ्यां गुणाभ्यां विशिष्टं कर्म विधीयते । ततो वाजिनन्यायेन गुणभेदात्कर्मभेदो न प्रकरणभेदादिति चेत् । न । वैषम्यात् । उपादेयतया विधेयो गुणो वाजिनं मासस्त्वनुपादेय इत्येकं वैषम्यम् । द्रव्यत्वेन गुणान्तर्गतं वाजिनं मासो न तथेत्यपरं वैषम्यम् । परमार्थतस्त्वत्र प्रथमतरप्रतीतेन प्रकरणभेदेन सिद्धं कर्मभेदं गुणभेद उपोद्बलयति । ततः प्रकरणान्तरमेवात्र भेदहेतुरिति ।
(7.4) “ईदृशस्य कर्मणो धर्माक्षेपत्वं सप्तमाध्यायस्य चतुर्थपादे चिन्तितम् -
“सौर्ये चरौ न धर्माः स्युः स्युर्वा मानविवर्जनात् । न स्युः स्युः करणं यागोऽपेक्षते ह्युपकारिणः ॥”
सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकाम इत्यत्रावघातादयो धर्मा न प्राप्यन्ते । प्रापकप्रमाणानां श्रुतिलिङ्गादीनामभावादिति चेन्मैवम् । विमतो याग उपकरणापेक्षः । करणत्वात् । लौकिकवैदिकभोजनदर्शपूर्णमासादिवदित्यनुमानेन तत्प्रापणात् ।
तत्रैवान्यच्चिन्तितम् — “विध्यन्ताऽपेक्षितस्तत्र लौकिको वाऽथ वैदिकः । आद्यो निबन्धराहित्यादन्त्यो धीसंनिकर्षतः ॥”
तत्र सौर्यचरावपेक्षितः प्रधानविधिशेषाङ्गकलापः स्थालीपाकादिगतो लौकिको ग्रहीतव्यः । कुतः अनिबद्धत्वात् । वैदिकस्तु प्रकरणेन कर्मविशेषे निबद्धः सन्न ततो वियोजयितुं शक्यत इति चेन्मैवम् । वैदिके करणे वैदिकविध्यन्तस्य बुद्धिसंनिकर्षात् । यथा प्रकरणेन क्वचिन्निबद्धस्तथा चोदकेनान्यत्रापि निबध्यताम् । किंच — “प्रयाजेप्रयाजे कृष्णलं जुहोति” इति सोमयागविधिशेषे कृष्णलहोमविधानाय सिद्धवत्प्रयाजोऽनूद्यते । तच्च वैदिकेतिकर्तव्यताया लिङ्गम् । तस्माद्वैदिको ग्राह्यः ।
(7.1) स च विध्यन्त ईदृशेषु कर्मसूपदेशतो न प्राप्नोतीति सप्तमाध्यायस्य प्रथमपादे चिन्तितम् —
“सर्वार्थं प्रकृतार्थं वा प्रयाजाद्युपदेशनम् । यज्यन्वयेन सर्वार्थं नातिदेशो विचार्यताम् ॥
अङ्गप्रधानयोर्मुख्यापूर्वभेदे समन्वयात् । प्रकृतार्थमतः कार्यमतिदेशविचारणम्” ॥ इति ।
दर्शपूर्णमासप्रकरणे प्रयाजादय उपदिष्टाः । ज्योतिष्टोमप्रकरणे दीक्षणीयादयः । तत्रैते सर्वे धर्माः सर्वयागार्थत्वेनोपदिश्यन्ते । कुतः । यज्यन्वयात् । यागः करणं प्रयाजादय इतिकर्तव्यतेत्येतावदविवादम् । तत्र यदि प्रयाजादयो यागवदपूर्वेणान्विताः स्युस्तदानीमपूर्वनिष्पादकत्वमुभयत्र समानमिति कृत्वा करणोपकरणत्वलक्षणं सर्वसंमतमवान्तरवैषम्यं बाध्येत । किंचावघातपेषणादीनां यागनिष्पादकत्वेन यज्यन्वयो दृष्टस्तद्वदङ्गत्वसामान्यात्प्रयाजादीनामपि यज्यन्वयो युक्तः । यजिधातुश्च दर्शपूर्णमासज्योतिष्टोमसौर्यश्येनादिषु सर्वेषु विशेषेष्वनुगतं यागमात्रं ब्रूते । तथा सति सौर्यश्येनादिष्वप्युपदेशेनैव कृत्स्नधर्मप्राप्तेरतिदेशविचारो न कर्तव्य इति प्राप्ते ब्रूमः - अपूर्वं मुख्यम् । फलवत्त्वात् । यजिर्न मुख्यः । फलरहितत्वात् । फलवति मुख्ये प्रयाजादिविधानं युक्तम् । अतः करणेतिकर्तव्यतयोरुभयोरपूर्वेण प्रथममन्वयः । पश्चात्तु परस्परं गुणप्रधानभावेनान्वयः । तथा सत्यपूर्वभेदस्य द्वितीयाध्याये निरूपितत्वादपूर्वविशेषण तत्करणभूतयजिविशेषेण वाऽन्विताः प्रयाजादिधर्मा ये यस्मित्प्रकरण आम्नातास्ते तत्रैव व्यवतिष्ठन्ते । सत्येवं प्रकरणमर्थवद्भवति । सर्वेषां धर्माणां सर्वत्र प्राप्तौ प्रकरणमनर्थकं स्यात् । तस्मात्सौर्यश्येनादिप्रकरणे धर्मोपदेशाभावाद्धर्माकाङ्क्षां पूरयितुमतिदेशविचारः कर्तव्यः ।
प्रत्यक्षवचनेन धर्मातिदेशस्तत्रैव चिन्तितः —
“इषौ समानमितरच्छयेनेनेत्यनुवादकम् । श्येनवैशेषिकाणां वाऽतिदेशोऽत्रानुवादकम् ॥
ज्योतिष्टोमविकारत्वात्तद्धर्मश्चोदकात्समाः । श्येनेष्वोरितरत्वोरिषुवैशेषिकं प्रति ॥
इषुवैशेषिकादुक्तादितरच्छ्येनगं स्फुरेत् । वैशेषिकं लोहितोष्णीषादि तेनातिदिश्यते ॥ इति ।
इषुनामकः श्येननामकश्च द्वावप्येकाहौ ज्योतिष्टोमविकारौ । तयोरुभयोर्ज्योतिष्टोमधर्माश्चोदकेन प्राप्ताः । ते चोभयत्र समानाः । तच्च समानत्वमिषुप्रकरणेऽनेन वाक्येनानूद्यते समानमितरच्छ्येनेनेति । नन्वत्रेतरशब्दोक्तिरनुपपन्ना । तत्प्रतियोगिनः कस्यचिदनिर्दिष्टत्वादिति चेन्न । पूर्ववाक्यविहितस्य विशेषधर्मस्य प्रतियोगिकत्वात् । इषौ यो वैशेषिकधर्मो विहितस्तं परित्यज्येतरच्चोदकप्राप्तं सर्वं श्येयेन समानमित्यर्थः । तस्मादनुवादकमिदं वाक्यमिति प्राप्ते ब्रूमः — इतरशब्दः प्रतियोगिसजातीयं ब्रूते । तद्यथा देवदत्त एक एवाधीते नेतरः कश्चिदित्युक्तेऽध्ययनप्रसक्तिमान्यज्ञदत्तादिमाणवकः प्रतीयते, न तु गवाश्चघटपटादिः, एवमत्रापीषुवैशेषिकस्य पूर्ववाक्योक्तस्य प्रतियोगित्वात्तत्समानजातीयं श्येनगतं लोहितोष्णीषादिरूपं वैशेषिकं धर्मजातमितरशब्देन प्रतिभाति । तच्च प्रकृतावभावान्न चोदकेन प्राप्तम् । तस्मादिषावनुष्ठेयत्वेनातिदिश्यते ।
(7.3) नाम्ना धर्मातिदेशस्तत्रैव तृतीयपादेन चिन्तितः -
“मासं जुहोत्यग्निहोत्रामिति नामाग्निहोत्रतः । नित्यान्मासाग्निहोत्रेऽस्मिन्धर्माणां नातिदेशकम् ॥”
उतातिदेशकं नैव द्वयोर्नाम्नः समत्वतः । अग्नये होत्रमित्यस्य नित्ये संपादितत्वतः ॥
तत्र मुख्यं ततोऽन्यत्र गौणत्वस्य प्रसिद्धये । नित्याग्निहोत्रगान्धर्मांस्तन्नामातिदिशेदिह” ॥ इति ।
कुण्डपायिनामयने श्रूयते - “मासमग्निहोत्रं जुहोति” इति । तत्राग्निहोत्रमित्येतन्नाम नित्याग्निहोत्रादन्यस्मिन्मासाग्निहोत्रे धर्मानतिदेष्टुं नार्हति । कुतः । तस्य नाम्न उभयोरग्निहोत्रयोर्मुख्यवृत्त्या समानत्वादिति प्राप्ते ब्रूमः — अग्नये होत्रं यस्मिन्कर्मणि तदग्निहोत्रमित्येतमवयवार्थं नित्याग्निहोत्रे संपाद्य तन्नामधेयत्वं प्रथमाध्याये निर्णीतम् । अतस्तत्रैवायं शब्दो मुख्यः । न चोभयत्र मुख्यत्वं संभवत्यनेकार्थत्वस्यान्याय्यत्वात् । मुख्यत्वासंभवेन मासाग्निहोत्रे गुणयोगाद्वर्तितुं नित्याग्निहोत्रगुणानतिदिशति ।
(8.1) प्रत्यक्षवचननाम्नोरभावेऽपि नियतादेव कर्मणोऽतिदेशोऽष्टमाध्यायस्य प्रथमपादे चिन्तितः -
“कस्माच्चिदतिदिश्यन्ते नियतात्कर्मणोऽथवा । अविशेषादादिमोऽन्त्यः शास्त्रार्थस्य व्यवस्थितेः ॥” इति ।
विहितेतिकर्तव्यतारहिते सौर्यादौ कर्मणि तद्युक्ताद्यतःकुतश्चित्कर्मणो धर्मा अतिदिश्यन्ते । कुतः नियामकस्य विशेषस्याभावात् । अतो विशेषचिन्ता न कार्येति चेन्मैवम् । शास्त्रार्थव्यवस्थाया नियामकत्वात् । तस्मान्नियतादेकस्मात्कर्मणो धर्मातिदेशः । तेन विशेषचिन्ता कर्तव्या ।
तत्रैव विशेषनियामकं चिन्तितम् –
“तद्धितोक्त्यादिलिङ्गं किं न विशेषनियामकम् । भवेद्धा न ह्यशब्दत्वाद्भवेच्छब्दे प्रवेशतः ॥ इति ।”
दर्शपूर्णमासयोराग्नेयमष्टाकपालं निर्वपतीत्यत्र तद्धितोक्त्या देवतानिर्देश एकदेवतायोगित्वमौषधद्रव्यकत्वं निर्वाप इत्येतान्याग्नेययागसंबन्धितया श्रूयमाणत्वादाग्नेयलिङ्गानि । सौर्यं चरुं निर्वपेदित्यत्रापि तान्युपलभ्यन्ते । न तेषामाग्नेयधर्मातिदेशं नियन्तुं सामर्थ्यमस्ति । कुतः । तेपापशब्दरूपत्वेन शब्दैकसमधिगम्येऽर्थे प्रामाण्यायोगादिति प्राप्ते ब्रूमः - लिङ्गस्मारितोपकारसहितमेव सौर्ययागं तच्छब्दो विदधाति । तथा सति प्रनाड्या लिङ्गस्य शब्दे प्रवेशादाग्नेयवत्सौर्योऽनुष्ठेय इत्येतादृशं चोदकवाक्यमनुमापयता लिङ्गेन धर्मविशेषा नियम्यन्ते ।
इष्टिषु सौमिकधर्मनिवारणं तत्रैव चिन्तितम् —
“ऐन्द्राग्नादौ सौमिकः स्यादैष्टिको वा द्वयोरिह । संभवादैष्टि (च्छि) कोऽन्त्योऽत्र स्यात्कपालादिलिङ्गतः” ॥
ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकाम इत्यादौ सौमिकैष्टिकयोर्विध्यन्तयोरन्यतर इच्छया ग्राह्यः । कुतः । उभयत्र विध्यन्तसंभवेनातिदेष्टुमर्हत्वादिति चेन्न । कपालनिर्वापादिभिर्लिङ्गविशेषैरैष्टिकस्यैवात्रोचितत्वात् ।
अग्नीषोमीयपशोरिष्टिविकृतित्वं तत्रैव चिन्तितम् -
“न पशावैष्टिकः स्याद्वा न कपालाद्यभावतः । व्यक्तद्रव्यदेवत्वप्रयाजस्रुच्यसाम्यतः” ॥
अग्नीषोमीयपशावैष्टिकविध्यन्तो नास्ति । कुतः । पूर्ववदत्र निर्वापकपालादिलिङ्गभावादिति चेन्मैवम् । आग्नेयमष्टाकपालमित्यत्रोत्पत्तिवाक्ये यथा द्रव्यदेवते व्यक्ते तथाऽग्नीषोमीयं पशुमित्यत्रापि । न तु सोमेन यजेतेत्यत्रैव देवताया अव्यक्तत्वम् । तदेतद्व्यक्तद्रव्यदेवत्वमेकं लिङ्गम् । एकादश प्रयाजान्यजतीति प्रयाजबहुत्वं द्वितीयम् । स्रुच्यमाघार्य जुह्वा पशुं समनक्तीत्याघाराञ्जने लिङ्गान्तरे । आलम्भो लिङ्गान्तरमिष्टावपीषामालभेतेति दर्शनात् । तस्मादस्ति पशावैष्टिकः ।
तस्यैव पशोः पश्वन्तरप्रकृतित्वेनावान्तरप्रकृतित्वं तत्रैव चिन्तितम् —
“सवनीयादिके दार्शो दैक्षो वा प्रकृतित्वतः । आद्योऽन्त्यो लिङ्गतोऽन्यत्र विकृतिः प्रकृतिर्भवेत् ॥”
सवयीयानुबन्ध्यनिरूढादिपशुषु दर्शपूर्णमाससंबन्धिविध्यन्तः कार्यः । कुतः । दर्शस्य प्रकृतित्वात् । दैक्षोऽग्नीषोमीयपशुविध्यन्तो दीक्षितेनानुष्ठेयेषु पशुविध्यन्तेषु प्रथमभावित्वात् । तस्य चाग्नीषोमीयेष्टिविकृतित्वान्न प्रकृतित्वमस्ति । अतो न तस्य विध्यन्तोऽतिदेशार्थ इति प्राप्ते ब्रूमः - आलम्भोऽग्नीषोमीयपशौ लिङ्गम् । तच्च सवनीयादिष्वप्यस्ति । तथा प्रातःसवनीयादिषु वपाप्रचारोऽपरं लिङ्गम् । इष्टिं प्रति विकृतेरप्यन्यत्र सवनीयादौ प्रकृतित्वं न विरुध्यते । तस्मादग्नीषोमीयपशोर्विध्यन्तं सवनीयादिपशुष्वतिदिशेत् । तदेवमेतैर्विचारैर्वायव्यदिपशुष्वग्नीषोमीयविध्यन्तादेश इति संस्थितम् ।
(2.3) वायव्यं श्वेतमालभेतेत्यत्र यागविधित्वं द्वितीयाध्यायस्य तृतीयपादे चिन्तितम् —
“वायव्यः श्वेत आलभ्यो भूत्यै सौर्यं चरुं तथा । निर्वपेद्ब्रह्मतेजोऽर्थमीषामुष्टिनिरुप्तयोः ॥
गुणौ श्वेतचरू किंवा यागाकथितकर्मणी । फलार्थमथवा यागौ विशिष्टौ विहिताविह ॥
श्वैत्यं वायुस्पृगीषायामाग्नेये च रविप्रभे । चतुर्गुणश्चरुः स्थाली निर्वापस्तु तदाश्रितः ।”
फलहानेर्न तत्किंतु यावच्चोदितकर्म तत् । द्रव्यादिरूपसंत्तेरवार्या यागताऽऽर्थिकी ॥
अनारभ्येदमाम्नायते — “वायव्यं श्वेतमालभेत भूतिकामः” इति । “सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः” इति च । तथा च दर्शपूर्णमासयोरिदमाम्नातम् — “ईषामालभेत” इति । चतुरो मुष्टीन्निर्वपति” इति च । ईषा शकटगतो लाङ्गलदण्डवद्दीर्घः काष्ठविशेषस्तस्या आलम्भः स्पर्शः । तमेतं दर्शपूर्णमासगतमीषालम्भमनूद्य तस्यामालभ्यायामीषायां श्वेतगुणो विधीयते । तस्य च श्वेतकाष्ठस्य वायुना स्पृश्यमानत्वाद्वायव्यत्वं संभवति । तथा चतुर्मुष्टिनिर्वापमनूद्य चतुर्गुणत्वेन विधीयते । चरुः स्थाली । सा च निर्वापस्याऽऽश्रयः । निरुप्तस्य हविष आग्नेयतया सूर्यवत्प्रभासंबन्धात्सौर्यत्वम् । भूतिब्रह्मवर्चसफले सार्वकालिकयोर्दर्शपूर्णमासयोः पूर्वसिद्धे एवानूद्येते । तस्माद्गुणविधिरित्येकः पूर्वपक्षः । न हि फलप्रदयोर्नित्यवच्छ्रुतयोः संभवत्वप्रयोजनयोश्च पाक्षिकानुवादत्वमानर्थक्यं वा युक्तम् । तस्माद्गुणफलविशिष्टकर्मान्तरे विधीयेते । तदाऽपि यागस्याश्रवणादालम्भनिर्वापयोरेव श्रवणाद्यावदुक्तकर्मविधिरिति द्वितीयः पूर्वपक्षः । श्वेतपशुचरुद्रव्ययोर्वायुसूर्यदेवतयोश्च स्पष्टं प्रतीयमानतया रूपवतोर्यागयोरार्थिकयोर्वारयितुमशक्यत्वाद्द्रव्यदेवताविशिष्टयोर्यागयोर्विधिरभ्युपगन्तव्यः । भूतिकामो वायव्येन श्वेतेन पशुना यजेत, ब्रह्मवर्चसकामः सौर्येण चरुणा यजेतेत्येवंविधोऽर्थसिद्धो विधिः । द्रव्यदेवतासंबन्धकल्पितस्य यागस्य लिङ् प्रत्ययेन कर्तव्यताविधावालम्भनिर्वापयोर्धात्वर्थयोः का गतिरिति चेदनुवाद इति ब्रूमः । तत्प्राप्तिस्त्वार्थिकी । निर्वापालम्भावन्तरेण तत्तद्यागासिद्धेः । तस्माद्यागविधिरिति राद्धान्तः ।
(10.2) दशमाध्यायस्य द्वितीयपादे चिन्तितम् —
“वायव्यं श्वेतमित्यत्र यः कोऽपि च्छाग एव वा । विशेषानुक्तितः कोऽपि च्छाग एवास्त्वबाधनात्” ॥
वायव्य श्वेतमालभेत भूतिकाम इत्यत्र श्वेतशब्दस्य धेन्वादिशब्दवज्जातिविशेषगतगुणवाचित्वाभावाद्यं कंचिदपि पशुं श्वेतगुणकं समर्पयतीति पूर्वः पक्षः । चोदकप्राप्तस्याजस्य बाधककारणाभावात्तमेव समर्पयतीति राद्धान्तः ।
(10.7) तत्रैव सप्तमपादे चिन्तितम् — [वरुणगृहीतादिपशुविधानम्]
“औदुम्बरः खादिरेण समुच्चेयोऽथ बाधकः । द्वयोर्नियोजनादाद्यो निरपेक्षत्वतोऽन्तिमः ॥” इति ।
पशुकामेनानुष्ठेये सोमापौष्णे पशौ श्रूयते — “औदुम्बरो यूपो भवति” इति । तत्र चोदकप्राप्तेन खादिरेण सह श्रूयमाणस्यौदुम्बरस्य समुच्चयः कार्यः । कुतः । द्वयोर्यूपयोः पशुनियोजनसंभवेन चोदकपरित्यागायोगादिति प्राप्ते ब्रूमः - खादिरौदुम्बरौ परस्परनिरपेक्षतया पशुनियोजनक्षमौ प्रमाणद्वयेन प्राप्तौ । तयोः समुच्चयाङ्गीकारे नैरपेक्ष्यं परित्यज्येत । तस्मादुपदिष्ट औदुम्बरोऽतिदिष्टस्य खादिरस्य बाधक इति ॥
इति श्रीमत्सायणाचार्याविरचितमाधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके प्रथमोऽनुवाकः ॥१॥
(अथ द्वितीयकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः ॥)
जलोदरगृहीतो यो ये वाञ्छन्ति पशुप्रथाम् । ब्रह्मवर्चसकामो यो यो विद्वान्वक्तुमक्षमः ॥ २ ॥
दीर्घरोगी प्रजाकामः सभारञ्जनवर्जितः । पौरोहित्ये स्पर्धमानश्चैतेषां पशवः श्रुताः ॥ ३ ॥
तानेतान्पशून्प्रथमानुवाके विधाय द्वितीये वरुणगृहीतादीनां पशव उच्यन्ते । तत्र वरुणगृहीतस्य पशुं विधातुं प्रस्तौति - प्रजापतिरिति । प्रजापतिना सृष्टाः प्रजाः पराचीः पराङ्मुख्योऽपरक्ताः सत्योऽस्मात्प्रजापतेरायन्नगच्छन् । गत्वा च वरुणं प्राप्ताः । स च प्रजापतिस्ताः प्रजा अनुगम्य मदीयाः प्रजाः पुनरपि मह्यमेव देहीति वरुणमयाचत । वरुणस्तु न ददौ । ततः स प्रजापतिर्वरुणमिदमब्रवीत् — एतासां प्रजानां मध्ये वरं श्रेष्ठं गृहीत्वाऽवशिष्टास्ता मह्यं देहीति । स च वरुणस्तासां प्रजानां मध्ये वरं श्रेष्ठं कंचित्पशुं मदीयोऽयमिति हस्तेनास्पृशत् । स च परीक्ष्यमाणः कृष्णवर्णः सन्नेकेन श्वेतेन पादेन युक्तोऽभूत् ।
विधत्ते - य इति । वरुणगृहीतो जलजन्येन महोदरव्याधिना गृहीतः । पशुविशेषणं प्रशंसति - कृष्ण इति । ईदृशं पशुं वरुणः प्रत्याहृतवानिति तस्य वरुणदेवताकत्वम् । स च यजमानस्याऽऽरोग्यसमृद्ध्यै संपद्यते ।
पशुप्रतिपादिकामाख्यायिकां वशां विधातुं प्रस्तौति - सुवर्भानुरिति । सुवभानुरित्यासुरस्य कस्याचिन्नामधेयम् । स्वर्गलोकगतां प्रभां नुदतीति सुवर्भानुः । स च पृथिव्या रूपं धृत्वा कृष्णवर्णः । तमःपूञ्जरूपत्वं “यत्वा सूर्य स्वर्भानुस्तमसाऽविध्यदासुरः” इत्येतस्यामृचि स्पष्टमाम्नातम् । पृथिव्याश्च कृष्णरूपत्वं लोके बहुलं दृश्यते । छन्दोगाश्च यत्कृष्णं तदन्नस्येत्यन्नकारणभूतायाः पृथिव्याः कृष्णरूपत्वामामनन्ति । अतस्तमःपूञ्जरूपः स आसुरः स्वकीयेन तमसा सूर्यमाच्छाद्य जगदान्ध्यं कृतवान् । तस्मै तस्य सूर्यप्रभाच्छादकस्य तमसः प्रायश्चितिं परिहारं विचार्य नानाविधेैः प्रकाशरूपैर्मण्यादिद्रव्यैस्तमोऽपाघ्नंश्चतुर्भिः पर्यायैरपसारितवन्तः । प्रथमपर्यायेऽपसृतं तमः कृष्णवर्णा काचिदविरभूत् । द्वितीयपर्याये फल्गुनी लोहितवर्णा काचिदविरभूत् । तृतीयपर्याय बलक्षी श्वेता काचिदविरभूत् । अस्थ्नोऽध्युपरि वर्तमान प्रकाशोऽध्यस्थः । कस्यचिन्मृतदेहस्य दीप्यमानमस्थि समादाय तदीयात्प्रकाशाच्चतुर्थपर्याये तमोऽपाकृन्तन्नपनीतवन्तः । तच्च तमो वशा बन्ध्या काचिदविरभूत् । ततो देवा विचार्य परस्परमिदमब्रुवन् - दैव्यादस्थ्नो जातत्वादयमुत्तमो देवपशुः । तमेतं कस्मै कामायोत्तमप्रयोजनायाऽऽलब्धं करिष्याम इति । अथ विचारादूर्ध्वं तर्हि तदानीमेव पृथिव्या अल्पत्वमोषधीनामनुत्पत्तिं च दोषद्वयमवेक्ष्य तत्परिहाररूपाय कामाय समर्थेभ्य आदित्येभ्यस्तां वशामालभ्य पृथिवीविस्तारमोषध्युत्पतिं च संपादितवन्तः । विधत्ते - यः कामयेतेति । पशुभिः प्रथेम पशुबाहुल्यलक्षणं विस्तारं प्राप्नुयाम् । प्रजया पुत्रपौत्रादिरूपया प्रकृष्टो जायेय भवेयम् । कामाय कामप्रापकेभ्य इत्यर्थः । ब्रह्मवर्चसकामस्य पशुविधानाय प्रस्तौति - असावादित्यो नेति । पूर्ववत्तमोवेधरहितोऽप्यादित्यः कदाचित्प्रकाशमान्द्याद्विशेषेण न दीप्तवान् । तस्मै तदर्थमेता वक्ष्यमाणा मल्हा गललम्बितस्तनान्विता अजाः श्वेतास्तिस्त्र आलभन्त । कृष्णा ग्रीवा यस्याः सा कृष्णग्रीवी ।
ग्रीवाव्यतिरिक्तप्रदेशेषु वर्णान्तरोपेतेत्यर्थः । कृत्स्नेऽपि शरीरप्रदेशे भेदस्थितैर्लोहितशुक्लकृष्णवर्णैर्युक्ता संहिता । विधत्ते - यो ब्रह्मवर्चसकाम इति । श्रुताध्ययगसंपत्तिरूपं तेजो ब्रह्मवर्चसम् । उक्तस्य पशुत्रयस्य प्रयोगार्थं पशुविशेषं कालविशेषं च विधत्ते - वसन्तेति । प्रातरादिकालेषूपाकरणं वपायागो वा यथा भवति तथा प्रारभेत । वसन्तर्तौ प्रातःकाले वर्षास्विव तीव्रमेघावरणाभावाद्धेमन्तशिशिरयोरिव नीहारावरणाभावाच्चाऽऽदित्यस्य तेजः स्पष्टं प्रकाशते । ग्रीष्मर्तौ मध्याह्ने प्रकाशाधिक्यमतिस्पष्टम् । शरदृतावपराह्णे सूर्यतेजः सेव्यं भवति । प्रातर्मध्यंदिनयोर्बालातपस्य तीव्रातपस्य च जरादिहेतुत्वादसेव्यत्वम् । तान्येतानि यथोक्तान्यादित्यस्य त्रीणि तेजांसि प्रशस्तानि । अतस्तत्कालानुष्ठानेन प्रशस्ततेजःसंपत्तिर्भवति ।
व्रतोपक्रममारभ्य संवत्सरपर्यन्तं ब्रह्मचर्यादिनियमं विधत्ते - संवत्सरमिति । एकत्मिन्संवत्सरे निरन्तरं नियमं परिगृह्य तादृशेन पुरुषेण ताः स्वस्वकाल आलभ्यन्ते । उपनीतस्य माणवकस्य संन्ध्यावन्दनाद्याचारशिक्षा संवत्सरेण सम्यक्संपद्यत इति संवत्सरस्य ब्रह्मवर्चसप्रदातृत्वम् । उक्तपशुषु कंचिद्गुणं विधत्ते - गर्भिणय इति । गर्भिणयस्तिस्रोऽपि गर्भयुक्ताः ।
विद्वत्सभाजयार्थित्वकामिनः पशुं विधत्ते - सारस्वतीमिति । वेदशास्त्राद्यभ्यासपाटवेन वाचो वदितुं समर्थोऽपि सभाकम्पादिना यो न वदेत्तस्यायं पशुः । तस्मिन्पशौ कंचिद्गुणं विधत्ते - अपन्नदतीति । अपन्नदती दन्तपातरहिता । लोकेऽपि सदन्ताः पुरुषा वर्णलोपमन्तरेण संपूर्णां वाचं वदन्ति ।
तीव्ररोगसहितस्य पशुद्वयोपेतं कर्म विधत्ते - आग्नेयमिति । बभ्रुः पिङ्गलः । शरीरे प्राणस्य बन्धकः सूक्ष्मो योऽन्नस्य रसः स सोमं प्राप्नोति । भोजनरुचौ व्याधिनाभिभूतायां भुक्तान्नरसः शरीरे न प्रविशति, किंतु सोमाधिष्ठितौषधिकार्य एवान्नेऽवतिष्ठते । सेयं रसस्य सोमप्राप्तिः । ततोऽग्निर्मासादिकं शोषयति । सेयं शरीरस्याग्निप्राप्तिः ।
प्रजाकामस्य द्विपशुकं कर्म विधत्ते - सौम्यमिति । विदुषो जनानुरागाय द्विपशुकं कर्म विधत्ते - आग्नेयमिति । पूर्वं सभायां मूकीभूतस्य कर्मोक्तम् । इदानीं प्रवदतोऽपि पारुष्यवचनेनाप्रस्तुतप्रसङ्गेन वा सभास्थितेभ्यो रुच्यभावे सति रुचिं कामयमानस्येदं कर्मेति विशेषः । तेनाऽऽग्नेयत्वेन तेजः प्रतिवादिभिरप्रधृष्यत्वमस्मिन्यजमाने स्थापयति । तेन सौम्यत्वेन ब्रह्मवर्चसं प्रसङ्गोचितवेदशास्त्रवचनस्फूर्तिरूपमस्मिन्दधाति । कृष्णग्रीवगुणकस्याऽऽग्नेयत्वेन बुद्धिमान्द्यरूपं तमोऽस्मादपहन्ति । ग्रीवारिक्तप्रदेशे श्वैत्येन रुचमेव सभोचितमनुरञ्जनरूपां प्रभामेवास्मिन्दधति । बभ्रुत्वे सति सौम्यत्वेन पूर्वोक्तं ब्रह्मवर्चसं प्राप्तस्य त्विषिर्दीप्तिर्जनानुरागातिशयो भवति । पौरोहित्यस्पर्धावतस्त्रिपशुकं कर्म विधत्ते - आग्नेयमिति । ब्राह्मणस्याग्निना सह मुखजन्यत्वसाम्येनाग्नेयत्वम् । सोमराजन्नित्यादिमन्त्रेण सोमस्य राजत्वेन व्यवहाराद्राजन्यः सौम्यः । सौम्यस्याभितः पुरस्ताच्चोपरिष्टाच्चाऽऽग्नेयानुष्ठाने सति राष्ट्रमुभयतो ब्रह्मणा तेजसैव परिगृह्णाति । वेदशास्त्रप्रयुक्तेन पौरोहित्यलक्षणेन ब्राह्मणोचितेन तेजसैव सर्वतो राष्ट्रं वशीकरोतीत्यर्थः । तदानीं प्रतिस्पर्धिनमेकधा क्षणमात्रेण समावृङ्क्ते सम्यग्जयति । ततो राजामात्यादय एनं पुरो दधते पौरोहित्यपदे स्थापयन्ति ।”
“अत्र मीमांसा ।
(11.1) एकादशाध्यायस्य प्रथमपादे चिन्तितम् -
“कृष्णग्रीवद्वये तन्वं पृथग्वा देवतैक्यतः । तन्वं सौम्यव्यवायेन कालभेदात्पृथग्भवेत्” ॥ इति ।
काम्यपशुकाण्डे श्रूयते - “आग्नेयं कृष्णग्रीवमालभेत सौम्यं बभ्रुमाग्नेयं कृष्णग्रीवं पुरोधायां स्पर्धमानः” इति । अयमर्थः - ममैव पौरोहित्यमस्तु नान्यस्येत्येवं स्पर्धोपेतो यथोक्तवर्णोपेतं पशुत्रयमालभेतेति । तत्राऽऽद्यन्तयोः कृष्णग्रीवयोः पश्वोर्देवतैक्यात्तन्त्रेणानुष्ठानमिति चेन्मैवम् । सौम्यपशुना व्यवधाने सति कालैक्याभावेन तत्रासंभवात् । तस्मादावापः ।
(1.4) प्रथमाध्यायस्य चतुर्थपादे चिन्तितम् -
“आग्नेयो ब्राह्मणोऽत्रापि पूर्ववत्सर्वनिर्णयः । द्वारं तु मुखजन्यत्वमाग्नेयत्वेन संस्तवे ॥” इति ।
इदमाम्नायते — “आग्नेयो वै ब्राह्मणः” इति । अत्राप्यन्तप्रसिद्धार्थभेदादाग्नेयशब्दो न ब्राह्मणस्य नामधेयं, नाप्यग्निदेवतारूपो गुणो विधीयते । आग्नेयं सूक्तमाग्नेयं हविरित्येवं देवतातद्धितस्य सूक्तहविर्विषयत्वात् । न हि ब्राह्मणः सूक्तं नापि हविः । ततः । संबन्धवाचितद्धितान्तेनाऽऽग्नेयशब्देन ब्राह्मणः स्तूयते । यद्यपि ब्राह्मणे नाग्निसंबन्धस्तथाऽप्यग्निसंबन्धो मुखजन्यत्वगुणो ब्राह्मणे विद्यते । तथा चाग्निब्राह्मणयोर्मुखजन्यत्वं कस्मिंश्चिदर्थवादे समाम्नायते प्रजाप्रतिरकामयत प्रजायेतेति स मुखतस्त्रिवृतं निरमिमीत तमग्निर्देवताऽन्वसृज्यत गायत्री छन्दो रथंतरँ साम ब्राह्मणो मनुष्याणामजः पशूनां तस्मात्ते मुख्या मुखतो ह्यसृज्यन्त इति । तस्मादाग्नेयशब्दः स्तावकः । एवमैन्द्रो राजन्यो वैश्यो वैश्वदेव इत्यादिषु द्रष्टव्यम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमपाठके द्वितीयोऽनुवाकः ॥२॥
“(अथ द्वितीयकाण्डे प्रथमप्रपाठके तृतीयोऽनुवाकः ॥)
स्पर्धाकामो युद्धकामो ग्रामकामोऽन्नकामवान् । राज्यकामः प्रतिष्ठार्थी यः पापक्षयमिच्छति ॥ ४ ॥
राज्यार्थी च पुमांसो ये तेषां पशव ईरिताः ।
तानेतान्पशून्द्वितीयानुवाके विधाय तृतीयानुवाके जयादिहेतून्पशून्विधित्सन्नादौ लोकत्रयजयहेतुं पशुं विधातुं प्रस्तौति - देवासुरा इति । लोकेषु विषयभूतेषु वामनं ह्रस्वं पशुं स्वायै विष्णुरूपायै देवतायै । अथ विधत्ते - वैष्णवमिति । स्पर्धमानो गृहक्षेत्रादिविषये विवादवान् । विष्णुप्रियहविर्दानादस्योपचरितं विष्णुत्वम् । चोदकपरम्पराप्राप्तं समदेशमपवदितुं विधत्ते - विषम इति । पृथिव्यादिलोकानामुत्तरोत्तरं विस्तृतत्वाद्भोगाधिक्याद्वा विषमत्वम् । सोऽयं विषमदेशः समृद्ध्यै कल्पते ।
संग्रामार्थिनः पशुं विधत्ते - इन्द्रायेति । मनस्वते धैर्यवते । ललामशब्दः श्वेतपुण्ड्रवालाङ्कितललाटोपेतं ब्रूते । प्राशृङ्गो मुखं प्रत्यासन्नशृङ्गः पुंगवः । प्राशृङ्गो गौरिति भरद्वाजवचनात् । प्राशृङ्गोऽवाक्शृङ्ग उक्षा वशा वेहद्धेनुर्वत्स ऋषभोऽनड्वान्पुनरुत्सृष्टो गोमृग इति गव्या इत्यापस्तम्बवचनात् । संयत्ते प्राप्ते सति । इन्द्रियं शारीरं बलम् । मन्युः शत्रुविषयः कोपः । मनो धैर्यम् ।
ग्रामार्थिनः पशुं विधत्ते - इन्द्रायेति । मरुद्भिर्युक्तो मरुत्वान् पृश्निसक्थः श्वेतोरुः । सजातान्सहोत्पन्नान्भ्रात्रादीन्सहवासिनो भूत्यादींश्च । पुंगवत्वं सक्थिश्वैत्यं च प्रशंसति - यदृपभ इति । सेक्तृत्वसामान्येनेन्द्रसंबन्धित्वम्, वायव्यं श्वेतमित्युक्तत्वात्पृश्निवर्णस्य मारुतत्वं, तदुभयं समृद्ध्यै भवति । पुरोवर्तिनोरूर्वोः पृश्निसक्थित्वं वारयितुं विधत्ते - पश्चादिति । यजमानो ग्रामस्वामी प्रथमं यत्कार्यं यथाऽध्यवस्यति तद्ग्रामनिवासिनी प्रजा पश्चाद्यजमानानुसारेणैव तत्कार्यमध्यवस्यति, न तु प्रातिकूल्यं चिन्तयतीति पश्चादन्ववसायिनी ।
अन्नार्थिनः पशुं विधत्ते - सौम्यमिति । सोमो वा ओषधीनाँ राजेति श्रुतत्वादन्नस्य सौम्यत्वम् अन्नादो व्याधिरeहित्येन दीप्ताग्निः । पशुवर्णं प्रशंसति - बभ्रुरिति । विदालितचणकाद्यन्नस्य प्रियंग्वादेर्वा रूपं पिङ्गलम् ।
राज्यप्राप्तिकामिनः पशुं विधत्ते - सौम्यमिति । राज्ञो ज्येष्ठपुत्रत्वाच्छौर्यादिगुणसंपन्नत्वाद्राज्यायालं सन्तं सम्यग्योग्यं सन्तं यं पुरुषं प्रति राज्यं न प्राप्नुयात्तस्यायं पशुः सोमोऽस्माकं ब्राह्मणाना राजेति श्रुतत्वाद्राज्यं सौम्यम् । चन्द्रमण्डलस्य सुवर्णवर्णत्वाद्ब्रभ्रुत्वं सोमस्य रूपम् । शत्रुबाधेन भ्रष्टश्रियः प्रतिष्ठार्थं पशुं विधत्ते - इन्द्रायेति । वृत्रतूर्वैरिहिंसकः । पाप्मानमेव नरकप्रदपापवद्बाधकमेव वृत्रं वैरिणम् । पापक्षयार्थिनः पशुं विधत्ते - इन्द्रायेति । पाप्मना गोवधाद्युपपातकादिना । राज्यार्थिनः पश्वन्तरं विधत्ते - इन्द्रायेति । वज्रं वज्रवत्प्रहरणसमर्थमायुधम् । स चाऽऽयुधविशेषो वज्ररूपो भूत्वा इन्धे यजमानं वैरिसंतापाय प्रदीप्तं करोति । नतस्य शृङ्गस्य तीक्ष्णाग्रत्वात्तीक्ष्णधारायुक्तवज्ररूपत्वम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमपाठके तृतीयोऽनुवाकः ॥३॥
(अथ द्वितीयकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः) ।
ब्रह्मवर्चसकामो यश्चर्मदोषाद्बिभेति यः ॥ ५ ॥
भ्रातृव्यवान्पापभीरुर्भ्रष्टराज्यश्च यो भवेत् । अनुवाके चतुर्थेऽस्मिन्नेतेषां पशवः श्रुताः ॥ ६ ॥
तृतीयानुवाके जयकामादीनां पशून्विधाय चतुर्थे ब्रह्मवर्चसकामादीनां पशून्विधित्सुरादौ ब्रह्मवर्चसकामाय विधातुं प्रस्तौति - असावादित्य इति । पूर्वमेवोक्तोऽप्यादित्यस्य दीप्त्यभावः कालविशेणेणात्रापि प्रतीकारान्तरं दर्शयितुं पुनरुच्यते । दशानामृषभाणां समाहारो दशर्षभा । कर्मनामधेयमिति केचित् । तत्तु नात्यन्तयुक्तिसहम् । आलभन्तेत्यस्थानान्वयप्रसङ्गाद् । विधत्ते - यो ब्रह्मवर्चसकाम इति । अमुमेवाऽऽदित्यमित्यर्थवादे सत्वादादित्योऽस्मिन्कर्मणि देवता । तत्रैव कालविशेषसहितं पशुगुणविशेषं विधत्ते - वसन्तेति । शितिपृष्ठाः श्वेतपृष्ठाः । शितिवाराः श्वेतवालाः । पूर्वत्वकालविशेषं प्रशंसति - त्रीणि वा इति । विहितानेव त्रित्वोपेतान्संघान्प्रशंसति - त्रयस्त्रय इति । पूर्वं वसन्ते यथा त्रित्वोपेतास्तथा ग्रीष्मशरदोरपि त्रित्वोपेतत्वे सति पूर्वसादृश्यं संपद्यन्ते । तद्वदस्मिन्यजमानेऽप्यभिपूर्वं पूर्वपूर्वसादृश्येनैवोत्तरकालेऽपि तेजो विधत्ते । न तु कदाचिदपि तेजो हीयत इत्यर्थः । आग्नेयकृष्णग्रीवादिष्विव ब्रह्मचर्यादिनियमकालं विधत्ते - संवत्सरमिति । दशमस्यर्षभस्य देवताकालवर्णविशेषान्विधत्ते —
“संवत्सरस्येति । कद्रुः पिङ्गलः । प्रजापतेरुत्पादकत्वेन सर्वदेवता(त्म)कत्वम् । त्वग्दोषनिवारणाय पशुं विधत्ते - यदि बिभीयादिति । कण्डूत्यादिविशेषलिङ्गेन भाविकुष्ठरोगमनुमाय भीतस्यायं पशुः । पुरुषस्य सोमदेवताकत्वं पशूनां पौष्णत्वं च सोमापूषविषययाज्याव्याख्याप्रसङ्गेन दर्शितम् । भ्रातृव्यवतो द्विपशुकं कर्म विधातुं प्रस्तौति - देवाश्चेति । अयुवत देवेभ्यः पृथक्कृतवान् । अतो यवनामकोऽयं वर्णव्यत्ययेन यमः संपन्नः । इन्द्रियगते वीर्येऽपगते सति देवाः परस्परमिदमब्रुवन् पूर्वं यद्भूलोकाधिपत्यं प्राप्यं वयं स्मस्तदिदं प्राप्य यम एवाभूत् । उक्षा सेचनसमर्थो वत्सोत्पादकः । वशा वन्ध्या । लिङ्गव्यत्ययो द्रष्टव्यः । तं यमं वरुणपाशेनैव ग्राहयित्वा यज्ञरूपेण निष्कासितवन्तः । इन्द्रप्रसादेनास्य यमस्य वीर्यं नाशितवन्तः । विधत्ते - यो भ्रातृव्यानिति । आत्मना स्वेन रूपेण यजमानो विजयी भवति । अस्य भ्रातृव्यः पराभवति । पापविमुक्तिकामस्य द्विपशुकं कर्म विधातुं प्रस्तौति - इन्द्रो वृत्रमिति । तमिन्द्रं भोगैः शरीरैरसिनादबध्नाद्धताद्बृत्रादुत्पन्नानि क्रोधाविष्टानि षोडश शरीराणि परितो वेष्टयित्वा स्थितानि, स च वृत्रः सर्पाकारैस्तैः शरीरैस्तमिन्द्रं रज्जुभिरिव बबन्ध । ततस्तस्य वृत्रस्य शीर्षतः काश्चिद्गाव उत्पन्नाः । ताश्च गावो विशिष्टदेहसंबन्धिन्योऽभवन् । तासां गवां जघने पृष्ठभागं कश्चिदृषभोऽनुगम्योदगच्छत् । तमृषभमुद्दिश्येन्द्रोऽचायत्स्वात्मानं पूजितवान्, अहो मदीयं कार्यं संपन्नमिति । ततः स इन्द्रो मनसा व्यचारयत् । किमिति, यः कोऽपीममृषभमालभेत देवतोद्देशेन हिंस्यात्स ईदृशाद्बन्धनादिरूपात्पाप्मनो मुच्येतेति एवं विचार्य द्विपशुकं कर्म कृतवान् । तस्येन्द्रस्य संबन्धिना स्वभागेन तुष्टोऽग्निः सर्पाकाराणि षोडश शरीराणि तं वृत्रमप्यदहत् । तत ऐन्द्रयागेन (ण) सामर्थ्यमिन्द्रः स्वात्मन्यधत्त । अथ विधत्ते - यः पाप्मनेति । चिरं राज्यभ्रष्टस्य पशुं विधत्ते - द्यावापृथिव्यामिति । ज्योगपरुद्धश्चिरं राज्यभ्रष्टः । यस्तु प्रजापालनस्याभावदस्मिल्ँ लोके न प्रतितिष्ठति, वैदिककर्मानुष्ठानाभावात्स्वर्गेऽपि न प्रतितिष्ठति तदानीं सोऽत्र ज्योगपरुद्ध इत्युच्यते । तस्य द्यावापृथिव्योः परितोषादुभयत्र प्रतिष्ठा संपद्यते । धेनोः कंचिद्गुणं विधत्ते - पर्यारिणीति । या गौगर्भिणी सती प्राप्तं प्रसवकालं परित्यज्य चिरं गर्भं धृत्वा पश्चात्प्रसूते सा पर्यारिणी । तथा च सूत्रकारः- “पर्यारिणीति परिहारसूर्भवति” इति । यो ज्योगपरुद्ध एतस्य राष्ट्रं पर्यारीव भवति, भोगकालं चिरमतीत्य पश्चात्प्राप्यमान (ण) त्वात् । अतः सदृशयोगः समृद्ध्यै भवति । ज्योगपरुद्धस्यैव धेनुप्रयोगादूर्ध्वं वत्सप्रयोगं विधत्ते - वायव्यमिति । यथा वत्सो धेनोः समीप एव संचरति तथा वायुरपि द्यावापृथिव्योः संचरतीति तद्बत्सत्वम् । अत एव द्यावापृथिव्यधेनुप्रयोगसमीपे तदीयवत्सप्रयोगो युज्यते । यदा लोकाः प्रजा चैतस्मै राज्ञेऽपशुष्का अपरक्ता भवन्ति तदानीमेवैष ज्योगपरुद्धो भवति । लोकशब्देन तत्र तत्र प्रभुत्वेन स्थिता ग्रामण्यादयो मुख्यपुरुषा उच्यन्ते । अवशिष्टा सर्वा प्रजा विट्शब्देन । वत्सेन तुष्टो वायुर्लोकान्प्रजा च प्रदापयत्यनुरक्तान्करोति । ते च लोका अस्मै स्नुवन्ति मणिमुक्तादिधनं प्रस्रावयन्ति बाहुल्येन प्रयच्छन्तीत्यर्थः । प्रजा चैनं भुञ्जती पालयन्ती सेवते ।”
अत्र मीमांसा ।
(8.1) अष्टमाध्यायस्य प्रथमपादे चिन्तितम् -
“ललामादिगणे दैक्षादैकादशिनतोऽथवा । आद्यो विशेषराहित्यन्न गणत्वविशेषतः” ॥
काम्यपशुकाण्डे पशुगणः श्रूयते — “वसन्ते ललामांस्त्रीन्वृषभानालभेत” इति । तत्र रशनाद्वयादिविशेषलिङ्गाभावाद्दैक्षादग्नीषोमीयाद्धर्मातिदेश इति चेत् । न । गणत्वेन विशेषलिङ्नेनैकादशिनेभ्योऽतिदेशात् । ऐकादशिनानां पशुगणप्रकृतित्वं लिङ्गादवगम्यते । तथा हि सौत्रामण्यां पशुगणं प्रकृत्यैवमाम्नायते “यत्त्रिषु यूपेष्वालभेत । बहिर्धाऽस्मादिन्द्रियं वीर्यं दध्यात् । भ्रातृव्यमस्मै जनयेत् । एकयूप आलभते” इति । यद्यत्राग्नीषोमीयः प्रकृतिः स्यात्तदा
“चोदकादेकस्यैव यूपस्य प्राप्तत्वेन यूपत्रयप्रसक्त्यभावात्तदुपन्यासेन दोषाभिधानं पुनरेकयूपविधानं च व्यर्थं स्यात् । ऐकादशिनानां प्रकृतित्वे तु प्रतिपशु पृथग्यूपातिदेशेन प्रसक्तिसद्भावात्तदुपपद्यते । तस्मात्पशुगणेष्वैकादशिनेभ्योऽतिदेशः ।
(10.2) दशमाध्यायस्य द्वितीयपादे चिन्तितम् -
“धेनुवत्सर्षभाश्छागे गवि वा गुणकीर्तनात् । अजेऽतिदिष्टे स्युर्मैवं गोजात्येकगुणोक्तितः ”॥
पशुविकृतिषु श्रूयते - “द्यावापृथिव्यां धेनुमालभेत मारुतं वत्समैन्द्रम्” इति । तत्र धेनुशब्दः नवसूतिकामाचष्टे । वत्सशब्दो बालम् । ऋषभशब्दः पुमांसम् । तथा सति गुणवाचिन एते शब्दा अतिदिष्टमजद्रव्यमबाधित्वा तदेव द्रव्यं यथोक्तगुणविशिष्टं वदन्ति । गौस्तु न प्रत्यक्षमिह श्रूयते नाप्यतिदिश्यते । प्रकृतावनुपदिष्टत्वात् । अतो न गां विशिंषन्तीति पूर्वपक्षः । न खल्वेते यथोक्तगुणसामान्यवाचिनः, किं तर्हि गोगतानेव तान्गुणानाहुः । अतस्ते शब्दा अजेऽनुपपन्नाः सन्तोऽनुपदिष्टमनतिदिष्टमपि गां मुख्यवृत्या विशिंषन्तश्छागं बाधन्त इति राद्धान्तः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः ॥४॥
“(अथ द्वितीयकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः) ।
पशुकामः प्रजाकामो भूत्यर्थी छिन्नसोमकः । अभिचारी च ये तेषां पञ्चमे पशवः श्रुताः ॥ ७ ॥
अथ पञ्चमे पशुकामादीनां पशवो वक्तव्याः । तत्रैवं विधातुं प्रस्तौति - इन्द्रो वलस्येति । बलनामकः कश्चिदसुरस्तस्करो भूत्वा यतस्ततो बहून्पशूनपहृत्य कस्मिंश्चिद्भूबिले स्थापयामास । तं च वृत्तान्तमवगत्येन्द्रो बिलमपौर्णोत्, द्वारपिधानाय प्रक्षिप्तं पाषाणमपनीतवान् । तत्र य उत्तमः पशुस्तं पशुं पृष्ठं प्रति पृष्ठदेशे पृष्ठमूलवलम्ब्योदक्खिददुत्क्षिप्तवान् । तस्य पशोर्यूथपतित्वात्तमनु सहस्त्रं पशव उद्गतवन्तः । स च मुख्यः पशुर्यूथपतित्वेन पूर्वमेवोन्नतोऽपि पश्चादिन्द्रोत्क्षेपणेनात्यन्तमुन्नतोऽभवत् । विधत्ते - यः पशुकाम इति । पशोरौन्नत्यं प्रशंसति - उन्नतो भवतीति । उन्नत इति यत्, एषा साहस्री लक्ष्मी सहस्रस्य निमित्तभूता तत एव लक्ष्मी संपद्रूपा । तथा सत्युन्नतालम्भेन पशुसमृद्धिरूपया लक्ष्म्या युक्तस्तान्पशूनवरुन्धे । पूर्वत्र यथा धेनुमालब्धवतः पश्चाद्वत्सालम्भो विहित एवमत्राप्युन्नमालब्धवतो वामनालम्भं विधत्ते - यदा सहस्रमिति । पशुकाम उन्नतमालभ्य । तत्फलभूतान्पशून्प्राप्नुवन्सहस्रप्राप्तेरूर्ध्वं वामनमालभेत । यस्मादेतस्मिन्वामने तदुन्नतं पशुसहस्रं लीलार्थमारोहति तस्मात्सहस्रपशुप्रियत्वादेव (ष) वामनो विष्णोः सम्यगपेक्षितः । एतस्याऽऽलम्भेन पूर्वमुत्पन्नेभ्यः सहस्रपशुभ्यः पश्वर्थं प्रतिष्ठां तृणोदकसंपूर्णं निवासस्थानं कृतवान्भवति । एतस्य वामनस्य सहस्रप्राप्तिकालादन्यं कालं विधत्ते - कोऽर्हतिति । सहस्रप्राप्तिः प्रायेण दुर्लभा । विघ्नानां चोरव्याघ्रादिकृतानां बहुत्वात् । अतः पशुप्राप्तेरूर्ध्वं सहस्रादिनान्यतिवाह्याऽऽलभेत । पशवो हि क्षीरादिभोगार्थं संपाद्यन्ते । तत्रैकैकस्मिन्दिने तद्भोगप्रदानादिनैकैकः पशुरिति गणनायां सहस्रसंख्याकान्यहोरात्राण्येव सहस्रं पशवः संपद्यन्ते । ततः सहस्रदिनेभ्य ऊर्ध्वं वामनमालम्भेन यावतां तावतां वा विद्यमानानां पशूनां प्रतिष्ठा संपादिता भवति । प्रजाकामस्य पशुं विधत्ते - ओषधीभ्य इति । वेहतं गर्भविनाशिनीम् । यः प्रजोत्पादने समर्थोऽपि प्रजां न लभत एतं प्रजार्थमोषधिदेवताः परितो बाध्यन्ते । अतस्ताभ्य आलम्भो युक्तः । या गौर्गर्भनाशिनी भवत्येतस्याः सूतुं गर्भमोषधयोऽपिघ्नन्ति । अतस्तासां प्रियाया वेहत आलम्भेन तुष्टा ओषधयो यजमानार्थं तद्योनेर्यजमानसंबन्धिवीर्यात्प्रजामुत्पादयन्ति स्वरेतसैव प्रयच्छन्ति, न तु क्षेत्रजपुत्रिकासुतादिकम् । ततोऽसावौरसीमेव प्रजां लभेत । ता ओषधयो लोकप्रसिद्ध्या स्तूयन्ते । तत्र तावदाप एवौषधयोऽपामोषधिकारणत्वात् । पुरुषो यजमानस्योत्पद्यमानः पुत्रः । स चोत्पत्तेः प्रागसदित्युच्यते । स्वकारणभूतरेतोवस्थायामनभिव्यक्तत्वात् । तथा सत्यब्रूपेण स्थिता ओषधय एव यजमानार्थमनभिव्यक्तशरीराकाराद्रेतसः सदभिव्यक्तशरीरं प्रयच्छन्ति । यस्मादेवं तस्मात्कारणादीदृशवृतान्ताभिज्ञास्तदनभिज्ञाश्च लौकिका एवमाहुः – आप एवास्मा असतः सद्ददतीति । तत्राभिज्ञा ओषधिदेवताकृतं यथोक्तं पुत्रप्रदानमभिलक्ष्यैवं वदन्ति । अनभिज्ञास्तु क्षेत्रेषु जलसंपत्त्या सस्यनिष्पत्तिमभिलक्ष्याऽऽप एवासतः सस्यरहितात्क्षेत्रात्सद्विद्यमानत्वेन भासमानं सस्यं ददतीत्याहुः । यद्यभिज्ञा ओषधीनां पुत्रप्रदत्वमाहुः यदि वाऽनभिज्ञा अपां सस्यप्रदत्वमाहुः सर्वथाऽपि प्रशस्तमेवौषधिविषयं कर्म । भूतिकामस्य पशुं विधत्ते - ऐन्द्रीमिति । सकृद्वत्समुत्पाद्य पश्चाद्वन्ध्या गौः सूतवशा । यो भूत्यै योग्योऽपि भूतिं न प्राप्नोति सोऽयमुत्पन्नोऽप्यनुत्पन्नसम एव तस्मादयमालभेत । एषाऽपि सूतवशा प्रथममिन्द्रसमानं वत्समुत्पाद्य वन्ध्याऽभवत् । इन्द्रस्य प्रियायाः सूतवशायाः प्रयोगादूर्ध्वं वत्सप्रयोगं विधत्ते - यँ सूत्वेति । सूतवशाया वत्स इन्द्रसमानः । अत एवेन्द्रमातुः सूतवशारूपेण निष्पत्तिरेवमाम्नायते “सोऽमन्यत यो वै मदितोऽपरो जनिष्यते स इदं भविष्यतीति तस्या अनुमृश्य योनिमाच्छिनत्सा सूतवशाऽभवत्तत्सूतवशायै जन्म” इति । तथा सति स्वसमानत्वेनेन्द्रप्रियं तमेनं वत्समैन्द्रमेवाऽऽलभेत । वत्सस्येन्द्रियकार्यत्वादैन्द्रत्वान्मुख्यमेवेन्द्रियमवरुन्धे । विच्छिन्नसोमपीथस्य पशुं विधत्ते - ऐन्द्राग्नमिति । गालितवृषणो बलीवर्द उत्सृष्ट इत्यच्यते । स एव जीर्णो लाङ्गलवहनादेर्मुक्तः पुनरुत्सृष्टः । स्वात्मानमारभ्य तृतीयः पुरुषः पितामहः पिता स्वयं च यदा सोमं न पिबेयुस्तदानीमेतस्य त्रयस्य सोमपानं विच्छिन्नं, स एतं पशुमालभेत । इन्द्रमग्निं च क्रमेण प्रशंसति - यदैन्द्रो भवतीति । सोमपानस्येन्द्रियवृद्धिहेतुत्वादिन्द्रियरूपत्वम् । पशुविशेषणं प्रशंसति - पुनरुत्सृष्टो भवतीति । प्रथमं पितामहेन सोमपथि उत्सृष्टः, पुनः पित्रा, पुनरपि स्वेन, तत उक्तपशुसादृश्यात्तदालम्भः समृद्ध्यै संपद्यते । अभिचरतः पशुं विधत्ते - ब्राह्मणस्पत्यमिति । स ब्रह्मणस्पतिस्तस्मा एव यजमानार्थमेवैनं वैरिणमावृश्चति समन्ताच्छिनत्ति, तदानीमेव वैरी मरणं प्राप्नोति । पशुविशेषणं प्रशंसति - तूपरो भवतीति । तूपर इति यदेषा क्षुरपविर्वै क्षुर इव तीक्ष्णा धारा वज्रे यस्याः सा क्षुरपविस्तादृशी लक्ष्मीः वैरिमारणार्था संपद्यते । शृङ्गाभावेऽपि युद्धे मेष इव सहसा घातं करोतीति वज्रसाम्यम् । यूपस्य चोदकप्राप्तसमष्टाश्रीत्यादिरूपमपवदितुं स्फ्यसमानमाकारं विधत्ते - स्फ्यो यूप इति । अत्र सूत्रम् “स्फ्यो यूप इति स्फ्याकृतिर्यूपः” इति । कुशमयमपवदितुं विधत्ते - शरमयमिति । शृणन्ति हिंसन्तीति शरास्तृणविशेषा येषु तृणेषूत्पन्नैः काष्ठैर्ब्राह्मणा.* क्रियन्ते । तेषां च तृणानां शीर्णैर्वज्रावयवैरुत्पन्नत्वाद्धिंसकत्वम् । वज्रावयवैरुत्पत्तिरन्यत्राऽऽम्नायते — “इन्द्रो वृत्राय वज्रं प्राहरत्स त्रेधा व्यभवत्स्फ्यस्तृतीयँ रथस्तृतीयं यूपस्तृतीयं येऽन्तःशरा अशीर्यन्त ते शरा अभवन्तच्छराणाँ शरत्वम्” इति । तस्माच्छरमयेन बर्हिषा वैरिणं हिनस्त्येव । पालाशमिध्मं बाधितुं विधत्ते — वैभीदक इति । अक्षशब्दवाच्याद्वृक्षादुत्पन्नो वैभीदकः । स च विशेषेण भेत्तुं शक्त इति कृत्वा वैरिणं भिनत्त्येव । *ब्राह्मणा इत्यस्य स्थाने बाणा इति युक्तम् । अथवा ब्राह्मणा इति पदेन दर्भपटवो ज्ञेया ।
“अत्र मीमांसा ।
(10.4) दशमाध्यायस्य चतुर्थपादे चिन्तितम् -
“समुच्चेयं शरमयं कौशेनोतास्य बाधकम् । प्राचुर्यस्य विधेराद्यो मैवं प्रतिपदोक्तितः ”॥
सोमारौद्रं चरुं निर्वपेत्कृष्णानां व्रीहीणामाभिचरन्नित्यत्र शरमयं बर्हिर्भवतीति श्रुतं, तदिदं प्राकृतेन कुशबर्हिषा सह समुच्चयिते । कुतः । मयट्शब्देन प्राचुर्यस्याभिधानादबाधेनापि तदुपपत्तेरिति पूर्वः पक्षः । नित्यं वृद्धशरादिभ्य इति सूत्रेण शरशब्दाद्विकारार्थे मयट्प्रत्ययः प्रतिपदोक्तः । अतस्तं परित्यज्य प्राचुर्यार्थो न ग्रहीतुं शक्यः । किंच, प्राचुर्यार्थत्वे कार्यान्तरं कल्पनीयं स्यात् । तस्मात्कुशबर्हिषो बाधकमिति राद्धान्तः ॥”
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहीताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥५॥
“(अथ द्वितीयकाण्डे प्रथमप्रपाठके षष्ठोऽनुवाकः ।
पृष्टकामोऽन्नकामो द्वाविन्द्रियार्थी सनिं तथा । अन्नं ग्रामं च वाञ्छन्तोऽज्ञातरोगाश्च ये स्थिताः॥ ८ ॥
षष्ठेऽनुवाकं पशवः क्रमेणैषामुदीरिताः ।
अथ षष्टे ग्रामकामादीनां पश्वन्तराणि वक्तव्यानि। तत्रैकं पशुं विधत्ते बार्हस्पत्यमिति। ग्रामो मे भूयादन्येषां ग्रामस्वामिनां मध्ये पृष्ठवदुपवर्ती त्यामिति यः कामयेत तस्यायं पशुः। पशुविशेषणं प्रशंसति शितिपृष्ठो भवतीति। राजसूये बार्हस्पत्यं चरु शितिपृष्ठो दक्षिणेत्युक्तत्वात्तद्देवताकत्वम्। अन्नकामस्य पशुं विधत्ते पौष्णमिति। अन्नस्य पोषकत्वात्पूषत्वम्। पशुविशेषणं प्रशंसति श्यामो भवतीति। पत्रशाकाद्यन्नस्य रूपं श्यामम्। अन्नकामस्य पश्वन्तरं विधत्ते मारुतमिति। मरुतां श्यत्वेनान्नसंपादकत्वादन्नत्वम्। पशुविशेषणं प्रशंसति पृश्निर्भवतीति । पृश्निः श्वेतः। शाल्यन्नस्य रूपं श्वेतम्। इन्द्रियकामस्य पशुं विधत्ते ऐन्द्रमरुणमेति। अरुणस्य पशोर्गुणान्तरं विधत्ते अरुणो भ्रूमानिति। महती भ्रूरस्यास्तीति भ्रूमान। इन्द्रस्य सहस्त्राक्षत्वेन भ्रूबाहुल्यं स्वरूपम्। स्वप्रतिग्रहीतृकदानकामस्य पशुं विधत्ते सावित्रमिति। उपध्वस्तः संकीर्णवर्णः। सनिकामः परकर्तृकदानकामः। प्रसवानां प्रेरणनाम्। अस्मै यजमानार्थं परकर्तृकं दानं प्रसुवति प्रेरयति। संकीर्णवर्णं प्रशंसति उपध्वस्त इति। राजसूये सावित्रं द्वादशकपासं क्षत्तुर्गृंह उपध्वस्तो दक्षिणेत्युक्तत्वात्सवितृदेवताकत्वम्। अन्नकामस्य पश्वन्तरं विधत्ते वैश्वदेवमिति। सांकर्यमन्तरेण विस्पष्टा बहवो वर्णा यस्यासौ बहुरूपः। पशुविशेषणं प्रशंसति बहुरूपो भवतीति। भक्ष्यभोज्यलेह्यचोष्यभेदेनान्नस्य बहुरूपत्वम्। ग्रामकामस्य पश्वन्तरं विधत्ते वैश्वदेवमिति। सजाता भ्रातरो भृत्यादयश्च। ते च बहुत्वसाम्येन विश्वेषां देवानां संबन्धिनः। पशुविशेषणं प्रशंसति बहुरूप इति। विश्वेषां देवानामेतत्स्वामित्वात्पशोर्बहुदेवत्यत्वम्। अज्ञात चिररोगग्रस्तस्य पशुं विधत्ते प्राजापत्यमिति। विस्पष्टानि रोगविशेषलक्षणानि न दृश्यन्ते, बलक्षयकार्श्यादिकं च दृश्यते, तदिदमज्ञातमिव भवति। प्रजापतिः पुरुषमसृजतेति श्रुतत्वात्पुरुषः प्राजापत्यः। चिकित्सकैरज्ञातो पि रोगविशेषः प्रजापतिना ज्ञायते। अतः प्रजापतिरेनं तस्मात्स्रामादज्ञातदीर्घरोगान्मोचयति।। प्रजापतिवपाजन्यत्वेन पशुविशेषणं प्रशंसति तूपरो भवतीति। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णजयुर्वेदीय- तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।”””
“(अथ द्वितीयकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः)। (ब्रह्मवर्चसकामादीनां पशुविधिः))
ब्रह्मतेजः प्रजांवृष्टिमन्नं ग्रामं तथा पुनः ॥ ९ ॥
ब्रह्मतेजोभिचारं च वाञ्छतां पशवः श्रुताः ।
अथ सप्तमे ब्रह्मवर्चसकामादीनां यथायोगं पश्वन्तराणि विधातुं प्रस्तौति वषट्कार इति। वौषडित्यस्य मन्त्रस्याभिमानिदेवो वषट्कारः। तस्य गायत्र्या सह विरोधो ब्राह्मणान्तरे प्रसिध्दः इति वैशब्देन सूच्यते। छिन्नान्द्रा यत्रीशिरसो जलं रक्तं च निर्गतं ताभ्यामुभाभ्यामनेकविधा वशा उत्पन्नाः। ताश्च बृहस्पत्यादीनां परिग्रहेण प्रियाः संपन्नाः।। द्वाभ्यां वर्णाभ्यामुपेता द्विरूपा। बहुभिर्वर्णैरुपेता बहुरूपा। चतुर्थपर्याये भूमौ पतितं रसं वृथा विनष्टो मा भूदिति बृहस्पतिरभ्यगृहणात्। तस्यायमभिप्रायः- अथं रसो मम भोगाय भवत्वेव। उक्षवशो व्यर्थवीर्यो वृषभः। तत्राऽद्यं पशुं विधत्ते बार्हस्पत्यमिति। ब्रह्मवर्चस्यैहिकामुष्मिकपूजाहेतुत्वेन सारत्वाद्रससादृ-श्यमित्यभिप्रेत्य तत्साधनभूतां वशां प्रशंसति। छन्दसामिति। वशाया गायत्रीछन्दोरसत्वं व्याख्यातम्। गायत्री च सोमा-हरणेन च्छन्दोन्तरात्प्रशस्ता। तस्माद्वशा सर्वेषां छन्दसां सारः। तेन च्छन्दोरसेन वशारूपेणैहिकामुष्मिकपूजाहेतुतया रसरूपं ब्रह्मवर्चसमवरुन्धे द्वितीयं पशुं विधत्ते मैत्रावरुणीमिति। मित्रस्य सूर्यत्वादह्रस्तदयित्वम्। अन्धकारेणाऽऽवरण हेतुत्वाद्रात्रेर्वारुणत्वम् ष्टेर्द्रवत्वादोषन्याध्युत्पादकत्वेन सारत्वाच्च रसोपमानम्। तमेव द्वितीयं पशुं फलान्तराय विधत्ते—मैत्रावरुणीमिति। अहोरात्रपरित्यागेन यथा वृष्टिर्न संभवति तथा प्रजोत्पत्तिरपि न संभवति। ततस्तयोर्वृष्टिसाधनत्ववत्पजोत्पत्तिसाधनत्वमपि द्रष्टव्यम्। तृतीयं पशुं विधत्ते वैश्वदेवीमिति। अन्नस्य सर्वदेवभोज्यत्वाद्वैश्वदेवत्वं, जीवनहेतुत्वेन सार स्वाद्रससाम्यम्। तमेव पशुं फलान्तराय विधसे वैश्वदेवीमिति। सजातानां भ्रात्रादीनां भृत्यादीनां च बहुत्वेन देवतासाम्येव वैश्वदेवत्वं स्धाम्युपकारित्वेन च रससादृश्यम्। चतुर्थं पशुं विधत्ते बार्हस्पत्यमिति। वशत्वविशेषणं प्रशंसति बशं वा इति। उक्षेति यदेष वशं चरति धेनुभिः सहैवारण्ये गत्वा पुनस्तासामेव पृष्ठतो गृहेष्बागच्छतीति तस्य गोवशवाचित्वम्। ब्रह्मवर्चसमपीन्द्रियनियमनोपेतत्वाद्वश इव स्वाधीनपदार्थं इव भवति। पञ्चमं पशुं विधत्ते रौद्रीमिति। रुद्राध्याये नीलग्रीवो विलोहित इति रुद्रस्य विशेषेण लोहितत्वं भूयते रोहिणी द्रदेवताका। पूर्ववच्चोदकप्राप्तमपवदितुं विधत्ते स्फ्यो यूप इति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।”””
(अथ द्वितीयकाण्डे प्रथमप्रपाठकेऽष्टमोनुवाकः) ।
ब्रह्मतेजोभिचारं च यज्ञप्राप्तिं तथा पशून् ॥ १० ॥
समयं च तथा वृष्टी वाञ्छतां पशवः श्रुताः ।
तानेतान्पशून्सप्तमेनुवाके विधायष्टमे पुनर्ब्रह्मवर्चसकामादीनां पश्वन्तराणि विधास्यन्नादौ कस्यचित्पशोर्विधानाय प्रस्तौति असावादित्य इति। आदित्यविषये बहवः प्रायश्चित्तयः कल्पयुगादिभेदेन व्यवस्थापनीयाः। विधत्ते यो ब्रह्मवर्चसकाम इति। खादिरं बाधितुं विधत्ते बैल्षो यूपो भवतीति। श्रीसूक्तेन बिल्वोत्पत्तिराम्नायते“आदित्यवर्णे तपसोधि जातो वनस्पतिस्तव वृक्षोथ बिल्वः” इति। अस्यामर्थः हे आदित्यवर्णे लक्ष्मि प्रथममुत्पन्नस्यादित्यस्य तपसः संतापरूपात्मकाशादध्यूर्ध्वं तव प्रियो बिल्ववृक्षो जात इति। ततः सौर्या वशाया बैल्वे यूपे सति सूर्यबिल्वयोः सहोदरत्वात्सयोनित्वम्। तेन च ब्रह्यवर्चसमपि सयोन्येव संपद्यते। स्वपित्रादीना यरयां वेदशाखायामध्ययनानुष्ठानादिप्रवृत्तिस्तत्रैव स्वस्यापि प्रवृत्तिर्ब्रह्मवर्चसस्य सयोनित्वम्। अभिचरतः कवित्पशुं विधत्ते
ब्राह्मणस्पत्यामिति। पिड़्गलवर्णकर्णयुक्ता बभ्रुकर्णी। तस्य पशोः प्राच्याड़्गं पुरोडाशं विधत्ते वारुणामिति। एतदनुष्ठानेन भ्रातृव्यस्य प्रथमं रोगमुत्पाद्य पश्चातब्रह्मणा ब्रह्मणस्पतिदेवताकेन कर्मणा हिनस्ति। ब्रह्मणश्चतुर्मुखस्य हैमवर्णत्वाद्वभ्रुकर्ण्या ब्रह्मरूपत्वमित्यभिप्रेत्य पशुविशेषणं प्रशंसवि
“बरुभ्कर्णीति। पूर्ववच्चोदकप्राप्तं बाधितुं विधत्ते स्फ्यो यूप इति। अग्निष्टोमादिमहायज्ञप्राप्तिकामिनः पशुं विधत्ते वैष्णवमिति। राजसूये वैष्णवं त्रिकपालं वामनो दक्षिणेत्युक्तत्वाद्वामनस्य विष्णुदेवत्यत्वम्। विधत्त त्वाष्ट्रं वडवमिति। यथा मनुष्येषु यत्र क्वापि पुंसः स्तनवृध्द्यां सत्यां श्मश्रुनिर्गमनात्पाग्योषित्वभ्रमो भवति तद्वदश्वेष्वपि केनाप्यवयवसंनिवेशविशेषेण यस्मिन्पुंस्येवाश्वे योषित्वबुद्धिरितरेषामश्वानां भवति। अत एव ते तेश्वास्तदा तदा तमश्वमारोहन्ति सोयमिदृशोश्वो वडवः। स च त्वष्टुः प्रियः। रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोतीति श्रुतत्वान्मिथुनप्रजयनयितृत्वम्। पशुविशेषणं प्रशंसति प्रजा हि वा इति। यदा स्त्रीलक्षणदर्शनेनास्मिन्पशौ स्त्रीत्वबुद्ध्या प्रजाः पशवश्च प्रविशन्ति, तत्र प्रजान प्रवेशो नामापत्योत्पत्तये प्रौढं समीचीनमश्वमानीय तत्रारोहयितृत्वाय प्रवृत्तिः, पशूनां प्रवेशो नाम योषित्वभ्रान्त्या तदारोहृणम्, अथ तदानीं प्रजापशुप्रवृत्तेरेष स्वतः पुमानमपि सन्स्त्रीनामधारी वडवो भवति। तदालम्भनेन साक्षादेव शीघ्रमेव प्रजापशून्प्राप्नोति। परकीयसेनायामीदृशमेव शूरसमं हनिष्यामीति स्वामिनोग्रे यः प्रतिज्ञां कर्तृमिच्छति तस्य पशुं विधत्ते। यद्वा संधिकामिनः पशुं विधत्ते”
“मैत्र श्वेतमिति। एनं प्रतिज्ञावन्तं मित्रेण कार्यसाधकेन सहकारिणा संनयति योजयति। यजमानेन यूपः संमित इति प्रकृतौ यच्छ्रुतं तदपवदितुं परिमाणाधिक्यं विधत्त विशालो भवतीति। एनं प्रतिज्ञाकारिणं व्यवसाययत्येव धैर्यमुत्पाद्य स्वकार्यनिश्चयवन्तमेव करोति। अथवैनं संधिकामिनं संधिघटकत्वेन परो राजामित्रमेवेत्येतादृशं निश्चयवन्तं करोति। विधत्ते प्राजापत्यमिति। सर्वस्रष्टृत्वेन वृष्टेरपि स्रष्टृत्वात्तदीशितृत्वम्। धनच्छन्ने सवितरि तीव्रवृष्टिवेलायामन्धकाराभाससादृश्यमन्ति, तदभिप्रेत्य पशुविशेषणं प्रशंसति कृष्णो भवतीति। कृत्स्नशरीरे कार्ष्ण्यप्राप्तावुदराद्यधस्तनप्रदेशविशेषेषश्वैत्यमिश्रणं विधत्ते शबलो भवतीति। श्वैत्यस्य मालिन्यविन्यविरोधित्वाद्विद्युत्साम्यम्। कर्णसमीप एवावनतशृङ्गत्वं विधत्ते अवाशृङ्गो भवतीति। अधोमुखत्वेन वृष्टिधारासमत्वं द्रष्टव्यम्।। इति श्रीमत्सायणचार्यविरचिते माधवीये वेदार्थप्रकाशेकृष्ण”
यजुर्वेदीयैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके अष्टमोऽनुवाकः ।। ८।।
(अथ द्वितीयकाण्डे प्रथममपाठके नवमोऽनुवाकः) (अन्नाद्यकामादिनां पशुंविधिः))
अन्नाद्यमन्नमात्रं च वाञ्छतौ दीर्घरोगवान् ॥ ११ ॥
पुष्टिकामश्च नवम एतेषां पशवः श्रुताः ।
तान्पशूनष्टमेनुवाके विधायार्थे नवमेन्नद्यकामादीनां पशून्विधित्सुरादौ कं चित्पशुं विधातुं प्रस्तौति वरुणमिति। सुषुवाणं। सोमभिषवं कृतवन्तम्। विधत्ते यमलमिति। धनिकः पुमानत्तुं योग्याय शाल्यन्नपायसादिभोज्याय समर्थो पि संविधातृमनुष्याभावादिना तन्न प्राप्नुयात्तस्यायं पशुः। वरुणः पर्जन्य मुखेन प्रकाशमावृत्य कार्ष्ण्य संपादयति। ततोस्य पशुवर्णस्य वरुणदेवत्यत्वम्। द्विपशुकं कर्म विधत्ते मैत्र श्वेतमिति—संधिशब्द कालपरत्वेन देशपरत्वेन च द्वेधा सूत्रकारो व्याख्यातवान्—“अपां चौषधीनां च संधाविति प्रावृषि शरत्प्रतिपत्तौ वापि वापा चौषधीनां च संधौ ” इति। ऋत्वोर्मध्ये नदीक्षेत्रयोर्मध्य इति तस्यार्थः। ओषधीनामुपकारकत्वेन मित्रसंबन्धित्वम्। संधौ प्रयोग उभयरसोपजीवनेन प्रशस्तः। एतदेवाभिप्रेत्य संधिं प्रशंसति अपां चौषधीनामिति। यूपस्य शाखाद्वयं विधत्ते विशाख इति। विविधे शाखे यस्यायौ विशाखः। तदिदं सूत्रकारो दर्शयति“विशाखोयूप इति यदूर्ध्वं रशनायास्तद्विशाखं यद्वोपर्युमे शाखे अष्टाश्री सचषाले स्याताम् ” इति। दीर्घरोगिणो द्विपशुकं कर्म विधत्ते मैत्र श्वेतमिति। मित्रो हि कूरं वरुणं शान्तं करोति। स च वरुणपाशान्मोचयति। तयोः पृथगुपक्रमः। पुष्टिकामस्य पशुं विधातुं प्रस्तौति देवा वा इति। प्रजापशुसमृद्धिः पुष्टिः। सा च मनुष्यमिथुने पशुमिथुने च संभवतीत्येवं देवा उपायमपश्यन्। दृष्ट्वा च तस्यां पुष्टौ सभ्यग्राधयितुं शक्ता नाभूवन्। तदानीमश्विनावूचतुः—आवयोरेवेषा पुष्टीः संबन्धिनी। तस्मादेतस्यां पुष्टावावाभ्यां विना मा वदध्यं संभाषणमेव मा कुरुतेति। तस्मात्सा पुष्टीरश्विनोरधीनाभवत्। विधत्ते यः पुष्टिकाम इति। एकस्मिन्गर्भे सह जातौ यसौ। तयोर्मध्ये या स्त्री सा यंसी।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठकेनवमोऽनुवाकः ।।९।।
“(अथ द्वितीकाण्डे प्रथमप्रपाठके दशमोऽनुवाकः)। [काम्येष्टियाज्यापुरोनुवाक्याविधानम्]
दौर्ब्राह्मण्यभिशापौ च सूर्याविर्भाववर्जनम् ॥ १२ ॥
निमित्तीकृत्य दशमे पशवः समुदीरिताः ।
अथ दशमेनुवाके नैमित्तिकाः पशवो विधातव्याः। तत्र दुर्ब्राह्मणस्य सोम पानेच्छां निमित्तीकृत्य पशुं विधत्ते आश्विनमिति। मलिनश्वैत्यं धूम्रत्वम। ललाटे शौक्ल्येन लाञ्छितोवशिष्टे शरीरे धूम्रवर्णः पशुरश्विनोः प्रियः। दुर्बाह्मणलक्षणं बौधायन आह “यस्य वेदश्च वेदी च विच्छिद्येते त्रिपुरुषम्।” स बै दुर्बाह्मणो नाम यश्चैव वृषलीपतिः” इति। पूर्वोक्तपुनरुत्सृष्टपशौ यो ब्राह्मणः तृतीयादित्युक्तत्वादीदृशो दुर्बाह्मणो नाधिकारी। अब तु सोमपाने श्रध्दालुत्वेनेच्छावत्वे सति दुर्बाह्मणोधिक्रियते। आश्विनग्रहब्राह्मणे तौ देवा अब्रुवन्नपूतौ वा इमौ मनुष्यचरा भिषजा इत्युक्तत्वादपूतयोरितरदेववत्सेमपातृत्वं नास्ति। वश्चाद्यज्ञस्य च्छिन्नं शिरःप्रतिसंधाय तेन तुष्टेभ्यो देवेभ्यः सोमग्रहं लब्धवन्ती। तदपि तत्रैवाम्रातम—“तौ बहिष्पवमानेन पवयित्वा ताभ्यामेतमाश्विनमगृह्णन्” इति। अतः समानशीलत्वाद्दुब्राह्मणस्य सोमं पिपासोरश्विनौ देवता। पशोर्घूम्रत्ववर्णेन दौर्ब्राह्मण्यलक्षण धूम्रिमाणं मालिन्यमस्मादपहन्ति। ललाटे शौक्ल्येनास्मिन्मुखद एव मुख्यमेव ब्रह्मवर्चसलक्षणं तेजो धत्ते। मिथ्यापवादं निमित्तीकृत्य कंचित्पशुं विधत्ते वायव्यमिति। गोभिः सहारण्ये चरितुं गताद्वृषभात्कस्यांचिन्मृग्यामुत्पन्नो गोमृगः। उभयलक्षणदर्शनात्तथात्वं निश्चेयम्। कश्चित्पुरुषो ब्राह्मणं न हतवांस्तथाशङ्रकया तादृशं यं पुरुषं जना ब्रह्महेत्यपवदेयुस्तस्यायं पशुः। यद्यप्यस्य पुरुषस्य ब्रह्महत्याप्रयुक्तो नरको नास्ति तथाप्यपूता वागृच्छत्येतं निन्दारूपा वाक् शङकितैर्जनैः क्रियमाणा प्राप्नोत्येव। तामेव निन्दां निमित्तीकृत्यैव विहितो गोमृगो मुख्यो ग्राम्यो न भवति। मृग्यामुत्पन्नत्वात्। नापि मुख्य आरण्यो वृषभदुत्पन्नत्वात्। अभिशस्तस्य ग्रामे नास्ति वासो बन्धुभिः सह व्यवहाराभावात्। नापि वानप्रस्थादिवदरण्ये ग्रामवासित्वात्। देवानांमध्ये वायोः पवित्रत्वं द्रव्यशुध्दिहेतुत्वादवगम्यते। तच्च याज्ञवल्येन स्मर्यते “रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मरुतार्केण शुध्यति पक्केष्टकचितानि च” इति। अनुष्ठितेप्यस्मिन्पशौ निन्दां केचिल्लौकिका न परित्यजन्तीतिचेत्तर्हि निदन्तु नाम ते। तथाप्यसावभिज्ञैः शिष्टैर्व्यवहार्य एव। सोमयागमध्य आश्विनशस्त्रकाले सूर्यानाविर्भावं निमित्तीकृत्य कंचित्पशुं विधत्ते पराचिति। अग्निर्होता गृहपतिः स राजेत्यादिकं सहस्रसंख्याकामिऋग्भिरुपेतं शस्त्रमाश्विनम्। तच्चातिरात्रयागे रात्रिपर्यायनामकेषु शस्त्रेषु पठितेषूषःकालात्प्राग्वेला यामारब्धव्यम्। तस्मिञ्शस्त्रे शस्यमाने सति सूर्य उदित्वा मेघाद्यावरणमन्तरेण यदाविर्भवेत्तदा नायं पशुरपेक्षितः। यस्य यजमानस्य तदानीं नाविर्भवेदेतस्मै यजमानायेयं रात्रिर्व्युच्छन्ती प्रभातं प्राप्नुवती सती न सम्यक्प्राप्नोति। किंतु पराची व्युच्छती पराङ्मुखी तस्मिन्नपरक्ता सती प्रभातं प्राप्नोति। तदानीमयं यजमानः प्रकाशविरुध्दं नमः स्वर्गविरोधिनं पाप्मानं च प्रविशति। तादृशस्यायं पशुः, स च बहुरूपश्चित्रवर्णः। प्रतीची संमुखी तस्मिन्ननुरक्तेत्यर्थः। तेन पशुना तमः पाप्मानं चापहन्ति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके दशमोनुवाकः।।१०।।”
“(अथ द्वितीयकाण्डे प्रथमप्रपाठके एकादशोनुवाकः) । तैरतैर्दशभिरनुवाकैः काम्यपशवः समापिताः । अथैकादशेनुवाके काम्येष्टियाज्या (पुरोनुवाक्या) उच्यन्ते । तस्मिंश्च काम्येष्टिकाण्डे पूर्वोदाहृतात्सोमारौद्रचरोरूर्ध्वं द्विहविष्का काचिदिष्टिरेवमाम्नायते ‘ऐन्द्रमेकादशकपालं निर्वपेन्मारुतँ सप्तकपालं ग्रामकाम इन्द्रं चैव मरुतश्च स्वेन भागधेयेनोप धावति त एवास्मै सजातान्प्र यच्छन्ति ग्राम्येव भवति” (सं. का. २प्र. २अ. ११) इति । प्रकृतौ सह प्रयुज्यमानयोरपि द्वयोः पुरोडाशयोरेकस्मिन्नेवाधिश्रयणम् । इह तु तद्वाधितुं विधत्ते “आहवनीय ऐन्द्रमधि श्रयति गार्हपत्ये मारुतं पापवस्यसस्य विधृत्यै” [सं. का. २प्र. अ. १] इति । पापेन वस्यसं वसुमत्तरं पापवस्यसं पापाधिक्यापेतमित्यर्थः । मरुतामुग्रदेवत्वात्तदीयं हविः पापवस्यसम् । ऐन्द्रस्य तद्धविषो विभागेनावधारणार्थं भिन्नाग्नावधिश्रयणम् । तत्रत्यकपालसंख्यां प्रशंसति “सप्तकपालो मारुतो भवति सप्तगणा वै मरुतो गणश एवास्मै सजातानवरुन्धे” (सं. का. २प्र. २अ. ११) इति । ईदृङ्चेत्यादिनोक्ताः सप्तसंख्याका मरुत एको गणः । तथाविधाश्च गणाः सप्तसंख्याकाः । तेषां हविष्प्रदानेन गणशो बहुविधगणरूपान्भ्रातृमित्रभृत्यादीनवरुन्धे । प्रकृतौ सामिधेनीसंघानुवचनात्प्रागेव हविरासादनं, तदपवदितुं विधत्ते “अनूच्यमान आ सादयति विशमेवास्मा अनुवर्त्मानं करोति” (सं. का. २प्र. २अ. ११) इति । अत्र सूत्रकारः “ऐन्द्रमासादयति सामिधेनीप्वनूच्यमानासु मारुतम्” इति । यजमानास्यानुकूलं वर्त्म वर्तनी यस्या विशः सेयमनुवर्त्मा । अनयोरुभयोर्हविषोर्याज्यानुवाक्यानां पूर्वकाण्ड एव समाम्नातानां प्रतीकानुदाहरति - इन्द्रं व इति । प्रथमं युग्मं षष्ठप्रपाठकस्यान्त्यानुवाके पठितम् । द्वितीयं युग्मं यु पञ्चमप्रापठकस्यान्त्यानुवाके पठितम् । तदर्थस्तु तत्रैव द्रष्टव्यः ।”
“उक्तामेवेष्टिं फलान्तराय विधत्ते “एतामेव निर्वपेद्यः कामयेत क्षत्त्राय च विशे च समदं दध्यामित्यैन्द्रस्यावद्यन्ब्रूयादिन्द्रायानु ब्रूहीत्याश्राव्य ब्रूयान्मरुतो यजेति मारुतस्यावद्यन्ब्रूयान्मरुद्भ्योनु ब्रूहित्याश्राव्य ब्रूयादिन्द्रं यजेति स्व एवैभ्यो भागधेये समदं दधाति वितृँहाणास्तिष्ठन्ति” (सं. का. २प्र. २अ. ११) इति । मदेन सह वर्तत इति समदः कलहः । राज्ञः प्रजायाश्च परस्परं कलहं कुर्यामिति कामयितुरियमिष्टिः । अस्यामिष्टावयं प्रकृतेर्विशेषः – प्रकृतावाग्नेययस्यावदानकाले पुरोनुवाक्याप्रैषमुक्त्वा तदाश्रावणादूर्ध्वमाग्नेययाज्याया एव प्रैषं वदेत्, न तु देवतान्तरयाज्यायाः । इह त्वन्यविषयोनुवाक्याप्रैषोन्यविषयश्च याज्याप्रैष इति । एवं च सत्येभ्य इन्द्रमरुद्भ्यः स्वस्वभागे कलहं कृतवान्भवति । तदीयकलहानुसारेण राजा विशश्च वितृंहाणा विशेषेण परस्परं हिंसां कुर्वाणास्तिष्ठन्ति । कलहसमाधानकामस्य तामेवेष्टिं विधत्ते “एतामेव निर्वपेद्यः कामयेत कल्पेरन्निति यथादेवतमवदाय यथादेवतं यजेद्भागधेयेनैवैनान्यथायथं कल्पयति कल्पन्त एव” (सं. का. २ प्र. २ अ. ११) इति । कल्पेरन्परस्परकलहरहिता भवेयुः । एतानिन्द्रमरुतः स्वस्वभागभाजिनः कल्पयति । तथा सति राजा विशश्च कल्पन्त एव कलहरहिता स्निग्धा भवन्त्येव । एतयोः कलहतत्समाधानार्थेष्ट्योः पूर्वोदाहृता एव याज्यानुवाक्याः । इष्ट्यन्तरं विधत्ते “ऐन्द्रमेकादशकपालं निर्वपेद्वैश्वदेवं द्वादशकपालं ग्रामकाम इन्द्रं चैव विश्वाँश्च देवान्त्स्वेव भागधेयेनेप धावति त एवास्मै सजातान्प्र यच्छन्ति ग्राम्येव भवति” (सं. का. २ प्र. २ अ. ११) इति । प्रकृतौ हविर्द्वयस्य सहावदानं नास्ति । अत्र तु तद्विधत्ते “ऐन्द्रस्यावदाय वैश्वदेवस्याव द्येदथैन्द्रस्योपरिष्टादिन्द्रियेणैवास्मा उभयतः सजातान्परि गृह्णाति” (सं. का. २ प्र. २ अ. ११) इति । द्विर्हविषोवद्यतीति श्रुतत्वादकैकस्य हविषो द्विर्द्विरवदानं सह कर्तव्यम् । तथा सत्यत्र सकृदैन्द्रमवदाय ततो वैश्वदेवं द्विरवद्येत्पुनरप्युपरिष्टादैन्द्रमवद्येत् । एवं सति यजमानार्थं सजातान्ग्रामनिवासिनः सर्वानुभयोः पार्श्वयोरिन्द्रियसामर्थ्ययुक्तान्करोति । अथ दक्षिणाविशेषं विधत्ते -
“उपाधाय्यपूर्वयं वासो दक्षिणा सजातानामुपहित्यै” [सं. का. २ प्र. २ अ. ११] इति । वस्त्रस्योभयपार्श्वान्तयोरुपानीय स्थापनीयं रक्तसूत्रमुपाधाय्यं, तच्च पूर्वमेवोपानयनकाले वस्त्रं याति प्राप्नोतीति पूर्वयम्, उपाधाय्यं पूर्वयं यस्मिन्वाससि तदुपाधाय्यपूर्वयम् । अत एव सूत्रकारः — “उपाध्याय्यपूर्वयं वासो दक्षिणा (णेति) चित्रात्तम” इत्यर्थः (दिः) । सादृश्यं वाससो दानं सजातानामुपहित्यै यजमानसेवायै संपद्यते । अस्यामिष्टौ पुरोनुवाक्यामाह — भरेष्बिन्द्रमिति । इन्द्रमग्न्यादिदेवांश्च भरेषु भ्रियमाणेषु संपाद्यमानेषु हविःषु हवामह आह्वयामः । किमर्थं, सातये देवेभ्यो हविर्दानाय, स्वस्तये यजमानस्य श्रेयसे च । कीदृशमिन्द्रं, सुहवं सुखेनाह्वातुं शक्यम् । अँहोमुचं पापान्मोचयितारं, सुकृतं शोभनं हितं करोतीति सुकृतं, दैव्यं दिवि भवं, जनं जनयितारं वृष्टिद्वारेण सस्याद्युत्पादकम् । अत्र पूर्वार्धस्येन्द्रविषयत्वादुत्तरार्धस्येतरबहुदेवविषयत्वाच्च हविर्द्वयस्यैकैव पुरोनुवाक्या । तत्रैव याज्यामाह - ममत्तु न इति । परितः सर्वतो जेमनं भक्षणं यस्याग्नेः सोयं परिज्मा । स च नोस्मान्ममत्तु हर्षयतु । वासरस्य हन्ता गमयिता सूर्यः स च नो ममत्तु वातो नो ममत्तु । अपां वृषण्वान्वर्षकः पर्जन्यदेवो नो ममत्तु । पर्वतशब्देन कैलासादिपर्वतवासिदेवविशेषो हिमवान्वाभिधीयते । आश्वमेधिकेषु पशुविधिषु हिमवतो हस्तीति देवत्वश्रवणात् । हे इन्द्रापर्वतौ युवां नोस्माञ्शिशीतं तनूकुरुतंम् । पापबहुलानामस्माकं पापक्षयस्तनूकरणम् । तत्तेन हविष्प्रदानेन विश्वेदेवा नोस्मान्वरिवस्यन्तु परिचर्यासमये कृपयावलोकयन्तु ।
इष्ट्यन्तरं विधत्ते — “पृश्नियै दुग्धे प्रैयङ्गत्वं चरुं निर्वपेन्मरुद्भ्यो ग्रामकामः पृश्निये वै पयसो मरुतो जाताः पृश्नियै प्रियङ्गवो मारुताः खलु वै देवतया सजाता मरुत एव स्वेन भागधेयेनोप धावति त एवास्मै सजातान्प्र यच्छन्ति ग्राम्येव भवति” (स. का. २ प्र. २ अ. ११) इति । पृश्निः श्वेता गौस्तादृश्या गोर्मरुतां प्रियंगूनां (णां) चोत्पत्तिप्रसिद्धिः शाखान्तरीयार्थवादे द्रष्टव्या । पृश्नियै प्रियंगव इत्यत्र पयसो जाता इत्यनुवर्तते । एकोदरत्वात्प्रियंगूनां(णां) मरुद्देवत्यत्वम् ।
विधत्ते — “प्रियवती याज्यानुवाक्ये भवतः प्रियमेवैनँ समानानां करोति द्विपदा पुरोनुवाक्या भवति द्विपद एवाव रुन्धे चतुष्पदा याज्या चतुष्पद एव पशूनव रुन्धे” (सं. का. २ प्र. २अ. ११) इति । प्रियशब्दोस्ति ययोस्ते ऋचौ प्रियवत्यौ । ते चोदहरिष्येते । तत्प्रयोगाद्यजमानस्य समानानां मध्ये प्रियत्वम् । तयोऋचोर्विद्यमानं पापप्राप्तं द्विपद(दा) त्वं चतुष्पद (दा) त्वं च मनुष्यप्राप्त्या पशुप्राप्त्या च प्रशस्यते । तत्र पुरोनुवाक्यां द्विपदामाह — प्रिया इति । मरुतस्तुराणां हविःस्वीकारं प्रति त्वरमाणानां वो युष्माकं प्रिया नाम प्रियाणि नामानि आहुव आह्वयामि । यद्यस्माद्यूयं तृपत्तृप्तिं वावशानाः कामयमानाः स्थ तस्मादाह्वयामि । तत्रैव चतुष्पदां याज्यामाह — श्रियसे कमिति । ते मरुतः पुरोवातरूपाः सन्तः कं सुखं श्रियसे प्राणिभिराश्रयितुं भानुभिर्भासकै रश्मिभिः सूर्यरश्मिभिः सहिताः संमिमिक्षिरे मेढुं वृष्ट्या भूमिं सम्यक्सेक्तुमिच्छन्ति । ते मरुत ऋक्वभिर्याज्यापुरोनुवाक्यारूपाभिऋग्भिः स्तुताः सन्तः सुखादयः शोभनं हविः खादितवन्तो भक्षितवन्तः । ततस्ते मरुतो वाशीमन्त उत्साहजनितघोषरूपबहुविधशब्दवन्त इष्मिणः स्वगृहान्प्रति गतिमन्तोऽभीरवः स्वकार्यस्य निष्पन्नत्वेन विघ्नकारिभ्योऽसुरेभ्यो भयरहिताः प्रियस्य मारुतस्य धाम्नो मरुतां संबन्धि यत्प्रियं स्थानं तद्विदेः लब्धवन्तः ।
“इष्ट्यन्तरं विधातुं प्रस्तौति “देवासुराः संयत्ता आसन्ते देवा मिथो विप्रिया आसन्तेन्योन्यस्मै ज्यैष्ठ्यायातिष्ठमानाश्चतुर्धा व्यक्रामन्नग्निर्वसुभिः सोमो रुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यैः स इन्द्रः प्रजापतिमुपाधावत्तमेतया संज्ञान्यायाजयदग्नये वसुमते पुरोडाशमष्टाकपालं निरवपत्सोमाय रुद्रवते चरुमिन्द्राय मरुत्वते पुरोडाशमेकादशकपालं वरुणायादित्यवते चरुं ततो वा इन्द्रं देवा ज्यैष्ठ्यायाभि समजानत” (सं. का. २ प्र. २ अ. ११) इति । देवा असुराश्च यदा युद्धार्थमुद्यतास्तदानीमहमेव ज्येष्ठो भविष्यामि नेतर इत्येवं परस्परं ज्यैष्ठ्यमनङ्गीकुर्वाणा देवाः परस्परं प्रियरहिताः सन्तः सेनां चतुर्धा विभज्य विविधं यथा भवति तथा प्रक्रान्तवन्तः । तत्र वसुभिः सहितोग्निरेकः संघः । रुद्रैः सहितः सोमो द्वितीयः संघः । मरुद्भिः सहित इन्द्रस्तृतीयः संघः । आदित्यैः सहितो वरुणश्चतुर्थः संघः । तदानीमिन्द्रः प्रजापतिमुपसेव्य तदुपदेशेन संज्ञानीनामिष्टिं कृतवान् । तत ऊर्ध्वमिष्टिसामर्थ्यादपगतमत्सरा देवा ज्यैष्ठ्यार्थमिन्द्रं सम्यगभ्यनुज्ञातवन्तः । सम्यग्ज्ञायते ययेष्ठ्यासौ संज्ञानी । तानूनप्त्रार्थवादत्वेन संज्ञान्या अननुष्ठितत्वान्नास्ति कस्यचित्प्राधान्यं, किंतु स्वकार्यसिद्धिमभिप्रेत्य सर्वे मात्सर्यं जहुः । इह त्विष्टिप्रसादादिन्द्रस्य प्राधान्यम् । एतच्चोभयं कल्पभेदाद्युगभेदाद्वा द्रष्टव्यम् । विधत्ते “यः समानैर्मिथो विप्रियः स्यात्तमेतया संज्ञान्या याजयेदग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपेत्सोमाय रुद्रवते चरुमिन्द्राय मरुत्वते पुरोडाशमेकादशकपालं वरुणायादित्यवते चरुमिन्द्रमेवैनं भूतं ज्येष्ठ्याय समाना अभि संजानते वसिष्ठः समानानां भवति” (सं. का. २ प्र. २ अ. ११) इति । इन्द्रमेव भूतं स्वामिनमेव सन्तमेनं यजमानं ज्येष्ठ्यार्थं सम्यगभ्यनुजानन्ति । ततोयं समानानां वसिष्ठो वासयितृतमः पालको भवति । तत्र पुरोनुवाक्यामाह अग्निरिति । वसुभिः सहितोग्निः प्रथमसंघाधिपतिर्नोस्मानवतु । रुद्रैः सहितः सोमस्त्वस्मान्स्वयमेव प्रीतिपुरःसरमभिरक्षतु । मरुद्भिः सहितः इन्द्र ऋतुधा तत्तदृतूचितभोगधारिणोस्मान्करोतु । आदित्यैः सहितो वरुणो नोस्मान्संशिशातु संशितव्रतान्सम्यगनुष्ठितव्रतान्करोतु । तत्रैव याज्यामाह — सं नो देव इति । वसुभिः सहितोग्निर्देवो नोस्मान्समजिज्ञिपत्सम्यगनुष्ठानं ज्ञापयतु। रुद्रसंबन्धिनीभिस्तनूभिः सहितः सोमः समजिज्ञिपत्। यज्ञयोग्यैर्मरुध्दिः सहित इन्द्रः समजिज्ञिपत्। आदित्यैः सहितो वरुणः समजिज्ञिपत्। तत्रैवविकल्पितामन्यां याज्यामाह—यथादित्या इति। पूर्वोक्तेषु संघचतुष्टयमध्यवर्तिषु देवेषु यथा वरुणसमीपवर्तिन आदित्या अग्निसमीपवर्तिभिर्वसुभिः संबभूवः संमताः प्रीतियुक्ता बभुवुः, यथा चेन्द्रसमीवार्तिभिर्मरुभ्दिः सह सोमसमीपवर्तिनो रुद्रा अभिसमजानत ज्यैष्ठ्यं सम्यगभ्यनुज्ञातवन्तः,त्रीणि नामान्याहवनयिगार्हपत्यदक्षिणाग्निरूपाणि हव्यवाहनकव्यवाहनसहरक्षोरूपाणि वा यस्याग्नेः सोग्निस्त्रिणामा हे त्रिणामन्नेवा, एवमेव यथा रुद्रादयस्तद्वद्विघे देवा अन्येपि रुद्रादिसमीपवर्तिनो देवाः सर्वेहृणीयमाना वैरिभिर नपह्रियमाणविभूतयः समनसः परम्परं समानमनस्का भवन्तु। यद्यप्यत्र चत्वारि हवींषि तथापि सहप्रदातेन पुरोनुवाक्याया भेदो नास्ति, तथा याज्याया अपि यथा पूर्वत्र ग्रामकामं प्रति विहितयोरैन्द्रवैश्वदेवहविषोः सहप्रदानात्पुरोनुवाक्यादिभेदो नास्ति। अत्रैव स्विष्टकृतः पुरोनुवाक्यामाहकुत्राचिद्यस्येति। यस्य स्विष्टकृद्देवस्य समृतौ संततौ सत्यां नृषदने मनुष्यस्थाने ग्रामगृहादौ कुत्राचिद्यत्र कुत्रापि नरो मनुष्या रण्वा रममाणास्तिष्ठन्ति, किंच यं स्विष्टकृद्देवमर्हन्तश्चिन्मन्त्रविशेषैः पूजयन्त एव तदीयाहुत्यर्थमिन्धते वह्विं प्रज्वलयन्ति, प्रज्वाल्य च जन्तबो यजमानाः संजनयन्ति समीचीनं फलमुत्पादयन्ति, तादृशः स्विष्टकृद्देवः प्रसीदत्विति शेषः। तत्रैव याज्यामाहसं यदिष इति। यद्यस्मात्कारणदिष इष्यमाणान्यन्नानि संवनामहे स्विष्टकृद्देवप्रसादेन सम्यग्भजामः, मानुषाणां यजमाननां हव्या होमयोग्यानि द्रव्याणि संवनामहे, उतापि च द्यन्नस्य धनस्य शवसो बलस्य ऋतस्य यज्ञस्य च रश्मिं रश्मिवत्प्रकाशमुत्कर्षमाददे स्वी कुर्मः, तस्मात्कारणादेवमनुग्रहीतारं स्विष्टकृद्देवं भजाम इति शेषः। इष्ट्यन्तरं विधत्ते “आदित्येभ्यो भुवद्वद्भ्यश्चरुं निर्वपदे्भूतिकाम आदित्यावा एतं भूत्यै प्रति नुदन्ते योलं भूत्यै सन्भूतिं न प्राप्नोत्यादित्यानेव भुवद्वतः स्वेन भागधेयेनो प धावति त एवैवं भूतिं गमयन्ति भवत्येव ” (सं. का. २प्र. ३अ.१) इति। यदीययोर्याज्यापुरोनुवाक्ययोर्भुवच्छब्दः श्रूयते त एत आदित्या भुवद्वन्तः। यद्यपि पुरोनुवाक्यायां भवता मृडयन्त इति भवतेत्ययं शब्दः पठितः, यद्यपि च याज्यायां भवति प्रणीताविति भवतीत्येष शब्दः पठितो न तु भुवच्छब्दः क्काप्यस्ति, तथापि वर्णविकारमभिप्रेत्य भुवद्वद्भ्य इत्युच्यते। एवमन्यत्रापि वायवे नियुत्वत आलभेत, अग्नेय पथिकृत इत्यादौ विशेषणैर्याज्यानुवाक्यागताः शब्दः स्मर्यन्त इति द्रष्टव्यम्। ते च याज्यादिगताः शब्दास्तत्तत्प्रकृतोचितफलस्य सूच काः। अतोत्रापि भूतिसूचकभुवच्छब्दवन्त इत्युक्तं भवति। तथा सति भुवद्वन्तः फलत्वेन दादव्यभूतिमन्त इत्यर्थोपि लभ्यते।”
“तत्र पुरोनुवाक्यामाह—यज्ञो देवानामिति। अथं यज्ञो देवानां सुम्नं सुखं प्रत्येति गच्छति प्रवर्तते। हे आदित्यसो यूयमस्मान्मृडयन्तः सुखयन्तो भवत तिष्ठत। युष्माकं सुमतिरनुग्रहबुध्दिरर्वाचीनेष्बस्मासु प्रवृत्ता सती, आववृत्यादावर्तताम्। या सुमतिरंहोश्चिदस्मदीयपापादपि आवर्तते पापं विनाशयतीत्यर्थः। सा सुमतिर्वरिवोवित्तरासदतिशयेन परिचर्याभिज्ञा भवतु। तत्रैव याज्यामाह—शुचिरप इति। अथं यजमानः शुचिः सन्नपोनुष्ठीयमानं कर्मोपक्षेति समीपे प्राप्नोति। कीदृशोयं, सूयवसाः शोभनं यवसं तृणं तेनोपलक्षितमन्नादिभोग्यं यस्य सोयं सूयवसाः अदब्धः कैरपि शत्रुभिरतिरस्कृतः, वृध्दं दीर्घ वय आयुर्यस्यासौ वृध्दवयाश्चिरजीवीत्यर्थः। शोभना वीराःपुत्रा भृत्याश्च यस्यासौ सुवीरः। य ईदृशो यजमान आदित्यानां प्रणीतौ प्रणयने कर्मणि भवति प्रवर्तने तं यजमानं शत्रवोन्तितः समीपे नकिर्घ्नन्ति न विनाशयन्ति। दूरादपि न घ्नन्ति। नकिः शब्दो निषेधवाची। इष्ट्यन्तरं विधत्ते—“आदित्येभ्यो धारयद्वद्भ्यश्चरुं निर्वपेदपरुध्दो वापरुघ्यमानो वादित्या वा अपरोद्धार आदित्या अवगमयितार आदित्यानेव धारयद्वतः स्वेन भागधेयेनोप धावति त एवैनं विशि दाध्रत्यनपरुध्यो भवति” (सं. का. २ प्र. ३ अ. १) इति। धारयच्छब्दो यदीययोर्याज्यानुवाक्ययोप्रविर्तते त इमे धारयद्वन्तः। स्थानभ्रष्ट स्वस्थाने धारयितुं क्षमा इति तस्य पदस्य पर्यवसितार्थः। ये राजा पूर्व स्वराष्ट्राद्वैरिणा निःसारितः सोपरुध्दः यस्त्विदानीं निःसार्यते सोपरुध्यमानः, तयोरन्यतरस्येयमिष्टिः अपरोध्दारः पर्वं निःसारयितारः। अवगमयितार इदानीं निःसारयितु द्युताः अथवा पुनः स्वराष्ट्रं प्रापयितारः। विशि स्वराष्ट्रगतप्रजायां दाध्रति धारयन्ति स्थापयन्तीत्यथः। ततोयं वैरिभिरपरोध्दुमशक्यो भवति। तत्र पुरोनुवाक्यामाह धारयन्त इति। आदित्या अस्मदभिमतं कुर्वन्त्विति वाक्यशेषः। कीदृशाः, धारयन्तोपरुध्दं यजमानं स्वराष्ट्रे स्थापयन्तः, जगत्स्थाः कृत्स्तं जगदनुग्रहीतुं तत्र तत्र तिन्ष्ठति, यद्वा जगध्दारयन्त इत्यत्रान्वयः। स्थाः स्थिताः, देवा दीव्यन्तः। विश्वस्य भुवनस्य गोपाः पालयितारः, जगध्दारयितुं दीर्घभूता धीर्येषां ते दीर्घधियः असवः प्राणास्ते यस्य सन्ति सोयं यजमानोसुरस्तस्मै हितमिदं कर्मासुर्यम्। यद्वा राक्षसवद्वाको राजासुरस्तन्निबारणायोपयुक्तमिदं कर्मासुरवदिति असूर्यं, तद्रक्षमाणः ऋसं सत्यं स्वराष्ट्रे यजमानं स्थापयाम इत्येतादृशवचनं तद्युक्ता ऋतावानः, ऋणानि चयमाना अपरोद्धुर्वैरिणो दारिद्र्यसंपादनेन बहुन्यृणानि संपादयन्तः। तत्रैव याज्यामह—तिस्त्रो भूमीरिति। हेर्यमन्वरुण मित्र, एतैस्त्रिभिर्नाभ भिरुपलक्षिताः सर्वेपि द्वादशादित्या वो युष्मांक तन्महित्वं माहात्म्यं चारु रमणीयं महि महदधिकं च। कयं माहात्म्याधिकं तदुच्यते—तिस्रो भूमीः स्वर्गंमर्त्यपातालरूपा धारयन्धरितवन्तः। अपि च त्रीन्द्यून्सूर्यचन्द्रवह्निगतान्प्रकाशन्धारितवन्तः। तत्र सूर्यरश्मिरूपस्य प्रकाशस्य धारयितृत्वं स्पष्टम्। सूर्यरश्मय एव जलमयेन चन्द्रमण्डलेन व्यवहिताः शीतस्पर्शा अभिभूतोष्णस्पर्शा ज्योत्स्नारूपेणावभासन्त इति केषांचिन्मतम्। एतदेवाभिप्रेत्य श्रूयते—“सुषुम्रः सूर्यरश्मिश्चन्द्रमा गन्धर्वः” इति। अग्निदीप्तेरादित्यसंबधश्च स्पष्टमेव श्रूयते—“उद्यन्तं वावादित्यमग्निरनुसमारोहति इति। तस्मात्प्रकाशत्रयबारयितृत्वं युक्तम्। किंचैषां यजमानानां विदये यज्ञे यानि त्रीणि व्रतान्यन्सःस्थितानि मनोवाक्कायकर्म निष्पाद्यानि वा नित्यनैमित्तिककाम्यरूषाणि या तानि सर्वाणि ऋतेन पालयिष्माम इत्येतादृशेन सत्यवचनेन धारितवन्तः।” अत्र पूर्वमपरुद्धस्य नास्ति विशेषाङ्गोपदेशः। अपरुध्यमानस्य तु प्रयोगे सोस्ति। तत्र कंचिन्मन्त्रमुत्पाद्य विनियुङ्गक्ते “अदितेनु मन्यस्वेत्यपरुध्यमानोस्य पदमा ददीतेयं वा अदितिरियमेवास्मै राज्यमनु मन्यते” (सं. का. २ प्र. ३ अ. १) इति। हेदिते भूमे त्वमनुमन्यस्व राष्ट्रप्रवेशार्थं मामनुमन्यस्वेत्येतं मन्त्रमुच्चारयन्नस्य शत्रोः पदाङ्कितभूरज आददीत। इयं पृथिव्येवादितिशब्दवाच्या, सैवास्या अपरुध्यमानार्थं राज्यमङ्गी करोति। "
“मन्त्रान्तरमुत्पाद्य व्याचष्टे “सत्याशीरित्याह सत्यामेवाशिषं कुरुते” (सं. का. २ प्र. ३ अ. १) इति। आशीरस्पदपेक्षितं फलं सत्यमस्त्विति शेषः। अन्यं मन्त्रमुत्पाद्य व्याचष्टे “इह मन इत्याह प्रजा एवास्मै समनसः करोति” (सं. का. २ प्र. ३ अ. १) इति। इह मदीये राष्ट्रप्रवेशे प्रजानां मनोनुकूलं भवत्विति शेषः। पुनरपि मन्त्रान्तरमुत्पाद्य व्याचष्टे “उष प्रेत मरुतः सुदनव एना विश्पतिनाभ्यमु राजनभित्याह। मारुती वै विड्ज्येष्ठो विश्पतिर्विशैवैन राष्ट्रेण समर्धयति” (सं. का. २ प्र. ३ अ. १) इति। हे सुदानवः सुष्ठुराष्ट्रप्रवेशदातारो मरुतो यूयमेना विश्पतिनैतेन विरोधिना राष्ट्रपतिना सह योद्धुममुं वीरसिंहवर्माणं संजिहीर्षमाणमपरुध्यमानं राजानमभिमुखीकृत्योपप्रेत समीपे गच्छेत। अस्मिन्मन्त्रे विष्पतिनेति यदुक्तं तत्र या विट्प्रजा सा मरुतामधीनत्वान्मारुती, तस्या विशः पतिज्येष्ठोपरोध्दा, तेन ज्येष्ठेन विश्पतिना सह योद्धुमित्येवं ब्राह्मणेनोक्तस्य व्याख्यानस्य शेषः पूरणीयः। एतस्य ब्राह्मणव्याख्यानमन्त्रस्य पाठे सति प्रजया देशेन चैनं यजमानं समृध्द करोति। एतेषां मन्त्राणां विनियोगमापस्तम्बो दर्शयति—“हविष्कता वाचं विसृज्योप प्रेत मरुत सुदानव इति यजमानमभ्येति सत्याशीरिति यजमानस्योत्तरे वाससि पदै कदशं निवपतीह मन इत्युरसि शेषं निवपति” इति। "
अत्र कंचित्प्रयोगविशेषं क्रमेण विधत्ते “य परस्ताद्ग्राम्यवादी स्यात्तस्य गृहाद्वीहीना हरेच्छुक्लाश्च कृष्णाश्च विचिनुयाद्ये शुक्ला स्युस्तमादित्यं चरुं निर्वपेदादित्या वै देवतया विडविशमेवाव गच्छति” सं. का. २ प्र. ३ अ. १ ) इति।
“ग्रामेभ्यो हितं ग्राम्यं तद्राज्ञोग्रे वदतीति ग्राम्यवादी। स द्विविधः अन्तरङ्गो बहिरङ्गश्च। तत्र बहिरङ्गः सभायामेय वदति। अन्तरङ्गःस्तु सभायाः परस्तादन्तःपुरे गत्वा गूढं हितं वदति तस्य गृहाद्व्रीहीनाहरेत्। विट्शब्दवाच्यायाः प्रजाया आदित्यदेताकत्वादादित्य चरुणा विशमेव प्राप्नोति। विभक्तानां द्विविधतण्डुलानी मध्ये शुक्लैरादित्यचरु विधाय कृष्णैर्वारुण चरुं विधत्ते “अवगतास्य विडनवगत राष्ट्रमित्याहुर्ये कृष्णा स्युस्तं वारुणं चरुं निर्वपेद्वारुणं वै राष्ट्रमुभे एवं विशं च राष्ट्रं चाव गच्छति” (सं. का. २ प्र. ३ अ. १ ) इति। अस्य यजमानस्यादित्यचरुणा यद्यपि प्रजा प्राप्ता भवति तथापि राष्ट्रं भूमिविशेषस्तावता न प्राप्यत इत्यभिज्ञा आहुः। अतस्तत्प्राप्तये वारुणं निर्वपेत्। यथा प्रजाया आदित्या देवता तद्वद्राष्ट्रस्य वरुणो देवता, ततस्तयोस्तुष्टया तदुभयं प्राप्यते। योयमरुध्यमानस्तस्यापरुध्दवद्यत्कमं विहितं तस्मिन्कर्मणि पूर्वोक्त एव याज्यानुवाक्ये। यत्तु यः परस्तादित्यादिना हर्विद्वयप्रयोगरूपं कर्मान्तर विहितं तत्र शुक्लहविषः पुरोनुवाक्यामाह त्यान्नु क्षत्रियामिति। वयं यजमाना अभिष्ट्ये देवताभिमुख्येन कर्तव्येष्टिसिध्द्यर्थमादित्यान्प्रत्यवोयाचिषामहे रक्षणं प्रार्थयामहे। कीदृशानादित्यान येषां पूर्वगन्त्रे माहात्म्यं प्रपंञ्चितं त्यान्नु तानेव क्षत्रियान्क्षत्रियवत्प्रबलान्सुमृडीकान्सुष्ठु सुखवितृन्। तत्रैव याज्यामाह न दक्षिणेति। हे वसवो वासयितार आदित्या वैरिणा परुध्यमानोहं तेनापराधेन व्यामूढचित्तः सन्किमपि न विचिकिते विशेषेण न जानाभि, इदं दक्षिणमिदं सव्यमिदं प्राचीनमिदं प्रतीचीनमिति कमपि विवेकं नानुभवामि। क इव, पाक्या चित्पाक्य इव धीर्या चिद्धीर्य इव। पूर्वं पक्वो न भवतीतः परं पाकं नेतव्यः पाक्योपरिपक्वधीर्बाल इत्यर्थ। युष्मानीतो युष्माभिः स्वकीयां विशं प्रापितः सन्नभयं ज्योतिः शत्रुभयरहितं विवेकज्ञानमश्यां प्राप्नुयाम्। तत्रैव विकल्पितमन्यां याज्यामाह आदित्यानामिति। यजमाना वयमादित्यानां संबन्धिना नूतनेनेदानीं संपादितेनावसा रक्षणेन युक्ता। कर्मणा शतमेव सर्वोपद्रवरहितत्वादतिशान्तेन सुखेन सक्षीमहि सक्ता भवेम। हे आदित्या भवन्तोनागास्त्वेस्मदीये निरपराधित्वेदितित्वे सर्वदैवाखण्डितत्वे निमित्तभूते सति श्रोषमाणा अस्मदीयां स्मृति शृण्वन्तस्तुरासस्त्वरमाणा इमं यज्ञं दधतु धारयन्तु। कृष्णव्रोहिचरौ पुरोनुक्यामाह—इमं म इति।”
हे वरुण म मदीयमिमै हवमाह्वानं श्रुधि शुणु। श्रुत्वा चाद्यास्मान्मृड्य सुखय। अहं चावस्युः पालनेच्छुस्त्वामाचक आ समन्ताच्छब्दयामि प्रार्थयामि। तत्रैव याज्यामाह—तत्त्वा यामीति। तत्तस्मै रक्षणाय ब्रह्मणा मन्त्रैण वन्दमानस्त्वा यामि त्वां प्राप्नोमि। अथं यजमानो हविर्भिराराध्य तद्रक्षणमाशास्ते। हे वरुणाहेडमानः क्रोधरहित इह क्रर्मणि बोधि अस्माद्विज्ञापनां बुध्यस्व। हे उरुशंस प्रभूतस्तुते नोस्माकमायुर्माप्रमोषीर्मा विनाशय। अपरुध्यमानस्य विशो राष्ट्रस्य च प्राप्तये द्विहविष्का काचिदिष्टिरुक्ता। के नचित्प्रतिबन्धविशेषेण यदि कृतायामपीष्टो तत्प्राप्तिः प्रतिबध्येत तदानीं विशेषं विधत्ते “यदि नावगच्छेदिममहमादित्येभ्यो भागं निर्वपाभ्यामुष्मादमुष्यै विशोवगन्तोरिति निर्वपेदादित्या एवैनं भागधेयं प्रेप्सन्तो विषमव गमयन्ति” (सं. का. २ प्र. ३ अ. १) इति। इममित्यादिनिर्बापमन्त्रोत्रैवोत्पाद्यते। अहं यजमानोमुष्माद्वैरिणोमुष्यास्तदीयप्रजायाश्चानीयेमं व्रीहीरूपं हविर्भागमादित्येभ्यो निर्वपामि। किमर्थम्। अवगन्तोरस्मदीयां प्रजां राष्ट्रं चावगन्तुम्। अनेन मन्त्रेण निर्वापे सत्यादित्याः स्वयमेव तं भागमपेक्षमाणा एनं यजमानं स्वकीयां विशं प्रापयम्ति। प्रतिबन्धाधिक्ये सति तावताप्यप्राप्तौ पुनरन्यं विशेपं विधत्ते “यदि नावगच्छेदाश्वत्थान्मयूखान्त्सप्त मध्यपेषायामुप हन्यादिदमहमादित्यान्बध्नाम्यामुष्मादमुष्यै विशोबगन्तोरित्यादित्या एवैनं बद्धवीरा विशमव गमयन्ति” (सं. का. २ प्र. ३ अ. १) इति। इदमित्यादिर्बन्धनमन्त्रः। अमुष्माद्वैरिणः सकाशादमुष्या मदीयाया विशोवगन्तोः प्राप्तये यजमानोहमादित्यानिदं बध्वामि। इदमिति हस्तेन प्रदर्शनम्। अनेन मन्त्रेणाश्वत्थजन्यान्सप्त शङकूह्नविर्धारिणः शकटस्य मध्यमायामीषायांकीलप्रक्षेपेण बध्नीयात्। तथा सत्यादित्याः स्वयमेव बध्दवीराः सन्तः स्वकीयान्भृत्यान्मोचयितुमेनं यजमानं विशं प्रापयन्ति। ततोपि प्रबलतरप्रतिबन्धके सति पुनरप्यन्यं विशेषं विधत्ते “यदि नावगच्छेदेतमेवादित्यं चरुं निर्वपेदिध्मेपि मयूखान्त्सं नह्येदनपरुध्यमेवाव गच्छति” (सं. का. २ प्र. ३ अ. १) इति। पूर्वत्र मध्यमायामीषायां शङ्कवः कीलिताः इदानीमिध्मेपि शङकुबन्धनं विशेषः। तेषां शङकूनां पूर्ववद्वृक्षविशेशं विधत्ते “आश्वत्था भवन्ति मरुतां वा एतदोजो यदश्वत्थ ओजसैव विशमव गच्छति” (सं. का. २ प्र. ३ अ. १) इति। अश्वत्थस्थ मरुदोजस्त्वमर्थवादान्तरे द्रष्टव्यम्। शङकुसंख्यां विधत्ते “सप्त भवन्ति सप्तगणा वै मरुतो गणश एव विशमव गच्छति” (सं. का. २ प्र. ३ अ. १) इति। एतेषु सर्वेष्वपि प्रयोगेषु पूर्वोक्ते एव याज्यानुवाक्ये द्रष्टव्ये। अत्र विनियोगसंग्रहः “ऐन्द्रयागे त्विरुद्रमिन्द्रं मरुद्यावेति मारुते। भरेषु वैश्वदेवेन्द्रे प्रिया प्रैयंगवे चरौ।। अग्निर्वसुमदादीनां चतुर्णां हि समूहके। यथा विकल्पिता याज्या कुत्र स्विष्टकृतो द्वयम्।। यज्ञो भुवद्वति चरौ धारयन्धारयद्वति। त्यान्नुत्रयं शुक्लचराविमं कृष्णचरौ तथा। एकादशेनुवाके स्मिन्मन्त्रा द्वाविंशतिर्मताः।।” इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके एकादशोनुवाकः।। ११ ।।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्। पुमर्थांश्चतुरो देयाद्रिद्यातीर्थमहेश्वरः।। इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराज परमेश्वरस्यश्रीवीरबुक्कमहाराजस्याज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्ण यजुर्वेदीयतत्तिरीयसंहिताभाष्ये द्वितीय काण्डे प्रथमः प्रपाठकः।।१।।