प्रश्नः-7

(अथ प्रथमकाण्डे सप्तमः प्रपाठकः।)
तत्र प्रथमोऽनुवाकः।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
प्रपाठके सप्तमेऽस्मिन्ननुवाकास्त्रयोदश।
याजमानब्राह्मणस्य शेषः षट्स्वादिमेषु हि॥
वाजपेयस्य मन्त्रास्तु षट्स्वन्येष्वथ याज्यकाः।
इडानुमन्त्रणं तस्या इडायाश्च प्रशंसनम्।
अन्वाहार्योऽथ मन्त्रानुवाकव्याख्या त्रिषु स्मृता।
रथमन्त्रा धावनं च रोहणं वाजहोमकः।
उज्जित्यतिग्राह्ययाज्या इत्यर्था अनुवाकगाः॥
तत्र प्रथमेऽनुवाक इडानुमन्त्रणमुच्यते। तदेतद्विधातुं प्रस्तौति –
पाकयज्ञमिति। पाकयज्ञस्य स्वरूपमापस्तम्बसूत्रव्याख्यातृभिरुक्तम् - “औ-पासनहोमो वैश्वदेवं पार्वणमष्टका मासि श्राद्धं सर्पबलिरीसानवलिरिति सप्त पाकयज्ञसंस्थाः” इति। बौधायनोऽप्याह - “हुतः प्रहुत आहुतः शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्त पाकयज्ञसंस्थाः” इति। अन्ये त्वाहुः— “अल्पयज्ञाः पाकयज्ञाः” इति। आश्वलायनोऽप्याह –त्रयः पाकयज्ञा हुता अग्नौ हूयमाना अनग्नौ प्रहूता ब्राह्मणभोजने ब्रह्मणि हुताः” इति।
एतेषां मध्ये यं कंचिदप्याहिताग्नेः पाकयज्ञमनु गवाद्याः पशवोऽवस्थिता भवन्ति पाकयज्ञेन लभ्यन्त इत्यर्थः। अत्र त्विडाभक्षणमेव पाकयज्ञो ब्रह्मणि हुतत्वात्। अतोऽनेनापीडाभक्षणेन पशवो लभ्यन्ते। तत्रेयमिडा यजमानस्य लोके फलसाधने यज्ञे प्रयाजानुयाजमध्ये व्यावस्थिता। प्रयाजाज्यभागप्रधा-नस्विष्टकृद्भ्य ऊर्ध्वमनूयाजेभ्यश्च प्रागिडाया अनुष्ठेयत्वात्। एतच्च हौत्रकाण्डे स्विष्टकृद्याज्याया अनूयाजयाज्याश्च मध्य इडोपाह्वानमन्यपाठादवगम्यते।
विधत्ते- तामाह्रियमाणामिति। तामिडामाह्रियमाणामवदाय होतृसमीपमानीयमा-नाम्। तत्प्रकारमापस्तम्ब आह — “इडापात्रमुपस्तीर्य सर्वेभ्यो हविर्भ्य इडाँ समवद्यति चतुरवत्तां वा पञ्चावत्ताम्” इति। “अभिघार्येडाँ होत्रे प्रदाय” इति च। इडादेवतायाः पशुसाधनत्वाद्गोरूपत्वाच्च मन्त्रगतेनेहीति पदेन पशूने-वोपह्वयते।
सा मे सत्याऽऽशीरित्येतं मन्त्रभागं व्याख्यातुं प्रस्तौति - यज्ञं वा इति। दोहनं रिक्तीकरणम्। गां दोग्धीत्यत्र तथा दर्शनात्। देवाः प्रथमं यज्ञमदुह्रन्नदुहन्, तद्गतसारफलस्वीकारेण रिक्ती चक्रुः। स च यज्ञोऽसुरानदुहत्तदीयसारापहारेण रिक्ती चकार। ततस्ते पराभूताः। यो यजमानो देवकर्तृकं यज्ञरिक्तीकरणं यज्ञकर्तृकमसुररिक्तीकरणं च विद्वान्यजते सोऽन्यमपि यजमानं दुहे रिक्ती करोति। एतस्य वाक्यस्य मन्त्रप्रशंसारूप-त्वादन्यस्य यजमानस्य न काचिद्धानिः।
व्याचष्टे - सा मे सत्येति। उपहूतोऽयं यजमान उत्तरस्यां देवयज्यायामुपहूत इत्या-दिका येयमाशीरुपह्वानमन्त्रगता सेयमस्य यज्ञस्य संबन्धिन्याशीर्मम सत्या भूयादित्येवंरूपो यज्ञदोहस्तेनैवान्यं यजमानं दोग्धि।
वायुध्यानं विधातुं प्रस्तौति - प्रत्ता वा इति। प्रत्ता वत्सलेहनेन प्रस्नुतस्तनी गौर्दुहे पयः क्षारयति तद्वदत्रेडा प्रत्ता सती यजमानस्य फलं दोग्धि। तस्या इडाया इडोपहूतेत्यादिमन्त्रभागाः स्तनाः। वायुर्वत्सः।
विधत्ते - यर्हि होतेति। यर्हि यस्मिन्काले।
इडोपहूतेत्यादिमन्त्रभागप्रयोगे हेयोपादेयपक्षौ विधातुं प्रस्तौति-
सर्वेणेति। मनुसहिताः सर्वे देवाः कृत्स्नेन दर्शपूर्णमासयागेन स्वर्गलोकं प्राप्तुमुद्यताः। तत्र मनुः पाकयज्ञेन श्रान्तोऽभूत्। “इडा खलु वै पाकयज्ञः” इत्युक्तम्। अतो मनुर्होता सन्निडोपाह्वान एव तात्पर्यवानभूदित्यक्तं भवति। सा चेडा देवता तात्पर्यवन्तं मनुमुपगतवती। तां दृष्ट्वा देवाश्चासुराश्च परस्परव्यत्ययेनाह्वयन्त। ते देवाः प्रतीचीं संमुखामुपाह्वयन्त। असुराः पराचीनमुखमुपाह्वयन्त। इडोपहूतेत्यवमादाविडाशब्दप्रयोगः सांमुख्याम्। उपहूतेडेति पश्चादिडाशब्दप्रयोगो विमुखत्वम्। तत्र संमुखत्वेन तुष्टा सती सा देवानुपावर्तत। पशवो वा इडेत्यन्यात्राऽऽम्नातत्वादिडारूपाः पशवस्तत्तदा देवानवृणत वृतवन्तः प्राप्तवन्तः। विमुखत्वेनेडाया अपरितोषात्तद्रूपाः पशवोऽसुरानजह्रुः संत्यक्तवन्तः।
तत्र हेयपक्षं विधत्ते – यं कामयेतेति।
उपादेयपक्षं विधत्ते – यं कामयेतेति।
सा नः प्रियेति मन्त्रभागं व्याख्यातुं प्रस्तौति - ब्रह्मवादिन इति। वेदार्थविचारका विद्वांसः परस्परमित्याहुः। किमिति, यो बुद्धिमान्मन्त्रेणेड एह्यदित एहीत्यादिनेडामुपहूय तस्यामिडायामात्मानमुपह्वयते योजयति स एवेडां यथाशास्त्रमुपह्वयेतेति।
मन्त्रं व्याचष्टे - सा नः प्रियेति। येयमिडाऽस्माभिरिड एहीत्यादिनोपहूता सेयमिडा त्वं नोऽस्माकं प्रियेत्यनेन वचनेन स्वात्मानमिडायां योजितवान्भवति।
मार्जनार्थं मनो ज्योतिरित्यादिकामृचं व्याख्यातुं प्रस्तौति - व्यस्तमिवेति। इडेति यदेतेन यज्ञस्याङ्गं व्यस्तं विच्छिन्नमिव भवति। तत्कथमिति। उच्यते - सामि पुरोडाशस्य लेशमिडाभागरूपमृत्विजः प्राश्नन्ति, साम्युदकलेशं मार्जयन्ते शिरसि सिञ्चन्ति, तदानीं प्रधानयागाः पूर्वमेव हुता अनूयाजादियागा इत ऊर्ध्वं यष्टव्यास्तन्मध्ये त्वेतदिडाभक्षणं मार्जनं च क्रियते, तयोरयागरूपत्वाद्यागविच्छेदकत्वम्। तता सत्यसुरा यष्टव्याननूयाजादीन्विस्मृतवन्तः। अतोऽसुराणां यज्ञ एतत्प्रति भक्षणमार्जनद्वयं प्रत्येतदीये काले विच्छिन्नोऽभूत्। देवास्त्वप्रमत्ताः सन्तो ब्रह्मणा परिवृढेन केनचित्पुरुषेण समदधुस्तयोर्विच्छिन्नयोर्यज्ञभागयोः संधानं कृतवन्तः।
तस्य ऋचस्तृतीयपादं व्याचष्टे - बृहस्पतिरिति। देवगुरुत्वाद्बृहस्पतेः परिवृढत्वम्।
संधातृप्रतिपादकं तृतीयपादं व्याख्याय संधानप्रतिपादकं द्वितीयपादं
व्याचष्टे - विच्छिन्नमिति। अविच्छेदायेत्यर्थः।
तस्य संततस्य यज्ञस्य देवसमर्पणप्रतिपादकं चतुर्थपादं व्याचष्टे - विश्वे देवा इति। ब्रध्न पिन्वस्वेत्यादिकं पुरोडाशाभिमन्त्रणमन्त्रं व्याख्यातुं प्रस्तौति - यां वै यज्ञ इति। यजमानेनर्त्विग्भ्यो दीयमानां गवान्वाहार्यादिरूपां दक्षिणां तदीयाः पशवः सर्वेऽप्यनुगच्छन्ति, तदा यज्ञानुष्ठाता च पशुरहितो भवति। अतः स्वेन दत्तं दक्षिणाद्रव्यं यथा देवत्रा देवेषु ऋत्विक्ष्ववस्थितं भवति, पशवश्च यथा स्वस्मिन्नेव रमन्ते, तथा यजमानेन कर्तव्यमिति बुद्धिमन्त आहुः।
मन्त्रस्य प्रथमभागं व्याचष्टे - ब्रध्न पिन्वस्वेति। हे यज्ञ प्रीणीहीत्यनेन यज्ञस्य पूजारूपेण प्रोत्साहनेन यथोक्तं प्रयोजनद्वयं संपद्यते।
द्वितीयं भागं व्याचष्टे - ददतो म इति। दानप्रयुक्तो द्रव्यक्षयो मा क्षायीति प्रार्थनेन निवारितो भवति।
तृतीयभागं व्याचष्टे - कुर्वतो म इति। उपक्षयनिवारणस्य पूर्वमेव प्रार्थितत्वान्मोपदसदित्यनेनाभिवृद्धिलक्षणं बाहुल्यमेव प्रार्थ्यते भूमानमेवोपैतीति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके प्रथमोऽनुवाकः॥१॥

(अथ प्रथमकाण्डे सप्तमप्रपाठके द्वितीयोऽनुवाकः) ।
इडाद्यनुमन्त्रणमन्त्राः प्रथमे व्याख्याताः । तामिडां द्वितीये द्वयोर्मुन्योः प्रश्नोत्तराभ्यां प्रशंसति । तत्र प्रश्नमवतारयति -
सश्रवा इति । संश्रवा इत्यृषेर्नामधेयम् । स च सुवर्चनसः पुत्रः । तुमिञ्ज इत्यृष्यन्तरस्य नामधेयम् । स चोपोदितस्य पुत्रः ।
संश्रवसः प्रश्नं दर्शयति - यत्सत्रिणामिति । यद्यदा, तदेत्यध्याहारः । कां किंगुणकाम् ।
तामुपाह्व इति । प्राणादिवृत्तिभिरिडाया देवादिधारणमुत्तरत्र स्पष्टीकरिष्यते । तां देवादिधारणगुणकामिडामुपहूतवानस्मि ।
पुनः प्रश्नं दर्शयति - छिनत्तीति । त्वयोपहूता सेयमिडा गोरूपा सती दक्षिणात्वेन प्रतिग्रहीतॄन्किं छिनत्ति प्रतिग्रहदोषेण विनाशयत्यथवा न च्छिनत्तीति विचारार्थः प्लुतः ।
उत्तरं दर्शयति - छिनत्तीति ।
एवं तर्हि नेवं मुख्येडेति प्रश्नवादिनोक्तं दूषणं दर्शयति - शरीरमिति । अस्या इडादेवतायाः शरीरमेव त्वयोपहूतं न तु सा देवता ।
इदानीमाख्यायिकातोऽपसृत्य श्रुतिः स्वयमेवाऽऽह गौर्वा इति । गौरेवास्या इडायाः शरीरम् । एतच्च मानवी घृतपदी मैत्रावरुणीत्येतस्य हौत्रस्येडोपाह्वानमन्त्रस्य ब्राह्मणे मनुः पृथिव्या इत्याद्यनुवाके प्रसिद्धम् । अत इडायाः शरीरभूतां गामेव ज्ञातवन्तौ तदानीं छिनत्तीत्येतादृशाभ्यां प्रश्नोत्तराभ्यामनिन्दताम् ।
इदानीं देवादिधारणं स्पष्टीकरोति - या यज्ञ इति । यज्ञे दक्षिणारूपेण दत्तया गवा देवास्तूष्णीमेव तुष्यन्ति न तु तां दुहन्ति नापि घ्नन्ति । अतः प्राणेन प्रकृष्टचेष्टयोत्तमया वृत्त्या देवान्धारयति । मनुष्यास्तु गां दुग्ध्वा जीवन्ति, तदा नात्यन्तमहानि । क्षीरस्य हीनत्वात् । नाप्यत्यन्तं हानिः । शरीरस्य वधाभावात् । अतः प्राणापानमध्यवर्तिन्या व्यानसमानया मध्यमवृत्त्या मनुष्यान्धारयति । अष्टकाश्राद्धे गां पितृभ्यो घ्नन्ति । तथा चाऽऽपस्तम्बः — “श्वोभूते दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमि” इति । सेयं गौरपानेनाधमवृत्त्या मारणरूपया पितॄन्धारयति ।
उक्तस्य देवादिधारणस्य वेदनं प्रशंसति - अथ तुमिञ्जः स्वेनोपहूताया इडाया मुख्यत्वं संपादयितुं गुणान्तरेणेडां विशिनष्टीति दर्शयति -
अथ वेति । पक्षान्तरद्योतनायाथ वा इति पदद्वयम् । येयमिडा प्रभुत्वोपेताः प्रजाः प्रत्याभिमुख्येन वर्तते तादृशीमिडामुपहूतवानस्मि ।
संश्रवा एतस्या अपीडाया मुख्यत्वं वारयतीति दर्शयति - अन्नं वा इति । अस्या इडायाः संबन्धि यदन्नं तदेवोपहूतवानसि न तु मुख्यामिडाम् ।
तदेतद्वेद उपपादयति - ओषधय इति । ओषधीनां गवामन्नत्वं प्रसिद्धम् । प्रभुत्वोपेतानां च प्रजानां गृहेषु बहुजनभोजनाय व्रीह्याद्योषधय आगत्य वर्तन्ते ।
एतद्वेदनं प्रशंसति - य एवमिति ।
पुनरपि तुमिञ्जस्य गुणान्तरोक्तिमिडाया मुख्यत्वसंपादिकामुदाहरति - अथवा इति । येयमिडा व्याध्यादिभिः पराभूयमानाः प्रजाः स्वस्यामवस्थाप्यानुगृह्णाति, पराभूयमानाः प्रजास्तत्तदपेक्षितस्थानप्रदानेन स्वीकरोति ।
अस्या अपीडाया मुख्यत्वनिराकरणोक्तिं दर्शयति - प्रतिष्ठामिति । प्रतितिष्ठत्यस्यामिडा गोरूपेति प्रतिष्ठा भूमिस्तामेवोपहूतवानसि न मुख्यामिडाम् ।
तदेतद्वेद उपपादयति - इयं वा इति ।
वेदनं प्रशंसति - य एवमिति ।
मुख्यत्वसंपादनाय गुणान्तरोक्तिं दर्शयति - अथ वा इति । यस्या वृष्टिरूपाया इडाया निष्क्रमणे न्यग्भावेन पतने सति यद्घृतं क्षरदुदकं तज्जीवनार्थिन्यः प्रजा उपजीवन्ति तादृशीमिडामुपहूतवानस्मि ।
संश्रवा अस्यामिडायां पूर्ववद्दोषाभावौ पृच्छति - छिनत्तीति । वृष्टेर्गवान्नभूमीनामिव प्रतिग्राह्यद्रव्यत्वाभावात्तुमिञ्जस्य प्रतिग्राह्यदोषाभावोक्तिं गुणान्तरोक्तिं च दर्शयति -
न छिनत्तीति । वृष्टिरूपेयमिडा कमपि पुरुषं न च्छिनत्ति न दूषयति किंतु प्रकर्षेण सस्यादिकं जनयति ।
एष वा इति । एष वृष्टिरूपेडावादी त्वमेव मुख्यामिडामुपहूतवानसि ।
एतस्यामुक्तायामिडायां पूर्वोक्तलक्षणं वेदो दर्शयति - वृष्ठिर्वा इति । तदेवमस्मिन्ननुवाके सर्वप्राण्युपकारिभिर्गवान्नभूमिवृष्टिरूपैरियमिडा प्रशस्ता ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके द्वितीयोऽनुवाकः ॥२॥

(अथ प्रथमकाण्डे सप्तमप्रपाठके तृतीयोऽनुवाकः )।
द्वितीया इडायाः प्रशंसोक्ता। तृतीयेऽन्वाहार्य उच्यते। तस्य दानं विधातुं प्रस्तौति-
परोक्षमिति। परोक्षमिति क्रियाविशेषणम्। अग्नीन्द्रादीनामदृश्यमान-त्वात्तद्यागः परोक्षः। ऋत्विजां दृश्यमानत्वात्तद्यागः प्रत्यक्षः।
अन्वाहार्यदानं विधत्ते- यदन्वाहार्यमिति। अन्वाहार्य पक्व ओदनस्तामाहरत्यृत्विग्भ्यो दद्यात्। प्रत्यक्षं वर्तन्त इति शेषः।
अन्वाहार्यस्य दक्षिणारूपत्वेन यज्ञच्छिद्रपिधायकत्वेन च त प्रशंसति-
अथ दक्षिणेति। अन्वाहार्यशब्दं निर्वक्ति - यद्वै यज्ञस्येति। अतिरिक्तं कर्मणो यच्च हीनमित्यस्मिन्प्रायश्चित्ताहुतिमन्त्रे प्रोक्तमधिकं यज्ञाङ्गमत्र क्रूरं, न्यूनं विलिष्टं, तदुभयमनेनान्वाहार्यदानेनानुकूलं यथा भवति तथाऽऽहरति समादधति। तस्मादन्वाहार्यत आनुकुल्येन समाधीयतेऽनेनेत्यन्वाहार्यः।
ऋत्विक्प्रीतिहेतुत्वे पुनः प्रशंसति - देवदूता इति।
प्रजापतिभागत्वेन पुनस्तं प्रशंसति - प्रजापतिरिति। आग्नेयाग्नीषोमीयपुरोडाशान्यागानग्न्यादिदेवेभ्यो विभज्य दत्त्वा स्वकीययागराहित्येन रिक्तमात्मानं मन्यमानः प्रजापतिरभक्तं देवेभ्यो विभज्यासमर्पितं दृष्ट्वा तमात्मनि स्थापितवान्। ततोऽन्वाहार्यः प्राजापत्यः।
तस्यान्वाहार्यस्य बाहुल्यसंपादनं विधत्ते - अपरिमित इति। सर्वदेवस्वामित्वेन व्याप्तिबाहुल्यात्प्रजापतेरपरिमितत्वम्।
स्वविजयहेतुत्वेन वैरिपराजयहेतुत्वेन च पुनः प्रशंसति - देवा वा इति।
इष्टापूर्तकारित्वपूरणेन च पुनः प्रशंसंति - यज्ञेन वा इति। इष्टमाग्नेयादि श्रौतकर्म। पूर्तं वापीकूपादि स्मार्तकर्म। तत्राऽऽग्नेयादियागेनेष्टसंपत्तिः। पक्वेनान्वाहार्येण पूर्तसंपत्तिः।
तस्याभिमर्शनमन्त्रप्रथमभागं व्याचष्टे - प्रजापतेरिति।
द्वितीयभागं व्याचष्टे-ऊर्जस्वानिति।
तृतीयभागं व्याचष्टे - प्राणापानामिति। ऋत्विग्भिरन्वाहार्यस्य नीयमानत्वात्तेन स्वकीयप्राणा-दिपालनमाशीर्वाद एव।
चतुर्थभागं व्याकुर्वन्नभिमर्शनं विधत्ते - अक्षितोऽसीति। स्वर्गस्य कर्मभूमित्वाभावान्न तत्साधनानुष्ठानेनान्नं संपादयितुं शक्यं, किंतु स्वगप्राप्ताः प्रजा इतःप्रदानमेतल्लोकानुष्ठितकर्मसंपादितमेवान्नं स्वर्गे लोक उपजीवन्ति। तस्मात्तत्र भूज्यमानमिदं क्षीयते। अक्षितोऽसीति मन्त्रेण यदभिमर्शनं तेनान्नस्याक्षयत्वप्रापणादन्नं न स्वर्गे क्षीयते॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके तृतीयोऽनुवाकः॥३॥

(अथ प्रथमकाण्डे सप्तमप्रपाठके चतुर्थोऽनुवाकः )।
तृतीयेऽन्वाहार्योऽभिहितः। चतुर्थे शेषाहुतीनामनुमन्त्रणमन्त्रा व्याख्यायन्ते। तत्रानूयाजमन्त्रान्व्याचष्टे - बर्हिषोऽहमिति। बर्हिषा बर्हिर्यागानुमन्त्रणेन। एवमितरत्रोभयत्र।
सूक्तवाकानुमन्त्रणमन्त्रं व्याचष्टे - दर्शपूर्णमासयोरिति। अनुष्ठितयोर्दर्शपूर्णमासयोरनेनोज्जितिमन्त्रपाठेनो-ज्जितिरुत्कर्षः संपूर्णता भवति। तां च यज्ञोज्जितिमनु देवा अप्युत्कर्षेणाजयन्। ताभ्यां च संपूर्णाभ्यां दर्शपूर्णमासाभ्यामसुरान्निराचक्रुः।
स्रुग्व्यूहनानुमन्त्रणं विधत्ते - वाजवतीभ्यामिति। व्यूहति अध्वर्युणा क्रियमाणमनुमन्त्रयेदित्यर्थः।
पादद्वयेनैव प्रकर्षेण स्थित्यर्थं मन्त्रद्वित्वमित्याह - द्वाभ्यामिति। कालविशिष्टमेमा अग्मन्निति मन्त्रपाठं विधातुं प्रस्तौति - यो वा इति। एष इदानीमेव वक्ष्यामाण एमा अग्मन्नितिमन्त्रपाठः पृथग्दोहः। पूर्वमिडायामुक्तः सा मे सत्याऽऽशीरिति मन्त्रपाठः पृथग्दोहः।
विधत्ते - यर्हि होतेति। होता सूक्तवाकं पठन्नाशास्तेऽयं यजमानोऽसाविति यदा नाम गृह्णाति तदानीमेमा अग्मन्निति मन्त्रं पठेत्। या देवताः “अग्निमग्न आवह” “अग्निरिदं हविरजुषत” इत्यादिना होत्रा बहुशः संस्तुताः सर्वा अप्यनेन मन्त्रपाठेन यजमानो दुग्धे। किंचेडाकालीनो दोह इदानींतनो दोह इत्युभयमपि संपदितं भवति।
प्रस्तरानुमन्त्रणमन्त्रं व्याचष्टे - रोहितेनेति। यजमानवद्यागसाधनत्वात्प्रस्तरे यजमानत्वोपचारः।
परिधिविमोकानुमन्त्रणमन्त्रं व्याचष्टे - वि ते मुञ्चामीति। ते रशना विमुञ्चामीत्यग्निमुद्दिश्याभिधानादयमग्नेर्विमोकः।
शंयुवाकानुमन्त्रणमन्त्रं व्याचष्टे - विष्णोरिति। यज्ञस्य फलव्याप्त्या विष्णुत्वम्। अन्ततः समाप्तिकाले।
प्रथमस्य संयाजस्यानुमन्त्रणमन्त्रं व्याचष्टे - सोमस्येति। गर्भाशये रेतोधारणं सोमस्यानुग्रहाद्भवति। ततः सोमो रेतोधाः।
द्वितीयपत्नीसंयाजस्यानुमन्त्रणमन्त्रं व्याचष्टे - त्वष्टुरिति। अन्यत्र “यावच्छो वै रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोति” इत्याम्नानान्मनुष्यगवाश्वादिपशूनां स्त्रीपुरुषमिथुनात्मकानां रूपं त्वष्टा करोति।
तृतीयचतुर्थपत्नीसंयाजयोरेकीकारेणानुमन्त्रणमन्त्रं व्याचष्टे - देवानामिति।
वेदाभिमर्शनमन्त्रं व्याचष्टे - वेदोऽसीति। वित्तं पूर्वलब्धं धनं, वेद्यमितः परं लब्धव्यं, तदुभयमसुर-संबन्धि यत्र क्वापि निक्षिप्तं, तदुभयं देवाः कदाचिद्वेदेन भूमिं संमृजन्तोऽ-लभन्त। ततो विद्यते वित्तमनेनेति व्युत्पत्त्या वेदत्वं निष्पन्नम्।
विधत्ते - यद्यद्भ्रातृव्येति। वैरिणः संबन्धि यद्गृहक्षेत्रादिकं यजमानो ममास्त्वित्य-भिध्यायेत्तस्य सर्वस्य नामधेयं मन्त्रमध्ये गृहीत्वा विदेयेत्येतत्पदं पठेत्।
एतस्य मन्त्रस्यान्त्यभागे सहस्रिणमिति पदस्योच्चारणं प्रशंसति - घृतवन्त-मिति।
मन्त्रार्थवेदनं प्रशंसति - आऽस्येति। प्रजायां संततौ सर्वतः पुत्रोऽन्नसंमृद्धो जायते॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके चतुर्थोऽनुवाकः॥४॥

(अथ प्रथमकाण्डे सप्तमप्रपाठके पञ्चमोऽनुवाकः)।
चतुर्थे शेषाहुत्यनुमन्त्रणमन्त्रा व्याख्याताः। पञ्चमे त्वाप्यायनादिमन्त्रा व्याख्यायन्ते। तत्राऽऽप्यायनमन्त्रं व्याख्यातुमन्वयव्यतिरेकाभ्यां प्रस्तौति - ध्रुवां वा इति। ध्रुवायां रिक्तायां यज्ञस्यासंपूर्त्या यजमानस्य फलाभावात्त-दीयप्रजाया अन्नाद्यभाव इति व्यतिरेकः। एवमन्वये योज्यम्।
मन्त्रं व्याचष्टे - आ प्यायतिमिति।
यजमानभागप्राशनमन्त्रं व्याचष्टे - प्रजापतेरिति। विशेषेण कर्मभूमित्वेन भातीति विभानयं भूलोकः। एनं यजमानभागम्।
यजमानस्य रिक्तीकरणनिवारणेन भागप्राशनं प्रशंसति - रिच्यत इति। यजत इति यत्, एतेन पुरोडाशाज्यसांनाय्यद्रव्यहोमे यजमानो रिक्त इव भवति। भागप्राशनेन तु प्रीतस्तं क्लेशं जहाति।
यज्ञप्रतिष्ठाहेतुत्वेनापि तदेव प्रशंसति - एतावानिति। यजमानस्य भागो यावानस्ति एतावानेवेह लोके यजमान-स्योपयुक्तो यज्ञोऽवशिष्टस्य देवैत्विग्भिश्च भक्ष्यमाणत्वात्। स्वयं च यज्ञस्वामित्वेन यज्ञात्मकः। तथा सति यजमानेन भागे प्राशिते यज्ञ एव यज्ञः प्रतिष्ठापितो भवति।
पूर्णपात्रस्य निनयनं विधातुं प्रस्तौति – एतद्वा इति। वेदेर्हविर्धारणेन यजमानस्थानत्वम्। एतच्च स्थानं बर्हिषाऽऽ-स्तीर्णत्वात्समीचीनतृणोपेतं प्रणीतानामत्र स्थापितत्वादुदकोपेतं च।
विधत्ते - यत्पूर्णपात्रमिति। सूवयसं तृणसमृद्धिं सोदमुकदसमृद्धिं च कुरुते।
निनयनमन्त्रं व्याचष्टे - सदसिति। अपां यज्ञसाधनत्वाद्यज्ञत्वं, जीवनहेतुत्वाच्चामृतत्वं, तस्मादपोऽ-भिलक्ष्य सन्मे भूया इत्युक्ते सति यज्ञरूपममृतं स्वस्मिन्धारयति।
व्युत्सेचनमन्त्रं व्याचष्टे - सर्वाणीति। यो यजमानो यज्ञव्रतमुपैति तमनु देवपित्रादीनि सर्वाणि भूतानि व्रतं प्रारभन्ते। अतो देवपित्रादिमार्जनप्रतिपादकेनानेन मन्त्रेण तैः सर्वैर्भूतैः सहैवावभृथं प्राप्नोति।
विष्णुक्रमान्विधत्ते - विष्णुमुखा इति। देवाः पूर्वं स्वेषु विष्णुमेव मुख्यं कृत्वा छन्दोभिमानिदेवैः सहिता अन्यैर्जेतुं यथा न शक्यते तथा लोकानजयन्। अतो यजमानो विष्णुक्रमान्क्रमत इति यत्स विष्णुरेव भूत्वेमाल्ँ लोकानभिजयति।
तत्रत्यान्मन्त्रान्व्याचष्टे - विष्णोः क्रम इति। गायत्रादिच्छन्दोदेवानां पृथिव्यादिलोकस्वामित्वेन तैः सह लोकानां जेतुं शक्यतया मन्त्रेषु गायत्रेण छन्दसेत्यादि पठितमित्यभिप्रायः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके पञ्चमोऽनुवाकः॥५॥

(अथ प्रथमकाण्डे सप्तमप्रपाठके षष्ठोऽनुवाकः)।
आप्यायनादिमन्त्राः पञ्चमे व्याख्याताः। उपस्थानादिमन्त्राः षष्ठे व्याख्या- यन्ते। तत्राऽऽहवनीयोपस्थानमन्त्रस्य पूर्वभागं व्याचष्टे - अगन्मेति। द्विरुक्त्याऽऽदरस्य प्रतीतेः सर्वथा प्राप्नोत्येव।
उत्तरभागं व्याचष्टे - संदृश इति। अस्मियजुषि तपःशब्ददर्शनात्तपसश्च विच्छिन्नो मा भूवमिति यत्प्रतीयत एतद्यजुरनतिक्रम्य तथैव प्रार्थ्यते।
आदित्योपस्थानमन्त्रं व्याचष्टे - सुभूरसीति। आयुर्मे धेहीत्यनेनाऽऽशीः प्रतीयते।
इदमहमित्यादिकं वैरिनिःसारणमन्त्रं व्याख्यातुं प्रस्तौति - प्र वा इति। विष्णुक्रमणां स्वर्गार्थत्वाद्विष्णुक्रमैरस्माल्लोकात्प्रच्युतिर्भवति। तस्याः प्रच्युतेः परिहारोपायं ब्रह्मवादिनः परस्परमेवमाहुः — यो यजमानो वैरिण इमाल्ँ लोकांस्तेन संपादितान्वैरिनिःसारणेन लब्ध्वा विष्णुक्रमैः स्वर्गा-रोहणादूर्ध्वं पुनरिमं मनुष्यलोकं प्रत्यवरोहेत्स एव यजमानो विष्णुक्रमेषु चतुर इति।
मन्त्रं व्याचष्टे - एष वा इति। इदमहमित्यादिमन्त्रमाहेति यदेष एव पाठोऽस्य भूलोकस्य संबन्धी प्रत्यवरोहः।
आत्माभिमर्शनमन्त्रं व्याचष्टे - संज्योतिषेति। एतल्लोकप्रापके(ण) ज्योतिषा संगतोऽहमित्येव मन्त्रे प्रतीयमानत्वात्।
प्रदक्षिणावृत्तिमन्त्रं व्याचष्टे - ऐन्द्रीमिति। परमैश्वर्ययोगादादित्यस्येन्द्रत्वम्।
प्रदक्षिणावृत्तिं विधत्ते - दक्षिणेति। दक्षिणा प्रादक्षिण्येन। द्रक्षिणभागमवस्थाप्य वामभागस्य परिभ्रमणात्प्रादक्षिण्यम्। पुरुषस्य दक्षिणाभागे सामर्थ्यातिशयसद्भावात्तदेवानुसृत्याऽऽवृत्तिः कृता भवति। यस्माद्दक्षिणभागे वीर्यं श्रुतेरभिप्रेतं तस्माल्लोकेषु सर्वेषु व्यापारेषु दक्षिणहस्तस्यैव वीर्यातिशय उपलभ्यते। किंच, आदित्यो मेरुं प्रदक्षिणी करोति तदप्यत्रानुसृतं भवति।
विपर्ययेणाऽऽवृत्तिमन्त्रं व्याचष्टे - समहमिति। स्वयं यथा प्रजादिना संगच्छते तथा प्रजादिरपि स्वेन संगच्छत इत्येतदुभयं द्वितीयावृत्त्या प्रार्थ्यते।
समिदाधानमन्त्रं स्पष्टार्थत्वेन व्याचष्टे - समिद्ध इति।
आहवनीयोपस्थानमन्त्रं व्याचष्टे - वसुमानिति। वसीयानतिशयेन धनवान्।
विधत्ते - बहु वा इति। गार्हपत्योऽजस्रं धार्यते। तथा सति एतत्संनिधौ बहुविधजन्तु-पातकं संभाव्यते। अतो यजमानेन गार्हपत्यस्य समीपे पापमिश्रमिव होमा-दिकर्मानुष्ठीयते।
ततोऽग्न आयूंषीत्याद्याभ्यामग्निपवमानदेवकाभ्यां शुद्धिहेतुभ्यामग्न्युपस्थाने वह्नेः स्वस्य च शुद्धिर्भवति।
अन्यमपि गार्हपत्योपस्थानमन्त्रं व्याचष्टे - अग्ने गृहपत इति। तदिदं मन्त्रब्राह्मणं स्पष्टार्थं पूर्वप्रपाठके व्याख्यातं च। तत्र नाम गृह्णातीति विधिः।
तद्ग्रहणे प्रकारविशेषमाहाऽऽपस्तम्बः — “तन्तव इत्यजातस्यामुष्मा इति जातस्य” इति।
अजातस्य पुत्रस्य विशेषनामभावात्तन्तव इत्येतदेव सामान्यनाम गृह्णीयात्। जातस्य पुत्रस्य त्वमुष्मा इत्यनेन विशेषनामनिर्देशो विवक्ष्यते।
यज्ञविमोकमन्त्रं व्याचष्टे - यो वै यज्ञमिति।
ईश्वर वा इति। यत्व्रतं गृहीतं सन्न विसृष्टं तद्व्रतं प्रदहो यजमानं प्रदग्धुमीश्वरं समर्थम्। अग्ने व्रतपत इत्यादिमन्त्रपाठ एव व्रतविसर्गः। तेन शीतं सन्तं न दहति।
पुनरालम्भमन्त्रं व्याख्यातुं प्रस्तौति - पराङिति। पराङ्वाव विमुख एव पुनर्न निवर्तते, पुनरालम्भमन्त्रवादिनं यजमानं प्रति तु पुनर्निवर्तते, पुनरप्यसावनुतिष्ठतीत्यर्थः।
मन्त्रं व्याचष्टे -यज्ञ इति। एष वै मन्त्रपाठ एव।
गोमतीमन्त्रं विधातुं प्रस्तौति - अनवरुद्धा इति। यो यजमान आहिताग्निरपि सन्सभारहितो भवेत्, एतस्य यजमानस्य विराड्विशेषेण राजमाना स्वोचितसभा कदाचिदप्यनवरुद्धाऽ-स्वाधीना भवति। यागकाले सभाहीनस्य लोकव्यावहारकालेऽपि सभा न संभवेदित्यर्थः। नात्र राज्ञ इवामात्यस्वभटरूपा सभा ब्राह्मणस्योचिता, किं तर्हि यज्ञनिष्पादका द्विपदश्चतुष्पादश्च पशवोऽस्य सभा॥
मन्त्रं विधत्ते - इष्ट्वा प्राङिति। भूमनिन्दाप्रशंसास्विति वैयाकरणैरुक्तत्वाद्गोमानित्यादिको मतुप्प्रत्ययो बाहुल्यवाची। अतः सहस्रप्राप्तिर्युक्ता। इडावान्प्रजावानिति मन्त्रेऽभिधानादस्य प्रजायामन्नवतः पुत्रस्योत्पत्तिर्युक्ता॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके षष्ठोऽनुवाकः॥६॥

(अथ प्रथमकाण्डे सप्तमप्रपाठके सप्तमोऽनुवाकः)।
इत्थं षट्स्वनुवाकेषु दार्शिकयाजानब्राह्मशेषो वर्णितः। अथ देव सवितः प्र सुवेत्यादिषु षट्सु वाजपेयविषया आध्वर्यवमन्त्रा उच्यन्ते। तत्रास्मिन्सप्त-मेऽनुवाके रथविषया मन्त्राः कथ्यन्ते। तेषां वाजपेयमन्त्राणां व्याख्यानं ब्राह्मणग्रन्थे प्रथमकाण्डे तृतीयप्रपाठके द्वितीयमारभ्य नवमान्तेष्वष्टस्व-नुवाकेष्वाम्नातम्। तत्र वाजपेयविधिर्ग्रहविधिः पशुविधिश्चाऽऽद्येषु त्रिष्वनुवाकेषु क्रमेणाऽऽम्नाताः अनयोर्वाजपेयविषययोर्मन्त्रब्राह्मणयोरत्यन्त-विप्रकृष्टदेशवर्तित्वेन बुद्धिसां-निध्याभावाच्छ्रोतॄणां प्रतिपत्तिसौकर्याय पूर्वोक्तदार्शिसौमिककाण्डवद्ब्रा-ह्मणेन सहैव मन्त्रा व्याख्यायन्ते - तस्य च ब्राह्मणस्य प्रथमानुवाके वाजपेयं विधातुं प्रस्तौति-
“देवा वै यथादर्शं यज्ञानाहरन्त। योऽग्निष्टोमम्। य उक्थ्यम्। योऽतिरात्रम्। ते सहैव सर्वे वाजपेयमपश्यन्। ते। अन्योन्यस्मै नातिष्ठन्त। अहमनेन यजा इति। तेऽब्रुवन्। आजिमस्य धावामेति (१) । तस्मिन्नाजिमधावन्। तं बृहस्पतिरुदजयत्। तेनायजत। स स्वाराज्यमगच्छत्। तमिन्द्रोऽब्रवीत्। मामनेन याजयेति। तेनेद्रमयाजयत्। सोऽग्रं देवतानां पर्यैत्। अगच्छत्स्वाराज्यम्। अतिष्ठन्तास्मै ज्यैष्ठ्याय (२)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
देवानां मध्ये कश्चिदग्निष्टोमं ददर्श। अन्य उक्थ्यमपरोऽतिरात्रम्। ते च स्वस्वदर्शनमनतिक्रम्य तान्यज्ञानाहरन्तानुष्ठितवन्तः। ते देवाः सर्वे सहैव वाजपेयं दृष्ट्वाऽहमेव प्रथममनेन वाजपेयेन यजा इत्येवं विवदमानाः परस्परं प्रथमानुष्टातृत्वलक्षणाय ज्यैष्ठ्याय नातिष्ठन्त ज्यैष्ठ्यं नाङ्गी चक्रुः। तत एवं समयं चक्रुरस्माकं मध्य आजिं धावनेन यः कश्चिज्जयति स एव ज्येष्ठोऽस्त्विति। आजिर्धावनप्रदेशस्यावधिर्भूविशेषः। एवं समयं कृत्वा तस्मिन्वाजपेयविषये विजयायाऽऽजिमधावन्। तत्र तं वाजपेयं प्रति धावन्बृहस्पतिरुत्कर्षेणाजयत्। इतरेभ्यः प्रथममवधिं पस्पर्श। ततः प्रथमं स एव तेन वाजपेयेनेष्ट्वा स्वाराज्यमपारतन्त्र्यरूपं माहाराज्यमगच्छत्। तत इन्द्रस्तं बृहस्पतिं संप्रार्थ्य तेन वाजपेयेनेष्ट्वा देवानां मध्ये ज्येष्ठत्वमपारतन्त्र्येण स्वर्गाधिपत्यलक्षणं स्वाराज्यं चागच्छत्। अस्येन्द्रस्य ज्यैष्ठ्यमितरे सर्वे देवा मात्सर्यं परित्यज्याङ्गी चक्रुः।
स्वाराज्यादिकामिनो वाजपेयं विधत्ते - “य एवं विद्वान्वाजपेयेन यजते। गच्छति स्वाराज्यम्। अग्रँ समानानां पर्येति। तिष्ठन्तेऽस्मै ज्यैष्ठ्याय” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
अधिकारविशेषविधिमुन्नयति।
“स वा एष ब्राह्मणस्य चैव राजन्यस्य च यज्ञः” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
स बृहस्पतिनाऽनुष्ठितः। एष इन्द्रेणानुष्ठितः। देवानां मध्ये बृहस्पतिर्ब्रा-ह्मणजात्यभिमानी, इन्द्रः क्षत्रियजात्यभिमानी, ताभ्यामेवानुष्ठितत्वान्मनु-ष्येष्वपि ब्राह्मणराजन्ययोरेवात्राधिकारो न तु वैश्यस्य। अत एवाऽऽपस्तम्ब आह – “शरदि वाजपेयेन यजेत ब्राह्मणो राजन्यो वर्द्धिकामः” इति।
नामनिर्वचनं दर्शयति - “तं वा एतं वाजपेय इत्याहुः। वाजाप्यो वा एषः। वाजँ ह्येतेन देवा ऐप्सन्” (ब्रा॰ का॰ २ प्र॰ २ अ॰ २) इति।
वाजो देवान्नरूपः सोमः पेयो यस्मिन्यागे स वाजपेय इत्येकं निर्वचनम्। यस्मादेतेन यज्ञेन देवा वाजं फलरूपमन्नमाप्तुमैच्छंस्तस्मादन्नरूपो वाजः पेयः प्राप्यो येन स वाजपेय इत्यपरं निर्वचनम्।
सोमस्यैतद्यागसाधनत्वात्तदभेदेन यागं तद्वेदनं च स्तौति – “सोमो वै वाजपेयः। यो वै सोमं वाजपेयं वेद (३) वाज्येवैनं पीत्वा भवति। आऽस्य वाजी जायते” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
एनं वाजपेयगतं सोमम्।
फलभूतान्नाभेदोपचारेण स्तौति - “अन्नं वै वाजपेयः। य एवं वेद। अत्त्यन्नम्। आऽस्यान्नादो जायते” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
यागप्रतिपादकवेदाभेदोपचारेण स्तौति - “ब्रह्म वै वाजपेयः। य एवं वेद। अत्ति ब्रह्मणाऽन्नम्। आऽस्य ब्रह्मा जायते” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
ब्रह्मणा वेदाध्यापनसंपादितया गुरुदक्षिणयेत्यर्थः। ब्रह्मा वेदाध्यापकः।
मन्त्रोच्चारणसाधनभूतवागभेदोपचारेण स्तौति - “वाग्वै वाजस्य प्रसवः। य एवं वेद। करोति वाचा वीर्यम्। ऐनं वाचा गच्छति। अपिवतीं वाचं वदति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
देव सवितः प्र सुवेत्यादिमन्त्ररूपा वागेव वाजस्य वाजपेयस्य प्रसव उत्प-त्तिहेतुः। य एतद्वेदिता स तया सभायां पाण्डित्यरूपया वाचा वीर्यमतिशयं करोति। सभागतश्च विद्वत्संघः स्तुतिरूपया वाचा युक्त एनमागच्छति बहुधा प्रशंसतीत्यर्थः। पुनरपि वाजपेयवाक्यं श्रोष्यामि तदर्थं ज्ञास्याम्यनुष्ठास्यामीत्ये-तादृशीं पुनरपीत्यपिशब्दोपेतां वाचं सर्वदा वदति श्रद्धालुर्भवतीत्यर्थः।
एकादशानुवाकगतानामुज्जितिमन्त्राणां पाठं विधातुं प्रस्तौति - “प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत्। स आत्मन्वाजपेयमधत्त। तं देवा अब्रुवन्। एष वाव यज्ञः। यद्वाजपेयः (५) अप्येव नोऽत्रास्त्विति। तेभ्य एता उज्जितीः प्रायच्छत्” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
प्रजापतिरितरेभ्यो देवेभ्योऽग्निष्टोमादीन्यज्ञान्विभज्य दत्त्वा वाजपेयं स्वस्मिन्नेव स्थापितवान्। देवाश्च वाजपेय एव मुख्यो यज्ञोऽतोऽस्माकमप्यत्र भागोऽस्त्वित्यब्रुवन्, स च तेभ्य उज्जितिमन्त्रान्प्रायच्छत्।
विधत्ते - “ता वा एता उज्जितयो व्याख्यायन्ते यज्ञस्य सर्वत्वाय। देवतानामनिर्भा-गाय” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
व्याख्यायन्ते व्याख्यायेरन्पठनीया इत्यर्थः। तत्पाठेन यज्ञस्य सर्वत्वमवैकल्यं भवति। देवताश्च भागयुक्ता भवन्ति। तेषु मन्त्रेष्वग्निरश्विनौ विष्णुः सोम इत्येवं तत्तद्भागभाजो देवता आम्नाताः। अयं विधिरापस्तम्बेन स्पष्टं दर्शितः — “अग्निरेकाक्षरेणेति धावति धावत्सूज्जितीर्यजमानं वाचयति” इति। उज्जितिमन्त्राणां रथधावनकाले पठनीयत्वाद्धावनविधिसमीप एवायं विधिरुत्क्रष्ठव्यः।
अस्य च विध्युत्कर्षस्य प्रसङ्गेन बुद्धिस्थं पुरुषार्थत्वेन क्रतुप्रकरणादुत्क्रष्ठव्यं कंचित्प्रतिग्रहनिषेधं विधित्सुः प्रस्तौति - “देवा वै ब्रह्मणश्चान्नस्य च शमलमपाघ्नन्। यद्ब्रह्मणः शमलमासीत्। सा गाथा नाराशँस्यभवत्। यदन्नस्य। सा सुरा (६)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
ब्रह्मणो वेदस्य शमलं मलिनभागमपाघ्नन्नपनीतवन्तः। नराणां राजामात्या-दीनामा समन्तात्प्रशंसनं नराशंसस्तद्विषया गीर्नाराशंसी।
प्रतिग्रहनिषेधं विधत्ते - “तस्माद्गायतश्च मत्तस्य च न प्रतिगृह्यम्। यत्प्रतिगृह्णीयात्। शमलं प्रतिगृ-ह्णीयात्” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
यस्माल्लौकिकमनुष्यविषयगानसुरे मलरूपे तस्मात्तादृशगानपरस्य सुरापानमत्तस्य च धनं न प्रतिगृह्णीयात्।
प्रकारान्तरेण वाजपेयं प्रशंसति - “सर्वा वा एतस्य वाचोऽवरुद्धाः। यो वाजपेययाजी। या पृथिव्यां याऽग्नौ या रथंतरे। याऽन्तरिक्षे या वायौ या वामदेव्ये। या दिवि याऽऽदित्ये या बृहति। याऽप्सु यौषधीषु या वनस्पतिषु” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
पृथिव्यन्तरिक्षद्युरूपं यल्लोकत्रयं तदभिमानिदेवतात्रयं रथन्तरवामदेव्यबृहद्रूप-मुक्तलोकाभिमानिदेवताप्रियं यत्सामत्रयमबोषधिवनस्पतिरूपं यद्यागोपयुक्तद्रव्यत्रयं तस्य सर्वस्य संबन्धिन्यो या वाचस्ताः सर्वा एतस्य वाजपेययाजिनोऽवरुद्धः संपन्नाः। तत्र सामसंबन्धिन्यो वाचस्तदाश्रयभूता ऋच एव। पृथिव्यै त्वाऽन्तरिक्षाय त्वा दिवे त्वेत्येते यूपप्रोक्षणमन्त्राः। पृथिव्यादिविषया वाचः। अग्न आयूंषीत्यादिराग्नेयातिग्राह्यमन्त्रोऽग्निविषया वाक्। आ वायो भूषेति ग्रहान्तरमन्त्रो वायुविषवा वाक्। तुरीयाऽऽदित्य सवनं त इन्द्रियमित्यादिग्रहान्तरमन्त्र आदित्यविषया वाक्। सूपस्था देवो वनस्पतिरित्यादिर्वनस्पतिविषया वाक्। एवं पृथिवी दीक्षेत्यादयो बहव उदाहार्याः। तदेवं सर्ववागवरोधाद्वाजपेयः प्रशस्तः।
तामिमां प्रशंसामुपसंहरति - “तस्माद्वाजपेययाज्यार्त्विजीनः। सर्वा ह्यस्य वाचोऽवरुद्धाः (७)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ २) इति।
आर्त्विजीनो वाजेपयं यष्टुं प्रशस्तानृत्विजोऽर्हति। वाजपेयेनेष्ट्वा परार्थ-मार्त्विज्यं चार्हति।
इत्थमेकेनानुवाकेन वाजपेयो विहितः। अथान्येनानुवाकेन ग्रहविशेषा विधीयन्ते, तत्रातिग्राह्यान्विधातुं प्रस्तौति - “देवा वै यदन्यैर्ग्रहैर्यज्ञस्य नावारुन्धत। तदतिग्राह्यैरतिगृह्यावारुन्धत। तद-तिग्राह्याणामतिग्राह्यत्वम्” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३ इति।
अन्यैरैन्द्रवायवादिग्रहैर्यत्फलं न प्राप्नुवस्तंदप्राप्यं फलमतिग्राह्यसंज्ञकैर्ग्रहै-रतिशयेन गृहीत्वा स्वाधीनं कृतवन्तः। इतरग्रहानतिक्रम्य दुष्प्रापं फलं गृह्यत एभिरित्यतिग्राह्याः।
विधत्ते - “यदतिग्राह्या गृह्यन्ते। यदेवान्यैर्ग्रहैर्यज्ञस्य नावरुन्धे। तदेव तैरतिगृह्याव-रुन्धे” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३ इति।
प्रकृतिगतानामाग्नेयैन्द्रसौर्याणामतिग्राह्याणां चोदकादेव प्राप्तत्वात्तद्वि-धित्वभ्रान्तिव्युदासाय संख्याविशेषं विधत्ते - “पञ्च गृह्यन्ते। पाङ्क्तो यज्ञः। यावानेव यज्ञः। तमाप्त्वाऽवरुन्धे (१)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
धानाः करम्भ इत्यादिब्राह्मणोदाहरणेन यज्ञस्य पाङ्क्तत्वमसकृद्दर्शितम्।
वक्ष्यमाणैरिन्द्राय जुष्टं गृह्णामीत्येतादृशैरिन्द्रलिङ्गकैर्मन्त्रैरेव तद्ग्रहणं विधत्ते - “सर्व ऐन्द्रा भवन्ति। एकधैव यजमान इन्द्रियं दधति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
सर्वेषामेकदेवताकत्वेनैकविधेन्द्रियधारकत्वम्।
ग्रहान्तराणि विधत्ते - “सप्तदश प्राजापत्य ग्रहा गृह्यन्ते। सप्तदशः प्रजापतिः प्रजापतेराप्त्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
प्रजापतेः सप्तदशत्वं यो वै सप्तदशमित्यत्रोपपादितम्।
वक्ष्यमाणामया विष्ठा इत्यादिकामृचं कुविदङ्गेत्यादिकां च विषयविशेषेण व्यावस्थितां विधत्ते - “एकयर्चा गृह्णाति। एकधैव यजमाने वीर्यं दधाति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
तेषु ग्रहेषु द्रव्यद्वयं विधत्ते - “सोमग्रहाँश्च सुराग्रहाँश्च गृह्णाति। एतद्वै देवानां परममन्नम्। यत्सोमः (२) एतन्मनुष्याणाम्। यत्सुरा। परमेणैवास्मा अन्नाद्येनावरमन्नाद्यमवरुन्धेः” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
मनुष्याणामधमजातीनामिति शेषः। शालिमुद्गादिकं परमान्नं यावनालप्रि-यंग्वादिकमवरम्। यदा परमान्नसंपत्तिस्तदानीमवरान्नसंपत्तिः किमु वक्तव्या। उक्तग्रहप्रकारश्चाऽऽपस्तम्बेन स्पष्टीकृतः — “ ऐन्द्रमतिग्राह्यं गृहीत्वोपयामगृ-हीतोऽसि नृषदं त्वेति पञ्चैन्द्रानतिग्राह्यान्गृह्णाति तेषां पूर्ववत्कल्पः, षोडशिनं गृहीत्वाऽया विष्ठा जनयन्कर्वराणीति सप्तदश प्राजापत्यान्गृह्णाति तेषां षोडशिवत्कल्पः, कुविदङ्गेत्यपरस्मिन्खरे प्रतिप्रस्थाता सप्तदशभिरुपयामः सुराग्रहान्गृह्णाति” इति।
द्विविधग्रहविधिमनूद्य प्रशंसति - “सोमग्रहान्गृह्णाति। ब्रह्मणो वा एतत्तेजः यत्सोमः। ब्रह्मण एव तेजसा तेजो यजमाने दधाति। सुराग्रहान्गृह्णाति। अन्नस्य वा एतच्छमलम्। यत्सुरा (३) अन्नस्यैव शमलेन शमलं यजमानादपहन्ति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
ब्रह्मणो ब्राह्मणस्योचितं तेजः सोमः। अत एव तदभावे व्रात्यत्वमाम्नायते “यस्य पिता पितामहो वा सोमं न पिबेत्स व्रात्यः” इति।
प्रकारान्तरेण विधिद्वयं प्रशंसति - सोमग्रहाँश्च सुराग्रहँश्च गृह्णाति। पुमान्वै सोमः। स्त्री सुरा। तन्मिथुनम्। मिथुनमेवास्य तद्दज्ञे करोति प्रजननाय। आत्मानमेव सोमग्रहैः स्पृणोति। जायाँ सुराग्रहैः। तस्माद्वाजपेययाज्यमुष्मिल्ँ लोके स्रियँ संभवति। वाजपयाभिजितँ ह्यस्य (४)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
स्पृणोति प्रीणयति। तस्माज्जायाभिमानिदेवतायाः सुराग्रहैस्तोषितत्वा-त्स्वर्गलोके स्वापेक्षितां रम्भादिस्त्रियमनुभवति। तदेतत्सामर्थ्यमस्य युक्तं वाजपेयेन संपादितत्वात्।
वर्गद्वयस्य पूर्वोत्तरकालविशेषं स्थानविशेषं च विधत्ते - “पूर्वे सोमग्रहा गृह्यन्ते। अपरे सुराग्रहाः। पुरोक्षँ सोमग्रहान्सादयति। पश्चादक्षँ सुराग्रहान्। पापवस्यसस्य विधृत्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
पुरोक्षं शकटस्याधस्तादक्षस्य पुरः। पापं सुराग्रहरूपं निन्दितं कर्म, वस्यसं वसुमत्तरं सोमग्रहरूपं पुण्यं कर्म, तयोर्विधृत्यै विभागेन धारणाय।
व्यतिषङ्गं विधत्ते - “एष वै यजमानः। यत्सोमः। अन्नँ सिरा। सोमग्रहाँश्च सुराग्रहाँश्च व्यतिषजति। अन्नाद्येनैवैनं व्यातिषजति (५)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
व्यतिषङ्गप्रकार आपस्तम्बेन दर्शितः — “व्यतिषङ्गं सोमग्रहैः सुराग्रहा-न्गृह्णाति पूर्वोऽध्वर्युर्गृह्णाति जघन्यः प्रतिप्रस्थाता” इति। व्यतिषङ्गं सुरा ग्रहं गृह्णीयात्। ततो द्विताये द्वितीयं, सोऽयं व्यतिषङ्गः।
अध्वर्योरुद्द्रवणस्य विधास्यमानस्य मन्त्रमुत्पाद्य व्याचष्टे - “संपृचः स्था सं मा भद्रेण पृङ्क्तेत्याह। अन्नं वै भद्रम्। अन्नाद्यैवैनँ सँसृजति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
हे सोमग्रहा यूयं संपृचः स्थ संपर्कयोग्याः स्थ। अतो मां भद्रेण श्रेयसाऽन्नेन संपृक्त संयोजयत।
प्रतिप्रस्थातुरुद्द्रवणस्य विधास्यमानस्य करणभूतं मन्त्रमुत्पादयितुं प्रस्तौति - “अन्नस्य वा एतच्छमलम्। यत्सुरा। पाप्मेव खलु वै शमलम्। पाप्मना वा एनमेतच्छमलेन व्यातिषजति। यत्सोमग्रहाँश्च व्यतिषजति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
पाप्मेव पापरूपमेव। लोकेवेदनिषिद्धत्वात्।
मन्त्रमुत्पाद्य व्याचष्टे - “विपृचः स्थ वि पाप्मना पृङ्क्तेत्याह। पाप्मनैवैनँ शमलेन व्यावर्तयति (६) तस्माद्वाजपेययाजी पूतो मेध्यो दक्षिण्यः” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
हे सुराग्रहा यूयं विपृचः स्थ विभागयोग्याः स्थ। अतो मां पाप्मना विपृङ्क्त वियोजयत। तस्मात्पापव्यावृत्तत्वादयं शुद्धो युद्धो यष्टुं दक्षिणां दातुं च योग्यः।
अध्वर्युप्रतिप्रस्थात्रोरुद्द्रावणं विधत्ते - “प्राङुद्द्रवति सोमग्रहैः। अमुमेव तैर्लोकमभिजयति। प्रत्यङ्सुराग्रहैः। इममेव तैर्लोकमभिजयति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
तदेतदुद्द्रवणमापस्तम्बः स्पष्टी चकार – “संपृचः स्थ सं मा भद्रेण पृङ्क्तेति प्राङ्ङध्वर्युः सोमग्रहैरुद्द्रवति, विपृचः स्थ वि मा पाप्मना पृङ्क्तेति प्रत्यङ्प्रतिप्र-स्थाता सुराग्रहैराहवनीयं न्यङ्क्ते सोमग्रहैरवतिष्ठन्ते(ते) मार्जालीयं न्यङ्क्ते सुराग्रहैः” इति।
प्रचारं विधत्ते - “प्रतिष्ठन्ति सोमग्रहैः। यावदेष सत्यम्। तेन सूयते” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
प्रतिष्ठन्ति प्रचरन्ति जुह्वतीत्यर्थः। सत्यमवश्यंभावि फलं तद्यावदस्ति तेन सर्वेणायं यजमानः सूयते प्रेर्यते कृत्स्नं फलमुद्दिश्य सोमग्रहैर्हुतवान्भवती-त्यर्थः।
विधत्ते - “वाजसृद्भ्यः सुराग्रहान्हरन्ति। अनृतेनैव विशँ सँसृजति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
वाजसृतोऽन्नस्यार्जयितारो वैश्याः। तेभ्यः सुराग्रहान्सोमरहितान्दद्युः। सुरायाः शमलत्वेनानृतसदृशत्वाद्विशमधमजातिमनृतेनैव संयोजितवान्भवति।
दक्षिणाविशेषं विधत्ते - “हिरण्यपात्रं मधोः पूर्णं ददाति। मधव्योऽसानीति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
मधु माक्षिकम्। मध्वादिभोज्यद्रव्ययुक्तो भवानीत्यनेनाभिप्रायेण मधुपूर्णं सुवर्णपात्रं दद्यात्।
तद्दानस्य कृष्णलदानसाहित्यं विधत्ते - “एकधा ब्रह्मण उपहरति। एकधैव यजमान आयुस्तेजो दधाति (७)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
कृष्णलसाहित्यं चाऽऽपस्तम्बो दर्शयति — “ कृष्णलं कृष्णलं वाजसृद्भ्यः प्रयच्छति तानि प्रत्यादाय ब्रह्मणे ददाति मधुष्ठालं च सौवर्णं शतमानस्य कृतम्” इति।
ग्रहविधिमनेनानुवाकेन समाप्यानुवाकान्तरेण पशून्विधातुं प्रस्तौति - “ब्रह्मवादिनो वदन्ति। नाग्निष्टोमो नोक्थ्यः। न षोडशी नातिरात्रः। अथ कस्माद्वाजपेये सर्वे यज्ञक्रतवोऽवरुध्यन्त इति पशुभिरितु ब्रूयात्” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
यज्ञशब्देनोद्देशत्यागरूपाः प्रयाजादयः प्रत्येकमभिधीयन्ते। तत्समूहरूप एव फलसाधनात्मा कर्मविशेषः क्रतुः। वेदावादिनो मिलित्वा परस्परमेवं विचारयन्ति–यज्ञाश्च क्रतवश्च सर्वेऽपि वाजपेयोऽन्तर्भूता इत्यस्ति प्रसिद्धिः। तत्कथमुपपद्यते। तथा हि–प्रयाजादीनां दीक्षणीयादिद्वारा तत्रान्तर्भावेऽप्याग्निष्टोमादीनामनन्तर्भावात्। तेषां ब्रह्मवादिनां मध्ये कश्चिद्बुद्धिमानेवमुत्तरं ब्रूयात्–अग्निष्टोमादिगतैराग्नेयादिसवनीयपशुभिः क्रतवोऽन्तर्भूता इति।
पशून्विधत्ते - “आग्नेयं पशुमालभते। अग्निष्टोममेव तेनावरुन्धे। ऐन्द्राग्नेनोक्थ्यम् ऐन्द्रेण शोडशिनः स्तोत्रम्। सारस्वत्याऽतिरात्रम् (१) मारुत्या बृहतः स्तोत्रम्। एतावन्तो वै यज्ञक्रतवः। तान्पशुभिरेवावरुन्धे” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति। आग्नेयादयोऽग्निष्टोमादीनां व्यावर्तकाः पशवः। षोडशिनो ग्रहस्य स्तोत्रं, तेन स क्रतुरुपलक्ष्यते। सारस्वती मेषी, सा चातिरात्रस्य व्यावृत्तिहेतुः। मारुती वशा, तथाऽनुबन्ध्यया बृहत्सामसंबन्धि स्तोत्रमवरुन्धे, तेन च स्तोत्रेण वाजपेय उपलक्ष्यते, तस्य चासाधारणत्वात्।
तानेतान्पशुविधीन्बौधायन उदाहरति - “आश्विनं गृहीत्वा षड्रशना आदाय यूपमभ्यैति स्वर्वन्तं यूपमुत्सृज्याथैना-न्पशूनुपाकरोत्याग्नेयमैन्द्राग्नेयमैन्द्राग्नमैन्द्रं मारुतीं वशां सप्तदश प्राजापत्या-ञ्श्यामानेकरूपान्सारस्वतीमन्ततः” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
आपस्तम्बस्त्वाग्नेयादीनां चोदकप्राप्तानामनुवादं मत्वा मेषीमारुत्योर्विधिमुदाहरति -“पशुकाले त्रीन्क्रतुपशूनुपाकृत्य मारुतीं वशामुपाकरोति सारस्वतीं च मेषाम्” इति। आत्मादिप्रीतिहेतुत्वेन भूम्यादिलोकजयहेतुत्वेन तेजःप्रभृतिधारणहेतुत्वेन च क्रतुपशून्प्रशंसति - “आत्मानमेव स्पृणोत्यग्निष्टोमेन। प्राणापानावुक्थ्येन। वीर्यँ षोडशिनः स्तोत्रेण। वाचमतिरात्रेण। प्रजां बृहतः स्तोत्रेण। इममेव लोकमभिजयत्यग्निष्टोमेन। अन्तरिक्षमुक्थ्येन २। सुवर्गं लोकेँ षोडशिनः स्तोत्रेण। देवयानानेव पथ आरोहत्यतिरात्रेण। नाकँ रोहति बृहतः स्तोत्रेण। तेज एवाऽऽत्मन्धत्त आग्नेयेन पशुना। ओजो बलमैन्द्राग्नेन। इन्द्रियमैन्द्रेण। वाचँ सारस्वत्या। उभावेव देवलोकं चाभिजयति मारुत्य वशया” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
अत्राग्निष्टोमेनेत्यादिशब्दैस्तन्निष्पादका आग्नेयादिपशवो विवक्षिताः पशुविधेः प्रस्तुतत्वात्, आग्नेयेन पशूनेत्यन्तिमपर्याय (ये) विधानाच्च।
विधत्ते - “सप्तदश प्राजापत्यान्पशूनालभते। सप्तदशः प्रजापतिः ३ प्रजापतेराप्त्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
तेषु पशुषु गुणद्वयं वाक्यभेदमङ्गीकृत्य विधत्ते - “श्यामा एकरूपा भवन्ति। एवमिव हि प्रजापतिः समृद्ध्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
पशूनामेकरूपत्वं नामैकविधशृङ्गपुच्छादिभिर्युक्तत्वम्। प्रजापतिशब्देनात्रेश्व-रस्य हिरण्यगर्भशरीराद्यभिव्यक्तेः प्रागवस्था विवक्ष्यते। सा चावस्था श्यामेव भवति। “तम आसीत्तमसा गूढम्” इति श्रुतेः। जगद्रूपस्य नानात्वस्यानुत्प-त्तेरेकरूपत्वम्, “एकमेवाद्वितीयम्” इति श्रुतेः। पशूनां जगदीश्वरेण साम्ये सति समृद्धिर्भवति।
प्रकृतिभूतेऽग्नीषोमीये पशौ पर्यग्निकरणादूर्ध्वमविलम्बेनाऽऽलम्भस्य विहितत्वादत्रापि चोदकपरम्परया तत्प्राप्तौ सहसाऽऽलम्भनं निषेधति – “तान्पर्यग्निकृतानुत्सृजति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
तदानीं नाऽऽलभेतेत्यर्थः।
आलम्भस्य व्यवधाने कारणमाह - “मरुतो यज्ञमजिघाँसन्प्रजापतेः। तेभ्य एतां मारुतीं वशामालभत। तयैवैनानशमयत्” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
सप्तदशप्रजापतिरूपो यः प्रजापतेर्यज्ञस्तं यज्ञं मरुतः पर्यग्निकरणादूर्ध्वं हन्तुमुद्यताः। तदानीमुत्कोचरूपेण प्रजापतिर्मरुद्भ्यो वशामालभत, क्रुद्धान्मरुतस्तया वशया शमितवान्।
प्राजापत्यानां संज्ञपनकालं विधत्ते - “मारुत्या प्रचर्य। एतान्त्संज्ञपयेत्। मरुत एव शमयित्वा (४) एतैः प्रचरति। यज्ञस्याघाताय” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
प्रचर्य मारुत्या वशाया वपां हुत्वेत्यर्थः।
सप्तदशानां वपानां सह प्रचारं विदधाति - “एकधा वपां जुहोति। एकदेवत्या हि। एते। अथो एकधैव यजमाने वीर्यं दधाति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
विधत्ते - “नैवारेण सप्तदशशरावेणैतर्हि प्रचरति। एतत्पुरोडाशा ह्येते। अथो पशूनामेव छिद्रमपिदधाति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
नीवारैर्निष्पन्नश्चरुर्नैवारः, सप्तदसंख्यातैः शरावैर्निरुप्तः सप्तशशरावः, तेनैव चरुणैतर्हि प्राजापत्यवपाहोमादूर्ध्वं प्रचरेत्। एष एव चरुः पशुपुरोडाश तेनैव चरुणैतर्हि प्राजापत्यवपाहोमादूर्ध्वं प्रचरेत्। एष एव चरुः पशुपुरोडाशस्थानीयो येषां प्राजापत्यपशूनां त एतत्पुरोडाशा अतः प्रकृतौ यथा वपया प्रचर्य पुरोडाशेन प्रचरति तद्वदत्रापि। किंच वपोत्खेदात्पशूनां यच्छिद्रं कर्मवैकल्यं भवति तदेतेन चरुणाऽपिहितं भवति।
सारस्वत्या मेष्याऽङ्गप्रचरस्य कालविशेषं विधत्ते - “सारस्वत्योत्तमया प्रचरति। वाग्वै सरस्वती। तस्मात्प्राणानां वागुत्तमा। अथो प्रजापतावेव यज्ञं प्रतिष्ठापयति। प्रजापतिर्हि वाक्” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
सारस्वती यथोत्तमा चरमा भवति तथा प्रचरेत्। सप्तदशपश्वङ्गप्रचारादूर्ध्वं प्रचरेदित्यर्थः। यस्मात्सारस्वत्या उत्तमत्वं तस्माल्लोकेऽपि सरस्वतीरूपा वाक्प्राणानां चक्षुःश्रोत्रादीनां मध्य उत्तमा, सभामध्ये विद्वदमात्यादेर्वाग्ग्मिनः प्रागल्भ्यदर्शनात्। किंच प्रजापतेः सरस्वतीपतित्वात्तदभेदोपचारेण वाग्रूपत्वे सति सारस्वत्या समापनेन प्रजापतावेव यज्ञः समापितो भवति।
सारत्वत्या मेष्याः कंचिद्गुणं विधत्ते।
“अपन्नदती भवति। तस्मान्मनुष्याः सर्वा वाचं वदन्ति (५)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ४) इति।
अपतितदन्तोपेता मेषी कार्या। लोकेऽप्यपतितदन्ताः पुरुषाः सर्वाण्यक्षराणि यथोक्तस्थानप्रयत्नोपेतान्येवोच्चारयन्ति।
देव सवितरिति। तदेवं ब्राह्मणगतेनानुवाकत्रयेण वाजपेयगता विधयो निरूपिताः। अथ मन्त्रव्याख्यानरूपान्ब्राह्मणानुवाकांस्तत्तन्मन्त्रैः सहैवोदाह - रामः।
तत्र प्रथमन्त्रस्य विनियोगं बौधायन आह – “दीक्षणीयां निर्वप्स्यन्सावित्रं जुहोति देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय दिव्यो गन्धर्वः। केतपूः केतं नः पुनातु वाचस्ततिर्वाचमद्य स्वदाति नः स्वाहेति, दीक्षाहुतीर्होष्यन्सावित्रं जुहोति, प्रायणीयां निर्वप्स्यन्सावित्रं जुहोति” इति।
हे सवितर्देव प्रेरकान्तर्यमिन्नस्मदीयं वाजपेययज्ञं प्रवर्तय। यज्ञपतिं यजमानं, भगायानुष्ठानरूपायैश्वर्याय। दिवि भवो यो गन्धर्वः सवितुरनुग्रहात्केतान्पुनाति प्राणिनां विज्ञानानि शोधयति सोऽस्माकं केतं वाजपेयविज्ञानं पुनातु शोधयेत्। वाचस्पतिश्च सवित्राऽनुज्ञातोऽद्यास्मिकर्मणि वाचमस्माभिः पठितान्वाजपेयमन्त्रान्स्वदाति स्वदयतु यथावत्पाठयतु।
अनेन मन्त्रेण होमं विधत्ते - “सावित्रं जुहोति कर्मणः कर्मणः पुरस्तात्” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५ ) इति।
तदेतद्बौधायनेनैवोदाहृतम्।
तत्तत्कर्मादौ होममुपपायति - “कस्तद्वेदेत्याहुः। यद्वाजपेयस्य पूर्वं यदपरमिति। सवितृप्रसूत एव यथापूर्वं कर्माणि करोति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
बद्धक्रमैरङ्गैश्चोदकप्राप्तैः प्रत्यक्षविहितैश्चोपेतस्य वाजपेयस्य यदङ्गं पूर्वभावि यच्च पश्चाद्भावि तन्मनुष्यः को वेदेति बुद्धिमन्त आहुः। सावित्रहोमे तु कृते सवित्रा प्रेरित एव सन्क्रममनुल्लङ्घ्य कृतवान्भवति।
प्रतिकर्म तमेतं होमं कर्तुमशक्तं प्रति पक्षान्तरं विधत्ते - “सवने सवने जुहोति। आक्रमणमेव तत्सेतुं यजमानः कुरुते। सुवर्गस्य लोकस्य समष्ट्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
उक्तेन त्रयाणां सवनानामादौ होमेन स्वर्गं प्राप्तुं सेतुस्थानीयमाक्रमणं कृतवान्भवति।
अस्य मन्त्रस्य चतुर्थपादे स्वदनस्यान्नविषयस्य वाग्विषयत्वमनुपयुक्तमिति शङ्कां निराकर्तुं व्याचष्टे - “वाचस्पतिर्वाचमद्य स्वदाति न इत्याह। वाग्वै देवानां पुराऽन्नमासीत्। वाचमेवास्मा अन्नँ स्वदयति (१)” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
स्तुत्या देवैस्तृ(वानां तृ)प्तत्वाद्वाचो देवान्नत्वम्।
इन्द्रस्येति। कल्पः — “रथ एष दक्षिणे श्रोण्यन्ते रथवाहन आहितो भवति तमुपसादयतीन्द्रस्य वज्रोऽसि वार्त्रघ्नस्त्वयाऽयं वृत्रं वध्यादिति” इति।
वार्त्रघ्नो वैरिघाती योऽयमिन्द्रस्य वज्रः, हे रथ स एव त्वमसि। त्वया सहकारिणा सहितोऽयं यजमानो वृत्रं वैरिणं वध्यात्।
रथवाहने काष्ठविशेषे स्थापिते गमनाय सज्जीकर्तुं तस्य रथस्य तस्मात्का-ष्ठादवरोहणं विधत्ते - “इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति रथमुपावहरति विजित्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
वाजस्येति। कल्पः — “अथैनं धर्मगृहीतमन्तर्वेद्यभ्यावर्तयन्ति वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे। यस्यामिदं विश्वं भुवनमाविवेश तस्यां नो देवः सविता धर्म साविषदिति” इति।
दक्षिणवेदिश्रोण्यन्ते रथवाहनादवरोपितं रथं सौमिकवेदिमध्ये प्रदक्षिण्ये-वाऽऽनयेदित्यर्थः। वाजस्य नु अन्नस्यैव प्रसव उत्पत्तिनिमित्तं मातरमन्नस्य निर्मात्रीं महीं वेदिरूपां पृथिवीमदितिं नामाखण्डनीयामेव वचसा स्तुत्या करामहे कुर्मः। यस्यां पृथिव्यामिदं सर्वं भूतजातं प्रविश्यावतिष्ठते तस्यां पृथिव्यां नोऽस्माकं धर्म धारणं सविता देवः साविषदनुजानातु।
अनेन मन्त्रपाठेन भूमिं तदाश्रितं जगच्च स्वाधीनत्वेन संपादयतीत्येवं व्याचष्टे - “वाजस्य नु प्रसवे मातरं महीमित्याह। यच्चैवेयम्। यच्चास्यामधि। तदेवावरुन्धे। अथो तस्मिन्नेवोभयेऽभिषिच्यते” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
न केवलं तयोः स्वाधीनत्वं किंत्वेतस्मिन्नुभयस्मिन्भूभ्यां तदाश्रितजने च राजत्वेनाभिषिक्तो भवति।
अप्स्वन्तरिति। कल्पः — “अथाश्वान्पल्पूलयति अप्स्वन्तरमृतमप्सु भेषज-मपामुत प्रशस्तिष्वश्वा भवथ वाजिन इति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
पल्पूलयति जले प्लावयति शरीरं प्रक्षालयतीत्यर्थः। अप्सु मध्येऽपमृत्युनि-वारकं रोगनिवारकं च सारं वर्तते। हे वाजिनोऽन्नवन्तोऽश्वा अपां संबन्धि-नीषूत प्रशस्तिष्वमृतत्वभेषजत्वसदृशीष्वन्यास्वपि गुणवत्त्वप्रशंसासु यूयं संबद्धा भवथ।
विधत्ते - “अप्स्वन्तरमृतमप्सु भेषजमित्यश्वान्पल्पूलयति। अप्सु वा अश्वस्य तृतीयं प्रविष्टम्। तदनु वेनन्न्ववप्लवते। यदप्सु पल्पूलयति (२) यदेवास्याप्सु प्रविष्टम्। तदेवावरुन्धे” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
स्नपयितुं प्रवेशितोऽप्यश्वः स्वेच्छया क्रीडञ्जलस्योपरि प्लवते तत्रेदमुत्प्रेक्षते -अप्सुयोनिर्वा अश्व इति श्रुतेरश्वजन्मकाले गर्भसंबन्धि तृतीयमंशजातं ज-लेऽवस्थितं भवति, यथा मनुष्यगर्भे तद्वत्। अत एव हि मनुष्या नवप्रसूताया योषितो गर्भस्थानं समाधातुं बहुभिरौषधैश्चिकित्सां कुर्वन्ति। एवं च सत्ययम-प्यश्वस्तदंशजातमनु वेनन्नु कामयमानो नु प्रायेणावप्लवते, यथा विनष्टद्रव्यमन्विच्छन्पुरुषो जले पुनः पुनर्मज्जन्नुत्तिष्ठति तद्वत्। एवं च सत्यध्वर्युः प्लावयतीति यत्तेनाप्सु प्रविष्टमश्वावयवजातं तत्सर्वं संपादितवान्भवति।
प्रकारान्तेण प्लावनविधिं स्तौति - “बहु वा अश्वोऽमेध्यमुपगच्छति। यदप्सु पल्पूलयति। मेध्यानेवैनान्करोति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
अश्वः खलु पृथिव्यां यत्र क्वाप्यशुचिप्रदेशे विपरिवर्तमानो बहुविधममेध्य-मयज्ञार्हमुच्छिष्ठादिकमुपगच्छति। अतोऽध्वर्युः प्रक्षालनेनाश्वान्यज्ञयोग्यानेव करोति।
वायुर्वेति कल्पः — “अथ दक्षिणं योग्यं युनक्ति वायुर्वा त्वा मनुर्वा त्वा गन्धर्वाः सप्तविँशतिः। ते अग्ने अश्वमायुञ्जन्ते अस्मिञ्जवमादधुरिति” इति।
योग्यं रथे योक्तुमर्हमश्वं वायुश्च मनुश्च पञ्चविंशतिसंख्याका गन्धर्वाश्चेति मिलित्वा सप्तविंशतिसंख्याका ये पुरुषास्ते सर्वेऽग्रेऽस्मत्तः पूर्वं रथे संयोजि-तवन्तः। ते पुनः सर्वे पृष्ठसंमार्जनाद्युपचारेणास्मिन्नश्वे वेगं संपादितवन्तः। वायुस्त्वामयोजयन्मनुस्त्वामयोजयदिति पृथग्वाक्यकरणं तयोर्मुख्यत्वज्ञाप-नार्थम्। अहं युनज्मीत्यभिप्रायः।
अहं युनज्मीति पाठं परित्यज्य वायुर्वा त्वेति पाठस्याभिप्रायमाह - “वायुर्वा त्वा मनुर्वा त्वेत्याह। एता वा एतं देवता अग्ने अस्वमयुञ्जन्। ताभिरेवैनान्युनक्ति। सवस्योज्जित्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
योजयितॄणां देवानामनुग्रहाद्यज्ञस्योत्कर्षेण जयो भवति।
विधत्ते - “यजुषा युनक्ति व्यावृत्त्यै ३” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
अनुष्टुप्छन्दस्त्वादृग्रूपोऽपि वायुर्वा त्वेति मन्त्रो यजुर्वेदपठितत्वाद्यजुरि-त्युपचर्यते। लौकिके रथे मन्त्रमन्तरेणाश्वयोजनादत्र समन्त्रकत्वेन व्यावृत्तिर्भवति।
अपां नपादिति। कल्पः — “ अथास्य पृष्ठं मर्मृज्यते–अपां नपादाशुहेमन्य ऊर्मिः ककुद्मान्प्रतूर्तिर्वाजसातमस्तेनायं वाजँ सेदिति” इति।
मर्मृज्यते पुनः पुनः संमर्ष्टि। हेऽपां नपात्प्लवनकाले जलस्य कालुष्याना-पादनादविनाशयितः, आशुहेमंस्तीव्रगन्तः, तादृश हेऽश्व जले य ऊर्मिः ककुद्मान्ककुदिवोन्नतःप्रतूर्तिर्निमज्जनेन प्रसक्तस्योपद्रवस्य प्रकर्षेण हिंसको वाजसातमः सस्योपकारित्वेनातिशयेनान्नप्रदस्तेन त(त्व)त्पृष्ठलग्नेनोर्मि-णाऽस्माकं वाजमन्नं सेत्साधय।
विधत्ते - “अपां नपादाशुहेमन्निति संमार्ष्टि। मेध्यानेवैनान्करोति। अथो स्तौत्येवै-नानाजिँ सरिष्यातः” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ३) इति।
पृष्ठसंमार्जनेन शोधितत्वाद्यागयोग्यत्वम्। किंच धावनार्थायाः सप्तदशश-रपातपरिमिताया भूमेरवधिराजिस्तं प्रति सरिष्यन्ति गमिष्यन्ति, तान्गमिष्य-तोऽश्वान्पृष्ठसंमार्जनरूपेणोपलालनेन स्तौत्येव प्रोत्साहयत्येव।
विष्णोः क्रम इति। कल्पः — “अथ रथमभिप्रैति विष्णोः क्रमोऽसि विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसीति” इति।
तदेतद्यजमानकर्म।
तथा चाऽऽपस्तम्बः — “विष्णोः क्रमोऽसीति रथं यजमानोऽभ्यैति” इति।
यजमानस्य मम हे प्रथमप्रक्रम त्वं विष्णोर्व्यापनशीलस्य जगदीश्वरस्य त्रिविक्रमावतारस्य क्रमोऽसि प्रथमपदप्रक्षेपेण जितो भूलोकोऽसि। हे द्वितीयप्रक्रम त्वं क्रान्तं विष्णोर्द्वितीयपदप्रक्षेपेण जितमन्तरिक्षमसि। हे तृतीयप्रक्रम त्वं विक्रान्तं विष्णोः पराक्रमेण जितं त्रिविष्टमपसि।
विधत्ते - ‘विष्णुक्रमान्क्रमते। विष्णुरेव भूत्वेमाल्ँ लोकानभिजयति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
कल्पः — ‘अथ रथस्य पक्षसी संमृशत्यङ्ककावभितो रथं याविति’ इति। पक्षसी पार्श्वौ।
पाठस्तु - अङ्कौ न्यङ्काविति। रथमभितो यावङ्कौ लक्षणभूतौ पार्श्वविशेषौ, न्यङ्कौ नितरां लक्षणभूतौ चक्रविशेषौ। अत एवाऽऽपस्तम्ब आह- ‘अङ्कौ न्यङ्काविति। रथचक्रे अभिमृशति पक्षसी वा’ इति। ध्वान्तं ध्वन्युपेतं, वाताग्रं वायोरपि पुरोदेशं शीघ्रतया वायुमप्यतिलङ्घ्यानुक्रमेण संचरन्तौ, तादृग्भ्यामुभाभ्यामग्नयो नोऽस्मान्पारयन्तु धावनावधिं पारयन्तु। कीदृशा अग्नयः। पप्रयोऽपेक्षितमर्थं पूरयितारः। येऽग्नयो दुरेहेतिरित्यादिनामोपेतास्ते।
एतन्मन्त्रगतमग्निपदं रथावस्थितदेवतापरत्वेन व्याचष्टे - ‘वैश्वदेवो वै रथः। अङ्कौ न्यङ्कावभितो रथं यावित्याह। या एव देवता रथे प्रविष्टाः। ताभ्य एव नमस्करोति। आत्मनोऽनार्त्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
दूरेहेतिरित्यादिनामका अग्नेयोऽत्र विश्वे देवाः। तद्वाहनरूपोऽयं रथः। पारयन्त्विति प्रार्थनैव नमस्कारस्तेन नमस्कारेण तदीयं रथमारूढस्यापि स्वस्याऽऽर्तिर्न भवति।
वेदनं प्रशंसति - ‘अशमरथंभावुकोऽस्य रथो भवति। य एवं वेद (४)’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ५) इति।
शमयुक्तो रथः शमरथो मन्दगतिः। अशमरथः शीघ्रगती रथः तच्छीलोऽस्य वेदितू रथो भवति।
अत्र विनियोसंग्रहः —
“देवहोमोऽत्र कर्मादाविन्द्रस्य रथमाहरेत्।
याजस्य वेदिध्ये तमभ्यावर्तयते रथम्॥१॥
अप्स्वश्वान्प्लावयेद्वायुर्युनक्ति तुरगं रथे।
अपां तदश्वपृष्ठानि मार्ष्टि विष्णो रथं व्रजेत्॥
अङ्कौ रथे मृशेत्पक्षावष्टौ मन्त्रा इहोदिताः॥२॥” इति।
अथ मीमांसा।
प्रथमाध्यायस्य चतुर्थपादे चिन्तितम्-
“यजेत वाजपेयेन स्वाराज्यर्थीत्यसौ गुणः।
नाम वा गुणता तन्त्रयोगाद्गुणफलद्वये॥
साधारणयजेः कर्मकरणत्वेन तन्त्रता।
त्रिकद्वयं विरुद्धं स्यात्तन्त्रतायां फलं प्रति॥
उपादानविधेयत्वगुणत्वाख्यत्रिकं यजेः।
उद्देशानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रति॥
त्यक्त्वा तन्त्रं तदावृत्तौ वाक्यं भिद्येत तेन सः।
वाजपेयेतिशब्दोऽपि कर्मनामाग्निहोत्रवत्॥”
‘वाजपेयेन स्वाराज्यकामो यजेत’ इत्यत्र वाजपेयशब्देन गुणो विधीयते। अन्नवाची वाजशब्दः। तच्चान्नं पेयं सुराद्रव्यं तच्चात्र गुणः। सुराग्रहाणामनुष्ठे-यत्वात्। ननु गुणत्वे वाजपेयद्रव्यवता यागेन स्वाराज्यं भावयेदित्येवं मत्वर्थलक्षणा प्रसज्येत। मैवम्। सकृदुच्चरितस्य यजेतेत्याख्यातस्य वाजपे-यगुणे स्वाराज्यफले च तन्त्रेण संबन्धाङ्गीकारात्। वाजपेयद्रव्येण स्वारा-ज्याय यजेतेत्येवमुभयसंबन्धः। ननु गुणसंबन्धे सति वाजपेयेन गुणेन यागं कुर्यादिति यजेः कर्मकारकत्वं भवति, फलसंबन्धे तु यागेन स्वाराज्यं संपाद-येदिति करणकारकत्वं, ततः कथमुभयसंबन्ध इति चेन्नायं दोषः। यजेः साधारणत्वेन द्विरूपत्वसंभवात्। यजेतेत्यत्र प्रकृत्या याग उक्तः, प्रत्ययेन भावनोक्ता, तयोस्तु समभिव्याहारात्संबन्धमात्रं गम्यते। तच्च कर्मत्वकरण-त्वयोः साधारणम्। न खलु तत्र कर्मत्वस्यैव करणत्वस्यैव वा साक्षादभिधा-यिका काचिदसाधारणा विभक्तिः श्रूयते। अतः साधारणस्य यजेरुभाभ्यां गुणफलाभ्यां युगपत्संबन्धे सति यथोचितं संबन्धविशेषः पर्यवस्यति। एवं तन्त्रेण संबन्धाङ्गीकरणे वाजपेयद्रव्येण यागं कुर्यादित्यस्यार्थस्य लभ्यमान-त्वाद्गुणविधित्वेऽपि नास्ति मत्वर्थलक्षणा। यद्युद्भिदादिष्वप्येवं गुणविधिः स्यात्तर्हि तान्यपि वाक्यान्यत्रोदाहृत्य तदीयः सिद्धान्तः पुनराक्षिप्यतामिति प्राप्ते ब्रूमः — यजेस्तन्त्रेणोभयसंबन्धे सति विरुद्धत्रिकद्वयापत्तिः स्यात्। उपादेयत्वं विधेयत्वं गुणत्वं चेत्येकं त्रिकम्, उद्देश्यत्वमनुवाद्यत्वं मुख्यत्वं चेत्यपरं त्रिकम्। तत्रोद्देश्यत्वादयः स्वाराज्यफलनिष्ठा धर्मा उपादेयत्वादयस्त्रयः साधनभूतयजिनिष्ठाः। फलमुद्दिश्य यजिरुपादीयते, फलमनूद्य यजिर्विधीयते। फलं प्रधानं यजिरुपसर्जनम्। फलस्योद्देश्यत्वं नाम मानसापेक्षाविषयत्वाकारो यजेरुपादेयत्वं नामानुष्ठीयमानत्वाकारः, तावुभौ मनःशरीरोपाधिकौ धर्मौ। अनुवाद्यत्वविधेयत्वधर्मौ तु शब्दोपाधिकौ। ज्ञातस्य कथनमनुवादः। अज्ञातस्यानुष्ठेयस्य कथनं विधिः। फलयागयोः साध्यसाधनरूपतया प्रधानत्वोपसर्जनत्वे। एवं सति फलतत्साधनयोः स्वाराज्ययागयोः स्वभावपर्यालोचनायां फलस्योद्देश्यत्वादित्रिकं यागस्योपादेयत्वादित्रिकं व्यवतिष्ठते। तथा यागस्य वाजपेयद्रव्यस्य च साध्यसाधनभावपर्यालोचनायां यागस्योद्देश्यत्वादित्रिकं द्रव्यस्योपादेयत्वादित्रिकं पर्यवस्यति। ततो यागस्य फलद्रव्याभ्यामुभाभ्यां प्रतियोगिभ्यां युगपत्संबन्धे सति विरुद्धत्रिकद्वयमापद्येत। ननु तर्हि मा भूत्तन्त्रणोभयसंबन्धः पृथक्संबन्धाय यजिरावर्त्यतामिति चेन्न। वाक्यभेदप्रसङ्गात्। द्रव्येण यागं कुर्यादित्येकं वाक्यम्, यागेन फलं कुर्यादित्यपरम्। तस्माद्वाजपेयशब्दो न गुणविधायकः, किंतु यथोक्तं द्रव्यं निमित्तीकृत्याग्निहोत्रशब्दवत्कर्मनामधेयम्।
द्वितीयाध्यायस्य द्वितीयपादे चिन्तितम् —
“आहुतीस्तिस्र इत्यत्र कर्मैक्यमुत भिन्नता।
एकत्वं सकृदाख्यानात्संख्यावृत्त्या प्रयाजवत्।
आख्यातमात्रं नो मानं संख्यया बहुकर्मता।
आवृत्त्यैकादशत्वं तु प्रयाजे गत्यभावतः॥
पशून्सप्तदश प्राजापत्यानित्यत्र भष्यकृत्।
विचारमाह पूर्वत्र क्रियात्रित्वस्फुटत्वतः॥
बहुत्वोपेतपशुभिर्देवयोगादभिन्नता।
रूपस्य तेन कर्मैक्यं संख्या नात्र क्रियागता।
देवतासंगतस्यैव तद्धितार्थस्य पश्चिमः।
बहुत्वसंगमो रूपसंख्ययाऽतः क्रियाभिदा” ॥
तिस्र आहुतीर्जुहोतीति श्रूयते। तत्र जुहोतीत्येतदाख्यातं समिधो यजती-त्यादिवन्नाभ्यस्तं, किंतु सकृदेवाऽऽम्नातम्। तत एकमिदं कर्म त्रित्वसंख्या तु तस्यैव कर्मण आवृत्त्या नेतव्या। यथा प्रयाजेष्वेकादशत्वसंख्या पञ्चानामेव प्रयाजानामावृत्त्या नीता तद्वदिति प्राप्ते ब्रूमः — किमिदमाख्यातं पदान्तरनिर-पेक्षमेव कर्मैक्ये प्रमाणम्, उत पदान्तरान्वितम्। नाऽऽद्यः। वाक्यांशस्य पदमात्रस्य प्रमितिजनकत्वाभावात्। द्वितीये त्रित्वसंख्यया विशेषितेनाऽऽ-ख्यातेन कर्मबहुत्वं गम्यते। प्रयाजानां तु पूर्वमेव संख्यावरुद्धत्वादावृत्तिम-न्तरेणैकादशत्वं दुःसंपादम्। इह त्वेतद्विधितः पूर्वं कर्मण एकत्वसंख्यावरोधो नास्तीति वैषम्यम्। तदेतद्वृत्तिकारोदाहरणं भाष्यकारो नानुमन्यते। कर्मवाचिन आहुतिशब्दस्य विशेषणेन त्रिशब्देन कर्मबहुत्वस्य स्फुटतया पूर्वपक्षानुत्थानात्। इदं त्वत्रोदाजहार – सप्तदश प्राजापत्यान्पशूनालभत इति। अत्र प्रजापतिर्देवता येषां पशूनां ते प्राजापत्या इति तद्धितव्युत्पत्तौ बहुत्वोपेताः पशव एकं द्रव्यम्। ततो द्रव्यैक्याद्देवतैक्याच्च यागस्य रूपमभिन्नमित्येकमिदं कर्म। या तु सप्तदशेति संख्या सा पशुद्रव्यगता, न तु पूर्वोदाहृतत्रित्वसंख्येव क्रियागता। तस्मान्न कर्मभेदमा-पादयतीति प्राप्ते ब्रूमः — अत्र प्रजापतिर्देवता यस्य पशोः स प्राजापत्य इति तद्धितान्तं प्रातिपदिकं व्युत्पाद्य पश्चात्तद्धिजातान्तप्रातिपदिकार्थस्य प्रजापति-देवताविशिष्टपशोः कर्मत्ववहुत्वविवक्षायामुत्पन्नो इमे द्वितीयाविभक्तिबहु-वचने। तत्र प्रथमभाविन्या द्वितीयाविभक्तेरेव तावत्तद्धितोत्पत्तिवेलायामन्वयो नास्ति, कुतः पश्चाद्भाविनो बहुवचनस्यान्वयः। एवं सति प्राजापत्येत्यनेन तद्धितान्तप्रातिपदिकेनैकपशुद्रव्यकमेकदेवतोपेतं यादस्य रूपं समर्थ्यते। तादृशानां च रूपाणां बहुत्वाय बहुवचनम्। बहुत्वविशेषश्च सप्तदशेति निर्दिश्यते। तस्मादत्र संख्यया कर्मभेदः। एवं च सत्यष्टमे वक्ष्यमाणं सप्तदशपशूनामैकादशिनपशुगणविकृतित्वमुपपद्यते।
पञ्चमाध्यायस्य प्रथमपादे चिन्तितम् —
“उपाकृतानां किं सप्तदशानां यूपबन्धने।
क्रमो नास्त्यस्ति वा नियामकविवर्जनात्॥
आद्यसंस्कृत्यनुष्ठानं यत्क्रमेण स एव हि।
क्रमोऽन्यत्र प्रवृत्तिस्तु क्रमस्यात्र नियामिका॥
वाजपेये ‘सप्तदश प्राजापत्यान्पशूनालभते’ इति विहितानां पशूनामुपाक-रणनियोजनादयः संस्काराः कर्तव्याः। तत्रेदृशे पशावुपक्रम ईदृशे च समाप्ति-रिति नियमकारिणः शास्त्रस्याभावादैच्छिकेन क्रमेणोपाकरणरूपः प्रथमः संस्कारोऽनुष्ठितः। उपाकृतानां यूपे नियोजनं संस्कारान्तरं कर्तव्यम्। तदानी-मीदृशः पशूः प्रथमं नियोक्तव्य इति क्रमनियमकारिणां श्रुत्यर्थपाठानामभावा-न्नास्ति क्रमनियम इति चेन्मैवम्। उपाकरणे यः क्रमः स्वीकृतस्तस्यैव नियो-जनादिसंस्कारेषु स्वीकर्तव्यत्वात्। श्रुत्यर्थपाठा इव प्रथमप्रवृत्तिरपि क्रमं निय-न्तुमर्हति। प्रवृत्त्या बुद्धिस्थस्य क्रमस्य त्यागकारणाभावात्। प्रावृत्तिकक्रमस्वीकारे प्रथमपशावुपाकरणनियोजनयोः प्रथमद्वितीयसंस्कारयोर्मध्ये पश्वन्त-रेष्वनुष्ठितैः षोडशभिरेवोपाकरणपदार्थैर्व्यवधानं भवति। तच्च व्यवधानं सप्त-दशेतिविधिबलादभ्यनुज्ञातम्। प्रावृत्तिकं क्रमं परित्यज्य पश्वन्तराणां पूर्वं नियोजनं कृत्वा पश्चात्प्रथमपशोर्यदि नियोजनं क्रियेत तदा द्वात्रिंशद्भिः पदार्थैर्व्यवधानं स्यात्। तत्तु नाभ्यनुज्ञातम्। तस्मात्प्रवृत्त्या क्रमो नियम्यते।
तत्रैव द्वितीयपादे चिन्तितम्-
“वाजपेये किमेकैकपशोः सर्वसमापनम्।
सर्वेषु वैकैकधर्मा आद्यः साहित्यसिद्धये॥
वचनात्पशुसाहित्यं प्रयोगोक्त्या तु कल्प्यते।
धर्मसाहित्यमेतच्च सिद्धान्तेऽपि न हीयते॥”
वाजपेये सप्तदशसु प्राजापत्येषु पशुष्वेकैकस्मिन्पशावपाकरणानियोजनादिसंस्काराः सर्वे समापनीयाः। तथा सति साङ्गं प्रधानं कर्तव्यमिति प्रयोगवचनेनावगतं धर्माणां साहित्यं प्रसिध्यति। चोदकोऽपि धर्मसाहित्यं प्रापयति। प्रकृतावुपाकरणनियोजनादीनां साहित्यदर्शनात्। तस्मादत्र काण्डानुसमयो न तु पदार्थानुसमय इति प्राप्ते ब्रूमः — सप्तवश प्राजापत्यान्पशूनालभत इति वचनात्पशुसाहित्यमवगतं, तच्च प्रबलं, प्रत्यक्षेण पशूनित्यनेनैकशब्देन प्रापि-तत्वात्। धर्मसाहित्यं तु न प्रत्यक्षशब्देन प्रापितं, किंतु प्रयोगवचनेन परि-कल्प्यते। यदैकस्मिन्प्रयोगे धर्मसाहित्यं न स्यात्तदा कतिपयधर्मवैकल्येन सा-ङ्गप्रधानानुष्ठानविधिर्नोपपद्येतेत्यर्थापत्तेश्चोदकेनापि विकृतौ धर्मसाहित्यवचन-मनुष्ठीयते। तदुभयं प्रत्यक्षात्पशुसाहित्यवचानाद्दुर्बलम्। तस्माद्वैश्वदेवीं कृत्वा प्रजापत्यैश्चरन्तीत्यनेन प्रत्यक्षवचनेनावगतं पशुसाहित्यमबाधितुं सर्वेषु पशुष्वेकैक उपाकरणादिधर्मः कर्तव्य इत्येवं पदार्थानुसमयोऽभ्युपेतव्यो न तु काण्डानुसमयः। अस्मिन्नपि पक्षे प्रयोगवचनचोदकाभ्यामवगतं धर्मसाहित्यं न विरुध्यते। एकस्मिन्नेव प्रयोगे कृत्स्नधर्माणामनुष्ठितत्वात्।
दशमाध्यायस्य चतुर्थपादे चिन्तितम् –
“प्राजापत्यैः पशूनां किं बाधो यद्वा समुच्चयः।
अक्रियार्था पशूक्तिः स्याल्लिङ्गं तेनास्तु बाधनम्॥
पशूनुद्दिश्य संख्याया देवस्य च विधौ भिदा।
कर्मान्यत्वे ग्रहन्यायाद्रोधनाच्च समुच्चयः॥”
वाजपेये श्रूयते - ‘सप्तदश प्राजापत्यान्पशूनालभते’ इति। तैरेतैः प्राकृत-पशूनामाग्नेयादीनां बाधः स्यात्। कुतः। पशूत्वलिङ्गात्। नहि पशुशब्दो ग्रह-शब्दवदपूर्वां विधेयक्रियां ब्रूते, येन लिङ्गत्वं हीयेतेति प्राप्ते ब्रूमः किमत्र प्राकृ-तपश्वनुवादेन सप्तदशसंख्या प्रजापतिदेवता चेति गुणद्वयं विधीयते, आहो-स्विद्विशिष्ठमन्यत्कर्म। नाऽऽद्यो वाक्यभेदापत्तेः। द्वितीये तु न पशुशब्दो लिङ्गं, ततोऽत्र ग्रहन्यायो योजनीयः। किंचावरोधनमेवमाम्नायते- ‘ब्रह्मवादिनो वद-न्ति। नाग्निष्ठोमो नोक्थ्यः। न षोडशी नातिरात्रः। अथ कस्माद्वाजपेये सर्वं यज्ञक्रतवोऽवरुध्यन्त इति। पशुभिरिति ब्रूयात्। आग्नेयं पशुमालभते। अग्नि-ष्टोममेव तेनावरुन्धे। ऐन्द्राग्नोक्थ्यम्। ऐन्द्रेण षोडशिनः स्तोत्रम्। सारस्वत्या-ऽतिरात्रम्। मारुत्या बृहतः स्तोत्रम्। एतावन्तो वै यज्ञक्रतवः। तान्पशुभिरेवा-वरुन्धे’ इति। अस्मिन्नवरोधनाम्नाये चोदकप्राप्ताग्नेयादिपशुसद्भावस्य सिद्धव-दनुवादात्समुच्चयोऽवगम्यते।
एकादशाध्यायस्य द्वितीयपादे चिन्तितम् —
“प्राजापत्यवसानां किं भेदस्तन्त्रमुताग्रिमः।
पशुभेदाद्देवपाककालैक्याच्छक्तितोऽन्तिमः॥”
वाजपेये सप्तदशसु प्रजापतिदेवताकेषु पशुषु तद्भेदानुसारेण वसाहोमो भि-द्यत इति चेन्मैवम्। प्रजापतिरेक एव सप्तदशानां पशूनां देवता। तथा पाको-ऽपि सहैव क्रियते। प्रदानस्यापि पाक उपलक्षणम्। प्रदानेऽपि साहित्यमस्ति। कालश्चैकः, याज्याया अर्धर्चान्तस्य तत्कालत्वेन चोदकातिदेशात्। शक्यते च सह होमः। तस्मात्तन्त्रम्।
तत्रैव चतुर्थपादे चिन्तितम् —
“प्राजापत्येषु कुम्भ्यादेर्भेदो नो वाऽङ्गभेदतः।
भेदो मैवमशेषाङ्गश्रपणादौ प्रभुत्वतः॥”
वाजपेये सप्तदशसु प्राजापत्यपशुषु कुम्भ्या हृदयशूलस्य वपाश्रवण्याश्च भेदः स्यात्। कुतः। तत्तत्पश्वङ्गानां भिन्नत्वात्। मैवम्। पश्वङ्गानां बहुत्वेऽपि प्रौढकुम्भ्यादेर्दृष्टार्थश्रपणादौ प्रभुत्वात्। तस्मात्तन्त्रम्।
तत्रैव तृतीयपादे चिन्तितम् —
“प्राजापत्यप्रचारः किमार्भवे शस्त्रिसोमतः।
ऊर्ध्वं वा विकृतौ वोत परस्तात्सर्वसोमतः।
आर्भवे चोदकादुक्त्यासत्तिभ्यां तदनन्तरः।
श्रुतिबाधस्तदा तस्मात्तृतीयो विकृतित्वतः॥
पशवो नहि सोमस्य विकारा अविशेषतः।
उक्तत्वात्सर्वसोमानामुपरिष्टात्प्रचर्यताम्॥”
वाजपेये सप्तदशप्राजापत्यपशुप्रचारस्य काले चतुर्धा संशयः। तत्र तावदयं प्रयोगक्रमः – तृतीयसवने प्रथममार्भवः पवमानः, ततो वैश्वदेवग्रहपर्यन्ताः शस्त्रवन्तः सोमाः, ततोऽशस्त्रेष्ववशिष्टेषु सोमग्रहेषु प्रचीर्णेष्वग्निष्टोमसाम्न ऊर्ध्वमुक्थ्यादयः सोमविकारा इति। एवं स्थिते प्राजापत्यपशूनामार्भवकाले प्रचारः। कुतः। प्रकृतौ तस्य पशुप्रचारकालत्वेन चोदकप्राप्तेरित्याद्यः पक्षः। उपरिष्टात्सोमानां प्राजापत्यैश्चरन्तीति वचनेन सोमग्रहप्रचारादूर्ध्वः कालो विधीयते। यदि प्रातःसवनमाध्यंदिनसवनसोमेभ्य ऊर्ध्वत्वमार्भवकालस्या-स्तीति योज्येत तदा चोदकेनैव तत्कालप्राप्तेर्वचनमिदमनर्थकं स्यात्। अतस्तृतीयसवनगतसोमानामुपरीति वक्तव्यम्। यदि तत्र सर्वसोमानामुप-रीति विवक्ष्येत तदा चोदकप्राप्तः कालो विप्रकृष्येत। ततः प्रत्यासत्तये शस्त्रिणां वैश्वदेवग्रहान्तानां सोमानामुपरीति द्वितीयः पक्षः। उपरिष्टात्सो-मानामित्यविशेषप्रवृत्ता श्रुतिः कतिपयसोमोर्ध्वत्वविवक्षायां बाध्येत, तस्माच्छस्त्रवतां तद्रहितानां च सोमानामुपरिष्टादग्निष्ठोमे यज्ञायज्ञीयसाम्ना संस्थिते सति तत्प्रचारः कार्यः, तस्य विकृतिकालत्वात्प्राजापत्यपशूनां च विकृतिरूपत्वादिति तृतीयः पक्षः। सोमविकाराणामेवायं कालः, पशवस्तु न सोमविकाराः, तस्मादविशेषवचनानुसारेण प्राकृतानां च सर्वेषां सोमा-नामुपरिष्टात्प्राजापत्यपशुप्रचार इति राद्धान्तः।
तत्रैव द्वितीयपादे चिन्तितम् —
“पर्यग्निकरणे त्याग आलम्भो ब्रह्मसामनि।
कर्मशेषनिषेधश्च कर्मान्तरविधिर्भवेत्॥
किंवोत्कर्षोऽवशिष्टस्य ह्यारण्योक्तिवदादिमः।
अदृष्टवाक्यभेदाप्तेर्द्रव्याभावेन चान्तिमः॥”
वाजपेये सप्तदश प्राजापत्यान्पशून्प्रकृत्य श्रूयते – “तान्पर्यग्निकृतानुत्सृजति, ब्रह्मसाम्न्यालभते” इति। तेषु सप्तदशसु पशुषु पर्यग्निकरणेऽनुष्ठिते सत्युत्तर-कालभावी कर्मशेष उत्सर्गशब्देन निषिध्यते। अश्वमेधे ‘पर्यग्निकृतानारण्या-नुत्सृजन्ति’ इत्वत्र कर्मशेषनिषेधस्य संप्रतिपन्नत्वादत्रापि तथात्वेन सप्तदश पशवः पर्यग्निकरणान्ताः समापनीयाः। आलभतिना च ब्रह्मसामकाले कर्मान्तरं विधीयत इति प्राप्ते ब्रूमः - कर्मान्तरविधौ सप्तदशपशुजन्यादृष्टाद्भिन्नं किंचिददृष्टं कल्प्येत, वाक्यभेदश्च प्राप्नुयात्। किंच ब्रह्मसाम्न्यालभत इत्यत्र द्रव्यदेवतयोरश्रवणान्न कर्मान्तरविधिः संभवति। तस्मात्पर्यग्निकरणानन्तरमेव कर्तव्यस्य सप्तदशपशूनामालम्भादिशेषस्य ब्रह्मसामकाल उत्कर्षो विधीयते। तथा सत्यर्थप्राप्तः पर्यग्निकरणानन्तरभाविकर्मशेषव्यापारोपरम उत्सर्गशब्देनानूद्यते॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके सप्तमोऽनुवाकः॥७॥

(अथ प्रथमकाण्डे सप्तमप्रपाठकेऽष्टमोऽनुवाकः)।
सप्तमे रथमन्त्रा वर्णिताः। अष्टमे रथस्य धावनमन्त्रा वर्ण्यन्ते।
देवस्याहमिति। कल्पः — “रथमातिष्ठति देवस्याहँ सवितुः प्रसवे बृहस्प-तिना वाजजिता वाजं जेषमिति” इति।
आतिष्ठत्यारोहेदित्यर्थः। वाजजिताऽन्नजयकारिणा बृहस्पतिनाऽनुगृहीतोऽहं वाजं जेषमन्नं जेष्यामि।
एतन्मन्त्रगतं बृहस्पतिशब्दं ब्राह्मणजात्यभिमानिदेवपरत्वेन व्याचष्टे - “देवस्याहँ सवितुः प्रसवे बृहस्पतिना वाजजिता वाजं णेषमित्याह। सवितृप्रसूत एव ब्रह्मणा वाजमुज्जयति” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
देवस्याहमिति। कल्पः — “ चात्वाले रथचक्रं निमितं ब्रह्माऽऽरोहति तमत एवानुमन्त्रयते देवस्याहँ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकँ रुहेयमिति” इति।
निमितं निखातस्य काष्ठस्याग्रे स्थापितं, वर्षिष्ठमतिशयेन प्रवृद्धम्।
पूर्वमन्त्रवद्व्याचष्टे - ‘देवस्याहँ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकँ रुहेयमि-त्याह। सवितृप्रसूत एव ब्रह्मणा वर्षिष्ठं नाकँ रोहति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
विधत्ते – ‘चात्वाले रथचक्रं निमितँ रोहति अतो वा अङ्गिरस उत्तमः स्वर्गं लो-कमायन्। साक्षादेव यजमानः सुवर्गं लोकमेति’ ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
अत उपरि स्थिताद्रथचक्रात्, उत्तमा उद्गततमाः, साक्षादेवाव्यवधानेनैव।
विधत्ते - ‘आवेष्टयति। वज्रो वै रथः। वज्रेणैव दिशोऽभिजयति १’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
ऊर्ध्वकाष्ठाग्रे स्थापितं ब्रह्मणा समारूढं रथचक्रं त्रिः प्रदक्षिणं पर्यावर्तयेत्। रथस्य वज्रांशत्वाद्वज्रत्वम्। तच्चान्यत्राऽऽम्नातम् - ‘स्फ्यस्तृतीयँ रथस्तृतीयं यूपस्तृतीयम्’ इति।
विधत्ते - ‘वाजिनाँ साम गायते। अन्नं वै वाजः। अन्नमेवावरुन्धे’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
वाजिनामन्नार्थिनां संबन्धि यत्साम तद्ब्रह्मा गायेत्। अन्नप्रदस्तु सामविशेषः शाखान्तरे द्रष्टव्यः।
ब्रह्मण इदं गानमित्यापस्तम्बः स्पष्टयति - ‘औदुम्बरँ रथचक्रं ब्रह्माऽऽरोहति तमाह वाजिनाँ साम गायेति तस्य चक्रं त्रिः प्रदक्षिणमावर्तयति तत्रऽऽवर्त(र्त्य)माने ब्रह्मा गायति’ इति।
इन्द्रायेति। कल्पः — ‘आघ्नन्ति दुंदभीन्संप्रवदन्ति वाचः संप्रवदिता वाचो-ऽनुमन्त्रयत इन्द्राय वाचं वदतेन्द्रं वाजं जापयतेन्द्रो वाजमजयिदिति’ इति।
यागलक्षणेन परमैश्वर्येण योगाद्यजमान इन्द्रस्तस्मा इन्द्राय हे सभ्या ब्राह्मणा आशीर्वादरूपां श्रुतां वाचं वदत। इन्द्रं यजमानं वाजं जापयत। अन्नविषये जयं प्रापयत। अयमिन्द्रो यजमानो वाजमन्नमजयिज्जयतु।
सोऽयं मन्त्र आपस्तम्बेन दुंदुभिवादने विनियुक्तः — ‘इन्द्राय वाचं वदतेति दुंदुभीन्सँ ह्लादयन्ति’ इति।
तमेतं दुंदुभिघातं विधातुं प्रस्तौति - ‘वाचो वर्ष्म देवेभ्योऽपाक्रामत्। तद्वनस्पतीन्प्राविशत्। सैषा वाग्वास्पतिषु वदति। या दुंदुभौ। तस्माद्दुंदुभिः सर्वा वाचोऽतिवदति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
वाग्देवताया वर्ष्म नादात्मकं प्रधानशरीरं, तस्य प्रवेशादयं दुंदुभिः सर्वा मनुष्यवाचोऽतिक्रम्य ध्वनिं करोति।
विधत्ते - ‘दुंदुभीन्समाघ्नन्ति। परमा वा एषा वाक् २ या दुंदुभौ। परमयैव वाचाऽवरां वाचमवरुन्धे। अथो वाच एव वर्ष्म यजमानोऽवरुन्धे।’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
मन्त्रगतमिन्द्रियपदं वाजमजयिदित्येतच्च व्याचष्टे - ‘इन्द्राय वाचं वदतेन्द्रं वाजं जापयतेन्द्रो वाजमजयिदित्याह। एष वा एतर्हीन्द्रः। यो यजते। यजमान एव वाजमुज्जयति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
अश्वाजनीति। कल्पः - ‘अथास्मा अश्वाजनिं प्रयच्छति अश्वाजनि वाजिनि वाजेषु वाजिनीत्यश्वान्त्समत्सु वाजयेति’ इति।
अस्मै यजमानाय। अश्वमजति क्षिपतीत्यश्वाजनी कशा। सा च विजयेनान्न-प्रदत्वाद्वाजिनी। वाजिन्यो वेगवत्योऽश्वगतयस्ता अस्याः कशाया इति वाजि-नीवती। यथोक्तगुणत्रयोपेते हे कशे वाजेष्वन्नेषु निमित्तभूतेषु सत्सु त्वमश्वान्समत्सु युद्धेषु वाजय गमय। (ब्राह्मणेन) अयं मन्त्रः स्पष्टत्वबुद्ध्यो-पेक्षितः।
त्रीन्विधेयान्विधत्ते - ‘सप्तदश प्रव्याधानाजीं धावन्ति। सप्तदशँ स्तोत्रं भवति। सप्तदश सप्तदश दीयन्ते ३ सप्तदशः प्रजापतेराप्त्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
प्रकर्षेण बलाधिक्येन विध्यन्ते मुच्यन्ते बाणा यावत्परिमाणेषु देशविशेषेषु तावत्परिमाणा देशाः प्रव्याधाः। ते च सप्तदशसंख्याकाः। तेषामन्तेऽवधित्व-द्योतनाय काचिदौदुम्बरी शाखा निखन्यते तत्काष्ठयुक्तोऽवधिराजिः। तत्पर्य-न्तं रथारूढा धावेयुः। अस्मिन्वाजपेये सामवेदप्रसिद्धं यत्स्तोत्रं तत्सप्तदशसं-ख्याकावृत्तियुक्तं भवेत्। तदावृत्तिप्रकारस्त्वष्टमप्रपाठके समिधमातिष्ठेत्यस्मिन्न-नुवाके ब्राह्मणोदाहरणेन स्पष्टी करिष्यते। दक्षिणात्वेन दातव्यानां रथादीनां गोशतान्तानां द्रव्याणां मध्य एकैकद्रव्यं सप्तदशसंख्यायुक्तं दद्यात्। तच्चाऽ-ऽपस्तम्बो दर्शयति - ‘दक्षिणाकाले सप्तदश रथान्ददाति सप्तशानांसि सप्तद-शाश्वान्सप्तदश हस्तिनः सप्तदश निष्कान्सप्तदश दास्यः(सीः) सप्तदशाजाः सप्तदशावीः सप्तदश वासांसि सप्तदश गवां शतानि’ इति। यद्यपि स्तोमवि-शेषविधेर्देयद्रव्यसंख्याविधेश्च नायमवसरस्तथाऽपि गन्तव्यदेशविशेषसंख्या-विधिप्रसङ्गेन तदुभयं विहितम्। तथा सत्येकेनैव सप्तदशः प्रजापतिरित्यनेनार्थवादेन विधित्रयस्य स्तोतुं शक्यत्वात्।
अर्वाऽसीति। कल्पः — ‘तथा यथायुक्तमश्वान्क्षिपति अर्वाऽसीति दक्षिणां सप्तिरसीति मध्यमं वाज्यसीत्युत्तरम्’ इति।
अर्वादयोऽश्वजातिविशेषाः। तदेवाभिप्रेत्यान्यत्राऽऽम्नायते - ‘हयो देवा-नवहदर्वाऽसुरान्वाजी गन्धर्वानश्वो मनुष्यान्’ इति। वामदक्षिणयोरश्वयोर्मध्य ईषाद्वयं प्रसार्य तयोर्मध्ये सप्त्याख्यजातिविशेषोपेतमश्वं युञ्ज्यात्।
त्रींस्तान्देवतात्रयरूपेण स्तौति - ‘अर्वाऽसि सप्तिरसि वाज्यसीत्याह। अग्निर्वा अर्वा। वायुः सप्तिः। आदित्यो वाजी। एताभिरेवास्मै देवताभिर्देवरथं युनक्ति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
पूर्वं यजुषा युनक्तीत्यत्र मन्त्रो विहितः इदानीं रथयोगं विधत्ते-
‘प्रष्टिवाहिनं युनक्ति। प्रष्टिवाही वै देवरथः। देवरथमेवास्मै युनक्ति (४)’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
पादत्रयोपेतो भोजनपात्रस्याऽऽधारस्तद्वदश्वैस्त्रिभिर्वहतीति प्रष्टिवाही। अत एवोपरिष्टाद्वक्ष्यते - ‘त्रयोऽश्वा भवन्ति रथश्चतुर्थः’ इति।
वाजिन इति। कल्पः — ‘अथैतानाजिसृतो विख्यापयति वाजिनो वाजं धावत मरुतां प्रसवे जयत वि योजना मिमीध्वमध्यनः स्कभ्नीत काष्ठां गच्छ-तेति।
हे वाजिनोऽश्वा वाजमन्नं संपादयितुं त्वरया धावत। मरुतामनुज्ञायां सत्या-मन्नं जयत। विशेषेण बहून्यपि योजनानि मिमीध्वं शीघ्रधावनेन परिमिता-न्यल्पानीव कुरुत। किंचाध्वनो मार्गान्स्कभ्नीत स्कम्भयत शीघ्रगत्या पीडि-तान् कुरुत। काष्ठामध्वसमाप्तिमाजिशिरो गच्छत।
अस्मिन्मन्त्रे प्रथमभागं प्रतीकत्वेनोपादाय चतुर्थभागे काष्ठाशब्दं व्याचष्टे - ‘वाजिनो वाजं धावत काष्ठां गच्छतेत्याह। सुवर्गो वै लोकः काष्ठा। सुवर्गमेव लोकं यन्ति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
दिग्विशेषं विधातुं प्रस्तौति - ‘सुवर्गं वा एते लोकं यन्ति। य आजिं धावन्ति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
विधत्ते - ‘प्राञ्चो धावन्ति। प्राङिव हि सुवर्गो लोकः’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
प्राञ्चः पूर्वाभिमुखाः। ऐन्द्रत्वात्स्वर्गस्य प्राग्दिग्वर्तित्वम्।
कल्पः - ‘अथ रथान्धावतोऽनुमन्त्रयते वाजेवाजेऽवत वाजिनो न इति चतसृभिरनुच्छन्दसम्’ इति।
तत्रेयमृक्प्रथमा - वाजेवाज इति। हे वाजिनोऽश्वा वाजेवाजे तत्तदन्ननिमित्तं धननिमित्तं च नोऽस्मानवत। विप्रा ब्राह्मणवत्स्नानेन शुद्धा अमृता मरणरहिताः श्रमरहिता ऋतज्ञा ऋतं सत्यमस्य गन्तव्यदेशं जानन्तः। तादृगश्वाभिमानिनो हे देवा अस्य मध्व पिबत, धावनात्पूर्वं पश्चाच्चावघ्राप्यामाणं मधुसमानं नैवारचरुरसं पिबत। पीत्वा त मादयध्वं हृष्टा भवत। ततस्तृप्ताः सन्वो देवयानैः पथिभिराजिं प्रति यात।
अथ द्वितीया - ते न इति। तेऽश्वा अर्वन्तो गतिकुशला हवनश्रुतोऽस्मदाह्वानश्रोतारो वाजिनोऽन्नवन्तो विश्वे सर्वेऽपि हवमाह्वानमस्मद्वचनं शृण्वन्तु।
अथ तृतीया - मितद्रव इति। महान्तमपि पन्थानं मितमल्पमिव द्रवन्ति गच्छन्तीति मितद्रवः। सहस्रसाः सहस्रस्य महतोऽन्नराशेः सनितारो दातारः। मेधसाता यज्ञस्य प्रदातारः सनिष्यवः सनिं द्रव्यदानमस्मास्विच्छन्तः। ईदृशा येऽश्वाः समिथेषु संग्रामेषु महो रत्नमत्यधिकं शत्रोर्धनं जभ्रिरे हृतवन्तस्ते वाजिनो नोऽस्माकं शं भवन्तु सुखकरा भवन्तु।
अथ चतुर्थी - देवताता इति। देवताता देवानर्हन्तीति देवतातयः। मितद्रवः पूर्ववत्। स्वर्काः शीघ्रधावनेन सुष्ट्वर्चनीयाः, ते वाजिनोऽहिं वृकं रक्षांसि सर्पवदरण्यश्ववत्बाधकान्राक्षसाञ्जम्भयन्तः, वर्णव्यत्ययः। सनेमि क्षिप्रमेवामीवा रोगानस्मद्युयवन्नस्मत्तो वियोजितवन्तः।
तदेवमध्यापकसंप्रदायमनुसृत्य मन्त्रचतुष्टयं विभक्तम्। बौधायनाचार्यस्तु ते नो अर्वन्त इत्यादिर्वाजिनो हवेष्वित्यन्त एक एव मन्त्र इत्यभिप्रेत्य चतुर्थीमेष स्य वाजीत्यादिकामृचं चतुष्टयेऽन्तर्भावयामास। तदीयपाठस्तु -
एष स्य इति। ग्नीवायां कक्ष आस्ये च तत्तदुचितरज्जुविशेषैर्बद्धः सन्नेष स्य वाज्येषोऽश्वः क्षिपणिं तुरण्यति कशां त्वरयति, बहुधा बद्धत्वाद्रथं भञ्जयितु-मितस्ततो न गच्छति, कशयाऽश्वः शीघ्रं धावतीत्यर्थः। दधिक्रा धारका-न्मार्गावरोधकान्पाषाणादीनप्यतिक्रामन्क्रतुं सादिनोऽभिप्रायमनु संतवीत्वत्स-म्यगनुसंदधानः पथां मार्गाणामङ्कांसि लक्षणानि कुतिलानि निम्नोन्नतानि च वाज्यन्वापनीफणदनुक्रमेणर्जुत्वं समत्वं चाऽऽपादयंस्तुरण्यतीति पूर्वत्रान्वयः।
कल्पः — ‘स यद्यस्मै रथभ्रेषमाचक्षत आग्नीध्र एतां जुहोत्युत स्मास्यद्रवत-स्तुरण्यत इति’ इति।
पाठस्तु - उत स्मास्येति। उत स्मापि च द्रवतो गच्छतस्तुरण्यतस्त्वरयतः प्रगर्धिनोऽ-वधिं प्राप्तुं काङ्क्षतोऽस्याश्वस्याङ्कसं शृङ्गारचिह्नं वस्त्रचामरादिकं परि सर्वस्मिन्नपि देहे वर्तमानमनु वाति गच्छन्तमश्वमनूत्क्षिप्तत्वेन दृश्यमानं गच्छति। कस्य किमिव। वेः पक्षिणः पर्णं न पक्ष इव। यथा त्वरया गच्छतः पक्षिणः पक्ष उत्क्षिप्तो गच्छन्नवलोक्यते तथा धावतोऽश्वस्यालंकाररूपं वस्त्रचामरादिकं विस्पष्टमवलोक्यते। पक्षिमात्रस्य पर्णमङ्कसस्य दृष्टान्तत्वे-नाभिहितम्। शीघ्रधावने श्येनदृष्टान्त उच्यते। ध्रजतो गच्छतः श्येनस्येव दधिक्राव्णो धारकपर्वताद्यतिक्रामिण ऊर्जा सहात्यन्तबलेन सह तरित्रतो भृशं तरतोऽश्वस्येति योज्यम्।
आपस्तम्बस्त्वेवमाह- ‘वाजिनो वाजं धावतेति चतसृभिर्धावतोऽनुमन्त्र-यतेऽग्निरेकाक्षरेणेति धावत्सूज्जितीर्यजमानं वाचयति लक्षणं प्राप्योदञ्च आवृत्य प्रदक्षिणमावर्तन्ते मितद्रव इति चतसृभिः इत्याधावतोऽनुमन्त्रयते’ इति। वाजिनो वि योजना वाजेवाजे ते नो अर्वन्त इति चतस्रः।
प्रधावतोऽनुमन्त्रणं विधत्ते - ‘चतसृभिरनुमन्त्रयते। चत्वारि छन्दाँसि। छन्दोभिरैवैनान्त्सुवर्गं लोकं गमयति (५)’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
गायत्री त्रिष्टुब्जगत्यनुष्ठुबिति च्छन्दसां चतुष्टयम्। उदङ्मुखत्वेनाऽऽवृत्तिं विधत्ते-
‘प्र वा एतेऽस्माल्लोकाच्च्यवन्ते। य आजिं धावन्ति। उदञ्च आवर्तन्ते। अस्मादेव तेन लोकान्नयन्ति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
कल्पः — ‘रथविमोचनीयं जुहोत्या मा वाजस्य प्रसवो जगम्यादिति’ इति।
पाठस्तु - आ मा वाजस्येति। वाजस्यान्नस्य प्रसव उत्पत्तिर्मां प्रत्याजगम्यादागच्छतु। द्यावापृथिव्यौ च विश्वशंभू कृत्स्नस्य जगतः सुखं भावयन्तौ(न्न्यौ) मामागच्छ-ताम्। पितरा मातराऽस्मदीयः पिता माता च मां प्रत्यागम्यादागच्छतु।
‘अपाम सोमममृता अभूम’ इति ह्यन्यत्र श्रुतम्।
विधत्ते - ‘रथविमोचनीयं जुहोति प्रतिष्ठित्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति। रथविमोकेनाश्वानामायासं परिहृत्य स्वयं प्रतिष्ठितो भवति।
मन्त्रे वाजप्रसवोक्तेरभिप्रायमाह - ‘आ मा वाजस्य प्रसवो जगम्यादित्याह। अन्नं वै वाजः। अन्नमेवावरुन्धे’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
इतरैः षोडशरथैर्धावद्भ्यः कृष्णलदानं विधातुं प्रस्तौति - ‘यथालोकं वा एत उज्जयन्ति। य आजिं धावन्ति (६)’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
ये रथान्तरवर्तिन आजिं धावन्ति, एते यथालोकं यथास्थानमुज्जयन्ति। यस्मिन्यस्मिन्स्थाने यो यो धावत्यसावसौ तत्तत्स्थानं जयतीत्यर्थः।
विधत्ते - ‘कृष्णलं कृष्णलं वाजसृद्भ्यः प्रयच्छति। यमेव ते वाजं लोकमुज्जयति। तं परिक्रीयावरुन्धे’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
यवत्रयपरिमितं सुवर्णं कृष्णलम्। वाजमन्नमुद्दिश्य सरन्ति धावन्तीति वाजसृतो रथान्तरवर्तिनः।
अत एवाऽऽपस्तम्बः — ‘यजुर्युक्तं यजमान आरोहति वाजसृत इतरान्रथान्’ इति।
एकैकस्मै वाजसृत एकैकं कृष्णलं दद्यात्तेन तैः संपादितमन्नं निवासस्थानं च परिक्रीय स्वाधीनं करोति।
तान्षोडश कृष्मलान्पुनरादायैकीकृत्य ब्रह्मणे तद्दानं विधत्ते – ‘एकधा ब्रह्मण उपहरति। एकधैव यजमाने वीर्यं दधाति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
चरुं विधातुं प्रस्तौति - ‘देवा वा ओषधीष्वाजिमयुः। ता बृहस्पतिरुजयत्। स नीवारान्निरवृणीत। तन्नीवाराणां नीवारत्वम्’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
यथा पूर्वं प्रथमतो वाजपेययागार्थमाजिं धावतो बृहस्पतेर्जयस्तद्वदत्राप्यो-षधीषु सारस्वीकारायाऽऽजिप्राप्तौ बृहस्पतिर्जयं प्राप्यौषधीषु सारत्वेन नीवारानन्याभ्य ओषधीभ्यो निष्कृष्यावृणीत। निःशेषेण वृतत्वान्नीवारत्वं संपन्नम्।
विधत्ते - ‘नैवारश्चरुर्भवति (७) एतद्वै देवानां परममन्नम्। यन्नीवाराः। परमेणैवास्मा अन्नाद्येनावरमन्नाद्यवरुन्धे’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
शाल्यादिभ्योऽत्यन्तपूतत्वेन नीवाराणां देवान्नत्वम्।
चरोः परिमाणं विधत्ते - ‘सप्तदशशरावो भवति। सप्तदशः प्रजापतिः। प्रजापतेराप्त्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
चरोः सप्तदशशरावपरिमितत्वं पूर्वं तत्प्रचारविधौ व्याख्यातम्।
चरुनिष्पादनोपयुक्तं द्रव्यविशेषं विधत्ते - ‘क्षीरे भवति। रुचमेवास्मिन्दधाति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
रुचं स्वादुत्वम्।
निष्पन्ने चरौ घृतप्लावनं विधत्ते - ‘सर्पिष्वान्भवति मेध्यत्वाय’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
एतदेवाभिप्रेत्याश्वदेवानुद्दिश्यास्य मध्वः पिबत मादयध्वमित्यस्य मन्त्रस्यार्थो व्याख्यातः।
चरोर्देवतां विधत्ते - ‘बार्हस्पत्यो वा एष देवतया (८)। यो वाजपेयेन यजते। बार्हस्पत्य एष चरुः’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
कर्तव्य इत्याध्याहारः। वाजपेययाजिनो बृहस्पतिर्देवतेति तत्रत्यचरोरपि सा देवता युक्ता।
वाजिन इति। कल्पः – ‘तमेतान्यजुर्युजोऽश्वानवघ्रापयति– वाजिनो वाज-जितो वाजँ सरिष्यन्तो वाजं जेष्यन्तो बृहस्पतेर्भागमव जिघ्रापयति’ इति।
वाजजितोऽन्नं जेतुमुद्यता वाजिनो हेऽश्वा वाजमन्नं जेतुमाजिमुद्दिश्य सरिष्यन्तो धावनं करिष्यन्तो वाजमन्नं जेष्यन्तो यूयं बृस्पतेर्भागमिमं चरुमवजिघ्रत।
वाजिन इति। कल्पः – “युजुर्यजोऽश्वान्प्रत्याधावतोऽवध्रापयति–वाजिनो वाजजितो वाजँ ससृवाँसो वाजं जिगिवाँसो बृहस्पतेर्भागे नि मृड्ढ्वमिति” इति।
यजमानार्थे रथे यजुर्भिर्मन्त्रैर्योजनीया अश्वा यजुर्युजः। ससृवांसो धावनं कृतवन्तः। जिगिवांसो जयं कृतवन्तः। निमृड्ढ्वं शुद्धा भवत। आपस्तम्बमते तु जिगिवाँस इत्यन्तो मन्त्रः। तदर्थपूरणाय बृहस्पतेर्भागमवजिघ्रतेति पूर्वस्मान्मन्त्रादनुवर्तनीयम्। अवशिष्टभागो मन्त्रान्तरं, तस्य विनियोगं स एवाऽऽह – ‘बृहस्पतेर्भागे निमृड्ढ्वमिति प्रप्रोथेषु च लेपान्निमार्ष्ठि’ इति। प्रप्रोथा ओष्ठाग्राणि।
आजिधावनात्पुरा पश्चाच्चावघ्रापणं विधत्ते - ‘अश्वान्त्सरिष्यतः सस्रुषश्चावघ्रापयति। यमेव ते वाजं लोकमुज्जयन्ति। तमेवावरुन्धे’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
इयं व इति। कल्पः — ‘अथ रथान्विमुच्यमानाननुमन्त्रयते–इयं वः सा सत्या संधाऽभूद्यामिन्द्रेण समधद्ध्वमिति’ इति।
हे रथा वो युष्मकमियं संधाऽऽजिधावनप्रतिज्ञा सा सत्याऽभूत्। यां प्रति-ज्ञामिन्द्रेणेन्द्रानुग्रहेण समधद्ध्वं सम्यग्धारितवन्तः। इन्द्रानुग्रहायैवेन्द्रस्य वज्रोऽसीति रथमन्त्र आम्नातः।
अजीजिपतेति। कल्पः - ‘दुंदुभीनवस्यातोऽनुमन्त्रयते–अजीजिपत वनस्पतय इन्द्रं वाजं वि मुच्यध्वमिति’ इति।
हे वनस्पतयो वनस्पतिविकारा दुंदुभय इन्द्रं यागस्वामिनं वाजमन्नमनुद्दि-श्याजीजिपत यथा जितवान्भवति तथा जितवन्तः। तादृशा यूयं पूर्वं यत्र बद्धास्ततो विमुच्यध्वं विमुक्ता भवत। बन्धनप्रदेशस्त्वापस्तन्बेन दर्शितः — दक्षिणस्यां वेदिश्रोण्यां सप्तदश दुंदुभीन्प्रबध्नातीति’ इति।
विधत्ते - ‘अजीजिपत वनस्पतय इन्द्रं वाजं विमुच्यध्वमिति दुंदुभीन्विमुञ्चति। यमेव ते वाजं लोकमिन्द्रियं दुंदुभय उज्जयन्ति। तमेवावरुन्धे (८)’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ६) इति।
अत्र विनियोगसंग्रहः —
“देवाऽऽरोहेद्रथं स्वामी ब्रह्मारोहणमन्त्रणम्।
देवेतीन्द्रा दुंदुभीनां घोषोऽश्वाज कशाग्रहः॥१॥
अर्वाऽसीति त्रिभिर्मन्त्रैर्युनक्त्यश्वत्रयं रथे।
वाजीत्येतैर्मन्त्रयेत चतुर्भिर्धावतो रथान्॥२॥
मितेत्याभिश्चतसृभिस्तान्प्रत्याधावतो रथान्।
आ मा रथविमुक्त्याख्यं जुहुयाद्वाजिनद्वयात्॥३॥
गतेः पुरोपरिष्टाच्च घ्रापयेच्चरुमश्वकान्।
बृहादिजिघ्रतेत्यन्तो द्वितीयेऽप्युनुषज्यते॥४॥
बृहेति मार्ष्टि घोणायामियं तु रथमन्त्रणम्।
अजी दुंदुभिन्त्रः स्यादेकविंशतिरीरिताः॥५॥” इति।
अथ मीमांसा।
दशमाध्यायस्य तृतीयपादे चिन्तितम् —
“यजुर्युक्तोऽध्वर्युभागं बाधते यमयत्युत।
बाधः प्राकाशवन्मैवं पक्षे प्राप्तो नियम्यते॥”
वाजपेये श्रूयते – “यजुर्युक्तं रथमध्वर्यवे ददाति” इति। तस्यायमर्थः — रथशकटदासीनिष्कादीनि सप्तदश द्रव्याणि प्राकृतगवाश्वादिदक्षिणाद्रव्यबाध-कान्यत्र विहितानि। तेषु च प्रतिद्रव्यं सप्तदशसंख्या विहिता। ततो रथाः सप्तदश। तेषु मुख्यं रथं यजमानारोहणायेन्द्रस्य वज्रोऽसीत्यादिभिर्यजुर्वेदो-क्तैर्मन्त्पैः सज्जी करोति। सोऽयं यजुर्युक्तो रथः। तं च दक्षिणाकालेऽध्वर्यवे दद्यादिति। प्राकाशावध्वर्यवे ददातीत्यत्र यथा चोदकप्राप्तस्याध्वर्युभागस्य बाध एवमत्रापि। ननु सप्तदशद्रव्यविधानेनैव प्राकृतद्रव्यबाधः सिद्धः। बाढम्। त-थाऽप्यर्धिनः पादिन इत्यादिसमाख्याप्रापिता विषमविभागविशेषकॢप्तिर्न द्रव्या-न्तरविधिमात्रेण बाधितुं शक्या। विरोधिनो विधान्तरस्याधानात्। अतश्चोदक-प्राप्ता येयमध्वर्योर्भागविशेषकॢप्तिः सा यजुर्युक्तरथरूपभागविशेषविधिना बाध्यते। तस्मादध्वर्योर्न रथान्तरभागोऽस्ति नापि शकटदास्यादिभाग इति पूर्वः पक्षः। नैतद्युक्तम्। प्राकाशदृष्टान्तवैषम्यात्। अत्यन्तमप्राप्तौ हि प्राकाशौ तत्र विधेयौ। यजुर्युक्तरथस्तु पक्षे प्राप्तः। तथा हि – सप्तदश रथान्ददातीत्युक्ते कस्य को रथ इति विवक्षायां यजमानेच्छाया नियामकत्वाद्यदाऽध्वर्यवे तं दातुमिच्छति तदा प्राप्नोति, यदा नेच्छति तदा न प्राप्नोतीति पक्षे प्राप्तिः। ततो यजुर्युक्तो यो रथः सोऽध्वर्यवेऽवश्यं देय इति नियम्यते। अतो न कस्याप्यनेन बाधः।
तत्रैव द्वितीयपादे चिन्तितम् —
“शरावैः सप्तदशभिर्यश्चरुस्तत्र मुष्टयः।
चत्वारः सन्ति नो वोत स्यादेकं मुष्टिसंख्ययोः।
तत्किमाद्यश्चोदितत्वाच्छरावापूरणान्न सः।
द्वितीयोऽस्त्विति चैन्मैवं द्विलोपे बाधगौरवात्॥
तृतीयोऽस्त्वेकलोपे(पोऽ)त्र धर्मः संख्यैव लुप्यताम्।
क्रियायोगान्न तद्धर्मः प्राथम्यात्साऽनुगृह्यताम्॥”
प्रकृतौ ‘चतुरो मुष्टीन्निर्वपति’ इति मुष्टितत्संख्ये श्रुते। तथा वाजपेये विकृतिरूपः सप्तदशशरावश्चरुः श्रुतः। तत्र चरौ किं मुष्टिसंख्ये द्वे अपि विद्येते किंवा द्वे अपि न विद्येते। आहोस्मिदुभयोरेकमस्त्यन्यन्नास्ति। यदैकं तदाऽपि किं मुष्टिरेव किंवा संख्यैवेति संशयः। चोदकप्राप्तमुभयमस्तीत्याद्यः पक्षः प्राप्नोति। चतुर्भिर्मुष्टिभिः सप्तदशशरावपूरणे समर्थस्य चरोरनिष्पत्तेः स पक्षो न युक्तः। तर्हि मुष्टिसंख्ये द्वे अपि बाध्येते इति द्वितीयः पक्षोऽस्त्विति चेन्मैवम्। एकतरबाधेनैव पूरणाभावपरिहारे सिद्धे सति द्वयोर्बाधे गौरवप्रसङ्गात्। नन्वत्रोपदिष्टेन शरावद्रव्येणातिदिष्टं मुष्टिद्रव्यं बाध्यते, तथा सप्तदशसंख्यया चतुःसंख्या बाध्यत इत्युभयबाधोऽवश्यंभावी। मैवम्। भिन्नविषयत्वेन बाधासंभवात्। शरावसप्तदशसंख्ये यागसंबद्धे मुष्टिचतुःसंख्ये तु निर्वापसंबद्धे इतिविषयभेदः। कथं तर्ह्यत्र बाधप्रसङ्गः। अन्यथाऽनुपपत्त्ये-ति वदामः। अनुपपत्तिश्च पूरणासंभवेन दर्शिता। पूरणं चैकबाधेनाप्युपपद्यते। मुष्टिबाधे यथोचितं चतुःसंख्योपेतैः कुडवादिभिः पूर्तिः स्यात्। चतुःसंख्याबाधे यथोचितमधिकसंख्योपेतैर्मुष्टिभिः पूर्तिर्भविष्यति। एवं तर्ह्येकलोप इति तृतीयः पक्षोऽस्तु। तत्र संख्या धर्मः, मुष्टिर्धर्मी। तथा सति मुष्टौ लुप्ते सति निराश्रयस्य धर्मस्यासिद्धेः संख्यालोपोऽप्यवश्यंभावी। संख्यायां तु लुप्तायां मुष्टिः शक्नोत्यवस्थातुम्। तस्मात्संख्यैव लुप्यतामिति प्राप्ते ब्रूमः — चतुःसंख्या तावन्न मुष्टिमात्रेऽन्वेति, कर्मकारकवाचिद्वितीयाविभक्त्यन्तस्य चतुःशब्दस्य सह कर्मकारकेण निर्वपतिधातुना सहान्वयात्। अतः संख्या न मुष्टिधर्मः। पार्ष्णिकान्वयेन तु मुष्टिविशेषणं भविष्यति। संख्यामुष्टयोः क्रियासंबन्धे समाने सत्यपि प्रथमश्रुतत्वात्साऽनुगृह्यते, चरमश्रुतत्वे दुर्बलो मुष्टिर्बाध्यत इति राद्धान्तः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठकेऽष्टमोऽनुवाकः॥८॥

(अथ प्रथमकाण्डे सप्तमप्रपाठके नवमोऽनुवाकः)।
अष्टमे रथधावनमुक्तं नवमे यूपारोहणमुच्यते।
क्षत्रस्येति। कल्पः — “अथ यजमानं तार्प्यं परिधापयति क्षत्त्रस्योल्बमसीति दर्भमयं पत्नीम्” इति। घृताक्तं वस्त्रं तार्प्यम्। क्षत्त्रस्य राजस्थानीयस्य यजमानस्य गर्भत्वेनोपचर्य-माणस्योल्बमावरणमसि। उल्बवृतो गर्भ इति छन्दोगा आमनन्ति। हे दर्भमय पट क्षत्त्रस्य राजमहिषीस्थानीयस्य पत्नीशरीरस्य योनिरसि शीतनिवारणका-रणमसि।
तदेतत्परिधानद्वयं विधत्ते - “तार्प्यं यजमानं परिधापयति। यज्ञो वै तार्प्यम्। यज्ञेनैवैनँ समर्धयति। दर्भमयं परिधापयति। पवित्रं वै दर्भाः। पुनात्येवैनम्। वाजं वा एषोऽवरुरुत्सते। यो वाजपेयेन यजते। ओषधयः खलु वै वाजः। यद्दर्भमयं परिधापयति” (१) वाजस्यावरुद्ध्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
तार्प्यस्य यज्ञसाधनत्वाद्यज्ञत्वम्। एवं पत्नीदेहम्। वाजपेययाजिनोऽन्नाव-रोधकामिन ओषधिरूपदर्भमयेनान्नमवरुद्धं भवति।
जाय एहीति। कल्पः — “अथ जायमानमन्त्रयते जाय एहि सुवो रोहावोति, रोहाव हि सुवरितीतरा प्रत्याहाहं नावुभयोः सुवो रोक्ष्यामीति यजमानः” इति।
स्पष्टार्थो मन्त्रः।
एहीत्याह्वानस्य तात्पर्यमाह - ‘जाय एहि सुवो रोहावेत्याह। पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
आह्वानेन यजमानस्य यज्ञारम्भमनु पत्न्या अपि यज्ञारम्भे सति यज्ञोऽनव च्छिन्नो भवति।
पूर्वमन्त्रैः स्वर्गत्वेन निरूपितस्याऽऽरोहणीयस्य यूपस्य चोदकप्राप्तं परिमाणमपवदितुं परिमाणान्तरं विधत्ते - ‘सप्तदशारत्निर्यूपो भवति। सप्तदशः प्रजापतिः। प्रजापतेराप्त्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
चतुर्विंशत्यङ्गुलीपरिमितोऽरत्निः। सप्तदशसंख्याका अरत्नयः परिमाणं यस्य यूपस्येति विग्रहः।
अन्यद्गुणद्वयं विधत्ते – ‘तूपरश्चतुरश्रिर्भवति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
इतेरषां यूपानामग्रे शृङ्गस्थानीयः काष्ठशेषोऽणीयांश्चषालप्रतिमोकायाव-शेष्यते, सोऽस्य नास्तीति तूपरत्वम्। अष्टाश्रित्वमपवदितुं चतुरश्रित्वम्।
चषालनामकस्य यूपकटकस्य दारुमयत्वापवादाय विधत्ते - ‘गौधूमं चषालम्। न वा एते व्रीहयो न यवाः। यद्गोधूमाः (२)। एवमिव हि प्रजापतिः समृद्ध्यै। अथो अमुमेवास्मै लोकमन्नवन्तं करोति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
गौधूमं कुर्यादिति शेषः। यथा व्रीहिभ्यो यवेभ्यश्च गोधूमानां लोके प्रश-स्तत्वमेवमेवान्येभ्यो देवेभ्यः प्रशस्तः प्रजापतिः। किंच गोधूमसंपत्त्या स्वर्गोऽन्नवान्भवति।
यूपस्य वेष्टनं विधत्ते - “वासोभिर्वेष्टयति। एष वै यजमानः। यद्यूपः सर्वदेवत्यं वासः। सर्वाभि-रेवैनं देवताभिः समर्धयति। अथो आक्रमणमेव तत्सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
वाससां संख्यामापस्तम्ब आह – “रशनाकाले सप्तदशभिर्वासोभिर्यूपं वेष्टयति” इति।
वाससां सर्वदेवत्यत्वमग्नेस्तूषाधानमित्यादौ सौमिकदीक्षाप्रकरणे विस्पष्टम्। आक्रमणं स्वर्गारोहणं सोपानसदृशम्।
कल्पः – ‘आहवनीये जुहोत्यन्वारब्धे यजमाने वाजश्च प्रसवश्चेति द्वादश स्रुवाहुतीः’ इति।
पाठस्तु – वाजश्चेति। वाजादयः सर्वे मम सन्त्विति शेषः। वाजोऽन्नं, प्रसवस्तस्यो-त्पत्तिः। अपिजस्तस्यैव पुनः पुनरुत्पत्तिः। क्रतुः संकल्पो भोगादिविषयो यागो वा। सुवस्तस्यैवोत्पत्तौ हेतुरादित्यः। अथवा वाजादयश्चैत्रादिमासानां नामविशेषाः। तदानीं सर्वे ते प्रीणन्त्विति वाक्यशेषः। चकाराः परस्परसमु-च्चयार्था अनुक्तकालादिदेवतासमुच्चयार्था वा।
विधत्ते - ‘द्वावश वाजप्रसवीयानि जुहोति (३)। द्वादश मासाः संवत्सरः। संवत्सरमेव प्रीणाति। अथो संवत्सरमेवास्मा उपदधाति। सुवर्गस्य लोकस्य समष्ट्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
वाजशब्दप्रसवशब्दौ येषु कर्मसु मन्त्रत्वेन श्रूयेते तानि कर्माणि वाजप्रसवी-यानि। अन्नोत्पत्तिहेतुत्वाद्वा वाजप्रसवीयत्वम्। न केवलमनेन होमेन संवत्स-रदेवतायाः प्रीतिः, किंत्वस्य यजमानस्य स्वार्गप्राप्तये संवत्सरदेवतां निःश्रेणि-वदुपधानमाधारमपि करोति।
कल्पः — तं दशभिः कल्पै रोहत्यायुर्यज्ञेन कल्पतामिति’ इति।
तं यूपम्। कल्पैः कल्पशब्दोपेतैः।
पाठस्तु - आयुर्यज्ञेति। आत्मा जीवः। यज्ञेन यज्ञसंबन्धिना यूपारोहणेन। आयुरादयः स्वस्वप्रयोजनसमर्था भवन्तु।
विधत्ते - ‘दशभिः कल्पै रोहति। नव वै पुरुषे प्राणाः।नाभिर्दशमी। प्राणानेव यथास्थानं कल्पयित्वा। सुवर्गं लोकमेति। एतावद्वै पुरुषस्य स्वम् (४)। यावत्प्राणाः। यावदेवास्यास्ति। तेन सह सुवर्गं लोकमेति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
अन्यत्र सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चाविति श्रुतत्वादिहापि छिद्राभि-प्रायः प्राणशब्दः। अनेन कल्पमन्त्रपाठेन प्राणापानचक्षुःश्रोत्रादीन्प्राणान्स्व-स्वस्थाने स्थापयित्वा तैस्तदीयस्थानैः सह स्वर्गं प्राप्तो भवति।
सुवर्देवानिति। कल्पः – ‘बाहू उद्गृह्णाति सुवर्देवाँ अगन्मामृता अभूम प्रजापतेः प्रजा अभूमेति’ इति।
उद्गृहीताभ्यां बाहुभ्यां स्वर्गप्राप्तिमभिनयता यजमानेनेदमुच्यते वयं स्व-र्गावस्थितदेवान्प्रत्यगन्म प्राप्ताः स्मः। प्राप्य चामृता देवा अभूम। अतः प्रजा-पतेः प्रीतिविषयाः प्रजा अस्मिन्भूलोके यज्ञानुष्ठानपरा अभूम।
मन्त्रस्य त्रीन्भागान्पृथग्व्याचष्टे - ‘सुवर्देवाँ अगन्मेत्याह। सुवर्गमेव लोकमेति। अमृता अभूमेत्याह। अमृतमिव हि सुवर्गो लोकः। प्रजापतेः प्रजा अभूमेत्याह। प्राजापत्यो वा अयं लोकः। अस्मादेव तेन लोकान्नैति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
तेन तृतीयभागपाठेन भूलोकात्सर्वात्मना निर्गतो न भवति।
अपा० ७अनु०९] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।। ७८३ ( वाजपेयविषययूपारोहणाभिधानम् )
समहमिति । कल्प:-" अथेमं लोकं प्रत्यवेक्षते समह प्रजया सं मया प्रजा समह रायस्पोषेण सं मया रायस्पोष इति " इति ।
संगतोऽस्मि संगम्यतामिति यथायोगमध्याहर्तव्यम् । आशी परत्वेन व्याचष्टे
" समहं प्रजया सं मया पजेत्याह । आशिषमेवैतामाशास्ते ” [बा. का० १ प्र० ३ अ० ७ ] इति ।
अनायेति । कल्प:-" तमेवमासपुटैन्ति अन्नाय त्वेति पुरस्तादध्वर्युः,
अन्नाधाय त्वेति दक्षिणतो ब्रह्मा, वाजाय त्वेति पश्चाद्धोता, वाजजित्यायै त्वेत्युत्तरत उद्गाता ” इति । ऊषखननपांसव आसास्तानश्वत्थपत्रैः पुटीकृत्य तैरासपुटैयूपादवरोहन्तं यजमानं हन्युः। अत एवाऽऽपस्तम्ब आह “ तमाश्वत्थैरासपुटैरूषपुटैरुभयैवी वैश्याः प्रतिदिशमर्पयन्ति महत्विजो वा दीर्घवंशेषु प्रवध्य ” इति । । सामान्येन प्राणिभिर्भोज्यमन्नं, राजामात्यादिभिर्भोज्यमन्नाद्यम् । तत्राप्यपूपादिविशेषो वाजः । तस्य सर्वस्यान्नस्य संपादनं वाजजित्या।
द्विविधं हनन क्रमेण विधत्ते -
“आसपुटैनंन्ति । अन्नं वा इयम् । अन्नाद्येनैवन समर्धयन्ति । ऊन्ति । एते हि साक्षादन्नम् । यदूषाः । साक्षादेवैनमन्नाद्येन समर्धयन्ति’ [ बा. का. १ प. ३ अ० ७ ] इति ।
ऊषाणामाधानादिसाधनत्वेन पारलौकिकानं प्रति साक्षात्साधनत्वम् । हनने प्रकारविशेष विधत्ते
" पुरस्तात्मत्यञ्च धन्ति ( ६ ) । पुरस्तादि प्रतीचीनमन्नमद्यते ” [ बा. . का० १ प्र० ३ अ० ७ ] इति ।
हन्यमानस्य पुरतादवस्थितो हन्ता प्रत्यञ्चं स्वाभिमुखं हन्यात् । लोकेऽपि . हि पुरतोऽवस्थितात्पात्रात्समादाय स्वाभिमुखं तदन्नमद्यते ।
एतदापस्तम्बेन स्पष्टीकृतम्-” मुखतोऽभिन्नन्ति हन्तारं हन्तारमभिपयावर्तते " इति ।
ताडयमानं प्रदेश विधत्ते— “शीर्षतो भन्ति । शीर्षतो यन्नमद्यते” [बा० का० १ ०३ अ०७] इति । चतुर्दिक्षु हननं विधत्ते–
“दिग्भ्यो घ्नन्ति । दिग्भ्य एवास्मा अन्नाद्यमवरुन्धते " [ बा० का० १ म० ३ अ० ७] इति । अमृतमसीति । कल्प:-” अत्रास्मै प्रत्यवरोहत आसन्दी निदधाति तस्यां बस्ताजिनमास्तृणाति बस्ताजिने शतमान५ हिरण्यं दक्षिणं पादः हिरण्य उपावरोहयति अमृतमसीति, पुष्टिरसि प्रजननमसीति सव्यं बस्ताजिने ” इति ।
हे हिरण्य त्वं विनाशरहितमसि । नयग्नौ प्रक्षिप्तमपि हिरण्यं काष्टादिवद्धिनश्यति । हे बस्ताजिन त्वं पुष्टिरास संवत्सरे बह्वपत्योत्पादकत्वात् । एतदेवाभिप्रेत्य प्रजननमसीत्युच्यते ।
हिरण्येऽवरोहं विधातुं प्रस्तौति…. “ईश्वरो वा एष पराङ्मदधः । यो यूप५ रोहति ॥ [ बा० का० १ प्र० ३ अ० ७ ] इति ।
यूपमारूढो यजमानः पराभूलोकाद्विमुखः प्रदघः पदग्धुं स्वात्मानं विनाशयितुमीश्वरः समर्थों भवति । अथवा पदघः प्रकर्षण गन्तुमीश्वरो न पुनरावर्तत इत्यर्थः।
विधत्ते–
" हिरण्यमध्यवरोहति । अमृतं वै हिरण्यम् । अमृत५ सुवर्गो लोकः । अमृत एव सुवर्गे लोके प्रतितिष्ठति" [बा० का० १ प्र० ३ अ० ७] इति । हिरण्यस्य परिमाणं विधत्ते
“ शतमानं भवति । शतायुः पुरुषः शतेन्द्रियः । आयुष्येवेन्द्रिये प्रतिति ष्ठति ॥ [ ब्रा० का. १ प्र० ३ अ०७] इति ।
मानशब्देन पणस्य विंशो भागोऽभिधीयते । ततः पञ्चपणपरिमितमित्युक्तं भवति । शतसंख्याकाः संवत्सराः पुरुषस्याऽऽयुः । दशानां ज्ञानकर्मेन्द्रियाणां मध्ये चक्षुरादीन्द्रियस्यैकैकस्य दशसु नाडीषु वृत्तिभेदेन शतेन्द्रियत्वम् ।
बस्ताजिने वामपादनक्षेपं विधातुं प्रस्तौति– .
" पुष्टयै वा एतद्रूपम् । यदजा । त्रिः संवत्सरस्यान्यान्पशून्पारमजायते "
[ब्रा० का० १ प्र० ३ अ० ७ ] इति । संवत्सरे सत्प्रसवोपेतानन्यान्गवादिपशून्परित्यज्य संवत्सरे त्रिरपत्यानि प्रसूतेऽतोऽस्याः पुष्टिरूपत्वम् ।
विधत्ते. " बस्ताजिनमध्यवरोहति । पुष्टयामेव प्रजनने प्रतितिष्ठति (७) " [ब्रा० का० १ १०३ अ० ७] इति ।
अत्र विनियोगसंग्रहः
“क्षत्र ताप्यं क्षत्र दाभ्यं परिधत्तोऽत्र दंपती । जाये स्वाम्याह्वयेद्भायाँ रोहा तं प्रतिवक्ति सा ॥ १ ॥ अहं स्वाम्याह वाजश्च जुहुयावादशाऽऽहुतीः । आयुर्दशभिरारोहेत्स्वयं बाहूद्ग्रहः सुवः॥ २ ॥ से भुवं प्रेक्षतेऽन्नाय चतुर्भिस्तु महत्विजः । दिग्भ्यो नन्त्यासपुटकैरमपुष्टिद्वयात्पदे । स्वर्णबस्तत्वचोर्दद्यात्पञ्चविंशत्त्विहोदिताः ॥ ३ ॥” इति । ..
अथ मीमांसा । . दशमाध्यायस्य चतुर्थपादे चिन्तितम्- “ताय॑महतववस्य बाधकं स्यान वानमः ।
गुंबाच्छादनकायक्यादयोग्यत्वात्समुच्चयः ” । महावते अयते–” ताप्य यजमानः परिधत्ते दर्भमयं पत्नी " इति । प्रकृतौ " अहतं वासः परिधत्ते " इति घृताक्तं वस ताप्पमित्युच्यते । ताभ्यां तापदर्भमयाभ्यां दंपत्योरहतं वस्त्र बाध्यते । कुतः । परिधत्त इत्यनेन प्रकृतिलिङ्गन गुह्याच्छादनलक्षणस्य कार्यस्यैकत्वावगमात् । मैवम् । ताप्Hदर्भमययोर्गुयमाच्छादयितुमयोग्यत्वात् । परिधानं त्वत्रोपरितनं प्रावरणम् । तत्कार्यभेदात्समुच्चयः। तृतीयाध्यायस्य प्रथमपादे चिन्तितम्
" भवेत्सप्तदशारनिर्वाजपेयस्य यूपकः। उन्मानं द्रव्यगं वाजपेयस्याङ्गं पशोरुत ॥
आनन्तर्यात्प्रकरणात्कर्माङ्ग पोडशिन्यदः । अपात्रे खादिरेऽग्रे संयुज्यान्वेति कर्मणा ॥ यूपहारा पशोरङ्ग पशुद्वारा च कर्मणः ।
सौमिकत्वाद्वाजपेये यूपो नास्ति पशं विना ॥१] बाजपेयप्रकरणे श्रूयते–” सनदशानिर्वाजपेयस्य यूपो भवति" इति । अत्र यूपद्रव्यगत सप्तदशारनिशब्दोदितं यदूर्ध्वमानं तद्वाजपेयकर्मणोऽहं, सप्तदशारनिशब्दवाजपेयशब्दयोरानन्तर्यात् । प्रकरणं चैवमनुगृह्यते । यदि कर्मणः साक्षादूर्ध्वमानं न संभवेत्तर्हि वाजपेयगतं खादिरपूर्वं यत्वोडशिपावं तस्मिन्नद् उन्मानं संबध्य तद्द्वारा कर्मणान्वेतीति प्राप्ते ब्रूमः–सप्तदशारनिषूप इति सामानाधिकरण्याापन साक्षात्सबध्यते । तस्य च यूपस्य पश्वदङ्गत्वादुन्मानं यूपदारा पशोरङ्गं भवति । तस्थापि पशोर्वाजपेयाङ्गत्वात्पशुद्वारा कर्मणोऽङ्गम् । यद्यपि बाजपेययूप शब्दयोरानन्तर्यमस्ति तथाऽपि वाजपेयस्य सोमयागतया साक्षायूपसंबन्धाभावात्पशुव्यवधानमभ्युपेयम् । वाजपेयस्येति षष्ठ्याः संबन्धमाबवाचित्वेन व्यवहितसंबन्धमप्यसावभिधत्ते, देवदत्तस्य नप्तेति प्रयोगवत् । यत्सप्तदशारनिवाजपेयशब्दयोरानन्तयं यच्च प्रकरणं तदुभयं न विरुद्धं, पश्वङ्गत्वेऽप्यन्ततो बाजपेयाङ्गत्वाङ्गीकारात् । किंच पूर्वपक्षे यूपशब्देन षोडशिपात्रं लक्षणीयम् । सिद्धान्ते तु नासौ दोषः।
तत्रैवाष्टमपादे चिन्तितम्
“ वाचयेत्स्वामिनं ज्ञाज्ञौ वाचनीया श एव’ वा ।
अविशेषादुभी ज्ञस्य स्वामित्वादाचयेदम् ॥" वाजपेये श्रूयते-" क्लुप्तीर्यजमानं वाचयति ” इति । आयुर्यज्ञेन कल्पता- ५ मित्यादयो मन्त्राः क्लप्तयः । तत्र मन्त्रताभिज्ञमनभिज्ञं चोभावपि वाचयेत् , विद्वांस वाचदित्येवं विशेषस्याश्रवणात्। अनभिज्ञं तदैव शिक्षयित्वाऽपि वाचयितुं शक्यत्वादिति चेन्मैवम् । अध्ययनविधिबलाधीतवेदस्य विदितवेदार्थस्यैव यजमानत्वात् । तस्मादभिज्ञमेव वाचयेत् ॥
इति श्रीमत्सायणाचार्यविरचित माधवीये वेदार्थप्रकाशे रुष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाटके नवमोऽनुवाकः ॥९॥

(अथ प्रथमकाण्डे सप्तमप्रपाठके दशमोऽनुवाकः)।
नवमे यूपारोहणमुक्तं दशमेऽन्नहोमा उच्यन्ते।
कल्पः— “अथास्यैतत्पुरस्तादौदुम्बरे द्रोणे सर्वौषधमाज्येन समुदायुतं भवति तस्यौदुम्बरेण स्त्रुवेणोपघांत सप्तान्नहोमाञ्जुहोति वाजस्येमं प्रसवः सुषुवे अग्रे सोममिति” इति। तत्रेयमृक्प्रथमा-वाजस्येयमिति। वाजस्यान्नस्योत्पादकःपरमेश्वर ओषधीष्वप्सु च सारभूतमिमं सोमं वल्लीरूपं राजानं दीप्तिमन्तं पदार्थमग्रे सृष्ट्यादौ सुषुव उत्पादयामास।ताश्चौषधय आपश्चासस्मदर्थं मधुमतीमाधुर्योपेता भवन्तु। वयमप्यस्मिन्राष्ट्रे पुरोहिता यागानुष्ठानादौ पुरोगामिनो जाग्रियाम जागरूका भूयास्म।
वाजस्येदमिति। वाजस्य प्रसवः परमेश्वर इदमनुष्ठीयमानं कर्मांऽऽबभूव भावितवानुत्पादितवान्। इमानि सर्वाणि भुवानानि सर्वत उत्पादितवान्। स परमेश्वरोऽस्मै अस्मदर्थं प्रजां पुष्टिं च वर्धयमानः प्रजानन्नस्मदाभिप्रायं प्रकर्षेण जानानो विराजं हूयमानमन्नं पर्येति सर्वतः प्राप्नोतु। अन्नं वै विराडिति श्रुतिः।
अथ तृतीया— वाजस्येमामिति। वाजस्य प्रसव ईश्वर इमां दिवमिमानि चान्यानि सर्वाणि भुवनानि शिश्रिय आश्रितवान्। सर्वेषां च भुवनानां राजा भूत्वाऽदित्सन्तं हविर्दातुमनिच्छन्तं मां प्रजानन्मदीयबुद्धिप्रेरणेन हविर्दापंयतु। ततो नोऽस्मभ्यं सर्ववीरां पुत्रभृत्यादयः सर्वे वीरा यस्याःसा सर्ववीरा तादृशीं रयिं धनं च नियच्छतु नियमेन ददातु।
अथ चतुर्थी— अग्ने अच्छेति। हेऽग्न इहास्मिन्कर्मणि नोऽस्माकमच्छाऽऽभिमुख्येन वद हितं कथय। नोऽस्मान्प्रति सुमनाः करुणार्द्रचित्तो भव। हे भुवस्पते भूमिपते नोऽस्मभ्यं प्रकर्षेण यच्छ धनं देहि। यस्मात्त्वमस्मत्स्वामी सन्नोऽस्मभ्यं धनदा असि।
अथ पञ्चमी— प्रणो यच्छत्विति। षड्भिः प्रशब्दैः प्रयच्छत्विति प्रददात्वित्यन्वये सत्येतानि षड् वाक्यानि भवन्ति। अर्यमभगबृहस्पतयो देवेषूत्तमत्वाद्विप्रपरिव्राजकन्यायेन पृथङ्निर्दिश्यन्ते। तेभ्योऽन्ये त्वत्र देवशब्देनोच्यस्ते। ते सर्वे नोऽस्मभ्यं धनं प्रयच्छन्तु। उतापि च सूनृता प्रियवागभिमानिनी देवता या चान्यवाङ्मात्राभिमानिनी देवता ते उभे धनं प्रयच्छताम्।
अथ षष्ठी— अर्यमणमिति। हे ईश्वर पुनरस्मभ्यं दातुं धनस्य दानायार्यमादींश्चोदय प्रेरय। वाक्सरस्वत्योः पूर्वोक्तसूनृतावाचोरिव भेदो द्रष्टव्यः। वाजिनमन्नाधिपतिम्।
अथ सप्तमी— सोममिति — वयं सोमराजादीन्प्रथमतः कर्मारम्भकाननुसृत्य पश्चादारभामहेऽतस्ते सर्वेऽनुगृह्णन्तु।
विधत्ते— “सप्तान्नहोमाञ्जुहोति। सप्त वा अन्नानि। यावन्त्येवान्नानि। तान्येवावरुन्धे। सप्त ग्राम्या ओषधयः। सप्ताऽऽरण्याः। उभयीषामवरुद्ध्यै” (ब्रा. का. १ प्र. ३ अ. ८) इति।
अन्नहेतूनामोषधीनां सप्तत्वात्तत्कार्याणामन्नानामपि सप्तत्वम्। ओषधीनां सप्तत्वमापस्तम्बोऽग्निचयने दर्शयति — “तिलमाषव्रीहियवाः प्रियङ्वणवो गोधूमा वेणुः श्यामाका नीवारा जर्तिलाश्च गवीधुका अरण्यजा मार्कटका विज्ञेया गार्मुतसप्तमाः कुलत्थसप्तमा वा सप्त ग्राम्याः कृष्टे सप्ताऽऽरण्या अकृष्टे” इति।
एकैकस्यान्नस्य पृथगेव होमं विघत्ते—
“अन्नस्यान्नस्य जुहोति। अन्नस्यान्नस्यावरुद्ध्यै” (ब्रा. का. १ प्र. ३ अ. ८) इति।
इमं पक्षमापस्तम्बो दर्शयति — “वाजप्रसवीयं जुहोति सप्त ग्राम्या ओषधयः सप्ताऽऽरण्याः पृथगन्नानि द्रवीकृत्यौदुम्बरेण स्रुवेण वाजस्येमं प्रसवःसुषुव इति ग्राम्याणि हुत्वाऽऽरण्यानि जुहोति” इति।
इदानीं बौधायनाभिमतं सर्वाण्येकीकृत्य होमं विधत्ते— “यद्वाजपेययाज्यनवरूद्धस्याश्र्नीयात् (१)। अवरुद्धेन व्यृध्येत। सर्वस्य समवदाय जुहोति। अनवरद्धस्यावरुद्ध्यै” (ब्रा.का.१ प्र.३ अ. ८) इति।
होमकाले यदन्नमवरुद्धं स्वीकृतं तदुपेक्ष्य यदस्वीकृतं वाजपेययाजी कालान्तरेऽश्र्नीयात्तदानीमुपेक्षितेन यागकालीनेनान्नेनासौ वियुक्तो भवेत्। अतः सर्वमेकीकृत्य होमे सर्वस्यापि यागकाले स्वीकृतत्वेन दोषापादकमस्वीकृतं किंचिन्न भवेत्।अतोऽस्वीकृतस्य सर्वस्यापि यागकाले स्वीकाराय मिलित्वा होम इत्यर्थः।
होमे साधनविशेषं विधत्ते— “औदुम्बरेण स्त्रुवेण जूहोति। र्उर्ग्वा अन्नमुदुम्बरः। र्उर्ज
एवान्नाद्यस्यावरुद्ध्यै” (ब्रा. का. १ प्र. ३ अ. ८) इति।
र्उर्ग्वा अन्नं बलप्रदमेवान्नमत एव देशविशेषे बह्वद्यते।
देवस्य त्वेति। कल्पः— “अथ यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरजताभ्यां रुक्माभ्यां पर्युपास्य पुरस्तात्प्रत्यञ्चमाभिषिञ्चति शीर्षतोऽभिषिञ्चत्यामुखादन्ववस्त्रावयति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याँ सरस्वत्यै वाचो यन्तुर्यन्त्रेणानग्नेस्त्वा साम्राज्येनाभिषिञ्चामीन्द्रस्य त्वा बृहस्पतेस्त्वा साम्राज्येनाभिषिञ्चामीति” इति।
अत्रेन्द्रस्येत्यस्मिन्मध्यममन्त्रेऽनुषङ्गसूचनायानाम्नातोऽपि त्वाशब्दः सूत्रकारेण पठितः। देवस्य त्वेत्यादिर्व्याख्यातः। या सरस्वती वाग्विशेषदेवता या च वाक्शब्दाभिहिता वाक्सामान्यदेवता याश्चान्तर्यामी यन्तृशब्दवाच्यो योऽप्याग्निस्तेजःप्रदस्तेषां यन्त्रेण नियमनेनानुज्ञया साम्राज्यनिमित्तं त्वामभिषिञ्चामि। इन्द्रस्येत्येतावानेवाऽऽम्नातो द्वितीयो मन्त्रः। स च पृर्वोत्तरभागयोरनुषङ्गेण व्याख्यातव्यः। बृहस्पतेरित्यादौ तृतीयमन्त्रे पूर्वभागोऽनुषञ्जनीयः।
देवस्य त्वेत्येतस्मिन्मन्त्रभागे प्रसवपदाभिप्रायमाह— “देवस्य त्वा सवितुः प्रसव इत्याह। सवितृप्रसूत एवैनं ब्रम्हणा देवताभिरभिषिञ्चति” (ब्रा. का. १ प्र. ३ अ. ८) इति।
ब्रम्हणा मन्त्रेण प्रतिपाद्याभिरिति शेषः।
सर्वौषधिरन्नमभिषेकद्रव्यत्वेन विधत्ते— “अन्नस्यान्नस्याभिषिञ्चति। अन्नस्यान्नस्यावरद्ध्यै (२)” (ब्रा. का. १ प्र. ३ अ. ८) इति।
प्रकारविशेषं विधत्ते— “पुरस्तात्प्रत्यञ्चमभिषिञ्चति। पुरस्ताद्धि प्रतीचीनमन्नमद्यते। शीर्षतोऽभिषिञ्चति। शीर्षतो अन्नमद्यते” (ब्रा. का. १ प्र. ३ अ. ८) इति।
आसपुटाघातविषवाक्यवद्व्याख्येयम्।
गुणान्तरं विधत्ते— “आमुखादन्ववस्त्रावयति। मुखत एवास्मा अन्नाद्यं दधाति” [ब्रा. का. १ प्र. ३ अ. ८] इति।
शिरस आरभ्याऽऽनुलोभ्येन मुखपर्यन्तमेवावस्त्रावयेन्न त्वधः।
मन्त्रेष्वग्नीन्द्रबृहस्पतिशब्दतात्पर्यं व्याचष्टे— “अग्नेस्त्वा साम्राज्येनाभिषिञ्चामीत्याह। एष वा अग्नेः सवः। तेनैवैनमभिषिञ्चति। इन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामीत्याह (३)। इन्द्रियमेवास्मिन्नेतेन दधाति। बृहस्पतेस्वा साम्राज्येनाभिषिञ्चामीत्याह। ब्रम्ह वै देवानां बृहस्पतिः। ब्रम्हणेवैनमाभिषिञ्चति” [ब्रा. का. १ प्र. ३ अ. ७] इति।
एष ओषाविरसोऽग्नेः सवोऽग्निना प्रेरितः। अतोऽग्निशब्दमुच्चारयन्नाग्निसंबन्धेन तेनैव रसेनाभिषिञ्चति। एष वा इन्द्रस्य सवो बृहस्पतेः सव इत्यनुसंधेयम्।
विधत्ते — “सोमग्रहाँश्चावदानीयानि चर्त्विग्भ्य उपहरन्ति। अमुमेव तैर्लोकमन्नवन्तं करोति। सुराग्रहाँश्चानवदानीयानि च वाजसृद्भ्यः। इममेव तैर्लोकमन्नवन्तं करोति। अथो उभयीष्वेवाभिषिच्यते” (ब्रा. का. १ प्र. ३अ. ८) इति।
पशोर्यान्यवदानीयानि हृदयादीनि। हृदयस्याग्रेऽवद्यतीत्योदिश्रुतेः। तानीडायामवत्तानि सोमग्रहांश्चर्त्विग्भ्यः प्रयच्छेत्। शिरआदीन्यनवदानीयानि। न शीर्ष्णोऽवद्यति नांसयोरित्यादिश्रुतेः। तानि सुराग्रहांश्च वाजसृद्भ्यो रथान्तरैः षोडशभिराजिधावनं कृतवद्भ्यो वैश्येभ्यः प्रयच्छेत्। एवं सत्युभयीषु दैवीषु मानुषीषु च प्रजास्वयमभिषिक्तो भवति।
विधत्ते — “विमाथं कुर्वते वाजसृतः (४)। इन्द्रियस्यावरुद्ध्यै” (ब्रा. का.१ प्र. ३ अ.८) इति।
विशेषेण मथनमालोडनं कलहो विमाथः। पानवश्यनटनायाभिनयं विमाथं कुर्युः।
सवनत्रये स्तोत्रेषु ऋग्विशेषं विधत्ते — “अनिरुक्ताभिः प्रातःसवने स्तुवते। अनिरुक्तः प्रजापतिः। प्रजापतेराप्त्यै। वाजवतीभिर्माध्यंदिने। अन्नं वै वाजः। अन्नमेवावरुन्धे। शिपिविष्टवतीभिस्तृतीयसवने। यज्ञो वै विष्णुः। पशवः शिपिः। यज्ञ एव पशुषु प्रतितिष्ठति” (ब्रा. का. १ प्र.३ अ. ८) इति।
अनिरुक्ताभिव्यक्तदेवताकाभिग्भिः। साकल्येन तन्महिम्नो वक्तुमशक्यत्वात्प्रजापतिरनिरुक्तः। वाजशब्दोपेता ऋचो वाजवत्यः। शिपिविष्टशब्दोपेताश्चर्चः शिपिविष्टवत्यस्ताः सर्वाः सामवेदे द्रष्टव्याः। विष्टशब्दो विष्णुपर्यायः सन्नत्र फलव्यापिनं यज्ञमाचष्टे। शिपिशब्दः पशुवाची। अतः शिपिविष्टवतीभिग्भिर्यज्ञे पशुषु च प्रतितिष्ठत्येव।
सामविशेषं विधत्ते — “बृहदन्त्यं भवति। अन्तमेवैनँ श्रियै गमयति (५)” (ब्रा. का. १ प्र. ३ अ. ८) इति।
अन्तिमस्य स्तोत्रस्य यदन्त्यं साम तद्बृहाद्गायेत्। तेन गानेनैनं यजमानं श्रियै संपत्सिद्धये यज्ञस्यान्तं समाप्तिं प्रापितवान्भवति।
अत्र विनियोगसंग्रहः — “वाजसप्तभिरन्नस्य होमो देवयजुस्त्रयात्।
अभिषिञ्चेत्स्वामिनं तं दश मन्त्रा इहोदिताः ॥१॥” इति
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके दशमोऽनुवाकः ॥१०॥

(अथ प्रथमकाण्डे सप्तमप्रपाठक एकादशोऽनुवाकः)।
दशमेऽन्नहोम उक्तः। एकादश उज्जितिमनन्त्रा उच्यन्ते।
कल्पः — “अथ यजमानमन्वास्थायोज्जितीर्वाचयत्यग्निरेकाक्षरेण वाचमुदजयदिति सप्तदश” इति।
पाठस्तु — अग्निरेकाक्षरेणेति। आश्रावयेत्यादिके सप्तदशाक्षरे मन्त्रसंघ एकैकाक्षरवृद्धय तत्तन्मन्त्रं पठित्वा तत्सामर्थ्यादग्न्यादयो वागादीनुदजयन्। अथवा विध्यन्तर एकाक्षरो मन्त्रशास्त्रप्रसिद्ध्या वागग्निबीजं तेनैकाक्षरेण मन्त्रेणाग्नेर्वागुज्जयः। व्द्यक्षरेणाजपामन्त्रेण प्राणापानात्मकेनाश्विनोः प्राणापानोज्जयः। एवमन्येऽपि त्र्यक्षरादिमन्त्रा यथायोगमुन्नेयाः। मन्त्राक्षरसंख्यानुसारेण लोकत्रयादिजयो विज्ञेयः। त्रिवृत्स्तोमगतानामृचां नवसंख्योपेतत्वात्तज्जयो द्रष्टव्यः। त्रयोदशस्तोमादावपि तिसृणामृचामावृत्तिविशेषेण तत्तत्संख्या द्रष्टव्या। एतदुज्जितिविधिस्तु ता वा एता उज्जितयो व्याख्यायन्त इत्येतादृशः पूर्वमेवास्माभिर्व्याख्यातः सोऽयमत्रोत्कर्षणीयः।
अत्र विनियोगसंग्रहः —
“अग्निः सप्तदशाऽऽम्नाता उज्जितीर्वाचयेदमूः।
यजमानं रथेष्वेषु धावत्स्वध्वर्युरादरात् ॥१॥” इति
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदयितैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठक एकादशोऽनुवाकः॥११॥

(अथ प्रथमकाण्डे सप्तमप्रपाठके द्वादशोऽनुवाकः)।
एकादश उज्जितिमन्त्रा उक्ताः। द्वादशेऽतिग्राह्यमन्त्रा उच्यन्ते।
कल्पः — “आग्रयणं गृहीत्वा पञ्चैन्द्रानतिग्राह्यान्गृहात्युपयामगृहीतोऽसि नृषदं त्वा द्रुषदमित्येताभिः पञ्चभिः” इति।
तत्र प्रथममन्त्रपाठस्तु — उपयामेति। हे प्रथमातिग्राह्य त्वमुपयामेन पृथिव्यात्मकेन पात्रेण गृहीतोऽसि। इयं वा उपयाम इति पूर्वमुदाहृतम्। मनुष्येषु वनस्पतिषु भुवनेषु स्वामित्वेनावस्थितमिन्द्राय प्रियं त्वां गृह्णामि। एष स्वरप्रदेशस्ते स्थानं तस्मादिन्द्राय त्वामत्र सादयामि। एष इत्यादिः सादनमन्त्रः।
नृषदमित्यादिपदाभिप्रायमाह — “नृषदं त्वेत्याह। प्रजा वै नृन्। प्रजानामेवैतेन सूयते। द्रुषदमित्याह। वनस्पतयो वै द्रु। वनस्पतीनामेवैतेन सूयते। भुवनसदमित्याह। यदा वै वसीयान्भवति। भुवनमगन्निति वै तमाहुः। भुवनमेवैतेन गच्छति (१)” (ब्रा. का. १ प्र. ३ अ. ९) इति।
नृन्नरस्तेषु सीदतीति नृषत्तं नृषदम्। एतेन यजुष्पाठेन प्रजानां मध्ये सूयते स्वामित्वेनाभिषिच्यते। यदा लोके वसीयान्धनाढ्यो भवति तदा तं पुरुषं स्वामित्वेन कृत्स्नं भुवनमगन्प्राप्तवानिति जना आहुः।
अथ द्वितीयग्रहणमन्त्रः — उपयामेति। पूर्ववद्व्याख्येयम्।
एतदेवाभिप्रेत्य तथैव व्याचष्टे — “अप्सुषंद त्वा घृतसदमित्याह। अपामेवैतेन घृतस्य सूयते। व्योमसदामित्याह। यदा वै वसीयान्भवति। व्योमागन्निति वै तमाहुः। व्योमैवैतेन गच्छति” (ब्रा. का. १ प्र.३ अ.९) इति।
अप्स्वित्यादिपाठेन तत्स्वामित्वेनाभिषेकः। धनाढ्यस्य व्योमगामित्वं नाम गजाश्चारोहणम्।
अथ तृतीयग्रहणमन्त्रः — उपयामेति।
पूर्ववद्व्याचष्टे — “पृथिविषदं त्वाऽन्तरिक्षसदमित्याह। एषामेवैतेन लोकानाँ सूयते। तस्माद्वाजपेययाजी न कंचन प्रत्यवरोहति। अपीव हि देवतानाँ सूयते। नाकसदमित्याह। यदा वै वसीयान्भवति। नाकमगन्निति वै तमाहुः। नाकमेवैतेन गच्छति” (ब्रा.का. १ प्र. ३ अ. ९) इति।
तस्मादयं वाजपेययागेनाग्न्यादिदेवतानामपि मध्येऽभिषिक्त इव भवति। अग्नेस्त्वा साम्राज्येनाभिषिञ्चामीत्यादिमन्त्रेष्वग्न्यादीनां यत्तत्साम्राज्यं तेन निमित्तेनाभिषेकस्योक्तत्वान्न प्रत्यवरोहति। अपि तस्माद्देवतांना मध्येऽभिषिक्तत्वाद्देववदेव कमपि मनुष्यं प्रति गजदिवाहनान्नावरोहति नावरोहेदिति विधिः। अत एवाऽऽपस्तम्ब आह — “यावज्जीवं न कंचन प्रत्यवरोहेद्बृहस्पतिसवेन वा प्रत्यवरोहणीयेन यजेत” इति।
अथ चतुर्थग्रहणमन्त्रः — ये ग्रहा इति। येऽतिग्राह्यरूपा ग्रहाः पञ्चजनीनाः पञ्चजनेभ्यो देव मनुष्यासुररक्षोगन्धर्वेभ्यो निषादपञ्चमेभ्यो वर्णेभ्यो वा हिताः। येषामतिग्राह्याणां तिस्त्र आग्नेयैन्द्रसौर्याख्यातिग्राह्यरूपाः परमजाः प्रकृतयः। किंच येषां प्रभावेन दैव्यो दिवि भवः कोशो मेघः समुब्जितः सम्यङ्न्युब्जीकृतो वर्षाभिमुखः कृत इत्यर्थः। विविधानि शिप्राणि हनुस्थानीयानि पात्राग्राणि तैरुपेता विशिप्रियास्तादृशानां तेषामतिग्राह्याणां पूरणायेषमन्नसदृशमूर्जं बलप्रदं सोमरसं समग्रभीं सम्यग्गृह्णामि।
पञ्चजनीनशब्दाभिप्रायं दर्शयति — “ये ग्रहाः पञ्चजनीना इत्याह। पञ्चजनानामेवैतेन सूयते” (ब्रा. का. १ प्र. ३ अ. ९) इति।
एतेन मन्त्रपाठेन निषाद पञ्चमानां वर्णानां स्वामित्वेनाभिषिच्यते।
अथ पञ्चमग्रहणमन्त्रः — अपामिति। हेऽतिग्राह्या वो युष्मांक मध्य उत्तमं चरणं ग्रहं तं तथाविधं गृह्णामि। किंविधम्। अपां रसम्। उदकस्यैव सोमरसत्वेन परिणामात्। उद्भूतं वयोऽन्नं जीवनं वा यस्य तमुद्वयसम्। सोमरसो ह्यन्नभूतो जीवनहेतुश्च। अपाम सोमममृता अभूमेत्युक्तत्वात्। सूर्य (र्यो) रश्मिः परिपाकहेतुर्यस्य वं सूर्यरश्मिम्। वृष्टिक्लिन्ना ओषधय आतपेन पच्यन्तेऽन्यथा वृष्ट्याधिक्येन पूयेयुः। समाभृतं गायत्र्या द्युलोकात्सम्यगानीतम्। किंचापां रसः सोमवल्लिरूपेण परिणतस्तस्यापि यो रसः सारस्तादृशमुदकरसम्।
स्वामित्वं तेजोयुक्तत्वं च भागद्वयपाठेन भवतीति दर्शयति — “अपाँ रसमुद्वयसमित्याह। अपामेवैतेन रसस्य सूयते। सूर्यरश्मिँ समाभृतमित्याह सशुक्रत्वाय (२)” (ब्रा. का.१ प्र.३अ.९) इति।
कल्पः — “अया विष्ठा जनयन्कर्वराणीति सप्तदश प्राजापत्यान्सोमग्रहान्गृह्णाति” इति।
पाठस्तु — अया विष्ठेति। अयाऽयं प्रजापतिर्विष्ठा विशेषेणात्र स्थितः कर्वराण्येतानि कर्माणि जनयन्संपादयन्वर्तते। यस्मात्स प्रजापतिर्घृणिर्दीप्तिमान्प्रकाशको भूत्वा वराय श्रेष्ठाय कर्मफलायोरुर्गातुर्विस्तीर्णो मार्गो भवति। तस्मात्स प्रजापतिर्मध्वो मधुनः कर्मफलस्य धरुणो धारयितो सन्नग्रं प्रत्यस्मत्समीपं प्रति उदैदुत्कर्षेण प्राप्नोतु। यद्यस्मात्स्वायां तनुवां स्वकीये शरीरे तनूमस्मच्छरीरमैरयत प्रापयति, तस्माद्वयं फलं प्राप्स्याम इति शेषः। एकयर्चा गृह्णातीत्येतस्य विधिः। स च पूर्वमेव व्याख्यातः। अत्र विनियोगसंग्रहः — “उपेत्यतिग्राह्यमेन्द्रं गृहीत्वैषेति सादयेत्।
उत्तरेषु चतुर्ष्वेवमया सप्तदश ग्रहान्। प्राजापत्यान्प्रगृह्णाति मन्त्रा द्वादश वर्णिताः” ॥१॥ इति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके द्वादशोऽनुवाकः ॥१२॥

(अथ प्रथमकाण्डे सप्तमप्रपाठके त्रयोदशोऽनुवाकः)।
द्वादशे वाजपेयमन्त्राः समापिताः। त्रयोदशे काम्ययाज्या (पुरोनुवाक्या) उच्यन्ते।
काम्येष्टिकाण्डे काचिदिष्टिरेवमाम्नायते — “इन्द्रायान्वृजवे पुरोडाशमेकादशकपालं निर्वपेद्ग्रामकाम इन्द्रमेवान्वृज ँ स्वेन भागधेयेनोप धावति स एवास्मै सजाताननुकान्करोति ग्राम्येव भवति” (सं. का. २ प्र.२ अ.८) इति।
अनुकूलश्चासावृजुश्चेत्यन्वृजुः, साहाय्यकरणमानुकूल्यम्। विरोधानाचारणमृजुत्वं तादृशम्। इन्द्रोऽस्मै यजमानाय सजाताञ्ज्ञातिप्रभृतिबन्धूननुकानेतस्मिन्ननुकूलान्कारोति। ततोऽयं ग्रामस्वामी भवत्येव।
तत्र पुरोनुवाक्यामाह — अन्वहेति। अहशब्द इच्छब्दश्च समुच्चये। चैत्रादयो मासास्ते च जायमानमिन्द्रमनुसृत्याजिहतास्माननुग्रहीतुं प्राप्तवन्तः। एवं वनान्योषधयः पर्वता वावशाने अस्मान्कामयमाने रोदसी द्यावापृथिव्यावापश्चाजिहतेति योजना। षोढा वाक्यानि भेत्तुं षडनुशब्दाः। स च भेद आदरार्थः॥
अथ याज्यामाह — अनु त इति। यजत्र यष्टव्य हे इन्द्र महे महते सर्वेभ्यो देवेभ्योऽधिकाय ते तुम्यं सत्रा सत्रेषु विश्वं सर्वं हविर्देवेभिरग्न्यादिभिरनुयायि अनुक्रमेण दीयते। किमर्थम्। वृत्रहत्ये वृत्रवधमनु ते तवेन्द्रियाय बलसिद्ध्यर्थम्। न केवलं वृत्रवधमनुसृत्य क्षत्रमनु त्वदीयं क्षत्रियत्वजात्यभिमानं चानुसृत्य, सहोऽनु त्वदीयमेव बलमनुसृत्य, नृषह्ये वैरिमनुष्यतिरस्कारशीलमनुसृत्य, त्वयी यथोक्तान्गुणानवेक्ष्य ते तुभ्यं पुनः पुनर्दीयत इति शेषः।
इष्ट्यन्तरं विधत्ते — “इन्द्राण्यै चरुं निर्वपेद्यस्य सेनाऽस शिँतेव स्यादिन्द्राणी वै सेनायै देवलेन्द्राणीमेव स्वेन भागघेयेनोप धावति सैवास्य सेनाँ सँ श्यति (सं. का. २ प्र.२. अ.८)” इति।
असंशिता तीक्ष्णा न भवति (वेत्) स्वकार्यक्षमा नैव भवेदित्यर्थः।
तस्यामिष्टौ कंचिदङविशेषं विधत्ते — “बल्बजानपीध्मे सं नह्येद्गौर्यत्राधिष्कन्ना न्येमहत्ततो बल्बजा उदतिष्ठन्गवामेवैनं न्यायमपिनीय गा वेदयति” (सं. का. २ प्र. २ अ. ८) इति।
बल्बजास्तृणविशेषः। तानपि चोदकप्राप्त इध्मे सम्यग्बध्नीयात्। अधिष्कन्नाऽधिकं पुरीषं प्राप्ता गौर्यत्र देशे न्यमेहन्नितरां मूत्रं करोति, ततो देशाद्वल्बजा उत्पद्यन्ते। तेषां च बल्बजानां बन्धत्वेन यजमांन गवामेव न्यायमपिनीय प्रापय्य गा वेदयति लम्भयति। गवां न्यायः स्वाधीनतया शिक्षितत्वम्। यथा धेनवः शिक्षिताः प्रतिदिनमरण्ये गत्वा यत्र क्वापि पलायनलक्षणं चापलं परित्यज्य काले स्वगृहमेवाऽऽयान्त्यनायासेन दुह्यन्ते यथा वा बलीवर्दाःशिक्षिताः सन्तो रथादीन्स्वामिन इच्छानुसारेण वहन्ति, तथा सेनायाः स्ववशत्वेन कार्यकारित्वं गोन्यायः। गा वेदयति गोवद्धितां स्वाधीनां कार्यकारित्वेन प्रापयतीत्यर्थः।
तत्र पुरोनुवाक्यामाह — इन्द्राणीमिति। आसु नारिषु देवस्त्रीषु मध्ये सेनास्वामिभूतामिन्द्राणीं सुपत्नीं पतिव्रतामहमश्रवम्। अपरं चनान्यदप्येकमस्ति, अस्या इन्द्राण्याः पतिर्जरसा नहि मरते नैव त्रियते।
तत्रैव याज्यामाह — नाहमिति। हे इन्द्राणि अहं सख्युर्वृषाकपेऋते त्वत्प्रियमिन्द्रं विना यं कमप्यन्यं देवं न रारण नैव कीर्तयामि। यस्य ममाप्यमप्सु भवमिदं हविः सोमपुरोडाशादिकं प्रियमिष्टं भूत्वा देवेषु गच्छति सर्वान्देवान्प्राप्नोति, तादृशोऽहमिति पूर्वत्रान्वयः।
इष्ट्यन्तरं विधत्ते — “इन्द्राय मन्युमते मनस्वते पुरोडाशमेकादशकपालं निर्वषेत्संग्रामे संयत्त इन्द्रियेण वै मन्युना मनसा सङ्ग्रामं जयतीन्द्रमेव मन्युमन्तं मनस्वन्तँ स्वेन भागधेयेनोप धावति स एवास्मिन्निन्द्रियं मन्युं मनो दधाति जयति त ँ संग्रामम्” (सं. का. २ प्र. २ अ.८) इति।
मनस्वते धैर्योपेताय, संग्रामे युद्धे संयत्ते सम्यक्प्रवृत्ते सति, इन्द्रियेण पाणिपादादीन्द्रियपाटवेन, मन्युना वैरिविषयकोपाधिक्येन, मनसा पलायनभीत्यादिवर्जनरूपेण धैर्येण।
तत्र पुरोनुवाक्यामाह — यो जात इति। यो देव इन्द्रो जात एवोत्पन्नमात्र एव प्रथमो देवानो मध्ये मुख्यो मनस्वान्धैर्यवाश्च भूत्वा ऋतुना वृत्रवधादिकर्मणा देवानन्यानग्न्यादीन्पर्यभूषदतिक्रान्तवान्। यस्येन्द्रस्य शुष्माद्बलांद्रोदसी द्यावापृथिव्यावभ्यसेतामविभीताम्। भ्यस, भय इति धातुः। जनासो हे जनाःस इन्द्रो नृम्णस्य स्वकीयबलस्य मह्ना महिम्ना युष्मानवत्विति शेषः।
याज्यामाह — आ त इति। उग्र हे इन्द्राऽऽसमन्तात्ते तवोती रक्षणं महोऽधिकम्। यद्यस्माद्रक्षणादस्मदीयाः सेनाःसमन्यवो वैरिविषयकोपयुक्ताः सत्यः समरन्त सम्यगरमन्त क्रीडा अकुर्वन्परबलं नैवागणयन्नित्यर्थः। स(किं)च नर्यस्य मनुष्यहितस्य ते तव बाहुवोर्दिद्युत्खड्गदिदीप्तिः पताति सर्वत्र प्रसरति।
ते मनो विष्वद्रियग्बहुमुखं सन्मा विचारीन्मा विचरतु।
पूर्वोक्तामेवेष्टिं फलान्तराय विधत्ते — “एतामेव निर्वपेद्यो हतमनाः स्वयंपाप इव स्यादेतानि हि वा एतस्मादपक्रान्तान्यथैष हतमनाः स्वयंपाप इन्द्रमेव मन्युमन्तं मनस्वन्त ँ स्वेन भागदेयेनोप धावति स एवास्मिन्निन्द्रियं मन्युं मनो दधाति न हतमनाः स्वयंपापो भवति” (सं. का. २ प्र.२ अ.८) इति।
यः पुरुषो रोगेण द्रव्यहान्यादिना वा हतमना नष्टचित्तः सन्स्वयंपाप इव भ्रान्त इव स्यात्, एतस्मात्पुरुषादेतानीन्द्रियमन्युधैर्याणि अपक्रान्तानि। अथेदानीमेष पुरुषो नष्टचित्तः स्वयं भ्रान्तो भवति तादृश एतामेव निर्वपेदिति पूर्वेत्रान्वयः। एतस्यामपीष्टौ पूर्वोक्ते एव याज्यानुवाक्ये।
इष्ट्यन्तरं विधत्ते — “इन्द्राय दात्रे पुरोडाशमेकादशकपालं निर्वपेद्यः कामयेत दानकामा मे प्रजाः स्युरितीन्द्रमेव दातारँ स्वेन भागधेयेनोप धावति स एवास्मै दानकामाः प्रजाः करोति दानकामा अस्मै प्रजा भवन्ति” (सं. का. २ प्र. २ अ. ८) इति।
तत्र पुरोनुवाक्यामाह — मा न इति। हे इन्द्र नोऽस्मानस्मदीयाः प्रजाश्च मा मर्धीः कलहार्थिनार्मा कार्षीः। किंतु प्रकर्षेण दाशुषे हव्यं दत्तवत्ते यजमानाय दातवे दातुं ते त्वदीयं यद्भूरि धनं संचितमस्ति तदाभर तदाहर। आहृत्य च नोऽस्मभ्यं दद्धि देहि। हे इन्द्र नव्ये नूतने देष्णे त्वद्दानसाधने शस्ते प्रशस्तेऽस्मिन्कर्मणि त उक्थे त्वदीये शस्त्रे स्तुवन्तो वयं प्रब्रवाम प्रकर्षेण प्रार्थयामहे।
तत्रैव याज्यामाह — आ तू भरेति। हे इन्द्र त्वमा तू भर धनमाहरैव। एतत्त्वदाहृतं धनं माकिर्मैव परिष्ठात्परत्र मा तिष्ठतु। यस्मात्त्वां वसूनां वसुपतिरिति विद्म। कस्यचिदेव धनस्य पतिर्न भवसि, किंतु सर्वेषामिति विवक्षया वसूनां वसुपतिमित्युक्तम्। यस्मादेवं विद्म तस्मादाहरेत्यन्वयः। हे इन्द्र त्वदीयं माहिनं महनीयं दत्रं दातव्यं यद्धनमस्ति हे हर्यश्व हरिनामकाभ्यामश्वाभ्यामुपेतेन्द्र तद्धनमस्मभ्यं प्रयन्धि प्रयच्छ।
इष्ट्यन्तरं विधत्ते — “इन्द्राय प्रदात्रे पुरोडाशमेकादशकपालं निर्वपेद्यस्मै प्रत्तमिव सन्न प्रदीयेतेन्द्रमेव प्रदातार ँ स्वेन भागघेयेनोप धावति स एवास्मै प्र दापयति” (सं. का २ प्र. २ अ. ८) इति।
प्रदात्रे प्रदापयित्रे। वाक्यस्यान्ते प्रदापयतीति श्रवणात्। यस्मा उत्तमर्णाय प्रतिग्रहीत्रे दायादाय वाऽधमर्णादिः पुरैव प्रकर्षेण दत्तमित्येवं दातव्यं धनमपलपति तद्धनं स्वत्वेन व्यवहिते। वस्तुतस्तु नैव प्रत्तं, तादृश उत्तमर्णादिर्निर्वपेत्।
तत्र पुरोनुवाक्यामाह — प्रदातारमिति। प्रकर्षेण दातारं दापयितारमिन्द्रं हविषा युक्ता वयमाहवामह आह्वयामः। हे इन्द्र, उभावपि हस्तौ धनेन पृणस्व पूरय। ततो ममाऽऽभिमुख्येन दक्षिणाद्धस्तात्प्रयच्छ, सव्यादप्याभिमुख्येन प्रयच्छ।
तत्र याज्यामाह — प्रदातेति। प्रदाता प्रकर्षेण दाता। वज्त्री वज्रवान्। वृषभोऽभिमतानां धनानां वर्षिता। तुराषाट् शत्रूणां शीघ्रमभिभविता। शुष्मी बलवान्। राजा दीप्यमानः। वृत्रहा वृत्रं हतवान्। सामपावा सोमस्य पाता। ईदृशस्त्वमस्मिन्यज्ञे बर्हिषि वेद्यां स्तीर्णदर्भ आनिषद्याऽऽगत्योपविश्याथानन्तरं शं सुखकरो योरनिष्टवियोजयिता भव।
इष्ट्यन्तरं विधत्ते — “इन्द्राय सुत्राम्णे पुरोडाशमेकादशकपालं निर्वपेदपरुद्धे। वाऽपरुध्यमानो वेन्द्रमेव सुत्रामाणँ स्वेन भागधेयेनोप धावति स एवैनं त्रायतेऽनरुपध्यो भवति” (सं.का. २ प्र. २ अ. ८) इति।
सुत्राम्णे सुष्ठु त्रात्रे। अपरुद्धश्चिरं राज्याद्भ्रष्टः। अपरुध्यमान इदानीमेव भ्रश्यमानः। अनपरुध्यो भ्रंशाविषयः।
तत्र पुरोनुवाक्यामाह — इन्द्र इति। अयमिन्द्रः सुत्रामा सुष्ठु त्राता स्ववान्धनवानवोभी रक्षणैः सुमृडीकः सुखकरो विश्ववेदा अस्मदनुष्ठितकृत्स्नपरिचर्याभिज्ञो भवतु।
बाधतामस्मान्बाधमानानां वैरिणां द्वेषो विद्वेषी स इन्द्रोऽस्माकमभयं कृणोतु करोतु। तत्प्रसादाद्वयं सुवीर्यस्य वैर्यभिभवसामर्थ्यस्य पतयः स्याम स्वामिनो भवेम।
याज्यामाह — तस्य वयमिति। वयं यज्ञियस्य यज्ञसंबन्धिनस्तस्येन्द्रस्य सुमतावनुग्रहयुक्ते चित्त स्थिता भवेम। अपि च भद्रे परममङ्गले सौमनसे मनःसमाधानेऽवस्थिताः स्याम। सुत्रामा सुष्ठु त्राता स्ववान्धनवान्स इन्द्रोऽस्मे अस्याकं द्वेषो द्वेष्यानाराच्चद्दूरादेव युयोतु पृथक्करोतु। कीदृशानामस्यांक सनुतः सनुतां हविर्दातृणाम्।
इष्ट्यन्तरं विधत्ते — “इन्द्रो वै सदृङ् देवताभिरासत्सि न व्यावृतमगच्छत्स प्रजापतिमुपाधावत्तस्मा एतमैन्द्रमेकादशकपालं निरवपत्तेनैवास्मिन्निन्द्रियमदधाच्छक्वरी याज्यानुवाक्ये अकरोद्वज्रो वै शक्वरी स एनं वज्रो भूत्या ऐन्ध सोऽभवत्सोऽबिभेद्भूतः प्र मा धक्ष्यतीति स प्रजापतिं पुनरुपाधावत्स प्रजापतिः शक्वर्या अधि रेवतीं निरमिमीत शान्त्या अप्रदाहाय” (सं. का.२ प्र. २ अ. ८) इति।
पुरा कदाचिदिन्द्रो देवताभिरितराभिर्हि सदृश आसीत्तदाधिपत्यलक्षणां व्यावृत्तिं न प्राप्तवान्। कश्चिदपि देव एतदीयं भृत्यत्वं नाङ्गीचकार। स इन्द्रः खिन्नः प्रजापतिमुपाजगाम। स प्रजापतिर्व्यावृत्तिकामाय तस्मा इन्द्रायातीतसृष्टिगतेन्द्रदेवताकमेकादशकपालं पुरोडाशं निरवपत्। स प्रजापतिः स्वयमिन्द्रस्य यजमानस्य याग आघ्वर्यवमकरोत्। तेनैव यागेनास्मिन्व्यावृत्तिकाम इन्द्रे सामर्थ्ये स्थापितवान्। तत्सिद्धयर्थ शक्वरीच्छन्दसा युक्ते द्वे ऋचौ याज्यानुवाक्ये अकरोत्। यद्यप्यत्र प्रो ष्वस्मा इत्येकैव शक्वरी तथाऽप्यावृत्ता सती सैव शक्वरी याज्या पुरोनुवाक्या च भविष्यतीति। सा शक्वरी वज्ररूपा।स वज्र एनं व्यावृत्तिकामिनमिन्द्रं भूत्या आधिपत्यलक्षणायैश्वर्यायैन्ध प्रकाशितवान्। स चेन्द्रोऽधिपतिरभवत्। भूत ऐश्वर्यं प्राप्तः स इन्द्रः पुनरविभेदियमत्युग्रा शक्वरी मां प्रधक्ष्यतीति विचार्य, तच्छान्तये स इन्द्रः प्रजापतिं पुनरुपाधावत्। स प्रजापतिः शक्वर्या अधि अधिकत्वेन रेवतीं रेवतीर्नः सधमाद इत्येतामृचं निर्मितवान्। किमर्थम्। शक्वर्या उग्रत्वशान्त्या इन्द्रस्याप्रदाहाय च।
ऐश्वर्ययोग्यराजकुमारादेरैश्वर्याप्राप्तावैश्वर्यप्राप्त्यर्थमिष्टिमिदानीं विधत्ते — “योऽलँ श्रियै सन्त्सदृङ्समानैः स्यात्तस्मा एतमैन्द्रमेकादशकपालं निर्वपेदिन्द्रमेव स्वेन भागधेयोनोप धावति स एवास्मिन्निन्द्रियं दधाति” (सं. का. २ प्र.२ अ. ८) इति।
यः पुमान्राजकुमारादिः श्रिया ऐश्वर्यायालं सन्समर्थः सन्नपि तदैश्वर्यमप्राप्य समानैः साधारणैरैश्वर्यरहितैः प्राणिभिः सदृशः स्यात्तस्मै तदर्थमियमिष्टिः।
तामेतामिष्टिं विधाय याज्यानुवाक्ये विधत्ते — “रेवती पुरोनुवाक्या भवति शान्त्या अप्रदाहाय शक्वरी याज्या वज्रो वै शक्वरी स एनं वज्रो भूत्या इन्धे भवत्येव” (सं. का. २ प्र. २ अ. ८) इति।
रेवत्याः पाठस्तु — रेवतीर्न इति। रेवतीर्धनवत्यः सधमादोऽस्माभिः सह मादयन्त्यो हर्षयुक्तास्तुविवाजा बहून्नोपेताः शक्वरीप्रापितदाहशान्तिप्रदा आपो नोऽस्मांक स्मामिनीन्द्रे सन्त्वस्मत्सुखाय तिष्ठन्तु। याभिरद्भिः सह वयं क्षुमन्तः शब्दायन्त इन्द्रं स्तुवन्तो मदेम हृष्याम।
शक्वर्याः पाठस्तु — प्रो ष्वस्मा इति। अस्मा इन्द्रायास्येन्द्रस्य पुरोरथं रथस्य पुरोभागे शूषं बलं प्रोष्वर्चत प्रकर्षेण सुष्ठु पूजयत। कथं बलस्य पूजेत्युच्यते। अयमिन्द्रो वृत्रहा वैरिघाती समत्सु सँग्रामेषु सङ्गे योद्धृभिर्वैरिभटैः सङ्गे सति सयोगे सति अभीके चिदु हन्तुं कामयमानेऽपि वैरिणि लोककृत्स्थिति करोत्येव न तु पलायते। इत्थं बलस्य पूजा। तथा पूजित इन्द्रोऽस्माकमितरव्यावृत्तये चोदिता प्रेरयिता सन्बोधि बुध्यतां सावधानो भवतु। अन्यकेषां कुत्सितानां वैरिणां धन्वसु अधिश्रित्य वर्तमाना ज्याकाः कुत्सिता ज्या नमन्तां नश्यन्तु त्रुट्यन्त्वित्यर्थः।
अत्र विनियोगसंग्रहः — “अन्वहान्वृजुमत्यैन्द्र इन्द्राणीति तु (मिति) तच्चरौ।
यो जातो मन्युमत्यैन्द्रे मा नो दातृमदैन्द्रके ॥१॥
प्रदा प्रदातृमत्यैन्द्र इन्द्रः सुत्रामसंयुते।
रेवतीः श्रीप्रदैन्द्रे स्यादव मन्त्राश्चतुर्दश ॥२॥” इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके त्रयोदशोऽनुवाकः ॥१३॥