प्रश्नः-6

(अथ प्रथमकाण्डे षष्ठः प्रपाठकः)।
(तत्र प्रथमोऽनुवाकः)
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥१॥
षष्ठे प्रपाठक ऐष्टिकयाजमानमन्त्रास्तद्वद्ब्राह्मणानि चाऽऽम्नायन्ते। तद्विशेषस्तु विनियोगसंग्रहे दर्शितः -
“षष्ठे प्रश्ने याजमानकाण्डे द्वादश वर्णिताः।
अनुवाकाः षट्सु मन्त्रा ब्राह्मणं पञ्चसूदितम्॥
अन्ते याज्याः क्रमेणाऽऽज्यग्रहणाद्यनुमन्त्रणम्।
आज्यग्रहो मुख्याहोमो भक्ष्यः शेषाहुतिस्तथा॥
एतेऽनुमन्त्रणीयार्था मन्त्रा आप्ययनादिगाः।
सूर्योपस्थित्यादिमन्त्रा ब्राह्मणे तु विभज्यते॥
परिग्रहो देवतानामायुधानां च संभृतिः।
द्वादशद्वंद्वसंपत्तिर्हविषां सादने विधिः॥
विधिराश्रावणादीनां याज्या इत्यनुवाकगाः” इति॥
तत्र प्रथमानुवाक आज्यग्रहणानुमन्त्रणमन्त्राः प्राधान्येनाभिधीयन्ते।
कल्पः — “सं त्वा सिञ्चामीति तत्सँ सिञ्चेदभि वा मन्त्रयेत” इति। तदिति स्कन्नमाज्यमुच्यते। यस्याऽऽज्यमनुत्पूतँ स्कन्देदित्यादिना स्कन्दनस्य प्रकृतत्वात्। यदि शुद्धप्रदेशे स्कन्देत्तदानीमनेन मन्त्रेण पुनः पात्रे प्रक्षिपेत्। अशुचिप्रदेशे स्कन्दने त्वभिमन्त्रणम्।
पाठस्तु - सं त्वा सिञ्चामीति। हे स्कन्नाज्य बृहस्पतिप्रेरितोऽहं प्रजादीन्संपादयेयम। त्वामनेन यजुषा मन्त्रेण पात्रे सम्यक्सिञ्चामि। इह कर्मणि यजमानः स्क-न्दनापराधेन मा रिषन्मा हिंस्यताम्। अयं मन्त्र आध्वर्यवः। अतो यजमानस्या न्यत्वेनोक्तिरविरुद्धा।
कल्पः — “आज्यमसि सत्यमसीत्यध्वर्युर्यजमानश्चाऽऽनिमील्यावेक्ष्यानुच्छ्वस न्तावाज्यमवेक्षेते” इति।
पाठस्तु - आज्यमसीति। अत्र वैश्वानरमित्यादिभिश्चतुर्भिः पदैः प्रत्येकमन्वेतुमसीति पदमनुवर्तनीयम्। तथा सति तान्येतानि द्वाविंशतिवाक्यानि संपद्यन्ते। तैरेतैर्वाक्यैराज्यं प्रशस्यते। अजिधातोर्गत्यर्थादुत्पन्न आज्यशब्दः। आज्यमसि प्रापकमसि। घृतेन हि होमाधारो ज्वालन्नग्निः प्राप्यते। सद्विद्यमानं कर्मफलं तदर्हतीति सत्यम्। प्रसिद्धं ह्याज्यस्य कर्मफलसाधनत्वम्। सत्यस्याध्यक्षमसि सतां कर्म सत्यम्। ज्योतिष्टोमे प्रवर्तमाना यजमानसप्तदशा ऋत्विजः सन्तः। ते हि परस्परं द्रोहशङ्कामपनेतुं तानूनप्त्रसंज्ञकमाज्यं स्पृशन्ति। सोऽयं स्पर्शः सतां कर्म, तस्य कर्मणोऽध्यक्षं स्वामि। हविरसि प्राधान्येन हूयमानमसि। पुरोडाशादीनां हविषां नाशेऽप्याज्येनैव तत्कर्मशेषसमापनात्प्राधान्यं द्रष्टव्यम्। विश्वेषां नराणां संबन्धि वैश्वानरम्। विश्वेषां देवानां संबन्धि विश्वदेवम्। प्रसिद्धो भोज्यत्वेन हविष्ट्वेन चोभयसंबन्ध। उत्पूतशुष्ममुत्पवनेनोद्दीपितबलम्। सत्यौजाः सत्यबलम्। आज्यस्य हि बलमवितथम्। अग्न्युद्दीपनस्य प्रत्यक्षत एव दृश्यमानत्वात्। सहः शत्रूणामभिभवनसमर्थम्। सहमानं निरन्तरं तदभिभवेनैव वर्तमानम्। तादृक्त्वं सहस्वारातीरस्मदमित्रानभिभव। सहस्वारातीयतः, ये तु प्रत्यक्षं शात्रवं कर्तुमशक्ता मनसा शात्रवं कर्तुमिच्छन्ति तानप्यभिभव। सहस्व पृतनाः शत्रुसेना अभिभव। सहस्व पृतन्यतः सेनाः संपादयितुमिच्छतः शत्रूनप्यभिभव। सहस्रवीर्यमसि यथोक्ताभिभवविशेषान्कर्तुं बहुप्रकारसामर्थ्योपेतं त्वमसि। तन्मा जिन्व तत्तादृक्स्वभाव त्वं मां यागद्वारेण प्रीणय। आज्यस्याऽऽज्यमसि लौकिकं यदाज्यं तदुत्पूतशुष्मं न भवति त्वं तत्पूतशुष्मत्वान्मुख्यमाज्यमसि। सत्यस्य सत्यमसि लौकिकफलसाधनं कृष्यादिकं सत्यं तत्कदाचिद्वृष्ट्याद्यभावेन व्यभिचारान्न मुख्यं सत्यं त्वं तु कदाचिदप्यव्यभिचारान्मुख्यं सत्यमसि। सत्यायुरसि सत्यभूतमायुरस्मिन्निति सत्यायुः। आज्यनिष्पन्नेन कर्मणा भाविदेहे यदायुः प्राप्यते तन्न व्यभिचरतीत्यायुषः सत्यत्वम्। सत्यशुष्ममसि सत्यबलमसि। अग्न्युद्दीपनबलं सत्यौजःशब्देन पूर्वमुक्तम्। इह तु फलप्रदानबलमुच्यते। सत्येन त्वाऽभिघारयामि तादृशं त्वां चक्षुषा पश्यामीत्यर्थः। तथा च पौरोडाशिककाण्डे समाम्नायते - “ब्रह्मवादिनो वदन्ति। यदाज्येनान्यानि हवीँष्यभिघारयति। अथ केनाऽऽज्यमिति। सत्येनेति ब्रूयात्। सत्येनैवैनदभिघारयति” इति। चक्षुषः सत्यत्वमाधानब्राह्मणे प्रतिपादितम्। “अनृतं वै वाचा वदति। अनृतं मनसा ध्यायति। चक्षुर्वै सत्यम्। अद्रा३गित्याह। अदर्शमिति। तत्सत्यम्” इति। तस्य ते भक्षीय तादृशं त्वां भजानि।
पञ्चानां त्वेति। कल्पः — ‘आज्यग्रहणं गृहीतं गृहीतमनुमन्त्रयते पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वर्तूनां यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वा दिशां यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामिति चतुर्भिर्जुह्वामष्टभिरुपभृति चरोस्त्वा पञ्चबिलस्य यन्त्राय धर्त्राय गृह्णामि ब्रह्मणस्त्वा तेजसे यन्त्राय धर्त्राय गृह्णामि सुवीर्याय त्वा गृह्णामि सुप्रजास्त्वाय त्वा गृह्णामि रायस्पोषाय त्वा गृह्णामि ब्रह्मवर्चसाय त्वा गृह्णामीति चतुर्भिर्ध्रुवायां भूरस्माकँ हविर्देवानामाशिषो यजमानस्य देवानां त्वा देवताभ्यो गृह्णामीत्यभिपूर्यमाणामनुमन्त्रयते कामाय त्वा गृह्णामीति’ इति।
प्राच्यादिषूर्ध्वान्तासु पञ्चसु दिक्षु वर्तमाना वायवः पञ्चसंख्याकाः। ते चाग्निचयनाङ्गेषु मन्त्रेष्वेवमाम्नायन्ते - “यत्ते रुद्र पुरो धनुस्तद्वातो अनु वातु ते यत्ते रुद्र दक्षिणा धनुस्तद्वातो अनु वातु ते यत्ते रुद्र पश्चाद्धनुस्तद्वातो अनु वातु ते यत्ते रुद्रोत्तराद्धनुस्ताद्वातो अनु वातु ते यत्ते रुद्रोपरि धनुस्तद्वातो अनु वातु ते” इति। यद्वा शरीरमध्ये वर्तमानाः प्राणापानव्यानोदानसमानरूपाः पञ्च वातास्तेषां वातानां यन्त्राय स्वस्वव्यापारेषु नियमनाय धर्त्राय जगद्विधारणकुशलाय हे आज्य त्वां गृह्णामि। ऋतूनां पञ्चत्वमैतरेयब्राह्मणे प्रतिपादितम् - “द्वादशमासाः पञ्चर्तवो हेमन्तशिशिरयोः समासेन” इति। प्राच्यादीनामूर्ध्वान्तानां दिशां पञ्चत्वं प्रसिद्धम्। पञ्चजनशब्दः समस्तो देवमनुष्यासुररक्षोगन्धर्वेषु रूढः।
ते च देवादयः पञ्चसंख्याकाः। चरुशब्दः पाकाधारभूतां स्थालीमाचष्टे। सा च क्वचित्पञ्चबिलैर्युज्यते। तच्च पुरुषमेधावसाने कल्पसूत्रकार उदाजहार- “पञ्च-बिलस्य चरोर्विज्ञायत आज्य आग्नेयः पूर्वस्मिन्बिले, दधन्यैन्द्रो दक्षिणे, शृते प्रतिदुहि नीतमिश्रे वा वैश्वदेवः पश्चिमे, अप्सु मैत्रावरुण उत्तरे, पयसि बार्हस्पत्यो मध्यमे” इति। तस्य पञ्चबिलस्य चरोर्नियमनायेति योज्यम्। ब्रह्मणो ब्राह्मणजातेः। तेजो ब्रह्मवर्चसं तस्य यन्त्राय। क्षत्त्रियजातेरोजो युद्धसामार्थ्यम्। वैश्यजातेः कृषिवाणिज्यादिषु नियमनम्। सुवीर्यं सर्वेषां स्वस्वव्यापारेषु सामर्थ्यातिशयः। सुप्रजास्त्वं शोभनापत्यत्वम्। रायस्पोषो धनस्पोषो धनपुष्टिः। ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः। ब्रह्मणस्त्वा तेजस इत्यत्र शिष्टाङ्गीकृतसाधुवेषरूपं (तेजो) द्रष्टव्यम्। भूरस्माकमित्याद्यो मन्त्रः। हविर्देवानामिति द्वितीयः। आशिषो यजमानस्येति तृतीयः। अवशिष्टश्चतुर्थः। हे आज्य त्वमस्माकं श्रेयसे भव। देवानां हविर्भव। यजमानस्य या आशिषस्तद्रूपं भव। देवानां तर्पकं त्वां देवार्थं गृह्णामि। आपस्तम्बस्य तु भूरस्माकमित्यादिरेक एव मन्त्रः। हे आज्य हविर्भागिन्यो देवतास्त्वां यथा यथा कामयन्ते तथाविधकामाय त्वां गृह्णामि।
अत्र विनियोगसंग्रहः -
“स्याद्दर्शपूर्णमासस्थं काण्डं तु यजमानगम्।
षष्ठः प्रश्नस्तत्र सं त्वा स्कन्नाज्यं प्रक्षिपेत्स्रुचि॥१॥
आज्यमाज्यमवेक्षेत पञ्चानां त्वा चतुर्दश।
स्रुक्ष्वाज्यमन्त्रणे मन्त्रा इति मन्त्रास्तु षोडश॥२॥ “ (इति)।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके प्रथमोऽनुवाकः॥१॥

(अथ प्रथमकाण्डे षष्ठप्रपाठके द्वितीयोऽनुवाकः)।
प्रथमानुवाके हविर्ग्रहणानुमन्त्रणमुक्तं, द्वितीयानुवाके हविर्होमानुमन्त्रणं वक्तव्यम्। तत्र हूयमानस्य हविषो बहिःस्कन्दननिवारणाय परिधीयमानानां परिधीनामनुमन्त्रणमनुवाकादावुपवर्ण्यते।
ध्रुवोऽसीति। कल्पः - “परिधीन्परिधीयमानाननुमन्त्रयते ध्रुवोऽसि ध्रु-वोऽहँ सजातेषु भूवासं धीरश्चेत्ता वसुविदिति मध्यममुग्रोऽस्युग्रोऽहँ सजातेषु भूयासमुग्रश्चेत्ता वसुविदिति दक्षिणमभिभूरस्यभिभूरहँ सजातेषु भूयासमभिभूश्चेत्ता वसुविदित्युत्तरम्” इति।
हे मध्यपरिधे त्वं ध्रुवः स्थिरोऽसि। रक्षोभिरविचाल्यमानत्वात्। अत एवाऽऽम्नायते - “परिधीन्परिदधाति रक्षसामपहत्यै” इति। तस्य ध्रुवस्य तवानुमन्त्रणेनाहमपि सजातेषु ज्ञातिषु ध्रुवः स्थिरो भूयासम्। किंच धीरो धैर्यवान्, चेत्ता रक्षोपहननस्य ज्ञाता, वसुविद्वसुनो लब्धा भूयासम्। हे दक्षिणपरिधे त्वं रक्षांस्यपहन्तुमुग्रोऽसि। तवानुमन्त्रणेनाहमप्युग्रो भूयासम्। ज्ञातयो यथा मह्यमप्रतिवादिनो भवन्ति तथा संपादनमुग्रत्वम्। किंच वैरि-णोऽपहन्तुमप्युग्रो भूयासम्। हे उत्तरपरिधे त्वं रक्षसामभिभविताऽसि। तवानुमन्त्रणेनाहमपि ज्ञातीनां वैरिणां चाभिभविता भूयासम्। एतदीयस्य ब्राह्मणस्य समीपवर्तित्वेनात्यन्तबुद्धिविच्छेदाभावान्नात्र ब्राह्मणमुदाहृत्य व्याकरिष्यते।
युनज्मीति। कल्पः - “अथाग्निं योगेन युनक्ति युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेद इति” इति।
हे जातवेदो दैव्येन देवयोग्येन ब्रह्मणा मन्त्रेण त्वां युनज्मि अस्मिन्कर्मणि युक्तं करोमि। किमर्थम्। इदं हविर्वोढुम्।
इन्धाना इति। कल्पः - “समिधोरभ्याधीयमानयोर्जपति - “इन्धानास्त्वा सुप्रजसः सुवीरा ज्योग्जीवेम बलिहृतो वयं त इति” इति।
हे जातवेदस्त्वामिन्धाना ज्वलयन्तो वयं सुप्रजसः शोभनापत्योपेताः सुवीराः शोभनभृत्योपेता ज्योक्चिरं जीवेम। किं कर्वन्तः। तव बलिं पूजामुपहरन्तः।
यन्मे अग्न इति। कल्पः - “अथान्तर्वेदि हवींष्यासन्नान्यभिमन्त्रयते यन्मे अग्ने अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णो। तेन हन्मि सपत्नं दुर्भरायुमैनं दधामि नित्या उपस्थ इति” इति।
हेऽग्नेऽस्य मम यज्ञस्य संबन्धि यद्बर्हिरादिकं रिष्यान्नश्येद्रक्षःप्रभृतिभिर्वि-नाशितं, आज्यस्योताऽऽज्यस्यापि संबन्धि यद्वा यदल्पं बिन्दुजातं जौहवादिकं स्कन्दादधः पतेत्, हे विष्णो व्यापक तेन नष्टेन स्कन्नेन च वैरिणं हन्मि। यः सपत्नो मारयितुमशक्य एनं दुर्भरायुं सपत्नं नित्याः पापदेवताया उपस्थ उत्सङ्ग आदधामि स्थापयामि।
भूर्भुव इति। कल्पः - “अथ भूर्भुवः सुवरित्यग्निहोत्रमेताभिर्व्याहृती(ति)भि-रुपसादयेत्। अथ वै भवति दर्शपूर्णमासावालभमान एताभिर्व्याहृतीभिर्हवीँ ष्यासादयेत्। अथ वै भवति चातुर्मास्यान्यालभामन एताभिर्व्याहृतीभिर्हवीँ ष्यासादयेत्” इति।
भूरादयस्त्रयः शब्दा लोकत्रयवाचिनः। एतानि हवींषि लोकत्रयरूपाणीति स्तूयन्ते। इदं व्याहृतित्रयं यद्यपि याजमानकाण्डे पठितं तथाऽपि प्रत्यक्षेण ब्राह्मणवाक्येनाऽऽध्वर्यवक्रियायां विनियुक्तत्वादुत्क्रष्टव्यम्।
उच्छुष्म इति। कल्पः - “इध्ममभ्याधीयमानमनुमन्त्रयत उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते। अग्ने देवेद्ध मन्विद्ध मन्द्रजिह्वेति” इति।
हेऽग्ने यजमानायोच्छुष्म एधि उद्भूतबलो भव, यजमानकार्येष्वाविष्कृतबलो भव। अभिदासत उपक्षयते शत्रवे निशुष्म एधि न्यग्भूतबलो भव। उक्तक्रमेण यजमानमनुग्रहीतुं शत्रुं च विग्रहीतुं चतुर्भिः संबोधनैरग्निं प्रोत्साहयति। हेऽग्नेऽ-ङ्गनादिगुणयुक्त देवेद्ध देवैर्दीप्त मन्विद्ध मनुना दीप्त। एतच्च पदद्वयं निविद्ब्रा-ह्मणेन व्याख्यातम् - “देवेद्ध इत्याह देवा ह्येतमैन्धत मन्विद्ध इत्याह मनुर्ह्ये-तमुत्तरो देवेभ्य ऐन्ध” इति। मन्द्रजिह्व मन्द्रा हर्षहेतुर्जिह्वा यस्येति विग्रहः।
अमर्त्यस्येति। कल्पः - “प्रवरं प्रव्रियमाणमनुमन्त्रयते – अमर्त्यस्य ते होतर्मूर्धन्ना जिघर्मि रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति” इति।
हे होतर्देवानामाह्वातर्मरणरहितस्य तव मूर्धनि घृतादिकं क्षारयामि। किमर्थम्। यजमानस्य धनपुष्टिशोभनापत्यशोभनवीर्यार्थम्।
मनोऽसीति। कल्पः - “स्रौवमाघारमाघार्यमाणमनुमन्त्रयते मनोऽसि प्राजापत्यं मनसा मा भूतेनाऽऽविशेति” इति।
हे स्रौवाघार त्वं मनोऽसि प्रजापतिसंबन्धि चासि। मनसा प्रजापतिं ध्यायताऽध्वर्युणा निष्पाद्यमानत्वात्। अत्र भूतशब्दः प्रजापतिसृष्टं यज्ञमाचष्टे। प्राजापत्यो यज्ञ इति ब्राह्मणेन व्याख्यास्यमानत्वात्। तेन भूतेन प्रजापतिसृष्टेन यज्ञेन तत्साधनेन मनसा च सह हे स्रौवाघार मामाविश।
वागस्येति। कल्पः - “स्रुच्यमाघारमाघार्यमाणमनुन्त्रयते वागस्यैन्द्री सपत्नक्षयणी वाचा मेन्द्रियेणाऽऽविशेति” इति।
हे स्रुच्याघार त्वं वागसि। वाचा मन्त्रमुच्चारयताऽध्वर्युणा निष्पाद्यमान-त्वात्। कीदृशी वाक्। ऐन्द्रीन्द्रेण व्याकृतत्वात्। तच्चेन्द्रवायवग्रहब्राह्मणे समाम्नातम् - “तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्” इति। सा च वाक्सपत्नक्षयणी वैरिघातिनी। स्रुच्याघारमन्त्ररूपाया वाचः सपत्नघातित्वं तद्ब्राह्मणेन सूचितम् - “अहुतो यज्ञो यज्ञपतेरित्याहानार्त्यै” इति। तादृश्या वाचेन्द्रसृष्टेन चक्षुरादीन्द्रियेण च सह हे स्रुच्याघार मामाविश।
वसन्तमिति। कल्पः - “प्रयाजानामिष्टमनुमन्त्रयते वसन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु ग्रीष्ममृतूनां प्रीणामि स मा प्रीतः प्रीणातु वर्षा ऋतूनां प्रीणामि ता मा प्रीताः प्रीणन्तु शरदमृतूनां प्रीणामि सा मा प्रीता प्रीणातु हेमन्तशिशिरावृतूनां प्रीणामि तौ मा प्रीतौ प्रीणीतामिति” इति।
ऋतुवाचकैर्वसन्तादिशब्दैः समिद्यागादिपञ्चप्रयाजाभिमानिदेवता विवक्ष्यन्ते। तांश्च वसन्तादीनहं तोषयामि। ते च तुष्टा मां तोषयन्तु।
अग्नीषोमयोरिति। कल्पः - “आज्यभागाविष्टावनुमन्त्रयते - अग्नीषोमयोरहं देवयज्यया चक्षुष्मान्भूयासमिति” इति।
उत्तरार्धेऽग्नये जुहोति दक्षिणार्धे सोमायेति श्रवणादग्नीषोमावाज्यभागयोर्देवौ तयोः संबन्धिनी देवयज्या समन्त्रकाज्यभागाहुतिस्तयाऽध्वर्युनिष्पादितया यजमानोऽहं चक्षुष्मांश्चक्षुर्युक्तो भूयासम्। युक्तं चैतत्। “चक्षुषी वा एते यज्ञस्य यदाज्यभागौ” इति ब्राह्मणे चक्षुष्ट्वेन निरूपितत्वात्।
अग्नेरहमिति। कल्पः - “अग्निमिष्टमनुमन्त्रयते - अग्नेरहं देवयज्यायाऽन्नादो भूयासमिति” इति।
दर्शपूर्णमासयोराद्यस्य प्रधानयागस्याग्निदर्वेता। स चान्नभक्षकः। “अग्निर्वै-देवानामन्नादः” इति श्रुतेः। अतस्तद्यागेन यजमानस्यान्नादत्वमुचितम्।
दब्धिरसीति। कल्पः - “उपांशुयाजमिष्टमनुमन्त्रयते दब्धिरस्यदब्धो भूयासममुं दभेयमिति” इति।
अमुमित्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायतीति। उपांशुयाजस्य प्रजाप-तिर्विष्णुरग्नीषोमौ वा विकल्पेन देवताः। हे उपांशुयाजदेव त्वं दब्धिरसि अस्माभिर्द्वेष्यस्य त्वं हिंसकोऽसि। त्वत्प्रसादादहं वैरिभिरहिंसितो भूयासम्। अमुं वैरिणं दभेयं मारयेयम्।
अग्नीषोमयोरिति। कल्पः - “अग्नीषोमाविष्टावनुमन्त्रयते - अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासमिति” इति।
पौर्णमास्यां तृतीययागस्याग्नीषोमौ देवता(ते)। तयोश्च वृत्रहत्यानिमित्तं त्वष्टा हतपुत्र इत्यनुवाके प्रपञ्चितम्। अतस्तद्यागेन यजमानस्य वैरिहन्तृत्वं युक्तम्।
इन्द्राग्नियोरिति। कल्पः - “इन्द्राग्नी इष्टावनुमन्त्रयते - इन्द्राग्नियोरहं देव-यज्ययेन्द्रियाव्यन्नादो भूयासमिति” इति।
अमावास्यायामसोमयाजिनः सांनाय्याभावे द्वितीयपुरोडाशस्येन्द्राग्नी देवता(ते)। तत्रेन्द्रानुग्रहाद्यजमानस्येन्द्रियोपेतत्वमग्न्यनुग्रहाच्चान्नादत्वम्।
इन्द्रस्याहमिति। कल्पः - “इन्द्रमिष्टमनुमन्त्रयते - इन्द्रस्याहं देवयज्ययेन्द्रि-यावी भूयासमिति” इति।
सांनाय्यस्येन्द्रो देवता तत्प्रसादादिन्द्रियावित्वम्।
महेन्द्रस्येति। कल्पः - “महेन्द्रमिष्टमनुमन्त्रयते महेन्द्रस्याहं देवयज्यया जेमानं महिमानं गमेयमिति” इति।
केषांचित्सांनाय्यस्य महेन्द्रो देवता। तथा चाऽऽम्नायते - “त्रयो वै गतश्रियः शुश्रुवान्ग्रामणी राजन्यस्तेषां महेन्द्रो देवता” इति। तत्रेन्द्रशब्दार्थप्रयुक्त्या यजमानस्य जेतृत्वप्राप्तिः। महच्छब्दार्थप्रयुक्त्या यजमानस्य विद्यैश्वर्यादिगु-णैर्महत्त्वप्राप्तिः।
अग्नेः स्विष्टकृतं इति। कल्पः - “स्विष्टकृतमिष्टमनुमन्त्रयते - अग्नेः स्विष्टकृतोऽहं देवयज्ययाऽऽयुष्मान्यज्ञेन प्रतिष्ठां गमेयमिति” इति।
कश्चिदग्निः केनचिन्निमित्तेन रुद्रनामधेयमलभन। स च कदाचिद्देवैराहुत्या तोषितः पूर्वमिष्टानां यागानां वैगुण्यं परिहृत्य स्विष्टत्वं कृतवान्। तथा च ब्राह्मणमाम्नायते - “देवा वै यज्ञाद्रुद्रमन्तरायन्स यज्ञमविध्यत्तं देवा अभि समगच्छन्त कल्पतां न इदमिति तेऽब्रुवन्स्विष्टं वै न इदं भविष्यति यदिमँ राधयिष्याम इति तत्स्विष्टकृत्त्वम्” इति। “यदग्नये स्विष्टकृतेऽवद्यति भागघेयेनैव तद्रुद्रँ समर्धयति” इति च। स्विष्टकृच्छब्दस्य निर्वचनं सौत्रामण्यां मैत्रावरुणप्रैषमन्त्रे विस्पष्टमाम्नायते “देवो अग्निः स्विष्टकृद्देवमिन्द्रमवर्धयत्। स्विष्टं कुर्वन्स्विष्टकृत्। स्विष्टमद्य करोतु नः” इति। तत्राग्निशब्दार्थप्रयुक्तं यजमानस्यऽऽयुष्मत्त्वम्। अत एव मन्त्रान्तरमेवमाम्नायते - “अग्निरायुष्मान्स वनस्पतिभिरायुष्मान्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि” इति। स्विष्टकृच्छब्दार्थप्रयुक्त्या यज्ञप्रतिष्ठाप्राप्तिः। यदाऽयमग्निः स्विष्टं करोति तदा यजमानः सगुणेन संपूर्णेन यज्ञेन प्रतिष्ठां फलप्राप्तिलक्षणां लभते।
अत्र विनियोगसंग्रहः —
“ध्रुवोऽसीति त्रिभिर्मन्त्रैः परिधित्रयमन्त्रणम्।
युनाग्नियोग इन्धानाः समिधोरनुमन्त्रणम्॥१॥
यन्मे हविर्मन्त्रयेत भूस्त्रिभिः सादयेद्धविः।
उच्छुष्मो मन्त्रयेतोध्मममर्त्य प्रवृतिं तथा॥२॥
स्रौवाघारं मनोऽसीति स्रुच्याघारं तु वागिति।
वसन्तपञ्चभिर्मन्त्रैः प्रयाजान्पञ्च मन्त्रयेत्॥३॥
अग्नीषोमेत्याज्यभागावग्नेरित्यग्नियागकम्।
दब्धिरुपांशुयाजस्य स्पष्टमग्नीति पञ्चकम्।
अनुवाके द्वितीयेऽस्मिन्मन्त्राः षड्विंशतिर्गताः॥४॥” इति
अथ मीमांसा।
पञ्चमाध्यायस्य प्रथमपादे चिन्तितम्-
“स्याद्वासन्तादिमन्त्राणां क्रमो नो वाऽन्यवद्भवेत्।
शाखान्तरे व्यत्ययेन न क्रमो नियतोऽत्र हि” इति।
दर्शपूर्णमासयोर्याजमानकाण्डे प्रयाजानुमन्त्रणमन्त्रा आम्नाताः - “वसन्तमृतूनां प्रीणामि ग्रीष्ममृतूनां प्रीणामि” इत्यादयः। तेषां नियतः क्रमोऽभ्युपगन्तव्यः। कुतः। अन्येष्वाग्नेयोपांशुयाजाद्यनुमन्त्रणमन्त्रेषु निय-तक्रमदर्शनेनात्रापि क्रमनियमस्य बुद्धिस्थत्वादिति चेन्मैवम्। अत्र नियामकाभावात्। न तादवत्र पाठो नियामकः। वसन्तग्रीष्मवर्षाशरद्धेम-न्तमन्त्राणामनेन क्रमेण तैत्तिरीयशाखापठितानां व्यत्ययेन पाठदर्शनात्। नात्र यवागूपाकवदर्थो नियामकः। वसन्तमन्त्रेण यस्य कस्यचित्प्रयाजस्यानु-न्त्रणेऽप्यनुपपत्त्यभावात्। नाप्यात्र लिङ्गं नियामकम्। वसन्तमन्त्रे समिद्यागैकविषयस्य विशेषसामर्थ्यस्यादर्शनात्। तस्मादत्र नास्ति नियतः क्रमः।
तृतीयाध्यायस्य तृतीयपादे चिन्तितम्-
“उपांशुयजतेर्नाङ्गं दब्धिमन्त्रोऽङ्गताऽथवा।
साधारणत्वाल्लिङ्गादेर्मानाभावादनङ्गता॥
मन्त्राणां कर्मणां चात्र क्रमेणाऽऽम्नानमीक्ष्यते।
प्रक्रियावत्क्रमो मानं यथासंख्यं ततोऽङ्गता॥
क्रमः समानदेशत्वं पाठादर्थाच्च पाठतः।
यथासंख्यं संनिधिश्च यथासंख्यामुदाहृतम्।
शृन्धध्वमिति सांनाय्यपात्राङ्गं संनिधेर्मतम्।
पशुधर्मोऽर्थसादेश्यादग्नीषोमीयगो भवेत्” इति॥
दर्शपूर्णमासयोर्याजमाने मन्त्रकाण्डे कश्चिन्मन्त्र आम्नायते - दब्धिरस्यदब्धो भूयासममुं दभेयम्” इति। अस्य मन्त्रस्योपांशुयाजाङ्गतायां श्रुतिवाक्ये न विद्येते। ब्राह्मणे विनियोग आम्नायार्थविवरणस्यैवाऽऽम्नातत्वात्। “एतया वै दब्ध्या देवा असुरानदभ्नुवन्तयैव भ्रातृव्यं दभ्नोति” इति ब्राह्मणम्। दब्धिर्घातुकमायुधम्। आग्नेयाग्नीषोमीययोरप्यनिष्टनिवारकत्वाल्लिङ्गं साधारणम्। प्रकरणं च त्रयाणामेव। ततो मानाभावादयं मन्त्रो नोपांशुया-जाङ्गमिति प्राप्ते ब्रूमः — आध्वर्यवकाण्ड आग्नेयोपांशुयाजाग्नीषोमीयकर्माणि क्रमेणाऽऽम्नातानि। याजमाने च काण्डे तद्विषया मन्त्राः क्रमेणाऽऽम्नाताः — “अग्नेरहं देवयज्ययाऽन्नादो भूयासं दब्धिरस्यदब्धो भूयासममुं दभेयमग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम्” इति। तत्र यथा वाक्याद्वयानुसंधानसंपन्नं प्रकरणं पृथक्प्रमाणं तथा प्रकरणद्वयानुसंधानसंपन्नः क्रमः कुतो न मानं स्यात्। न चास्य प्रकरणेऽन्तर्भावः। द्वयोर्वाक्ययोरिव प्रकरणयोरेकवाक्यत्वाभावात्। तस्मात्क्रमप्रमाणेन मध्यवर्तिन उपांशुयाज्यस्य मध्यवर्ती मन्त्रोऽङ्गम्। समानदेशत्वं क्रम इति क्रमस्य स्वरूपम्। तच्च द्विविधं पाठकृतमर्थकृत च। पाठकृतमपि द्विविधं यथासंख्यं संनिधिश्चेति। तयोराद्यस्य दब्धिमन्त्र उदाहरणम्। शुन्धध्वं दैव्याय कर्मण इत्ययं मन्त्रः शोधनीयेषु वस्तुषु साधारणो भासते। तत्र सांनाय्यपात्राणि कुम्भीशाखापवित्रादीन्यनन्तरेषु मातरिश्वन इत्यादिमन्त्रेष्ववभासन्त इति संनिधिना तत्पात्रप्रोक्षणे शुन्धध्वमिति मन्त्रो विनियुज्यते। अनुष्ठानसादेश्यात्पशुधर्माणामग्नीषोमीयाङ्गत्वम्। तदेवं क्रमस्य त्रैविध्यं द्रष्टव्यम्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके द्वितीयोऽनुवाकः॥२॥

(अथ प्रथमकाण्डे षष्ठप्रपाठके तृतीयोऽनुवाकः)।
द्वितीयानुवाके हविरनुमन्त्रणमुक्तम्। तृतीयानुवाके भक्षस्येडादिभागस्या-नुमन्त्रणमुच्यते।
अग्निर्मेति। कल्पः - “प्राशित्रेऽवदीयमाने जपति अग्निर्मा दुरिष्टात्पातु सविताऽघशँ सादिति” इति।
मन्त्रवैकल्येन क्रियावैकल्येन वा यदिष्टं दुरिष्टं तत्तस्माद्दुरिष्टादग्निर्मां पातु। अघशंसात्पापरुचेरसुरादेः सविता मां पातु।
यो मेऽन्तीति। कल्पः - “यजमानभागे यो मेऽन्ति दूरेऽरातीयति तमेतेन जेषमिति” इति।
यजमानभाग इत्यस्यावदीयमाने जपतीति शेषोऽनुवर्तते। यो राक्षसादिर्म-मान्तिके दूरे वाऽरातीयति शत्रुत्वमिच्छति तं राक्षसादिकमेतेन यजमानभागेन जेषं जयेयम्।
कल्पः - “इडामाह्रियमाणामनुमन्त्रयते सुरूपवर्षवर्ण एहीति मघोनीत्यन्तः” इति।
सुरूपेति मन्त्रादिः। मघोनीति मन्त्रान्तः।
पाठस्तु- सुरूपवर्षेति। गोशरीरं (रस्य) धारयित्र्या इडाख्याया देवतायाः संबोधनं सुरूपवर्षवर्ण इति। शृङ्गपुच्छादिकं रूपम्। वर्षं वृर्ष्टिः। वर्णः शुक्लकृष्णकपिलत्वादिः। शोभना रूपवर्षवर्णा यस्याः सा तथोक्ता। शृङ्गादीनामतिदीर्घत्ववक्रत्वादिपरिहारेण दर्शनीयत्वं रूपस्य शोभनत्वम्। वर्षं द्विविधमुदकरूपं च। तत्रेडा स्वकीयात्पदाद्घृतं वर्षति। तथा च मन्त्र आम्नायते - “इडायाः पदे घृतवति स्वाहा” इति। “मानवी घृतपदी मैत्रवरुणी” इति। “इडायाः पदं घृतवच्चराचरम्” इति च। तथा ब्राह्मणमप्याम्नायते – “सा यत्र यत्र न्यक्रामत्ततो घृतमपीड्यत तस्माद्घृतपद्युच्यते” इति। वृष्टिर्वा इडा वृष्ट्यै वै निक्रमणे घृतं प्रजाः संजीवन्तीः पिबन्ति” इति च। तदिदं घृतरूपत्वं वर्षस्य शोभनत्वम्। कर्बुरादिसंकीर्णत्वपरिहारेण विस्पष्टं शुक्लकृष्णकपिलत्वादिकं वर्णस्य शोभनत्वम्। तथाविधे हे इडे, इमानस्म-दीयान्भद्राञ्शास्त्रोक्तयज्ञसाधनसंपूर्णान्दुर्यान्यज्ञगृहान्प्रत्यागच्छ। ‘गृहा वै दुर्याः’ इति हि श्रूयते। किंच मामभिल-क्ष्यानुव्रताऽस्मिन्यज्ञव्रतेऽनुकूला सती, एहि आगच्छ। उशब्दः समुच्चये। अपि च हे इडाविशेषा यूयमस्मदीयानि शिरांसि निमृड्ढ्वं नितरां स्नेहपूर्वकाघ्राणा-दिना शोधयध्यम्। त एवेडाविशेषा इडादिभिः सूनर्यन्तैः षड्भिर्नामविशेषैः स्पष्टी क्रियन्ते। इडादीनां गोनामविशेषत्वं सप्तमकाण्डे समाम्नातम् – ‘इडे रन्तेऽदिते सरस्वति प्रिये प्रेयसि महि विश्रुत्येतानि ते अघ्निये नामानि’ (सं॰ का॰ ७ प्र॰ १ अ॰ ६) इति।
एतेषां प्रदर्शनार्थत्वाद्रमत्यादिकमपि द्रष्टव्यम्। हे जुष्टे प्रिये सेव्ये वा ते जुष्टिं त्वदीयां प्रीतिमशीय प्राप्नुयाम्। हे उपहूत इड एहीत्येवमागमनायास्माभिर-नुज्ञातेऽहमपि त उपहवं त्वदीयामनुज्ञामशीय प्राप्नुयाम्। अस्य यज्ञस्य येय-माशीः फलप्रार्थना सा मे सत्या भूयात्। अरेडताऽनादरमकुर्वता मनसा तत्फलं साधियतुं शकेयं त्वत्प्रसादाच्छक्तो भूयासम्। मयाऽनुष्ठितोऽयं यज्ञो निःश्रेणीमिव क्रमेण दिवमारोहतु। केनापि वैकल्यप्रतिबन्धेन भ्रंशो यज्ञस्यानारोहणं, भ्रंशाभावे तु यज्ञ आरोहत्येव। आरुह्य च यस्यां दिवि यज्ञहविर्भाजो निवसन्ति तां दिवं स्वर्गप्रदेशविशेषं गच्छतु। तस्मिन्प्रदेशे गत्वा सभायामुपविष्टा देवा येन मार्गेण हविर्भोजनशालां गच्छन्ति तेनैव मार्गेणायं यज्ञो यज्ञसंबद्धहविर्देवानप्येतु प्राप्नोतु। तेन यज्ञेन तुष्ट इन्द्रोऽस्मास्विन्द्रियं यज्ञान्तरानुष्ठानाय चक्षुरादिपाटवं दधातु स्थापयतु। तादृशानस्मान्रायो यज्ञसाधनानि धनानि यज्ञा उत करिष्यमाणा यज्ञा अपि सचन्तमाश्रयन्तम्। आशिषस्तद्यज्ञफलान्यस्मासु सन्तु। सा तादृशी त्वं नोऽस्मान्प्रति सुप्रतूर्तिः सुष्ठु प्रकर्षेण शत्रूणां हिंसिका मघोनी धनवती च भव।
जुष्टिरसीति। कल्पः - “अवान्तरेडा प्राश्यमानामनुमन्त्रयते जुष्टिरसि जुषस्व नो जुष्टा नोऽसि जुष्टिं ते गमेयमिति” इति।
हेऽवान्तरेडे त्वं जुष्टिरसि प्रीतिरूपाऽसि। नोऽस्माञ्जुषस्व प्रीणय। नोऽस्माभिर्जुष्टाऽसि सेविताऽसि। ते जुष्टिं त्वदीयां प्रीतिं गमेयं प्राप्नुयाम्।
मनो ज्योतिरिति। कल्पः - “अथान्तर्वेद्यद्भिर्मार्जयते मनो ज्योतिर्जुषता-माज्यं विच्छिन्नं यज्ञँ समिमं दधातु। बृहस्पतिस्तनुतामिमं नो विश्वे देवा इह मादयन्तामिति” इति। मनो ज्योतिर्मननीयोऽयमग्निस्तत्तदाहुतिष्वाज्यं सेवताम्। केनापि वैकल्येन विच्छिन्नमिमं यज्ञं वैकल्यपरिहारेण संदधातु। बृहस्पतिः स्वयमेव नोऽस्मदीयमिमं यज्ञ तनुताम्। विश्वे देवा इड यज्ञे मादयन्तां तृप्यन्तु।
ब्रध्न पिन्वस्वेति। कल्पः - ‘बर्हिषदं पुरोडाशमनुमन्त्रयते ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोप दसदिति’ इति।
यज्ञपुरुषवाची ब्रध्नशब्दः। ‘यज्ञो वै ब्रध्नः’ इति श्रुतेः हे ब्रध्न पिन्वस्वास्मानृत्विजश्च प्रीणय। ददतो धनं प्रयच्छतो मम देयं धनं मा क्षीयतामपि तूपचीयताम्। यागं कुर्वतो मम सामर्थ्य मोपदसन्मोपक्षीयतामपि तु पुनः पुनर्वर्धताम्।
प्रजापतेरिति। कल्पः - ‘अथान्वाहार्यं याचति तमन्तर्वेद्यासन्नमभिमन्त्रयते प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वाप्राणापानौ मे पाहि समानव्यानौ मे पाह्यु-दानव्यानौ मे पाह्यक्षितोऽस्यक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिल्ँ लोक इति’ इति।
यद्यप्यन्वाहार्य ऋत्विजां भागस्तथाऽपि तेन प्रजापतेः परितोषात्तद्भागत्वम-प्यविरुद्धम्। स च भाग ऊर्जस्वान्बलवान्। तद्भोजिनां बलप्रदत्वात्। पय-स्वान्क्षीरवत्स्वादुतमः। यद्वा क्षीरं पच्यमानत्वात्पयस्वान्। अत एव सूत्रकार आह – ‘क्षीरे भवतीत्येक’ इति। हेऽन्वाहार्य त्वं शरीरगतान्प्राणादिवायुभेदा-न्पाहि। एक एव वायुः शरीरगतः शरीरगतः स्थानभेदात्कार्यभेदाच्च प्राणादिनामभिर्भिद्यते।
स्थानभेद कैश्चिदुक्तः —
“हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः।
उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः” इति।
उच्छ्वासनिःश्वासौ प्राणव्यापारः। मलमूत्रयोरधःपातनमपानव्यापारः। भुक्तस्यान्नरसस्य शरीरे साम्येन नयनं समानव्यापारः। उद्गारादिरुदानव्यापारः। कृत्स्नासु शरीरनाडीषु व्याप्य प्राणापानवृत्योः संधिकाले शरीरस्य बलप्रदानं व्यानव्यापारः। अत एव च्छन्दोगा आमनन्ति – ‘यद्वै प्राणिति स प्राणो यदपानिति सोऽपानः। अथ यः प्राणापानयोः संधिः स व्यानो यो व्यानः सा वाक्तस्मादप्राणन्ननपानन्वाचमभिव्याहरति। अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाऽग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानँ-स्तानि करोति’ इति। एवं बहुविधव्यापारहेतुत्वात्प्राधान्यं द्योतयितुं व्यानस्य द्विरुक्तिः। यद्वा नागकूर्मादिवायुविशेषाणामत्रान्तर्भामभिप्रेत्य पुनरप्युक्तिः। हेऽन्वाहार्य त्वमक्षितोऽक्षीणोऽसि। अपरिमितो निरुप्य इति ब्राह्मणोक्तेर्दक्षिणाग्नावन्वाहार्यं महान्तमपरिमितमोदनं पचतीति सूत्र-कारोक्तेश्च। तस्मात्परलोकेऽप्यक्षित्यै त्वां ददामीति शेषः। तेनाभिप्रायेण दीयमानत्वादमुत्र परलोके मम भोगाय मा क्षेष्ठाः क्षयं मा प्राप्नुहि। तस्माद-हमप्यमुष्मिल्ँ लोके त्वां यथेच्छमनुभवामीति शेषः।
अत्र विनियोसंग्रहः —
“अग्निः प्राशित्रावदानं यो मेऽन्ति स्वामिभागकम्।
इडाद्वयं सुरूपेति जुष्टिरित्यनुमन्त्रयेत्॥१॥
मनोऽद्भिर्मार्जनं ब्रध्न पुरोडाशं प्रजायतेः।
अन्वाहार्यं मन्त्रयेत मन्त्राः सप्तेह वर्णिताः॥२॥” इति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके तृतायोऽनुवाकः॥३॥

(अथ प्रथमकाण्डे षष्ठप्रपाठके चतुर्थोऽनुवाकः)।
तृतीये भक्ष्यस्येडादिभागस्यानुमन्त्रणमुक्तम्। चतुर्थे शेषाहुतीनामनुयाजा-दीनामनुमन्त्रणमुच्यते।
बर्हिषोऽहमिति। कल्पः - ‘अनूयाजानामिष्टमिष्टमनुमन्त्रयते बर्हिषोऽहं देवयज्यया प्रजावान्भूयासं नराशँसस्याहं देवयज्यया पशुमान् भूयासमग्नेः स्विष्टकृतोऽहं देवयज्ययाऽऽयुष्मान्यज्ञेन प्रतिष्ठां गमेयमिति’ इति।
बर्हिर्नराशंसस्विष्टकृच्छब्दा अनुयाजदेवानामग्निविशेषाणां वाचकाः। बर्हिर्नराशंसयागाभ्यां प्रजापतिः क्रमेण प्रजाः पशूंश्च ससर्जेति यजमानस्य तत्तत्प्रर्थना युक्ता। स्विष्टकृन्मन्त्रस्तु व्याख्यातः’
कल्पः - ‘अथ यत्र होतुरभिजानात्यग्निरिदं हविजुषतेति तद्यजमानमुज्जि-तीर्वाचयति अग्नेरहमुज्जतिमनूज्जेषमिति यथेष्टम्’ इति।
यस्मिन्काले होता सूक्तवाकं पठन्नग्निरिदँ हविरजुषतेत्यादीनि तत्तद्देवता-स्मारकाणि वाक्यानि पठति तस्मिन्कालेऽध्वर्युर्यजमानं तत्तद्देवताविषयाण्यु-ज्जितिवाक्यानि वाचयेत्। अमावास्यायां पौर्णामास्यां वा यां देवतां यजति तदिष्टमनतिक्रम्य तदनुसारेण सूक्तवाकभागा उज्जितिभागाश्च प्रयोक्तव्याः।
पाठस्तु - अग्नेहरमिति। आज्यभागदेवोऽग्निर्हविः सेवित्वा तेन हविषा पुष्टो यज्ञविरो-धिनोऽसुरादीनभिभवन्नुत्कृष्टं जयं प्राप्तवान्। तदीयां तामुज्जितिमनु यजमानोऽहं पापरूपं वैरिणमभिभवन्नुत्कृष्टं जयं प्राप्तोऽस्मि। एवं सर्वत्र योज्यम्।
कल्पः - ‘उक्तं वाजवत्योर्व्यूहनम्’ इति।
वाजशब्दोऽस्ति ययोचोस्ते ऋचौ वाजवत्यौ, तयोचोर्यजमानेन जप्यमानयोरध्वर्युर्जुहूपभृतौ द्वे स्रुचौ व्यूहेत्परस्परविपर्यासेनापसारयेत् तत्प्रकारस्त्वस्माभिराध्वर्यवकाण्डे दर्शित इत्यर्थः।
पाठस्तु- वाजस्य मेति। इन्द्रो वाजस्यान्नस्य प्रसूतिनिमित्तेन स्रुच ऊर्ध्वग्रहणेन मामु-ग्रभीदुत्कर्षं प्रापितवात्। अथ स्रुचो न्यक्कारेण मम सपत्नानधरान्न्यक्कृतान-करोत्। देवा ब्रह्म परिवृढं स्रुचोरुद्ग्राहनिग्राहरूपं कर्मद्वयमवर्धयन्। अथेन्द्राग्नी मम सपत्नान्विषूचीनान्सर्वतः पलायमानान्व्यस्यतां विनाशयेताम्।
एमा अग्मन्निति। कल्पः - “अथ यत्र होतुरभिजानात्याशास्तेऽयं यजमा-नोऽसाविति तद्यजमानं यज्ञस्य दोहं वाचयत्येमा अग्मन्नाशिषो दोहकामा इन्द्रवन्तो वनामहे धुक्षीमहि प्रजामिषमिति” इति।
यस्मिन्काले होता सूक्तवाकं पठन्नाशास्तेऽयमित्यादिवाक्यामुच्चारयति तस्मि-न्कालेऽध्वर्युर्यजमानमेमा अग्मन्नित्यादियज्ञदोहमन्त्रं वाचयति। सूक्तवाक आ-युराशास्ते सुप्रजास्त्वमाशास्त इत्यादय आयुराद्याशिषः समाम्नाताः। इमा आ-शिषोऽग्मन्मां प्रत्यागच्छन्तु। वयमप्यायुरादिदोहं कामयमानास्तत्फलप्रदेनेन्द्रेण युक्तत्वादिन्द्रवन्तस्तमिन्द्रं वनामहे भजामहे। तेन भजनेन पुत्रपौत्रादिप्रजामिष-मिष्यमाणमन्नायुरादिकं धुक्षीमहि कामधेनुसदृशीमिन्द्रदेवतां दुह्यास्म।
रोहितेनेति। कल्पः - “प्रस्तरं प्रह्रियमाणमनुमन्त्रयते रोहितेन त्वाऽग्निर्देवतां गमयतु हरिभ्यां त्वेन्द्रो देवतां गमयत्वेतशेन त्वा सूर्यो देवतां गमयत्विति” इति।
रोहितहर्येतशब्दा अग्नीन्द्रसूर्याणामश्वानभिदधते। हे प्रस्तर तैरश्वैरग्न्या-दयस्त्वां सूक्तवाकोक्तां देवतां गमयन्तु।
वि ते मुञ्चामीति। कल्पः - “परिधीन्विमुच्यमानाननुमन्त्रयते वि ते मुञ्चामि रशना वि रश्मीन्वि योक्त्रा यानि परिचर्तनानि। धत्तादस्मासु द्रविणं यच्च भद्रं प्र णो ब्रूताद्भागधान्देवतास्विति” इति।
लोके ह्यारुरुक्षुरारोहणीयमश्वं रशनादिभिः सर्वतो बध्नाति। तत्र रशनाशब्देन पल्ययनदार्ढ्यायोदरे बध्यमाना तन्तुमयी चर्ममयी वा कक्ष्याऽभिधीयते। रश्मिशब्देनाश्वमुखे संलग्नो हस्तेनाश्वनियमनार्थो रज्जु-विशेष उच्यते। योक्त्रशब्देनाश्वं स्तम्भे बद्धु (न्धु) मुपयुक्तो रज्जुविशेषः। पल्ययनस्य पुरतः पृष्ठतश्चापसरणं वारयितुमुरःपुच्छादौ बन्धनोपयुक्ता रज्जुविशेषाः परिचर्तनशब्देनोच्यन्ते। अश्ववदग्नेश्च रशनादिस्थानीयाः परिधयः। हेऽग्ने तव बन्धनहेतून्परिधिरूपान्रशनादीन्विमुञ्चामि। तद्विमोकेन संतुष्टस्त्वमस्मासु द्रविणं धेहि। यच्चान्यद्भद्रमन्नपानादिकं तदप्यस्मासु धेहि। अस्मदीयहविर्भुक्षु देवतासु भागधान्हविष्प्रदानस्मान्प्रकर्षेण ब्रूहि।
विष्णोः शंयोरिति। कल्पः - ‘शंयुवाकमुक्तमनुमन्त्रयते विष्णोः शंयोरहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयमिति’ इति। शंयुशब्दः सुखमिश्रं बृहस्पतिपुत्रं ब्रूते। ते शंयुं बार्हस्पत्यमिति ब्राह्मणोक्तेः। स च बहुषु कार्येषु व्याप्नुवन्विष्णुरित्युच्यते। तस्य परितोषहेतुत्वात्परिधिप्र-हरणं तदीया देवयज्या तथा यजमानोऽहं कृत्स्नयज्ञेन निष्पन्नां प्रतिष्ठां फलं गमेयं प्राप्नुयाम्।
सोमस्याहमिति। कल्पः - ‘पत्नीसंयाजानामिष्टमनुमन्त्रयते सोमस्याहं देवयज्यया सुरेता रेतो धिषीय त्वष्टुरहं देवयज्यया पशूनाँ रूपं पुषेयमिति’ इति। ‘अथेतरावुपसमस्यति देवानां पत्नीरग्निर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं दवेयज्यया मिथुनेन प्र भूयासमिति’ इति।
चतुर्णां पत्नीसंयाजानां क्रमेण सोमस्त्वष्टा देवपत्न्यो गृहपत्यग्निरिति चतस्रो देवताः। तत्र सोमस्य रेतोधारणाभिमानित्वात्तदीययागेनाहं रेतो घिषीय धारयेयम्। द्विविधं रेतो वन्ध्यमुत्यादकं च। तत्र वन्ध्यव्यावृत्तये सुरेता इति विशेष्यते। त्वष्टा तु निषिक्तं रेतः पश्वादिरूपेण विकारयति। अतस्तद्यागेन पशुरूपं पुषेयं पुष्यासम्। मिथुनत्वसिद्ध्यर्थमेकस्मिन्नेव मन्त्रे तृतीयचतुर्थदेवते समस्येते। या देवपत्न्यो यश्च गृहपतिरग्निस्तदुभयं मिलित्वा यज्ञसंबन्धि मिथुनम्। तदीययागेनाहमपि मिथुनेत पुत्रपुत्रीरूपेण प्रकृष्टो भूयासम्।
कल्पः - ‘वेदे यजमानं वाचयति वेदोऽसि वित्तिरसि विदेयेत्याऽन्तादनुवाकस्य’ इति। वेदे निहिते सतीति शेषः। अन्तर्वेदि वेदं निधायेति सूत्रान्तरे दशंनात्।
पाठस्तु - वेदोऽसीति। वेदोऽसीत्यस्य वाक्यस्यार्थो वित्तिरसीत्यनेन स्पष्टी क्रियते। हे दर्भमय त्वं वेदनामाऽसि। तस्य नाम्नोऽयमर्थः - वित्तिर्द्रव्यलाभसाध-नमित्यतस्तत्प्रसादेनाहं धनं विदेय लभेय। तथैवोपरि व्याख्येयम्। कर्मासि कर्मनामकम(कोऽ)सि। तस्य व्याख्यानं करुणमसीति। क्रियतेऽनेनेति करुणं वेदिसंमार्जनभस्माध्यूहनादिसाधनमित्यर्थः। अतस्त्वयाऽहं संमार्जनादिकं क्रियासम्। तथा त्वं सनिरसि सनिनामाऽसि। तद्व्याख्यानं सनिताऽसीति। धनस्य दाताऽसीत्यर्थः। अतस्त्वत्प्रसादेन सनेयं धनमृत्विगादिभ्यो देयासम्। किंच वेदो भवान्मह्यं रायस्पोषं धनं पुष्टिं ददाति। कीदृशं रायस्पोषं, घृतवन्तं घृतादिभोजनसाधनसमृद्धम्। कुलायिनं निवासहेतुबहुगृहोपेतम्। सहस्रिणं सहस्रलक्षादिसंख्योपेतम्। वाजिनं भोज्यान्नसमृद्धम्।
अत्र विनियोगसंग्रहः -
“बर्हिस्त्रिभिरनूयाजान्मन्त्रयेत्सूक्तवाककम्।
अग्नेरित्यष्टभिर्वाजद्वाभ्यां व्यूहेत्स्रुचौ तथा॥१॥
एमाः स्वनामग्रहणे रोहीति प्रस्तरं त्रिभिः।
वि ते परिधिमोकं तु विष्णोः शं शंयुवाककम्॥२॥
त्रिभिः सोमादिसंयाजान्वेदो वेदिभिमर्शनम्।
अनुवाके चतुर्थेऽस्मिंस्त्रयोविंशतिरीरिताः”॥३॥ इति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके चतुर्थोऽनुवाकः॥४॥

(अथ प्रथमकाण्डे षष्ठप्रपाठके पञ्चमोऽनुवाकः)।
चतुर्थेऽनूयाजादिशेषहोमानुमन्त्रणमुक्तम्। पञ्चमे त्वाप्यायनादिमन्त्रा उच्यन्ते।
आ प्यायतामिति। कल्पः - ‘ध्रुवामाप्यायमानामनुमन्त्रयते - आ प्याययतां ध्रुवा घृतेन यज्ञंयज्ञं प्रति देवयद्भ्यः। सूर्याया ऊधोऽदित्या उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन्निति’ इति। यज्ञंयज्ञं प्रति तां तामाहुतिं प्रति देवयद्भ्यो देवान्होतुमिच्छद्भ्य ऋत्विग्भ्यः। पर्याप्तेन घृतेनेयं ध्रुवाऽऽप्यायतां पुनः पुनः पूर्यताम्। ऊधःशब्देन पयःपूर्णस्त-नसंघोऽभिधीयते। सूर्याशब्देनोषा आदित्यपत्नी विवक्ष्यते। तत्पत्नीत्वं च नक्ष-त्रेष्टावाम्नायते – ‘उषा वा अकामयत। प्रियाऽऽदित्यस्य सुभगा स्यामिति’ (ब्रा॰ का॰ ३ प्र॰ १ अ॰ ६) इति। इवशब्दोऽत्राध्याहर्तव्यः। यथा सूर्याया गोरूपधारिण्या ऊधः पयःपूर्णं तथा ध्रुवा घृतेनाऽऽप्यायताम्। किंच, अदित्या वेदिरूपायाः पृथिव्या उपस्थ उत्सङ्गे वर्तमाना सेयं ध्रुवोरूधारा महाधारा पुनः पुनः सिच्यमानाभिराज्यधारामिरुपेताऽत एव पृथिवी विस्तीर्णा सत्यस्मिन्सर्व-स्मिन्यज्ञे सम्यगाप्यायताम्।
प्रजापतेरिति। कल्पः - ‘अथ यजमानभागं प्राश्नाति प्रजापतेर्विभान्नाम लोकस्तस्मिँस्त्वा दधामि सह यजमानेनेति’ इति।
यद्यपि स्वर्गादिलोकाः सर्वे प्रजापतिना सृष्टत्वात्तत्संबन्धिनस्तथाऽप्यक-र्मभूमित्वेन यजमानान्प्रति विशेषेण न भान्तीति नास्ति एतेषां विभाञ्शब्द-वाच्यः। विभान्नामके प्रजापतिसंबन्धिनि तस्मिन्भूलोके हविर्भागभक्षकेण यजमानेन मया सह त्वां स्थापयामि। सदसीति। कल्पः - ‘पूर्णपात्रे यजमानं वाचयति सादसि सन्मे भूयाः सर्वमसि सर्वं मे भूयाः पूर्णमसि पूर्णं मे भूया अक्षितमसि मा मे क्षेष्ठा इति’ इति।
पूर्णपात्र आनीयमानेऽध्वर्युणेति शेषः। हे पूर्णपात्र त्वं सदसि संयवनादिकार्यकारितया शोभनमसि। अतो मम फलप्रदानेन सद्भूयाः शोभनं भूयाः। सर्वमसि व्युत्सेकेन वक्ष्यमाणेन प्राच्यादिसर्वदिग्व्याप्तमसि। अतो ममापेक्षितं सर्वं कार्यं कर्तुं क्षमं भूयाः। अद्भिः पूर्णमसि। अतो मम प्रयोजनं संपूर्णं कर्तुमुद्युक्तं भूयाः। अक्षितमसि पूर्णत्वादेव क्षयरहितमसि। अतो मम कार्यकरणे मा क्षेष्ठाः क्षयं मा प्राप्नुहि।
प्राच्यां दिशीति। कल्पः - ‘दिशो व्यूहति प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तां दक्षिणायां दिशि मासाः पितरो मार्जयन्तां प्रतीच्यां दिशि गृहाः पशवो मार्जयन्तामुदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्तामूर्ध्वायां दिशि यज्ञः संवत्सरो यज्ञपतिर्मार्जयन्तामिति’ इति।
ऋत्विग्देवाद्यभिमानिनः सर्वे प्राणिनो यागं द्रष्टुं प्राच्यादिदिक्षु निवसन्ति। अत एव ब्राह्मणमाम्नायते – ‘सर्वाणि वै भूतानि व्रक्षमुपयन्तमनूपयन्ति’ इति। मासगृहादीनामचेतनत्वेऽपि तदभिमानिनः पुरुषा इह विवक्षिताः। अन्तर्धानादिशक्तियोगादेतेषामदर्शनमविरुद्धम्। त एते देवादयस्तस्यां तस्यां दिशि मार्जयन्तां शोधयन्ताम्।
विष्णोः क्रम इति। कल्पः - ‘अथोपोत्थाय दक्षिणेन पदा विष्णुक्रमान्क्रमते विष्णोः क्रमोऽस्यभिमातिहा गायत्रेण छन्दसा पृथिवीमनु वि क्रमे निर्भक्तः स यं द्विष्म इति चतुर्भिरनुच्छन्दसं तृतीये चतुर्थमनुवर्तयति न चतुर्थाय प्रक्रामति नाऽऽहवनीयमुपात्येति’ इति।
तृतीये पदेवस्थाय चतुर्थं मन्त्रं पठेत्। चतुर्थमन्त्राय प्रक्रमं न कुर्यात्किंतु मन्त्रमन्तरेण तूष्णीमेव चतुर्थं प्रक्रमं कुर्यात्। तं प्रक्रमं कुर्वन्नहवनीयं नातिक्रामेत्किंत्वाहवनीयात्पश्चादेव वेदिमध्ये चतुरः प्रक्रमान्समापयेत्।
द्वितीयादिमन्त्रपाठस्तु - विष्णोः क्रम इति। अत्र यजमानः स्वात्मानं विष्णुत्वेन भावयेत्। चतुर्णां प्रक्रमाणां प्रदेशान्पृथिव्यादिलोकरूपत्वेन भावयेत्। गायत्र्यादिच्छन्दोभिमानिदेवतास्तेषां प्रक्रमाणामनुग्राहिकाः। अभिमातिशब्दो नरकप्रदं पापमाचष्टे। पाप्मा वा अभिमातिरिति श्रुतेः। हे प्रथमप्रक्रम त्वं पापघाती विष्णोः क्रमोऽसि। गायत्रीछन्दोदेवतयाऽनुगृहीतोऽहमेतत्प्रदेशरूपां पृथिवीमनसृत्य विक्रमे पादं प्रक्षिपामि। यमभिमातिं वयं द्विष्मः सोऽभिमातिर्निर्भक्तोऽ-स्मात्प्रदेशान्निःसारितः। एवमुत्तरत्र योज्यम्। अभिशस्तिरन्यैरापादितोऽ-पवादः। रातिर्दानं द्रव्यलाभः। तन्निवारणमरातिस्तदिच्छन्तो विरोधिनोऽ-रातीयतः(न्त)। तृतीयप्रक्रमस्तान्हन्ति। शत्रुत्वं हिंसकत्वं, तदिच्छन्तो वैरिणः शत्रूयतः(न्तः)। चतुर्थप्रक्रमस्तान्हन्ति।
अत्र विनियोगसंग्रहः —
“आप्या ध्रुवाप्यायनं स्यात्प्रजा स्वाम्यंशभक्षणम्।
सदसीति प्रणीतानां धाराया अभिमन्त्रणम्॥१॥
प्राच्यां तु पञ्चभिः सिञ्चेत्क्रमेद्विष्णोश्चतुष्टयात्।
अनुवाके पञ्चमेऽस्मिन्मन्त्र द्वादश वर्णिताः॥२॥ इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके पञ्चमोऽनुवाकः॥५॥

(अथ प्रथमकाण्डे षष्ठप्रपाठके षष्ठोऽनुवाकः)।
पञ्चम आप्यायनादिमन्त्रा वर्णिताः। षष्ठे सूर्योपस्थानादिमन्त्रा उच्यन्ते। अगन्मेति। कल्पः - ‘अथात्रैव तिष्ठन्नाहवनीयमपतिष्ठते अगन्म सुवः सुवरगन्म संदृशस्ते मा छित्सि यत्ते तपस्तस्मै ते माऽऽ वृक्षीति’ इति।
आद्येन सुवःशब्देन कर्मफलभोगभूमिरभिधीयते। द्वितीयेन सुवःशब्देन मोक्षद्वारभूत आदित्यलोकः। हे आहवनीय त्वत्प्रसादात्प्रथमं फलभोगस्थानं सपुत्रपात्रा वयं गम्यास्म। ततो मोक्षद्वारमादित्यलोकं गम्यास्म। तदर्थमहं तव संदृशः कटाक्षान्मा च्छित्सि विच्छिन्ने मा भूवम्। ते त्वदर्थं यत्तपोऽस्माभिरनुष्ठास्यते तस्मै तपसे ते तवानुग्रहान्माऽऽवृक्षि आ समन्ताद्वृक्तो विच्छिन्नो मा भूवम्।
सुभूरसीति। कल्पः - ‘अथाऽऽदित्यमुपतिष्ठते-सुभूरसि श्रेष्ठो रश्मीनामायुर्धा अस्यायुर्मे धेहि वर्चोधा असि वर्चो मयि धेहीति’ इति।
हे आदित्य त्वं सुभूरसि सुष्ठु भवत्युदेतीति सुभूः। रश्मीनां रश्मियुक्तानां चन्द्रादीनां मध्ये श्रेष्ठोऽसि। आयुषः स्थापयिताऽसि। अतो मय्यायुः स्थापय। एवं ब्रह्मवर्चसेऽपि योज्यम्।
इदमहमिति। कल्पः - ‘अथैभ्यो लोकेभ्यो भ्रातृव्यं निर्भजति-इदमहममुं भ्रातृव्यमाभ्यो दिग्भ्योऽस्यै दिवोऽस्मादन्तरिक्षादस्यै पृथिव्या अस्मादन्नाद्या-न्निर्भजामि निर्भक्तः स यं द्विष्म इति’ इति।
यो भ्रातृव्यो मदीयो वैरी पृथिव्यादिलोकत्रये प्राच्यादिदिक्षु मम विरोधमा-चरति मदीयमन्नाद्यं चापजिहीर्षति अमुं भ्रातृव्यं ततः पृथिव्यादेरिदं निर्भजामि शीघ्रमेव निःसारयामि। इदानीं विरोधमनाचरन्तमपि कालान्तरे तदाचरणशङ्कया यं भ्रातृव्यं वयं द्विष्मः सोऽपि निःसारितः।
सं ज्योतिषेति। कल्पः - ‘सं ज्योतिषाऽभूवमित्यात्मानं प्रत्यभिमृशते’ इति। अहमादित्यज्योतिषा समभूवं संगतो भूयासम्। ऐन्द्रीमिति। कल्पः - ‘दक्षिणमँसमभि पर्यावर्तत ऐन्द्रीमावृतमन्वावर्त इति’ इति।
परमैश्वर्ययोगादादित्य इन्द्रः। तदीयमावर्तनमन्वहमपि प्रादक्षिण्येनाऽऽवर्ते।
समहमिति। कल्पः - ‘अथोदङ्पर्यावर्तते समहं प्रजया सं मया प्रजा समहँ रायस्पोषेण सं मया रायस्पोष इति’ इति’ इति।
अहं प्रजया संगतो भूयासम्। प्रजाऽपि मया संगता भूयात्। रायस्पोषेऽप्येवं योज्यम्।
समिद्ध इति। कल्पः - ‘अथाऽऽहवनीये समिधमादधाति समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासँ स्वाहेति’ इति।
अत्र समित्प्रक्षेपाय स्वाहेति शब्दोऽध्याहृतः। हेऽग्नेऽनया समिधा प्रदीप्तस्त्वं मे मदर्थं दीदिहि दीप्यस्व। तव दीपयिताऽहमपि त्वत्प्रसादाद्दीप्तो भूयासम्। वसुमानिति। कल्पः - ‘अथाऽऽहवनीयप्रुपतिष्ठते वसुमान्यज्ञो वसीयान्भूयासमिति’ इति।
अयं यज्ञस्त्वत्प्रसादाद्वसुमान्धनवान्। अहमपि त्वतप्रसादाद्वसीयान्वसुमत्तरो भूयासम्।
कल्पः - ‘अथाऽऽग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठतेऽग्न आयूँषि पवसेऽग्रे पवस्वेति’ इति।
पाठास्तु - अग्ने आयूँषीति। हेऽग्ने पुत्रपौत्रादियुक्तानामस्माकमायूंषि पवसे शोधयसि। अपमृत्युं परिहरसीत्यर्थः। नोऽस्माकमूर्जं बलमिषमन्नं चाऽऽसमन्तात्सुव प्रेरय देहीत्यर्थः। दुच्छुनां वैरिसेनामारे दूरे बाधस्व निराकुरु। सकारान्तोपःशब्दः कर्मवाची। शोभनमपः कर्म यस्यासौ स्वपाः। हेऽग्ने त्वं स्वपाः सन्नस्मे अस्मान्पवस्व शोधय। मयि ब्रह्मवर्चसं व्यवहारसामर्थ्यं पुष्ठिं धनं च स्थापय।
अग्ने गृहपत इति। कल्पः - ‘अथ गार्हपत्यमेत्योपतिष्ठते - अग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासँ सुगृहपतिर्मया त्वं गृहपतिना भूयाः शतँ हिमा मह्यममुष्मै ज्योतिष्मतीं तामाशिषमाशासेऽमुष्मा अमुष्मा इति यावन्तोऽस्य पुत्रा जाता भवन्ति तन्तव इत्यन्ततः’ इति।
यद्यप्यत्र ‘तामाशिषमाशासे तन्तवे ज्योतिष्मतीं तामाशिषमाशासेऽमुष्मै ज्योतिष्मतीम्’ इत्याम्नायपाठस्तथाऽप्यदःशब्दस्योत्पन्नपुत्रविषयत्वात्तन्तुशब्द-स्यानुत्पन्नपुत्रविषयत्वान्नायं क्रमो न्याय्य इत्यभिप्रेत्य शाखान्तरानुसारेण सूत्रकारो मन्त्रं पपाठ। अयं गार्हपत्योऽग्निरस्मिन्गृहे सर्वदा धार्यमाणत्वाद्गृहपतिः। हे गृहपतिना गृहपतेऽग्ने त्वयाऽनुगृहीतोऽहं सुष्ठु गृहपतिर्भूयासम्। त्वमपि गृहपतिना मया पजितः सुष्ठु गृहपतिर्भूयाः। हिमशब्दो हेमन्तवाची सन्संवत्सरमुपलक्षयति। शतसंवत्सरानग्निमिन्धानोऽहं तन्तवेऽनुन्पन्नबहुपुत्रोत्पत्तये ज्योतिष्मतीं तदुत्पत्तिप्रकाशनसमर्थां तामाशिषमाशासे। अमुष्मा उत्पन्नपुत्राय देवदत्तादिनामकाय ज्योतिष्मतीमतिबुद्धिप्रकाशनसमर्थां तामाशिषमाशासे।
कस्त्वेति। कल्पः - ‘कस्त्वा युनक्ति स त्वा वि मुञ्चत्विति यज्ञं विमुञ्चति’ इति। कशब्दः प्रजापतिमाचष्टे। हे यज्ञ पूर्वं यः प्रजापतिस्त्वां युनक्ति युक्तवान्स एवेदानीं त्वां विमुञ्चतु।
अग्ने व्रतपत इति। कल्पः - ‘अथाऽऽहवनीये समिधमादधाति अग्ने व्रतपते व्रतमचारिषं तदशकं तन्मेऽराधीति’ इति।
यज्ञरूपस्य व्रतस्य पते हेऽग्ने त्वत्प्रसादादिदं व्रतं चरितवानस्मि। तद्व्रतं समापयितुमशकं शक्तोऽभूवम्। मदीयं तद्व्रतमराधि समृद्धमभूत्।
यज्ञो बभूवेति। कल्पः - ‘अथ यज्ञस्य पुनरालम्भे जपति यज्ञो बभूव स आ बभूव स प्र यज्ञे स वावृधे। स देवानामधिपतिर्बभूव सो अस्माँ अधिपतीन्करोतु वयँ स्याम पतयो रयीणामिति’ इति।
इदानीमनुष्ठितोऽयं यज्ञो बभूव संपूर्णोऽभूत्। स यज्ञ आबभूव पुनरप्यावृत्तो भवतु। स यज्ञः प्रजज्ञेऽस्माननालस्येनानुष्ठातॄन्प्रज्ञातवान्। अत एवास्मद्गृहे स यज्ञो वावृधे पुनःपुनरनुष्ठानेन वर्धताम्। स यज्ञोऽस्माभिरिज्यमानानां देवा-नामधिकं पालयिता भवतु। स यज्ञोऽस्मानप्यधिपतीनधिकमनुष्ठानस्य पालकान्करोतु। वयमपि तस्य यज्ञपुरुषस्य प्रसादाद्रयीणां यज्ञसाधनानां धनानां पतयो भूयास्म।
गोमाँ अग्न इति। कल्पः - ‘अथ प्राङुत्क्रम्य जपति गोमाँ अग्नेऽविमाँ अश्वी यज्ञो नृवृत्सखा सदमिदप्रमृष्यः। इडावाँ एषो असुर प्रजावान्दीर्घो रयिः पृथुबुध्नः सभावानिति’ इति।
हेऽग्ने पुनरावर्तनाय प्रार्थ्यमानो यज्ञ एतैर्विशेषणैर्विशिष्टो भूयात्। बहवो गावोऽस्य सन्तीति गोमान्। एवमविमानश्वीति योज्यम्। नृवत्सखा, ऋत्विग्रूपैर्मनुष्यैर्युक्ता देवाः सखायो यस्य यज्ञस्य स तादृशः। सदमित्सदैताप्रमृष्योऽनभिभवनीयः। इडावानन्नवान्। प्रजावान्बह्वपत्यप्रदः। दीर्घः पुनः पुनरनुष्ठानादविच्छिन्नः। रयिर्बहुधनोपेतः। पृथुबुध्नो विस्तीर्णमूलो मन्त्रेष्वनुष्ठानेषु च मूलभूतेषु वैकल्यरहितः। साभावानविकलं यज्ञं द्रष्टुमिच्छन्त्या महत्य विद्वत्सभया युक्तः। असुः प्राणः सोऽस्यास्तीत्यसुरः, हेऽसुर प्राणवन्नग्न एष पुनः प्रार्थ्यमानो यज्ञ उक्तविशेषणविशिष्टो भूयात्।
अत्र विनियोगसंग्रहः —
“अगन्पूर्वाग्न्युपस्थानं सुभूर्भानोरुपस्थितिः।
इदं निःसारयेच्छत्रून्संज्योति स्वाभिमर्शनम्॥१॥
ऐन्द्रीं प्रदक्षिणावृत्तिः समहं तद्विपर्ययः।
समिद्धः समिदाधानं वसु पूर्वाग्न्युपस्थितिः॥२॥
अग्न आयूत्रिभिर्मन्त्रैरपराग्नेरुपस्थितिः।
कस्त्वा यज्ञविमोकः स्यादग्ने तद्व्रतमुत्सृजेत्॥३॥
यज्ञेति पुनरालम्भं जपेद्गोमांस्तु गोमतीम्।
षष्ठेऽनुवाक एतस्मिन्मन्त्राः पञ्चदशेरिताः॥४॥” इति।
अथ मीमांसा।
नवमाध्यायस्य प्रथमपादे चिन्तितम्-
अगन्मादेः स्वर्गदेवौ हेतू यद्वा प्र(ऽज्ञ)चोदितम्।
आद्यौ लिङ्गान्मैवमङ्गस्यापूर्वाकाङ्क्षितत्वतः॥
दर्शपूर्णमासयोर्मन्त्रौ श्रुतौ - अगन्म सुवरित्येकः। अग्नेरहमुज्जितिमनूज्जेषमि-त्यपरः। तयोरुभयोः क्रमेण स्वर्गदेवौ प्रयोजकौ। कुतः। तल्लिङ्गदर्शनात्। तथा सति सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकाम इत्यत्र स्वर्गाग्न्योरभावान्नास्त्यूह इति प्राप्ते ब्रूमः — चोदितं यदपूर्वं तस्यैव फलत्वेनानुष्ठेयतयेतिकर्तव्यताकाङ्क्षा युक्ता। ततो मन्त्रयोरपूर्वं प्रयोजकम्। तथा सति विकृतावगन्म ब्रह्मवर्चसं सूर्यस्यहमुज्जितिमनूज्जेषमित्येवं मन्त्रयोरस्त्यूहः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके षष्ठोऽनुवाकः॥५॥

(अथ प्रथमकाण्डे षष्ठप्रपाठके सप्तमोऽनुवाकः)।
एतैः षड्भिरनुवाकैर्याजमानमन्त्र उदीरिताः। अथानुवाकपञ्चकेन याजमान-ब्राह्मणमुच्यते। तत्रास्मिन्सप्तमानुवाके देवतापरिग्रहादिर्विधीयते। आहवनीया-दिष्वग्निष्वध्वर्युणाऽन्वाधीयमानेषु तस्मिन्नन्वाधानकाले यजमानोऽच्छिद्रका-ण्डाम्नातानग्निं गृह्णामीत्यादिमन्त्राञ्जपेत्। सोऽयं देवतापरिग्रहः। असौ चाऽऽपस्तम्बसूत्रे विस्पष्टः।
आपस्तम्बो ह्यग्निं गृह्णामीत्यादिमन्त्रानुच्चर्येदमाह – ‘आहवनीयेऽन्वधीयमाने जपति’ इति। अन्तराऽग्नी पशव इति मन्त्रमुच्चार्येदमाह – ‘अन्तराऽग्नी तिष्ठञ्जपति’ इति। इह प्रजा इत्यादिमन्त्रद्वयमुच्चार्येदमाह – ‘गार्हपत्यम्’ इति। अन्वाधीयमानमनुमन्त्रयत इति शेषः। अयं पितृणामिति मन्त्रमुच्चार्येदमाह – ‘दक्षिणाग्निम्’ इति। अत्रापि पूर्ववद्वाक्यशेषः।
तमिमं देवतापरिग्रहं विधातुमादौ प्रस्तौति-
यथा वा इति। एकस्मिन्नेव काले संहत्य प्राप्ताः समृतसोमाः सोमयागा एकस्मिन्नेव वसन्तर्तौ बहूनां यजमानानां सोमयागाः संहत्य प्राप्यन्त एवमेव बहूनां यजमानानामेते दर्शपूर्णमासा यज्ञा एकस्मिन्नेव पर्वणि संहत्य प्राप्य-न्ते। देवताश्चाग्न्यादयो या एकस्य यजमानस्य ताश्चान्यस्यापि। तथा सति देवानां मनसि संकटमुत्पद्यते। तत्संकटमहशब्देन द्योत्यते। देवानां पक्षपातस्यानुचितत्वात्। कस्य यजमानस्य यज्ञं देवा आगच्छन्ति कस्य वा यज्ञं नाऽऽगच्छन्तीति महदेतत्संकटम्। तस्य संकटस्यायं परिहारः — बहूनां यजमानानां मध्ये यो यजमान इतरेभ्यः पूर्वः प्रवृत्तो देवताः परिगृह्णाति स यजमान एताः परिगृहीता देवताः परेद्युर्यष्टुमर्हति। न च सर्वेऽपि यजमानाः परस्परमात्सर्येण प्रथमं प्रवर्तन्त इति स दोषस्तदवस्थ इति शङ्कनीयम्। परिग्रहमन्त्रपाठेनैव देवसंकटस्य परिहृतत्वात्। यागस्योद्देशत्यागमात्रत्वाद्दे-वानामागमनमन्तरेणापि सोऽनुष्ठातुं शक्यते। योगसामर्थ्येन वा बहूनि शरीराणि स्वीकृत्य तत्र सर्वत्राऽऽगमिष्यन्ति। इत्थं च परिहारं भगवान्बा-दरायणो देवताधिकरणे विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनादिति सूत्रयामास। किं बहुनाऽस्य वाक्यस्य देवतापरिग्रहविध्यर्थवादत्वान्न किंचिद्देवानां संकटमस्ति।
देवतापरिग्रहार्थानां देशविशेषाणां विधिमर्थवादेनोन्नयति - एतद्वा इति। वसून्रुद्रानादित्यानिन्द्रेण सह देवता इत्याहवनीयार्थमन्त्रलि-ङ्गादाहवनीयो देवानां स्थानम्। अन्तराऽग्नी पशव इति मन्त्रलिङ्गादाहवनी-यगार्हपत्ययोर्मध्यं पशूनां स्थानम्। इह प्रजा विश्वरूपा रमन्तामिति मन्त्रलि-ङ्गाद्गार्हपत्यो मनुष्याणां स्थानम्। अन्वाहार्यः पच्यतेऽस्मिन्नित्यन्वाहार्यपचनो दक्षिणाग्निः। अयं पितृणामग्निरिति मन्त्रलिङ्गादसौ पितृणां स्थानम्।
देशविधिमन्त्रानुन्नीय तेषु देशेष्ववस्थितस्य देवतापरिग्रहं विदधाति - अग्निं गृह्णातीति। स्पष्टोऽर्थः।
मन्त्रेण यज्ञरूपव्रतस्वीकारं विधातुं प्रस्तौति - व्रतेनेति। वक्ष्यमाणमन्त्रपाठरूपेण व्रतस्वीकारेणैव व्रतपतिरयमग्निर्मेध्यो यागयोग्यो भवति। ब्राह्मणश्च यजमानो व्रतधारी भवति।
समन्त्रकव्रतस्वीकारं विधत्ते - व्रतमुपैष्यन्निति। मन्त्रोऽयमतीतप्रश्ने मम नामेत्यनुवाके समाम्नातः। मन्त्रगतं व्रतपतिशब्दं मन्त्रतात्पर्यं च व्याचष्टे – अग्निर्वा इति।
तिथिविशेषेण व्रतोपायनस्य कालविशेषं विधत्ते - बर्हिषेति। बर्हिषा बर्हिराहरणेनोपलक्षिते काले वत्सैर्वत्सापाकरणेनोपल-क्षिते काल इत्यर्थः। एतदुक्तं कालद्वयमेतयोस्तिथिविशेषगतयोर्व्रतस्वीकारयोरुचितं स्थानमिति शाखान्तरप्रसिद्धिः।
अथोपस्तरणं विधत्ते। अध्वर्युर्यदा दर्भैराहवनीयमार्हपत्यौ परिस्तृणाति तदानीमच्छिद्रकाण्डपठितस्योभावग्नी उपस्तृणुत इत्यादिमन्त्रस्य यजमानेन जप उपस्तरणम्। अथवाऽध्वर्युकर्तृकं परिस्तरणम्। तदिदमस्मिन्काण्डे विदधाति-
उपस्तीर्य इति। परोक्षकथनेन विधिः प्रशस्यते।
विहितमुपस्तरणमुपपादयति - मनुष्या इदिति। इन्न्वा इति निपातत्रयसमुदायोऽपिशब्दार्थं ब्रूते। अत्य-न्तदरिद्रा मनुष्या अपि शीतवातादिपरिहाराय तृणादिभिराच्छन्नं गृहमिच्छन्ति महाप्रभावा देवा उपस्तरणमिच्छन्तीति किमु वक्तव्यम्। येषां देवानामिच्छानुसारेण तदा तदा तत्र तत्र नवावसानं नूतनगृहं निष्पाद्यते। यो यजमान एवं विद्वानग्निमुपस्तृणाति अस्मिन्यजमाने परेद्युर्यक्ष्यमाणे सति पुर्वेद्युस्तत्समीपे हविर्भुजो देवता निवसन्ति।
आरण्यं सायमाशेऽश्नातीति सूत्रकारेण यदारण्यधान्यभोजनमुक्तं तदिदं विधातुं प्रस्तौति - यजमानेनेति। अत्रायं विचारः। किं ग्राम्यधान्यस्यान्नं भोक्तव्यमारण्यधा-न्यस्य वा भोजनमेव वा वर्जनीयमिति। तत्राऽऽरण्यधान्यभोजनपक्षामभ्युपे-त्येतरपक्षद्वयमपोद्यते। पशवो हि द्विविधाः ग्राम्या आरण्याश्च। गवाश्वाजा-विपुरुषगर्दभोष्ट्राः सप्त ग्राम्याः। द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटनादेयाः सप्ताऽऽरण्याः त एत उभयेऽपि यजमानेनावरुध्याः संपादनीया इति। बुद्धिमन्त आहुः। यदि ग्राम्यान्व्रीह्यादीन्प्रत्युपवसेद्भोजनं वर्जयेत्तेन वर्जनेन ग्राम्यान्पशून्संपादयति। यदारण्यास्य नीवारादेरन्नं भुञ्जीत तेन भोजनेनाऽऽरण्यान्पशून्संपादयति। यद्यनाश्वानुभयविधभोजनवर्जमुपवासं कुर्यात्तदानीमयं व्रतविशेषः पितृदेवत्यो भवेत्। पितरो ह्यनश्नन्तं श्राद्धकर्तारमभिनन्दन्ति।
इदानीं विदधाति - आरण्यस्येति। इन्द्रियाभिवृद्धिहेतुरारण्यधान्यम्।
अथ पक्षान्तरं विधातुं भोजनयोर्दोषमाह - यदनाश्वानिति। क्षोधुकः क्षुधाशीलः। अभिमन्येत हन्यात्। विधित्सितं पक्षान्तरं विदधति- अप इति।
उक्तं दोषद्वयमत्र परिहरति - तन्नेवेति। अशितास्वप्स्वदनाभावादशितमिव न भवति, क्षुच्छान्तेरनशित-मिव न भवति। अतो न दोषद्वयम्।
अथोपवासपक्षं विधत्ते - वज्रो वा इति। यज्ञस्य नरकपाताद्यनिष्टनिवारकत्वाद्वज्रत्वम्। क्षुधो वैरित्वं प्रसिद्धम्। यज्ञाङ्गभूतोपवासलक्षणेनानेन वज्रेणैव भाविजन्मनि प्राप्स्यमानं साक्षाद्भ्रातृव्यं मुख्यवैरिणं क्षुद्रूपं हन्ति। अनेन यज्ञेन जन्मान्तरेऽन्नबाहुल्यस्य लप्स्यमानत्वात्।
अथ मीमांसा।
षष्ठाध्यायस्य चतुर्थपादे चिन्तितम्-
वत्सैर्दर्शे सवत्सस्य वत्समात्रस्य वा विधिः।
व्रतकालं लक्षयेद्वा वत्सयुक्ते व्रते विधिः॥
भाति रागाद्व्रतप्राप्तेर्वत्समात्रं विधीयते।
व्ररततयाकरणं वत्सः कालगीस्तदपाकृतेः” इति॥
दर्शपूर्णमासयोः श्रूयतेः - “बर्हिषा पूर्णमासे व्रतमुपैति वत्सेरमावास्यायाम्” इति। व्रतं भोजनम्। अत एवाऽऽम्नायते - “अमाषममाँ सं बहुसर्पिष्कं व्रतयति” इति। तदेद्व्रतं यत्ससंयुक्तमत्र विधीयते। कुतः। वत्सैरिति तृतीयया साहित्यस्य प्रतिभानादित्येकः पक्षः। रागत इत्येव प्राप्तत्वाद्व्रतं न विधीयते किंतु वत्समात्रं विधेयमिति द्वितीयः पक्षः। न हि वत्सः पाण्यादिवद्व्रतस्य करणम्। ततो न तस्य विधिः। किंतु वत्सानामपाकरणेन काल उपलक्ष्यते। तस्मिन्काले व्रतमुपेयात्। एवं मासे बर्हिःसंपादनकाले व्रतमुपेयात्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके सप्तमोऽनुवाकः॥७॥

(अथ प्रथमकाण्डे षष्ठप्रपाठकेऽष्टमोऽनुवाकः )।
सप्तमे देवतापरिग्रहादिरुक्तः। अष्टमे यज्ञायुधसंभृतिरुच्यते।
तत्र प्रथमं तावदपां प्रणयनं विधातुं प्रस्तौति - यो वै श्रद्धामिति। यो यजमानो मनसि देवतादिविषयां श्रद्धामसंनिधाप्य यष्टुं प्रयुङ्क्ते तदीयमिष्टं देवा ऋत्विजश्च न विश्वसन्ति।
विधत्ते - अपः प्रेति। अपां श्रद्धाहेतुत्वमैतरेयिणः समामनन्ति - “आपो ह्यस्मै श्रद्धां संनमन्ते पुण्याय कर्मणे” इति। प्रत्यक्षं चैतत्स्नानाचमनादियुक्तस्य देवपूजादावैकाग्न्यातिशयदर्शनात्। अतोऽपां प्रणयनेन श्रद्धाया उपस्थापितत्वाद्देवानामृत्विजां चैतदीये यज्ञे विश्वासो युक्तः। यद्यपि पौरोडाशिककाण्डेऽध्वर्युकर्तृकमिदं प्रणयनं विहितं तथाऽपि शाखाभेदादपुनरुक्तिः। शाखाभेदश्चाऽऽपस्तम्बेन तत्रत्यमन्त्राणां साकल्येनानुवादाद्विधिपुनरुक्तिबाहुल्याच्चावगन्तव्यः।
पृथिवीं च मनसा ध्यायतीति सूत्रकारेण प्रणयनकाले ध्यानमुक्तं, तदिदं विधातुं विधत्ते - तदाहुरिति। तत्तत्रापां प्रणयने केचिदभिज्ञा इत्याहुः। किमिति। एता आपो वर्त्रं शरीरस्य वृत्तिमतिनेदन्ति अतिक्रामन्ति, वाचमप्यतिक्रामन्ति, न खलु प्रवहन्तीनां नद्यादिगतानामपां निवारणं शरीरेण वाचा वा कर्तुं शक्यते। मन एवैकमेता आपो नातिक्रामन्तीति। तदुत्तरत्र स्पष्टी करिष्यते।
विधत्ते - मनसेति। पृथिवीं ध्यायन्निति शेषः। ब्राह्मणान्तरमनुसृत्य सूत्रकारेणोक्त-त्वात्।
अनतिक्रमणमुपपादयति - इयं वा इति। मनसाः पृथिवीवद्व्याप्तुं शक्यत्वात्पृथिवीत्वम्। न हि नद्यादिगता आपः पृथिव्या अतिक्रमणे शक्ताः।
मनसा प्रणयनस्य वेदनं प्रशंसति - अस्कन्नहविरिति।
विधत्ते - यज्ञायुधानीति। वक्ष्यमाणानि स्फ्यकपालादीनि यज्ञस्य साधनत्वादायुधा-नीत्युच्यन्ते। तान्यध्वर्युः संपादयेत्। साध्यसाधनयोरभेदोपचाराद्यज्ञस्यैव तदायुधत्वम्। तत्तेनाऽऽयुधसंपादनेन यज्ञमेव संपादयति।
अत्रऽऽयुधानां प्रयोगस्त्रिविधः। एकैकस्य प्रयोगः सर्वेषां सह प्रयोगो द्वयो-र्द्वयोः प्रयोगश्चेति। तत्र तृतीयं विधातुमितरपक्षौ निन्दति - यदेकमेकमिति। ईदृशौ पैतृकमानुषपात्रप्रयोगौ गृह्यकारेण दर्शितौ - द्वंद्वं व्यञ्चि पात्राणि प्रयुनक्ति देवसंयुक्तानि सकृदेव मनुष्यसंयुक्तान्येकैकशः पितृसंयुक्तानीति।
विधत्ते - द्वेद्वे इति। द्वित्वसाम्येन याज्यानुवाक्यारूपत्वं स्रीपुरुषात्मकमिथुनत्वं च।
संपादयनीयानां यज्ञायुधानां स्वरूपविशेषं विधातुं तद्वेदनं प्रशंसति - यो वै दशेति। यो यजमानो मुखतो यज्ञारम्भे दशैतानि संपादनीयानीत्यनु-संधत्तेऽस्य यज्ञो निर्विघ्नेनानुष्ठानक्षमो भवति।
आयुधविशेषस्वरूपाणि विधत्ते - स्फ्यश्चेति। स्फ्यो नाम बाहुमात्रः खड्गाकारः काष्ठविश्षः। कपालानि भाण्डलेशसदृशानि। अग्निहोत्रहवणीलक्षणं सूत्रकार आह - वैकङ्कत्यग्नि-होत्रहवणी बाहुमात्र्यरत्निमात्री वा प्रसृताकृतिरिति। शम्या बाहुमात्रो गदाकृतिः काष्ठविशेषः। शिष्टानि शूर्पादीनि लोकप्रसिद्धानि। पुनरपि दशायुधवेदनप्रशंसनमुपसंहारार्थम्। चकाराः परस्परसमुच्चयार्था अनुक्तदशायुधसमुच्छयार्था वा।
तानि सर्वाण्यापस्तम्बो दर्शयति - “उत्तरेण गार्हपत्याहवनीयौ दर्भान्सँस्तीर्य द्वंद्वं न्यञ्चि पात्राणि प्रयुनक्ति दशापराणि दश पूर्वाणि स्फ्यश्च कपालानि चेति यथासमाम्नातपराणि प्रयुज्य स्रुवं जुहुमुपभृतं ध्रुवां वेदं पात्रीमाज्यस्थालीं प्राशित्रहरणमिडापात्रं प्रणीताप्रणयनमिति पूर्वाणि तान्युत्तरेणावशिष्टान्यन्वाहार्यस्थालीमश्मानमुपवेषं प्रातर्दोहपात्राणि” इति।
यजमानस्याभिमन्त्रणं विधातुं प्रस्तौति - यो वै देवेभ्य इति। प्रतिप्रोच्य होष्यामीति प्रतिश्रुत्य।
विधत्ते - हविर्निरुप्यमाणमिति। अग्निँ होतारमित्यादिमन्त्रः पूर्वप्रपाठके मम नामेत्यनुवाके समाम्नातो व्याख्यातश्च। देवानामाह्वातारं तमग्निमिह यज्ञेऽहमाह्वयामि। आ यन्तु देवाः सुमनस्यमाना वियन्तु देवा हविषो मे अस्येत्यस्मिन्नुत्तरार्धे देवेभ्यः प्रतिश्रवणं विस्पष्टम्। अस्य हविषो वियन्तु इदं हविरश्नन्त्वित्यर्थः।
इदमिभिमन्त्रणं पुनः प्रशंसति - एष वा इति। एष मन्त्रप्रयोगो यज्ञस्वीकाररूपः। हविषो वियन्त्वित्यनेन देवतामुद्दिश्य द्रव्यत्यागस्य सूचितत्वात्।
यजमानस्य मौनं विधत्ते - तदुदित्वेति। तदभिमन्त्रणमन्त्रवाक्यम्। मौनेन यज्ञो बहिरप्रकाशितत्वाद्धृतो भवति।
पुनरपि मौनं प्रशंसति - अथो मनसेति। सति वाग्व्यापारे विवक्षितशब्दविशेषतदर्थचिन्तया तत्प्रसक्तानुप्रसक्तचिन्तया च विक्षिप्तं मनः प्रकृताद्यज्ञात्स्खलति। अतः प्रजापतिरविक्षेपाय मनसैव यज्ञमकरोत्। तद्वद्यजमानोऽपि तत्तेन मैनेन यज्ञं तनुते। तथा सति स्खलनाभावाद्रक्षसामत्र प्रचारो न भवति।
यज्ञयोगविधिमनुन्नेतुं प्रस्तौति - यो वै यज्ञमिति। यो यजमानो यज्ञयोगकाले समागते सत्यप्रमत्तो यज्ञं युनक्ति स एव युञ्जानेषु यजमानेषु युङ्क्त इति व्यपदेशमर्हति। अकाले तु योगः कृतोऽप्यकृत एव स्यात्।
योगविध्युन्नयनमभिप्रेत्य तत्र करणभूतं मन्त्रमुदाहृत्य व्याचष्टे- कस्त्वा युनक्तीति। अयमपि मन्त्रः पूर्वप्रपाठके समाम्नातः। यः प्रजापतिः सर्वदा सर्वेषां यजमानानां यज्ञं युनक्ति स एवाद्य मदीयं यज्ञं युनक्तु रथेऽश्वमिव मयि यज्ञं संबध्नातु। अनेन मन्त्रेण यज्ञं युञ्ज्यादित्युन्नीतो विधिः।
अथ मीमांसा।
तृतीयाध्यायस्य प्रथमपादे चिन्तितम् -
द्रव्यस्य स्फ्यकपालादेः सांकर्यं वा व्यवस्थितिः।
यज्ञायुधत्वं सर्वाङ्गसमं तेनात्र संकरः।
वाक्यस्योद्धननादेः स्याद्वैयर्थ्यं संकरे सति।
अनुवादो ह्यायुधोक्तिर्व्यवस्था तेन पूर्ववत्।
दर्शपूर्णमासयोः श्रूयते - “स्फ्यश्च कपालानि चाग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच्चोपला चैतानि वै दश य-ज्ञायुधानि” इति। स्फ्यशब्देन खड्गाकारं काष्ठमुच्यते। अग्निहोत्रहवणी हविर्नि-र्वापसाधनं काष्ठपात्रम्। शम्या गदाकारं काष्ठम्। तत्र व्रीह्यादिद्रव्येष्ववघाता-दिसंस्काराणां सांकर्ये निराकृतेऽपि स्फ्यकपालादिद्रव्याणामुद्धननपुरोडाशश्र-पणाद्यङ्गक्रियासु सांकर्यं निराकर्तुमशक्यम्। येन केनापि द्रव्येण यस्यां कस्यांचित्क्रियायां कृतायामपि श्रूयमाणस्य यज्ञायुधत्वस्याविरोधात्। न च (ह्य) व्यवस्थामात्रेण यज्ञसाधनत्वमपैतीति प्राप्ते ब्रूमः - स्फ्येनोद्धन्ति। कपालेषु श्रपयति। अग्निहोत्रहवण्या हवीँषि निर्वपति। शूर्पेण विविनक्ति। कृष्णाजिनमधस्तादुलूखलस्यावस्तृणाति। शम्यायां दृषमुपदधाति। उलूखलमुसलाभ्यामवहन्ति। दृषदुपलाभ्यां पिनष्टीत्येतेषां विशेषसंयोगबोधकानां वाक्यानां वैयर्थ्यं सांकर्यपक्षे प्रसज्येत। व्यावस्थापक्षेऽपि संबन्धसामान्यबोधकं यज्ञायुधवाक्यमनर्थकमिति चेन्न। उद्धननादिवाक्यसिद्धार्थानुवादित्वात्। न च वैपरीत्येनोद्धननादिवाक्या-नामेवानुवादित्वमिति वाच्यम्। बहुवैयर्थ्यस्य जघन्यत्वात्। न चात्यन्तं यज्ञा-युधानुवादस्य वैयर्थ्यम्। यज्ञायुधानि संभरतीत्यासादनविधानायोपयुक्तत्वात्। तस्मादवघातादिसंस्कारा इव स्फ्यकपालादिद्रव्याणि व्यवस्थितानि।
चतुर्थाध्यायस्य प्रथमपादे चिन्तितम् -
दश यज्ञायुधानीति हविष्ट्वेन विधिर्न वा।
आद्योऽप्राप्तेः पुरोडाशे समुच्चयविकल्पने॥
सार्धमुत्पत्तिशिष्टेन विकल्पादिर्न युज्यते।
स्फ्येनोद्धन्तीति यत्प्राप्तं तदत्रानूद्य संस्तवः॥
दर्शपूर्णमासयोः स्फ्यश्च कपालानि चेत्याद्यनुक्रम्यैतानि वै दश यज्ञायुधा-नीत्याम्नातम्। तानि चात्र हविष्ट्वेन विधीयन्ते विधीयन्ते। कुतः। मानान्त-रैरप्राप्तत्वेनापूर्वार्थत्वात्। यदि तत्र पुरोडाशो हविर्भवेत्तदा तेन सहैतेषां समुच्चयो विकल्पो वाऽस्त्विति प्राप्ते ब्रूमः - आग्नेयोऽष्टाकपाल इत्युत्पत्ति-शिष्टेन पुरोडाशेन सह पश्चाच्छिष्टानामायुधानां विकल्पो समुच्चयो वा न संभवति। आयुधत्वं यज्ञसाधनत्वम्। तच्च स्फ्येनोद्धन्ति कपालेषु श्रपयतीत्यादिशास्त्रसिद्धमेवात्रानूद्य यज्ञायुधानि संभरतीत्येष संभरणविधिः स्तूयते। तस्मान्नास्ति हविष्ट्वम्।
एकादशाध्यायस्य तृतीयपादे चिन्तितम् -
देशपात्रर्त्विजोऽन्यस्मिन्प्रयोगेऽन्य उतैच्छिकाः।
भुक्त्यर्थपर्णवत्तेऽन्ये वासोवत्ते स्युरैच्छिकाः॥
समे यजेतेत्युक्तो देशः। जुह्वादीनि पात्राणि। अधर्युप्रमुखा ऋत्विजः। ते चैकस्मिन्प्रयोग उपयुक्ता निरिष्टकत्वान्न प्रयोगान्तरमर्हन्ति। इष्टान्निर्गता निरिष्टाः। कुत्सिता निरिष्टा निरिष्टका दुष्टाः। पुनःप्रयोगानर्हा इत्यर्थः। यथा भोजन उपयुक्तं कदलीपलाशादिपर्णं प्रक्षाल्यापि न पुनः शिष्टास्तत्स्वी कुर्वन्ति तथाऽत्राप्यन्ये देशादयः प्रयोगान्तरे संपाद्या इति प्रप्ते ब्रूमः — यथा वस्त्रं पूर्वदिने प्रावरणायोपयुक्तमिति दिनान्तरे निरिष्टकं न भवति, शिष्टास्तद्वाऽन्यद्वा स्वेच्छया दिनान्तरे स्वी कुर्वन्ति तद्वदत्रापि द्रष्टव्यम्। इदं निरिष्टकमिदं नेत्यत्र शिष्टाचार एव प्रमाणम्। शिष्टाश्च देशादीन्नियमेन न त्यजन्ति। तस्मादैच्छिकाः।
तत्रैवान्यच्चिन्तितम् -
मा भूदन्यत्वनियमः पात्रे तन्त्रं किमैच्छिकम्।
नियतं वाऽग्रिमो देशवन्मैवं प्रतिपत्तितः।
देशपात्रर्त्विजां साधारण्येनान्यत्वनियमे निवारिते सति पुनः पात्रेषु नियमा-न्तरसदसद्भावश्चिन्त्यते। प्रथमप्रयोगे पात्राणि तान्येव प्रयोगान्तरेष्विति नियमो नास्त्युतास्तीति संशयः। यथा देशकर्तृषु त एवेति नियमो नास्त्यैच्छिकस्योक्तत्वात्तथा पात्रेष्वपीति चेन्मैवम्। आमरणं पात्राणं धारणीयत्वात्। आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेति प्रतिपत्तिविधानेनाऽऽमरणं धारणमेवं गम्यते। ननु पात्रैरिति तृतीयाया गुणभावावगमादर्थकर्मेदं न तु प्रतिपत्तिः। तथा सति पात्रान्तरैरपि दाहसिद्धेर्न धारणनियम इति चेन्मैवम्। दक्षिणे पाणौ जुहूमासादयतीति द्वितीयया प्रतिपाद्यत्वावगमात्पूर्वेषु धारणम्। तस्मात्सर्वेषु प्रयोगेषु पात्राणां तन्त्रम्।
तत्रैवान्यच्चिन्तितम् -
किं पौर्णमासीमारभ्य यद्वाऽऽधानमियं धृतिः।
प्रकृत्यर्थतयाऽऽद्यः स्यान्मरणानियमात्परः॥
अनारभ्याधीतानां पात्राणां प्रकृतिगामितया पौर्णमासीमारभ्य धारणमिति प्रप्ते ब्रूमः — आधानकाले पवमानेष्टिषु चोदकप्राप्तत्वात्पात्राण्याधानमारभ्य धारयितव्यानि। अन्यथाऽऽधानपौर्णमास्ययोर्मध्ये यजमानस्य कदाचिन्मरणे पात्राभावेन दाहाभावप्रसङ्गात्। तस्मादाधानमारभ्य धारणमित्ययं परः पक्षोऽभ्युपगन्तव्यः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके अष्टमोऽनुवाकः॥८॥

(अथ प्रथमकाण्डे षष्ठप्रपाठके नवमोऽनुवाकः )।
अष्टमे यज्ञायुधसंभृतिरुक्ता। नवमे द्वादशद्वंद्वसंपत्तिरुच्यते। प्रथमं तावदा-नुष्ठातॄणां फलाधिक्याय वेदनविशेषविधिमुन्नेतुं प्रस्तौति – प्रजापतिरिति। अत्राग्निहोत्रपौर्णमास्यमावास्यायागा अल्पैर्द्रव्यमन्त्रक्रिया-विशेषैः साध्या अत एवाल्पफलाः। अग्निष्टोमोक्थ्यातिरात्रयागा बहुभिर्द्रव्य- मन्त्रक्रियाविशेषैः साध्या अत एवाधिकफलाः। तानुभयविधान्यज्ञान्प्रजापतिः सृष्ट्वा कनिष्ठपुत्रे पितेव कनीयःस्वग्निहोत्रादिष्वनुग्रहेण तुलया त्रीणि द्वंद्वान्युन्मितवान्। तदनुग्रहादग्निहोत्रादीनामग्नीष्टोमादिसमानि संपन्नानि।
वेदनविशेषविधिमुन्नयति- य एवं विद्वानिति। प्रजापत्यनुग्रहादग्निहोत्रादीनामग्निष्टोमादिसाम्यं जानतः समानफलत्वकथनात्फलाधिक्यायानुष्ठातृभिरग्निष्टोमादिसाम्यं भावयेदिति वि-धिरुन्नीयते। विद्यया युक्तस्य कर्मणः फलाधिक्यं छन्दोगा आमनन्ति - “यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति” इति। लोकेऽपि राज्ञा ग्रामेषु प्रेरिते राजमुद्राधारिणि नीचे कस्मिंश्चिद्भृत्ये राजत्वमुपचरन्तीनां प्रजानां भृत्यचित्तप्रसादेन फलाधिक्यमुपलभामहे। काण्वैश्च बृहदारण्यकस्य पञ्चमाध्याये कानिचिदुपासनान्यथ संपद इति वाक्येनाऽऽम्नायते। स्वल्पे कर्मण्यधिककर्मत्वस्य मनसा संपादनं संपत्। एतदेवाभिप्रेत्य सर्वेषु स्मृतिपुराणागमेषु शालग्रामप्रतिमादौ विष्ण्वादिबुद्धिर्विहिता। तस्मादेतद्वाक्यमग्निहोत्रादावग्निष्टोमादिसंपादनविधिपरम्। यद्यपि पूर्वमीमांसायां द्वितीयाध्याये य एवं विद्वान्पौर्णमासीं यजत इत्यस्य विद्वद्वाक्यस्य विधायकत्वं निराकृत्यानुवादत्वमुक्तं तथाऽपि कर्मविधेरेव तत्र निराकरणात्संपद्बुद्धयुन्नीतो न कोऽपि विरोधः। भावनाविधिपरत्वे वाक्यमतेत्कर्मप्रकरणादुत्कृष्येतेति चेत्। उत्कृष्यतां नाम। अग्निचयनप्रकरणपठितानां मनश्चिदाद्युपास्तीनां प्रकरणोत्कर्षस्य व्यासेनैव निर्णीतत्वात्। अन्यपरस्या-न्यार्थत्वाद्दर्शपूर्णमासौ प्रशंसितुमत्र पाठोऽस्तु।
पुनरपि दर्शपूर्णमासौ प्रशंसति - परमेष्ठिनो वा इति। परमे पदे सत्यलोके तिष्ठतीति परमेष्ठी चतुर्मुखः। तस्य चाग्रे पूर्वस्मिन्कल्पे यजमानत्वेनावस्थितस्यैष यज्ञो दर्शपूर्णमासयज्ञः प्रवृत्तः। तेन चेश्वरार्पणबुद्ध्याऽनुष्ठितेन स यजमानः परमां काष्ठामिदं परमेष्ठित्वपदं प्राप्तवान्। प्रजापतिर्दक्षादिः। तं पूर्वस्मिञ्जन्मनि तेनोत्तमफलहेतुदर्शपूर्णमासो-पदेशेन निरवासाययत्तोषितवाननुष्ठानाय प्रेरितवान्वा। स च तस्मिञ्जन्मनि यजमानस्तेनानुष्ठानेन परमां काष्ठां दक्षत्वपदं प्राप्तवान्। एवमितरत्र योज्यम्। अत एव दर्शपूर्णमासयोः स्वर्गकामार्थत्वमाम्नातं मीमांसकैर्विचारितं च।
द्वंद्वसंपादनं विधातुं प्रस्तौति - यो वै प्रजातेनेति। प्रजातेनात्यन्तविस्तृतेन प्रजादिभिः विस्तृतो जायते। द्वादशमासोपेतसंवत्सरसाम्येन द्वादशद्वंद्वोपेतस्य यज्ञस्य प्रसृतत्वम्।
द्वंद्वानि विधत्ते - यत्सं चोपावसृजतीति। गां दोग्धुमध्वर्युरयक्ष्मा वः प्रजयेति मन्त्रेण वत्सं बन्धनान्मुञ्चेत्। क्षीरं श्रपयितुं मातरिश्वनो घर्म इति मन्त्रेणोखां गार्हपत्ये स्थापयेत्। अव रक्षो दिव इति शाखान्तरमन्त्रेण व्रीहीनवहन्यात्। इषमा वदेति मन्त्रेण पाषाणेन शम्यया वा पेषणार्थं दृषदुपले समाहन्यात्। देवस्य त्वेत्यादिमन्त्रेण पेषणाय दृषदि तण्डुलानधिवपेत्। ध्रुवमसीत्यादिभिर्मन्त्रैः पुरोडाशश्रपणायाग्नौ कपालान्युपदध्यात्। घर्मोऽसीति मन्त्रेण तेषु कपालेषु पुरोडाशमधिश्रयेत्। अग्निस्ते तेज इति मन्त्रेणाऽऽज्यमाहवनीयेऽधिश्रयेत्। चिकीर्षितवेदिस्थाने पृथिवि देवयजनीत्यादिभिर्मन्त्रैः स्तम्बयजुर्हरेत्। अररुस्ते दिवमिति मन्त्रेणाऽऽग्नीध्रोऽञ्जलिना सतृणपांसूनुत्करे प्रक्षिप्तानभिगृह्णीयात्। वसवस्त्वा परिगृह्णन्त्वित्यादिभिर्मन्त्रैर्वेदिं परिगृह्णीयात्। आशासानेति मन्त्रेण योक्त्रेण पत्नीं संनह्येत्। ऋतसधस्थेति शाखान्तरमन्त्रेण स्फ्यनिष्पादितायां लेखायां प्रोक्षणीरासादयेत्। अग्नेर्जिह्वाऽसीति मन्त्रेण स्फ्यलेखायामाज्यं सादयेत्।
विहितानि द्वंद्वानि प्रशस्योपसंहरति - एतानि वा इति। यद्यप्युक्तानां वत्सविमोकादीनां चतुर्दशत्वात्सप्तैवैतानि द्वंद्वानि तथाऽपि चकारैः पूर्वानुवाकोक्तेषु दशसु यज्ञायुधेषु समुच्चितेषु द्वादश संपद्यन्ते।
अथ मीमांसा।
द्वितीयाध्यायस्य द्वितीयपादे चिन्तितम् -
एवं विद्वान्पौर्णमासीममावास्यामितीरितम्।
कर्मान्यदुत पूर्वोक्तसमुदायानुवादकम्॥
कर्मान्तरं स्यादभ्यासाद्ध्रौवं द्रव्यं हि देवता।
वार्त्रघ्नीत्यादितो लभ्याऽनुवादस्तु न युज्यते॥
वार्त्रघ्नीत्याज्यभागाङ्गव्यवस्थोक्तेर्न त्रिकं तथा।
अमेत्यपि समूहस्य द्वित्वसिद्धिः प्रयोजनम्।
सहस्थितिः पौर्णमास्यामित्यक्तिभ्यां त्रिके त्रिके॥
विद्वद्वाक्ये विधौ विध्यावृत्तिराग्नेय आदिना।
विहितस्य फलित्वेन प्राधान्यमितरे गुणाः॥
इदमाम्नायते - य एवं विद्वान्पौर्णमासीं यजते य एवं विद्वानमावास्यां यजत इति। अत्र यजतिना कर्मान्तरं विधीयते न तु प्रकृता आग्नेयादयः षड्यागा अनूद्यन्ते। आग्नेयादयः कालसंयुक्तास्तत्प्रकरण एवाऽऽम्नाताः “यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति” इति। “तावब्रूतामग्नीषोमावाज्यस्यैव तावुपांशु पौर्णमास्यां यजति” इति। “ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्” इति। “ऐन्द्रं दध्यमावास्यायाम्” इति। “ऐन्द्रं पयोऽमावास्यायाम्” इति च। एतेभ्यः प्रकृतेभ्यः षड्भ्य आग्नेयादिभ्यो विद्वद्वाक्यविहितस्य कर्मणोऽन्यत्वे सति पूर्वाधिकरणन्यायेन विध्यभ्यास उपपद्यते। न च कर्मान्तरत्वे द्रव्यदेवतयोर-भावो ध्रौवादिसद्भावात्। अत एवोक्तम् -
“ध्रौवं साधारणं द्रव्यं देवता मान्त्रवर्णिकी।
रूपवन्तौ ततो यागौ विधीयेते पृथक्तया” इति।
“सर्वस्मै वा एतद्यज्ञाय गृह्यते। यद्ध्रुवायामाज्यम्” इति ध्रौवस्य साधारणत्वं श्रुतम्। देवताया मान्त्रवर्णिकत्वमित्थमुन्नेतव्यम् - “तस्माद्वार्त्रघ्नी पूर्णमासेऽनूच्येते वृधन्वती अमावास्यायाम्” इति। वार्त्रघ्न्यौ चर्चौ क्रमेण कालद्वयोपेते विधीयेते। तत्राग्निर्वृत्राणि जङ्घनदित्येको वार्त्रघ्नो मन्त्रः। त्वं सो-मासि सत्पतिस्त्वं राजोत वृत्रहेत्यपरः। तयोरुक्तावग्नीषोमौ पौर्णमासदेवता। एवमनन्तराम्नातयोर्वृधिधातुयुक्तयोर्मन्त्रयोरुक्तावग्नीषोमावमावास्यादेवता। ताभ्यां द्रव्यदेवताभ्यां रूपवत्त्वाद्यागान्तरमत्र विधीयते। षड्यागानुवादत्वे तदनुवादेन विधेयान्तरस्य कस्याचिददर्शनाद्विद्वद्वाक्यमनर्थकं स्यात्। न केवलं तदानर्थक्यं किंतु पौर्णमास्या पौर्णमास्यां यजेत, अमावास्यायाममावास्यया यजेतेत्येतदपि व्यर्थं स्यात्। न चैतत्कालविधायकं यदाग्नेय इत्याद्युत्पत्तिवाक्यैरेव तद्विधानात्। कर्मान्तरत्वे तु कालं विधास्यति। तस्मात्कर्मान्तरमिधिरिति प्राप्ते ब्रूमः – आस्तां तावद्द्रव्यं, देवता तु विधित्सितस्य कर्मान्तरस्य सर्वथा न लभ्यते। वार्त्रघ्न्योर्वृधन्वत्योश्चाऽऽज्यभागदेवताप्रतिपादकत्वात्। हौत्रे मन्त्रकाण्डे सामिधेनीरावाहननिगदप्रयाजमन्त्रांश्चाऽऽम्नाय प्रयाजानन्तरभाविनोराज्य-भागयोः क्रमेण वार्त्रघ्न्यौ वृधन्वत्यौ चाऽऽम्नाते। लिङ्गं चाग्निविषयं सोम-विषयं च तत्रोपलभ्यते। ततो लिङ्गक्रमाभ्यामाज्यभागविषयत्वमवगम्यते। यत्तु वार्त्रघ्नी पूर्णमास इत्यादिवाक्यं तल्लिङ्गक्रमकॢप्तयोराज्यभागाङ्गयोर्म-न्त्रयुगलयोः कालद्वये व्यवस्थामाचष्टे, न तु नूतनकर्माङ्गतां तयोर्विदधाति। अतो रूपराहित्याद्विद्वद्वाक्यं कर्मान्तरविधायकं न भवति, किं तर्हि पूर्वप्र-कृतेष्वाग्नेयादिषु षट्सु त्रिकरूपौ द्वौ समुदायावनुवदति। न च कालवाचिभ्यां पौर्णमास्यमावास्याशब्दाभ्यां यागानुवादानुपपत्तिः। तत्कालविहितयोर्यागत्रिकयोरुपलक्षितत्वात्। न चानुवादो व्यर्थः। समुदायद्वित्वसिद्धेस्तत्प्रयोजनत्वात्। तत्सिद्धौ च दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यस्मिन्फलवाक्ये षड्यागविवक्षया द्विवचननिर्देश उपपद्यते। यदप्युक्तमनुवादपक्षे पौर्णमास्यामित्यादिवाक्यवैयर्थ्यमिति, तदयुक्तम्। कालविधानासंभवेऽप्येकैकस्य त्रिकस्य सहप्रयोगविधानात्। आग्नेयोपांशुयाजाग्नीषोमीयाणां त्रयाणां पौर्णमासीकालविहितानां सह प्रयोगः पौर्णमास्येत्येनेन तृतीयैकवचनान्तेन विधीयते। एवमितरत्रापि। ननु विद्वद्वाक्यस्य कर्मान्तरविधायकत्वाभावेऽपि नानुवादकत्वं, तस्य यागविधायकत्वाभ्युपगमात्। आग्नेयोऽष्टाकपाल इत्यादिवाक्यानि तु विहितयागानुवादेन द्रव्यदेवतालक्षणगुणविधायकानीति चेन्न। तथा सत्येकेन वाक्येकेनानेकगुण-विध्यसंभावात्। प्रतिगुणं पृथग्विधौ विध्यावृत्तिः प्रसज्येत। आग्नेयादिवा-क्यानां विधायकत्वे तु विशिष्टविधित्वान्नास्ति विध्यावृत्तिदोषः। तस्मादा-ग्नेयादिवाक्यविहितानां विद्वद्वाक्यमनुवादकम्। किंचानुवादमनभ्युपगम्य कर्मान्तरविधिं वदतः प्रयाजादीनामाग्नेयादीनां च गुणप्रधानभावो न सिध्येत्। तथा हि – समिधो यजत्याघारमाघारयतीत्यादयः कालयोगरहिताः केचिद्विधय आम्नाताः। यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चेत्यादयः कालयुक्ता अपरे। तेषामुभयेषां प्रकृतत्वाद्दर्शपूणमासाभ्यां स्वर्गकामो यजेतेति वाक्येन सर्वेषां फलसंबन्धो बोधनीयः। दर्शपूर्णमासाभ्यामिति द्विवचनं बहुवचनत्वेन परिणेतव्याम्। विद्वद्वाक्यविहिते द्वे कर्मान्तरे प्रयाजादय आग्नेयादयश्चेत्येतेषु द्वित्वासंभवात्। सर्वेषां च फलसंबन्धे राजसूयगतेष्टिपशुसोमवत्समप्राधान्यात्प्रयाजादीनां गुणभावो न स्यात्। तदभावे चानङ्गत्वात्सौर्यादिविकृतिष्वाग्नेयादीनामिवातिदेशो न स्यात्। अनुवादपक्षे तु त्रिकयोः कालयोगेन दर्शपूर्णमासशब्दार्हत्वात्समुदायद्वित्वेन द्विवचनार्हत्वाच्चाऽऽग्नेयादीनामेव फलसंबन्धेन प्राधान्यम्। प्रयाजादीनां तु गुणभाव इति न कोऽपि दोषः। तस्माद्विद्वद्वाक्यमनुवादकम्।
चतुर्थाध्यायस्य तृतीयपादे चिन्तितम्-
दर्शादिः सर्वकामेभ्योऽनुवादो वा फले विधिः।
अङ्गोपाङ्गोदितः कामो विध्यभावादनूद्यते॥
उत्पत्तिचोदनासिद्धे आश्रित्य विधिभावने।
फलसंयोगबोधेन भवेदेष फले विधिः॥
इदमाम्नायते – “एकस्मै वा अन्या इष्टयः कामायाऽऽह्रियन्ते सर्वेभ्यो दर्श-पूर्णमासौ” इति। “एकस्मै वा अन्ये यज्ञक्रतवः। कामायाऽऽह्रियन्ते सर्वेभ्यो ज्योतिष्टोमः” इति। तत्र सर्वेभ्य इत्यनेन वाक्येन दर्शपूर्णमासयोर्न फले विधिः। विधायकस्य लिङादेर्भावनावाचिन आख्यातस्य चाभावात्। अनुवादस्तु भविष्यति, सर्वकामानां प्राप्तत्वात्। न च दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति विधानात्स्वर्ग एव प्राप्तो न तु कामान्तरमिति वाच्यम्। अङ्गोपाङ्गकामानामपि प्राप्तत्वात्। सामिधेन्यो दर्शपूर्णमासयोरङ्गम्। तत्र कामाः श्रूयन्ते – “एकविँशतिमनुब्रूयात्प्रतिष्ठाकामस्य” “चतुर्विँशतिमनुब्रूयात्प्रतिष्ठाकामस्य” इति। तथा सांनाय्ययागस्य दोहनमङ्गं, तत्साधनं वत्सापाकरणमुपाङ्गं, तत्र पलाशशाखाहरणे काम आम्नातः – “यं कामयेत पशुमान्त्स्यादिति। बहुपर्णां तस्मै बहुशाखामाहरेत्। पशुमन्तमेवैनं करोति” इति। त एते सर्वे कामा अनूद्यन्त इति प्राप्ते ब्रूमः – मा भूतामस्मिन्वाक्ये विधिभावने। तथाऽ-ऽप्युत्पत्तिवाक्यसिद्धे ते आश्रित्य तादर्थ्यवाचिन्या चतुर्थ्या फलसंयोगो बोध्यते। तस्मादेष फले विधिः।
तृतीयाध्यायस्याष्टमे पादे चिन्तितम् –
वत्सं चोपसृजेत्तद्वदुखां चाधिश्रयेदिति।
द्वादशद्वंद्वकर्मैतत्स्वामिनो वेतरस्य वा।
आद्यः पाठात्स्वामिकाण्डे तादर्थ्येन परिक्रयात्।
महाकाण्डोक्तितोऽन्योऽस्तु द्वंद्वतैवात्र कीर्त्यते॥
दर्शपूर्णमासयोर्याजमानकाण्डे श्रूयते – द्वादश द्वंद्वानि दर्शपूर्णमासयोस्तानि संपाद्यानीत्याहुर्वत्सं चोपावसृजत्युखां चाधिश्रयत्यव च हन्ति दृषदौ च समाहन्तीत्यादि। तत्र गां दोग्धुं वत्सोपसर्जनमेकं कर्म, दोहनेन संपादितं क्षीरं धारयितुं पिठरस्थापनपरं कर्म। तदेतदुभयं द्वंद्वम्। तथा व्रीहीणामवघातः, दृषदुपलयोः पाषाणान्तरेण समाघात इत्येतदुभयं द्वितीयं द्वन्द्वम्। एवं द्वादश कर्मद्वंद्वान्यनुष्ठेयान्यत्राऽऽम्नातानि। तेषां याजमानकाण्डे पठितत्वात्समाख्यया यजमानेन तान्यनुष्ठेयानीति प्राप्ते ब्रूमः – यजमानस्य यानि कार्याणि तान्य-नुष्ठातुमेव परिक्रीता ऋत्विजः। किंच यजुर्वेदे याजमानमिदमवान्तरकाण्डं, महाकाण्डं, त्वाध्वर्यवमेव। तत्रैते वत्सापाकरणादयो धर्मा आम्नाताः। तस्मादध्वर्युरेव ताननुतिष्ठेत्। याजमाने तु काण्डे न तेषामनुष्ठानप्रकारश्चोदितः किंतु परिगणनया द्वंद्वसंपादनमात्रमेवाऽऽम्नातम्। तेन यजमानस्तामानुपूर्वीं मनसि निधायाध्वर्योरनुष्ठाने प्रमादराहित्यमनुसंधातुं प्रभवति। तस्मादध्वर्योरेवानुष्ठानम्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके नवमोऽनुवाकः॥९॥

(अथ प्रथमकाण्डे षष्ठप्रपाठके दशमोऽनुवाकः)।
नवमे द्वंद्वसंपादनमुक्तं, दशमे हविःसादनं विधीयते। प्रथमं तावद्द्वितीया-नुवाकस्य पूर्वभागोक्तानां मन्त्राणां व्याख्यानम्। तत्र परिध्यनुमन्त्रणमन्त्रा-नुदाहृत्य व्याचष्टे - ध्रुवोऽसीति। सजातेषु ध्रुवो भूयासमित्यनेन न केवलं स्वस्यैव ध्रुवत्वं प्रार्थितं, किंत्वेनाञ्ज्ञातीनपि ध्रुवानेव कर्तुं प्रार्थितम्। स्वस्यानुग्रहत्वेनाशिक्षिता ज्ञातयः प्रतिवादिनो भवन्ति। अत उग्रत्वप्रार्थनेन तन्निवार्यते। ज्ञातिमध्ये यः कोऽप्येनं यजमानं प्रत्युत्पिपीते प्रतिकूलो भूत्वोत्सादयितुमिच्छति तं प्रतिकूलमभिभविता भूयासमित्यनेनोपास्यत उपक्षिपति।
अग्नियोगमन्त्रमादौ व्याचष्टे - युनज्मीति। एष मन्त्रपाठ एवाग्नेर्योगो भवति। त्वामग्निं युनज्मीतिमन्त्रे श्रवणात्।
आसन्नस्य हविषोऽभिमन्त्रणं व्याचष्टे - यज्ञस्य वा इति। यज्ञस्य हि द्वावंशौ समृद्धो व्यृद्धश्च। यथाशास्त्रमनुष्ठितः समृद्धः। अतथाभूतो व्यृद्धः। तत्र समृद्धो देवानां स्वर्गप्राप्तहेतुः। व्यृद्धोऽ-सुराणां तिरस्कारहेतुः। अतोऽस्मिन्मन्त्रे रिष्यात्स्कन्दादिति व्यृद्धमनूद्य तेन हन्मि सपत्नमिति वैरिपराभवः कथ्यते। समृद्धो न स्वर्गं प्राप्नोतीत्यर्थो लभ्यते।
भूर्भुवः सुवरिति व्याहृतिभिरग्निहोत्रहविष उपसादनं विधत्ते – अग्निहोत्रामिति।
तदेतदुपपादयति - यज्ञमुखमिति। आधानानन्तरमेवानुष्ठेयत्वत्प्राधान्येन सर्वयज्ञेष्वग्निहोत्रस्य मुखत्वम्। व्याहृतयश्च त्रैलोक्यात्मनो विराड्रूपस्य परब्रह्मण्यारोपितशरीरस्य वाचकत्वेन ब्रह्मरूपाः। अतः प्रशस्ते यज्ञमुखे प्रशस्तं ब्रह्मरूपं व्याहृतित्रयं कृतवान्भवति।
अग्निहोत्रारम्भदिनगते हविःसादने व्याहृतीर्विधाय कालान्तरगतेऽपि सादने विदधाति - संवत्सर इति। आद्यन्तयोर्दिनयोर्व्याहृतिभिरुपसादनं प्रशंसति - ब्रह्मणैवेति। अग्निहोत्रवत्कर्मान्तरेऽपि व्याहृतिभिरासादनं विधत्ते - दर्शपूर्णमासाविति। यज्ञो ज्योतिष्टोमादिः। ततः पूर्वभावित्वाद्दर्शादेर्मुखत्वम्।
अन्यत्रापि व्याहृतीर्विधत्ते - यद्वै यज्ञस्येति। यज्ञसंबन्धि किंचिदङ्गं साम्ना क्रियते, यथा बहिष्पवमानादि। अन्यत्किंचिदङ्गमृचा क्रियते, यथा याज्यापुरोनुवाक्यादि। तत्र सामसाध्येनाङ्गेन यज्ञफलं तद्राष्ट्रं प्राप्नोति, राष्ट्रे सस्याद्यभिवृद्धिर्भवतीत्यर्थः। ऋक्साध्येनाङ्गेन यत्फलं तद्विशं प्रजां प्राप्नोति, प्रजाया आयुरारोग्यादि वर्धत इत्यर्थः। अथैवं सति ब्राह्मणो यजमानः फलप्रदैर्यजुर्भिर्विरहित्वादनाशीर्केण निष्फलेन यज्ञेनेष्टवान्भवति। अतो यज्ञरूपा व्याहृतीः प्रयुञ्ज्यात्। होत्राऽनुवचनीयाः प्र वो वाजा इत्यादय ऋचः सामिधेन्यः। तदनुवचनात्प्रागेव होता व्याहृतीः पठेत्। तद्देवताब्रह्मरूपं व्याहृतित्रयमेव सामिधेनीनां प्रतिपदं प्रारम्भं कृतवान्भवति। तथा सति यजमानः सफलेन यज्ञेनेष्टवान्भवति।
प्रकारान्तरेण विनियोगं हेयतयोपन्यस्यति - यं कामयेतेति। यं यजमानं प्रति होता द्वेषादेवं कामयेतास्य यज्ञस्य फलं यजमानवौरणं गच्छेदिति तस्य यजमानस्य यागे पुरोनुवाक्यायाः प्राग्व्याहृतीः प्रयुञ्ज्यात्। तदा पुरोनुवाक्याया वैरी देवतेति तत्फलं वैरिगाम्येव भवति।
प्रकारान्तरेण विनियोगमुपादेयतया विधत्ते - यान्कामयेतेति। बहुयजमानकानामहीनसत्राणामङ्गभूतेष्टिषु होता यद्येवं कामयेतैनान्सर्वान्यजमानान्यज्ञस्य फलं सममेव प्राप्नुयादिति तेषां यजमानानां यागे व्याहृतीरेवं दध्यात् – पुरोनुवाक्याया अर्धर्चेऽभिहिते सति प्रथमा व्याहृतिः। याज्यायाः पुरस्ताद्द्वितीया व्याहृतिः। याज्याया अर्धर्चेऽभिहिते सति तृतीया व्याहृतिः। तथा सत्येनान्सर्वान्यजमानान्याज्ञस्य फलं साम्येन प्राप्नोति।
तामेतां प्राप्तिं दृष्टान्तेन स्पष्टयति - यथा वै पर्जन्य इति। यथा सर्वतः प्रसृतो मेघः पक्षपातमन्तरेण सर्वेषु देशेष्वेकरूपं सुवृष्टं सस्यनिष्पत्तिक्षमं वर्षं मुञ्चत्येवमयं यथोक्तव्याहृत्युपेतो यज्ञः सर्वयजमानसंघाय सुफलं साधारण्येन प्रयच्छति। तेन च सुवृष्टेन नद्यां पूर्णायां सर्वे जना स्थलया कूलेनोदकं परिगृह्णन्ति, तद्वद्यजमानसंघ आशिषा साधारणफलेन युक्तमिमं यज्ञं परिगृह्णाति।
स्रौवाघारस्रुच्याघारानुमन्त्रणमन्त्रो व्याचष्टे - मनोऽसीति। सर्वव्यवहारसाधनस्य मनसः प्रजापतिना प्रथमसृष्टत्वान्मनसः प्राजापत्यत्वम्। प्रथमसृष्टिश्च होतृब्राह्मणकाण्डे समाम्नायते - “इदं वा अग्ने नैव किंचनाऽऽसीत्। न द्यौरासीत्। न पृथिवी। नान्तरिक्षम्। तदसदेव सन्मनोऽकुरुत स्यामिति” इति। बृहदारण्यकेऽप्याम्नातम् - “तन्मनोऽकु-रुताऽऽत्मन्वी स्यामिति” इति। प्रजापतिर्यज्ञानसृजतेत्युक्तत्वात्प्राजापत्यो यज्ञः। अनेन मन्त्रपाठेन तौ मनोयज्ञौ स्वस्मिन्स्थापयति। इन्द्रेण व्याकृतत्वा - द्वागैन्द्री। तां च मन्त्रपाठेन स्वात्मनि स्थापयति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके दशमोऽनुवाकः॥१०॥

(अथ प्रथमकाण्डे षष्ठप्रपाठके एकादशोऽनुवाकः )।
दशमे हविःसादनं विहितम्। एकादशे त्वाश्रावणादिमन्त्राः प्राधान्येन विधी-यन्ते। तेषां पञ्चमन्त्राणामुत्पत्तिं विधातुं प्रस्तौति -
यो वै सप्तेति। अयं मन्त्रसंघः सप्तदशाक्षरोपेतत्वात्प्रजापतिसृष्टत्वाच्च सप्तदशः प्रजापतिरित्यभिधीयते। स च यज्ञमन्वायत्तः सर्वयज्ञेष्वनुगत-स्तद्विद्यजमानः संपूर्णेन यज्ञेन प्रतिष्ठितो भवति। वैकल्याभावाच्चायं यज्ञान्न भ्रष्टो भवित।
मन्त्रानुत्पादयति - आ श्रावयेति। एतेषु पञ्चसु मन्त्रेष्वाद्यस्य मन्त्रत्रयस्य विनियोगमापस्त-म्बोऽध्वर्युकाण्डे दर्शयति — “ब्रह्मन्प्रवरायाऽऽश्रावयिष्यामीति ब्रह्माणमामन्त्र्याऽऽश्रावयोश्रावय श्रावयोमाश्रावयेति वा श्रावयत्यस्तु श्रौषडित्याग्नीध्रोऽपरेणोत्करं दक्षिणामुखस्तिष्ठन्स्फ्यँ संप्रमार्गाँश्च धारयन्प्रत्यश्रावयति” इति। “अवद्यम्नमुष्मा अनुब्रूहीति पुरोनुवाक्यां संप्रेष्य-त्यवदायावदाय स्रुवेण प्रस्तरबर्हिः संमृज्य जुहूपभृतावादाय दक्षिणाऽतिक्र-म्याऽऽश्राव्य प्रत्याश्रावितेऽमुं यजेति याज्यामिति सार्वत्रिकम्” इति (च)। आश्रावयेत्ययमेव पाठोऽत्रत्यः। ओश्रावयेति श्रावयेति ओमाश्रावयेति च त्रयं शाखान्तरीयम्। हे आग्नीध्र यक्ष्यमाणदेवतां प्रति तुभ्यमिदं दीयत इत्याभिमुख्येन श्रावयेत्यध्वर्युणोक्ते सति स आग्नीध्रोऽस्वित्यङ्गीकृत्य श्रौषडिति शब्देन श्रावयति। हे देवास्त्व (युष्म) द्विषयमिदं हविर्दानं शृणुतेत्यर्थः। हे होतर्यज याज्यां पठेत्यर्थः। इतरस्य तु मन्त्रद्वयस्य विनियोगमाश्वलायनो होतृकाण्डे दर्शयति — “आगूर्याज्यादिरज्यादिरनुयाजवर्जं ये यजामह इत्यागुर्वषट्कारोऽन्त्यः सर्वत्रः” इति। ये वयं होतारोऽध्वर्युणा यजेति प्रेषितास्ते वयं यजामहे याज्यां पठामः। वषट्कारशब्देन वौषडित्येवंरूपो मन्त्रो विवक्षितः। तं चाऽऽश्वलायन उदाहृत्य दर्शयति — “ये यजामहे समिधः समिधो अग्न आज्यस्य व्यन्तू वौषळिति वषट्कार इति” इति। हविर्दीयत इति तस्य शब्दस्यार्थः।
एतेषां पञ्चमन्त्राणां महिमानं वक्तुं प्रस्तौति - यो वै यज्ञस्येति। प्रायणं प्रारम्भः। प्रतिष्ठा मध्यकालवर्त्यनुष्ठानम्। उदयनं सपाप्तिः। यो यजमानो यज्ञस्य मुख्यं प्रारम्भादित्रयं वेद तदीयो यज्ञः प्रतिष्ठितः साङ्गोऽरिष्टो वैकल्यरहितस्तादृशेन यज्ञेन संस्थां फलपर्यन्ततां प्राप्नोति। मन्त्रमहिमानं वक्ति - आ श्रावयेति। आद्यो मन्त्रो मुख्यः प्रारम्भः। मन्त्रत्रयं प्रतिष्ठा। अन्त्य उदयनम्। देवतोद्दशेन द्रव्यात्यागरूपस्य यागशरीरगतस्येतैरेव मन्त्रैर्निष्पन्नत्वादवशिष्टानि प्राच्यान्युदीच्यानि शरीरगतवस्त्रालंकारस्थानीयानि।
प्रकारान्तरेण महिमानं वक्तुं प्रस्तौति - यो वा इति। सूनृता समीचीना वाक्। सम्यक्त्वं च तस्याः सत्यप्रियरूपत्वम्।
अत एव स्मार्यते —
“सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम्।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः” इति।
सा च कामधेनुवत्परितोषहेतुत्वाद्गोत्वेनात्र विवक्षिता। तस्याश्च दोहनप्रकारं यो यजमानो वेद सोऽवश्यमेनां दुग्धे।
काऽसावत्र सूनृता को वा तद्देहनप्रकार इत्याशङ्क्य तदुभयं दर्शयन्मन्त्र-महिमानं वक्ति - यज्ञो वा इति। लोके हि धोक्ष्यमाणाया गोराभिमुख्याय किमपि भक्ष्यं दातुं सांकेतिकेन नाम्ना तामाह्वयन्ति। अत एव प्रवर्ग्यब्राह्मणे धर्मदुह आह्वान-मेवनाम्नायते — “इड एह्यदित एहि सरस्वत्येहीत्याह। एतानि वा अस्यै देवनामानि। देवनामैरेवैनामाह्वयति। असावेह्यसावेह्यसावेहीत्याह। एतानि वा अस्यै मनुष्यनामानि। मनुष्यनामैरेवैनामाह्वयति” इति। तद्वदत्राप्याश्रावयेति मन्त्रपाठेनैवैनां सुनृतामाह्वयति। अस्तु श्रौषडिति पाठेनोपावास्राग्वत्समुपावसृजति। यजेति पाठेनोदनैषीद्दोहनपात्रमुन्नयति। ये यजामह इति पाठेनोपासदद्दोग्धा प्रत्यासीदति। वौषडिति पाठेन दोग्धि। अत्र रूपकत्वेन परिकल्पनामन्त्राणां तत्तदर्थवाचकत्वं नापेक्षितम्।
सामर्थ्यान्तरकल्पनया पुनर्महिमानं वक्ति - देवा वा इति। सत्रमासीनानां देवानां केनापि वैकल्येन वृष्ट्यभावाद्दिशोऽ-दस्यन्नानादिग्गतानि सस्यानि शोषणेनोपक्षीणानि। तत्परिहाराय देवा आर्द्रां वृष्टिहेतुभूतामेतां पङ्क्तिं मन्त्रपञ्चकमपश्यन्। स्पष्टमन्यत्।
पुनरपि प्रकारान्तरेण मन्त्रमहिमानं दर्शयितुं प्रस्तौति - प्रजापतिमिति। त्वशब्दः सर्वनामगणे पठित एकशब्दपर्यायः। अत एव संप्रदायविद उत त्वः पश्यन्न ददर्श वाचमित्यृचमेवं व्याचक्षते – अप्येकः पश्यन्न पश्यतीति। सप्तदशाक्षररूपमेनं प्रजापतिमेको यजमानो वक्ष्यमाणमहिमोपेतं वेद। स च प्रजापतिर्ज्ञातारं तमेकं यजमानं वेद जानात्यनुगृह्णाति। यमनुगृह्णाति सोऽन्येभ्यो यजमानेभ्यः पुण्यादुत्कृष्टो भवति।
तन्महिमानं दर्शयति - एष वा इति। एषोऽक्षररूपः प्रजारतिश्छन्दस्यः, छन्दःसु वेदेषु सारत्वेन निष्पन्नः। अत एव तृतीयकाण्डे समाम्नायते — “एतद्वै छन्दसां वीर्यमा श्रावयास्तु श्रौषड्यज ये यजामहे वषट्कारः” इति। य एवं प्रजापतिं छन्दःसारं वेद स उत्कृष्टो भवति। त्वोवेद त्वंवेदेत्यत्रोभयत्रैकपद्यं सांप्रदायिकम्।
द्वितीयानुवाकोक्तानां प्रयाजानुमन्त्रणमन्त्राणां रूपकल्पनया तात्पर्यं व्याचष्टे – वसन्तमिति। ऋतुदेवतास्तत्कल्पनया प्रीयन्ते। प्रीताश्चास्मै यजमानाय यथापूर्वं कल्पन्तेऽविपर्यासेन प्रवर्तन्ते स्वस्वकालोचितपुष्पोद्भवसंतापवृष्ट्या-दिलक्षणयुक्ता भवन्ति। वेदितुरपि तदेव फलम्।
आज्यभागानुमन्त्रणमन्त्रं व्याचष्टे - अग्नीषोमयोरिति। चक्षुषी वा एते यज्ञस्य यदाज्याभागावित्यस्मिन्ननुवाके यज्ञचक्षुष्ट्वमाज्यभागयोः सम्यक्प्रतिपादितम्। अतस्तदीयदेवताभ्यां यज्ञस्य चक्षुष्मत्त्वं यजमानस्य तत्पलं चोच्यते।
आग्नेययागानुमन्त्रणमन्त्रं व्याचष्टे - अग्नेरहमिति। अन्नादो बह्वाशी न त्वन्यदेववदल्पाशी।
उपांशुयाजानुमन्त्रणमन्त्रं व्याचष्टे - दब्धिरसीति। एतयोपांशुयाजरूपया दब्धया वैरिघातिन्या हेत्यादभ्नुवन्हिं- सितवन्तः।
पौर्णमासीगतद्वितीयपुरोडाशानुमन्त्रणमन्त्रं व्याचष्टे - अग्नीषोमयोरिति। वृत्रनामकोऽसुरोऽग्नीषोमौ देवौ दन्तैः संदष्टवान्। तौ निःसारयितुमिन्द्रः शीतज्वरसंतापौ वृत्रे प्रयुज्य जञ्जभ्यमानाद्वृत्रात्तौ निःसार्य वृत्रं हतवानिति द्वितायकाण्डे स्पष्टी भविष्याति। स्तृणुते हिनस्ति। अमावास्यागतद्वितीयपुरोडाशानुमन्त्रणमन्त्रं व्याचष्टे - इन्द्राग्नियोरिति।
सांनाय्यानुमन्त्रणमन्त्रं व्याचष्टे - इन्द्रस्येति।
गतश्रियां राजन्यादीनां सांनाय्यनुमन्त्रणमन्त्रं व्याचष्टे - महेन्द्रस्येति।
स्विष्टकृदनुमन्त्रणमन्त्रं व्याचष्टे - अग्नेः स्विष्टकृत इति।
अथ मीमांसा।
दशमाध्यायस्याष्टमे पादे चिन्तितम् -
नाऽऽर्षेयं न च होतारं नानूयाजेष्वितीदृशः।
विकल्पः पर्युदासो वा स्यादाद्यो वचनद्वायात्॥
अन्याय्यत्वाद्विकल्पस्य विध्यंशः सा निषेधगीः।
नेत्यनूयाजधातुस्थस्तदर्थं पर्युदस्यति॥
महापितृयज्ञे चोदकप्राप्तं वरणं प्रत्येवं श्रूयते — “नाऽऽर्षेयं वृणीते। न होतारम्” इति। तथाऽनारभ्यवादे श्रूयते — “आ श्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तः” इति। तथोक्तम् — “नानूयाजेषु येयजामहं करोति” इति। तत्र वरणस्य विधिप्रतिषेधौ चोदकप्रत्यक्षवचनाभ्यां प्रतीयेते। ये यजामह इति मन्त्रस्य तु द्वाभ्यां प्रत्यक्षवचनाभ्यां विधिप्रतिषेधप्रतीतिः। तत्र विधायकप्रतिषेधकयोर्द्वयोः प्रमाणयोरवैयर्थ्याय विकल्प इति प्राप्ते ब्रूमः — अष्टदोषग्रस्तत्वाद्विकल्पो न न्याय्यः। ननु परस्परविरुद्धयोर्विधिनिषेधयोः समुच्चयस्याप्यसंभवात्का गतिरत्रेति चेदुच्यते– निषेधत्वेन प्रतीयमानमिदं नेत्यनेन शब्देनोपेतं वाक्यं विधिवाक्यस्य शेषो भविष्यति। तथा हि - यदि नेत्ययं शब्दः करोतिना संबध्येत तदा येयजामहं न करोतीत्येवं प्रतिषेधः स्यात्। यदि च वृणीत इत्येवाऽऽख्यातप्रत्ययेन संबध्येत तदा वरणं न कर्तव्यमिति निषिध्येत न चैवं संबध्यते, किं त्वानूयाजपदेन वृञ्धातुना च संबध्यते। तथा सत्यनूयाजव्यतिरिक्तेषु यागेषु येयजामहः कर्तव्यः। वरणव्यतिरिक्तमङ्गजातमनुष्ठेयमित्यनूयाजवरणपर्युदासेन विधेरेव विशेषितत्वे सति प्रतिषेधवाक्यस्य कस्यचिदभावान्न विकल्पः शङ्कितुमपि शक्यः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके एकादशोऽनुवाकः॥११॥

(अथ प्रथमकाण्डे षष्ठप्रपाठके द्वादशोऽनुवाकः )।
सप्तमादिष्वेकादशान्तेषु पञ्चस्वनुवाकेषु याजमानब्राह्मणप्रसङ्गादाध्वर्यव-ब्राह्मणमपि कियदभिहितम्। द्वादशानुवाके याज्या ( पुरोनुवाक्या ) उच्यन्ते। काम्येष्टिकाण्डे सप्तमानुवाके काचिदिष्टिरेवमाम्नायते - “ऐन्द्रं चरुं निर्वपेत्पशुकाम ऐन्द्रा वै पशव इन्द्रमेव स्वेन भागधेयेनोप धावति स एवास्मै पशून्प्र यच्छति पशुमानेव भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति। पशूनामैन्द्रत्वमर्थवादान्तरे द्रष्टव्यम्।
पुरोडाशादिपरित्यागेन चरुविधानं प्रशंसति- “चरुर्भवति स्यादेवास्मै योनेः पशून्प्र जनयति” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति।
वाजपेये हि नैवारं चरुमश्वानवघ्रापयेत्। अश्वमेधेऽपि लाजीनित्यादि-मन्त्रेणाश्वायान्नमुपावहरन्ति। तच्च भक्षितमन्नमुत्पत्स्यमानानामश्वानां रेतोरूपेण बीजमित्यभिप्रेत्य चरोः पशुयोनित्वमत्राभिधीयते।
तस्या ऐन्द्रेष्टेः पुरोनुवाक्यामाह - इन्द्रं व इति। हे ऋत्विग्यजमाना वो युष्माकं जनेभ्यः पुत्रभृत्यादिजनसि-द्ध्यर्थं विश्वतस्परि सर्वस्य जगत उपरि स्थितमुत्कृष्टत्वेन वर्तमानमिन्द्रं हवामह आह्वायामः। स चेन्द्रोऽस्माकं केवलोऽस्त्वसाधारणोऽस्तु। इतरयज-मानेभ्योऽप्यधिकमनुग्रहमस्मासु करोत्वित्यर्थः।
याज्यामाह - इन्द्रं नर इति। अग्निचयनमनुतिष्ठन्तो नर इन्द्रं नेमधिता वह्न्यादिभिर्देवैः सह नेमस्यार्धस्य हविषो धिता धारणाय हवन्त आह्वयन्ति। अत एव चयनब्राह्मणमेवमाम्नायते — “अर्धेन्द्राणि जुहोति” इति। तन्मन्त्राश्चैव-
माम्नायन्ते — “अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे” इत्यादयः। यद्यस्मात्कारणात्पार्याश्चितेऽग्नावग्निष्टोमादिपारमर्हन्तो यजमानास्ता धियो युनजते युञ्जते तान्यग्निष्टोमादीन्यनुतिष्ठन्ति। तादृश हे इन्द्र त्वं शूरो रक्षोभिरनभिभूतो नृषाता मनुष्येभ्यः सनिता धनस्य दाता शवसोऽस्मादीयस्य बलस्य चकानस्तर्पको भूत्वा नोऽस्मान्गोमति बहुगवादिपशुयुक्ते व्रजे संघ आभजाऽऽभिमुख्येन स्थापय।
इष्ट्यन्तरं विधत्ते – “इन्द्रायेन्द्रियावते पुरोडाशमेकादशकपालं निर्वपेत्पशुकाम इन्द्रियं वै पशव इन्द्रमेवेन्द्रियावन्तँ स्वेन भागधेयेनोप धावति स एवास्मा इन्द्रियं पशून्प्र यच्छति पशूमानेव भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति।
इन्द्रियं बलं प्रभूतमस्यास्तीतीन्द्रियावान्। क्षीरघृतादिद्वारेणेन्द्रियवृद्धिहेतु-त्वात्पशूनामिन्द्रियत्वम्। इन्द्रियं पशून्। चेति समुच्चयेऽध्याहर्तव्यः।
तस्यामिष्टौ पुरोनुवाक्यामाह - इन्द्रियाणीति। हे शकक्रतो पञ्चसु जनेषु निषादपञ्चमेषु ब्राह्मणादिवर्णेषु यानि ते तवानुग्रहादिन्द्रियाणि सामर्थ्यानि सन्ति, हे इन्द्र तानि सर्वाणि ते तवानुग्रहादावृणे समन्ताद्गृह्णामि।
याज्यामाह - अनु ते दायीति। यजत्र यष्टव्य हे इन्द्र महे महते सर्वेभ्योऽधिकाय ते तुभ्यं सत्रा सत्रेषु विश्वं सर्वं हविर्देवेभिरग्न्यादिभिरनुदायि अनुक्रमेण दीयते। किमर्थम्। वृत्रहत्ये वृत्रवधमनु ते तवेन्द्रियाय बलसिद्ध्यर्थम्। न केवलं वृत्रवधमनुसृत्य किंतु क्षत्त्रमनु त्वदीयं क्षत्त्रियत्वजात्यभिमानमनुसृत्य, सहोऽनु त्वदीयं बलमनुसृत्य, नृषह्ये वैरिमनुष्यतिरस्कारशीलमनुसृत्य, त्वयि यथोक्तान्गुणानवेक्ष्य ते तुभ्यं पुनः पुनर्दीयत इति शेषः।
अन्यामिष्टिं विधत्ते - “इन्द्राय घर्मवते पुरोडाशमेकादशकपालं निर्वपेद्ब्रह्मवर्चसकामो ब्रह्मवर्चसं वै गर्म इन्द्रमेव घर्मवन्तँ स्वेन भागधेयेनोप धावति स एवास्मिन्ब्रह्मवर्चसं दधाति ब्रह्मवर्चस्येव भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति।
घर्मवते वेदशास्त्रादिप्रयुक्तब्रह्मतेजोयुक्ताय। विद्वत्सु वेदशास्त्रादिरूपेण ब्रह्मवर्चसेन दीप्यत इति ब्रह्मवर्चसस्य धर्मत्वम्।
एतस्यामिष्टौ पुरोनुवाक्यामाह - आ यस्मिन्निति। वासयन्ति रथस्योपर्यादित्यमिति वासवा आदित्यस्याश्वाः। ते च सप्तसंख्याकाः। सप्त युञ्जन्ति रथमेकचक्रमिति मन्त्रवर्णात्। न चैवं सत्येको अश्वो वहति सप्तनामेत्यनेन विरोधः। वचनद्वयबलेन विकल्पस्याङ्गीकृतत्वात् ते च सप्ताश्वाः स्वारुहो यथाऽऽदित्यापरतन्त्रा अपि स्वयमेवा-ऽऽरोहन्त इव वर्तन्ते, सुशिक्षितत्वेन प्रेरणं विनैव प्रवृत्तत्वात्। तादृशाः सप्ताश्वा यस्मिन्नादित्य आभिवर्तन्ते आतिष्ठन्ति स आदित्य ऋषिर्हातीन्द्रि-यज्ञान्येव सर्वदा वेदत्रयोपेतत्वात्। अत एवाऽऽम्नायते — “वेदैरशून्यस्त्रिभिरेति सूर्यः” इति। दीर्घश्रुत्तमस्त्रैलोक्यप्रकाशनेन प्रथितकीर्तितमः। ईदृशो घर्मो दीप्यमान आदित्य इन्द्रस्य गृहेऽतिथिः स्वाभीष्टं याचितुं यदा कदाचिदागच्छति तस्येन्द्रस्य महिमा किमिव वक्तव्य इत्यभिप्रायः।
याज्यामाह - आमास्विति। आमासु फलपाकरहितास्वोषधीषु पक्वं सम्यक्पाकयुक्तं फलं हे इन्द्र त्वमैरयो वृष्टिद्वारा संपादितवानसि। सूर्यं विचरन्तं परिवर्तनसाम- र्थ्यप्रदानेन दिव्यारोहयसि। हेतिभिर्यजमाना जुष्टमिन्द्रस्य प्रियं हविः पुरोडाशरूपं तपत सुष्ठु हुतं कुरुत। किमिव, घर्मं न प्रवर्ग्यमिव, सुवृक्तिभि-र्हुंकारप्रस्तावादिशोभनभक्तियुक्तैः सामन्सामभिर्धर्मं यथा तपन्ति। गिर्वणसे गीर्भिः स्तुत्यायेन्द्राय गिरः स्तुतिरूपाः प्रयुङ्क्तेति शेषः।
इष्ट्यन्तरं विधत्ते - “इन्द्रायार्कवते पुरोडाशमेकादशकपालं निर्वपेदन्नकामोऽर्को वै देवानामन्न-मिन्द्रमेवार्कवन्तँ स्वेन भागधेयेनोपधावति स एवास्मा अन्नं प्र यच्छत्यन्नाद एव भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति।
बुभुक्षुभिरर्थ्यमानत्वादादरेण स्वीक्रियमाणत्वादन्नस्यर्कत्वाम्।
तत्र पुरोनुवाक्यामाह - इन्द्रमिदिति। गाथिनः सामगा बृहद्बृहता साम्नेन्द्रमिदिन्द्रमेवानूषतास्तुवन्। ऋच् स्तुतावित्यस्माद्धातोरुत्पन्नोऽर्कशब्द ऋचमाचष्टे। अर्केभिग्भिरर्किणो बह्वृचा इन्द्रमस्तुवन्। वाणीरन्या अपि वाचो यजुरूपा इन्द्रमस्तुवन्।
याज्यामाह - गायन्तीति। हे शतक्रतो गायत्रिणो गायत्रसामयुक्ता उद्गातारस्त्वां गायन्ति। अर्किणो बृह्वृचास्त्वामर्चन्ति स्तुवन्ति। ब्रह्माणस्तदुपलक्षिता अध्वर्यवोऽपि त्वामुद्येमिर उत्थापयन्ति वर्धयन्तीत्यर्थः। किमिव, वंशमिव। यथा कुलाचारादिभिः स्वकीयं वंशमुन्नतं कुर्वन्ति तद्वत्।
इष्ट्यन्तरं त्रिहविष्कं विधत्ते - “इन्द्राय घर्मवते पुरोडाशमेकादशकपालं निर्वपेदिन्द्रायेन्द्रियावत इन्द्रा-यार्कवते भूतिकामो यदिन्द्राय घर्मवते निर्वपति शिर एवास्य तेन करोति यदिन्द्रायेन्द्रियावत आत्मानमेवास्य तेन करोति यदिन्द्रायार्कवते भूत एवान्नद्ये प्रति तिष्ठति भवत्येव” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति।
तेन घर्मवते निर्वापेणाध्वर्युरस्य यजमानस्य शिरः करोति। एवंविधैश्वर्या-दिभिः सभायामुन्नतशिरस्कं करोति। तेनेन्द्रियावते निर्वापेणास्य यजमानस्याऽऽत्मानमेव करोति पुष्टशरीरमेव करोति। अर्कवते निर्वापेण यजमानो भूत एवैश्वर्यं प्राप्त एव सन्नदनयोग्ये सम्यगन्ने प्रतितिष्ठति। भवत्येव पुनरप्याधिकमैश्वर्यं प्राप्नोत्येव। अत्र घर्मवतो हविषि ‘आ यस्मिन्’ इत्यादिके याज्यानुवाक्ये। इन्द्रियावतो हविषि “इन्द्रियाणि शतक्रतो” इत्यादिके। अर्कवतो हविषि “इन्द्रमिद्गाथिनो बृहत्” इत्यादिके।
इष्ट्यन्तरं विधत्ते - ‘इन्द्रायाँ होमुचे पुरोडाशमेकादशकपालं निर्वपेद्यः पाप्मना गृहीतः स्यात्पाप्मा वा अँह इन्द्रमेवाँहोमुचँ स्वेन भागधेयेनोप धावति स एवैनं प्राप्मनोऽँहसो मुञ्चति’ (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति।
अंहःशब्देनात्र नरकहेतुर्निषिद्धाचरणादिरूपः पाप्मोच्यते। पाप्मनोंऽह-सोऽत्यधिकात्पापादित्यर्थः।
तत्र पुरोनुवाक्यामाह - अँहोमुच इति। गृणानाः स्तुवन्तो वयमोषिष्ठदाव्ने ग्रीष्मकाले दावा-ग्निनाऽत्यन्तदग्धभूप्रदेशेभ्यो वर्षर्तौ वृष्टिदात्रेंऽहोमुचे पापान्मोचयित्रे मनीषां बुद्धिं प्रभरेम स्वी कुर्मः। कीदृशीं सुमतिं, त्वां तोषयेमेत्येवमादिशो-भनमननोपेताम्। हे इन्द्रेदं त्यज्यमानं हव्यं प्रतिगृहाण। तेन यजमानस्य कामाः सत्याः सन्तु।
याज्यामाह - विवेषेति। यद्यस्मात्कारणाद्धिषणा पूर्वोक्ता बुद्धिर्मां विवेष व्याप्तवती तस्मादहं सुबुद्धिर्जजान जातवानस्मि। एत एव पार्यादह्नः पुरोत्तमान्मरणादि वसात्पुरा त्वां स्तवै, आमरणं स्तवानीत्यर्थः। यत्र यस्यां धिषणायां सत्यामि न्द्रोऽस्मानंहसः पापात्पीपरदुत्तारितवान्सा धिषणा विवेषेत्यन्वयः। अथवा यत्राहन्यस्मानंहसः पारयति तस्मात्पार्यादह्नः पुरा स्तवा इत्यन्वयः। यथा लोके नावा नद्यां यान्तं नाविकमुभये कुलद्वयवर्तिनो हवन्ते मामुत्तारयेत्पाह्वयन्ति तथैवांहसो मुक्तानस्मानुभयकूलप्रभवा आह्वन्तीत्यर्थः।
अत्रैव विकल्पितामन्यां याज्यामाह - प्रसम्राजमिति। हे नरो मनुष्या ऋत्विजः प्रकर्षेणेन्द्रं भजतेति शेषः। कीदृशं, सम्राजं सम्यग्दीप्यमानम्। अध्वराणामग्निष्टोमादीनां प्रथमं मुख्यदेवम्। अंहोमुचं पापान्मोचयितारम्। यज्ञियानां यज्ञसंबन्धिफलानां वृषभं वर्षितारम्। अपां वृष्टिरूपाणामुदकानां नपातमविनाशयितारम्। हयन्तमैश्वर्यस्य गमयितारम्। हेऽश्विनावस्मिन्यजमान इन्द्रियं चक्षुरादिपा-टवमोजो बलं च धत्तं स्थापयतम्।
इष्ट्यन्तरं विधत्ते - “इन्द्राय वैमृधाय पुरोडाशमेकादशकपालं निर्वपेद्यं मृधोऽभि प्रवेपेरन्रा-ष्ट्राणि वाऽभि समियुरिन्द्रमेव वैमृधँ स्वेन भागधेयेनोप धावति स एवास्मान्मृधोऽपहन्ति” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति।
मृधो वैरिणो यं यजमानमभितः प्रवेपेरन्प्रकर्षेण कम्पयेयुर्भीतिमुत्पादयेयुः। अथवा राष्ट्राणि देशानभितो विनाशयितुं समियुः संगता भवेयुः, तस्य यजमानस्य रक्षायै वैमृधाय शत्रुविनाशकायेन्द्राय निर्वपेत्। स चेन्द्रोऽस्मा- द्यजमानान्मृधः शत्रूनपहन्ति।
तत्र पुरोनुवाक्यामाह - वि न इन्द्रेति। हे इन्द्र नोऽस्माकं मृधः शत्रून्विशेषेण जहि। किंच, पृतन्यतोऽस्मान्घातयितुं सेनामिच्छतः शत्रून्नीचान्न्यग्भूतान्यच्छोपरतान्कुरु। यश्चान्योऽस्मानभिदासत्युपक्षपयति तमीं तमपि वैरिणमधस्पदमस्मत्पादयोः प्रणतशिरस्कं कृधि कुरु।
तत्र याज्यामाह - इन्द्र क्षत्रमिति। हे इन्द्र वामं वननीयं क्षत्रं क्षताद्रक्षणमोजोऽस्मदीयं बलं चाभिलक्ष्याजायथा एतत्सर्वं संपादयितुं जातोऽसि। चर्षणीनां मनुष्याणां हे वृषभ कामानां वर्षकामित्रयन्तं शत्रुभावमिच्छन्तं जनमपानुदस्तिरस्कृतवानसि। देवेभ्यो हविष्प्रदानादिव्यवहारिभ्यो यजमानेभ्य उरुं विस्तीर्णं लोकं भोगस्थानमकृणोरु कृतवानेवासि।
तस्यामेवेष्टौ विकल्पितां पुरोनुवाक्यामाह - मृगो नेति। हे इन्द्र भीमो भयंकरः कुचरः प्राणिभक्षणादिरूपकुत्सिताचर-णशीलो गिरिष्ठाः पर्वतनिवासी मृगो न सिंहव्याघ्रादिमृग इव परस्याः परावतो महतो दूरादाजगामास्मद्विरोधिनं हन्तुमागतोऽसि। आजगन्थेति हि शाखान्तरे मध्यमपुरुषः पठितः। सृकं परशरीरादिषु सरणशीलं तिग्मं तीक्ष्णं पविं वज्रं संशाय सम्यक्तीक्ष्णं कृत्वा विशेषेण शत्रूंस्ताडय। मृधो योद्धॄञ्शत्रून्विशेषेण नुदस्व निराकुरु ।
विकल्पितां याज्यामाह - वि शत्रूनिति। हे इन्द्र शत्रून्विशेषेण नुद निराकुरु। मृधो योद्धॄनपि विशेषेण नुद। वृत्रस्य हनू विरुज विशेषेण भग्नी कुरु। त्वं भामितः क्रुद्धः सन्नभिदासतोऽस्मानुपक्षपयतोऽमित्रस्य वैरिणो मन्युं विशेषेण भग्नं कुरु।
इष्ट्यन्तरं विधत्ते - “इन्द्राय त्रात्रे पुरोडाशमेकादशकपालं निर्वपेद्बद्धो वा परियत्तो वेन्द्रमेव त्रातारँ स्वेन भागधेयेनोप धावति स एवैनं त्रायते” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति। बद्धः शृङ्खलया निगडितः। परियत्तः शृङ्खलामन्तरेण परितो भटैवरुद्धः।
तत्र पुरोनुवाक्यामाह - त्रातारमिति। त्रातारं शृङ्खलाबन्धाद्रक्षितारम्। अवितारं भटावरोधाद्रक्षि-तारम्। शूरं बन्धकानामवरोधकानां च तिरस्कारे क्षमम्। हवे हवे सुहवं सर्वस्मिन्होमे सुखेनाऽऽह्वातुं शक्यम्। शक्रं सर्वेषु कार्येषु शक्तियुक्तम्। पुरुहूतं बहुभिर्यजमानैराहूतमिन्द्रं हुवे नु आह्वायाभ्येव। प्रतिविशेषणमिन्द्र-शब्दावृत्तिर्वाक्यभेदार्थम्। त्रातारमिन्द्रं हुवे। अवितारमिन्द्रं हुव इत्येवं वाक्यभेदः। तैश्च बहुभिर्वाक्यैरादरातिशयः प्रदर्श्यते। इन्द्राऽऽगच्छ हरित आगच्छेत्यादौ तद्दर्शनात्। लोकेऽप्यतिबालं पुत्रमुपलालयितुं पितरागच्छ भ्रातरागच्छेत्यादौ दृश्यते। मघवा धनवानिन्द्रो नोऽस्माभ्यं स्वस्ति धातु अविनाशं ददातु।
तत्रैव याज्यामाह – मा ते अस्यमिति। हे सहसावन्बलवन्निन्द्रास्यां परिष्टौ परित्राणार्थं क्रियमा-णायामिष्टौ वयमघाय वैकल्याय मा भूम, अस्मदनुष्ठिते कर्मणि वैकल्यं मा भूदित्यर्थः। हे हरिवो हरिभिरश्वैस्तद्वन्परादै परादातुं त्वामवज्ञातुं वयं मा भूम कदाचिदप्यवज्ञां मा करवामेत्यर्थः। त्वं नोऽस्मानवृकेभिर्हिंसकरहितैर्वरूथै-र्गृहैस्त्रायस्व। तादृशान्गृहान्प्रयच्छ। सूरिषु विद्वत्सु यजमानेषु मध्ये वयं तव प्रिया भवेम।
इष्ट्यन्तरं विधत्ते - “इन्द्रायार्काश्वमेधवते पुरोडामेकादशपालं निर्वपेद्यं महायज्ञो नोपनमेदेते मै महायज्ञस्यान्त्ये तनू यदर्काश्वमेधाविन्द्रमेवार्काश्वमेधयन्तँ स्वेन भागधेयेनोप धावति स एवास्मा अन्ततो महायज्ञं च्यावयत्युपैनं महायज्ञो नमति” (सं॰ का॰ २ प्र॰ २ अ॰ ७) इति।
अश्वमेधयज्ञस्य साधनभूतो योऽग्निः सोऽर्कः। यश्च तत्फलभूत आदित्यः सोऽश्वमेधः। अत एव पञ्चमकाण्डे पञ्चार्काहुतिविधिशेषार्थवादे समाम्नायते - “अर्को वा एष यदाग्निरसावादित्योऽश्वमेधो यदेता आहुतीर्जुहोत्यर्काश्वमेधयोरेव ज्योतीँषि संदधाति” इति। अश्वमेधब्राह्मणेऽप्याम्नायते - “अग्निर्वा अश्वमेधस्य योनिरायतम्। सूर्योऽग्नेर्योनिरायतनम्। यदश्वमेधेऽग्नौ चित्य उत्तरवेदिं चिनोति तावर्काश्वमेधौ” इति। वाजसनेयिनोऽपि चित्यस्यग्नेरुपासने समामनन्ति — “एष वा अश्वमेधो य एष तपति तस्य संवत्सर आत्माऽयमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्काश्वमेधौ” इति। इन्द्रः स्तुतयोरग्न्यादित्ययोः स्वामित्वादर्काश्वमेधवानित्युच्यते। यं यजमानं प्रत्यश्वमेधराजसूयरूपो महायज्ञो नोपनमेन्न प्राप्नुयात्स यजमानोऽर्काश्वमेधस्वामिने निर्वपेत्। यावेतावर्काश्वमेधशब्दवाच्यावग्न्यादित्यौ तावुभौ महायज्ञस्याश्वमेधस्यान्त्ये तनू प्रारम्भसमाप्तिकोटयोर्वर्तमानशरीरे। चित्याग्निः साधनत्वेन प्रारम्भकोटौ वर्तते। आदित्यः फलरूपत्वेन समाप्तिकोटिगामी। स एवेन्द्र एवास्मै यजमानस्य समीपे महायज्ञं प्रेरयति। स च महायज्ञ एनं यजमानमुपनमति प्राप्नोति।
तत्र पुरोनुवाक्यामाह - अनवस्त इति। हे पुरुहूत बहुभिर्यजमानैराहूतेन्द्र ते तव रथमनवो मनुष्यास्तक्षंस्तक्षन्तु संस्कुर्वन्तु। किमर्थम्। अश्वायाश्वं संयोक्तुम्। त्वष्टा देवः शिल्पी द्युमन्तं दीप्तिमन्तं वज्रं तक्षतु। ब्रह्माणो ब्राह्मणा ऋत्विजोऽर्कैर-र्चनसाधनैर्मन्त्रैर्महयन्तः पूजयन्त इन्द्रमवर्धयन्यशसा वर्धयन्तु। अहयेऽहिमघं महायज्ञप्राप्तिप्रतिबन्धकं पापं हन्तवा उ अवश्यं हन्तुमवर्धयन्नित्यन्वयः।
याज्यामाह - वृष्णे यत्त इति। हे इन्द्र यद्यदा वृष्णे ते कामाभिवर्षिणस्तव संबन्धिनमर्क-मर्चनीयं वृषणं वर्षणं (कं) फलाभिवर्षकं यागं ग्रावाणः साधनभूता दृषदुपलादयः पदार्था अर्चानर्चयन्ति अलंकुर्वन्ति, तदानीमदितिर्वेदिरूपा पृथिवी सजोषास्त्वया समानप्रीतिर्भवतु। इन्द्रेषिता इन्द्रप्रेरिता ये पवयो वज्राः सन्ति तेऽप्यरथा अनश्वासो रथाश्वनिरपेक्षा एव दस्यून्महायज्ञप्राप्तिप्रतिबन्धकानसुरानभ्यवर्तन्ताभिलक्ष्य हन्तुं प्रवर्तन्ताम्।
अत्र विनियोगसंग्रहः —
“इन्द्रं वो विश्वतोऽमुष्मिंश्चरावैन्द्र ऋचोर्द्वयम्।
इन्द्रीन्द्रियावद्यागे स्यादा यस्मिन्घर्मवद्यजौ॥१॥
इन्द्रं स्यादर्कवद्यागे तिस्रोंऽहोमुग्यजावृचः।
विनो (वै)मृधे चतस्रः स्युस्त्रातारं त्रातृमद्यजौ।
अनवोऽर्काश्ववद्यागे मन्त्राः सप्तदशेरिता (न्त्रा एकोनविंशतिः”
॥२॥ इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे षष्ठप्रपाठके द्वादशोऽनुवाकः॥१२॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥१॥
इति श्रीमद्विद्यातीर्थमेहश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्व-
रस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण
विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
प्रथमकाण्डे षष्ठः प्रपाठकः॥६॥