(अथ प्रथमकाण्डे पञ्चमप्रपाठके प्रथमोऽनुवाकः) ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥१॥
अध्वर्योः प्रकृतौ मन्त्राः प्रपाठकचतुष्टये । वर्णिताः पुनराधेयं पञ्चमाद्ये प्रवक्ष्यते ॥२॥
आधानादूर्ध्यमेवैषा वक्तव्या पुनराहितिः । तथाऽप्यध्ययनस्यायं क्रमो वरवृतत्वतः ॥३॥
सरस्वती स्वपुत्राय तद्बुद्धिस्थे क्रमे वरम् । ददौ तेन क्रमेणैव पठन्त्यन्येऽपि पाठकाः ॥४॥
एकादशानुवाकाः स्युः पञ्चमेऽस्मिन्प्रपाठके । तत्राऽऽदौ पुनराधेयमनुवाकचतुष्टये ॥५॥
ततः षट्केऽग्न्युपस्थानं काम्ययाज्यास्तथाऽन्तिमे । विधीयतेऽनुवाकेऽस्मिन्नादिमे पुनराहितिः ॥६॥
‘उद्वास्य पुनरादधीते’ति विधास्यति । तत्र पुनराधेयस्याग्निदेवतां विधातुमग्निविषयमुपाख्यानमुदाहरन्प्रसङ्गाद्रजतस्य यज्ञे दक्षिणात्वं निषेधति -
देवासुरा इति । देवाश्चासुराश्च संयत्ता युद्धयुक्ताः । विजयं प्राप्नुवन्तो देवास्तदा तेभ्योऽसुरेभ्योऽपहृतं मणिमुक्तादिकं श्रेष्ठं वसु रक्षणायाग्नौ निक्षिप्तवन्तः । कथंचिदसुराणां विजये सत्येतद्धनमस्माकमापद्युपयुज्येतेति देवानामाशयः । तद्धनमग्निर्न्यकामयतेच्छां कृतवान् । तेन धनेन सहापाक्रामत्पलायनमकुरुत । देवाः पुण्यवशेनासुरान्विजित्य तद्धनमवरुरुत्समाना अवरोद्धुमिच्छावन्तोऽनु अग्नेः पश्चादायंस्तद्धनं बलात्कारेणाऽऽदातुमिच्छावन्तः । सोऽग्निररोदीद्रोदनं कृतवान् । प्रसङ्गाद्रुद्रशब्दस्य प्रवृत्तिनिमित्तं विधत्ते - यतो रोदनं कृतवांस्ततो रुद्रस्य रुद्रत्वम् । यदश्रु नेत्रात्सकाशाद्बिन्दुरशीयत भूमावपतत्तद्रजतं हिरण्यमभवद्रजतरूपं धनमभवत् । अत्र हिरण्यशब्दस्य धनसामान्यवाचित्वाद्रजतं हिरण्यमित्यविरुद्धम् । तस्याश्रुजत्वेन दक्षिणां प्रत्ययोग्यत्वात्तद्दाने संवत्सरादर्वागेतद्गृहे किंचिद्रोदननिमित्तं भवति तस्माद्बर्हिषि यज्ञे तन्न दद्यात् ।
अग्निदेवतां पुनराधेये विदधाति - सोऽग्निरिति । आदावसाधारणेन भागेन युक्तो भवानि, पश्चादिदं वसु युष्मभ्यं दास्यामीत्यग्निनोक्ता देवस्तवैतत्पुनराधेयमिति भागं ददुः । तेन तुष्टोऽग्निरिदमब्रवीद्यो मद्देवत्यं हविः कृत्वाऽग्निं पुनरादध्यात्स खलु समृद्धिमानिति । तस्मात्समृद्ध्यर्थं पुनराधेयं हविरग्निदैवतं कुर्यादित्यर्थः ।
तामेव समृद्धिमुदाहरणेन स्पष्टयति - तं पूषेति । पूषत्वष्टृमनुसंवत्सराभिमानिधातृभिः पश्वादिसमृद्धिर्लब्धा ।
समृद्धिवेदनं प्रशंसति - य एवमिति । पूषादिरूपस्याग्निवन्धुसमूहस्य वेदनं प्रशंसति -
योऽस्येति । पुनराधेयं विधत्ते - भागधेयमिति प्रथमाधानेनाऽऽहितोऽग्निरसाधारणभागवाञ्छयाऽधिकोपद्रवं चकार, तच्छान्तिरनेन भवति । तस्मादुद्वासनेष्ट्या पूर्वाग्निमुद्वास्य पुनरप्यग्निमादध्यात् । इष्टिमुद्वासनं च सूत्रकारो दर्शयति – ‘आग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालं वारुणं दशकपालमग्नयेऽप्सुमतेऽष्टाकपालं मैत्रं चरुमग्निमुद्वासयिष्यन्’ इति । ‘पौर्णमासीमिष्ट्वा ज्वलतोऽग्नीनुत्सृजति’ इति च ।
कालं विधत्ते - पुनर्वस्वोरिति । पुनरावर्तते वामं वस्वनयोरिति पुनर्वसू । ततो नक्षत्रात्मिका देवता स्वकीया ।
पुनराधेयस्य प्रथमाधानविकृतित्वात्काष्ठैराधानप्राप्तावपोद्य दर्भान्विधत्ते - दर्भैरिति । अत्रापि काष्ठैराधाने गतसारत्वं स्यात् । अत एव सूत्रकार आह - ‘आयतनेषु पुराणान्दर्भान्सस्तीर्य भूमिर्भूम्नेति सर्पराज्ञीभिर्गार्हपत्यमादधाति’ इति ।
दर्भविधिमनूद्य प्रशंसति - दर्भैरिति । इन्द्रो वृत्रमहन्नित्यादौ दार्शिकब्राह्मणे च दर्भाणामप्कार्यत्वाभिधानादब्रूपत्वमोषधिरूपत्वं च विस्पष्टम् ।
अस्मिन्पुनराहितेऽग्नौ कर्तव्याया इष्टेरग्निर्देवता पूर्वं विहिता । अथ द्रव्यं विधत्ते - पञ्चकपाल इति । बह्वृचब्राह्मणे द्वादश मासाः पञ्च चर्तवो हेमन्तशिशिरयोः समासेनेत्याम्नानानादृतूनां पञ्चसंख्या ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके प्रथमोऽनुवाकः ॥१॥
(अथ प्रथमकाण्डे पञ्चमप्रपाठके द्वितीयोऽनुवाकः)।
द्वितीयानुवाके याज्याद्यङ्गजातं विधित्सुः पूर्वोक्तं द्रव्यविधिमनूद्य प्रशंसति -
परा वा इति। परावपति विनाशयति। धानादिभिर्हविर्भिर्यज्ञः पाङ्क्तः। पङ्क्तिच्छन्दसः पशुहेतुत्वात्पशवोऽपि पाङ्क्ताः।
याज्यानुवाक्ये विधत्ते - वीरहेति। देवानां मध्ये वीरोऽग्निः। तद्वधकारिणो यजमानस्यान्नमृतायवः सत्यमिच्छन्तो ब्राह्मणाः पुरा नैवाक्षन्नेव भुक्तवन्तः। ‘अश भोजने’ इत्यस्य रूपम्। अग्ने तमद्याश्वं न इत्यादयश्चतस्र ऋचः पङ्क्तयः। तासु प्रधानहविषो द्वे स्विष्ठकृतो द्वे। ताश्चाग्निकाण्डे - अग्निर्मूर्धेत्यनुवाक इष्टकोपधानार्थत्वेनाऽऽ म्नाताः इह तु वाचनिकस्तद्विधिः। शाखान्तरे तु याज्याप्रस्तावे समाम्नाताः। पुरुषस्य हस्तद्वयपादद्वयशिरोभिः पञ्चभिः पाङ्क्तत्वम्। देवानेव देवानामेव मध्ये वीरमग्निं निरवदायोत्सर्जनलक्षणवधभयान्निष्कृष्य।
चतसृष्वृक्षु विद्यमानाक्षरसंख्यां प्रशंसति -
शताक्षरा इति। अग्ने तमद्येत्येषा प्रथमा चतुर्विंशत्याक्षरा। अधा ह्यग्ने क्रतोः, आभिष्टे अद्येत्युभयोरेकैका पञ्चविंशत्यक्षरा। एभिर्नो अर्कैरित्यन्त्या षड्विंशत्यक्षरेति संभूय शतमक्षराणि। अण्डाभिमानिनो ब्रह्मणः स्वप्रमाणेन शतसंवत्सरायुष्ट्वात्तत्संततिपतितस्यापि सामान्येन शतायुष्ट्वं, धर्माधर्माभ्यां तूत्क र्षापकर्षौ भवतः। शतनाडीषु संचाराद्दशेन्द्रियेषु शतसंख्या।
प्रधानकर्मण एव प्रयाजाज्यभागाद्यङ्गानामप्याग्नेयत्वं विधत्ते - यद्वा इति। यजमानस्य समृद्ध्यभावादग्नेः समृद्ध्यभावोऽनुमेयः।
समिधो अग्न आज्यस्य वियन्त्वित्यादिषु चतुर्षु प्रयाजमन्त्रेषु संबुद्ध्यन्तादग्नि-शब्दात्पूर्वं संबुद्धिसप्तमीतृतीयाद्वितीयाविभक्त्यन्तानामग्निशब्दानां क्रमेण प्रयोगं विधत्ते - सं वा इति। अग्निमुद्वासयितुरेतस्य वाग्गृहेऽवस्थितानां स्त्रीशूद्रादीनां वाग्भिः संसृज्यते तत्समा भवति। तां वाचमनु यजमानोऽपीतरवैलक्षण्यरूपस्योत्कर्ष-स्याभावात्पराभूतो भवति। एताभिस्तु विभक्तिभिः पुनराधेस्याग्न्याधेयाद्वैलक्ष-ण्ये सति यजमानस्य विलक्षणत्वेन वाग्विधृतौ सत्यां पराभवः शाम्यति। विभक्तयः सूत्रे दर्शिताः – “अग्नेऽग्नेऽग्नावग्नेऽग्निनाऽग्नेऽग्निमग्न इति चतुर्षु प्रयाजेषु चतस्रो विभक्तीर्दधाति” इति। तथा चैवं मन्त्रपाठः संपद्यते – “समिधोऽग्नेऽग्न आज्यस्य वियन्तु। तनूनपादग्नावग्न आज्यस्य वेतु। इडो अग्निनाऽग्न आज्यस्य वियन्तु। बर्हिरग्निमग्न आज्यस्य वेतु” इति।
यथोक्तविभाक्तिविधिमनूद्य प्रशंसति - विभक्तिमिति। तत्पुनराधेयं ब्रह्मैवाग्न्याधेयात्परिवृढमेव करोति।
अत्र मन्त्राणां नीचध्वनिं विधत्ते - उपाँश्विति। यथा लोके श्रेष्ठं वसु लब्धवान्पुरुषो गोपायति तद्वत्।
स्विष्टकृत्युच्चध्वनिं विधत्ते - अग्निं प्रतीति। निराह निःशेषध्वनिं कुर्यात्। यथा लोके श्रेष्ठं वसु लब्धवान्द्रव्यपतिः प्रसिद्धिं गन्तुमिच्छति तद्वत्।
पूर्वं विहितानां विभक्तीनां प्रयाजमन्त्रसबन्धं विधत्ते - विभक्तिमिति। विभक्तिवचनप्रकारो दर्शितः। तदुक्तिसहितेन प्रयाजमन्त्रेण वषट्कारपूर्वं यजेत। तथा सति पूर्वोक्तवाक्संसर्गकृतपराभवरहित आयतनात्स्वगृहान्नैति न निर्गच्छति, किंतु स्वगृहे प्रतितिष्ठति।
पुनरूर्जा निवर्तस्व, सह रय्या निवर्तस्वेत्याभ्यां मन्त्राभ्यामाग्नेयपुरोडाश-स्याधस्तादुपरिष्टाच्चाऽऽहुतिद्वयं विधत्ते - यजमानो वा इति। अत्र चोदकप्राप्तान्संभारानाधानमन्त्रांश्च वाजसनेयादि-शाखान्तरमनुसृत्य पूर्वपक्षरूपेण निराचष्टे कृतजुरिति यजुःशब्देन सर्पराज्ञीप्रभृतय आधानमन्त्रा विवक्षिताः। संभारशब्देन सिकतोषादिसप्तमृद्विशेषाः सप्त विवक्षिताः। प्रथमाधाने यजुषामुच्चारितत्वात्संभाराणां च संपादितत्वादस्यापि कर्मविशेषस्याऽऽधानादत्यन्तभेदाभावेन यजुःसंभारयोः सिद्धत्वात्तदुभयं पुनर्न कर्तव्यमिति पूर्वः पक्षः। प्रथमाधाने वाजसनेयिमतं सूत्रकार उदाजहार - “सप्त पार्थिवान्संभारानाहरत्येवं वानस्पत्यान्पञ्च पञ्च वा भूयसो वा पार्थिवान्संभारान्संभरsदिति वाजसनेयकम्”इति।
सिद्धान्तमाह
अथो खल्विति। अथोशब्दः पूर्वपक्षव्यावृत्त्यार्थः। अत्र सूत्रकारः पक्षद्बय-मुदाजहार – “कृताकृताः संभारा यजूँषि च भवन्त्यपि वा पञ्च पार्थिवान्सं-भारानाहरत्येवं वानस्पत्यान्” इति।
दक्षिणां विधत्ते - पुनर्निष्कृत इति। भग्नः संन्दृढीकृतः पुनर्निष्कृतः। छिन्नं सत्सूचीतन्तुभ्यां स्यूतं पुनरुत्स्यूतम्। दौर्बल्येन भारं वोढमशक्ततया परित्यक्तः सन्कथंचित्पोषणेन शक्तीकृतः पुनरुत्सृष्टः।
तूष्णीमेव होतव्यमिति प्रथमाधानस्यामन्त्रत्वेन यदग्निहोत्रं विहितं तदत्र चोदकप्राप्तं तदपोद्य समन्त्रकं विधत्ते - सप्त ते इति। मन्त्रस्तूपरिष्टाद्व्याख्यास्यते। अत्र(स्य) पुनराधेयदेवस्याग्ने-र्यद्यदङ्गं यस्मिन्यस्मिन्प्रदेशे न्यक्तं निमग्नं विस्मृतं तत एव प्रदेशात्साङ्गमेन-मग्निं संपादयति -
अनुनिर्वप्यं हविर्विधत्ते - वीरहेति। ऋणिनमिव यातयति पीडयतीत्यृणयात्। तौ वध्याग्निपोडयितृ-वरुणौ तोषयति।
अथ मीमांसा।
दशमाध्यायस्य तृतीयपादे चिन्तितम् -
“एकादिना समुच्चेयं मुनर्निष्कृत इत्यदः।
बाधकं वा समुच्चेयमुभयीरित्युदीरणात्॥
आधानदक्षिणोपेतमुभयीरित्यनूद्यते।
ददातीत्यविधायित्वात्कार्यैक्याद्बाधकं भवेत्” इति॥
आधाने विकल्पिता गोद्रव्यदक्षिणा द्रव्यान्तरदक्षिणाश्च बहवः श्रूयन्ते - “एका देया षड्देया द्वादश देयाः” इत्यादिना। पुनराधेये तु पुनर्निष्कृतो रथ इत्यादि श्रुतम्। भग्नः सन्पुनः समाहितः पुनर्निष्कृतः। सेयं पुनर्निष्कृतादिद-क्षिणा किमतिदिष्टयैकादिदक्षिणया समुच्चीयत उत तां बाधत इति संशयः। उभयीर्दक्षिणा ददात्याग्न्याधेयिकीः पौनराधेयिकीश्चेत्युक्तत्वात्समुच्चय इति पूर्वः पक्षः। ददातीति वर्तमाननिर्देशस्य विधित्वाभावादाधानकाले पूर्वं दत्तं पुनराधानकाले दीयमानं च मिलित्वोभयीरिनूद्यते। दक्षिणात्वरूपस्य कार्यस्यैकत्वादुपदिष्टमतिदिष्टस्य बाधकम्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके द्वितीयोऽनुवाकः॥२॥
(अथ प्रथमकाण्डे पञ्चमप्रपाठके तृतीयोऽनुवाकः)।
प्रथमद्वितीययोः पुनराधेयस्य प्रधानविधिस्तदङ्गानि च निरूपितानि। तृतीये त्वाधानमन्त्र आम्नायते।
कल्पः - ‘भूमिर्भूम्नेति सर्पराज्ञीभिर्गार्हपत्यमादधाति यत्त्वा क्रुद्धः परोवपेति दक्षिणाग्निं यत्ते मन्युपरोप्तस्येतीतरान्’ इति।
आहवनीसभ्यावसथ्यानित्यर्थः। त एते षण्मन्त्राः
तत्र प्रथम एव पठ्यते - भूमिर्भूम्नेति। हे गार्हपत्यप्रदेश त्वं लोकत्रयात्मकोऽसि। तत्र भूम्ना बाहुल्येन भूमिरसि। वरिणा वरिम्णा श्रेष्ठत्वेन द्यौरसि। महित्वा महत्त्वेनान्तरिक्षमसि। हेऽदिते भूमे तत्प्रदेशरूपे देवि तवोत्सङ्गेऽन्नभोक्तरं गार्हपत्याग्निं यजमानस्यादनयोग्यान्नसिद्ध्यर्थमादधे।
अथ द्वितीयः - आऽयं गौरिति। अयं गार्हपत्य आदित्यरूपेण गौर्गमनशीलः पृश्निः श्वेतवर्णो जगदाक्रमीत्। आक्रमणप्रकार एवं स्पष्टी क्रियते - पुनर्मातरं पृथिवीमसन-दासीदत्प्राप्नोदित्यर्थः। सुवः स्वर्गरूपं पितरं च प्रयन्प्रकर्षेण गच्छन्नवस्थितः। द्यौः पिता पृथिवी मातेति श्रुत्यन्तरात्तयोर्मातापितृत्वम्।
अथ तृतीयः - त्रिँशद्धामेति। आदित्यरूपस्य गार्हपत्यस्य संबन्धि त्रिंशत्संख्याकं धाम मुहूर्तरूपं तेजो विशेषेण राजते। अह्नः पञ्चदश मुहूर्ता रात्रेः पञ्चदश। किंच वैदिकस्तुतिरूपा वाक्पतङ्गाय पक्षिवदाकाशसंचारिणमादित्यं शिश्रिय आश्रितवतीत्यर्थः। अत एवान्यत्राऽऽम्नायते – ‘ऋग्भिः पूर्वाह्णे दिवि देव ईयते’ इत्यादि। हे तादृग्गार्हपत्य त्वां प्रति यदस्माभिरुद्वासनरूपं प्रतिकूलमाचरीतं तत्सर्वमस्य प्रतिक्षिप मनसि मा कृथाः। द्युभिर्ज्वालारूपाभिर्वहास्मदीयं हविर्देवेषु प्रापय।
अथ चतुर्थः - अस्य प्राणादिति। अस्याऽऽदित्यस्य रोचना दीप्तिः प्राणादुच्छ्वाससदृशादुदयादपानती निःश्वसातुल्यमस्तमयं गच्छन्ती द्यावापृथिव्योरन्तश्चरति। महति मण्डले सीदतीति महिष आदित्यः सुवः स्वर्गं व्यख्यद्यजमानेभ्यः प्रकाशितवान्। आदित्यरूपेण स्तूयमान हे गार्पत्य त्वामादधामीत्यभिप्रायः।
अथ पञ्चमः- यत्त्वा क्रुद्ध इति। हे दक्षिणाग्ने क्रुद्धः कोपपराधीनोऽहं तेन मन्युना त्वां परोवप। उवपेति लिडुत्तमपुरुषः। परोप्तवानुद्वासितवानस्मीति यद्यच्चावर्त्या समृद्ध्यभावलक्षणेन दारिद्र्येणोद्वासितवानस्मीति हेऽग्ने तव प्रसादात्तत्सुकल्पं सुष्टु कृतमस्तु। पुनरपि त्वां वयमुद्दीपयामः।
अथ षष्ठः - यत्त इति। हे आहवनीय मदीयकोपेनोद्वासितस्य तव यत्तेजः पृथिवमनु प्रविश्य ध्वस्तं तत्तेज आदित्यादयः समाहरन्तु।
कल्पः - ‘मनो ज्योतिर्जुषतामिति बृहस्पतिवत्यर्चोपतिष्ठते’ इति।
पाठस्तु - मनो ज्योतिरिति। उद्वासनापराधपरिहाराय मनो माननीयाग्नेर्ज्योतिर्हव्यमाज्यं सेवताम्। विच्छिन्नमिमं यज्ञं संदधातु। बृहस्पतिरस्माकमिमं यज्ञं विरस्तीर्णं करोतु। सर्वेऽपि देवा इह कर्मणि मादयन्तां तृप्तियुक्ता भवन्तु।
कल्पः - ‘सप्त ते अग्ने समिधः सप्त जिह्वा इत्याग्निहोत्रं जुहोति’ इति।
पाठस्तु - सप्त ते अग्ना इति। हेऽग्ने तव समिधः सप्तसंख्याका अश्वत्थोदुम्बरपला-
शशमीविकङ्कताशनिहतवृक्षपुष्करपर्णरूपाः। अत एव सूत्रकारो यथोक्तान्सं-भारान्समन्त्रकाननुक्रम्य, इति वानस्पत्या इत्युपसंजहार। ज्वालारूपा जिह्वाश्च सप्त। तथा चाऽऽथर्वणिका आमनन्ति - ‘काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा।
‘स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः’ (मुण्ड॰ १-२-४) इति।
ऋषयो मन्त्राः। ते च यथोक्तसमित्संपादनार्थाः सप्तसंख्याका अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठ इत्यादयः समाम्नाताः। प्रियाणि धाम स्थानान्याहवनी-यगार्हपत्यदक्षिणाग्निसभ्यावसथ्यप्राजहिताग्नीध्रीयाख्यानि (णि) सोमयागे वह्निधारकाणि सप्तसंख्याकानि। होत्रा होतृप्रमुखा वषट्कर्तारो होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाऽऽग्नीध्रोऽच्छावाकश्चेति सप्तसंख्याकाः। त्वा यजमानाः सप्तधा यजन्ति। अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडश्यतिरा-त्रोऽप्तोर्यामो वाजपेयश्चेति सप्त प्रकाराः। तादृश्स्त्वं सप्त योनीराहवनीया-दिस्थानानि घृतेन सर्वतः पूरय।
कल्पः - ‘पुनरूर्जा सह रय्येत्यभितः पुरोडाशमाहुती जुहोति पुनरूर्जेति वा पुरस्तात्प्रयाजानां सह रय्येत्युपरिष्टादनूयाजानाम्’ इति।
प्रथममन्त्रपाठस्तु - पुनरूर्जेति। हेऽग्ने त्वं मयोद्वासितोऽप्यूर्जा क्षीरादिरसेन सह पुनर्निवर्तस्वा-त्राऽऽगच्छ। इषाऽन्नेनाऽऽयुषा च सह पुनरागच्छ। अस्मान्पुनः पुनः कृता-द्विश्वतः सर्वस्मादपराधात्पाहि।
द्वितीयमन्त्रपाठस्तु- सह रय्येति। हेऽग्ने रय्या धनेन सह निवर्तस्व। प्सा भक्षण इति धातुः। विश्वेन प्सायते भक्ष्यते पीयत इति विश्वप्स्री। तादृश्या वृष्टिधारया विश्वत-स्परि सर्वेषां तृणधान्यलतापादपानामुपरि पिन्वस्व सिञ्च।
कल्पः - ‘यस्तृतीयमादधीत स एतान्होमाञ्जुहुयाल्लेकः सलेक इति’ इति।
मन्त्रत्रयपाठस्तु - लेकः सलेक इति। नवसंख्याका लेकादिनामका य आदित्यास्ते सर्व जुषाणाः प्रीयमाणा अस्माकमाज्यं वियन्तु पिबन्तु।
अत्र विनियोसंग्रहः - “चतुर्भिर्भूमिरित्याद्यैराध्यात्पश्चिमानलम्।
दक्षिणाग्निं तु यत्त्वेति यदित्याहवनीयकम्॥१॥
मनस्तूपस्थितिः सप्त जुहुयादग्निहोत्रकम्।
पुनर्द्वाभ्यां पुरोडाशमभितो जुहुयादथ॥२॥
तृतीयमादधानस्य लेकाद्या होममन्त्रकाः॥३॥” इति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके तृतीयोऽनुवाकः॥३॥
(अथ प्रथमकाण्डे पञ्चमप्रपाठके चतुर्थोऽनुवाकः)।
चतुर्थानुवाके पूर्वोक्ता मन्त्रा व्याख्यायन्ते। तत्रान्नाद्यायेत्येतस्य मन्त्रपदस्या-भिप्रायमाह -
भूमिर्भूम्नेति। आशिषाऽन्नं प्राप्तुमिच्छया।
चतसृभिग्भिराधानं विधत्ते - सर्पा वा इति। जीर्यन्तो जरां प्राप्नुवन्तोऽमन्यन्त कोऽस्या जरायाः प्रतीकार इति विचारितवन्तः। तदा कसर्णीरनामकः कद्रूपुत्रो भूमिरित्यादिकं मन्त्र-संघमश्यत्। तन्मन्त्रसामर्थ्यात्ते सर्पा जीर्णाः शरीरत्वचोऽपहत्य कोमलास्त्वचः प्राप्नुवन्। सर्पाणां राज्ञी भूमिः। इयं वै सर्पतो राज्ञीत्यन्यत्राऽऽम्नानात्। तस्या ऋचो भूमिर्भूम्नेत्यादयस्ताभिराहितो वह्निर्जरां परित्यज्य नूतनः पूतश्च भवति।
तमेव विधिमनूद्य प्रशंसति - पृथिवीमिति। अन्नाद्यायेत्युक्तत्वात्तत्प्राप्तिः। उपस्थे ते देवीत्युक्तत्वाद्भूमौ प्रतिष्ठितत्वम्।
यदाह (दहं) परोवप तत्सुकल्पमित्युक्तिर्बालस्येवाग्नेः सान्त्वनायापलाप इत्याह- यत्त्वा क्रुद्ध इति।
उद्दीपयामसीत्यस्याभिप्रायमाह पुनस्त्वेति।
आदित्या विश्वे तदित्यादेरभिप्रायमाह - यत्त इति।
उपस्थानं विधत्ते - वि वा इति। बृहस्पतिशब्दोऽस्यामस्तीति बृहस्पतिवती।
तं शब्दं प्रशस्य संदधात्विति शब्दस्याभिप्रायमाह - विच्छिन्नमिति।
देवसंबोधनस्योपयोगमाह - विश्वे देवा इति। यज्ञं संततं कृत्वा देवेभ्यस्तत्कथनाय संबोधनम्।
समिदादिषु सप्तसंख्याया उपयोगमाह - सप्त ते इति। समिदादयः सर्वे पदार्थाः सप्त सप्त विनिर्दिश्यन्ते। यस्मात्सप्तधाऽवस्थिताः पदार्थाः अग्नेः प्रियास्तनुवस्तस्मात्तदवरोधाय सप्तसंख्या।
द्वितीयानुवाके विहितयोराहुत्योर्मन्त्रो विनियुङ्क्ते - पुनरूर्जेति।
तृतीयाधाने होमान्विधत्ते - आदित्या वा इति। आदित्या आधानपुनराधाने अनुष्ठाय सुवर्गं गत्वा तत्र व्यतृष्यान्विशेषेण तृषां प्राप्ताः। समृद्धिर्न पर्याप्तेति मत्वा भूमावागत्य लेकादिमन्त्रैर्हुत्वाऽतिशयेन समृद्धिं गताः। ततः पुनराधेयादूर्ध्वमग्निमाधाय लेकादिभिर्जुहुयात्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके चतुर्थोऽनुवाकः॥४॥
(अथ प्रथमकाण्डे पञ्चमप्रपाठके पञ्चमोऽनुवाकः)।
चतुर्भिरनुवाकैः पुनराधानां समापितम्। अथ पञ्चममारभ्य दशमस्य पूर्वार्धपर्यन्तैरनुवाकैरग्न्युपस्थानमुच्यते।
कल्पः - ‘अग्न्युपस्थानं व्याख्यास्याम उपतिष्ठत इति चोद्यमान आहवनी-यमेवोपतिष्ठेत वचनादन्यमुत्तरामाहुतिमुपोत्थाय कवातिर्यङ्ङिवोपतिष्ठेतो-पप्रयन्तो अध्वरमिति षड्भिः’ इति।
तत्र प्रथमा - उपप्रयन्त इति। अध्वरं यज्ञमुपप्रयन्तः प्राप्नुवन्तो वयग्नयेऽग्निसंतोषा-र्थमुपस्थानमन्त्रं वोचेम वक्तारो भूयास्म। कीदृशायाग्नये। दूरादप्यनुग्रहेणास्मदीयं वचः शृण्वते।
अथ द्वितीया - अस्य प्रत्नामिति। अस्याग्नेः प्रत्नां पुरातनीमनुद्युतमनुकूलदीप्तिं गोस्थानीयामह्नयो लज्जामकुर्वन्त ऋत्विजः पयः क्षीरस्थानीयं शुक्रं ज्योतिर्दुदुह्रे दुहन्ति। कीदृशं शुक्रम्। सहस्रसां बहुधनप्रदमृषिं कर्मप्रवर्तकम्।
अथ तृतीया - अग्निर्मूर्धेति। अयमग्निरादित्यरूपेण दिवो द्युलोस्य ककुदुच्छ्रितो मूर्धा शिरस्थानीयः। पृथिव्याः पतिर्दाहपाकादिकारित्वेन पालकोऽप्ययम्। किंच अपां रेतांसि उदककार्याणि स्थावरजङ्गमशरीराणि जठराग्निरूपेश जिन्वति प्रीणयति।
अथ चतुर्थी - अयमिहेति। अयमग्निरिह कर्मणि प्रथमः प्रधानभूतो धातृभिर्धारणाय प्रयतमानैस्माभिर्धायि धार्यते। कीदृशोऽग्निः। होता देवानामाह्वाता यजिष्ठो मनुष्येभ्योऽतिशयेन यष्टाऽध्वरेषु यागेषु ईड्यः स्तुत्यः। किंच - अप्नवानसं-ज्ञको भृगुसंज्ञकाश्च मुनयो वनेषु स्वाश्रमेषु विशेविशे तत्तत्प्रजाभ्युदयार्थं यमग्निं चित्रं बहुयागाधारत्वेन विचित्रं विभुवं व्याप्तं विरुरुचुर्विशेषेण दीपितवन्तः।
अथ पञ्चमी - उभा वामिति। इयं च प्रथमप्रपाठके व्याख्याता। हे इन्द्राग्नी युवामुभाव-प्याभिमुख्येन होतुमिच्छामि। पुनरपि युवामुभौ सह राधसोऽन्नेन मादयितुभिच्छामि। यस्माद्युवामुभावन्नानां धनानां च दातारौ तस्मादन्नस्य लाभाय युवामुभावायामि।
अथ षष्ठी - अयं त इति। हेऽग्नेऽयमाहवनीयप्रदेशस्ते योनिस्तव स्थानम्। स च योनित्विय ऋतुसंबन्धात्सर्वस्मिन्नप्यृतावनेन होमनिष्पत्तेः। यत आहवनीयप्रदेशाज्जात उद्भूतस्त्वमरोचथा दीप्यसे तं प्रदेशं जानन्मम स्थानमित्यवगच्छन्नारोह। अनन्तरमस्माकं धनं वर्धय।
कल्पः - ‘अग्ने आयूँषि पवस इति षड्भिः संवत्सरे संवत्सरे सदा वा’ इति।
उपतिष्ठत इति शेषः। एतास्त्वमग्ने रुद्र इत्यत्र व्याख्याताः।
तत्र प्रथमा – अग्न आयूँषीति। हेऽग्ने त्वमस्मदायूंषि पवसे शोधयसि निर्दोषाणि करोषि।
अस्माकं रसमन्नं चाऽऽनय, वैरिसेनां दूरे बाधस्व।
अथ द्वितीया - अग्ने पवस्वेति। हेऽग्ने स्वपाः शोभनकर्मा त्वमस्मासु ब्रह्मवर्चसं समीचीनसामर्थ्यं च पवस्व शोधय। किं कुर्वन्। पुष्टिं धनं च मयि धारयन्।
अथ तृतीया - हे पावकाग्ने देव रोचमानया मादयित्र्या जिह्वया देवानावक्षि यक्षि च।
अथ चतुर्थी - स न इति। हे पावकाग्ने दीदिवो दीप्यमानः स त्वं देवानिहाऽऽनय। अस्मदीयं यज्ञं हविश्चोपगच्छ।
अथ पञ्चमी - अग्निः शुचीति। अयमग्निरतिशुद्धव्रतयुक्तः, विप्राभिमानित्वादपि शुचिः, विद्वदभिमानित्वादपि शुचिः, अस्माभिः सर्वत्राऽऽहुतः शुद्धो दीप्यते।
अथ षष्ठी - उदग्न इति। हेऽग्ने तव शुचयः शुद्धाः शुक्रा रश्मयो भ्राजन्तो दीप्यामाना उद्गच्छन्ति। अर्चयितारस्तव ज्योतींषि प्राप्नुवन्तीति शेषः।
कल्पः - ‘आयुर्दा अग्न इति सिद्धमा चित्रावसो स्वस्तीति चित्रावसुना सायमुपतिष्ठते’ इति।
पाठस्तु - आयुर्दा इति। आपूरयेत्यर्थः। चतुर्ष्वेतेषु यजुःषु स्पष्टमन्यत्।
अथ यजुरन्तरम् - चित्रावसो इति। हे चित्रावसो रात्रे तव पारं समाप्तिं स्वस्ति क्षेमेण प्राप्नवानि।
कल्पः - ‘त्रिरर्वाग्वसुना प्रातरर्वाग्वसो स्वस्ति ते पारमशीयेन्धानास्त्वा शतँ हिमा इत्युपस्थाय’ इति।
अर्वागित्यादिः शाखान्तरमन्त्रः।
अत्रत्यमन्त्रपाठस्तु – इन्धानास्त्वेति। हेऽग्ने त्वां समिद्भिरिन्धाना वयं शतसंख्याकान्हेमन्तोपल-क्षितसंवत्सरान्द्युमन्तो दीप्तिमन्तः समिधीमहि लोके सम्यक्प्रख्याता भूयास्म। कीदृशं त्वां, वयस्कृतमन्नस्य कर्तारम्। यशस्कृतं कीर्तिप्रदम्। अदाभ्यं केनाप्यतिरस्कार्यम्। वर्षिष्ठेऽधिनाकेऽतिप्रौढस्वर्गविषये सपत्नदम्भनं विरोधिविनाशनम्। कीदृशा वयं, वयस्वन्तोऽन्नवन्तः यशस्वन्तः कीर्तिमन्तः। सुवीरासः शोभनपुत्रादियुक्ताः।
कल्पः - ‘चतस्रः समिध एकैकस्मिन्नाधाय सं त्वमग्ने सूर्यस्य वर्चसाऽगथा इत्यनुवाकशेषेणोपस्थाय’ इति।
पाठस्तु - सं त्वमध इति। हेऽग्ने त्वं सूर्यस्य वर्चसा तेजसा समगथाः संगतेऽसि। ऋषीणां स्तोत्रेण संगतोऽसि। प्रियेण स्थानेनाऽऽहवनीयदेशलक्षणेन संगतोऽसि। हेऽग्ने त्वं सूर्यसमानतेजा असि। मामायुरादिभिः संयोजय।
अत्र विनियोगसंग्रहः - ‘पूर्वस्याग्नेरुपस्थानमुपप्रेत्यनुवाकतः॥१॥’ इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके पञ्चमोनुवाकः॥५॥
(अथ प्रथमकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः)।
षष्ठेऽनुवाके गार्हपत्यस्य पुनरप्याहवनीयस्य चोपस्थानं सपरिकरमभिधीयते।
कल्पः - ‘सं पश्यामि प्रजा अहमिति गृहान्प्रेक्षते’ इति।
पाठस्तु - सं पश्यामीति। अहं मनुष्यप्रजा इडप्रजसश्च सम्यक्पश्यामि। इडा धेनु-स्तस्याः प्रजा अपत्यानीडप्रजसो मनुष्यरूपश्च सर्वाः प्रजा अस्माकं गृहे तिष्ठन्तु।
कल्पः - “अम्भः स्थाम्भो वो भक्षीयेति गोष्ठमुपतिष्ठते” इति।
पाठस्तु - अम्भः स्थेति। अम्भः पीतोदकसारं महः पूज्यं सर्वैरादरणीयं सहो बलकरमूर्जं स्वादुतमरसरूपं यत्क्षीरादि तत्कारणत्वेन हे पशवस्तद्रूपाः स्थ ततो युष्मदीयं तत्क्षीरादिकमस्माकं भक्ष्यमस्तु।
कल्पः - “रेवती रमध्वमित्यन्तराऽग्नी तिष्ठञ्जपति” इति।
पाठस्तु - रेवतीरिति। हे रेवतीः पशवोऽस्मिन्भूलोके गोष्ठे व्रजविशेषे क्षये गृहविशेषे योनौ स्थानविशेषे रमध्वं क्रीडध्वम्। इहैव योनौ स्त सर्वदा तिष्ठत। इतः स्थानान्माऽपगात माऽपगच्छत। मे मदर्थपत्यपरम्परया बहवो भूयास।
कल्पः - “सँ हिताऽसि विश्वरूपीरिति वत्समभिमृशति” इति।
पाठस्तु - सँ हिताऽसीति। हे वत्स त्वं संहिताऽसि मात्रा संयुक्तोऽसि। विश्वरूपीरा-दरेण स्तनं पातुं वामतो दक्षिणतश्च पुनः पुनर्धावन्बहुरूपवदवभाससे। तादृक्त्वमूर्जा क्षीरादिरसनिमित्तेन मामाविश मत्समीपमागच्छ गौपत्येन मदीयं बहुपशुस्वामित्वं निमित्तीकृत्य मामाविश रायस्पोषेण धनपुष्टिनिमित्तेनापि मामाविश। सहस्रसंख्यया पुष्टिर्यथा भवति तथा युष्मान्पुष्यासम्। मयि युष्मदीयानि क्षीरादिधनान्याश्रयन्ताम्।
कल्पः - “उप त्वाऽऽग्ने दिवेदिव इति तिसृभिर्गायत्रीभिर्गार्हपत्यमुपतिष्ठतेऽग्ने त्वं अन्तम इति चतसृभिश्च द्विपदीभिः स नो बोधि श्रुधी हवमुरुष्याणो अघायतः समस्मादित्येषा चतुर्थी भवति” इति।
तत्र प्रथमा गायत्री - उप त्वेति। हेऽग्ने प्रतिदिनं वयं त्वामुपेमसि उपगच्छामः। किं कुर्वन्तः दोषावस्तः सायं प्रातश्च धिया नमो भरन्तो नमस्कारं संपादयन्तः।
अथ द्वितीया - राजन्तमिति। कीदृशं त्वाम्। अध्वराणां राजन्तं यज्ञराजं, गोपां गवां पालकम्, ऋतस्य दीदिविं सत्येन द्योतमानं, स्वे दमे स्वकीयेऽग्निहोत्रगृहे हविर्भिर्वर्धमानम्।
अथ तृतीया - स न इति। हेऽग्ने स तादृशस्त्वं नोऽस्मादर्थं सूपायनः प्राप्तुं शक्यो भव। यथा पुत्रार्थं पिता सूपायनस्तद्वदस्माकं स्वस्तये क्षेमाय सचस्व समवेतो भव।
अथ प्रथमा द्विपदा – अग्ने त्वमिति। हेऽग्ने त्वं नोऽस्माकमन्तमोऽन्तिमोऽन्तिकतमो भव। उतापि च त्राता शिवश्च सन्वरूथ्यो वरूथे गृहे नित्यं संनिहितो भव।
अथ द्वितीया - तं त्वेति। हे वह्ने शोचिष्ठ दीदिवः शुद्धतम दीप्यमान सखिभ्यः सखीनाम-स्माकं सुम्नाय सुखाय नूनं तं पूर्वाक्तगुणयुक्तं त्वामीमहे प्राप्नुमः।
अथ तृतीया - वसुरग्निरिति। वसुर्वसुमानयमग्निर्वसुरुद्रादिदेवैरादरेणैव श्रूयत इति वसुश्रवाः। हे तादृगग्नेऽच्छास्मदभिमुखो नक्षि प्राप्नुहो। द्युमत्तमोऽतिशयेन दीप्यमानो रयिं दा धनं देहि। चतुर्थी तु शाखान्तरगता।
कल्पः - ‘ऊर्जा वः पश्याम्यूर्जा मा पश्यतेति गृहान्प्रेक्षते पशून्वा’ इति।
पाठस्तु - ऊर्जा व इति। हे गृहगताः पशवः क्षीरादिरसनिमित्तेन धनपुष्टिनिमित्तेन (च) युष्मानहं पश्यामि। यूयमपि तथा मां पश्यत। हे इडा गावो यूयं मधुकृतो मधुरघृतकारिण्यः स्थ। स्योनाः सुखकरा इरा अन्नवत्यो मदो मादयित्र्यो मामाविशत। सहस्रसंख्यया पुष्टिर्यथा भवति तथा युष्मन्पुष्यासम्। युष्माकं धनानि क्षीरादीनि मयि श्रयन्ताम्।
कल्पः - “तत्सवितुर्वरेण्यँ सोमानँ स्वरणं मित्रस्य चर्षणीधृतः प्र स मित्र कदा चन स्तरीरसि कदा चन प्रयुच्छसि परि त्वाऽग्ने पुरं वयमित्युपस्थाय” इति। आहवनीयमिति लभ्यते।
तत्र प्रथमैवमाम्नाता - तत्सवितुरिति। यः सविताऽस्माकं बुद्धीः प्रेरयति तस्य सवितुर्देवस्य वरणीयं तद्भर्गस्तेजो ध्यायेम।
अथ द्वितीया - सोमानमिति। ब्रह्मणः परिवृढस्य कर्मणः पते स्वामिन्नग्ने यस्त्वामौशिज-मुशिजः पुत्रं कक्षीवन्तमृषिं कर्मप्रवर्तकं कृतवानसीत्यध्याहारः। तादृशस्त्वं मामपि सोमानं सोमयागानां स्वरणमुपदेष्टारं कुरु। मित्रस्य प्र स मित्रेति द्वयं नात्राऽऽम्नातम्।
अथ पञ्चमी - कदा चनेति। हे इन्द्र परमैश्वर्ययुक्ताग्ने कदाचिदपि स्तरीर्हिंसको नासि। किंतु दाशुषे हविर्दत्तवते यजमानार्थमुपोपेन्नु अत्यन्तसमीप एव सश्चसि समवेतोऽसि। हे मघवन्निन्द्रसदृशाग्ने भूय इन्नु पुनरपि देवस्य ते तव दानं पृच्यते फलदानार्थमस्माभिः संयुज्यते। कदा चन प्रयुच्छसीत्येषाऽन्यत्राऽऽ-म्नाता।
अथ सप्तमी- परि त्वेति। सहसि बले भवः सहस्यः। हे सहस्य बलवन्नग्ने वयं त्वां प्रतिदिनं परिधीमहि परितो धारयाम। कीदृशं त्वाम्। पुरमभिमतानां पूरक, विप्रं ब्राह्मणाभिमानिनं, धृषद्वर्णं वैरिणम्। धृषन्नभिभवन्वर्ण आकारो यस्य तादृशम्। भङ्गुरावतो भञ्जनशीलव्यापारोपेतस्य रक्षसो भेत्तारम्।
कल्पः - “अग्न आयूंषि पवस इत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठतेऽग्ने गृहपत इति च पुत्रस्य नाम गृह्णाति तामाशिषमाशासे तन्तव इत्यजातस्यामुष्मा इति जातस्य” इति।
आग्निपावमान्यौ त्वन्यत्राऽऽम्नाते।
मन्त्रान्तरपाठस्तु - अग्न इति। हे गृहपालकाग्ने गृहपतिना त्वयाऽनुगृहीतोऽहं शोभनो गृहपतिर्भूयासम्। तथा गृहपतिना मया पूजितस्त्वं गृहस्वामी भूयाः। कियन्तं कालम्। शतं हिमाः। हिमशब्दोपलक्षितहेमन्तर्तुसहिताञ्शतसंवत्सरान्। अहं तन्तव उत्पत्स्यमानपुत्रसंतानाय ज्योतिष्मतीं ब्रह्मवर्चसयुक्तां तामाशि-षमायुरारोग्यैश्वर्याभिवृद्धिरूपामाशासे। एवममुष्मै जाताय देवदत्तादिनाम्ने।
अत्र विनियोगसंग्रहः -
“सं प प्रेक्ष्य गृहानम्भः स्थ गोष्ठमुपतिष्ठते।
रेवान्तराऽग्नी जपति संहिता वत्सकं स्पृशेत्॥१॥
उप त्वा पश्चिमं वह्निं षण्मन्त्रैरुपतिष्ठते।
ऊर्जा प्रेक्ष्य गृहांस्तत्सचतुर्भिः पूर्वपावकम्।
उपस्थायाग्न इत्यस्मात्पश्चिमं चोपतिष्ठते॥२॥” इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः॥६॥
(अथ प्रथमकाण्डे पञ्चमप्रपाठके सप्तमोऽनुवाकः)।
सप्तमेऽनुवाके पञ्चमानुवाकोक्ता मन्त्रा व्याख्यायन्ते। उपप्रेत्यादिमन्त्रसं-घोपस्थानेन ज्योतिष्टोमे त्रिवृत्पञ्चदशादिशादिस्तोमवदग्निहोत्रेऽपि स्तोमयोग उपचर्यत इत्याह -
अयज्ञो वा इति। यः सामरहितः स यज्ञ एव न भवति। ऋग्भेदादावृत्तिभे-दाच्च निष्पन्नः सामसंघः स्तोमः। तं चास्मिन्नग्निहोत्रे मन्त्रसंघेन संपादयति।
उपशब्दसूचितं दर्शयति - उपेत्याहेति। प्रजाः पशवश्च भूलोकमुपगच्छन्ति। तस्माद्यजमानोऽप्युपश-ब्दसामर्थ्यात्प्रजां पशूंश्चोपेत्य तद्युक्तं भूलोकमुपैति।
प्रत्नशब्दसूचितमाह - अस्य प्रत्नामिति। स्वर्गलोकस्य चिरंतनत्वे प्रत्नशब्दसूचित्वात्तेन शब्देन स्वर्गारोहो भवति।
मूर्धशब्दपृथिवीशब्दाभ्यां सूचितं दर्शयति - अग्निमूर्धेति। मूर्धानं श्रेष्ठमेनं यजमानं समानानां समानजातीयानां मध्ये करोति। अपि च देवलोकादागत्य मनुष्यलोक एव प्रतिष्ठितो भवतीत्यर्थः।
प्रथमशब्दसूचितं दर्शयति - अयमिहेति।
इन्द्रस्य बलाभिमानित्वादग्नेश्च तेजोभिमानित्वाच्छब्दद्वयेनोभयप्राप्तिः सूच्यत इत्याह - उभा वामिति।
मन्त्रगतं रयिशब्दं व्याचष्टे - अयं ते योनिरिति।
पूर्वोत्तरषट्काभ्यां प्रतिदिनमुपस्थानं विधत्ते - षडि्भरुपतिष्ठत इति। उपप्रयन्त इत्याप्रयन्त इत्यादिकं पूर्वषट्कम्। अग्न आयूंषीत्यादिकमुत्तरषट्कम्।
पूर्वषट्केन यथा प्रतिदिनमुपस्थानं तद्वदुत्तरेणापि प्राप्ते कालविशेषं विधत्ते -
यथा वै पुरुष इति। पुरुषादीनां चिरकालेनेवाग्नेः संवत्सरे प्राप्तां जरां निवार्य नूतनशरीरं शोधयितुं संवत्सरादूर्ध्वमुपस्थानम्। अग्निदेवतायाः पवमानदेवतायाश्च संबन्धिन्य ऋच आग्निपावमान्यः। यद्यप्यग्निरेव शोधकत्वात्पवमानस्तथाऽपि शोधकत्वोपाधेरन्यत्वमभिप्रेत्य निर्देशभेदः।
विहितमुपस्थानं चतुर्वारमनूद्य प्रशंसति - उपतिष्ठत इति। उपतिष्ठत इति यदेष एवास्याग्नेर्योगो यजमानेन सहा-नुग्राह्यानुग्राहकरूपः संबन्धः। तथा दमो दाहादिलक्षणोपद्रवनिवारणम्। तथा धनादियाच्ञा। किंच - यथा लोके कश्चिद्दरिद्रो धनिकाय किंचिदुपायनमानीय नमस्कारं करोति तादृगिदमुपस्थानम्। अयमिह प्रथमो धायि धातृभिरिति योग उक्तः। आरे बाधस्व दुच्छुनामिति अनिष्टनिवारणम्। अथानो वर्धया रयिमिति याच्ञा। मन्त्रं वोचेमाग्नय इत्युपायनम्।
त्रयाणां यजुषामर्थप्रसिद्धिं दर्शयति - आयुर्दा इति।
तनुशब्देन प्रजा पशवश्चोपलक्षिता इत्यभिप्रेत्य व्याचष्टे अग्ने यन्म इति।
चित्रावसुपदस्यार्थं वाक्यतात्पर्यं च दर्शयति -
चित्रावसो इति। नक्षत्रादिरूपं चित्रमभिव्यक्ततया वसत्यस्यामिति रात्रि-श्चित्रावसुः। अव्युष्टिः प्रभातान्तः। हेमन्तर्तौ रात्रेर्दीर्घत्वेन प्रभातं न भविष्य-त्येवेति। कदाचिद्ब्राह्मणा भीता अतः पारमशीयेति प्रार्थनया प्रभातं लभते।
शतसंख्यां प्रशंसति - इन्धाना इति। अस्य मन्त्रस्योपस्थाने समिदाधाने च विनियोगद्वयं सूत्रकार उदाजहार – “इन्धानास्त्वा शतँ हिमा इत्युपस्थायेन्धानास्त्वा शतँ हिमा अग्नेः समिदस्यभिशस्त्या मा पाहि सोमस्य समिदसि परस्याम एधि यमस्य समिदसि मृत्योर्मा पाहीति चतस्रः समिध एकैकस्मिन्नधाय” इति। तत्रोपस्थानाङ्गप्रस्तावेन मन्त्रो व्याख्यातः।
अथ तस्यैव समिदाधानाङ्गावं विधत्ते -
एषा वा इति। ज्वलन्ती लोहमयी स्थूणा सूर्मी। सा च कर्णतावती छिद्रवती। अन्तरपि ज्वलन्तीत्यर्थः। तत्समानेयमृक्। एकेन प्रहारेण शतसंख्याकान्मारयन्तः शूराः शततर्हाः। असुराणां मध्ये तादृशानेतयर्चा देवा हिंसन्ति। अनया समिदाधानेन शतघ्नीमेनामृचं वज्रं कृत्वा वैरिणं हन्तुं प्रहरति। अच्छम्बट्कारं स्वस्य विनाशो यथा न भवति तथेत्यर्थः। स्तृत्यै नाशाभावेन विस्तीर्णताया इत्यर्थः।
सं त्वमग्न इत्यर्धेनाग्नेर्गुणकथनं स्वस्यापि तत्प्रार्थनायेत्याह - सं त्वमग्न इति।
द्वितीयार्धे सं मामायुषेति प्रार्थनमिति दर्शयति - त्वमग्न इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके सप्तमोऽनुवाकः॥७॥
(अथ प्रथमकाण्डे पञ्चमप्रपाठकेऽष्टमोऽनुवाकः)।
अष्टमेऽनुवाके षष्ठानुवाकोक्ता मन्त्रा व्याख्यायन्ते। तत्रेडप्रजस इत्यनेन पदेन गवाश्चादयो विवक्षिता इत्यभिप्रेत्याऽऽह - सं पश्यामीति।
अम्भोमहःसहऊर्जशब्दैर्गवामुपलक्षणं युक्तमित्याह अम्भ इति।
रेवतीशब्देन विवक्षितं क्षीरादिधनमासामस्तीति व्युत्पत्तिमभिप्रेत्य व्याचष्टे
रेवतीरिति। आत्मन्स्वकीयगृह इत्यर्थः।
स्तेत्यनेन ध्रुवजीवनं माऽप गातेत्यनेन वियोगाभावश्च प्रार्थ्यत इत्याह - इहैवेति।
वत्सस्पर्शं विधत्ते - इष्टकचिदिति। इष्टकामुपधाय यथा कश्चिदग्निश्चीयते तथा पशुमुपधायान्यो-ऽग्निश्चीयत इत्युत्प्रेक्षते। तथा सति वत्सस्पर्शेन पशुमुपधायाग्निश्चितो भवति।
गार्हपत्योपस्थानं विधत्ते - प्र वा एष इति। “सुवर्गो लोक आहवनीयः” इति श्रुत्यन्तरात्तदुपस्थानादे-तल्लोमप्रच्युतिः। सा च गार्हपत्योपस्थानेन समाधीयते। किंचाऽऽहवनीय एव तात्पर्योपेतं गार्हपत्यमुपतिष्ठमानः स्वप्रतिष्ठासिद्ध्यर्थं केवलं तमपलपति।
उप त्वाऽग्न इत्याद्यस्तिस्र ऋचो विधत्ते - गायत्रीभिरिति। प्रजापतिमुखादग्निना सहोत्पन्नत्वाद्गायत्र्यास्तेजस्त्वम्। तृचानुवचनमविच्छेदार्थम्।
अग्ने त्वं न इत्याद्यास्तिस्रो द्विपदा विधत्ते - गार्हपत्यमिति।
पश्यतेति लोडाशीरर्थत्वं दर्शयति - ऊर्जा व इति।
सवितृसोमब्रह्मशब्दानामभिप्रायमाह - तत्सवितुरिति।
स्तरीरसि नेति निषधस्याभिप्रायमाह - कदा चनेति। अन्धकारयुक्ता रात्रिश्चोरवृश्चिकादिबाधयुक्ततया स्तरीरित्यु-च्यते। विद्वानुपस्थाता तादृशीं रात्रिं नाधिवसति, किंतु सुखकरीमित्यर्थः।
परि धीमहीति लिङ्गान्मन्त्र एवाग्नेरस्कन्दनार्थः परिधिरित्याह - परि त्वाऽग्न इति।
मन्त्रस्य स्पष्टार्थतां दर्शयति - अग्ने गृहपत इति।
हिमशब्दो हेमन्तवाचीत्याह - शतँ हिमा इति।
तन्तवेऽमुष्मा इत्यत्र नामग्रहणं विधत्ते - पुत्रस्य नामेति एनं पुत्रम्।
अनुत्पन्नपुत्रविषयस्तन्तुशब्द उत्पन्नपुत्रविषयोऽदःशब्द इति व्यवस्थां दर्शयति - तामाशिषमाशास इति।
अथ मीमांसा।
तृतीयाध्यायस्य तृतीयपादे चिन्तितम् -
“ऐन्द्र्योपस्थीयतां वह्निरितीन्द्राग्न्योर्विकल्पनम्।
समुच्चयो वोत शक्र एकोऽग्निः केवलोऽथवा॥
विकल्पः श्रुतिलिङ्गाभ्यां गुणावृत्त्या समुच्चयः।
श्रुतिः शक्त्यनुसारेति शक्र एकोऽत्र लिङ्गतः॥
शक्तिरुक्ता श्रुतिः शीघ्रा लिङ्गं श्रुत्यनुमापकम्।
नैराकाङ्क्ष्यात्मके बाधे श्रुत्याऽग्नौ केवले स्थितिः” इति।
“ऐन्द्र्या गार्हपत्यमुपतिष्ठते” इति श्रूयते। “कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे” इत्यसावृगैन्द्री। तत्रेन्द्रस्य प्रकाशनात्। हे इन्द्र त्वं कदाचिदपि घातको न भवसि किंत्वाहुतिं दत्तवते यजमानाय प्रीयस इत्यर्थः। तत्रेन्द्र-प्रकाशनसामर्थ्यरूपाल्लिङ्गान्मन्त्रस्येन्द्रविषयक्रियासाधनत्वं गम्यते। यद्यसौ मन्त्र इन्द्रप्रधानकक्रियायाः साधनं न भवेत्तदानीमनेन मन्त्रेणेन्द्रप्रकाशनं व्यर्थं स्यात्। तस्मादेतन्मन्त्रकरणकक्रियां प्रतीन्द्रः प्रधानमित्येतादृशबुद्ध्युत्पादनं लिङ्गविनियोगः। काऽसौ क्रियेति विशेषजिज्ञासायामैन्द्र्योपतिष्ठत इत्यनेनाविरुद्धपदद्वयरूपेण वाक्येनोपस्थानक्रियायां पर्यवसानं क्रियते। तथा सत्यैन्द्रमन्त्रेणेन्द्रमुपतिष्ठत इत्ययमर्थः पर्यवस्यति। तथा गार्हपत्यमित्यनया द्वितीयान्तपदरूपया श्रुत्या गार्हपत्यस्य प्राधान्यं गम्यते। तच्च गुणभूतां यत्किंचित्करणकक्रियामन्तरेण न संभवति। ततस्तादृशी कांचित्क्रियां प्रति गार्हपत्यप्राधान्यमित्येतादृशबुद्ध्युत्पादनं श्रुतिविनियोगः। ऐन्द्र्योपतिष्ठत इति पदद्वयेन मन्त्रविशेषक्रिया-विशेषयोः पर्यवसानं भवति। तथा सत्यैन्द्रेण मन्त्रेण गार्हपत्यमुपतिष्ठत इत्यर्थो भवति। तदेवं श्रुतिलिङ्गयोर्विरोधे सति प्रमाणत्वाविश्षाद्व्रीहियववद्विकल्प इत्येकः पूर्वपक्षः। इन्द्रगार्हपत्ययोः प्रधानत्वाविशेषादुपस्थानस्य गुणत्वात्प्रतिप्रधानं गुणावृत्तिरिति न्यायेनोपस्थानावृत्त्या श्रुतिलिङ्गयोः समुच्चय इति द्वितीयः पूर्वपक्षः। श्रुतिर्विनियुञ्जाना वस्तुमर्थ्यमनुसृत्यैव विनियुङ्क्ते। अन्यथा वह्निना सिञ्चेत्, वारिणा दहेदित्यपि विनियुज्येत। तत उपजीव्यत्वेन लिङ्गस्य प्रबलत्वादिन्द्र एव मन्त्रेणोपस्थेय इति तृतीयः पूर्वपक्षः। ऐन्द्रमन्त्रस्य गार्हपत्ये मुख्यवृत्त्या शक्त्यभावेऽपि गौणावृत्त्या शक्तिरस्तीति निवेशन इत्यस्मिन्नुदाहरणे पूर्वमेव दर्शितम्। तथा सति सामर्थ्याभावकृतप्रतिबन्धाभावान्निर्विघ्ना श्रुतिः शीघ्रं विनियुङ्क्ते। लिंङ्गं तु विलम्बते। मन्त्रपदान्यादौ स्वाभिधेयमर्थं प्रतिपादयन्ति। तत ऊर्ध्वं मन्त्रस्य सामर्थ्यं निरूप्यते। पश्चात्सामर्थ्यवशात्साधनत्ववाचिनी प्राधान्यवाचिनी च श्रुतिः कल्पते। सा च श्रुतिर्मन्त्रेणेन्द्रमुपतिष्ठेतेति विनियुङ्क्ते। तथा च प्रत्यक्षश्रुतौ स्वाभिधेयप्रतिपादनविनियोगयोर्मध्यवर्तिनौ सामर्थ्यनिरूपणश्रुतिकल्पनव्यापारौ न स्त इति प्राबल्यात्तया लिङ्गं बाध्यते। न च प्रत्यक्षश्रुतिविनियोगवेलायामलब्धात्मकत्वेनाप्राप्तं लिङ्गं कथं बाध्येतेति शङ्कनीयम्। भविष्यत्प्राप्तिप्रतिबन्धस्यैवात्र बाधत्वात्। श्रुत्या विनियुक्तस्य मन्त्रस्य पुनरर्विनियोगाकाङ्क्षाया अनुदयाद्विनियोजकं लिङ्गं कथं प्राप्स्यति। तस्माद्गार्हपत्योपस्थाने मन्त्रः प्रत्यक्षश्रुत्या विनियुज्यते॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठकेऽष्टमोऽनुवाकः॥८॥
(अथ प्रथमकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः) ।
नवमेऽनुवाके पूर्वोक्तोपस्थानस्याग्निहोत्राङ्गता प्रदर्श्यते । तत्र तावदग्निहोत्रं विधत्ते -
अग्निहोत्रमिति । वाक्यान्तरविहितेन पयोदधियवाग्वादिद्रव्येणाग्निहोत्रनामकं होमं कुर्यात् । यजमानस्य क्षीरप्रभृतिकं यत्स्वमग्नौ हुतं न तद्विनश्यति किंतु तस्यैव यजमानस्य तत्स्वं भूत्वाऽवतिष्ठते ।
तदवस्थानं दृष्टान्तेनोपपादयति - रेतः सिञ्चतीति । यथा प्रजोत्पादके योनौ सिक्तं रेतोऽवतिष्ठते तथाऽग्नेः प्रजननरूपत्वात्तस्मिन्हुतमवतिष्ठते ।
ननु वह्निसमीपे प्राप्तानां द्रव्याणां दाहः प्रत्यक्षेणोपलभ्यत इत्याशङ्कयाऽऽह -
अथौषधीरिति । यद्यपि घर्मकाले दावाग्निः स्वसमीपं प्राप्ता ओषधीर्दहति तथाऽपि दग्धास्ता ओषधयो वृष्टिकाले भूयस्यः प्रजायन्ते । तस्मात्प्रजननोऽग्निः । कालद्वयं विधत्ते - यत्सायमिति । सायंकालीनहोमेन सेचनम् । प्रातःकालीनहोमेनोत्पादनम् ।
विहितस्याग्निहोत्रस्याङ्गमुपस्थानं विधत्ते - रेतः सिक्तमिति । लोके योनौ सिक्तं रेतो विश्वकर्मणा यदि न विक्रियेत तदा नैव प्रजोत्पत्तिरस्ति । स च त्वष्टा यावन्ति रूपाण्युद्दिश्य रेतो विविधं करोति तावन्त्युत्पद्यन्ते । अत्रापि यजमानो देवैरनुगृहीतस्त्वष्टा ततो विविधरूपकरणाय बह्वीभिरुपतिष्ठते । अयमुपस्थानकर्मविधिः । एतदनुवादेन षड्भिरुपतिष्ठत इत्यादिमन्त्रविधिः ।
उपस्थानं प्रशंसति - स प्रैवेति । उपस्थाता प्रजामुत्पाद्य प्रतिदिनमुत्तरोत्तरं धनादिभिर्वर्धते ।
प्रकारान्तरेण प्रशंसति - अहर्देवानामिति । वित्तं पूर्वलब्धं पशुरूपं धनं, वेद्यमतः परं लब्धुं योग्यं, तदुभयं देवद्रव्यमपहृत्य तेन सहासुरा रात्रिं प्राविशन्नन्धकारे क्वापि गताः । ततः पशुहीना वयमिति खिद्यन्तो देवा उपायमपश्यन् । रात्रावग्नेः प्रकाशाधिक्याद्रात्रिराग्नेयी । अग्नेः पशुस्वामित्वात्पशवोऽप्याग्नेयाः । स्तुतः सोऽग्निरेभ्यो देवार्थं रात्रेरध्याहृत्याहरभिलक्ष्य तान्पशून्निरार्जन्निरगमयत् । कामान्भोगान् ।
पुनः प्रकारान्तरेण प्रशंसति - आदित्यो वा इति ।
पुनरपि प्रकारान्तरेण प्रशंसति - अभि वा इति । एनावाहवनीयगार्हपत्यौ य उपतिष्ठत एषोऽग्नी उभावभ्यारोहति स्ववशौ करोति । यथा लोके कश्चित्पूर्वमधमः सन्नेवं कामयतेऽहं विद्यादिना श्रेष्ठ उत्तमं पदमभ्यारूढो भविष्यामीति तथाऽयं यजमान उपस्थानेन स्वस्योत्तमं पदं करोति । तस्मादुपस्थानं प्रशस्तमित्यर्थः ।
अत्र केचित्प्रातरग्निर्नोपस्थेय इत्याहुः । अन्ये तु न कदाचिदप्युपस्थेय इति । सिद्धान्तिनस्तु सर्वदाऽप्युपस्थेय इति । तत्र प्रथमं पूर्वपक्षं दर्शयति -
नक्तमुपतिष्ठत इति । रात्रौ व्रतान्यनुष्ठेयानि कर्माणि संसृज्यन्ते संकीर्णानि भवन्ति । अन्धकारे केन कथमनुष्ठितमिति न ज्ञायते । यथाशास्त्रमनुष्ठितो व्रतविशेषः श्रेयांस्तद्विपरीतश्चेत्पापीयान् । तावुभौ सहैव तिष्ठतः । तत्राग्नावुषस्थिते सत्यग्निना ज्योतिषा रात्रिप्रयुक्तं तमोदोषं तरति । तस्मान्नक्तमुपस्थेयः । अहनि तु तमोदोषाभावान्नोपस्थेय इत्येकः पूर्वपक्षः ।
द्वितीयपूर्वपक्षं विचारपुरःसरं दर्शयति - उपस्थेय इति । प्लुतिर्विचारार्था । लोके मनुष्यायैव तावद्राज्ञे यः कोऽपि दरिद्रो यत्किंचिज्जम्बीरफलादिकमुपायनमाहृत्य ततः प्रतिदिनमेनं राजानं प्रति क्षेत्रधनादिकं यदि याचति तदा स याचकस्तं राजानं पीडयत्येव । तथा सति को नाम महाप्रभावान्देवान्प्रतिदिनं याचितुमर्हति । याच्ञारूपं चेदमुपस्थानम् । आयुर्दा अग्नेऽस्यायुर्मे देहीत्यादिमन्त्रेषु तत्प्रतीतेः । तस्मादग्निः कदाचिदपि नोपस्थेय इति द्वितीयः पूर्वपक्षः ।
सिद्धान्तं दर्शयति - अथो खल्वाहुरिति । अथोशब्दः पूर्वपक्षव्यावृत्त्यर्थः । आशिषे वै स्वापेक्षितं सर्वमाशासितुमेव कं प्रजापतिसदृशं सर्वदेवात्मकमग्निं प्रति यजमानो यजत इत्यभिज्ञा आहुः । लोकेऽपि राज्ञश्चित्तवृत्तिमविज्ञायाकाण्डे देहि देहीत्युक्ते सत्युपरोधो भवति । यदा तु प्रशंसया विनोदेन वा परितोषमुत्पाद्य याचते तदानीमुत्साहयुक्तो याचितादप्यत्यन्तमधिकमेव ददाति, तद्वदाहिताग्नेर्मन्त्रैरुपस्थानमेव याच्ञा । सा च बहुविधप्रशंसापूर्वकत्वान्नोपरोधाय भवति किंत्वत्यन्तपरितोषायैव । तस्मात्सायं प्रातश्च वह्निरुपस्थेय एव ।
ऋग्भिरुपस्थानं प्रशंसति -
प्रजापतिरिति । अहोरात्रदेवताभ्यामन्तर्धापिताः पशवश्छन्दोयुक्तमन्त्रैरन्विष्टाः सन्तो लब्धाः । तस्माच्छन्दोभिरुपस्थानं विनष्टवस्त्वन्वेषणाय भवति ।
तदुपस्थानस्य प्रतिदिनकर्तव्यतामुन्नयति - न तत्रेति । उपस्थातुरभीष्टप्रार्थनासद्भावादुपस्थेयस्य स्तुतिसद्भावाच्च तत्रोपस्थाने कस्यापि जाम्यालस्यं नास्ति ।
उपस्थानवेलायामीषत्तिरश्चीनमुखत्वं विधत्ते - यो वा अग्निमिति । (प्रत्यङ्) प्रत्यङ्मुखः । तथा सत्यग्निरेनं यजमानं प्रत्योषति प्रातिकूल्येन दहति । (पराङ्) पराङ्मुखः । तथा सति यजमानः प्रजया पशुभिश्च विष्वङ्ङेति वियुक्तो भवति । कवातिर्यङ्ङिवेषत्तिरश्चीन इव ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः॥९॥
(अथ प्रथमकाण्डे पञ्चमप्रपाठके दशमोऽनुवाकः)।
दशमानुवाकस्य पूर्वभागे प्रवत्स्यतो यजमानस्याग्न्युपस्थानमन्त्रा उत्तरभागे केचिद्दर्शपूर्णमासाङ्गमन्त्राश्चाभिधीयन्ते। कल्पे — “प्रवसथमेष्यन्नाहाग्नी-न्समाधेहीति ज्वलत उपतिष्ठते” इत्युपक्रम्योक्तं “पशून्मे शँस्य पाहि तान्मे तान्मे गोपायास्माकं पुनरागमादित्याहवनीयं मम नाम प्रथमं जातवेद इति च” इति।
तत्र पशूनित्यादिमन्त्रः शाखान्तरगतः। मन्त्रान्तरपाठस्तु -
मम नाम प्रथममिति। ब्राह्मणस्य नामद्वयं विद्यते देवदत्तयज्ञदत्तादिकमे- कमुपाध्यायदीक्षितादिकमपरम्। अथ एव श्रूयते — “तस्माद्द्विनामा ब्राह्म-णोऽर्धुकः” इति। तत्राध्यापनादेरूर्ध्वं प्रवृत्तत्वादुपाध्यायादिकं चरमम्। अग्ने जन्मकाले मातापितृभ्यां कृतत्वाद्देवदत्तादिकं प्रथमम्। हे जातवेदो मम यत्प्रथमं नाम तत्त्वं धारय। कियन्तं कालम्। पुनरा मदैतोः। आ मदीयपुरागमनात्। अहमपि तव नाम धारयाणि। त्वमत्र वैकल्यं निर्हरन्मदीयं कार्यं कुरु। त्वन्नामधारिणो मम गन्तव्यदेशे वैकल्यमेव न संभवतीत्यर्थः।
कल्पे — “अभ्येत्याहाग्नीन्समाधेहीति ज्वलत उपतिष्ठते” इत्युपक्रम्योक्तं “मम नाम तव च जातवेद इति चतसृभिराहवनीयम्” इति।
तत्र प्रथमा - मम नाम तवेति। हे जातवेदो मम देवदत्तादि नाम तव च वह्न्यादि नामेत्येवं ये नामनी विपरिवृत्यान्योन्यवाससी विपर्ययेण वसानाविवेदानीमावां चरावः। अत ऊर्ध्वं ते नामनी त्वं चाहं च पुनरपि यथायथं त्वदीयं वह्न्यादिनाम तवैव मदीयं च देवदत्तादिनाम मदीयमेव यथा भवति तथा विपरिवृत्य परिदधावहै। एवं सत्यायुर्वृद्धिर्धनादिसंपत्त्या प्रशस्तजीवनं च भवति।
अथ द्वितीया - नमोऽग्नय इति। अप्रतिविद्धाय केनचिदताडिताय। अनाधृष्ठाय। केनाप्यतिरस्कृताय। सम्राजे संहतदीप्तये। अषाढः शत्रूणां सोढुमशक्यः। बृहद्वया अपरिमितान्नः। विश्वजित्सर्वस्य जेता। सहन्त्यः स्वयं सहिष्णुः। श्रेष्ठो गन्धर्वः संगीतादिकलाविद्यास्वतिकुशलः।
अथ तृतीया - त्वत्पितार इति। त्वमेव पिता पालको येषां देवानां ते त्वत्पितारः। त्वा प्राप्ता आहुतयो येषां देवानां ते त्वामाहुतयः। त्वयि हुताः सत्यो देवांस्तर्पय-न्तीत्यर्थः। त्वमेव विशेषेण वाचनप्रख्यापयिता येषां ते त्वद्विवाचनाः। हेऽग्ने मां दीर्घायुषा संधाः संयोजय। गौपत्येन गवां स्वामित्वेन संयोजय। सुहिते सुष्ठु हिते पुरुषार्थे मा धाः, मां स्थापय।
अथ चतुर्थी - अयमग्निरिति। प्रशस्यानां मध्येऽतिशयेन श्रेष्ठः। पुनरपि तादृशानां मध्येऽतिशयेन श्रेष्ठः श्रेष्ठतमः। भगवच्छब्दः पौराणिकैर्व्याख्यातः —
“ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा” इति।
“उत्पत्तिं प्रलयं चैव भूतानामगतिं गतिम्।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति” इति।
अतिशयेन भगवान्भगवत्तमः। सहस्रसंख्याकस्य धनस्य सनितारो दातारस्ते-ष्वतिशयेन दाता सहस्रसातमः। तादृशस्याग्नेः प्रसादादस्मै यजमानाय मह्यं शोभनं सामर्थ्यमस्तु।
कल्पः — “नवमीं चेदति प्रवसेन्मित्रो जनान्यातयति प्रजानन्निति मैत्र्योप
स्थाय मनो ज्योतिर्जुषतामित्याहुतिं जुहुयात्” इति।
निर्गमनतिथिमारभ्य नवमीं तिथिमतिक्रम्य प्रवासे सत्येतदवगन्तव्यम्। तत्र मित्रो जनानिति मन्त्रोऽन्यत्राऽऽम्नातः।
मनो ज्योतिरिति। पूर्वार्धं भूमिर्भूम्नेत्यनुवाके व्याख्यातम्। या उषसः प्रातःकालोपलक्षिता आहुतयः, याश्च निम्रुचोऽस्तमयकालोपलक्षिता आहुतय इष्टा इतरैर्यजमानैरनुष्ठिता मया त्वन्तरितास्ताः सर्वा आहुतीरनेन घृतेन हविषा संदधामि अविच्छिन्नाः करोमि।
अग्न्युपस्थानमन्त्रविषयः पूर्वभागो गतः। अथ दार्शिकयजमानमन्त्रादिविषय उत्तरभाग उच्यते।
कल्पः — “पयस्वतीरोषधय इत्यप आचामत्युपस्पृशति वा” इति।
पाठस्तु - पयस्वतीरिति। सारवाची पयःशब्दः। ओषधयः पयस्वत्यः सारवत्यः। वीरुधां लतानां संबन्धि यत्पयो निर्गतं क्षीरं तदपि पयस्वत्सारवत्। अपां मध्ये यत्पयः सारं यच्च पयसो गवादिक्षीरस्य पयः सारं तेन सारेण सर्वेण हे इन्द्र मां संसृज संयोजय।
अग्ने व्रतपत इति। कल्पः — “दक्षिणेनाऽऽहवनीयमवस्थाय व्रतमुपैष्यन्स-मुद्रं मनसा ध्यायत्यथ जपति अग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणः” इति।
मन्त्रशेषस्तु — “तच्छकेयं तन्मे राध्यताम्” इति।
तद्व्रतमनुष्ठातुं शक्तो भूयासं, मदीयं तद्व्रतं समृद्धं भवति।
अग्निँ होतारमिति। कल्पः — “अग्निँ होतारमिह तँ हुव इति हविर्निरूप्यमाणमभिमन्त्रयते हविर्निर्वपणं वा पात्रमभिमृशत्यभि वा मन्त्रयते” इति।
मन्त्रशेषस्तु —”देवान्यज्ञियानिह यान्हवामहे। आ यन्तु देवाः सुमनस्यमाना वियन्तु देवा हविषो मे अस्य” इति।
इह कर्मणि देवानामाह्वातारं तमग्निमहमाह्वयामि। इह कर्मणि यान्देवानुद्दिश्य जुहुमस्तानपि यज्ञियान्देवानाह्वयामि। आहूताश्च ते देवाः सैमनस्यं प्राप्ता आगच्छन्तु। आगत्य च मेऽस्य हविषो मदीयमिदं हविर्वियन्तु भक्षयन्तु।
कस्त्वेति। कल्पः — “अथ यज्ञं युनक्ति कस्त्वा युनक्ति स त्वा युनक्त्विति सर्वं विहारमनुवीक्षते” इति।
हे यज्ञ कः प्रजापतिः सर्वत्र त्वां युनक्ति योग्यं करोति। तस्मादत्रापि स एव त्वां युनक्तु।
कल्पः — “उभौ कपालविमोचनं जपतः” इति। उभावप्यध्वर्युयजमानौ।
मन्त्रपाठस्तु - यानि घर्म इति। अयं मन्त्रोऽप्यध्वर्युकाण्ड आम्नातत्वात्प्रथमप्रपाठके व्याख्यातः। वेधसो ब्रह्मसमाः पूष्णः पोषका ऋत्विजो यानि कपालानि वह्ना वुपस्थापयन्ति तानि सर्वाण्यपि व्रते समाप्ते सतीन्द्रवायू विमुञ्चताम्।
अभिन्न इति। अथ प्रायश्चित्तम्। तत्र कल्पः — “यदि कपालं भिद्येत गायत्रिया त्वा शताक्षरया संदधामीति तत्संधायोपरि गार्हपत्ये धार्यमाणम-भिजुहुयान्मनो ज्योतिर्जुषतामित्यथैनदपोऽभ्यवहरेदभिन्नो घर्मो जीरदानुरिति” इति।
मन्त्रशेषस्तु “यत्र आत्तस्तदगन्पुनः। इध्मो वेदिः परिधेयश्च सर्वे यज्ञस्याऽऽयुरनुसंचरन्ति” इति।
घर्मो दीप्तः संतप्तोऽयं कपालविशेषः स्वयं मिन्नत्वेन प्रतीयमानोऽपि मन्त्र सामर्थ्यादभिन्न एव भिन्नत्वदोषं नाऽऽवहति। यस्मादयं जीरदानुः। जीरं जीवनं पुरोडाशाद्वारेण यज्ञस्य ददातीति जीरदानुः। यो ह्यन्यं जीवयति स कथं स्वयं भिन्नो भवेत्। अभिन्नत्वे तदाकारः कुतो न भातीत्याशङ्क्योत्तरमुच्यते - यतो यस्मान्मृद्रूपात्कारणादात्त उत्पन्नः पुनस्तत्कारणमगन्नाप्नोदतः कारणरूपमृदाकार एव प्रतीयते न तु कार्याकारः। तदप्रतीतावपीध्मादयः स्वस्वाकारेण प्रतीयमाना यज्ञपुरुषस्याऽऽयुरनुकृत्य संचरन्ति।
त्रयस्रिँशदिति। कल्पः — “अथान्यत्संस्कृत्य कपालेष्वतिसृजेत्त्रयस्रिँश-त्तन्तव इति” इति।
मन्त्रशेषस्तु — “ये वितत्निरे य इमं यज्ञँ स्वधया ददन्ते तेषां छिन्नं प्रत्येतद्दधामि स्वाहा घर्मो देवाँ अप्येतु” इति।
चतुर्थकाण्डे प्रजापतिर्मनसाऽन्धोऽच्छेत इत्यस्मिन्ननुवाक इष्टकोपधानार्था यज्ञतनुनामकास्त्रयस्त्रिंशन्मन्त्रा आम्नाताः। तन्मन्त्रप्रतिपाद्या यज्ञतनव इह तन्तुस्थानीयाः। यथा तन्तुभिः पटो निष्पाद्यते तथा तास्तनवो यज्ञं विस्तारयन्ति। ते तन्तवो यज्ञनिष्पादकाः। येऽप्यृत्विगादयः स्वधया हविषेमं यज्ञं ददन्तेऽनुतिष्ठन्ति तेषां प्राजापत्यादीनां यज्ञाभिमानिदेवानामृ- त्विगादियज्ञाङ्गानां च मध्ये यत्स्वरूपं विच्छिन्नं तदेतत्प्रतिसंधामि। अतः स्वाहा सुष्टु प्रतिसंहितो घर्मो दीप्तो यज्ञाङ्गविशेषो देवानप्येतु प्राप्नोतु।
अत्र विनियोगसंग्रहः —
“मम प्रवत्स्यन्पूर्वाग्निं मन्त्रयेत्पुनरागतः।
ममेत्याद्यैश्चतुर्मन्त्रैर्मनस्तत्र जुहोति हि॥१॥
गतमग्नेरुपस्थानं मन्त्राः प्रासङ्गिका अथ।
पयेत्याचामति स्वामी दर्शपूर्णिमयोरपः॥२॥
अग्ने प्रागग्निपार्श्वस्थो जपेदग्निं हविस्तथा।
निरुप्यमाणं संमन्त्र्य कस्त्वा यज्ञं युनक्ति हि॥३॥
यानीति मुच्यमानानि कपालान्यनुमन्त्रयेत्।
अभिन्नोऽप्सु क्षिपेद्भिन्नं कपालं त्रय इत्यतः।
कपालान्तरमादध्यादिति प्रासङ्गिका गताः॥४॥” इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके दशमोऽनुवाकः॥१०॥
(अथ प्रथमकाण्डे पञ्चमप्रपाठके एकादशोऽनुवाकः)।
अथान्तिम एकादशानुवाके काम्या याज्या (पुरोनुवाक्या) उच्यन्ते। इष्टि-काण्डे त्रिहविष्का काचिदिष्टिराम्नायते -
“वैश्वानरं द्वादशकपालं निर्वेपेद्वारुणं चरुं दधिक्राव्णे चरुमभिशस्यमानो यद्वैश्वानरो द्वादशकपालो भवति संवत्सरो वा अग्निर्वैश्वानरः संवत्सरेणैवैनँ स्वदयत्यप पापं वर्णँ हते वारुणेनैवैनं वरुणपाशान्मुञ्चति दधिक्राव्णा पुनाति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
अभिशस्यमानः पातकारोपेण दूष्यमाणः। वैश्वानरशब्देन संवत्सराभिमानी कश्चिदग्निरुच्यते। तेनैव संवत्सराभिमानिनैनमभिशस्तं स्वात्मानं स्वदयति बन्धुभ्यो रोचयति। वर्णं वर्ण्यमानमारोप्यामाणं पापमपहते विनाशयति। पापिनं बद्ध्वा नेतुं प्रसारितो यो वरुणपाशस्तस्मादेनं स्वात्मानं पूतं करोति।
चोदकप्राप्तां दक्षिणान्तरं विधत्ते - “हिरण्यं दक्षिणा पवित्रं वै हिरण्यं पुनात्येवैनमाद्यमस्यान्नं भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
आद्यमत्तुं योग्यं मृद्वन्नम्।
अस्यामिष्टौ प्रथमहविषो याज्यापुरोनुवाक्यायुग्मानि चत्वारि विकल्पितानि। तत्र प्रथमयुग्मे पुरोनुवाक्यामाह - वैश्वानर इति विश्वेषां नराणामुपकारी वैश्वानरोऽग्निरूत्या रक्षणनिमित्तं परावतो दूरादपि देशाद्वाहसा प्रापणसमर्थेनोक्थेनोक्थेनोत्थानपूर्वकेणाऽ-ऽगमनेन नोऽस्मान्प्रायातु प्रागच्छतु।
याज्यामाह - ऋतावानमिति। वैश्वानरमीमहे वयं प्राप्नुमः। कीदृशम्। ऋतावानं सत्यवन्तम्। ऋतस्य यज्ञस्य ज्योतिषोऽभीष्टफलप्रकाशकस्य पतिं पालकम्। अजस्रं घर्मं निरन्तरं दीप्यमानम्।
द्वितीययुग्मे पुरोनुवाक्यामाह - वैश्वानरस्येति। कविर्बुद्धिमानेको यजमानो वैश्वानरसंबन्धिनीभ्यो दंसनाभ्यः क्रियाभ्यो बृहन्महाफलमीरणात्प्राप्नोत्। अपःशब्दः कर्मवाची। शोभनमपः स्वपः। स्वपसो भावः स्वपस्यम्। तेन स्वपस्येन वैश्वानरयागस्य शोभनकर्मत्वेनेत्यर्थः। छान्दसो लिङ्गव्यत्ययः। अयमग्निर्द्युभूमिरूपौ प्रभूतरेतस्कौ स्वकीयमातापितरावुभौ महयल्ँ लोकपूज्यौ कुर्वन्स्वयमजायत। तस्मादेतदीयकर्मणो महाफलं युक्तमित्यर्थः।
याज्यामाह - पृष्टो दिवीति। पृष्ट इत्यत्र सकारलोपश्छान्दसः। अयमग्निर्दिवि स्पृष्ट आदित्यरूपेणावस्थितः पृथिव्यां दाहपाकप्रकाशकारित्वेनावस्थितस्तथा फलपाककारी सन्स्पृष्टः संबद्धः सर्वा अप्यौषधीराविवेश। वैश्वानरोऽग्निः सहसा बलेन स्पृष्टः संबद्धः। स तादृशो नोऽस्मान्दिवा रिषो हिंसकात्पा-पान्नक्तं रात्रावपि सोऽस्मान्पातु।
तृतीययुग्मे पुरोनुवाक्यामाह - जातो यदग्न इति। हेऽग्ने त्वं जातमात्र एव भुवनानि व्यख्यः स्वतेजसा विशेषेण ख्यापितवानसि। गोपाः पशु न पशुमिव। यथा गोपालकोऽनायासे नैव पशुरेतदीय इति ख्यापयति तद्वत्। कीदृशस्त्वम्। इर्य इरामन्नमर्हसि। परिज्मा परितो गन्ता। यद्यस्मादेवंविधस्त्वं ततो हे वैश्वानर ब्रह्मणे परिवृढायास्मै कर्मणे गातुं मार्गं विन्द लभस्व। यूयं स्वास्तिभिः श्रेयोभिः सदा नोऽस्मान्पात रक्षत। यूयमिति बहुवचनं पूजार्थम्।
याज्यामाह - त्वमग्न इति। हेऽग्ने त्वं शोशुचानो भृशं दीप्यमानो जायमान एव रोदसी द्यावापृथिव्यौ शोचिषा दीप्त्याऽऽपृणाः सर्वतः पूरितवानसि। हे जातवेद उत्पन्नजगद्वेदिन्वैश्वानर त्वं महित्वा स्वमहिम्ना देवानृत्विजोऽभिशस्तेः पापादमुञ्चे मोचितवानसि।
चतुर्थयुग्मे पुरोनुवाक्यामाह - अस्माकमिति। हेऽग्नेऽस्माकं क्षत्त्रं पालकं पुरुषं मघवत्सु धारयेन्द्रेषु स्थापयेन्द्रसमानं कुरु। कीदृशं क्षत्त्रम्। अनाम्यनमनशीलं कस्यचिदपि नमस्कारं न करोतीत्यर्थः। अजरं जरारहितम्। सुवीर्यमभग्नसामर्थ्यम्। हे वैश्वानर तवोतिभिस्त्वदीयैः पालनैर्वयमपि शतसहस्रसंख्योपेतं वाजमन्नं जयेम।
याज्यामाह - वैश्वानरस्येति। वयं वैश्वानरस्य सुमतावनुग्रहबुद्धौ स्याम तिष्ठेम। अभि-प्राप्तश्रीरयं वैश्वनरः सर्वेषां भुवनानां राजा हिकं प्रकाशकः खलु। इत एव कारणाज्जातमात्र एवेदं विश्वं विचष्टे विशेषेण प्रख्यापयति। अयं वैश्वानरः सूर्यरूपेण यतते दिवा प्रवर्तते। अत एवान्यत्राऽऽम्नातम् — “उद्यन्तं वावाऽदित्यमग्निरनु समारोहति” इति। तान्येतानि चत्वारि युग्मानि श्रूयमाणेषु सर्वेष्वपि वैश्वानरयागेषु इच्छया विकल्प्यन्ते। वैश्वानरलिङ्गस्य साधारणत्वाद्विशेषलिङ्गानां च स्पष्टानामदर्शनात्। यदि कश्चित्स्वबुद्ध्या विशेषलिङ्गं सूक्ष्ममुत्प्रेक्षेत तदा तदनुसारेण व्यावस्थाऽस्तु।
द्वितीयहविषः पुरोऽनुवाक्यामाह - अव ते हेड इति। हे वरुण ते हेडस्तव क्रोधं नमस्कारैरवेमहे शमयामः। यज्ञेभिर्यज्ञविशेषैर्हविर्भिश्च पुरोडाशादिभिरवेमहे शमयामः। हेऽसुर शुत्रुनिरसनक्षम
हे प्रचेतः प्रकृष्टचित्त हे राजन्दीप्यमानास्मभ्यमस्मदनुग्रहार्थं क्षयन्निह निवसन्नस्माभिः कृतान्येनांसि शिश्रथः श्लथय।
याज्यामाह - उदुत्तममिति। हे वरुणोत्तममुत्तमाङ्गे शिरसि स्थापितं त्वदीयं पाशमुत्कृष्य श्रथय विनाशय। अधममधमाङ्गे पादप्रदेशे स्थापितं पाशमवकृष्य विनाशय। मध्यमं मध्यप्रदेशे स्थापितं पाशं विच्छेदय। अथ पाशत्रयविनाशानन्तरं हे आदित्य सूर्यसदृश वरुण वयमनागसः पापरहिताः सन्तस्तव व्रते स्वकीयकर्मणि अदितयेऽखण्डितत्वाय स्याम योग्या भवेम।
तृतीयस्य हविषः पुरोनुवाक्यामाह - दधि क्राव्ण इति। दधि क्रामति प्राप्नोतीति दधिक्रावा, एतन्नामको दधिप्रियः कश्चिद्देवविशेषः। अग्निरित्यान्ये। तस्य देवस्याकारिषमहं कर्म कृतवानस्मि। कीदृशस्य। जिष्णोर्जयशीलस्याश्वस्य व्यापिनो वाजिनोऽन्नवतः। स देवो नोऽस्माकं मुखं सुरभि करत्कर्पूरादिद्रव्यसमृद्धिप्रदानेन सुगन्धोपेतं करोतु। अस्माकमायूंषि च प्रतारिषत्प्रवर्धयतु।
याज्यामाह - आ दधिक्रा इति। अयं दधिक्राः पञ्च कृष्टीर्निषादपञ्चमैश्चतुर्भिर्वर्णैः पञ्चविधान्मनुष्यानाततान सर्वतो विस्तारयति। किं कृत्वा। शवसाऽन्नेन संयोज्य। यथा सूर्यो ज्योतिषा रश्मिना भूरसमादाय वर्षर्तावपो विस्तारयति तद्वत्। कीदृशो दधिक्राः। सहस्रसंख्याकं धनं सनोति ददातीति सहस्रसाः। तथा शतसाः। वाज्यन्नवान्। अर्वा कर्मभूमौ गमनवान्। तादृशो देवो मध्वा मधुराणि मदीयानीमानी स्तुतिरूपाणि वचांसि संपृणक्त्वङ्गी करोतु।
पूर्वोक्तामेव त्रिहविष्कामिष्टिं फलान्तराय विधत्ते -
“एतामेव निर्वपेत्प्रजाकामः संवत्सरो वा एतस्याशान्तो योनिं प्रजायै पशूनां निर्दहति योऽलं प्रजायै सन्प्रजां न विन्दते यद्वैश्वानरो द्वादशकपालो भवति संवत्सरो वा अग्निर्वैश्वानरः संवत्सरमेव भागधेयेन शमयति सोऽस्मै शान्तः स्वाद्योनेः प्रजां प्र जनयति वारुणेनैवैनं वरुणपाशान्मुञ्चति दधिक्राव्णा पुनाति हिरण्यं दक्षिणा पवित्रं वै हिरण्यं पुनात्येवैनं विन्दते प्रजाम्” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
यौवनादिसंपत्त्या प्रजामुत्पादयितं योग्यो यः प्रजां न लभत एतस्य प्रजार्थं प्रवृत्तं योनिं गर्भधारणस्थानमशान्तः संवत्सरो देवो वैश्वानरो निःशेषेण दहति एवं पशुष्वपि योज्यम्। द्वादशकपालेन तु शान्तो योनिं समाधाय प्रजामुत्पादयति।
तस्य पूतत्वादिफलार्थमेकहविष्कामिष्टिं विधत्ते - “वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते यदष्टाकपालो भवति गायत्रियैवैनं ब्रह्मवर्चसेन पुनाति यन्नवकपालस्त्रिवृतैवास्मिन्तेजो दधाति यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति यद्दशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति यद्द्वादशकपालो जगत्यैवास्मिन्पशून्दधाति यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान्भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
द्वादशत्वसंख्यान्तर्गताभिरष्टत्वादिसंख्याभिर्गायत्र्यादिसाम्यमापाद्य प्रशंसति।
एतामेवेष्टिं दर्शाद्यत्ययप्रायश्चितार्थं विधत्ते - “अव वा एष सुवर्गाल्लोकाच्छिद्यते यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासी वाऽतिपादयति सुवर्गाय हि लोकाय दर्शपूर्णमासाविज्येते वैश्वानरं द्वादशकपालं निर्वपेदमावास्यां वा पौर्णमासीं वाऽतिपाद्य संवत्सरो वा अग्निर्वैश्वानरः संवत्सरमेव प्रीणात्यथो संवत्सरमेवास्मा उपदधाति सुवर्गस्य लोकस्य समष्ट्या अथो देवता एवान्वारभ्य सुवर्गं लोकमेति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
यदा संवत्सरमेवोपदधाति विच्छेदरहितं करोति तदा संवत्सरस्यावयव-योर्दर्शपूर्णिमादिनयोरनुष्ठानस्य कुतोऽत्ययः। किंच संवत्सरे प्रीते सर्वदेवतानां प्रीतत्वात्ता देवता आश्रित्य तदनुग्रहेण स्वर्गं प्राप्नोति।
आधानेन समृद्धिरहितो योऽग्निमुद्वासयिष्यति तस्य द्विहविष्कामिष्टिं विधत्ते - “वीरहा वा एष देवानां योऽग्निमुद्वासयते न वा एतस्य ब्राह्मणा ऋतायवः पुराऽन्नमक्षन्नाग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालमग्निमुद्वासयिष्यन्यद-ष्टाकपालो भवत्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्तिस्तस्मा आतिथ्यं करोत्यथो यथा जनं यतेऽवसं करोति तादृगेव तद्द्वादशकपालो वैश्वानरो भवति द्वादश मासाः संवत्सरः संवत्सरः खलु वा अग्नेर्योनिः स्वामेवैनं योनिं गमयत्यद्यमस्यान्नं भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
अष्टत्वसंख्यया गायत्रीद्वारा तत्सहोदरस्याग्नेः सर्वस्याप्यातिथ्यं कृतं भवति। किंच यथा लोके दूरदेशवर्तिनं पितृभ्रात्रादिरूपं जनं प्रति यते गच्छते पुरुषायावसं रक्षकं पाथेयं करोति तादृशमिदमुद्वासयिष्यमाणायाग्नये पुरो-डाशप्रदानम्। द्वादशसंख्यया मासद्वारा संवत्सररूपां स्वयोनिमेवाग्निं गमयति। अग्नेरनुग्रहेणास्य समीचीनमन्नं भवति।
अत्राऽऽग्नेये हविषि याज्यापुरोनुवाक्ययोः प्रतीकद्वयमाह - अग्निर्मूर्धा भुव इति। अनयोरग्निर्मूर्धेत्यसौ पुरोनुवाक्या। सा चोपप्रयन्त इत्यानुवाके व्याख्याता। भुवो यज्ञस्येत्यसौ याज्या। सा तु चतुर्थकाण्ड आम्नातत्वात्तत्रैव व्याख्यास्यते।
प्रजाभिः समृद्धं ग्रामं कामयमानस्य द्विहविष्कामिष्टिं विधत्ते - “वैश्वानरं द्वादशकपालं निर्वपेन्मारुतँ सप्तकपालं ग्रामकामः” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
प्रकृतावष्टाकपालैकादशकपालयोर्हविषोरेकस्मिन्नेवाग्नावधिश्रितत्वादत्रापि तत्प्राप्तावपवदति - “आहवनीये वैश्वानरमधि श्रयति गार्हपत्ये मारुतं पापवस्यसस्य विधृत्यै” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
वसीयोऽत्यधिकं यत्पापं तत्पापवस्यसं तस्य ग्रामप्राप्तिप्रतिबन्धकपापस्य विधृत्यै वियोजनायेत्यर्थः।
द्वादशत्वसंख्यां प्रशंसति - “द्वादशकपालो वैश्वानरो भवति द्वादश मासाः संवत्सरः संवत्सरेणैवास्मै सजाताँश्च्यवयति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
अस्मै यजमानार्थं सजातान्समानकुले समुत्पन्नान्मनुष्यांश्च्यावयति प्रह्वीभूतान्करोति।
मरुद्देवतां प्रशंसति - “मारुतो भवति मारुतो वै देवानां विशो देवविशेनैवास्मै मनुष्यविशमव रुन्धे” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
विशः करप्रदाः प्रजाः। वैदिकप्रजानुग्रहेण मानुषप्रजासमृद्धिं संपादयति।
सप्तसख्यां प्रशंसति - “सप्तकपालो भवति सप्तगणा वै मरुतो गणश एवास्मै सजातानव रुन्धे” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
ईदृङ्चान्यादृङ्चेत्यादिनामधारिणां सप्तानां समूहः प्रथमो गणः। शुक्रज्योतिश्चेत्यादिको द्वितीयः। ऋतजिच्चेत्यादिकस्तृतीयः ऋतश्चेत्यादि-कश्चतुर्थः। ईदृक्षास इत्यादिकः पञ्चमः। मितासश्चेत्यादिकः षष्ठः। गणान्तरं शाखान्तरे द्रष्टव्यम्। वैदिकगणानुग्रहेणैव ज्ञातिगणान्बहून्संपादयति।
प्रकृतौ हविःष्वासादितेषु पश्चात्सामिधेनीप्रेषणे कृते ताः सामिधेन्योऽनू-च्यन्ते तद्वदत्रापि सामिधेनीभ्यः प्रागेवाऽऽसादनं वैश्वानरस्य क्रियते। मारुतासादनस्य तु सामिधेन्यनुवचनकालीनत्वं विधत्ते - “अनूच्यमान आ सादयति विशमेवास्मा अनुवर्त्मानं करोति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
प्रजां यजमानानुगामिनीं करोतीत्यर्थः।
अथ मारुतयागे पुरोनुवाक्यामाह - मरुत इति। हे मरुतो यद्यस्मात्कारणाद्वयं सुम्नायन्तः सुखमिच्छन्तो दिवे। द्युलोकाद्वो युष्मान्हवामह आह्वयामस्तस्मादाहूता यूयं नोऽस्मानुपगन्तन प्राप्नुत।
याज्यामाह - या वः शर्मेति। हे मरुतो वो युष्माञ्शशामानाय यजमानाय दातुं या शर्म यानि सुखानि सन्ति संपादितानि विद्यन्ते, त्रिधातूनि त्रिस्थानानि लोक-त्रयवर्तीनि यानि सुखानि दाशुषे हविर्दत्तवतेऽधियच्छताधिकं यथा भवति तथा भवन्तः प्रयच्छन्ति तानि सर्वाण्यस्मभ्यं वियन्त प्रयच्छत। किंच वृषणोऽभिमतफलस्य वर्षितारो रयिं धनं नोऽस्मभ्यं धत्त संपादयत। सुवीरं शोभनपुत्रं च संपादयत।
इष्ट्यन्तरं विधत्ते - “आदित्यं चरुं निर्वपेत्संग्राममुपप्रयास्यन्नियं वा अदितिरस्यामेव पूर्वे प्रतितिष्ठन्ति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
“उपप्रयास्यञ्जिगमिषुः। अनयेष्ट्या जितसंग्रामाः पूर्वे पुरुषा भूमावेव प्रतितिष्ठन्ति तद्वदयमपीत्यर्थः।”
अत्र युग्मद्वयमाम्नातम्। तत्र प्रथमयुग्मे पुरोनुवाक्यामाह — अदितिर्नेति। उरुष्यतु शत्रुभ्यो रक्षतु। स्पष्टमन्यत्।
याज्यामाह — महीमू ष्विति। अदितिमु अदितिदेवतामेवावसेऽस्मद्रक्षार्थं सुहुवेम सुष्ठु आह्वयामः। कीदृशीम्। महीं महनीयां सुव्रतानां मातरं शोभनकर्मणां पुरुषाणां मातृवद्धितकारिणीम्, ऋतस्य पत्नीं सत्वस्य पालयित्रीं, तुविक्षत्त्रां बहुराजपालिताम्, अजरन्तीं सदा जरारहिताम्, उरूचीं विस्तीर्णगतिं, सुशर्माणं समीचीनसुखोपेतां सुप्रणीतिं सुखेन कर्मणां प्रणेत्रीम्।
द्वितीययुग्मे पुरोनुवाक्यामाह - सुत्रामाणमिति। स्वस्तये क्षेमायादितिमारुहेम प्राप्नुयाम। कीदृशीम्। सुत्रामाणं सुष्ठुत्रात्रीम्। पृथिवीं विस्तीर्णाम्। द्यां द्योतमानाम्। अनेहसं कालात्मिकां चिरकालस्थायिनीमित्यर्थः। दैवीं नावम्। यथा मनुष्यानिर्मिता नौः समुद्रस्योपरि तिष्ठति तथा देवनिर्मिता भूमिर्महाजलस्योपरि वर्तत इत्यर्थः। स्वरित्रां सुप्ठु शत्रुभ्यः पालयित्रीम्। अनागसं पापरहिताम्। अस्रवन्तीं छिद्ररहिताम्।
याज्यामाह - इमाँस्विति। इमां भूमिं नावं नौसदृशीं सुष्ठ्वारुहं प्राप्तवानस्मि। कीदृशीम्। शतसंख्याकान्यरित्राणि चोरेभ्यो रक्षकाण्यायुधानि यस्यां ता शतारित्रा तां दिक्पालकैः पालितामित्यर्थः। शतसंख्याकाः स्फ्यसदृशास्तरणदण्डा यस्यां सा शतस्फ्या ताम्। मण्डूककूर्मादिभिर्जलस्योपरि धारितामित्यर्थः। अच्छिद्रामधोभागे जलस्य प्रवेशच्छिद्ररहितात्। पारयिष्णुमभीष्टफलस्य पारं नेतुं समर्थाम्।
युद्धभूमिं प्राप्तस्य जयार्थिन इष्टिं विधत्ते- “वैश्वानरं द्वादशकपालं निर्वपेदायतनं गत्वा संवत्सरो वा अग्निर्वैश्वानरः द्वादशकपालं निर्वपति देवानामेवाऽऽयतने यतते जयति तँ संग्रामम्” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।
यस्मिन्नायतने युद्धं भविष्यति तत्प्राप्य तस्मिन्प्रदेशे निर्वपेत्। संवत्सरदेवताया भूबलस्य स्वामित्वात्तया पालिते देशे देवानां जयस्तद्वदयमपि प्रयतते तस्माज्जयति।
मारणादिपापार्थं प्रवृत्तयोः परस्परवैरिणोरन्नं यो भुङ्क्ते तस्य प्रायश्चित्तरू-पामिष्टिं विधत्ते - “एतस्मिन्वा एतौ मृजाते यो विद्विषाणयोरन्नमत्ति वैश्वानरं द्वादशकपालं निर्वपेद्विद्विषाणयोरन्नं जग्ध्वा संवत्सरो वा अग्निर्वैश्वानरः संवत्सरस्वदित-मेवात्ति नास्मिन्मृजाते” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।
अविचारादिना परस्परमारणोद्युक्तौ विद्विषाणौ तावेतौ स्वकीयान्नभुजि स्वकीयं पापं मृजाते लेपयतः। संवत्सरदेवेन स्वदितं निर्दोषीकृतमेवान्नम-सावत्ति। अतस्तौ नास्मिल्ँलेपयतः।
यावुभौ परस्परमद्रोहाय शपथं कुरुतस्तयोर्मध्ये प्रथमं द्रुह्यतः प्रायश्चित्तायेष्टिं विधत्ते-
“संवत्सराय वा एतौ सममाते यौ सममाते तयोर्यः पूर्वोऽभिद्रुह्यति तं वरुणो गृह्णाति वैश्वानरं द्वादशकपालं निर्वपेत्सममानयोः पूर्वोऽभिद्रुह्य संवत्सरो वा अग्निर्वैश्वानरः संवत्सरमेवाऽऽप्त्वा निर्वरुणं परस्तादभिद्रुह्यति नैनं वरुणो गृह्णाति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।
संवत्सराय संवत्सरदेवं साक्षिणं कृत्वेत्यर्थः। सममाते सम्यक्शपथं कुरुतः। वरुणग्रहणं नाम रोगोत्पत्तिः। निर्वरुणं रोगनिवारकं संवत्सरदेवमेव प्रथमतः। प्राप्य पश्चात्तद्बलेन युक्तो द्रोहं कृतवान्भवति। ततो नास्य वरुणग्रहणं भवति।
अविं प्रतिगृहीतवतः पापपरिहारायोष्टिं विधत्ते- “आव्यं वा एष प्रतिगृह्णाति योऽविं प्रतिगृह्णाति वैश्वानरः द्वादशकपालं निर्वपेदविं प्रतिगृह्य संवत्सरो वा अग्निर्वैश्वानरः संवत्सरस्वदितामेव प्रतिगृह्णाति नाऽऽव्यं प्रतिगृह्णाति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।
अवत्यस्मादित्याव्यं पापम्। श्लेष्मरोग इति केचित्। संवत्सरेण स्वदितां निर्दोषीकृतम्।
अधस्तादुपरिष्टाच्चोभयतो दन्तैर्युक्तं प्राणिस्वरूपं प्रतिगृहीतवतः पापपरिहारायेष्टिं विधत्ते- “आत्मनो वा एष मात्रामाप्नोति य उभयादत्प्रतिगृह्णात्यश्वं वा पुरुषं वा वैश्वानरं द्वादशकपालं निर्वपेदुभयादत्प्रतिगृह्य संवत्सरो वा अग्निर्वैश्वानरः संवत्सरस्वदितमेव प्रतिगृह्णाति नाऽऽत्मनो मात्रामाप्नोति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति। मात्रां हिंसाम्। उभयतो दन्ता यस्य तत्स्वरूपमुभयादत्।
धनलाभमुद्दिश्य दातृसमीपं गमिष्यत इष्टिं विधत्ते- “वैश्वानरं द्वादशकपालं निर्वपेत्सनिमेष्यन्त्संवत्सरो वा अग्निर्वैश्वानरो यदा खलु वै संवत्सरं जनतायां चरत्यथ स धनार्घो भवति यद्वैश्वानरं द्वादशक-पालं निर्वपति संवत्सरसातामेव सनिमभि प्रच्यवते दानकामा अस्मै प्रजा भवन्ति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।
सनिं धनलाभम्। लोके यो याचको दातृजनसमूहे संवत्सरं चरति तदानीमसौ धनसमृद्धो भवति। संवत्सरदेवेन सातां दत्तामेव सनिं धनलब्धिमभिप्राप्नोति। अस्य प्रजाश्च दानशीला भवन्ति।
तयेष्ट्या दातृसमीपे धनं लब्ध्वा गृहे समागतस्य नैमित्तिकीमिष्टिं विधत्ते- “यो वै संवत्सरं प्रयुज्य न विमुञ्चत्यप्रतिष्ठानो वै स भवत्येमेव वैश्वानरं पुनरागत्य निर्वपेद्यमेव प्रयुङ्क्ते तं भागधेयेन विमुञ्चति प्रतिष्ठित्यै” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।
संवत्सररूपं वैश्वानरं प्रयुज्य धनलाभार्थमिष्ट्या निर्बध्य यो न मुञ्चेत्सोऽप्रतिष्ठितो भवति। पुनरिष्ट्या तदीयभागं दत्त्वा तं विमुञ्चति विसर्जितवान्भवति।
तत्रेतिकर्तव्यतां कांचिद्विधत्ते- “यया रज्ज्वोत्तमां गामाजेत्तां भ्रातृव्याय प्रहिणुयान्नितिमेवास्मै प्रहिणोति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।
दातृभ्यो लब्धासु गोषूत्तमां गां यया रज्ज्वा बद्ध्वा समानयति तां रज्जुं भ्रातृव्यविनाशार्थं तदीयगोष्ठे प्रक्षिपेत्। तथा सति नितिं दारिद्र्यरूपां राक्षसीमेव भ्रातृव्यार्थं प्रेषयति।
अत्र विनियोगसंग्रहः -
“अन्त्यानुवाकगा याज्या यागे वैश्वानराभिधे।
वैश्वेत्यष्टौ विकल्पः स्युरवद्वे वारुणे चरौ॥१॥
दधीति दध्यादिचरावग्न्युद्वासनयागके।
अग्निर्भुव इति द्वे स्तः प्रतीके ते उभे मते॥२॥
मरुत्सप्तकपालेष्टावदीत्यादित्यके चरौ।
चतस्रः स्युर्विकल्पार्थ इति प्रश्नोऽत्र पञ्चमः॥३॥” इति।
अथ मीमांसा।
प्रथमाध्यायस्य चतुर्थपादे चिन्तितम्।
“यद्द्वादशकपालेष्टेर्वैश्वानर्या अनन्तरम्।
श्रुतमष्टाकपालादि तद्गुणो नाम वा स्तुतिः॥
अन्तर्भावादष्टतादेर्नाम स्यादग्निहोत्रवत्।
द्रव्यं द्रव्यान्तरे नो चेद्गुणस्तर्हि फलत्यसौ॥
वाक्यैक्यमुपसंहाराद्विस्पष्टं तत्तु बाध्यते।
नानागुणविधौ तस्मादंशद्वारांऽशिसंस्तुतिः”॥ इति।
काम्येष्टिकाण्डे श्रूयते - “वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते यदष्टाकपालो भवति गायत्रियैवैनं ब्रह्मवर्चसेन पुनाति यन्नवकपालस्त्रि-वृतैवास्मिन्तेजो दधाति यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति यदेकादशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति यद्द्वादशकपालो जगत्यैवास्मिन्पशून्दधाति यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान्भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति
अत्राष्टत्वादिसंख्यासामान्यात्पुरोडाशानां गायत्र्यादिरूपत्वकल्पना कृता। इष्टिविधायके वाक्ये येयं द्वादशसंख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात्ताः संख्या निमित्तीकृत्याग्निहोत्रशब्दवदष्टाकपालादिशब्दाः कर्मनामधेयानीत्येकः पक्षः। नात्र द्वादशकपालशब्दः संख्यापरः किंतु पुरोडाशद्रव्यपरः। द्वादशसु कपालेषु संस्कृत इति व्युत्पत्तेः। एवमष्टाकपालादिशब्दा अपि। तथा सति द्रव्यस्य द्रव्यान्तरेऽनन्तर्भावान्नामधेयस्य निमित्तं नास्तीति चेदेवं तर्हि पुरोडाशद्रव्यरूपो गुणो विधीयताम्। न चोत्पत्तिशिष्टद्वादशकपालपुरोडाशावरुद्धत्वादष्टाकपालादेरनवकाश इति वाच्यम्। ब्रह्मवर्चसादिफलाय तद्विध्युपपत्तेरित्यपरः पक्षः। अयमप्युपपन्नः। बहूनां गुणानां विधौ वाक्यभेदापत्तेः। न च भिन्नान्येवैतानि वाक्यानीति वाच्यम्। वैश्वानरं द्वादशकपालं निर्वपेदिति विहितस्य यस्मिञ्जात एतामित्युपसंहारेण वाक्यैकत्वावगमात्। तस्मादंशैरष्टाकपा-लादिभिरंशी द्वादशकपालः स्तूयते।
चतुर्थाध्यायस्य तृतीयपादे चिन्तितम्-
“वैश्वानरेष्ट्या पूतत्वं पितुः पुत्रस्य वाऽग्रिमः।
कर्तुरेव फलं युक्तं कर्तृत्वं पितुरेव हि॥
जाते यस्मिन्निष्टिमेतां निर्वपेत्तस्य पूतता।
तच्चेप्सितं पितुस्तेन पिता तत्र प्रवर्तते” इति॥
काम्येष्टिकाण्डे वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जात इति प्रकृत्य श्रूयते - “यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान्भवति” इति। तत्र पितुः प्रबुद्धस्य कर्तृत्वं न तु मुग्धस्य पुत्रस्य। ततोऽनुष्ठानफलयोर्वैयधिकरण्यपरिहाराय पितुरेव पूतत्वादिफलमिति चेत्, मेवम्। यस्मिञ्जाते निर्वपति स पूत इति वाक्येन फलस्य पुत्रसंबन्धा-वगमात्। न चात्र निष्फलस्य पितुः (तुर) प्रवृत्तिरिति वाच्यम्। पुत्रनिष्ठपूत-त्वादेरीप्सितत्वेन स्वफलबुद्ध्या प्रवृत्तिसंभवात्। तस्मात्पुत्रस्य पूतत्वादिकम्।
तत्रैवान्यच्चिन्तितम् -
“जन्मानन्तरमेवेष्टिर्जातकर्मणि वा कृते।
निमित्तानन्तरं कार्यं नैमित्तिकमतोऽग्रिमः॥
जातकर्मणि निर्वृत्ते स्तनप्राशनदर्शनात्।
प्रागेवेष्टौ कुमारस्य विपत्तेरूर्ध्वमस्तु सा” इति॥
पुत्रजन्मनो वैश्वानरेष्टिनिमित्तत्वान्नैमित्तिकस्य कालविलम्बायोगाज्जन्मान-न्तरमेवोष्टिरिति चेन्मैवम्। स्तनप्राशनं तावज्जातकर्मानन्तरं विहितम्। यदि जातकर्मणः प्रागेव वैश्वानरेष्टिर्निरुप्यते तदा स्तनप्राशनस्यात्यन्तविलम्बनात्पुत्रो विपद्येत। तथा सति पूतत्वादिकमिष्टिफलं कस्य स्यात्। तस्मान्न जन्मानन्तरं किंतु जातकर्मण ऊर्ध्वं सेष्टिः।
तत्रैवान्यच्चिन्तितम्-
“जातकर्मानन्तरं स्यादाशौचेऽपतेऽथवा।
निमित्तसंनिधेराद्यः कर्तृनिधेराद्यः कर्तृशुद्ध्यर्थ उत्तरः” इति॥
यद्यपि जातकर्मानन्तरमेव तदनुष्ठाने निमित्तभूतं जन्म संनिहितं भवति तथाऽप्यशुचिना पित्राऽनुष्ठीयमानमङ्गविकलं भवेत्। जातकर्मणि तु विपत्तिपरिहाराय तात्कालिकी शुद्धिः शास्त्रेण दर्शिता। ततो मुख्यसंनिधेर-वश्यंबाधितत्वाच्छुद्धिलक्षणाङ्गवैकल्यं वारयितुमाशौचादूर्ध्वमिष्टिं कुर्यात्।
“वैश्वानरे पाथिकृते साहित्यं वा विकल्पनम्।
साहित्यं स्याददृष्टाय विकल्पः स्यात्समाधये” इति॥
विहितयोर्दर्शपूर्णमासयोः कदाचिदननुष्ठाने प्रायश्चित्तं श्रूयते - “वैश्वानरं द्वादशकपालं निर्वपेदमावास्यां वा पौर्णमासीं वाऽतिपाद्य” इति। “अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाऽतिपादयेत्” इति च। अत्र पूर्वदृष्टप्रयोजनाभावाददृष्टार्थमुभयं समुच्चित्यानुष्ठेयमिति चेन्न। यज्ञवैगुण्यसमाधेर्दृष्टप्रयोजनत्वा-दन्योन्यनिरपेक्षयोर्द्वयोर्व्रीहियववद्विकल्पः। एवमृग्यजुःसामवेदेषु विहित-स्याननुष्ठानान्निषिद्धस्याऽऽचरणाद्वा यद्यज्ञवैगुण्यं तस्य वैगुण्यमात्रस्य सर्वस्य समाधानाय निरपेक्षाणि प्रायश्चित्तानि विहितानि - “भूः स्वाहेति गार्हपत्ये जहुयात्, भुवः स्वाहेति दक्षिणाग्नौ जुहुयात्’ भूर्भुवः सुवः स्वाहेत्याहवनीये जुहुयात्” इति। तान्येतानि विकल्प्यन्ते। प्रत्येकं वैगुण्यसमाधानक्षमत्वात्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके एकादशोऽनुवाकः॥११॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥१॥
इति श्रीमद्विद्यातीर्थमेहश्वरापरावतारस्य श्रीमद्राजाधिराज-
परमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन
माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्ण-
यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथम-
काण्डे पञ्चमः प्रपाठकः॥५॥