प्रश्नः-4

(अथ प्रथमकाण्डे चतुर्थः प्रपाठकः)।
(तत्र प्रथमोऽनुवाकः)
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥१॥
तृतीयप्रपाठके प्रधान्येनाग्नीषोयीयपशुः प्रतिपादितः। तत ऊर्ध्वं वसतीवरीग्रहणं चोक्तम्। तावता सुत्यादिवसात्पूर्वदिवसेषु यत्कर्तव्यं तत्समाप्तम्। तत उपरितनेनानुवाकेन सुत्यादिवसकर्तव्यप्रारम्भाय सोमोपावहरणमुक्तम्। अथ चतुर्थप्रपाठके सुत्यादिने कर्तव्या ग्रहाः प्राधान्येन प्रतिपाद्यन्ते। तत्रानुवाकार्था विनियोगसंग्रहे दर्शिताः –
“ग्रहप्रश्रेऽनुवाकास्तु चत्वारिंशदिहोदिताः।
सोमाभिषव एकस्मिन्पञ्चत्रिंशत्सु(ति) तद्ग्रहाः॥
दाक्षिणानि समिष्टाख्ययजूंष्यवभृथसातथा ।
काम्ययाज्या इति प्रोक्ता अर्था अत्रानुवाकगाः” इति॥
प्रथमानुवाके पात्रेषु रसग्रहणाय पूर्वमुपावहृतस्य सोमस्याभिषवोऽभिधीयते।
आ दद इति। कल्पः – “अथैषां ग्राव्णां यः सजन्तुरिव तमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामा दद इत्यादायाभिमन्त्रयते ग्रावाऽस्यध्वरकृद्देवेभ्यो गम्भीरमिममध्वरं कृध्युत्तमेन पविनेन्द्राय सोमँ सुषुतं मधुमन्तं पयस्वन्तं वृष्टिवनिमिति” आ दद इत्याम्नातो मन्त्रो देवस्य त्वेत्यनेन पूरितः। हे ग्रावन्नभिषवसाधन त्वं यज्ञनिष्पादको दृढः पाषाणोऽसि। तत इमं यज्ञं देवार्थं गहनं कुरु। उत्कृष्टेन वज्रसदृशेन त्वयाऽहं सोममीदृशं करोमि। कीदृशं, सुषुतं सम्यगभिषुतं मधुमन्तं स्वादुत्वोपेतं पयस्वन्तं क्षीरवद्रसोपेतं वृष्टिवनिमाहुतिसूर्यद्वारा वृष्टिप्रदम् ।
तथा च स्मर्यते –
“अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” इति ॥
इन्द्रार्थमेव सोमं करोमि।
विधत्ते – “देवस्य त्वा सवितुः प्रसव इति ग्रावाणमा दत्ते प्रसूत्या अश्विनोर्बाहुभ्यामित्याहाश्विनौ हि देवानामध्वर्यू आस्तां पूष्णो हस्ताभ्यामित्याह यत्यै” (सं. का. २ प्र. ४ अ. ४) इति।
ग्रावाऽसीति मन्त्र उपेक्षितः।
इन्द्रायेति । कल्पः – “अथैनं प्राञ्चं प्रश्रित्य विस्रस्य राजानं ग्रावाणमुपांशुसवनमभिमिमीत इन्द्राय त्वा वृत्रघ्न इन्द्राय त्वा वृत्रतुर इन्द्राय त्वाभिमातिघ्न इन्द्राय त्वाऽऽदित्यवत इन्द्राय त्वा विश्वदेव्यावत इति।”
हे सोम त्वामिन्द्रार्थं मिमे। कीदृशायेन्द्राय। वृत्रघ्ने मेघविदारयित्रे, वृत्रतुरे वृत्रासुरघातिने, अभिमातिघ्ने पापघातिने, आदित्यार्थं तृतीयसवने गृह्यमाणत्वादादित्यवते, प्रातःसवने विश्वान्देवानुद्दिश्य गृह्यमाणत्वाद्विश्वदेव्यावते।
विधत्ते – “पशवो वै सोमो व्यान उपाँशुसवनो यदुपाँशुसवनमभि मिमीते व्यानमेव पशुषु दधाति” (सं. का. २ प्र. ४ अ. ४) इति।
पशुप्राप्तिहेतुत्वात्सोमस्य पशुत्वम्। “प्राणापानौ वा एतौ यदुपाँश्वन्तर्यामौ व्यान उपाँशुसवनः” इति रूपकं वक्ष्यति। अतोऽस्य व्यानत्वम्। उपांशुनामकग्रहार्थं सोमः सूयते येन पाषाणेन स उपांशुसवनः। तमभिलक्ष्य सोमो मातव्यः।
सर्वमन्त्रेष्विन्द्रशब्दप्रयोगस्य तात्पर्यमाह – “इन्द्राय त्वेन्द्राय त्वेति मीमित इन्द्राय हि साम आह्रियते” (सं. का. २ प्र. ४ अ. ४) इति।
सौमिकदेवेष्विन्द्रस्य प्राधान्यमिन्द्रपीतस्येत्यादिमन्त्रस्य च प्रसिद्धिं हिशब्दो द्योतयति।
विधत्ते – “पञ्च कृत्वो यजुषा मिमीते पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे पञ्च कृत्वस्तूष्णीं दश सं पद्यन्ते दशाक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव रुन्धे” (सं. का. २ प्र. ४ अ. ४) इति।
सोमो यथा क्रीतस्तद्वदयमपि मातव्यः।
श्वात्रा इति। कल्पः – “अथ मितं राजानं होतृचमसीयाभिरुपसृजति श्वात्राः स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीस्ता देवीर्देवत्रेमं यज्ञं धत्तोपहूताः सोमस्य पिबतोपहूतो युष्माकं सोमः पिबत्विति” इति।
हे आपो यूयमेवंविधाः स्थ। कीदृश्यः। श्वाः शीघ्रकारिण्यः। वृत्रतुरो वृत्रघातिन्यः। राधोऽन्नं गूर्ताः संपादयितुमुद्यताः। अमृतस्य सोमस्य पत्नीः पालयित्र्यः। तास्तथाविधा यूयं देवीर्देवतारूपा देवत्रा देवेषु इममस्मदीयं यज्ञं स्थापयत। किंच, उपहूता अनुज्ञाताः सत्यः सोमस्यांशं पिबत। सोमश्चानुज्ञातो युष्माकमंशं पिबतु।
उपहूताः सोमस्य पिबतेत्यस्याभिप्रायमाह – “श्वात्राः स्थ वृत्रतुर इत्याहैष वा अपाँ सोमपथिः” (सं. का. २ प्र. ४ अ. ४) इति।
अस्मिन्मन्त्रे पिबतेति यदुच्यत एतदेवाब्देवतानां सोमपानम्।
वेदनं प्रशंसति – “य एवं वेद नाप्स्वार्तिमार्च्छति” (सं. का. ६ प्र. ४ अ. ४) इति। जले मरणं न प्राप्नोति।
यत्त इति। बौधायनः – “अथैनं संप्रयौति यत्ते सोम दिवि ज्योतिर्यत्पृथिव्यां यदुरावन्तरिक्षे तेनास्मै यजमानायोरु राया कृध्यधि दात्रे वोच इति” इति।
आपस्तम्बः – “यत्ते सोम दिवि ज्योतिरिति राजानमभिमन्त्रयते” इति।
हे सोम त्रिषु लोकेषु त्वदीयं यज्ज्योतिरस्ति तेन ज्योतिषाऽस्मै यजमानाय राया धनेनोरु समृद्धं विस्तीर्णं स्थानं कृधि कुरु। किंच–अधिकोऽयं यजमानो भक्त्येति दात्रे फलप्रदायेन्द्राय ब्रूहि।
दिवीत्यादेस्तात्पर्यमाह – “यत्ते सोम ज्योतिरित्याहैभ्य एवैनं लोकेभ्यः सं भरति” (सं. का. ६ प्र. ४ अ. ४) इति। लोकत्रयेणैनं सोमं सम्यक्पोषयति।
धिषण इति। कल्पः – “तिरश्चर्मन्फलके अभिमृशति धिषणे वीडू सती वीडयेथामूर्जं दधाथामूर्जं मे धत्तं मा वाँ हिँसिषं मा मा हिँसिष्टमिति” (सं. का. ६ प्र. ४ अ. ४) इति।
हे धिषणे सोमस्य चर्मणो वा धारयित्र्यौ वीडू सती विष्टब्धे सत्यौ वीडयेथां पुनरप्यभिषवादिघातेन विक्ष्लेषो मा भूदिति दृढं स्तम्भयतम्। उर्जं सोमरसं दधाथां युवां धारयतम्। ऊर्जं मे मह्यं धत्तं प्रयच्छतम्। अहं युवां मा हिंसिषम्। युवामपि मा मा हिंसिष्टम्। मन्त्रोऽयमुपेक्षितः।
कल्पः – “एकग्रहायाऽऽप्तँ राजानमुपरे न्युप्य होतृचमसेऽँशूनवधाय तस्मिन्ग्रावाणमुपाँ शुसवनमुपनिधाय त्रि प्रदक्षिणमुपरि परिप्लावयन्निग्राभमुपैति प्रागपागुदगधरागिति, यां भार्यां कामयेत तां मनसा ध्यायेदम्ब नि ष्वरेति” इति। प्रागपामिति। प्रागादयो या दिशस्ताः सर्वा हे सोम त्वां प्रत्याभिमुख्येन धावन्तु। हेऽम्ब मातृस्थानीय सोम निष्वरांशुभ्यो रसात्मना निर्गच्छ। प्रागादिमन्त्रः सोमनिग्रहणहेतुत्वान्निग्राभ इत्युच्यते। उपरोऽभिषवाधारः पाषाणस्तस्मिन्सोममवस्थाप्य निग्राभमन्त्रं पठेत्।
दिशामाधावनोक्तेस्तापर्यमाह – “सोमो वै राजा दिशोऽभ्यध्यायत्स निशोऽनु प्राविशत्प्रागपागुदगधरागित्याह दिग्भ्य एवैनँ सं भरत्यथो दिश एवास्मा अव रुन्धे” (सं. का. ६ प्र. ४ अ. ४) इति।
अम्ब मातरित्यादयः शब्दाः स्त्रीणामुपलालनाय प्रयुज्यन्तेऽतोऽम्बशब्दप्रयोगेणात्र ध्यानविधिः सूच्यत इत्यभिप्रेत्य व्याचष्टे – “अम्ब नि ष्वरेत्याह” (सं. का. ६ प्र. ४ अ. ४) इति।
यस्मादम्बेत्युपलालनमाह तस्माद्ध्यायेदित्यभिप्रायः।
वेदनं प्रशंसति – “कामुका एनँ स्त्रियो भवति य एवं वेद” (सं. का. ६ प्र. ४ अ. ४) इति। यत्त इति। कल्पः – “प्रतिप्रस्थाता राजन्येवांशू द्वौ द्वावपि सृजति यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहेति” इति।
यः सोम उपांशुग्रहाय पर्याप्त उपरे न्युप्तः श्वात्राः स्थेति मन्त्रेण वसतीवरीभिरुपसृष्टस्तस्मात्सोमादपादाय षडंशवः स्थापिताः। तथा चोक्तम् – “उपसृष्टस्य राज्ञः षडंशूनार्द्रानसंश्लिष्टानादाय चर्मणि निधाय” इति। त्रिष्वपि सवनेषु महाभिषवे तेषां षण्णामंशूनां मध्ये द्वौ द्वावंशू संसृजेत्। हे सोम तस्मै सोमाय ते तादृक्सोमनामधारिणे तुभ्यमिदं सोमांशुद्वयं स्वाहा हुतमस्तु।
सोमायेत्युक्तेरभिप्रायमाह – “यत्ते सोमादाभ्यं नाम जागृवीत्याहैष वै सोमस्य सोमपीथः” (सं. का. ६ प्र. ४ अ. ४) इति।
यथाऽग्नौ होममन्तरेणैवापां सोमपानमुक्तं तथा सोमस्याप्येष एव मन्त्रेणांशुद्वयप्रक्षेपः।
सोमपानवेदनं प्रशंसति – “य एवं वेद न सौम्यामार्तिमार्च्छति” (सं. का. ६ प्र. ४ अ. ४) इति। सोमयागविनाशं न प्राप्नोति।
षण्णामंशूनां संघातात्पृथक्करणं विधत्ते – “घ्नन्ति वा एतत्सोमं यदभिषुण्वन्त्यँशूनप गृह्णाति त्रायत एवैनम्” (सं. का. ६ प्र. ४ अ. ४) इति। अंशूनामपनयनेनाभिषवरूपाद्वधादेनं सोमं पालयति।
महाभिषवे तत्संसर्गं विधत्ते – “प्राणा वा अँशवः पशवः सोमोऽँशून्पुनरपि सृजति प्राणानेव पशुषु दधाति” (सं. का. ६ प्र. ४ अ. ४) इति।
त्रिषु सवनेषु पृथगंशुसंसर्गं विधत्ते – “द्वौद्वावपि सृजति तस्माद्द्वौद्वौ प्राणाः” (सं. का. ६ प्र. ४ अ. ४) इति। चक्षुःश्रोत्रघ्राणेन्द्रियरूपाः प्राणाः प्रत्येकं द्वौ द्वौ भूत्वा तत्तच्छिद्रेषु वर्तन्ते।
अत्र विनियोगसंग्रहः –
“आददेऽश्मानमादाय ग्रावाऽसीत्यभिमन्त्रयेत्।
इन्द्रा सोममिति पञ्च श्वात्रा निग्राम्यसेचनम्॥१॥
यत्ते सोमं मन्त्रयित्वा धिषेति फलके स्पृशेत्।
प्राक्त्रिः प्रदक्षिणाप्लावो ह्यम्ब पत्नीं विचिन्तयेत्॥
यत्ते महत्यभिषवे ह्यंशुयोगो नवेरिताः॥२॥” इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके प्रथमोऽनुवाकः ॥१॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके द्वितीयोऽनुवाकः)
प्रथमेऽनुवाक उपांशुग्रहणाय सोमाभिषवसंनाहोऽभिहितः। अथ द्वितीये तूपांशुग्रहोऽभिधीयते। वाचस्पतय इति। बौधायनः – “अन्तर्दधाति प्रतिप्रस्थाता प्रथमाभ्यामंशुभ्यामानयत्यध्वर्युर्वाचस्पतये पवस्व वाजिन्नित्यन्तर्दधाति प्रतिप्रस्थाता मध्यमाभ्यामंशुभ्यामानयत्यध्यर्युर्वृषा वृष्णो अँशुभ्यां गभस्तिपूत इत्यन्तर्दधाति प्रतिप्रस्थातोत्तमाभ्यामानयत्यध्वर्युर्देवो देवानां पवित्रमसि येषां भागोऽसा तेभ्यस्त्वेति” इति।
आपस्तम्बस्त्वेकमन्त्रतामाह –– “अष्टौ(ष्ट) कृत्वोऽभिषुणोत्यथ प्रतिप्रस्थातोपांशुपात्रं धारयन्नुपात्तानामुपरि द्वावंशू अन्तर्दधाति तस्मिन्नभिषुतमध्वर्युरञ्जलिना गृह्णाति वाचस्पतये पवस्व वाजिन्नित्येवं विहितो द्वितीयस्तृतीयश्चापि वैकादशकृत्वो द्वितीयमभिषुणोति द्वादशकृत्वस्तृतीयम्” इति।
हे वाजिन्नन्नप्रद सोम पतये पालकदेवार्थं वाचः संबन्धिना मन्त्रेण पवस्व शुद्धो भव। वृषा रसरूपत्वेन वर्षणसमर्थस्त्वं गभस्तिपूतः पूर्वमरण्ये सूर्यरश्मिभिः पूत इदानीं तु वृष्णो वर्षणसमर्थस्य सोमस्यांशुभ्यामन्तर्धापिताभ्यां पवस्व। किंच त्वमपि देव एव सन्देवानां सोमपां पवित्रं शुद्धिहेतुरसि। येषां देवानां भागोऽसि तेभ्यस्त्वा गृह्णामि।
विधत्ते – “प्राणो वा एष यदुपाँशुर्यदुपाँ श्वग्रा ग्रहा गृह्यन्ते प्राणमेवानु प्रयन्ति” (सं. का. ६ प्र. ४ अ. ५) इति।
यज्ञस्य प्राणस्थानीय उपांशुः। अपानवागादिस्थानीयास्त्वन्तर्यामैन्द्रवायवादयः। अतः प्राणत्वेन मुख्यत्वात्प्रथमतस्तद्ग्रहणं युक्तम्।
त्रिषु पर्यायेषु विलक्षणसंख्याविशिष्टमभिषवं विधत्ते – “अरुणो ह स्माऽऽहौपवेशिः प्रातःसवन एवाहं यज्ञँ सँ स्थापयामि। तेन ततः सँस्थितेन चरामीत्यष्टौ कृत्वोऽग्रेऽभि षुणोत्यष्टाक्षरा गायत्री गायत्रं प्रातःसवनं प्रातःसवनमेव तेनाऽऽप्नोत्येकादशाक्षरा त्रिष्टुप् त्रैष्टुभं माध्यन्दिनं सवनं माध्यन्दिनमेव सवनं तेनाऽऽप्नोति द्वादश कृत्वस्तृतीयं द्वादशाक्षरा जगती जागतं तृतीयसवनं तृतीयसवनमेव तेनाऽऽप्नोत्येताँ ह वाव स यज्ञस्य सँस्थितिमुवाचास्कन्दायास्कन्नँ हि तद्यद्यज्ञस्य सँस्थितस्य स्कन्दति” (सं. का. ६ प्र. ४ अ. ५) इति।
उपवेशस्य पुत्रः कश्चिदरुणनामा यथोक्तत्रिविधाभिपरूपामेव यज्ञस्य समाप्तिमुवाच। तदेतविनाशाय संपद्यते। समाप्तस्य यज्ञस्य संबन्धि यद्वस्तु नश्यति तदविनष्टमेव।
त्रिष्वपि पर्यायेष्वष्टसंख्यैवेति पक्षान्तरं विधत्ते – “अथो खल्वाहुर्गायत्री वाव प्रातःसवने नातिवाद इत्यनतिवादुक एनं भ्रातृव्यो भवति य एवं वेद तस्मादष्टावष्टौ कृत्वोऽभिषुत्यम्” (सं. का. ६ प्र. ४ अ. ५) इति।
अतिवादे गायत्र्येव न वर्तते। त्रिष्टुब्जगत्यौ तु वर्तेते। अधिकाक्षरयुक्ततया पठ्यमानत्वमतिवादः। न चासावल्पाक्षरायां गायत्र्यां संभवति। यद्यपि प्रातःसवने छन्दोन्तराण्यपि संभवन्ति तथाऽपि गायत्र्येवाभिमानिदेवता। गायत्र्या अतिवादाभावं यो वेद तं प्रति शत्रुरप्यनतिवादुको भवति अनिन्दको भवतीत्यर्थः। यस्माद्गायत्र्येव सवनमभिमन्यते तस्मात्तदीययैव संख्यया प्रातःसवने त्रिष्वपि पर्यायेष्वभिषोतव्यम्।
मन्त्रस्य प्रथमभागे वाक्शब्दतात्पर्यमाह – “ब्रह्मवादिनो वदन्ति पवित्रवन्तोऽन्ये ग्रहा गृह्यन्ते किंपवित्र उपाँशुरिति वाक्पवित्र इति ब्रूयाद्वाचस्पते पवस्व वाजिन्नित्याह वाचैवैनं पवयति” (सं. का. ६ प्र. ४ अ. ५) इति।
उपांशुव्यतिरिक्ता ग्रहा दशापवित्रनामकेन वस्त्रेण शोधिता गृह्यन्ते न तूपांशुः। तस्य किं शोधकमिति प्रश्नः। मन्त्र एव शोधकमित्युत्तरम्।
भागान्तराणामर्थः प्रसिद्ध इत्याह – “वृष्णो अँशुभ्यामित्याह वृष्णो ह्येतावँशू यौ सोमस्य गभस्तिपूत इत्याह गभस्तिना ह्येनं पवयति देवो देवानां पवित्रमसीत्याह देवो ह्येष सन्देवानां पवित्रं येषां भागोऽसि तेभ्यस्त्वेत्याह येषाँ ह्येष भागस्तेभ्य एनं गृह्णाति” (सं. का. ६ प्र. ४ अ. ५) इति।
स्वांकृत इति। बौधायनः – “अथ प्रतिप्रस्थातुर्ग्रहमादत्ते स्वांकृतोऽसीत्यथैनमवेक्षते मधुमतीर्न इषस्कृधीत्यथैनमूर्ध्वमुन्मार्ष्टि विश्वेभ्यस्त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्य इति” इति।
आपस्तम्बस्त्वेकमन्त्रतामाह – “स्वांकृतोऽसीत्यध्वर्युर्ग्रहमादाय” इति।
हे उपांशुग्रह त्वं स्वांकृतोऽसि मया स्वीकृतोऽसो। मधुमतीरिषो मधुराण्यन्नानि नोऽस्मदर्थं कृधि कुरु। देवजन्मनि मनुष्यजन्मनि च स्थितेभ्यः सर्वेभ्य इन्द्रियेभ्यो हिताय त्वां स्वी करोमि। स्वांकृतशब्देन प्राणरूपस्य ग्रहस्य स्वाधीनत्वं विवक्षितम्। मधुमतीशब्देन स्वादुत्वम्।
दिव्यपार्थिवशब्देन जन्मद्वयमिति दर्शयति – “स्वांकृतोऽसीत्याह प्रणभेव स्वमकृत मधुमतीर्न इषस्कृधीत्याह सर्वमेवास्मा इदँ स्वदयति विश्वेभ्यस्त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्य इत्याहोभयेष्वेव देवमनुष्येषु प्राणान्दधाति” (सं. का. ६ प्र. ४ अ. ५) इति।
मनस्त्वेति। बौधायनः – “उपोत्तिष्ठति मनस्त्वाऽष्ट्वित्युर्वन्तरिक्षमन्विहीत्येत्याऽऽहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहा त्वा सुभवः सूर्यायेति” इति।
आपस्तम्बः – “उर्वन्तरिक्षमन्विहीति दक्षिणेन होतारमतिक्रमति। येन वा होता प्रतिपादयेन्मनस्त्वाऽष्ट्विति दक्षिणतोऽवस्थाप्य दक्षिणपरिधिसंधिमन्ववहृत्य स्वाहा त्वा सुभवः सूर्यायेति दक्षिणतः प्राञ्चमृजुं संततं दीर्घं हुत्वा देवेभ्यस्त्वामरीचिपेभ्य इति मध्यमे परिधौ लेपं निमार्ष्टि” इति।
हे प्राणरूपोपांशुनामक ग्रह त्वां मनोऽष्टु व्याप्नोतु। विस्तीर्णमन्तरिक्षमनुसृत्य त्वमाहवनीयदेशे गच्छ। हे सुभवः शोभनं भवः सद्भावो मध्यावस्थितिलक्षणो यस्य प्राणस्य सोऽयं सुभवाः। हे प्राण त्वा त्वद्रूपं ग्रह सूर्याय बहिष्प्राणरूपाय स्वाहा जुहोमि। सूर्यस्य प्राणरूपत्वमाथर्वणैराम्नातम् – “आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णाति नः” इति। हे लेप त्वां मरीचिपालकदेवार्थं परिधौ मार्ज्मि।
क्रमेण मन्त्रान्व्याचष्टे – “मनस्त्वाऽष्ट्विवित्याह मन एवाश्नुत उर्वन्तरिक्षमन्विहीत्याहान्तरिक्षदेवत्यो हि प्राणः स्वाहा सुभवः सूर्यायेत्याह प्राणा वै स्वभवसो देवास्तेष्वेव परोक्षं जुहोति देवेभ्यस्त्वा मरीचिपेभ्य इत्याहाऽऽदित्यस्य वै रश्मयो देवा मरीचिपास्तेषां तद्भागधेयं तानेव तेन प्रीणाति” (सं. का. ६ प्र. ४ अ. ५) इति।
स्वभवसः स्वशरीरेऽवस्थिता देवाः प्राणवायवः। तत्र प्राणेभ्यः स्वाहेत्युक्ते तेषां प्रत्यक्षहोमो भवतीति तत्परित्यज्य सूर्यायेत्युक्तत्वादयं परोक्षहोमः। यद्वा स्वभवस इति वक्तव्ये सति सुभवस इत्युक्त्या परोक्षत्वम्। रश्मिनामकाश्चेतना देवा अचेतनानां मरीचीनां पालकाः।
लेपमार्जने हस्तस्याधोमुखत्वमूर्ध्वमुखत्वं च फलभेदेन विधत्ते – “यदि कामयेत वर्षुकः पर्जन्यः स्यादिति नीचा हस्तेन नि मृज्याद्वृष्टिमेव नि यच्छति यदि कामयेतावर्षुकः स्यादित्युत्तानेन नि मृज्याद्वृष्टिमेवोद्यच्छति” (सं. का. ६ प्र. ४ अ. ५) इति।
वैरिणं प्रत्यभिचरता पुरुषेण होमात्पूर्वं पाठ्यं मन्त्रविशेषमुत्पादयति – “यद्यभिचरेदमुं जह्यथ त्वा होष्यामीति ब्रूयादाहुतिमेवैनं प्रेप्सन्हन्ति” (सं. का. ६ प्र. ४ अ. ५) इति।
हे प्राणरूप सूर्यामुं देवदत्तनामकं वैरिणं प्रथमतो मारय पश्चात्त्वां प्रति होष्यामीति ब्रूयात्। एतन्मन्त्रं श्रुत्वा देव आहुतिमपेक्षमाण एनं वैरिणं मारयत्येव।
वैरिणो दूरदेशवर्तित्त्वे सत्यभिचरतोऽनुष्ठानविशेषं विधत्ते –
“यदि दूरे स्यादा तमितोस्तिष्ठेत्प्राणमेवास्यानुगत्य हन्ति” (सं. का. ६ प्र. ४ अ. ५) इति।
आ तमितोरा ग्लानेर्यावन्तं कालं निरुच्छ्वासः स्थातुं शक्नोति तावत्तिष्ठेत्। ततोऽयं निरोधोऽस्य वैरिणः प्राणमनुगत्य मारयत्येव।
एष त इति। बौधायनः – “अथ प्रदक्षिणमावर्त्याऽऽग्रयणस्थाल्यां ग्रहस्य संस्रावमवनयति एष ते योनिरित्यथैतस्मिन्नुपांशुपात्रेंऽशुं प्रास्याथैनं दक्षिणत उपांशुसवनेन संस्पृष्टं सादयति प्राणाय त्वेति” इति।
आपस्तम्बः – “सर्वमाग्रयणस्थाल्यां संपातमवनीय, एष ते योनिः प्राणाय त्वेति रिक्तं पात्रमायतने सादयित्वा तस्मिन्नंशुमवास्य तं तृतीयसवनेऽपिसृज्याभिषुणुयात्” (सं. का. ६ प्र. ४ अ. ५) इति।
हे संस्राव संपात, एष आग्रयणाख्यस्ते तव योनिः स्थानम्। अथवा हे उपांशुपात्रैष खरस्य दक्षिणांसप्रदेशस्ते स्थानम्। अतः प्राणदेवतासंतोषार्थं त्वामत्र सादयामि। खरौ नाम दक्षिणस्य हविर्धानस्य पुरस्तान्मृदं प्रक्षिप्य निष्पादितो देशः पात्रप्रयोगार्थः। तथा च सूत्रम् – “खरे पात्राणि प्रयुनक्त्यग्निर्देवतेति दक्षिणेंऽस उपांशुपात्रं सोमो देवतेत्युत्तरेंऽसेऽन्तर्यामस्य बृहन्नसीति ते अन्तरेण ग्रावाणमुपांशुसवनं दक्षिणामुखं संस्पृष्टं पात्राभ्यां तमपरेण प्रत्यञ्चि द्विदेवत्यपात्रणि” इत्यादि। एष ते योनिः प्राणाय त्वेत्येष मन्त्र उपेक्षितः।
अभिचरतः पात्रासादनाय मन्त्रान्तरमुत्पादयति – “यद्यभिचरेदमुष्य त्वा प्राणे सादयामीति सादयेदसन्नो वै प्राणः प्राणमेवास्य सादयति” (सं. का. ६ प्र. ४ अ. ५) इति।
हे उपांशुपात्र प्राणरूपं त्वाममुष्य वैरिणः प्राणे स्थापयामीत्युक्ते सत्यसन्नो विनाशरहितो यजमानप्राणो वैरिणः प्राणं सादयति विनाशयति।
अभिषुतः सोमरसः प्रतिप्रस्थातृहस्तगत उपांशुपात्रे यदा गृह्यते तदा ग्रहान्तरवद्वस्त्रेण शोधनं न भवति किंत्वंशुभिरिति विधत्ते – “षडिभिरँशुभिः पवयति षड्वा ऋतव ऋतुभिरेवैनं पवयति” (सं. का. ६ प्र. ४ अ. ५) इति।
नात्र षण्णामंशूनां युगपत्प्रयोगः किंतु त्रिषु पर्यायेष्विति विधत्ते – “त्रिः पवयति त्रय इमे लोका एभिरेवैनं लोकैः पवयति” (सं. का. ६ प्र. ४ अ. ५) इति।
नात्र वक्ष्यमाणग्रहेष्विव दशापवित्रनाभिस्रुतया धारया ग्रहणं किंतु त्रिष्वपि पर्यायेष्वध्वर्योरञ्जलिनेति विधत्ते – “ब्रह्मवादिनो वदन्ति कस्मात्सत्यात्त्रयः पशूनाँ हस्तादाना इति यत्त्रिरुपाँशुँ हस्तेन विगृह्णाति तस्मात्त्रयः पशूनाँ हस्तादानाः पुरुषो हस्ती मर्कटः” (सं. का. ६ प्र. ४ अ. ५) इति। गोमहिषादयः सर्वे पशवो मुखादानाः। एते तु त्रयो हस्तादानाः। पुरुषोऽपि “ब्रह्मणे ब्राह्मणमालभते” इत्यादावालभ्यत्वात्पशुः।
अत्र विनियोगसंग्रहः –
“वाचो ह्युपांशुग्रहणं स्वामादत्तेऽन्यहस्ततः।
उरु गत्वा मनस्त्वेति वेदेर्दक्षिणतः स्थितिः॥१॥
स्वाहा जुहोति देवेभ्यो मध्यमे परिधौ तथा।
लेपं निमार्ष्ट्येष पात्रं सादयेत्सप्त वर्णिताः” ॥२॥ इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके द्वितीयोऽनुवाकः ॥२॥

(अथ प्रथमाष्टके चतुर्थप्रपाठके तृतीयोऽनुवाकः)।
द्वितीयेऽनुवाक उपांशुग्रहोऽभिहितः। अथ तृतीयमारभ्य षट्त्रिंशान्तेष्वनुवा-केष्वन्तर्यामादिकाः षोडश्यन्ता ग्रहा अभिधीयन्ते। तत्र पौर्वापर्ये पाठ एव नियामकः।
उपयामगृहीत इति। कल्पः – “उदित आदित्येऽन्तर्यामं गृह्णात्यतिपवमानस्य राज्ञ उपयामगृहीतोऽस्यन्तर्यच्छ मघवन्पाहि सोममुरुष्य रायः समिषो यजस्वान्तस्ते दधामि द्यावापृथिवी अन्तरुर्वन्तरिक्षँ सजोषा देवैरवरैः परैश्चान्तर्यामे मघवन्मादयस्वेति” (सं. का. ६ प्र. ४ अ. ५) इति।
अतिपवमानस्य दशापवित्रेणात्यन्तशुद्धस्य। हे सोमरस त्वमुपयामगृहीतोऽसि। उपयामः पृथिवी। “इयं वा उपयामः” इति श्रुतेः। पृथिव्यामुत्पन्नं दारुमयमन्तर्यामसंज्ञकं पात्रमन्तर्यामशब्देनोच्यते। हे मघवन्नन्तर्यच्छ, इदं पात्रमस्माकं भ्रातृव्येभ्योऽन्तर्धानं यथा भवति तथा नियमय। ततः सोमं पालय। रायो धनानि उरुष्य रक्ष। समिषः समीचीनान्यन्नानि यजस्व देहि। द्यावापृथिव्यौ तवानुग्रहादन्तर्दधामि व्यवधायिके करोमि। विस्तीर्णमन्तरिक्षमप्यन्तर्दधामि। हे मघवन्नवरैः परैश्च सर्वैर्देवैः सजोषाः सह (प्रीयमाणः सेवमानो वा) अस्मिन्नन्तर्यामग्रहे मादयस्व। त्वं हृष्टः सन्नन्यानपि हर्षय।
अन्तर्यामपात्रे सोमरसग्रहणं विधत्ते – “देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा उपाँशौ यज्ञँ सँस्था-प्यमपश्यन्तमुपाँशौ समस्थापयन्तेऽसुरा वज्रमुद्यत्य देवानभ्यायन्त ते देवा बिभ्यत इन्द्रमुपाधावन्तानिन्द्रोऽन्तर्यामेणान्तरधत्त तदन्तर्यामस्यान्तर्यामत्वं यदन्तर्यामो गृह्यते भ्रातृव्यानेव तद्यजमानोऽन्तर्धत्ते” (सं. का. ६ प्र. ४ अ. ६) इति।
देववद्यज्ञमनुतिष्ठतामसुराणां व्यामोहार्थमुपांशुग्रहे यज्ञं समापनीयं मत्वा रहसि देवास्तं तथा चक्रुः। तं प्रकारमज्ञात्वा क्रुद्धानसुरानिन्द्रोऽन्तर्यामग्रहेणान्तर्हितानकरोत्। ततो भ्रातृव्यान्तर्धानायान्तर्यामो ग्रहीतव्यः।
मन्त्रभागे द्यावापृथिव्युक्तेः प्रयोजनमाह – “अन्तस्ते दधामि द्यावापृथिवी अन्तरुर्वन्तरिक्षमित्याहैभिरेव लोकैर्यजमानो भ्रातृव्यानन्तर्धत्ते” (सं. का. ६ प्र. ४ अ. ६) इति।
सजोषा इत्यादेः प्रयोजनमाह – “ते देवा अमन्यन्तेन्द्रो वा इदमभूद्यद्वयँ स्म इति तेऽब्रुवन्मघवन्ननु न आ भजेति सजोषा देवैरवरैः परैश्चेत्यब्रवीद्ये चैव देवाः परे ये चावरे तानुभयानन्वाभजत्सजोषा देवैरवरैः परैश्चेत्याह ये चैव देवाः परे ये चावरे तानुभयानन्वाभजति” (सं. का. ६ प्र. ४ अ. ६) इति।
यदैश्वर्यं प्राप्तुं वयमिच्छावन्तः स्म इदं सर्वमिन्द्र एवाभूत्प्राप्तवानिति मत्वा ते देवा अब्रुवन्। हे मघवंस्त्वामन्वस्मानपि भागिनः कुर्विति। तत इन्द्रः सजोषा इत्यादि वाक्येनानुजज्ञौ। तयाऽनुज्ञया ये चोत्कृष्टा देवा ये च निकृष्टास्तान्सर्वान्भागिनोऽकरोत्। अतोऽत्रापि सजोषा इत्याद्युक्त्या सर्वान्भागिनः करोति।
मादयस्वेत्यत्र यथा भागलाभेन देवानां हर्षस्तथा यज्ञविघ्नाभावेन यजमानस्यापि हर्षं द्योतयति – “अन्तर्यामे मघवन्मादयस्वेत्याह यज्ञादेव यजमानं नान्तरेति” (सं. का. ६ प्र. ४ अ. ६) इति।
मन्त्रोपक्रमगतस्य गृहीतशब्दस्य प्रयोजनमाह – “उपयामगृहीतोऽसीत्याहापानस्य धृत्यै” (सं. का. ६ प्र. ४ अ. ६) इति।
अपानदेवताया अन्तर्यामाभिमानितया तस्मिन्गृहीते प्राणिनामपानो धृतो भवति।
नात्रोपांशोरिवाञ्जलिना ग्रहणं किंतु दशापवित्रनाभिस्रुतया धारयेत्यभिप्रेत्याऽऽह –
“यदुभावपवित्रौ गृह्येयातां प्राणमपानोऽनु न्यृच्छेत्प्रमायुकः स्यात्पवित्रवानन्तर्यामो गृह्यते प्राणापानयोर्विधृत्यै” (सं. का. ६ प्र. ४ अ. ६) इति।
प्राणवृत्तिः स्वभावतो बहिर्गच्छत्यतः प्राणरूपस्योपांशोः पवित्रेण नियमनं नापेक्षितम्। यद्यन्तर्यामोऽपि तद्वदपवित्रः स्यात्तर्ह्यनियमितत्वात्तद्रूपोऽपानोऽपि निर्गच्छन्तं प्राणमनु निर्गच्छेत्। ततः प्राणापानयोरभावान्म्रियेत। पवित्रेण नियमिते त्वपानेऽग्रे तदविनाभूतः प्राणो निर्गच्छन्नपि नात्यन्तं देहं परित्यजेत्। तस्मादुभयोर्धारणाय दशापवित्रेणान्तर्यामं गृह्णीयात्। तत्प्रकारः सूत्रेऽभिहितः – “अदाभ्यांशुमु(भ्यो)पांशुपा(स)वनौ चापिसृज्य सर्वेऽध्वर्यवो दिग्भ्यो महाभिषवमभिषुण्वन्ति अभिषुतमध्वर्युरञ्जलिना संसिञ्चति तमुन्नेताऽन्तरेषेणो(चो)द्धृत्योत्तरत आधवनीयेऽवनयति उद्गातारो द्रोणकलशं प्रतिष्ठाप्य तस्मिन्नुदीचीनं दशापवित्रं वितन्वन्ति पवित्रस्य यजमानो नाभिं कृत्वा तस्मिन्होतृचमसेन धारां स्रावयत्युदञ्चनेनोन्नेताऽऽधवनीयाद्धोतृचमस आनयति संतता धारा स्रावयितव्या धाराया अन्तर्यामं गृह्णाति सर्वांश्चातो ग्रहानाध्रुवात्” इति। ग्रहणादूर्ध्वमन्तर्यामस्योपांशुवत्स्वांकृतादिमन्त्प्रयोगः कर्तव्यः।
स्वांकृत इति। एते मन्त्रा उपेक्षिताः।
उपांश्वन्तर्यामपात्रयोरासादने मध्यगतेनोपांशुसवनेन सह स्पर्शं विधत्ते – “प्राणापानौ वा एतौ यदुपाँश्वन्तर्यामौ व्यान उपाँशुसवनो यं कामयेत प्रमायुकः स्यादित्यासँस्पृष्टौ तस्य सादयेद्व्यानेनैवास्य प्राणापानौ वि च्छिनत्ति ताजक्प्र मीयते यं कामयेत सर्वमायुरियादिति सँस्पृष्टौ तस्य सादयेद्व्यानेनैवास्य प्राणापानौ सं तनोति सर्वमायुरेति” (सं. का. ६ प्र. ४ अ. ६) इति।
अत्र सूत्रम् – “सर्वमाग्रयणस्थाल्यां संपातमानीयैष ते योनिरपानाय त्वेति रिक्तं पात्रमायतने सादयति व्यानाय त्वेति ते अन्तरेण ग्रावाणमुपांशुसवनं दक्षिणामुखं संस्पृष्टं पात्राभ्याम्” इति।
अत्र विनियोगसंग्राहः –– “उपान्तर्यामकस्तत्र स्वांकृतादि तु पूर्ववत्” ॥१॥ इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै-त्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके तृतीयोऽनुवाकः ॥३॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके चतुर्थोऽनुवाकः)।
कल्पः – “एन्द्रवायवं गृह्णात्या वायो भूष शुचिपा इत्यानुद्रुत्योपयामगृहीतोऽसि वायवे त्वेति गृहीत्वोपयम्येन्द्रवायू इमे सुता इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्रवायुभ्यां त्वेति गृहीत्वा पवित्रदशाभिः परिमृज्यैष ते योनिः सजोषाभ्यां त्वेति सादयति” इति।
मन्त्रास्त्वेवं पठ्यन्ते – आ वायो इति। हे वायो त्वमागत्य ग्रहान्भूषालंकुरु। हे शुचिपाः शुद्धसोमपास्त्वं नोऽस्मानुपागच्छ। हे विश्ववार विश्वव्यपक ते सहस्रं नियुतः सन्ति। नियुच्छब्दे वायुवाहनभूता अश्वा उच्यन्ते। तवान्धः सोमरसरूपमन्नं मद्यं हर्षकरं तस्मादुपो समीपे त्वामयामि प्राप्नोमि। हे देव यस्य सोमस्य संबन्धि रसद्रव्यं पूर्वपेयं प्रथममेव पातव्यमिति मनो दधिषे धृतवानसि तादृशेन सोमेन त्वामुप(पा)यामीत्यन्वयः। हे सोमरस त्वमुपयामेन पृथिवीरूपदारुपात्रेण गृहीतोऽसि। त्वां वायवे गृह्णामि। हे इन्द्रवायू इमे सोमाः सुता अभिषुता अतो युवां प्रयोभिरेतैः सोमरसरूपैरन्नैर्निमित्तभूतैरुप समीप आगतमागच्छतम्। हि यस्मादिन्दवः सोमरसा वामुशन्ति युवां कामयन्ते। हे सोम दारुपात्रेण गृहीतोऽसि। इन्द्रवायुभ्यां त्वा गृह्णामि। हे पात्रैष खरस्यैकदेशस्ते योनिस्तव स्थानम्। अतोऽत्र सजोषाभ्यां समानप्रीतिभ्यामिन्द्रवायुभ्यामिन्द्रवाय्वर्थं त्वां सादयामि। एते मन्त्रा उपेक्षिताः।
द्विदेवत्यग्रहेष्वस्य प्राथम्यं विधत्ते – “वाग्वा एषा यदैन्द्रवायवो यदैन्द्रवायवाग्रा ग्रहा गृह्यन्ते वाचमेवानु प्रयन्ति” (सं. का. ६ प्र. ४ अ. ७) इति।
ऐन्द्रवायवमैत्रावरुणाश्विनग्रहाणामभिमानिदेवता वाक्चक्षुःश्रोत्राभिधाः। तस्मादैन्द्रवायवो वागित्युच्यते। तस्य प्राथम्ये सति वाचं पुरतः प्रयतीं चक्षुरादयोऽनुप्रयन्ति।
तत्प्राथम्यं प्रकारान्तरेण प्रशंसति– “वायुं देवा अब्रुवन्त्सोमँ राजानँ हनामेति सोऽब्रवीद्वरं वृणै मदग्रा एव वो ग्रहा गृह्यान्ता इति तस्मादैन्द्रवायवाग्रा ग्रहा गृह्यन्ते तमघ्नन्” (सं. का. ६ प्र. ४ अ. ७) इति।
अभिषवः सोमदेवताया हननम्।
तदेव प्राथम्यं द्रढयितुं पुनरपि वायुं प्रशंसति, अथवा वायुस्तुत्या वायवे गृह्णीयादिति विधिरुन्नेयः।
“सोऽपूयत्तं देवा नोपाधृष्णुवन्ते वायुमब्रुवन्निमं नः स्वदयेति सोऽब्रवीद्वरं वृणै मद्देवत्यान्येव वः पात्राण्युच्यान्ता इति तस्मान्नानादेवत्यानि सन्ति वायव्यान्युच्यन्ते तमेभ्यो वायुरेवास्वदयत्तस्माद्यत्पूयति तत्प्रवाते वि षजन्ति वायुर्हि तस्य पवयिता स्वदयिता” (सं. का. ६ प्र. ४ अ. ७) इति।
अयं सोमो हतः सन्नपूयद्दुर्गन्धोऽभवत्। नोपाधृष्णुवन्स्वादुं कर्तुं नाशक्नुवन् मैत्रावरुणाश्विनादीन्यपि ग्रहपात्राणि वायव्यानीत्युच्यन्ते। अथ एवाऽऽम्नातम् – ‘आग्राव्ण आवायव्यानि’ इति। लोके यद्वस्तु द्रवाधिक्यात्पूतिगन्धोपेतं भवति तच्छोषयितुं प्रकृष्टे वायौ विषजन्ति प्रसार्य स्थापयन्ति। अतस्तादृशस्य वस्तुनो वायुः शोधयिता स्वादुकर्ता च।
सर्वग्रहसाधारणमुपयामगृहीतोऽसीत्यमुं मन्त्रं व्याचष्टे – “तस्य विग्रहणं नाविन्दन्त्साऽदितिरब्रवीद्वरं वृणा अथ मया वि गृह्णीध्वं मद्देवत्या एव वः सोमाः सन्ना असन्नित्युपयामगृहीतोऽसीत्याहादितिदेवत्यास्तेन यानि हि दारुमयाणि पात्राण्यस्यैतानि योनेः संभूतानि यानि मृन्मयानि साक्षात्तान्यस्यै तस्मादेवमाह” (सं. का. ६ प्र. ४ अ. ७) इति।
विविधदेवतार्थत्वेन गृह्यते येन मन्त्रेण तादृशं मन्त्रं नालभन्त। अदितिः पृथिवी। मया भूमिप्रतिपादकमन्त्रेण। ये युष्माकं सोमास्ते सर्वेऽपि होमकाले युष्मद्देवत्यत्वेऽप्यासादनकाले मद्देवत्याः सन्त्विति भूमेर्वचः। उपयामगृहीतोऽसी–त्येतादृशं मन्त्रं भूमिराह। उपयामेन भूमिसंबन्धिपात्रेण गृहीत इति मन्त्रार्थः। तेनैतन्मन्त्रप्रयोगेण पूर्वोक्तवरेण च सोमा अदितिदेवत्याः द्विविधानि सोमपात्राणि दारुमयाणि ग्रहरूपाणि मृन्मयानि चाऽऽग्रयणस्थाल्यादीनि। तत्रास्या भूमेः संबन्धिनी या वृक्षरूपा योनिस्तस्याः संभूतानि ग्रहादीनि, स्थाल्यादीनि तु साक्षादेव भूमेः कार्याणि। तस्मादुपयामगृहीत इत्येवं मन्त्रो ब्रूते।
ऐ(इ)न्द्रवाय्वोरेकस्मिन्पात्रे सह ग्रहणं विधत्ते – “वाग्वै पराच्यव्याकृताऽवदत्ते देवा इन्द्रमब्रुवन्निमां नो वाचं व्याकुर्विति सोऽब्रवीद्वरं वृणै मह्यं चैवैष वायवे च सह गृह्याता इति तस्मादैन्द्रवायवः सह गृह्यते तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्तस्मादियं व्याकृता वागुद्यते” (सं. का. ६ प्र. ४ अ. ७) इति।
येयं वैदिकमन्त्ररूपा वाक्सा पूर्वं पराची समुद्रघोषवदैक्यरूपेण दण्डायमाना तस्यां वाच्येतावदेकं वाक्यं तस्मिन्वाक्येऽप्येतावदेकं पदं तस्मिन्पदेऽपीयं प्रकृतिरयं प्रत्यय इत्वेवं विभज्य सर्वतः करणं व्याकरणं तद्रहितत्वादव्याकृतैवावदत्प्रवृत्ता। तामिन्द्रो मध्यतोऽवक्रम्य वाक्यपदादिरूपेण तत्र तत्र विच्छिद्य विभिन्नां कृतवान्।
ऐन्द्रवायवग्रहणमुपसंहरति – “तस्मात्सकृदिन्द्राय मध्यतो गृह्यते द्विर्वायवे द्वौ हि स वराववृणीत” (सं. का. ६ प्र. ४ अ. ७) इति।
यस्मादिन्द्र एकमेव सहग्रहणरूपं वरमवृणोत्तस्मात्सकृदेवेन्द्रस्य सोमग्रहणम्। यस्माच्च वाचं मध्यतो विभक्तवांस्तस्मादुभयोर्वाय्वर्थग्रहणयोर्मध्य इन्द्रर्थं ग्रहणम्। आ वायो भूषेति केवलस्य वायोरादौ ग्रहणम्, इन्द्रवायू इमे सुता इत्यत्र वायुः पश्चात्पठ्यते। तस्मादिन्द्रस्य मध्ये स्थानम्। तस्माद्वायोर्ग्रहाग्रत्वमेको वरः। सर्वपात्राणां वायव्यत्वं द्वितीयो वरः। तस्मात्तस्य द्विः सोमग्रहणम्। इत आरभ्य विनियोगसंग्रहः षट्त्रिंशानुवाकस्यान्त उदाहरिष्यते।
अथ मीमांसा।
दशमाध्यायस्य पञ्चमपादे चिन्तितम् –
“पुरोपांशोरुत स्वस्य स्थाने स्यादैन्द्रवायवः।
आद्योऽग्रत्वविधेर्मैवं धारायुक्ताग्रतोक्तितः”।
ज्योतिष्टोमे श्रूयते–– “ऐन्द्रवायवाग्रा ग्रहा गृह्यन्ते” इति। मन्त्रकाण्डविधिकाण्डयोर्ग्रहाणामयं पाठक्रमः – उपांशुग्रहः प्रथमः। अन्तर्यामग्रहो द्वितीयः। ऐन्द्रवायवग्रहस्तृतीयः। मैत्रावरुणग्रहश्चतुर्थ इत्यादि। तत्रैन्द्रवायवस्याग्रत्वविधानादुपांशुग्रहात्पूर्वमेव ग्रहणमिति पूर्वःपक्षः। नैतद्युक्तम्। अग्रत्वस्य धाराग्रहापेक्षत्वात्। ऐन्द्रवायवादयो धाराग्रहाः, तद्वाक्ये धारया गृह्णातीति श्रुतत्वात्। एवं सति पाठक्रमो न बाध्यते। तस्मादैन्द्रवायवः स्वस्यैव स्थाने ग्रहीतव्यः।
तत्रैवान्यच्चिन्तितम् –
“सर्वादौ स्वस्य वा स्थाने काम्यः स्यादैन्द्रवायवः।
पुनर्विधेरादिमोऽन्त्यः कामायैतद्विधानतः” इति॥
ज्योतिष्टोम एव श्रूयते–– ‘ऐन्द्रवायवाग्रान्ग्रहान्गृह्णीयाद्यः कामयेत यथापूर्वं प्रजाः कल्पेरन्’ इति। सोऽयं काम्य ऐन्द्रवायवः सर्वेषामुपांशुप्रभृतीनां ग्रहाणामादौ स्यात्। कुतः। धाराग्रहादित्वस्य पूर्वमेव सिद्धौ सत्यां पुनरप्यग्रताविधानादिति प्राप्ते ब्रूमः – नात्र सर्वाग्रत्वं विधातुं शक्यम्। धाराग्रहाणां प्रकृतत्वात्। अतो यथाप्राप्ताग्रत्वोपेतानां धाराग्रहाणां कामसंयोगोऽत्र विधीयत इति स्वस्थान एवायमैन्द्रवायवग्रहः।
द्वितीयाध्यायस्य तृतीयपादे चिन्तितम् –
“रथंतरं साम सोमे भवेत्तद्वद्बृहज्जगत्।
ऐन्द्रवायवशुक्राग्रयणाग्राश्च ग्रहाः श्रुताः॥
रथंतरादिसंयुक्तमन्यत्कर्माथवा गुणः।
गायत्रादियुतात्पूर्वादन्यद्व्यावृत्तितो गुणौः॥
सोमशब्दप्रकरणे ज्योतिष्टोमसमर्पके।
ग्रहाग्रत्वं गुणस्तत्र व्यावृत्तिस्तु परस्परम्” इति॥
ज्योतिष्टोमप्रकरणे श्रूयते –– ‘यदि रथंतरसामा सोमः स्यादैन्द्रवायवाग्रान् (ग्रहान्) गृह्णीयाद्यदि बृहत्सामा शुक्राग्रान्यदि जगत्सामाऽऽग्रयणाग्रान्’ इति। तत्र सोमशब्देन सोमलतासाधनको यागोऽभिधीयते। तस्मिंश्च यागे माध्यंदिनसवने पृष्ठस्तोत्रे रथंतरबृहज्जगन्नामकानि सामानि विकल्पेन विहितानि। अभि त्वा शूरेत्यस्यां योनावुत्पन्नं रथंतरम्। त्वामिद्धि हवामह इत्यस्यामुपत्पन्नं बृहत्। जगतीछन्दस्कायामुत्पन्नं जगत्। ऐन्द्रवायवः, मैत्रावरुणः, आश्विनः, शुक्रः, मन्थी, आग्रयणः, उक्थ्यः, ध्रुव इत्यादयो ग्रहाः प्रातःसवने गृह्यन्ते। दारुपात्रेषु सोमरसस्य ग्रहणाद्ग्रहा भवन्ति। सोमयागस्य रथंतरसामोपेतत्वपक्षे तेषु ग्रहेष्वैन्द्रवायवः प्रथमं ग्रहीतव्यः। बृहत्सामोपेतत्वपक्षे शुक्रः प्रथमिकः। जगत्सामोपेतत्वपक्ष आग्रयणः प्राथमिक इति विषयवाक्यार्थः। तत्र प्रकृतो ज्योतिष्टोमो गायत्रादिसामोपेतः। तद्व्यावृत्त्यर्थमिह रथंतरादयो गुणाः कीर्त्यन्ते। तस्मादैन्द्रवायवाग्रत्वागुणोपेतानि कर्मान्तराणि विधीयन्त इति प्राप्ते ब्रूमः –– यदि रथंतरसामा सोमः स्यादित्युक्तौ य सोमशब्दस्तेन प्रकरणेन चात्र ज्योतिष्टोमः समर्प्यते। तस्मिन्समर्पिते ग्रहाग्रत्वं गुणो विधीयते। न च रथंतरादिगुणानुवादेन ज्योतिष्टोमस्य व्यावृत्तिः संभवति। तस्य प्रातःसवनादौ गायत्रादिसामोपेतत्वेऽपि पृष्ठस्तोत्रे रथंतरादियोगस्यापि संभवात्। किं तर्हि व्यावर्त्यत इति चेत् रथंतरबृहज्जगतां परमार्थतो व्यावृत्तिरिति वक्ष्यामः। रथंतरादयः पृष्ठस्तोत्रे विकल्पिताः। तत्र रथंतरानुवादेनेतरौ पक्षौ व्यावर्त्येते। एवमितरत्रपि। तस्मादयं गुणविधिः। ननु यः प्रकृतो ज्योतिष्टोमः सोऽन्येषां सोमयागानां प्रकृतिः। न हि प्रकृतौ जगत्यामुत्पन्नं साम विहितमस्ति। अत एव दशमाध्याये पञ्चमपादस्य पञ्चदशाधिकरणे प्रथमवर्णके ‘यदि जगत्सामा’ इति वाक्योक्तमाग्रयणाग्रत्वं विकृतौ विषुवनामके मुख्येऽहनि व्यवस्थापितम्। बाढं, तथाऽपि नात्र कश्चिद्विरोधः। आग्रयणाग्रत्ववाक्यं न कर्मान्तरविधायकं, किंत्वन्येन विहिते सोमयागे यत्र जगत्साम संभवति तत्र गुणविधायकमित्येतावत एवात्र प्रतिपाद्यत्वात्।
तृतीयाध्यायस्य पञ्चमपादे चिन्तितम्–
“ऐन्द्रवायवशेषस्य सकृद्भक्ष उतासकृत्।
पूर्वन्यायात्सकृद्भक्षो द्विर्भक्षो वचनाद्भवेत्” इति॥
ज्योतिष्टोमे योऽयमैन्द्रवायवग्रहस्तत्र संस्कार्यस्य सोमस्यैकत्वात्सकृदेव शेषकार्यमिति चेन्मैवम्। द्विरैन्द्रवायवस्य भक्षयति द्विर्ह्येतस्य वषट् करोतीति वचनाद्द्विर्भक्षणम्।
अथ च्छन्दः ––
आ वायो भूषेति त्रिष्टुप्। इन्द्रवायू इति गायत्री॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके चतुर्थोऽनुवाकः ॥४॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके पञ्चमोऽनुवाकः)।
कल्पः – “अयं वां मित्रावरुणेति मैत्रावरुणं गृहीत्वा शृतशीतेन पयसा श्रीत्वा, एष ये योनितायुभ्यां त्वेति सादयति” इति।
मन्त्रपाठस्तु – अयं वामिति। हे ऋतावृधा सत्यस्य वर्धकौ मित्रावरुणौ युवयोः सोमः सुतोऽभिषुतः। इदिति हेतौ। यस्मादभिषुतस्तस्मादिह कर्मणि मम हवं मदीयमाह्वानं श्रुतं युवां शृणुतम्। ऋतायुभ्यां सत्यमिच्छद्भ्यां मित्रावरुणाभ्याम्। स्पष्टमन्यत्।
मन्त्रानुपेक्ष्य गृहीतस्य सोमरसस्य क्षीरमेलनं विधित्सुः प्रस्तौति – ‘मित्रं देवा अब्रुवन्त्सोमँ राजानँ हनामेति सोऽब्रुवीन्नाहँ सर्वस्य वा अहं मित्रमस्मीति तमब्रुवन्हनामैवेति सोऽब्रवीद्वरं वृणै पयसैव मे सोमँ श्रीणन्निति तस्मान्मैत्रावरुणं पयसा श्रीणन्ति तस्मात्पशवोऽपाक्रामन्मित्रः सन्क्रूरमकरिति’ (सं. का. ६ प्र. ४ अ. ८) इति।
हनाम त्वया सहिता वयमित्यर्थः। नाहं सोमं हन्मीति शेषः। सर्वमित्रत्वमहनने हेतुः। अत एवास्माकमपि मित्रत्वाद्धनामैवास्मदीयं कार्यं हननरूपं त्वया सहैव कुर्मः। श्रीणन्मिश्रयेयुः। क्रूरं सोमवधं कृतवतस्तस्मान्मित्राद्भीता पशवोऽपक्रान्ताः।
विधत्ते – ‘क्रूरमिव खलु वा एष करोति यः सोमेन यजते तस्मात्पशवोऽप क्रामन्ति यन्मैत्रावरुणं पयसा श्रीणाति पशुभिरेव तन्मित्रँ समर्धयति पशुभिर्यजमानम्’ (सं. का. ६ प्र. ४ अ. ८) इति। तत्तेन श्रयणेन मित्रदेवयजमानयोः पशुसमृद्धिर्भवति।
अस्तु यजमानस्य पशुसमृद्धिर्मित्रस्य तु कुतस्त्येत्याशङ्क्य तदर्थमेव च तस्य वृतत्वादित्याह – ‘पुरा खलु वावैवं मित्रोऽवेदप मत्क्रूरं चक्रुषः पशवः क्रमिष्यन्तीति तस्मादेवमवृणीत’ (सं. का. ६ प्र. ४ अ. ८) इति।
क्रूरं सोमवधं कृतवतो मत्तोऽपक्रमिष्यन्तीत्यमुमर्थं मित्रः सोमवधात्पुरैव खल्ववेद्विदितवान्। तस्मादेव कारणात्पशुसमृद्धिहेतुं क्षीरमिश्रणमवृणीत।
अथ मित्रावरुणयोरेकेनैव पात्रेण ग्रहणं विधत्ते – ‘वरुणं देवा अब्रुवन्त्वयाऽँशभुवा सोमँ राजानँ हनामेति सोऽब्रवीद्वरं वृणै मह्यं चैवैष मित्राय च सह गृह्याता इति तस्मान्मैत्रावरुणः सह गृह्यते तस्माद्राज्ञा राजानमँशभुवा घ्नन्ति वैश्येन वैश्यँ शूद्रेण शूद्रम्’ (सं. का. ६ प्र. ४ अ. ८) इति।
अंशं द्रव्यभागं भवते प्राप्नोतीत्यंशभूर्दायादः। सोमो वरुणश्च परस्परं दा यादौ। इन्द्रो वरुणः सोमो रुद्र इत्यादिना बृहदारण्यके क्षत्त्रियत्वेनैककुलवर्तित्वस्य समाम्नातत्वात्। यस्मादंशभुवा वरुणेन सह सोमं हनामेति देवैरुक्तं तस्माल्लोकेऽपि तथा कुर्वन्ति। तद्यथा रामो विभीषणेनांशभुवा सहितो रावणं जघान। वैश्यशूद्रयोरप्युदाहार्यम्।
मैत्रावरुणस्यैन्द्रवायवानन्तर्यं विधत्ते – ‘न वा इदं दिवा न नक्तमासीदव्यावृत्तं ते देवा मित्रावरुणावब्रुवन्निदं नो वि वासयतमिति तावब्रूतां वरं वृणावहा एक एवाऽऽवत्पूर्वो ग्रहो गृह्याता इति तस्मादैन्द्रवायवः पूर्वो मैत्रावरुणाद्गृह्यते’ (सं. का. ६ प्र. ४ अ. ८) इति।
इदं कालस्वरूपमव्यावृत्तमविभक्तं पूर्वमासीत्। एतावदहरिति दिवा नाऽऽसीत्। एतावती रात्रिरिति नक्तं नाऽऽसीत्। इदमविभक्तं कालस्वरूपं नोऽस्मदर्थं विवासयतं विभज्य स्थापयतम्। आवदावाभ्यामस्मदीयग्रहादित्यर्थः।
ननूपांश्वन्तर्यामावपि मैत्रावरुणात्पूर्वमेव गृहीतावित्याशङ्क्याऽऽह – ‘प्राणापानौ ह्येतौ यदुपाँश्वन्तर्यामौ’ (सं. का. ६ प्र. ४ अ. ८) इति।
प्राणापानयोः सतोः पश्चादितरेन्द्रियस्थितिरिति तयोः पूर्वभावित्वमविवादम्। इतरेषु तु ग्रहेष्वैन्द्रवायव एक एव मैत्रावरुणात्पूर्वः। वरं लब्ध्वाऽहोरात्रयोर्विभागमजनतामित्याह – ‘मित्रोऽहरजनयद्वरुणो रात्रिं ततो वा इदं व्यौच्छद्यन्मैत्रावरुणो गृह्यते व्युष्ट्यै’ (सं. का. ६ प्र. ४ अ. ८) इति।
सूर्योदयमारभ्य तदस्तमयपर्यन्तं कालोऽहरित्येवं मित्रः कल्पयामास। तदूर्ध्वं पुनः सूर्योदयपर्यन्ता रात्रिरित्येतद्वरुणस्य कल्पनम्। तत आरभ्योभयकालस्वरूपं व्यौच्छद्विभक्तमासीत्। व्युष्ट्या अहोरात्रविभागाय।
अथ च्छन्दः – अयं वामित्येषा गायत्री॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके पञ्चमोऽनुवाकः ॥५॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके षष्टसप्तमानुवाकौ)।
कल्पः – ‘आश्विनं गृह्णाति या वां कशेति ग्रहणसादनौ द्रोणकलशादधाराग्रहाः परिप्लवया गृह्यन्ते वचनादन्यतः’ इति।
पाठस्तु – या वां कशेति। हेऽश्विनाऽश्विनौ देवौ वां युवयोर्या कशा या वाक्तया यज्ञं मिमिक्षतं सेक्तुमिच्छतं निष्पादयतमित्यर्थः। कशासमानया जिह्वयोत्पन्नत्वाद्वागेवात्र कशा। कीदृशी। मधुमती परुषशब्दरहिता। सूनृतावती प्रियवचनोपेता। मधुना पूर्णा(र्णो) दृतिर्माध्वी। तादृशीभ्यामश्विमूर्तिभ्यां त्वां सादयामि।
आश्विनग्रहायान्यो विकल्पितो मन्त्र एवमाम्नायते – प्रातर्युजाविति। हेऽश्विनौ युवां प्रातर्युजौ प्रातःकाल एवानेन यजमानेन युक्तौ सन्तावितरैर्यजमानैर्विमुच्येथाम्। इह कर्मण्यागच्छतम्। किमर्थम्। अस्य सोमस्य पीयते पानाय। स्पष्टमन्यत्।
एतान्मन्त्रानपेक्ष्याऽऽश्विनग्रहणं विधत्ते – ‘यज्ञस्य शिरोऽच्छिद्यत ते देवा अश्विनावब्रुवन्भिषजौ वै स्थ इदं यज्ञस्य शिरः प्रति धत्तमिति तावब्रूतां वरं वृणावहै ग्रह एव नावत्रापि गृह्यतामिति ताभ्यामेतमाश्विनमगृह्णन्ततो वै तौ यज्ञस्य शिरः प्रत्यधत्तां यदाश्विनो गृह्यते यज्ञस्य निष्कृत्यै’ (सं. का. ६ प्र. ४ अ. ९) इति।
यज्ञपुरुषः पुरा कदाचिद्देवानां वस्तु गृहीत्वा देवैः सह योद्धुं सज्यं धनुर्वाम– हस्ते धृत्वा धनुष एकां कोटिं भूमौ द्वितीयां कोटिं गले प्रतिष्कभ्यातिष्ठत्। तदानीमुपदीकानामभिर्जन्तुभिर्भूमिष्ठे ज्याभागे भक्षिते सति त्रुटितज्याकस्य धनुष ऊर्ध्वकोटिः स्वयमुद्गच्छन्ती यज्ञस्य शिरोऽपि च्छित्त्वा स्वात्मना सहोर्ध्वमुदगमयत्। सोऽयं वृत्तान्तः प्रवर्ग्यब्राह्मणे समाम्नातः – ‘तस्य धनुर्विप्रवमाणँ शिर उदवर्तयत्’ इति। तदिदमत्र संगृह्यते – यज्ञस्य शिरोऽच्छिद्यतेति। अत्राप्यग्निष्टोमेऽप्यावयोर्ग्रह एव ग्रहीतव्यः। यद्यप्याश्विनं द्विकपालमाश्विनं धूम्रललाममालभेतेतीष्टिपश्वोरस्त्यावयोर्हविस्तथाऽप्यग्निष्टोमे पूर्वं नास्ति। तत्रापि लेपमार्जनादिना नाऽऽवयोः परितोषः किंतु ग्रहेणैवेत्यभिप्रायः। तस्मादाश्विनग्रहणं यज्ञस्य निष्कृत्यै भवति।
आश्विनग्रहणस्य स्तोत्रादूर्ध्वकालं विधत्ते– ‘तौ देवा अब्रुवन्नपूतौ वा इमौ मनुष्यचरौ भिषजाविति तस्माद्ब्राह्मणेन भेषजं न कार्यमपूतो ह्येषोऽमेध्यो यो भिषक्तौ बहिष्पवमानेन पवयित्वा ताभ्यामेतमाश्विनमगृह्णन्तस्माद्बहिष्पवमाने स्तुत आश्विनो गृह्यते’ (सं. का. ६ प्र. ४ अ. ९) इति।
छन्दोगानामुत्तरग्रन्थोपक्रमे सूक्तत्रयमुपास्मै गायता नर इत्यादिकमाम्नातं तच्च गायत्रसाम्ना गातव्यम्। तदिदं बहिष्पवमानस्तोत्रम्। यावश्विनौ चिकित्सारूपेण मनुष्यचारित्वेन युक्तत्वादपूतौ तयोः स्तोत्रेण शुद्धत्वात्तत्स्तोत्रादूर्ध्वं तदीयग्रहस्य कालः।
विधत्ते– “तस्मादेवं विदुषा बहिष्पवमान उपसद्यः पवित्रं वै बहिष्पवमानं आत्मानमेव पवयते” (सं. का. ६ प्र. ४ अ. ९) इति।
एवं विदुषा स्तोत्रस्य शुद्धिहेतुत्वं जानतोपसद्योऽनुष्ठेयः।
तत्प्रकारः सूत्रे दर्शितः – “उदाञ्चः प्रह्वा बहिष्पवमानाय पञ्चर्त्विजः समन्वारब्धा सर्पन्त्यध्वर्युं प्रस्तोताऽन्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहर्तारमुद्गातोद्गातारं ब्रह्मा ब्रह्माणं यजमानः” इत्यादिः।
अत्र प्रसङ्गाल्लौकिकविकित्सायामदृष्टोपकारजनकं किंचिदङ्गं विधत्ते – ‘तयोस्त्रेधा भैषज्यं वि न्यदधुरग्नौ तृतीयमप्सु तृतीयं ब्राह्मणे तृतीयं तस्मादुदपात्रमुपनिधाय ब्राह्मणं दक्षिणतो निषाद्य भेषजं कुर्याद्यावदेव भेषजं तेन करोति समर्धुकमस्य कृतं भवति’ (सं. का. ६ प्र. ४ अ. ९) इति।
अग्न्युदकब्राह्मणेष्वदृष्टद्वारेणोपकारकं यद्भैषज्यं त्रेधा स्थितं तद्देवास्तयोरश्विनोः स्थापितवन्तः। तस्मादश्विनोरनुग्रहाय लौकिको भिषगुदकुम्भं समीपे निधाय ब्राह्यणमुपवेश्याग्निं चोपसमिध्य भैषज्यं कुर्यात्। तथा सति यावदङ्गजातमावश्यकं तेन सर्वेण सह कृतत्वात्समृद्धं भैषज्यं भवति।
अत्र द्विदेवत्यानामैन्द्रवायवमैत्रावरुणाश्विनग्रहाणां तत्तत्प्रतिनिग्राह्यपात्रैः सह होमविधिमर्थवादेनोन्नेतुकामः प्रश्नमुत्थापयति – ‘ब्रह्मवादिनो वदन्ति कस्मात्सत्यादेकपात्रा द्विदेवत्या गृह्यन्ते द्विपात्रा हूयन्त इति’ (सं. का. ६ प्र. ४ अ. ९) इति।
ग्रहणकाले सोमानामेकैकपात्रत्वमुक्तरीत्या द्रष्टव्यम्। होमकाले द्विपात्रत्वं सूत्रे दर्शितम् – ‘हविर्धानं गच्छन्संप्रेष्यति वायव इन्द्रवायुभ्यामनुब्रूहीति, उपयामगृहीतोऽसि वाक्षसदसीत्यादित्यपात्रेण प्रतिप्रस्थाता द्रोणकलशादैन्द्रवायवस्य प्रतिनिग्राह्यं गृहीत्वा सादयत्यैन्द्रवायवमादायाध्वर्युर्द्रोणकलशाच्च परिप्लवया राजानमुभौ निष्क्रम्य दक्षिणतोऽवस्थाय दक्षिणं परिधिसंधिमन्ववहृत्याध्वरो यज्ञोऽयमस्तु देवा इति परिप्लवयाऽऽघारमाघारयत्याश्राव्य प्रत्याश्राविते संप्रेष्यति वायव इन्द्रवायुभ्यां प्रेष्येति वषट्कृते जुहुत एवमुत्तराभ्यां ग्रहाभ्यां प्रचरतः’ इति।
प्रश्नस्योत्तरं दर्शयति– ‘यदेकपात्रा गृह्यन्ते तस्मादेकोऽन्तरतः प्राणो द्विपात्रा हूयन्ते तस्माद्द्वौद्वौ बहिष्ठात्प्राणाः’ (सं. का. ६ प्र. ४ अ. ९) इति।
चक्षुरादिप्राणानामन्तरेकात्मकत्वाद्बहिर्द्वारभेदेन द्वित्वात्तत्साम्यायैकपात्रत्वं द्विपात्रत्वं च कुर्यादित्यर्थः। अत्र सवनीयपुरोडाशानां स्विष्टकृति हुते सति द्विदेवत्यग्रहप्रचारो विहितः। पुरोडाशसंबन्धिन इडोपाह्वानस्यापि स्विष्टकृदनन्तरभावी चोदकप्राप्तः कालस्तं बाधित्वा द्विदेवत्यशेषभक्षणादूर्ध्वमुपाह्वानस्योत्कर्षं विधत्ते–
‘प्राणा वा एते यद्द्विदेवत्याः पशव इडा यदिडां पूर्वां द्विदेवत्येभ्य उपह्वयेत पशुभिः प्राणानन्तर्दधीत प्रमायुकः स्याद्द्विदेवत्यान्भक्षयित्वेडामुप ह्वयते प्राणानेवाऽऽत्मन्धित्वा पशूनुप ह्वयते’ (सं. का. ६ प्र. ४ अ. ९) इति।
द्विदेवत्यशेषभक्षणेभ्यः प्रागिडायाः पशुरूपाया उपाह्वाने प्राणानां व्यवहितत्वाद्यजमानो म्रियेत, पश्चादाह्वाने तु नायं दोषोऽस्ति।
भक्षणे विशेषं विधत्ते– ‘वाग्वा ऐन्द्रवायवश्चक्षुर्मैत्रवरुणः श्रोत्रमाश्विनः पुरस्तादैन्द्रवायवं भक्षयति तस्मात्पुरस्ताद्वाचा वदति पुरस्तान्मैत्रावरुणं तस्मात्पुरस्ताच्चक्षुषा पश्यति सर्वतः परिहारमाश्विनं तस्मात्सर्वतः श्रोत्रेण शृत्रेण शृणोति’ (सं. का. ६ प्र. ४ अ. ९) इति।
पुरस्तादग्रतो यथागृहीतमेवेत्यर्थः। सर्वतः परिहारं शिरः प्रदक्षिणीकृत्येत्यर्थः।
पात्राणां सादने पुरोडाशशकलादिसहितत्वं विधत्ते– ‘प्राणा वा एते यद्द्विदेवत्या अरिक्तानि पात्राणि सादयति तस्मादरिक्ता अन्तरतः प्राणा यतः खलु वै यज्ञस्य विततस्य न क्रियते तदनु यज्ञँ रक्षाँस्यव चरन्ति यदरिक्तानि पात्राणि सादयति क्रियमाणमेव तद्यज्ञस्य शये रक्षसामनन्वयचाराय’ (सं. का. ६ प्र. ४ अ. ९) इति।
शकलादियोगः सूत्रे दर्शितः – ‘पुरोडाशशकलमैन्द्रवायवस्य पात्रेऽवदधाति पयस्यां मैत्रावरुणस्य धाना आश्विनस्य’ इति। अन्तरतः प्राणानामरिक्तत्वं नामाऽऽर्द्रस्थानोपेतत्वम्। पात्राणामरिक्तत्वेन यज्ञे विस्मृतमप्यङ्गं क्रियमाणमेव संतिष्ठत इति रक्षसां संचारद्वारं नास्ति।
सादनस्थानं विधत्ते– ‘दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्याँ सादयति वाच्येव वाचं दधाति’ (सं. का. ६ प्र. ४ अ. ९) इति।
उत्तरस्य चक्रस्य मार्गे सादयेत्। वर्त्मरूपायां वाच्येव ग्रहरूपां वाचं स्थापयति।
सादितानां ग्रहाणामवस्थानावधिं विधत्ते– ‘आ तृतीयसवनात्परि शेरे यज्ञस्य संतत्यै’ (सं. का. ६ प्र. ४ अ. ९) इति। शेरे वसन्तीत्यर्थः।
अथ मीमांसा ।
पञ्चमाध्यायस्य चतुर्थपादे चिन्तितम् —
“आश्विनो दशमः पाको यवाग्वा ऐच्छिकः क्रमः।
नियतो वाऽग्रिमः पाठश्रुत्यर्थानां समत्वतः।
पाठात्क्रमः कल्पनीयः प्रत्यक्षस्तु श्रुतेः क्रमः।
कॢप्तिर्न शक्तिमुल्लङ्घ्य श्रुत्यर्थौ प्रबलौ ततः”
ज्योतिष्टोम ऐन्द्रवायवादिग्रहेष्वाश्विनग्रहस्तृतीयस्थाने पठितः। तस्य च दशमस्थानत्वं वाचकेनैव शब्देनाऽऽम्नायते — ‘आश्विनो दशमो गृह्यते’ इति।
तत्र क्रमबोधकौ श्रुतिपाठौ समबलौ। तथाऽग्निहोत्रहोमादूर्ध्वं यवागूपाकः पठितः। स चार्थवशात्पूर्वं प्राप्तः। तत्रार्थपाठौ समबलौ। तस्मादुभयत्रैच्छिकः क्रम इति प्राप्ते ब्रूमः – पाठो हि न क्रमस्याभिधायकः, किंत्वन्यथाऽनुपपत्त्या क्रमं कल्पयति। दशम इत्येषा श्रुतिस्तु साक्षादेव क्रममभिधत्ते। ततः माठादपि श्रुतिः प्रबला। अतः पाठः क्रमं कल्पयन्वस्तुसामर्थ्यमनुसृत्यैव कल्पयति। असामर्थ्यं च यवाग्वाः पूर्वमग्निहोत्रं निष्पत्तुं, द्रव्यमन्तरेण होमासंभवात्। तस्मात्पाठेन वस्तुसामर्थ्यलक्षणोऽर्थ उपजीव्य इत्यर्थस्य पाठात्प्रबल्यम्। श्रुत्यर्थौ पाठं बाधित्वा क्रमं नियच्छतः।
( अथ च्छन्दः–)
या वां कशा प्रातर्युजावित्येते गायत्र्यौ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु–र्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके षष्ठसप्तमानुवाकौ॥६॥७॥

(अथ प्रथमाष्टके चतुर्थप्रपाठकेऽष्टमनवमानुवाकौ)।
कल्पः – ‘अयं वेनश्चोदयति शुक्रं गृहीत्वा हिरण्येन श्रीत्वैष ते योनिर्वीरतां पाहीति सादयति’ इति।
पाठस्तु — अयं वेन इति। अयमितीन्द्रो निर्दिश्यते। वेनः कान्तोऽभीष्टः। विन कान्तावित्यस्माद्धातोरुत्पन्नत्वात्। पृश्निरादित्यस्तस्य गर्भभूता आपः। तथा चान्यत्र प्रश्नोत्तराभ्यामयमर्थः श्रूयते – ‘क्वेमा आपो निविशन्ते। यदितो यान्ति संप्रति’ इति प्रश्नः। ‘आपः सूर्ये समाहिताः। अभ्राण्यपः प्रपद्यन्ते। इत्युत्तरम्। अयं वेनः पृश्निगर्भाश्चोदयत्। अपो वर्षतीत्यर्थः। कीदृशोऽयम्’ ज्योतिर्जरायुः। विद्युल्लक्षणं तेजो जरायुवद्वेष्टनं यस्यासौ ज्योतिर्जरायुः। कुत्रायं वर्षति। रजसो विमाने। धूलेर्विशेषेण निर्माणं यस्मिञ्शुष्के भूप्रदेशे तत्र वर्षति। अपां सूर्यगर्भीभावः कथं संपन्न इति चेत्। अत्रोच्यते–विप्रा ऋत्विजः सूर्यस्यापां च संगमे निमित्तभूते सतीममिन्द्रं शिशुं स्तनंधयं शिशुमिव लालयन्ते(न्तो) मतिभिर्मन्त्रसहिताभिराहुतिभी रिहन्ति यजन्तीत्यर्थः। आहुतिदेवताभिरिमा आपो नीयन्ते। एतदेवाभिप्रेत्य श्रूयतेः – ‘भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः’ इति। हे शुक्रग्रह दारुपात्रेण गृहीतोऽसि। शुक्रपुत्राय शण्डाय त्वां गृह्णामि। एष खरैकदेशस्ते योनिः स्थानम्। तादृशस्त्वं यजमानस्य वीरतां कर्मशूरत्वं पालय।
कल्पः – ‘तं प्रत्नथेति मन्थिनं गृहीत्वा सक्तुभिः श्रीणाति एष ते योनिः प्रजाः पाहीति सादयति’ इति।
पाठस्तु — तं प्रत्नथेति। इनद्रयाजुहवुरिति ब्राह्मणादयं मन्त्र ऐन्द्रः। तमिन्द्रं स्तुम इति शेषः। प्रत्नथेत्यादौ थाप्रत्यय उपमार्थः। प्रत्नाः पुरातना भृग्वादयो यथा त्वामस्तुवंस्तथा वयमपि त्वां स्तुमः। पूर्वथा पित्रादय इव। विश्वथाऽतीताः सर्वे यजमाना इव। इमथा वतर्माना इमे यजमाना इव कीदृशमिन्द्रम्। ज्येष्ठतातिम्। स्वार्थे तातिप्रत्ययः। बर्हिषदं यागे संनिहित्वेन तिष्ठन्तम्। सुवर्विदं यजमानाय दातव्यत्वेन स्वर्गं वेत्तीति सुवर्वित्तम्। हे इन्द्र यस्त्वं प्रतीचीनं प्रतिगमनमस्मत्प्रतिकूलं वृजनं वर्जनीयमालस्याश्रद्धादि दोहसे रिक्ती करोषि विनाशयति तादृशं त्वां स्तुमः। क्व पुनः स्तुमः। यासु क्रियासु त्वमाशुं क्षिप्रकारिणं जयन्तं सम्यगनुष्ठानेन यजमानान्तरादतिशयेनोपेतं यजमानमनु सोमपानेन स्तुत्या च वर्धसे तासु क्रियासु तमिन्द्रं स्तुमः। हे मन्थिग्रह त्वमुपयामगृहीतोऽसि शुक्रपुत्राय मर्कनामकाय त्वां गृह्णामि। एष खरप्रदेशस्तव स्थानम्। त्वं यजमानस्य प्रजाः पालय।
मन्त्रानुपेक्ष्य ग्रहौ विधत्ते – ‘बृहस्पतिर्देवानां पुरोहित आसीच्छण्डामर्कावसुराणां ब्रह्मण्वन्तो देवा आसन्ब्रह्मण्वन्तोऽसुरास्तेऽन्योन्यं नाशक्नुवन्नभिभवितुं ते देवाः शण्डामर्कावुपामन्त्रयन्त तावब्रूतां वरं वृणावहै ग्रहावेव नावत्रपि गृह्येतामिति ताभ्यमेतौ शुक्रामन्थिनावगृह्णन्तो देवा अभवन्पराऽसुरा यस्यैवं विदुषः शुक्रामन्थिनौ गृह्येते भवत्यात्मना पराऽस्य भ्रातृव्यो भवति’ (सं. का. ६ प्र. ४ अ. १०) इति। ब्रह्मण्वन्तः पुरोहितानुष्ठितमन्त्रसामर्थ्योपेताः। उपामन्त्रयन्त रहस्युपच्छन्दितवन्तः। यद्यप्यन्यत्र शण्डामर्कयोरवयोर्यज्ञभागो नास्ति तथाऽप्यत्राप्यग्निष्टोमे सोऽस्तु। तत्रापि ग्रहावेव व तु लेपादिः अत्र गृह्येतामित्येतावदेव शण्डामर्काभ्यां वृतं न तु हूयेतामिति। ततो देवा ग्रहणमात्रेण स्वकार्यं साधितवन्तः।
यथार्थवादेन ग्रहयोरधस्ताल्लग्नानां पांसूनामपध्वंसनं विधातुं
विधिमुन्नयति — ‘तौ देवा अपनुद्याऽऽत्मान इन्द्रायाजुहवुरपनुत्तौ शण्डामर्कौ सहामुनेति ब्रूयाद्यं द्विष्याद्यमेव द्वेष्टि तेनैनौ सहाप नुदते’ (सं. का. ६ प्र. ४ अ. १०) इति।
देवा: स्वकार्यसिद्धेरूर्ध्वं तौ शण्डामर्कावपसार्य स्वकीयायेन्द्राय तौ शुक्रामन्थिग्रहावजुहवुः। तस्मद्ग्रहयोरधोलग्नां धूलिमपध्वंसयन्नन्यत्र समाम्नातमपनुत्ताविति मन्त्रं ब्रूयात्। अमुनेत्यत्र द्वेष्यस्य द्वेष्टुश्च नाम ध्यायेत्। अत्र सूत्रम् — ‘तौ प्रोक्षिताभ्यां शकलाभ्यामपिधायाप्रोक्षिताभ्यामधस्तात्पांसूनपध्वंसयतोऽऽपनुत्तौ शण्डामर्कौ सहामुनेत्यपनुत्तः शण्ड इति वाऽध्वर्युर्द्वेष्यं मनसा ध्यायन्नपनुत्तो मर्क इति तं प्रतिप्रस्थाता’ इति।
अन्यत्राऽऽम्नातेन मन्त्रेण ग्रहहोमस्य विधिमर्थवादेनोन्नयति — ‘स प्रथमः संकृतिर्विश्वकर्मेत्येवैनावात्मन इन्द्रायाजुहवुरिन्द्रो ह्येतानि रूपाणि करिक्रदचरत्’ (सं. का. ६ प्र. ४ अ. १०) इति।
मन्त्रपाठस्तुः – ‘स प्रथमः संकृतिर्विश्वकर्मा। स प्रथमो मित्रो वरुणो अग्निः। स प्रथमो बृहस्पतिश्चिकित्वान्। तस्मा इन्द्राय सुतमा जुहोमि’ इति।
स इन्द्र प्रथमो देवानां मुख्यः सर्वाधिपतित्वात्। समीचीना कृतिर्निर्माणं यस्यासौ संकृतिः। तादृशो विश्वकर्मनामको देवोऽपि स इन्द्र एव। मित्रो वरुणोऽग्निः स एव। चिकित्वानभिज्ञो बृहस्पतिरपि स एव। तादृशायेन्द्रायाभिषुतं सोमं सर्वतो जुहोमि। यस्मादिन्द्र एतानि विश्वकर्मत्वादीनि रूपाणि करिक्रदत्यर्थं कुर्वञ्जगदचरत्तस्मात्तत्प्रतिपादकेनानेनैव मन्त्रेण होमो युज्यते।
होमात्पुरा ग्रहावादायाऽऽच्छाद्याध्वर्युप्रतिप्रस्थातारौ प्राङ्मुखौ निर्गच्छेतामिति विधत्ते — ‘असौ वा आदित्यः शुक्रश्चन्द्रमा मन्थ्यपिगृह्य प्राञ्चौ निष्क्रामतस्तस्मात्प्राञ्चौ यन्तौ न पश्यन्ति’ (सं. का. ६ प्र. ४ अ. १०) इति।
पश्चिमदिश्यस्तं गत्वा पुनरुदयाय प्रङ्मुखतया गच्छन्तौ सूर्याचन्द्रमसौ द्रष्टुं केऽपि न शक्नुवन्ति। तस्माद्ग्रहयोराच्छादनं युक्तम्।
होमाय प्रत्यङ्मुखत्वं विधत्ते– ‘प्रत्यञ्चावावृत्य जुहुतस्तस्मात्प्रत्यञ्चौ यन्तौ पश्यन्ति’ (सं. का. ६ प्र. ४ अ. १०) इति।
उदयादूर्ध्वं प्रत्यङ्मुखतया गच्छन्तौ सूर्याचन्द्रमसौ सर्वे पश्यन्ति। अतो ग्रह-योराच्छादनमपनीय प्रत्यङ्मुखत्वेनाऽऽवृत्तिर्होमार्था युक्ता।
उत्तरवेदेरभितः परिक्रमणं विधत्ते — ‘चक्षुषी वा एते यज्ञस्य यच्छुक्रामन्थिनौ नासिकोत्तरवेदिरभितः परिक्रम्य जुहुतस्तस्मादभितो नासिकां चक्षुषी तस्मान्नासिकया चक्षुषी विधृते सर्वतः परि क्रामतो रक्षसामपहत्यै’ (सं. का. ६ प्र. ४ अ. १०) इति।
अत्र सूत्रम् – ‘उत्तरवेदिं परिक्रामतः सुवीराः प्रजाः प्रजनयन्परीहि। शुक्रः शुक्रशोचिषेति दक्षिणेनाध्वर्युः प्रतिपद्यते सुप्रजाः प्रजाः प्रजनयन्परीहि। मन्थी मन्थिशोचिषेत्युत्तरेण प्रतिप्रस्थाता’ इति। तदेतत्सर्वतः परिक्रमणं रक्षोवधाय संपद्यते।
अत्र चसहोमे प्राङ्मुखत्वं ग्रहहोमे प्रत्यङमुखत्वं च विधत्ते — ‘देवा वै याः प्राचीराहुतीरजुहवुर्ये पुरस्तादसुरा आसन्तँस्ताभिः प्राणुदन्त याः प्रतीचीर्ये पश्चादसुरा आसन्ताँस्ताभिरपानुदन्त प्राचीरन्या आहुतयो हूयन्ते प्रत्यञ्चौ शुक्रामन्थिनौ पश्चाच्चैव पुरस्ताच्च यजमानो भ्रतृव्यान्प्र णुदते तस्मात्पराचीः प्रजाः प्र वीयन्ते प्रतीचीर्जायन्ते’ (सं. का. ६ प्र. ४ अ. १०) इति।
अत्र सूत्रम् — ‘पुरस्तात्प्रत्यञ्चावध्वर्यू जुहुतः पश्चात्प्राञ्चश्चमसैश्चसमसाध्वर्यवो जुह्वति’ इति वाक्यं तु धिष्ण्यप्रस्तावेऽपि गतम्।
सूत्रकारेणोदाहृतौ परिक्रमणमन्त्रौ प्रदेशान्तर आम्नाताविह व्याचष्टे — ‘शुक्रामन्थिनौ वा अनु प्रजाः प्र जायन्तेऽत्रीश्चाऽऽद्याश्च सुवीराः प्रजाः प्रजनयन्परीहि शुक्रः शुक्रशोचिषा सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्थिशौचिषेत्याहैता वै सुवीरा या अत्रीरेताः सुप्रजा या आद्याः’ (सं. का. ६ प्र. ४ अ. १०) इति।
अत्रीर्भोक्त्र्य उत्तमजातयो ब्राह्मणादय आद्या भोग्या नीचजातयो भृत्यकर्मकरादयः। मन्त्रार्थस्तु — शोभना वीरा उत्तमा यासां ताः सुवीराः। शोभनाः सेवाकुशलाः प्रजाः पुत्रादयो यासां ताः सुप्रजाः। हे शुक्रग्रह त्वं यजमानस्य शोभनभोक्तृयुक्ताः प्रजा उत्पादयन्नुत्तरवेदेर्दक्षिणतः परीहि। शुक्रग्रहस्त्वं शुक्रदेवतासंबन्धिना तेजसा रक्षसामपघातं कुर्विति शेषः। हे मन्थिग्रह त्वं यजमानस्य शोभनसेवकरूपाः प्रजा उत्पादयन्नुत्तरवेदेरुत्तरतः परीहि। मन्थिग्रहस्त्वं मन्थिदेवतासंबन्धिना तेजसा रक्षांस्यपजहि। एता वै सुवीरा इत्यादिकं मन्त्रव्याख्यानम्।
वेदनं प्रशंसति — “य एवं वेदात्र्यस्य प्रजा जायते नाऽऽद्या” (सं. का. ६ प्र. ४ अ. १०) इति।
मन्थिपात्रस्य विकङ्कतवृक्षत्वं सक्तुमेलनं च विधत्ते — “प्रजापतेरक्ष्यश्वयत्तत्पराऽपतत्तद्विकङ्कतं प्राविशत्तद्विङ्कते नारमत तद्यवं प्राविशत्तद्यवेऽरमत तद्यवस्य यवत्वं यद्वैकङ्कतं मन्थिपात्रं भवति सक्तुभिः श्रीणाति प्रजापतेरेव तच्चक्षुः सं भरति” (सं. का. ६ प्र. ४ अ. १०) इति। सक्तवो यवपिष्टानि।
आहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्तीति वचनादितरपात्रवन्मन्थिपात्रस्यापि सदःप्रवेशः प्राप्नोति तन्निषेधं प्रश्नोत्तराभ्यामुन्नयति — “ब्रह्मवादिनो वदन्ति कस्मात्सत्यान्मन्थिपात्रँ सदो नाश्नुत इत्यार्तपात्रँ हीति ब्रूयाद्यदश्नुवीतान्धोऽध्वर्युः स्यादार्तिमार्च्छेत्तस्मान्नश्नुते” (सं. का. ६ प्र. ४ अ. १०) इति। आर्तपात्रं रोगयुक्तचक्षुःस्वरूपमिदं पात्रम्।
अथ मीमांसा।
दशमाध्यायस्य पञ्चमे पादे चिन्तितम् —
“स्वस्थाने प्रतिकर्षो वा शुक्रादेः पूर्ववद्भवेत्।
स्थाने मैवं तदग्रत्वाप्राप्तेः स प्रतिकृष्यताम्” इति।
ज्यौतिष्टमे श्रुयते – “शुक्राग्रान्गृह्णीयादभिचरतो मन्थ्यग्रान्गृह्णीयादभिचर्यमाणस्य” इत्यादि। ऐन्द्रवायवन्यायेन शुक्रादीनां स्वस्थाने ग्रहणमिति प्राप्ते ब्रूमः – ऐन्द्रवायवस्य धाराग्रहाग्रत्वं स्वस्थाने पाठादेव प्राप्तम्। शुक्रादीनां तु नेति वैषम्यम्। तथा सति विधीयमानमग्रत्वं पाठक्रमबाधमन्तरेणानुपपन्नत्वात्प्रतिकृष्यते।
तत्रैवान्यच्चिन्तितम् —
“स सर्वादावैन्द्रवायवादौ वाऽत्राविशेषतः।
सर्वादावाश्रयादैन्द्रवायवादौ धृतेरपि” इति।
स पूर्वोक्तः प्रतिकर्षः सर्वेषामुपांश्वादीनां ग्रहाणामादौ युक्तः। कुतः। विशेषाश्रवणात्। सामान्यतः श्रुतमग्रत्वमनपेक्षितत्वात्सर्वादौ मुख्यम्। नैतदेवम्। प्राकृतानधाराग्रहानाश्रित्य फलाय शुक्राग्रत्वविधानात्। किंच “धारयेयुस्तं यं कामाय गृह्णीयुरैन्द्रवायवं गृहीत्वा सादयेत्” इति श्रूयते। तत्र काम्यस्य शुक्रादेर्धारणाद्वाऽनन्तरमैन्द्रवायवग्रहणं विवक्षितार्थे लिङ्गम्। तस्मान्दैन्द्रवायवादौ प्रतिकर्षः।
तत्रैवान्यच्चिन्तितम् — “नापकर्षोऽपकर्षो वा सादनस्याश्रुतत्वतः।
न मैवं ग्रहशेषत्वात्तच्चाशक्तेर्ग्रहान्तरे” इति।
सर्वत्र ग्रहो गृहीत्वा साद्यते। तथा सति यत्र कामस्य ग्रहस्यापकर्षस्तत्र सादनस्यापकर्षो न शङ्कनीयः। अश्रुतत्वात्। शुक्रग्रानित्वत्र (ग्र) शब्देन यथा ग्रहस्यापकर्षः श्रूयते न तथा सादनापकर्षप्रतिपादकः कश्चिच्छब्दोऽस्ति। तस्मान्नापकर्षः। नैतद्युक्तम्। सादनस्य ग्रहशेषत्वात्। तच्च शेषत्वमशक्तेरवगम्यते। न हि पूर्वं ग्रहमसादयित्वा ग्रहान्तरं ग्रहीतुं शक्यम्। अतोऽत्र ग्रहाणामपकर्षे तच्छेषभूतं सादनमप्यपकृष्यते।
अथ च्छन्दः –
अयं वेन इति त्रिष्टुप्। तं प्रत्नथेति जगती॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठकेऽष्टमनवमानुवाकौ॥८॥९॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके दशमैकादशानुवाकौ)।
कल्पः – “ये देवा दिवीत्युपरिष्टादुपयामया पुरस्तादुपयामेन वा यजुषा द्वाभ्यां धाराभ्यां स्थाल्यामाग्रयणं गृह्णाति एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयित्वा” इति।
पाठस्तु — ये देवा इति। अप्सुषदोऽबुपलक्षितेऽन्तरिक्षे सीदन्तीत्यप्सुषदः। महिना स्वमहिम्ना तत्र सीदन्ति। हे देवा ये यूयं त्रिषु लोकेषु प्रत्येकमेकादशावस्थितास्ते सर्वे यज्ञमिमं सेवध्वम्। हे सोम त्वामुपयामेन स्थालीरूपेण पार्थिवपात्रेण गृहीतोऽसि। आग्रयणनामाऽसि। सुष्ठु अग्रं श्रैष्ठ्यं तस्य प्रापकः स्वाग्रयणः। तादृशस्त्वं यज्ञं प्रीणय यजमानं च प्रीणय। सवनान्याभिमुख्येन पालय। विष्णुना रक्षितस्त्वं यजमानस्य प्रजामिन्द्रियेण सामर्थ्यप्रदानेन पालय। एष खरस्ते तव स्थानं, विश्वेभ्यो देवेभ्यस्त्वां सादयामि। ये देवा आग्रयणोऽसीत्येतौ मन्त्रावापस्तम्बमते विकल्पितौ। बौधायनमते ये देवा इति ग्रहणम्। आग्रयणोऽसीत्यधिवदेत्।
ये देवा इत्येतस्य स्थाने भ्रातृव्यवतो मन्त्रान्तरमाम्नायते —
त्रिँशत्यश्चेति। एकादशात्मकास्त्रयो गणा एषां सन्तीति गणिनः। ते च त्रयस्त्रिंशत्संख्याका रुजन्तः शत्रून्विनाशयन्तो रुद्राः शत्रुनारीणां रोदयितारः। तन्मध्ये केचन दिवं सचन्ते सेवन्ते। केचन पृथिवीं सेवन्ते अवशिष्टास्त्वेकादशसंख्याका अबुपलक्षितेऽन्तेरिक्षे सीदन्ति। ते विश्वे सर्वे सुतमभिषुतमिमं सोमं सवनाय तृतीयसवने सेवन्ताम्।
मन्त्रान्व्याचिख्यासुराग्रयणस्य ग्रहणं विधत्ते — “देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा आग्रयणाग्रान्ग्रहानपश्यन्तानगृह्णत ततो वै तेऽग्रं पर्यायन्यस्यैवं विदुष आग्रयणाग्रा ग्रहा गृह्यन्तेऽग्रमेव समानानां पर्येति” (सं. का. ६ प्र. ४ अ. ११) इति।
आग्रयणमग्रं (णोऽग्रः) प्रथमं (मो) येषां त आग्रयणाग्राः। अत्र सूत्रम् —
“यदि रथंतरसामा सोमः स्यादैन्द्रवायवाग्रान्गृह्णीयाद्यदि बृहत्सामा शुक्राग्रान्यदि जगत्सामाऽऽग्रयणाग्रान्यद्युभयसामा याथाकामी” इति। माध्यंदिने सवने पृष्ठस्तोत्राणामाद्ये स्तोत्रे रथंतराख्यं साम यस्मिन्सोमयागे स यागो रथंतरसामा। एवमन्यत्रापि योज्यम्। एकस्मिन्भागे रथंतरं भागान्तरे बृहदित्येवमुभयसामत्वम्। अग्रं पर्यायन्, श्रैष्ठ्यं पर्याप्ताः।
त्रिंशत्त्रयश्चेति मन्त्रस्य विषयं दर्शयति — “रुग्णावत्यर्चा भ्रातृव्यवतो गृह्णीयाद्भ्रातृव्यस्यैव रुक्त्वाऽग्रँ समानानां पर्येति” (सं. का. ६ प्र. ४ अ. ११) इति।
रुग्णे रुजिधातुः, सोऽस्यामस्तीति रुग्णवती। गणिनो रुजन्त इति रुजिधातुर्मन्त्रे दृश्यते। रुक्त्वा रोगमुत्पाद्य।
तयोर्मन्त्रयोर्देवसंख्योक्तिस्तान्सर्वानुद्दिश्य ग्रहीतुमित्याह — “ये देवा दिव्येकादश स्थेत्याहैतावतीर्वै देवतास्ताभ्य एवैनँ सर्वाभ्यो गृह्णाति” (सं. का. ६ प्र. ४ अ. ११) इति।
सादनमन्त्रे विश्वेभ्य इत्यभिधानं युक्तमित्याह — “एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्याह वैश्वदेवो ह्येष देवतया” (सं. का. ६ प्र. ४ अ. ११) इति।
वाग्विसर्गं विधत्ते — “वाग्वै देवेभ्योऽपाक्रामद्यज्ञायातिष्ठमाना ते देवा वाच्यपक्रान्तायां तूष्णीं ग्रहानगृह्णत साऽमन्यत वागन्तर्यन्ति वै मेति साऽऽग्रयणं प्रत्याऽगच्छत्तदाग्रय णस्याऽऽग्रयणत्वम्। तस्मादाग्रयणे वाग्विसृज्यते यतूष्णीं पूर्वे ग्रहा गृह्यन्ते” (सं. का. ६ प्र. ४ अ. ११) इति।
केनापि निमित्तेन वाग्देवता यज्ञार्थं स्वकीयं रूपमप्रकाशयमाना देवेभ्योऽ-पक्रम्य देवैर्विगृहीतैस्तूष्णीमेव गृहीतेषु सा वागित्थममन्यत — एते देवा वरदानादिना मां न समादधते किंतु मयि निरपेक्षा एव स्वकार्यं कुर्वन्तो मामन्तर्यन्ति परित्यजन्त्येवेति। ततो देवैरनाहूता सा वागाग्रयणं प्रति स्वयमागच्छत्। तस्मादग्रमभिमुखमेति गच्छति वागित्यग्रायणं (ग्यस्य सोऽग्रायणः)। तत्र दीर्घव्यत्ययादाग्रयणं (ण) नाम संपन्नम्। यद्यस्मात्पूर्वे तूष्णीं गृहीता वाक्चेदानीमागता तस्माद्वाचोऽस्मिन्काले समागमादाग्रयणे गृहीते वाचं विसृजेन्न तु पूर्वग्रहवदुत्तरग्रहांस्तूष्णीं गृह्णीयात्। ननु पूर्वग्रहेष्वपि प्रतिग्रहं मन्त्राणामाम्नातत्वात्कथं तूष्णीं ग्रहणम्। एवं तर्हि तूष्णींशब्दवाग्विसर्गशब्दाभ्यमुपांशूच्चौ ध्वनी विवक्ष्येयाताम्। अत एवोपानुवाक्यकाण्डे समाम्नायते — “यान्प्राचीनमाग्रयणाद्ग्रहान्गृह्णीयात्तानुपाँशु गृह्णीयाद्यानूर्ध्वाँस्तानुपब्दिमतः” इति।
ध्वनिद्वयं लौकिकदृष्टान्तेन विशदयति — “यथा त्सारीयति म आख इयति नाम रात्स्यामीत्युपावसृजत्येवमेव तदध्वर्युराग्रयणं गृहीत्वा यज्ञमारभ्य वाचं वि सृजते” (सं. का. ६ प्र. ४ अ. ११) इति।
त्सारी छद्मगतिर्व्याधः।त्सर च्छद्मगताविति धातुः। स व्याधो मनस्यादौ विचार्य पश्चाद्बाणानुपावसृजति नुञ्चति। वराहान्गजान्पातयितुं मार्गे यो गर्त आयामेन खन्यते स आखः। ममैतावति दूरमाखस्तिष्ठति अहं त्वीषत्पुरोगत इयति दूरे स्थितो नापरात्स्यामि। वराहादिभिः स्वस्य मारणमेकोऽपराधः। स्वात्मानं दृष्ट्वा वराहादेः पलायनमन्योऽपराधः। स्वेन मुक्तस्य बाणस्य स्खलनमपराधान्तरम्। एतत्सर्वमियति दूरे मम न भबिष्यतीति निश्चित्याऽऽगतिस्तत्र स्थित्वा पश्चादवसरे सति पश्चादुद्भूतो यथा बाणान्मुञ्चति तथैव तत्राध्वर्युर्गूढध्वनिः कांश्चिद्ग्रहान्गृहीत्वा यज्ञं दृढमवष्टभ्य पश्चाद्ध्वनिं प्रकटी करोतीत्येतदुपपद्यते।
विधत्ते — “त्रिर्हि करोत्युद्गातॄनेव तद्वृणीते” (सं. का. ६ प्र. ४ अ. ११) इति।
हिंकारस्य सामसु प्रसिद्धत्वात्सामगानां तेन वरणं युक्तम्।
हिंकारस्य कालं विधत्ते — “प्रजापतिर्वा एष यदाग्रयणो यदाग्रयणं गृहीत्वा हिं करोति प्रजापतिरेव तत्प्रजा अभि जिघ्रति तस्माद्वत्सं जातं गौरभि जिघ्रति” (सं. का. ६ प्र. ४ अ. ११) इति।
आग्रयणहिंकारयोः पौर्वापर्यं यदस्ति तत्तेन प्रजापतिरेव यजमानस्य प्रजानां मूर्धन्याघ्राणं करोति। अत एव पशुष्वप्येतद्वीक्ष्यते।
सवनत्रयेऽप्याग्रयणं विधत्ते — “आत्मा वा एष यज्ञस्य यदाग्रयणः सवनेसवनेऽभि गृह्णात्यात्मन्नेव यज्ञँ सं तनोति” (सं. का. ६ प्र. ४ अ. ११) इति।
दशापवित्रस्योपरि सोमरसस्याव (स्याऽऽ) नयनं विधत्ते — “उपरिष्टादानयति रेत एव तद्दधाति” (सं. का. ६ प्र. ४ अ. ११) इति।
दशपवित्रस्याधस्तात्स्रवन्त्या धारया (यो) [प] ग्रहणं विधत्ते — “अधस्तादुप गृह्णाति प्र जनयत्येव तत्” (सं. का. ६ प्र. ४ अ. ११) इति।
सवनत्रयगमाग्रयणं प्रशंसति — “ब्रह्मवादिनो वदन्ति कस्मात्सत्याद्गायत्री कनिष्ठा छन्दसाँ सती सर्वाणि सवनानि बृहतीत्येष वै गायत्रियै वत्सो यदाग्रयणस्तमेव तदभिनिवर्तँ सर्वाणि सवनानि वहति तस्माद्वत्समपाकृतं गौरभि नि वर्तते” (सं. का. ६ प्र. ४ अ. ११) इति।
अल्पाक्षरत्वात्कनिष्ठा। प्रातःसवने बहिष्पवमानसूक्तानामुपास्मै गायतेत्यादीनां छन्दो गायत्री। माध्यंदिनसवने माध्यंदिनपवमानसूक्तस्योच्चा ते जातमन्धस इत्यस्य गायत्री। तृतीयसवनस्याऽऽर्भवपवमानसूक्तस्य स्वादिष्ठयेत्यस्य गायत्री। एवमुदाहर्तव्यम्। यथा गौरपाकृतं स्वीयं वत्समभिलक्ष्य तृणादिकमपि परित्यज्य निवर्तते तथा गायत्री स्ववत्समाग्रयणमभिलक्ष्य पुनः पुनर्निवर्त्य (वृत्य) सवनानि निर्वहति। ये देवास्रिँशच्चेत्येते त्रिष्टुभौ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके दशमैकादशावनुवाकौ ॥१०॥११॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके द्वादशोऽनुवाकः)।
कल्पः – “स्थाल्योक्थ्यं गृह्णाति उपयामगृहीतोऽसीन्द्राय त्वा बृहद्वते वयस्वत इति ग्रहणासादनौ” इति।
पाठस्तु — उपयामगृहीत इति। हे सोमोपयामेन स्थाल्या गृहीतोऽसि, इन्द्राय त्वां गृह्णामि। कीदृशाय। बृहद्वते बृहत्सामप्रियाय। तत्सामयोन्यामृचि त्वां वृत्रेष्विन्द्र सत्पतिमिति हि श्रुतम्। वयस्वते वयोऽन्नं सोमरूपं तद्वते तत्प्रियाय। उक्थं शस्रं तदात्मानं इच्छतीत्युक्थायुस्तस्मै ते। इन्द्र यत्ते तव बृहद्वयो महदन्नं सोमरूपं तस्मै पानार्थं त्वां, प्रार्थय इति शेष। हे सोम विष्णवे त्वां गृह्णामि। एष खरप्रदेशस्तव स्थानम्। उक्थशस्त्रप्रियायेन्द्राय त्वां खरे सादयामि।
मन्त्रव्याख्यानायाऽऽदावुक्थ्यग्रहणं विधत्ते — “इन्द्रो वृत्राय वज्रमुदयच्छत्स वृत्रौ वज्रादुद्यतादबिभेत्सोऽब्रवीन्मा मे प्र हारस्ति वा इदं मयि वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यमेव प्रायच्छत्तस्मै द्वितीयमुदयच्छत्सोऽब्रवीन्मा मे प्र हारस्ति वा इतं मयि वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यमेव प्रायच्छत्तस्मै तृतीयमुदयच्छत्तं विष्णुरन्वतिष्ठत जहीति सोऽब्रवीन्मा मे प्र हारस्ति वा इदं मयि वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यमेव प्रायच्छत्तं निर्मायं भूतमहन्यज्ञो हि तस्य मायाऽऽसीद्यदुक्थ्यो गृह्यत इन्द्रियमेव तद्वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते” (सं. का. ६ प्र. ५ अ. १) इति।
मा मे प्रहा मां मा प्रहार्षीः। वीर्यमुक्थ्यरूपं श्रेष्ठं वस्तु, उक्थ्यस्थाल्यां मन्त्रेण गृहीतः सोम इत्यर्थेः। तस्य सवनत्रयापेक्षया त्रिः प्रदानम्। अग्निष्टोमे तृतीयसवन उक्थ्याभावेऽपि संस्थान्तरेषु विद्यते। अथवा प्रातःसवन एवोक्थ्यस्थाल्यामुक्थ्यपात्रे त्रिर्ग्रहीतव्यं, तदपेक्षया त्रिः प्रदानम्। तृतीयपर्याये विष्णुर्जहीत्येवं वदन्निन्द्रमन्वतिष्ठत सहकारी सन्नवस्थितः। उक्थ्यरूपो यज्ञो वृत्रस्य माया। यस्मादुक्थ्यलोभेन मोहित इन्द्रो वृत्रं न जघान, त्रिष्वप्युक्थ्येषु दत्तेषु निर्मायं मोहयितुमसमर्थं वृत्रं हतवांस्तस्मादिन्द्रवद्वैरिगतमिन्द्रियसामर्थ्यं विनाशयितुमुक्थ्यं गृह्णीयात्।
वृत्रेणेन्द्राय दत्तत्वान्मन्त्रेऽपीन्द्रायेत्युक्तिर्युक्तेत्याह — “इन्द्राय त्वा बृहद्वते वयस्वत इत्याहेन्द्राय हि स तं प्रायच्छत्” (सं. का. ६ प्र. ५ अ. १) इति।
विष्णोरपि सहकारित्वेन भागित्वात्तन्मन्त्रोऽपि युक्त इत्याह — “तस्मै त्वा विष्णवे त्वेत्याह यदेव विष्णुरन्वतिष्ठत जहीति तस्माद्विष्णुमन्वाभजति” इति।
स्थाल्यां गृहीत्वा सादितस्य सोमस्य होमकाले पुनर्दारुपात्रे त्रिवारग्रहणं विधत्ते —
“त्रिर्निर्गृह्णाति त्रिर्हि स तं तस्मै प्रायच्छत्” (सं. का. ६ प्र. ५ अ. ११) इति।
स वृत्रस्तमुक्थ्यं तस्मा इन्द्राय त्रिः प्रायच्छत्। तस्मात्स्थालीगतं सोमं त्रेधा निष्कृष्य पर्यायत्रेण गृह्णीयात्।
दारुपात्रे गृहीतस्याऽऽसादनमन्त्रं स्थाल्यभिमर्शनमन्त्रं चोत्पाद्य व्याचष्टे — “एष ये योनिः पुनर्हविरसीत्याह पुनः पुनर्ह्यस्मान्निर्गृह्णाति” (सं. का. ६ प्र.५ अ. १) इति।
हे दारुपात्रे गृहीत सोम तवैष खरप्रदेशः स्थानम्। अनेन मन्त्रेण सादयेत्। हे स्थालीगत सोम त्वं गृहीतशेषोऽपि पुनर्गृह्यमाणत्वाद्धविरेवासि। अस्मात्स्थालीगतात्सोमाद्ग्रहीष्यमाणं पर्यायद्वयमपेक्ष्य पुनः पुनरित्युक्तिः। अत्र सूत्रम् — “उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वा जुष्टं गृह्णामि देवेभ्यो देवायुवमुक्थ्येभ्य उक्थ्यायुवमित्युक्थ्यात्तृतीयं गृहीत्वैष ते योनिर्मित्रावरुणाभ्यां त्वेति सादयित्वा पुनर्हविरसीति स्थालीमभिमृशति, एवं विहितावुत्तरौ पर्यायौ ताभ्यां प्रतिप्रस्थाता चरति” इति।
उक्थ्यहोमचमसहोमान्विधत्ते — “चक्षुर्वा एतद्यज्ञस्य यदुक्थ्यस्तस्मादुथ्यँ हुतँ सोमा अन्वायन्ति तस्मादात्मा चक्षुरन्वेति तस्मादेकं यन्तं बहवोऽनुयन्ति तस्मादेको बहूनां भद्रो भवति तस्मादेको बह्वीर्जाया विन्दते यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमित्यन्तराऽऽहवनीयं च हविर्धानं च तिष्ठन्नव नयेदात्मानमेव यज्ञयशसेनार्पयति यदि कामयेत यजमानं यज्ञयशसेनार्पयेयमित्यन्तरा सदोहविर्धाने तिष्ठन्नव नयेद्यजमानमेव यज्ञ यशसेनार्पयति” (सं. का. ६ प्र. ५ अ. १) इति।
चक्षुःस्थानीय उक्थ्ये हुते सत्यनन्तरमेवेतरस्थानीयाश्चमसा होतव्याः। आत्मा सर्वावयवसंधानरूपः पुरुषः। अवयवेषु मुख्यस्य चक्षुषो दृष्टिः पुरतो मार्गे प्रसरति। ततः संघातरूप आत्माऽनुगच्छति। एकं मुख्यं परिगच्छन्तं बहवो भृत्या अनुगच्छन्ति। एको मुख्यश्चक्षुरिव ज्ञापक आचार्यो बहूनां शिष्याणां मध्ये भद्रः पूज्यो भवति। एको मुख्यः स्वतन्त्रः पुरुषः परतन्त्राः बह्वीर्जाया लभते। एभिर्दृष्टान्तैश्चमसानामुक्थ्यानन्तरं होमो युक्तः।
अत्र सूत्रम् — “ग्रहमध्वर्युरादत्ते चमसांश्चमसाध्वर्यव आश्राव्य प्रत्याश्राविते संप्रेष्यति उक्थशा यज सोमानामिति वषट्कृतानुषट्कृते जुह्वति भक्षान्हरन्ति” इति।
मुख्यचमसे संपातस्यावनयनं विधत्ते — “यदि कामयेत सदस्यान्यज्ञयशसेनार्पयेयमिति सद आलभ्यावनयेत्सदस्यानेव यज्ञयशसेनार्पयति” (सं. का. ६ प्र. ५ अ. १) इति।
यज्ञयशसं यज्ञफलम्। आलभ्य प्रविश्य। अत्र सूत्रम् — “देवेभ्यस्त्वा देवायुवं पृणज्मि यज्ञस्याऽऽयुष इति मुख्ये संपातमवनयति यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमित्युक्तम्” इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तीरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके द्वादशोऽनुवाकः॥१२॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके त्रयोदशोऽनुवाकः)।
कल्पः – “मूर्धानं दिवो अरतिं पृथिव्या इति स्थाल्या ध्रुवं पूर्णं गृह्णाति एष ते योनिरग्नये त्वा वैश्वानरायेति हिरण्ये सादयेत्” इति।
पाठस्तु — मूर्धानमिति। अत्र गृहीत्वा ध्रुवोऽसीत्यादिकं पठेत्। तदुक्तं बौधायनेन — “अथैनमधिवदते ध्रुवोऽसीति” इति। मूर्धानमिति मन्त्रे स्तुम इति पदमध्याहृत्याग्निं वयं स्तुम इति योजनीयम्। कीदृशमग्निम्। दिवो मूर्धानं शिरोवदुन्नतदेशे सूर्यरूपेणावस्थाय द्युलोकस्य भासकम्। अरतिं पृथिव्या रतिरुपरतिस्तिद्रहितम्। नहि पृथिव्या उपरि कदाचिदग्निरुपरमते किंतु दाहपाकप्रकाशैः सर्वाननुगृह्णन्सर्वदा वर्तते। स चाग्निर्वैश्वानरनामकः। यथा दिवि नाको नामाग्नी रक्षोहेत्याम्नातं तथा पृथिव्यां वैश्वानरः। तथा पृथिव्यामृताय जातं यज्ञार्थमाहवनीयादिरूपेणोत्पन्नम्। कविं स्वभक्ताननुग्रहीतुमभिज्ञम्। सम्राजं सम्यग्दीप्यमानम्। जनानां यजमानानामतिथिं हविर्भिः सत्कारयोग्यम्। आसन्, ईदृशस्याग्नेरास्ये होतुं देवाः पात्रं सोमग्रहचमसरूपमाजनयन्त सर्वत ऐन्द्रवायवादिस्थानेषूत्पादितवन्तः। हे सोम स्थालीरूपेणोपयामेन गृहीतोऽसि। वैश्वानरायाग्नये त्वां गृह्णामि। हे ग्रह त्वं ध्रुवोऽसि ध्रुवनामकोऽसि। ध्रुवक्षितिः स्थिरनिवासः। आवैश्वदेवशंसनमवस्थानात्। ध्रुवाणामादित्यस्थाल्यादीनां मध्येऽतिशयेन ध्रुवः। तस्यैव व्याख्यानमच्युतानामच्युतक्षित्तम इति। एषोऽनुपोप्तदेशस्तव स्थानं तत्र वैश्वानरायाग्नये त्वां सादयामि।
ध्रुवग्रहं विधत्ते — “आयुर्वा एतद्यज्ञस्य यद्ध्रुव उत्तमो ग्रहाणां गृह्यते तस्मादायुः प्राणानामुत्तमम्” (सं. का. ६ प्र. ५ अ. २) इति।
ऐन्द्रवायवादयो यथा यज्ञस्य वागादिप्राणरूपास्तथा ध्रुवोऽप्यायुःस्वरूपः। स च ध्रुवोऽन्तर्यामैन्द्रवायवादीनां धाराग्रहाणामुत्तमश्चरमो यथा भवति तथा ग्रहीतव्यः। अत एव ध्रुवग्रहप्रस्तावे सूत्रकारेणोक्तम् — “अत्र धारा विरमति” इति। यस्मादायुःस्थानीयो ध्रुवो ग्रहाणामुत्तमस्तस्माद्वागादीनां प्राणानां मध्ये जीवनरूपमायुरुत्तमम्। सति हि जीवने प्राणाः शोभन्ते।
मन्त्रे मूर्धानमित्यादिशब्दप्रयोगेण ज्ञातीनां मध्ये यजमानं श्रेष्ठं करोतीत्याह — “मूर्धानं दिवो अरतिं पृथिव्या इत्याह मूर्धानमेवैनँ समानानां करोति” (सं. का. ६ प्र. ५ अ. २) इति।
आयुषो वैश्वानराभिमानिदेवत्वादायुःस्थानीयध्रुवस्य ग्रहणे वैश्वानरशब्दो युक्त इत्याह — “वैश्वानरमृताय जातमग्निमित्याह वैश्वानरँ हि देवतायाऽऽयुः” (सं. का. ६ प्र. ५ अ. २) इति।
अस्यामृच्युपरितने यजुषि च वैश्वानरशब्दप्रयोगो नाभेरूर्ध्वाधोवर्तिप्राणसा-म्यायेत्याह — “उभयतोवैश्वानरो गृह्यते तस्मादुभयतः प्राणा अधस्ताच्चोपरिष्टाच्च” (सं. का. ६ प्र. ५ अ. २) इति।
यथा वाक्चक्षुरादय उपरिवर्तिनो मूकत्वान्धत्वबधिरत्वादिकृतानल्पान्व्यवहारनिरोधान्वारयन्तो देहस्यार्धं कृत्यं निर्वहन्ति अधोभागवर्ती तु प्राणो मलमूत्रनिरोधं महान्तं निवारयन्नर्धकृत्यं निर्वहति तथैवान्ये ग्रहा यज्ञस्यार्धं निर्वहन्ति ध्रुवस्त्वर्धमिति प्रशंसति — “अर्धिनोऽन्ये ग्रहा गृह्यन्तेऽर्धी ध्रुवस्तस्मादर्ध्यवाङ्प्राणोऽन्येषां प्राणानाम्” (सं. का. ६ प्र. ५ अ. २) इति।
अर्धित्वमिति शेषः।
ध्रुवस्येतरविलक्षणं सादनस्थानं विधत्ते– “उपोप्तेऽन्ये ग्रहाः साद्यन्तेऽनुपोप्ते ध्रुवस्तस्मादस्थ्नाऽन्याः प्रजाः प्रतितिष्ठन्ति माँसेनान्याः” (सं. का. ६ प्र. ५ अ. २) इति।
मृदमुपोप्य खरीकृते प्रदेशे ग्रहान्तरसादनं, केवलभूम्यां ध्रुवस्य सादनम्। यस्मादेवं वैलक्षण्यं तस्माल्लोकेऽपि अन्या गवादिरूपाः प्रजा अस्थिवत्कठिनखुरेण भूमौ तिष्ठन्ति, अन्यास्तु मनुष्यरूपाः प्रजाः पादतलगतेन मांसेनावतिष्ठन्ते।
भूमौ साद्यमानस्य ध्रुवस्योत्तरहविर्धानसमीपदेशं विधत्ते — “असुरा वा उत्तरतः पृथिवीं पर्याचिकीर्षन्तां देवा ध्रुवेणादृँहन्तद्ध्रुवस्य ध्रुवत्वं यद्ध्रुव उत्तरतः साद्यते धृत्यै” (सं. का. ६ प्र. ५ अ. २) इति।
पर्याचिकीर्षन्पर्याकर्तुमुत्तरत आक्रष्टुमैच्छन्। ध्रुवस्योत्तरदेशे सादनेन पृथिवी धृता भवति। अत्र सूत्रम् – “उत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम्” इति।
ध्रुवोऽवस्थितस्य सोमस्य होतृचमसेऽवनयनं विधत्ते — “आयुर्वा एतद्यज्ञस्य यद्ध्रुव आत्मा होता यद्धोतृचमसे ध्रुमवनयत्यात्मन्नेव यज्ञस्याऽऽयुर्दधाति” (सं. का. ६ प्र. ५ अ. २) इति।
अवनयनस्य कालं विधित्सुर्मतान्तराण्युपन्यस्यति — “पुरस्तादुक्थस्यावनीय इत्याहुः पुरस्ताद्ध्यायुषो भुङ्क्ते मध्यतोऽवनीय इत्याहुर्मध्यमेन ह्यायुषो भुङ्क्त उत्तरार्धेऽवनीय इत्याहुरुत्तमेन ह्यायुषो भुङ्क्ते” (सं. का. ६ प्र. ५ अ. २) इति।
उक्थं शस्त्रम्। तच्च त्रेधा विभज्य पूर्वभागे शस्यमानेऽवनयेत्। एवमितरयोरपि। आयुषः पूर्वभागे बाल्ये बहुकृत्वो भुज्यते। मध्यमे भागे बह्वन्नं भुज्यते। उत्तमे भागे शक्त्यभावेऽपि बहु भोक्तुमिच्छति।
इदानीं विधत्ते — “वैश्वदेव्यामृचि शस्यमानायामव नयति वैश्वदेव्यो वै प्रजाः प्रजास्वेवाऽऽयुर्दधाति” (सं. का. ६ प्र. ५ अ. २) इति।
उत नोऽहिर्बुध्नियः शृणोत्वित्येषा वैश्वदेवा।
मूर्धानं दिव इत्येषा त्रिष्टुप्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके त्रयोदशोऽनुवाकः॥१३॥

(अथ प्रथमाष्टके चतुर्थप्रपाठके चतुर्दशोऽनुवाकः)।
कल्पः – “ऋतुग्रहैः प्रचरतो द्रोणकलशाद्गृह्यन्ते न साद्यन्ते पूर्वेषां शेषे-षूत्तरानभिगृह्णीतः पूर्वोऽध्वर्युर्गृह्णाति जघन्यः प्रतिप्रस्थातोपयामगृहीतोऽसि मधुश्चेत्येतैः प्रतिमन्त्रं सँसर्पोऽस्यँहस्पत्याय त्वेति त्रयोदशचतुर्दशौ गृह्येते” इति।
मन्त्रपाठस्तु — मधुश्चेति। अत्र मध्वादिशब्दाः क्रमेण चैत्रादिमासानां वाचकाः। संसर्पांहस्पतिशब्दयोरर्थोऽन्यत्र दर्शितः –
“असंक्रान्तावेकवर्षे द्वौ चेत्संसर्प आदिमः।
क्षयमासो द्विसंक्रान्तः स चांहस्पतिसंज्ञकः” इति।
मन्त्रादावुपयामेति प्रयुञ्जीत। हे सोम त्वमुपयामगृहीतो मधुश्चासि। एवमन्यत्रापि योज्यम्।
“यज्ञेन वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति ते संवत्सरेण योपयित्वा सुवर्गं लोकमायन्तमृषय ऋतुग्रहैरेवानु प्राजानन्यदृतुग्रहा गृह्यन्ते सुवर्गस्य लोकस्य प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ३ इति।
संवत्सरेण योपयित्वा कालविलम्बेन मोहयित्वा। यत ऋषयो मनुष्येष्वभिज्ञाः। संख्यां विधत्ते — “द्वादश गृह्यन्ते द्वादश मासाः संवत्सरः संवत्सरस्य प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ३ इति।
त्रयोदशचतुर्दशयोरप्येतदुपलक्षणम्। अत एव सूत्रकार आह– “द्वादश त्रयोदश चतुर्दश वा गृह्यन्ते” इति।
आदावन्ते च द्वयोर्ग्रहणं विधत्ते — “सह प्रथमौ गृह्येते सहोत्तमौ तस्माद्द्वौद्वावृतू” (सं. का. ६ प्र. ५ अ. ३) इति।
मधुश्च माधवश्चेत्येतौ प्रथमौ। तपश्च तपस्यश्चेत्येतावुत्तरौ। यस्माद्द्वयोः साहित्यमत्र विहितं तस्माद्द्वौद्वौ मासावृत्ववयवौ।
पात्रस्थसोमं वह्नौ स्रावयितुं बिलस्य पार्श्वयोर्द्वे मुखे विधत्ते — “उभयतोमुखमृतुपात्रं भवति को हि तद्वेद यत ऋतूनां मुखम्” (सं. का. ६ प्र. ५ अ. ३) इति।
ऋतूनां मुखमृतुधर्मप्रवृत्त्यारम्भो यतो यस्मात्कालादारभ्य भवति तत्को नाम वेद। तस्मादृतुपात्रस्य मुखद्वयं कुर्यात्।
अध्वर्युप्रतिप्रस्थात्रोः प्रैषमन्त्रावुत्पादयति — “ऋतुना प्रेष्येति षट्कृत्व आह षड्वा ऋतव ऋतूनेव प्रीणात्यृतुभिरिति चतुश्चतुष्पद एव पशून्प्रीणाति द्विः पुनतुनाऽऽह द्विपद एव प्रीणाति” (सं. का. ६ प्र. ५ अ. ३) इति।
हे मैत्रावरुण ऋतुना निमित्तेन होतारं प्रेष्य तमिमं मन्त्रं प्रथमतृतीयपञ्चमेष्वध्वर्ब्रूयात्। द्वितीयचतुर्थषष्ठेषु प्रतिप्रस्थाता ब्रूयात्। एवं षट्कृत्वस्तद्वचनम्। तेन भवत्यृतूनां प्रीतिः। ऋतुभिः प्रेष्येति सप्तमनवमयोरध्वर्युर्ब्रूयात्। अष्ठमदशमयोः प्रतिप्रस्थाता। तेन चतुरावर्तनेन पशूनां प्रीतिः। ऋतुना प्रेष्येत्यध्वर्युरेकादशे ब्रूयात्। प्रतिप्रस्थाता द्वादशे। तेन द्विरावर्तनेन मनुष्याणां पक्षिणां च प्रीतिः।
पूर्वोक्तामेव षट्चतुर्द्विसंख्यामुपजीव्योपजीवकभावेन प्रशंसति — “ऋतुना प्रष्येति षट्कृत्व आहर्तुभिरिति चतुस्तस्माच्चतुष्पादः पशव ऋतूनुपविन्ति द्विः पुनतुनाऽऽह तस्माद्द्विपादश्चतुष्पदः पशूनुप जीवन्ति” (सं. का. ६ प्र. ५ अ. ३) इति।
गवादयश्चतुष्पादः शीतोष्णादीनृतुधर्मानुपजीवन्ति। मनुष्याश्च द्विपादः पशुगतक्षीरादीनुपजीवन्ति।
“ऋतुना प्रेष्येति षट्कृत्व आहर्तुभिरिति चतुर्द्विः पुनतुनाऽऽहाऽऽऋमणमेव
तत्सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै” (सं. का. ६ प्र. ५ अ. ३) इति।
आक्रम्यते प्राप्यते स्वर्गोऽनेनेत्याक्रमणः सेतुः यथा सेतोरधोभागो विशाल ऊर्ध्वभागः संकुचितस्तथैवात्र षट्चतुर्द्विसंख्या द्रष्टव्या। सोपानेष्वप्येतत्समानम्।
अध्वर्युप्रतिप्रस्थात्रोर्युगपद्गमनं निषेधति — “नान्योऽन्यमनु प्र पद्येत यदन्योऽन्यमनुप्रपद्येतर्तुतुमनु प्र पद्येतर्तवो मोहुकाः स्युः” (सं. का. ६ प्र. ५ अ. ३) इति।
अध्वर्युप्रतिप्रस्थातृभ्यां प्रथमद्वितीयौ ग्रहौ सह गृहीतौ। ततो हविर्धाना-न्निष्क्रम्य गत्वाऽऽहवनीये हुत्वा पुनः प्रत्यागत्य हविर्धाने ग्रहान्तरं ग्रहीतव्यम्। तत्रैकः पुरतोऽन्यः पृष्ठत इत्येवं युगपन्न गन्तव्यं किंतु पर्यायेण। यद्यृतुग्रहे तयोः सहगमनं स्यात्तदानीमेकमृतुमन्योऽनुप्रविशेत्। तदा सांकर्यादृतवो मोहहेतवो भवेयुः।
कालभेदवदुभयोर्मार्गभेदं विधत्ते — “प्रसिद्धमेवाध्वर्युर्दक्षिणेन प्र पद्यते प्रसिद्धं प्रतिप्रस्थातोत्तरेण तस्मादादित्यः षण्मासो दक्षिणेनैति षडुत्तरेण” (सं. का. ६ प्र. ५ अ. ३) इति।
प्रथमतः सिद्धं प्रसिद्धमादित आरभ्येत्यर्थः। यस्मादृत्विजोर्दक्षिणोत्तरौ द्वौ मार्गौ तस्मादादित्यस्यापि दक्षिणायनोत्तरायणे भवतः। अत्र सूत्रम्– “ग्रहावादायोपनिष्क्रामतो दक्षिणमेवाध्वर्युर्द्वार्बाहुं निश्रयमाण उपनिष्क्रामत्युत्तरं प्रतिप्रस्थाता द्वार्बाहुं निश्रयमाण उपरमत्यथाध्वर्युराश्रावयति आश्रावयास्तु श्रौषड्ऋतुना प्रेष्येति वषट्कृते जुहोति निष्क्रामत्येवं प्रतिप्रस्थाता प्रपद्यते तथाऽध्वर्युः” इति। यदा हविर्धानात्प्रतिप्रस्थाता निष्क्रामति तदाऽध्वर्युर्हविर्धानं प्रविशतीत्येवं व्यत्ययेनोभयोर्गमनम्।
मधुश्चेत्यादिमन्त्रैरेव द्वादशमासानां प्रीतत्वात्संसर्पमन्त्रस्य निर्विषयत्वमाशङ्क्य व्याचष्टे — “उपयामगृहीतोऽसि सँसर्पोऽस्यँहस्पत्याय त्वेत्याहास्ति त्रयोदशो मास इत्याहुस्तमेव तत्प्रीणाति” (सं. का. ६ प्र. ५ अ. ३) इति। अधिकमासस्त्रयोदशः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके चतुर्दशोनुवाकः॥१४॥

(अथ प्रथमाष्टके चतुर्थप्रपाठके पञ्चदशषोडशानुवाकौ)।
कल्पः – “अभक्षितेन पात्रेणाध्वर्युरैन्द्राग्नं गृह्णातीन्द्राग्नी आ गतँ सुतमिति ग्रहणसादनौ” इति।
पाठस्तु — इन्द्राग्नी इति। हे इन्द्राग्नी॑ सुतमभिषुतं सोमं प्रत्यागतमागच्छतम्। कीदृशं सोमम्। गीर्भिः स्तुतिभिर्युक्तमिति शेषः। नभो नभोवस्थितैः स्वर्गनिवा–सिभिर्देवैर्वरेण्यं प्रार्थनीयम्। अस्य सोमस्य संबन्धिनं स्वकीयमंशं पातं युवां पिबतम्। कादृशौ युवाम्। धिया बुद्ध्येषिता प्रार्थितौ स्पष्टमन्यत्।
कल्पः – ‘वैश्वदेवं शुक्रपात्रेण गृह्णात्योमासश्चर्षणीधृत इति ग्रहणसादनौ’ इति।
पाठस्तु — ओमास इति। हे विश्वे देवा आगताऽऽगच्छत। कीदृशाः। ओमासो रक्षितारः। चर्षणीधृतो मनुष्यपोषकाः। अनिष्टनिवारणं रक्षणम्। इष्टप्रापणं पोषणम्। सुतमभिषुतं दाशुषो दत्तवतो यजमानस्य दाश्वांसः फलं पूर्वं दत्तवन्तः। स्पष्टमन्यत्।
मन्त्रानुपेक्ष्यैन्द्राग्नग्रहं विधत्ते — “सुवर्गाय वा एते लोकाय गृह्यन्ते यदृतुग्रहा ज्योतिरिन्द्राग्नी यदैन्द्राग्नमृतुपात्रेण गृह्णाति ज्योतिरेवास्मा उपरिष्टाद्दधाति सुवर्गस्य लोकस्यानुख्यात्यै” (सं. का. ६ प्र. ५ अ. ४) इति।
यदेतदृतुपात्रमध्वर्युहस्ते भक्षणीयेन सोमेनोपेतं तेनैन्द्राग्नं गृह्णीयात्। तथा सत्यृतुग्रहैः प्राप्तः स्वर्ग इन्द्राग्निज्योतिषा प्रकाशितो भवति।
बलप्रदत्वेनैन्द्राग्नं प्रशंसति — ‘ओजोभृतौ वा एतौ देवनां यदिन्द्राग्नी यदैन्द्राग्नो गृह्यत ओज एवाव रुन्धे’ (सं. का. ६ प्र. ५ अ. ४) इति।
ग्रहान्तरं विधत्ते — ‘वैश्वदेवँ शुक्रपात्रेण गृह्णाति वैश्वदेव्यो वै प्रजा असावादित्यः शुक्रो यद्वैश्वदेवँ शुक्रपात्रेण गृह्णाति तस्मादसावादित्यः सर्वाः प्रजाः प्रत्यङ्ङुदेति तस्मात्सर्व एव मन्यते मां प्रत्युदगादिति’ (सं. का. ६ प्र. ५ अ. ४) इति। शुक्रग्रहस्य यत्पात्रं तेन वैश्वदेवं गृह्णीयात्। वैश्वदेवीः सर्वाः प्रजाः प्रति शुक्रग्रहाभिमान्यादित्यः प्रत्यङ् प्रत्येकमभिमुख उदेति। तदेतत्सर्वस्याप्यनुभवसिद्धम्।
तेजःप्रदत्वेन वैश्वदेवं प्रशंसति — वैश्वदेवँ शुक्रपात्रेण गृह्णाणि वैश्वदेव्यो वै प्रजास्तेजः शुक्रो यद्वैश्वदेवँ शुक्रपात्रेण गृह्णाति प्रजास्वेव तेजो दधाति’ (सं. का. ६ प्र. ५ अ. ४) इति। इन्द्राग्नी ओमास इत्येते गायत्र्यौ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके पञ्चदशषोडशाऽनुवाकौ॥१५॥१६॥

(अथ प्रथमाकाण्डे चतुर्थप्रपाठके सप्तदशाष्टादशैकोनविंशैकविंशानुवाकाः)।
कल्पः – “मरुत्वन्तमिति स्वेर्तुपात्रेणाध्वर्युः पूर्वं मरुत्वतीयं गृह्णातीन्द्र मरुत्व इति स्वेन प्रतिप्रस्थातोत्तरम्” इति।
पाठस्तु — मरुत्वन्तमिति। इहास्मिन्कर्मणि तमिन्द्रमाह्वयाम। कीदृशम्। मरुद्गणैरुपेतं जलस्य वर्षितारं कामानां वर्धयितारमकुत्सितारिं वृत्रादीनां शत्रूणामतिप्रबलत्वात्, दिवि भवं दुष्टानां शासितारं विश्वं पालयितुं सहिष्णुमनलसमित्यर्थः। अवसे रक्षणाय। नूतनायोग्रम्, इदानींतनेभ्यो वैरिभ्यो यजमानं रक्षितुं तद्वैरिषूग्रमित्यर्थः। सहोदां बलपदम्। हे मरुद्गणयुक्तेन्द्र त्वमिहास्मिन्कर्मणि सोमं पाहि पिब। यथा शा(श)र्यातिनामकस्य यजमानस्य संबन्धिनि कर्मण्यभिषुतस्य सोमस्यांशमपिबस्तद्वच्छूर तव प्रणीती प्रणयनेनानुज्ञया सुयज्ञाः पूर्वे कवयस्तव शर्मणि सुखे निमित्तभूते सत्याभिमुख्येन विवासन्ति परिचय(र)न्ति तद्वदयमपि यजमान इत्यर्थः। स्पष्टमन्यत्।
कल्पः – “अभक्षितेन पात्रेणाध्वर्युस्तृतीयं मरुत्वतीयं गृह्णाति मरुत्वाँ इन्द्रेति ग्रहणसादनौ” इति।
पाठस्तु — मरुत्वाँ इन्द्रेति। हे इन्द्र मरुद्भिर्युक्तो वर्षिता च त्वं रणाय क्रीडार्थं सोमं पिब। कीदृशम्। अनुष्वधम्। स्वधाशब्दोऽन्नवाची सवनीयपुरोडाशानाचष्टे। तामनुसृत्य वर्तमानम्। किंच मदाय हर्षाय मध्वो मधुरस्य पीतस्य सोमस्योर्मिं सारं त्वदीये जठर आसिञ्चस्व स्थापय। त्वं प्रदिवः प्राप्यस्य स्वर्गस्य सुतानां सोमानां च राजाऽसि। अत एव प्रार्थ्यसे। स्पष्टमन्यत्।
कल्पः – “माहेन्द्रं शुक्रपात्रेण गृह्णाति महाँ इन्द्रो य ओजसेति ग्रहणसादनौ” इति।
पाठस्तु — महाँ इन्द्र इति। वृष्टिमान्पर्जन्य एव य इन्द्र ओजसा बलेन महान्स इन्द्रो वत्सस्थानीयस्य यजमानस्य स्तोमैः स्तोत्रैर्वावृधे वर्धताम्। स्पष्टमन्यत्। अस्मिन्नेव माहेन्द्रग्रहे विकल्पितं मन्त्रान्तरमेवमाम्नायते — महाँ इन्द्र इति। अयं महानिन्द्रो नृवन्मनुष्यवदाचर्षणिप्राश्चर्षणीन्मनु-ष्यान्प्रति अभीष्टभोगैः पूरयतीति चर्षणीप्राः यथा राजामात्यादिर्मनुष्यः सेवकानभीष्टभोगैरापूरयति तद्वत्। अपि चायं द्वयोः प्रकृतिविकृतिरूपयोः सोमयागयोर्बर्हो वृद्धिर्यस्येति द्विबर्हाः। सहोभिर्बलैरमिनोऽमित उपमानरहितः। अस्मद्रियगस्मत्सदृशो ववृधे वृद्धिं प्राप्तः। यथा वयमस्यानुग्रहाद्वृद्धिं प्राप्तास्तथैवायमप्यस्मदीयैर्हविर्भिर्विवृद्धः। एतदेव प्रपञ्च्यते – वीर्याय सामर्थ्यसिद्धये कर्तृभिर्यजमानैरयं सुकृतो भूत्सुष्ठु वर्धितोऽभूत्। कीदृशी तस्य वृद्धिः उरुर्यशसा विपुलः पृथुर्बलेन विस्तृतः। स्पष्टमन्यत्। मन्त्रा उपेक्षिताः।
त्रीन्मरुत्वतीयग्रहान्विधत्ते — “इन्द्रो मरुद्भिः सांविद्येन माध्यंदिने सवने वृत्रमहन्यन्माध्यंदिने सवने मरुत्वतीया गृह्यन्ते वार्त्रघ्ना एव ते यजमानस्य गृह्यन्ते” (सं. का. ६ प्र. ५ अ. ५) इति। सांविद्यं संप्रतिपत्तिरैकमत्यम्।
तेषां ग्रहाणां पात्रं विधत्ते — “तस्य वृत्रं जघ्नुष ऋतवोऽमुह्यन्त्स ऋतुपात्रेण मरुत्वतीयानगृह्णात्ततो वै स ऋतून्प्राजानाद्यदृतुपात्रेण मरुत्वतीया गृह्यन्त ऋतूनां प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ५) इति।
ग्रहत्रयं वज्ररूपेण प्रशंसति — “वज्रं वा एतं यजमानो भ्रातृव्याय प्र हरति यन्मरुत्वतीया उदेव प्रथमेन गच्छति प्र हरति द्वितीयेन स्तृणुते तृतीयेन” (सं. का. ६ प्र. ५ अ. ५) इति। स्तृणुते हिनस्ति।
धनुःसंपादनरूपेण पुनः प्रशंसति — “आयुधं वा एतद्यजमानः सँ स्कुरुते यन्मरुत्वतीया धनुरेव प्रथमो ज्या द्वितीय इषुस्तृतीयः” (सं. का. ६ प्र. ५ अ. ५) इति।
संपादितस्य धनुषः प्रयोगरूपेण पुनः प्रशंसति — “प्रत्येव प्रथमेन धत्ते वि सृजति द्वितीयेन विध्यति तृतीयेन” (सं. का. ६ प्र. ५ अ. ५) इति।
प्रतिधत्त एव बाणं संदधात्येव।
प्राणादिप्रीणयितृत्वरूपेश पुनः प्रशंसां कर्तुमाख्यायिकामाह — “इन्द्रो वृत्रँ हत्वा परां परावतमगच्छदपाराधमिति मन्यमानः स हरितोऽभवत्स एतान्मरुत्वतीयानात्मस्परणानपश्यत्तानगृह्णीत प्राणनेव प्रथमेनास्पृणुतापानं द्वितीयेनाऽऽत्मानं तृतीयेन” (सं. का. ६ प्र. ५ अ. ५) इति।
प्रबलेनारिकुलेन सह विरोधरूपमपराधं कृतवानस्मीति भीत्या परां परावतमत्यन्तदूरं पलाय्य स हरितो विवर्णोऽभवत्। आत्मस्परणान्स्वस्य भीतिनिवारणेन प्रीणयितॄन्प्रतिजग्राह प्राणापानक्षेत्रज्ञानां प्रीतिरभूत्।
इदानीं प्रशंसति — “आत्मस्परणा वा एते यजमानस्य गृह्यन्ते यन्मरुत्वतीयाः प्राणमेव प्रथमेन स्पृणुतेऽपानं द्वितीयेनाऽऽत्मानं तृतीयेन” (सं. का. ६ प्र. ५ अ. ५) इति।
अथ माहेन्द्रग्रहं विधत्ते — “इन्द्रो वृत्रमहन्तं देवा अब्रुवन्महान्वा अयमभूद्यो वृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रत्वँ स एतं माहेन्द्रमुद्धारमुदहरत वृत्रँ हत्वाऽन्यासु देवतास्वधि यन्माहेन्द्रो गृह्यत उद्धारमेव तं यजमान उद्धरतेऽन्यासु प्रजास्वधि” (सं. का. ६ प्र. ५ अ. ५) इति।
उद्ध्रियते गृह्यत इत्युद्धारो ग्रहस्तमुदहरतागृह्णात्। वृत्रहननेनोद्धारेणैवाय-मन्यासु देवतासु मध्येऽध्यधिकोऽभवत्।
माहेन्द्रस्य पात्रं विधत्ते — “शुक्रपात्रेण गृह्णाति यजमानदेवत्यो वै माहेन्द्रस्तेजः शुक्रो यन्माहेन्द्रँ शुक्रपात्रेण गृह्णाति यजमान एव तेजो दधाति” (सं. का. ६ प्र. ५ अ. ५) इति।
मरुत्वन्तमिन्द्र मरुत्वो मरुत्वान्महाँ इन्द्रो नृवदित्येतास्रिष्टुभः। महाँ इन्द्रो य ओजसेति गायत्री॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके सप्तदशाष्टादशैकोनविंश-विंशैतविंशानुवाकाः॥१७॥१८॥१९॥२०॥२१॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके द्वाविंशोऽनुवाकः)।
कल्पः – “आदित्यपात्रेण य आदित्यस्थाल्यां द्विदेवत्यग्रहसंपातास्तेभ्यः सोमं गृह्णाति कदा चन स्तरीरसीति कदा चन प्र युच्छसीति शृतातङ्क्यं दधि यज्ञो देवानामिति पुनः सोमं गृहीत्वा विवस्व आदित्येति तस्मिन्ग्रावाणमुपांशुसवमवधाय तेनैनं मेलयित्वा या दिव्या वृष्टिस्तया त्वा श्रीणामीति शृतातङ्क्येन दघ्ना पयसा वा वृष्टिकामस्य श्रीत्वा तद्ग्रावाणमुद्गृह्णाति यद्युद्गृहीतस्य ताजग्बिन्दुः प्रस्कन्देद्वर्षुकः पर्जन्यः स्याद्यदि चिरमवर्षुको न सादयति” इति।
प्रथममन्त्रपाठस्तु — कदा चनेति। हे इन्द्र त्वं कदाचिदपि स्तरीर्हिंसको न भवसि। किंतु दाशुषे हविर्दत्तवते यजमानाय फलप्रदानार्थं सश्चसि गच्छसि। कुत्र। उपोपेन्नु यजमानस्यात्यन्तसमीप एव। हे मघवन्भूय इन्नु पुनरेव देवस्य तव दानं देयं हविः पृच्यते संबध्यते यजमानेन हविर्दीयत इत्यर्थः। स्पष्टमन्यत्।
उत्तरमन्त्रस्तु — कदा चन प्रेति। प्रशब्दो निषेधार्थः। युच्छिधातुः प्रमादार्थः। हे इन्द्र कदाचिदपि न प्रमाद्यसि किंतु वर्तमानमागामि चेत्युभे यजमानस्य जन्मनी निपासि नितरां पालयसि। तृतीयमित्यस्मिन्नर्थे वर्णव्यत्ययेन तुरीयशब्दः प्रयुक्तः। हे आदित्य तृतीयसवनं ते त्वदीयं, तस्मिन्सवन इन्द्रियाभिवृद्धिकारणममृतसमानं दधि दिवि द्युलोकसमाने हविर्धान आभिमुख्येन आभिमुख्येन स्थितम्।
उत्तस्मन्त्रस्तु — यज्ञ इति। अथं यज्ञपुरुषो देवानां सुम्नं सुखं प्रत्येति जानात्युत्पादयतीत्यर्थः। हे आदित्या अस्मान्मृडयन्तः सुखयन्ते भवथ(त)। युष्माकं सुमतिरनुग्रहबुद्धिरर्वाचीनेष्वस्मासु प्रवृत्ता सत्याववृत्यादावर्तताम्। या सुमतिरेवांहोश्चिदस्मदीयपापाद्व्यावर्तत(ते)। पापं विनाशयतीत्यर्थः। सा सुमतिर्वरिवोवित्तराऽसदतिशयेन परिचर्याभिज्ञा भवतु।
उत्तरमन्त्रस्तु — विवस्व इति। हे विवस्वो विशिष्टनिवासाऽऽदित्य विवस्वन्नामक एष तृतीयस्तव सोमस्तेन सोमदर्शनेन मन्दस्व इष्टो भव। तेन सोमपानेन तृप्तो भव। तव तर्पयितारो वयमपि तृप्ता भूयास्म।
उत्तरमन्त्रस्तु — या दिव्येति। हे सोम दिव्यवृष्टिहेतुना दध्ना त्वां मिश्रयामि।
अत्राऽऽदित्याग्रहं विधातुमाख्यायिकामाह — “अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत्तस्या उच्छेषणमददु-स्तत्प्राश्नात्सा रेतोऽधत्त तस्यै चत्वार आदित्या अजायन्त” (सं. का. ६ प्र. ५ अ. ६) इति।
साध्येभ्यः साध्यनामकेभ्यः। आधानप्रकरणोक्तविधानेन संपादितो ब्रह्मौदनः। उच्छेषणं हुतशिष्टम्।
पुत्रचतुष्टयेनाप्यनिवृत्ते कामे पुनः प्रयुक्तवतीत्याह — “सा द्वितीयमपचत्साऽमन्यतोच्छेषणान्म इमेऽज्ञत यदग्रे प्राशिष्यामीतो मे वसीयाँसो जनिष्यन्त इति साऽग्रे प्राश्नात्सा रेतोऽधत्त तस्यै व्यृद्धमाण्डमजायत” (सं. का. ६ प्र. ५ अ. ६) इति।
इमेऽज्ञत चत्वारोऽजायन्त। अत्यन्तधनिकपुत्रोत्पत्त्यपेक्षया होमात्प्रागेव प्राशनेनैवापराधेन तस्या आण्डं गर्भस्थानं व्यृद्धं गर्भशून्यमभवत्।
व्यृद्धिनिवारणाय पुनः प्रयुक्तवतीत्याह — “साऽऽदित्येभ्य एव तृतीयमपचद्भोगाय म इदँ श्रान्तमस्त्वति तेऽब्रुवन्वरं वृणामहै योऽतो जायाता अस्माकँ स एकोऽसद्योऽस्य प्रजायामृद्धयाता अस्माकं भोगाय भवादिति ततो विवस्वानादित्योऽजायत तस्य वा इयं प्रजा यन्मनुष्यास्तास्वेक एवर्द्धो यो यजते स देवानां भोगाय भवति” (सं. का. ६ प्र. ५ अ. ६) इति।
इदमाण्डं श्रान्तं गर्भाभावेन पुरा संतप्तमासीत्। इदानीं मम गर्भधारणेनादि-तेर्भोगायास्त्वित्युक्त्वा ब्रह्मौदनमादित्येभ्योऽजुहोत्। त(अ)त आण्डाद्यो जायते सोऽस्माकं मध्य एक आदित्योऽस्तु। अस्याऽऽदित्यस्य संबधिन्यां प्रजायां यः समृद्धः सोऽस्माकं भोगाय भवत्विति वरः। तत आण्डाद्विवस्वान्नमक आदित्य उत्पन्नः। ये मनुष्यास्ते तस्याऽऽदित्यस्य प्रजा वृष्टिद्वारेणोत्पादकत्वात्। तासु प्रजासु यो यजते स एव समृद्धत्वाद्देवानां भोगाय भवति।
इत्थमाख्यायिकया ग्रहदेवतां निरूप्य ग्रहणापादानं निरूपयितुमाख्यायिकान्तरमाह–
“देवा वै यज्ञाद्रुद्रमन्तरायन्त्स आदित्यानन्वाक्रमत ते द्विदेवत्यान्प्रापद्यन्त तान्न प्रति प्रायच्छन्तस्मादपि वध्यं प्रपन्नं न प्रति प्र यच्छन्ति” (सं. का. ६ प्र. ५ अ. ६) इति।
देवा यज्ञं कुर्वन्तस्तस्मिन्यज्ञे रुद्रं विस्मृतवन्तः। स च रुद्र आदित्याननुप्रप्याबाधत। तेन बाधिता आदित्या ऐन्द्रवायवादिग्रहाञ्शरणं प्रपन्नाः। ते च ग्रहदेवास्तानादित्यान्रुद्राय नैव प्रत्यर्पितवन्तः। तस्माल्लोके परैर्वध्योऽपि चोरादिर्यदि शरणं प्राप्नुयात्तदा तं परेभ्यो नैव प्रत्यर्पयन्ति।
आदित्यग्रहं विधत्ते — “तस्मादिद्वदेवत्येभ्य आदित्यो निर्गृह्यते” (सं. का. ६ प्र. ५ अ. ६) इति।
यस्मादादित्या द्विदेवत्यग्रहान्प्रपन्नास्तस्माद्द्विदेवत्यग्रहेभ्यो निषिच्याऽऽदित्यग्राहं गृह्णीयात्।
आदित्यानां हुतशेषेण ब्रह्मौदनेनोत्पन्नत्वात्तेषां द्विदेवत्यशेषाद्ग्रहो युक्त इत्याह —“यदुच्छेषणादजायन्त तस्मादुच्छेषणाद्गृह्यते” (सं. का. ६ प्र. ५ अ. ६) इति।
ग्रहणे कदा चनेत्यादिमन्त्रान्विनियुङ्क्ते — “तिसृभिग्भिर्गृह्णाति माता पिता पुत्रस्तदेव तन्मिथुनमुल्बं गर्भो जरायु तदेव तन्मिथुनम्” (सं. का. ६ प्र. ५ अ. ६) इति।
मातापितृरूपं मिथुनं पुत्रेण सह तदेकं(व) त्रयात्मकम्। गर्भवेष्टनोदकमुल्बं, तद्वेष्टनं पट्टसदृशं जरायुनामकम्। तदुभयरूपं मिथुनं गर्भेण सह त्रयात्मकम्। तेन सदृशमिदमृक्त्रयात्मकम्।
अस्मिन्ग्रहे दधिमेलनं विधत्ते — “पशवो वा एते यादादित्य ऊर्ग्दधि दध्ना मध्यतः श्रीणात्यूर्जमेव पशूनां मध्यतो दधाति” (सं. का. ६ प्र. ५ अ. ६) इति।
आदित्यस्य वृष्टिद्वारा पशूपकारित्वम्। दध्नो भोज्यत्वात्तद्रूपत्वम्। तेन दध्ना सोमं मध्ये मेलयेत्। प्रथममन्त्रेण सकृत्सोमं गृहीत्वा तृतीयमन्त्रेण पुनर्ग्रहीष्यमाणो मध्यममन्त्रेण दधि प्रक्षिपेदित्यर्थः।
दध्नः किं (कं) चिद्गुणं विधत्ते– “शृतातङ्क्येन मेध्यत्वाय तस्मादामा पक्वं दुहे” (सं. का. ६ प्र. ५ अ. ६) इति।
शीते बुध्नमातनक्तीति वचनात्सांनाय्यभाण्डे क्षीरे सम्यक्शीते सति पश्चा-दातञ्चनीयम्। इह तूष्ण एव क्षीरे यदातञ्चनेन निष्पन्नं दधि तेन मेलनीयम्। यस्मादत्र तप्तं क्षीरं तस्माल्लोकेऽपि आमा पाकरहिता गौडं पक्वं धारोष्णरूपं क्षीरं दुहे दुग्धे प्रयच्छति।
ग्रहस्याऽऽच्छादनं विधत्ते — “पशवो वा एते यदादित्यः परिश्रित्य गृह्णाति प्रतिरुध्यैवास्मै पशून्गृह्णाति” (सं. का. ६ प्र. ५ अ. ६) इति।
अन्यतः पशून्निरुध्य यजमानार्थमेव तान्गृहीतवान्भवति। अत्र सूत्रम् — “दर्भैर्हस्तेन वाऽपिधायोत्तिष्ठति” इति।
तदेतदेवाऽऽदित्यग्रहपरिश्रयणमनूद्य प्रशंसति — “पशवो वा एते यदादित्य एष रुद्रो यदग्निः परिश्रित्य गृह्णाति रुद्रादेव पशूनन्तर्दधाति” (सं. का. ६ प्र. ५ अ. ६) इति।
अनेन ग्रहरूपाणां पशूनां घातकाद्रुद्राद्व्यवधानं भवति।
मन्त्रमादित्यपरं ग्रावपरं ग्रावपरतया व्याचष्टे — “एष वै विवस्वानादित्यो यदुपाँशुसवनः स एतमेव सोमपीथं परि शय आ तृतीयसवनाद्विवस्व आदित्यैष ते सोमपीथ इत्याह विवस्वन्तमेवाऽऽदित्यँ सोमपीथेन समर्थयति” (सं. का. ६ प्र. ५ अ. ६) इति।
विवस्वन्नामकस्याऽऽदित्यस्य ग्रहाभिमानित्वाद्ग्राव्णस्तद्रूपत्वम्। स च ग्रावैतमेवाऽऽदित्यग्रहगतं सोमं तृतीयसवनसमाप्तिपर्यन्तं परितः शेते। अतो ग्रावविषयत्यवं मन्त्रस्य युक्तम्।
काम्यदधिश्रयणं समन्त्रकं विधत्ते — “या दिव्या वृष्टिस्तया त्वा श्रीणामीति वृष्टि कामस्य श्रीणीयाद्वृष्टिमेवाव रुन्धे यदि ताजक्प्रस्कन्देद्वर्षुकः पर्जन्यः स्याद्यदि चिरमवर्षुकः” (सं. का. ६ प्र. ५ अ. ६) इति।
अस्यार्थः पूर्वमेव सूत्रे स्पष्टमुदाहृतः।
ग्रहान्तरवत्सादनादिप्रसक्तौ प्रतिषेधति — “न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते नानु वषट्करोति यदनुवषट्कुर्याद्रुद्रं प्रजा अन्ववसृजेन्न हुत्वाऽन्वीक्षेत यदन्वीक्षेत चक्षुरस्य प्रमायुकँ स्यात्तस्मान्नान्वीक्ष्यः” (सं. का. ६ प्र. ५ अ. ६) इति।
एष ते योनिरिति मन्त्रस्यानाम्नातत्वान्नात्र गृहीतस्य सादनं सिद्धम्। किंतु तथैव प्रचारः। असन्नाद्गर्भाशयव्यतिरिक्तस्थानेऽपतितात्। यथा ग्रहान्तरं वषट्कारानुवषट्कारयोर्भिन्नं हूयते नात्र तथा किंतु सकृदेव। अनुवषट्कारे तु प्रजा अनुलक्ष्य रुद्रं क्रूरं प्रेरयेत्। अन्वीक्षणेऽध्वर्युरन्धो भवेत्। इत आरभ्य च्छन्दो लक्षणग्रन्थादुन्नेतव्यम्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके द्वाविंशोऽनुवाकः॥२२॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके त्रयोविंशचतुर्विंशपञ्चविंशषड्विंविंशानुवाकाः।)
कल्पः – “वाममद्य सवितरित्यन्तर्यामपात्रेण सावित्रमाग्रयणाद्गृहीत्वा न सादयति”इति।
पाठस्तु — वाममद्येति। हे सवितरद्यास्मभ्यं वामं वननीयं कर्मफलं सावीः प्रेरय देहीत्यार्थः। श्वोऽपि वामं सावीः। तत ऊर्ध्वं दिने दिने वामं सावीः। हे देव वामस्य वननीयस्य भूरेर्विस्तीर्णस्य क्षयस्य स्वर्गनिवासस्येच्छयाऽयाऽनया श्रद्धायुक्तया बुद्ध्या वामभाजो वननीयकर्मानुष्ठानवन्तः स्याम। स्पष्टमन्यत्।
अत्रैव विकल्पितो द्वितीयो मन्त्र एवमाम्नायते — अदब्धेभिरिति। हे सवितस्त्वमब्धेभिरहिंसितैः पायुभिः पालकैः शिवेभिर्मंङ्गलैरनुग्रहविशेषैर्नोऽस्माकं गयं गृहं परिपाहि सर्वतो रक्ष। हिरण्यजिह्वो हिता रमणीया जिह्वा यस्य सोऽस्माकं हितं प्रियं च वदतीत्यर्थः। तादृशस्त्वं सुविताय सुष्ठुगमनाय स्वर्गप्राप्तये नव्यसे नूतनाय तदिदं कर्म रक्ष। नोऽस्माकमघशंसः पापापवादनिन्दको भवान्माकिरीशत शक्तो मा भूत्।
तृतीयो मन्त्रो विकल्पित एवमाम्नायते — हिरण्यपाणिमिति। अस्मभ्यं दातुं हिरण्यं पाणौ यस्य स हिरण्यपाणिः। तादृशं सवितारमुपगम्य ह्वय आह्वयामि। किमर्थम्। ऊतये रक्षणाय। स सविता दवतारूपः पदमस्मद्योग्यं स्थानं चेत्ता ज्ञाता।
कल्पः – “एतेनैव सशेषेण वैश्वदेव पूतभूतो गृह्णाति उपयामगृहीतोऽसि सुशर्माऽसीति ग्रहणसादनौ” इति।
पाठस्तु — सुशर्मेति। हे वैश्वदेवग्रह शोभनं यस्य एव स त्वं सुशर्माऽसि। सुष्ठु प्रतिष्ठानं पात्रे स्थितिर्यस्यासौ सुप्रतिष्ठानोऽसि। उक्षे शस्रे शस्यमानाय तुभ्यं बृहन्नमोऽस्तु। स्पष्टमन्यत्।
सावित्रग्रहं विधत्ते — “अन्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति प्रजापतिर्वा एष यदाग्रयणः प्रजानां प्रजननाय” (सं. का. ६ प्र. ५ अ. ७) इति।
आग्रयणग्रहस्य कर्मनिष्पत्तिद्वारेण प्रजापालकत्वात्प्रजापतित्वादाग्रयणाद्ग्रहणं प्रजोत्पत्तये भवति।
सादनादिकं पूर्ववन्निषेधति – “न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते नानु वषट्करोति यदनुवषट् कुर्याद्रुद्रं प्रजा अन्ववसृजेत्” (सं. का. ६ प्र. ५ अ. ७) इति।
विहितं सावित्रग्रहं प्रशंसति– “एष वै गायत्रो देवानां यत्सवितैष गायत्रियै लोके गृह्यते यदाग्रयणो यद-न्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति स्वादेवैनं योनेर्निर्गृह्णाति” (सं. का. ६ प्र. ५ अ. ७) इति।
तत्सवितुर्वरेण्यमित्याम्नातत्वाद्देवानां मध्ये सविता गायत्रीसंबद्धः। आग्रयणश्च गायत्र्याः स्थाने प्रातःसवने गृह्यते। अनेन संबन्धेनाऽऽग्रयणः सावित्रस्य स्वकीयो योनिः।
सावित्रस्य तृतीयसवनसंबन्धं विधत्ते — “विश्वे देवास्तृतीयँ सवनं नोदयच्छन्ते सवितारं प्रातःसवनभागँ सन्तं तृतीयसवनमभि पर्यणयन्ततो वै ते तृतीयँ सवनमुदयच्छन्यत्तृतीयसवने सावित्रो गृह्यते तृतीयस्य सवनस्योद्यत्यै” (सं. का. ६ प्र. ५ अ. ७) इति।
विश्वे देवाः स्वकीयं तृतीयसवनमुद्वोढं नाशक्नुवन्। प्रातःसवने भागः सवितुर्युक्तस्तस्य गायत्रत्वात्। तादृशमपि सहकारित्वेन समानीय तृतीयसवनमुदवहन्। अतोऽत्र सावित्रो युक्तः।
वैश्वदेवग्रहं विधत्ते — “सवितृपात्रेण वैश्वदेवं कलशादगृह्णाति वैश्वदेवयो वै प्रजा वैश्वदेवः कलशः सविता प्रसवानामीशे यत्सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति सवितृप्रसूत एवास्मै प्रजाः प्र जनयति” (सं. का. ६ प्र. ५ अ. ७) इति।
यद्यपि पूर्वमन्तर्यामपात्रं तथाऽपीदानीं सवितृपात्रं संपन्नम्। कलशाद्द्रोण-कलशात्। प्रजानां विश्वैर्देवैः पाल्यत्वेन वैश्वदेवत्वम्। सर्वदेवसाधारणसोमाधारत्वात्कलशस्य वैश्वदेवत्वम्।
सावित्रशेषे सोममभि गृह्णाति रेत एव तद्दधाति”(सं. का. ६ प्र. ५ अ. ७) इति।
अत एव मन्त्रे सुप्रतिष्ठान इत्येतदुपपन्नमित्याह — “सुशर्माऽसि सुप्रतिष्ठान इत्याह सोमे हि सोममभिगृह्णाति प्रतिष्ठित्यै” (सं. का. ६ प्र. ५ अ. ७) इति।
मन्त्रपदानां किंचिद्विशेषविषयत्वं दर्शयति — “एतस्मिन्वा अपि ग्रहे मनुष्येभ्यः देवेभ्यः पितृभ्यः क्रियते सुशर्माऽसि सुप्रतिष्ठान इत्याह मनुष्येभ्य एवैतेन करोति बृहदित्याह देवेभ्य एवैतेन करोति मम इत्याह पितृभ्य एवैतेन करोत्येतावतीर्वै देवतास्ताभ्य एवैनँ सर्वाभ्यो गृह्णाति” (सं. का. ६ प्र. ५ अ. ७) इति।
अपि वैतस्मिन्नेव वैश्वदेवग्रहे मन्त्रपदैर्मनुष्यादीनां सूचितत्वात्सर्वार्थमिदं ग्रहणम्। तत्र सुशर्मशब्देन समीचीनसुखार्थिनो मनुष्याः सूचिताः। बृहच्छब्देनाधिकमहिमोपेता देवाः। नमःशब्देन नमस्कारप्रियाः पितरः।
सादनमन्त्रे विश्वेभ्य इत्येतत्सर्वार्थत्वाद्युक्तमित्याह — “एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्याह वैश्वदेवो ह्येषः” (सं. का. ६ प्र. ५ अ. ७) इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके त्रयोविंशचतु-र्विंशपञ्चविंशषड्विंशानुवाकाः ॥२३॥२४॥२५॥२६॥

अत्रैव विकल्पितो द्वितीयो मन्त्र एवमाम्नायते — अदब्धेभिरिति। हे सवितस्त्वमब्धेभिरहिंसितैः पायुभिः पालकैः शिवेभिर्मंङ्गलैरनुग्रहविशेषैर्नोऽस्माकं गयं गृहं परिपाहि सर्वतो रक्ष। हिरण्यजिह्वो हिता रमणीया जिह्वा यस्य सोऽस्माकं हितं प्रियं च वदतीत्यर्थः। तादृशस्त्वं सुविताय सुष्ठुगमनाय स्वर्गप्राप्तये नव्यसे नूतनाय तदिदं कर्म रक्ष। नोऽस्माकमघशंसः पापापवादनिन्दको भवान्माकिरीशत शक्तो मा भूत्।

तृतीयो मन्त्रो विकल्पित एवमाम्नायते — हिरण्यपाणिमिति। अस्मभ्यं दातुं हिरण्यं पाणौ यस्य स हिरण्यपाणिः। तादृशं सवितारमुपगम्य ह्वय आह्वयामि। किमर्थम्। ऊतये रक्षणाय। स सविता दवतारूपः पदमस्मद्योग्यं स्थानं चेत्ता ज्ञाता।

कल्पः – “एतेनैव सशेषेण वैश्वदेव पूतभूतो गृह्णाति उपयामगृहीतोऽसि सुशर्माऽसीति ग्रहणसादनौ” इति।
पाठस्तु — सुशर्मेति। हे वैश्वदेवग्रह शोभनं यस्य एव स त्वं सुशर्माऽसि। सुष्ठु प्रतिष्ठानं पात्रे स्थितिर्यस्यासौ सुप्रतिष्ठानोऽसि। उक्षे शस्रे शस्यमानाय तुभ्यं बृहन्नमोऽस्तु। स्पष्टमन्यत्।

(अथ प्रथमकाण्डे चतुर्थप्रपाठके सप्तविंशोऽनुवाकः)।
कल्पः – “उपयामगृहीतोऽसि बृहस्पतिसुतस्य त इत्युपांशुपात्रेण पात्नीवत-माग्रयणाद्गृहीत्वा न सादयत्यग्ना३ इ पत्नीवा३ इति वषट्कृते जुहोति नानु-वषट्करोत्यपि वोपांशु वषट्कुर्यात्” इति।
पाठस्तु – बृहस्पतीति। हे इन्दो सोम तव संबन्धिनं ग्रहं गृह्णामि। कीदृशम्। पत्नीवद्देवताकम्। कीदृशस्य तव। इन्द्रियावतो वीर्यवतः। बृहस्पतिर्यजमानः। बृहतो यज्ञस्य परिपालनात्। तेन सुतस्याभिषुतस्य। हे पत्नीवन्नग्ने त्वष्ट्रा देवेन सजूः सह सोमं पिब स्वाहा हुतमिदमस्तु।
पात्नीवतस्य ग्रहस्य पात्रं विधत्ते — “प्राणो वा एष यदुपाँशुर्यदुपाँशुपात्रेण प्रथमश्चोत्तमश्च ग्रहौ गृह्येते प्राणमेवानु प्रयन्ति प्राणमनूद्यन्ति” (सं. का. ६ प्र. ५ अ. ८) इति।
उपांशोः प्राणत्वं पूर्वमुक्तम्। वाचस्पतये पवस्वेत्यनेन गृहीतः प्रथमो ग्रहः। बृहस्पतिसुतस्येति गृह्यमाणश्चोत्तमो ग्रहः। यद्यपि दधिग्रहः पूर्वभावो तथाऽपि नासौ सोमग्रहः। अदाभ्यांशू सोमग्रहावपि न तौ नित्यौ। तस्मान्नित्येषु सामग्रहेषूपांशुरेव प्रथमः। हारियोजनस्य पश्चाद्भावित्वेऽप्यग्निष्टोमसाम्नि समाप्ते सति यज्ञशेषत्वेनानुष्ठानम्। तस्मादग्निष्टोमापेक्षया पात्नीवतस्योत्तमत्वम्।तयोः प्रथमोत्तमयोरुपांशुपात्रेण ग्रहणं कुर्यात्। तथा सति प्राणमेवानुसृत्य प्रयन्ति प्रारभन्ते। उद्यन्ति समापयन्ति।
पात्नीवतग्रहं विधत्ते — “प्रजापतिर्वा एष यदाग्रयणः प्राण उपाँशुः पत्नीः प्रजाः प्र जनयन्ति यदुपाँशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति प्रजानां प्रजननाय तस्मात्प्राणं प्रजा अनु प्र जायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।
पत्नीरिति प्रथमा। प्राणमनु प्राणयुक्ताः प्रजा उत्पद्यन्ते।
विहितं ग्रहं प्रशंसति — “देवा वा इतइतः पत्नीः सुवर्गं लोकमाजिगाँसन्ते सुवर्गं लोकं प्राजानन्त एतं पात्नीवतमपश्यन्तमगृह्णत ततो वै ते सुवर्गं लोकं प्राजानन्यत्पात्नीवतो गृह्यते सुवर्गस्य लोकस्य प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ८) इति।
(देवाः) पत्नीरित इतः पात्नीवतग्रहमुपेक्ष्यान्यस्माद्ग्रहात् (स्वर्गं ज्ञातिमिच्छन्तोऽपि न प्रज्ञातवन्तः। पात्नीवतग्रहणेन तु प्रज्ञातवन्तः।) इत्येतद्ग्रहो गृह्यते।
एतद्गृहे घृतमेलनं विधत्ते — “स सोमो नातिष्ठत स्त्रीभ्यो गृह्यमाणस्तं घृतं वज्रं कृत्वाऽघ्नन्तं निरिन्द्रियं भूतमगृह्णन्तस्मात्स्त्रियो निरिन्द्रिया अदायादीरपि पापात्पुँस उपस्तितरं वदन्ति यद्घृतेन पात्नीवतँ श्रीणाति वज्रेणैवैनं वशे कृत्वा गृह्णाति”(सं. का. ६ प्र. ५ अ. ८) इति।
नातिष्ठत स्त्रीदेवताकत्वमसहमानः स्वात्मानं न प्रकाशितवान्। अघ्नन्नताड-यन्। निरिन्द्रियं भूतं निर्वीर्यं जातम्। यस्मात्स्त्रीदेवताभ्यो गृह्यमाणः सोमो निःसामर्थ्यस्तस्माल्लोके स्त्रियः सामर्थ्यरहिता अपत्येषु दायभाजो न भवन्ति। पापात्पतितादपि पुंसोऽप्युपस्तितरं क्षीणतरं स्त्रीस्वरूपं वदन्ति।
आम्नातस्य बृहस्पतिसुतस्येति मन्त्रस्य शेषं पूरयित्वा व्याचष्टे — “उपयामगृहीतोऽसीत्याहेयं वा उपयामस्तस्मादिमां प्रजा अनु प्र जायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।
उपेताः प्रजा यच्छति उत्पादधारणादिना व्यवस्थापयतीत्युपयामो भूभागविशेषः।
बृहस्पतिशब्दस्यैव प्रयोगेऽभिप्रायमाह — “बृहस्पतिसुतस्य त इत्याह ब्रह्म वै देवानां बृहस्पतिब्रर्ह्मणैवास्मै प्रजाः प्र जनयति” (सं. का. ६ प्र. ५ अ. ८) इति।
इन्दुशब्दो द्रवत्वसाम्येन रेत उपलक्षयतीत्याह — “इन्दो इत्याह रेतो वा इन्दू रेत एव तद्दधाति” (सं. का. ६ प्र. ५ अ. ८) इति।
इन्द्रियशब्देन तत्कार्यभूताः प्रजा उपलक्षन्त इत्याह — “इन्द्रियाव इत्याह प्रजा वा इन्द्रियं प्रजा एवास्मै प्र जनयति” (सं. का. ६ प्र. ५ अ. ८) इति।
अग्निशब्दपत्नीवच्छब्दयोरभिप्रायं दर्शयति – “अग्ना३ इत्याहाग्निर्वै रेतोधाः पत्नीव इत्याह मिथुनत्वाय” (सं. का. ६ प्र. ५ अ. ८) इति।
त्वष्टृशब्दप्रयोजनमाह — “सजूर्देवेन त्वष्ट्रा सोमं पिबेत्याह त्वष्टा वै पशूनां मिथुनानाँ रूपकृद्रूपमेव पशुषु दधाति” (सं. का. ६ प्र. ५ अ. ८) इति।
पात्नीवतग्रहस्य होममन्त्रे त्वष्टुः परामर्शो न युक्त इति शङ्कां वारयति — “देवा वै त्वष्टारमजिघाँसन्त्स पत्नीः प्रापद्यत तं न प्रति प्रायच्छन्तस्मादपि वध्यं प्रपन्नं न प्रति प्र यच्छन्ति तस्मात्पात्नीवते त्वष्ट्रेऽपि गृह्यते”(सं. का. ६ प्र. ५ अ. ८) इति।
यस्मात्पत्नीः शरणं गतस्तस्मात्त्वष्टा पत्नीरनुभागी भवति।
सादनस्य प्रसक्तौ तद्वारयति — “न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।
अनुवषट्कारे तूपांशुत्वगुणं विधत्ते — “नानु वषट्करोति यदनुवषट्कुर्याद्रुद्रं प्रजा अन्ववसृजेद्यन्नानुवषट्कुर्यादशा-न्तमग्नीत्सोमं भक्षयेदुपाँश्वनु वषट्करोति न रुद्रं प्रजा अन्ववसृजति शान्तम-ग्नीत्सोमं भक्षयति” (सं. का. ६ प्र. ५ अ. ८) इति।
अन्ववसृजेदनुप्राप्य सृष्टिं वारयेत्। अशान्तमनिष्टकरम्।
अग्नीन्नेष्ट्रोरध्वर्योः प्रैषमन्त्रमुत्पादयति — “अग्नीन्नेष्टुरुपस्थमा सीद नेष्टः पत्नीमुदानयेत्याहाग्नीदेव नेष्टरि रेतो दधाति नेष्टा पत्नियाम्” (सं. का. ६ प्र. ५ अ. ८) इति।
हे आग्नीध्र नेष्टुः समीपमागत्योपविश। हे नेष्टः पत्नीमुत्थाप्येहाऽऽनय। अनेन प्रैषद्वयेन रेतः प्रजोत्पादनसामर्थ्योपेतं स्थापितं भवति।
नेष्टुकारयितृकमुद्गातृकर्तृकं पत्नीविषयं दर्शनं विधत्ते — “उद्गात्रा सं ख्यापयति प्रजापतिर्वा एष यदुद्गाता प्रजानां प्रजननाय” (सं. का. ६ प्र. ५ अ. ८) इति।
पत्नीकर्तृकं पन्नेजनीसंज्ञकजलस्य प्रवर्तनं विधत्ते — “उप उप प्र वर्तयति रेत एव तत्सिञ्चति” (सं. का. ६ प्र. ५ अ. ८) इति।
प्रवर्तनाय तज्जलप्रक्षेपस्य स्थानं विधत्ते – “ऊर्णोप प्र वर्तयत्यूरुणा हि रेतः सिच्यते” (सं. का. ६ प्र. ५ अ. ८) इति।
ऊरुप्रदेशे वस्त्रापनयनं विधत्ते — “नग्नंकृत्योरुमुप प्र वर्तयति यदा हि नग्न ऊरुर्भवत्यथ मिथुनी भवतोऽथ रेतः सिच्यतेऽथ प्रजाः प्र जायन्ते” (सं. का. ६ प्र. ४अ. ८) इति।
अथ मीमांसा।
तृतीयाध्यायस्य द्वितीयपादे चिन्तितम् —
“द्विदेवशेष आदित्यस्थाल्या आग्रयणाभिधाम्।
स्थालीं प्राप्तस्ततः पात्नीवतस्य ग्रहणे सति॥
तद्भक्षणे द्विद्वाः किं सार्धं पात्नीवतेन ते।
उपलक्ष्या न वा पूर्वन्यायेनास्तूपलक्षणम्॥
अन्य आग्रयणात्पात्नीवतो नैतस्य विद्यते।
आकाङ्क्षा पूर्वदेवेषु पत्नीवानेव लक्ष्यते” इति।
ऐन्द्रवायवादयो द्विदेवत्याः। तेषां शेष आदित्यस्थालीमागच्छति। पुनरपि तस्याः स्थाल्या आग्रयणस्थालीमागच्छति। तस्या आग्रयणस्थाल्याः पात्नीवतो गृह्यते। तस्य पात्नीवतस्य भक्षण इन्द्रवायवादय उपलक्षणीयाः। पूर्वाधिकरणे यथा मित्रावरुणादिभिः सहेन्द्र उपलक्षितस्तद्वदिति प्राप्ते ब्रूमः – “यदुपांशु-पात्रेण पात्नीवतमाग्रयणाद्गृह्णाति” इत्याग्रयणपात्रस्यापादानत्वश्रवणात्ततो निःसृतस्य सोमरसस्य तत्संबन्धेऽपेते सति पश्चात्पत्नीवद्देवतायै ग्रहणं भवति। तथा सत्यत्यन्तभिन्नस्य पात्नीवतस्य पूर्वदेवेष्वाकाङ्क्षा नास्ति। पूर्वाधिकरणो-क्तस्तु पुनरभ्युन्नतिः सोम ऐन्द्रशेषेण संसृष्टः। तस्य संसृष्टस्य भक्षणे मित्राव-रुणादीनामिवेन्द्रस्यापि संबन्धो नापैतीति वैषम्यम्। तस्मात्पात्नीवतभक्षण इन्द्रवाय्वादयो नोपलक्षणीयाः।
तत्रैवान्यच्चिन्तितम् —
“सह पत्नीवता त्वष्टा तद्ग्रहे लक्ष्यते न वा।
सह त्वष्ठ्रा पिबेत्युक्तेर्देवत्वात्सोऽपि लक्ष्येत॥
सहत्वमात्रं त्वष्टुः स्यान्न पातृत्वमशब्दनात्।
चोदनाया अभावाच्च न देवोऽतो न लक्ष्यते”इति।
तस्मिन्नेव पात्नीवतग्रहे शेषभक्षणमन्त्रे पत्नीवता सह त्वष्टाऽप्युपलक्षणीयः कुतः। त्वष्टुरपि तद्देवत्वात्। तच्च होममन्त्रादवगतम्। “अग्ना३ इ पत्नीवा३: सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहा” इत्यास्मिन्मन्त्रे पत्नीवन्तमग्निं प्लुतान्तेन पदेन संवोद्य त्वष्ट्रा देवेन सह पिबेत्यभिधानात्पातृत्वेन पत्नीवत इव त्वष्टुस्तद्देवत्वम्।
ततः पत्नीवत्त्वष्टृपीतस्येत्युपलक्षणमिति प्राप्ते ब्रूमः पानकाले सहावस्थानमात्रं त्वष्टुः सजूरित्यनेन पदेन प्रतीयते न तु पातृत्वम् असंबोधितस्य त्वष्टुः पिबेत्यनेन शब्देन सामानाधिकरण्याभावात्। न च पातृसहभावमात्रेण पातृत्वं, “सहैव दशभिः पुत्रैर्भारं वहति गर्दभी” इत्यत्र पुत्राणां वोढृत्वादर्शनात्। आस्तां मन्त्रः, विधिबलात्त्वष्टुर्देवत्वमिति चेन्न। “पात्नीवतमाग्रयणाद्गृह्णाति” इत्यत्र त्वष्टुरप्रतीतेः। तस्माददेवत्वात्तवष्टा नोपलक्षणीयः।
(तत्रैवान्यच्चिन्तितम्
“पत्नीवन्तस्त्रयस्त्रिंशद्देवास्तान्मादयेत्यमी।
लक्ष्या न वा याज्ययोक्तेर्देवत्वादुपलक्षणम्॥
एकोऽग्निर्यजमानेन मादितोऽन्ये तु वह्निना।
अतोरग्नेरेव देवत्वान्नान्येषामुपलक्षणम्॥
तस्यैव पात्नीवतग्रहस्य याज्यायामग्निं संबोद्य पत्नीवन्नामधारिणस्त्रयस्त्रिंशद्दे-वान्मादयेत्यभिधीयते – “पत्नीवतस्त्रिंशतं त्रींश्च देवानुष्वधमावह मादयस्व” इति। अनुष्वधमनुप्रदानम्। अत्र हूयमानेन सोमरसेन मादनीयत्वात्त्रयस्त्रिंशतां तद्देवत्वम्। अतस्तेऽपि भक्षणे लक्षणीया इति चेत्, न। यजमानेन मादनीयस्याग्नेरेव तद्देवत्वात्। त्रयस्त्रिंशद्देवास्तु वह्निना माद्यन्त इति न तेषामत्र देवत्वम्। तस्मान्नोपलक्षणम्)॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके सप्तविंशोऽनुवाकः॥२७॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठकेऽष्टाविंशोऽनुवाकः)।
कल्पः – “परिधिषु प्रहृतेषून्नेता हारियोजनं गृह्णाति उपयामगृहीतोऽसि हरि-रसीति द्रोणकलशेन सर्वमाग्रयणं गृहीत्वा न सादयति बह्वीभिर्धानाभिः श्रीत्वा हरीः स्थ हर्योर्धाना इति वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम्”इति।
पाठस्तु — हरिरसीति। हे सोम त्वं हरिरसि हरितवर्णोऽसि। हरितमश्वं युनक्तीति हरियोजन इन्द्रस्तस्य संबन्धी हारियोजनः। इन्द्रदेवताक इत्यर्थः। हर्योरश्वयोः स्थाता हरिभ्यामश्वाभ्यां युक्ते रथे तिष्टतीत्यर्थः। यद्यपीन्द्र एव रथे तिष्ठति तथाऽपि तदीयत्वात्सोमोऽपि तिष्ठतीत्युपचर्यते। इन्द्रेण पेयत्वादिन्द्राभेदेन वज्रस्य पोषकः। पृश्निरन्नं तस्य प्रेता यागसाधनद्वारेण प्रेरयिता। हे सोम देव तस्य ते तादृशस्य तव संबन्धिनं ग्रहं गृह्णामि। कीदृशम्। हरिवन्तमिन्द्रदेवताकम्। कीदृशस्य। इष्टयजुषः। इषं यज्ञसाधनत्वेन प्रयुक्तं ग्रहणसादनादिमन्त्ररूपं यजुर्यस्य सोऽयमिष्टयजुः। स्तुतास्त्रिवृत्पञ्चदशसप्तदशैकविंशनामकाः स्तोमा यस्यासौ स्तुतस्तोमः। शस्तानि उक्थानि प्रउगाज्यनिष्केवल्यमरुत्वतीयवैश्वदेवाग्निमारुतनामकानि शस्त्राणि यस्यासौ शस्तोक्थः। भृष्टास्तण्डुला धानाः। हे धाना यूयं हर्योरिन्द्ररथवाहकाश्वयोः सम्बन्धित्वेन हरीर्हरिशब्दार्थेन रूढाः स्थ। सोमेन मिश्रितत्वात्सहसोमाः स्थ। तादृशमिदं हविरिन्द्राय स्वाहा हुतमस्तु।
हारियोजनग्रहविधिमर्थवादेनोन्नयति — “इन्द्रो वृत्रमहन्तस्य शीर्षकपालमुदौब्जत्स द्रोणकलशोऽभवत्तस्मात्सोमः सम-स्रवत्स हारियोजनोऽभवत्” (सं. का. ६ प्र. ५ अ. ९) इति।
उदौब्जदुत्तानमभवत्। तस्माद्वृत्रशिरसो निष्पन्नाद्द्रोणकलशात्सृतः सोमरसो हारियोजनोऽभवत्। तस्माद्द्रोणकलशेन हारियोजनं गृह्णीयात्।
धानामेलनं विधत्ते — “तं व्यचिकित्सज्जुहवानी३ मा हौषा३मिति सोऽमन्यत यद्धोष्याम्यामँहोष्यामि यन्न होष्यामि यज्ञवेशसं करिष्यामीति तमध्रियत होतुँ सोऽग्निरब्र-वीन्न मय्यामँ होष्यसीति तं धानाभिरश्रीणात्तँ शृतं भूतमजुहोद्यद्धानाभिर्हारि योजनँ श्रीणाति शृतत्वाय शृतमेवैनं भूतं जुहोति” (सं. का. ६ प्र. ५ अ. ९) इति।
तं हारियोजनं ग्रहं प्रति। आममपक्वम्। यज्ञवेशसं यज्ञविघातम्। स इन्द्रस्तं ग्रहं होतुमध्रियत निश्चयमकरोत्। न होष्यसि मा हौषीः। शृतं भूतं पक्वं जातम्।
धानानां बाहुल्यं विधत्ते — “बह्वीभिः श्रीणात्येतावतीभिरेवास्यमुष्मिल्ँ लोके कामदुघा भवन्त्यथो खल्वा-हुरेता वा इन्द्रस्य पृश्नयः कामदुघा यद्धारियोजनीरिति तस्माद्बह्वीभिः श्रीणी-यात्” (सं. का. ६ प्र. ५ अ. ९) इति।
संख्यया यावत्यो धानास्तावत्यो यजमानस्य स्वर्गे कामधेनवो भवन्ति। किंच हारियोजनीर्धाना इन्द्रस्य कामधेनवः। पृश्नयोऽल्पतनवः।
सवनीयस्य पशोः परिधिषु प्रहृतेषु हारियोजनकाल इत्येतद्विधत्ते — “ऋक्सामे वा इन्द्रस्य हरी सोमपानौ तयोः परिधय आधनं यदप्रहृत्य परि-धीञ्जुहुयादन्तराधानाभ्यां घासं प्र यच्छेत्प्रहृत्य परिधीञ्जुहोति निराधानाभ्यामेव घासं प्र यच्छति” (सं. का. ६ प्र. ५ अ. ९) इति।
ऋक्सामवेदात्मकाविन्द्रस्याश्वौ। तावप्यत्र सोमं पिबतः। अत एव हर्योर्धाना इत्युक्तम्। सवनीयपश्वङ्गभूता ये परिधयोऽग्निं परित आवृत्य तिष्ठन्ति ते तयो-रश्वयोराधानम्। आधीयते मुखे प्रक्षिप्यतेऽश्वं नियन्तुमित्याधानं खलीनम्। मुखस्यान्तः स्थितमाधानं ययोरश्वयोस्ताभ्यामन्तराधानाभ्याम्। परिधिप्रहरणादूर्ध्वं होमे निराधानत्वात्सुखेनैव घासमत्तुं शक्यते।
नात्रार्ध्वोहोमः किंतून्नेतुरित्यमुमर्थं विधत्ते — “उन्नेता जुहोति यातयामेव ह्येतर्ह्यध्वर्यु स्वगाकृतो यदध्वर्युर्जुहुयाद्यथा विमुक्तं पुनर्युनक्ति तादृगेव तत्” (सं. का. ६ प्र. ५ अ. ९) इति।
एतस्मिन्कालेऽध्वर्युर्यस्मात्स्वगाकृतः स्वाधीनगतिः कृतः प्रधानग्रहाणां समाप्तत्वेन पारतन्त्र्याभावात्तस्मादयं गतसाररूप इव। तथा सत्यध्वर्योर्होमे विमुक्तस्य बलीवर्दस्य श्रान्तस्य पुनः शकटे योग इव भवति।
गृहीतस्य हारियोजनस्य होमात्पूर्वं शिरसि धारणं विधत्ते - “शीर्षन्नधिनिधाय जुहोति शीर्षतो हि स समभवत्” (सं. का. ६ प्र. ५ अ. ९) इति।
अत्र सूत्रम्– “बह्वीभिर्धानाभिः श्रीत्वा शीर्षन्नधिनिधायोपनिष्क्रम्य”
होमकालेष्वाश्रावणदेशादीषत्पुरतो वलनं कृत्वा होतव्यमिति विधत्ते — “विक्रम्य जुहोति विक्रम्य हीन्द्रो वृत्रमहन्त्समृद्ध्यै” (सं. का. ६ प्र. ५ अ. ९) इति।
भक्षणकाले हारियोजनधानानां मानसं चर्वणं विधत्ते — “पशवो वै हारियोजनीर्यत्संभिन्द्यादल्पा एनं, पशवो भुञ्जन्त उप तिष्ठेरन्यन्न संभिन्द्याद्बहव एनं पशवोऽभुञ्जन्त उप तिष्ठेरन्मनसा सं बाधत उभयं करोति बहव एवैनं पशवो भुञ्जन्त उप तिष्ठन्ते” (सं. का. ६ प्र. ५ अ. ९) इति।
पशुप्राप्तिहेतुत्वाद्धानाः पशवः। संभिन्द्याद्दन्तैः खण्डयेत्। तथा सति कतिचिदेव पशव एनं यजमानं क्षीरदानादिभिः पालयन्ति। मानसचर्वणे तु संभेदनमसंभेदनं चेत्युभयस्य कृतत्वात्पशूनां नाल्पत्वं नापि क्षीरादिराहित्यम्।
उन्नेतृहस्तगतं हुतशेषं सर्वे भक्षयितुमुन्नेतुरनुज्ञामपेक्षेरन्निति विधत्ते – “उन्नेतर्युपहवमिच्छन्ते य एव तत्र सोमपीथस्तमेवाव रुन्धते” (सं. का. ६ प्र. ५ अ. ९) इति।
सर्वभक्षितावशेषाणां द्रोणकलशगतसोमानां निनयनं विधत्ते — “उत्तरवेद्यां नि वपति पशवो वा उत्तरवेदिः पशवो हारियोजनीः पशुष्वेव पशून्प्रति ष्ठापयन्ति” (सं. का. ६ प्र. ५ अ. ९) इति।
ग्रहहोमे परिसमाप्ते सति ग्रहान्प्रशंसति — “ग्रहान्वा अनु प्रजाः पशवः प्र जायन्ते” (सं. का. ६ प्र. ५ अ. १०) इति।
एतदेव विस्पष्टयति — “उपाँश्वन्तर्यामावजावयः शुक्रामन्थिनौ पुरुषा ऋतुग्रहानेकशफा आदित्यग्रहं गावः” (सं. का. ६ प्र. ५ अ. १०) इति।
आदित्यग्रहस्य गवां च सादृश्यप्रकटनेन ग्रहमनु गवां जन्मोपपादयति — “आदित्यग्रहो भूयिष्ठाभिग्भिर्गृह्यते तस्माद्गावः पशूनां भूयिष्ठाः” (सं. का. ६ प्र. ५ अ. १०) इति।
कदा चन स्तरीरसीत्यादिका ऋचो भूयिष्ठाः।
उपांशुग्रहमनु जातानामजानां ग्रहेण सह त्रित्वसाम्यं दर्शयति — “यत्त्रिरुपाँशुँ हस्तेन विगृह्णाति तस्माद्द्वौ त्रीनजा जनयति” (सं. का. ६ प्र. ५ अ. १०) इति।
द्वौ वा त्रीन्वा न तु त्रिभ्योऽधिकमपत्यं सा सह जनयति।
यस्मादन्तर्यामग्रहे संकोचसंख्याविशेषो न श्रुतस्तस्मात्तमनु जायमानानामवीनां भूयिष्ठत्वं युगपद्युक्तनित्याह — “अथावयो भूयसीः” (सं. का. ६ प्र. ५ अ. १०) इति।
अथ कथंचिदाग्रयणसोमः क्षीयेत तदा द्रोणकलशात्तद्ग्रहणं विधत्ते — “पिता वा एष यदाग्रयणः पुत्रः कलशो यदाग्रयण उपदस्येत्कलशाद्गृ-ह्णीयाद्यथा पिता पुत्रं क्षित उपधावति तादृगेव तत्” (सं. का. ६ प्र. ५ अ. १०) इति।
प्रथमोत्पन्नत्वादाग्रयणः पिता। पश्चाद्भावितया कलशः पुत्रः। क्षितः क्षीणवृत्तिः। उपधावति जीवनार्थमुपसर्पति।
कलशसोमक्षये वैपरीत्यं विधत्ते — “यत्कलश उपदस्येदाग्रयणाद्गृह्णीयाद्यथा पुत्रः पितरं क्षित उपधावति तादृगेव तत्” (सं. का. ६ प्र. ५ अ. १०) इति।
कलशन्यायं ग्रहेऽपि दर्शयति — “आत्मा वा एष यज्ञस्य यदाग्रयणो यद्ग्रहो वा कलशो वोपदस्येदाग्रय-णाद्गृह्णीयादात्मन एवाधि यज्ञं निष्करोति” (सं. का. ६ प्र. ५ अ. १०) इति।
यज्ञमध्यवर्तित्वादाग्रयणो यज्ञस्याऽऽत्मा दृष्टान्तत्वेन कलशस्य पुनरुपादानम्। नष्टं यज्ञमनेन ग्रहणेनाऽऽत्मन उपरि पुनः संदधाति।
अथ स्थाल्या होमसाधनत्वाभावेन तां निन्दन्निव होमसाधनं दारुपात्रं प्रशंसति — “अविज्ञातो वा एष गृह्यते यदाग्रयणः स्थाल्या गृह्णाति वायव्येन जुहोति तस्माद्गर्भेणाविज्ञातेन ब्रह्महा” (सं. का. ६ प्र. ५ अ. १०) इति।
आ वायो भूषेत्यादिग्रहणमन्त्रेषु यथा देवता स्वानामविशेषेण विज्ञायते न तथा ये देवा दिव्येकादश स्थेत्यत्र, नामविशेषाश्रुतेः। तस्मादविज्ञात आग्रयणः स्थाल्या मृन्मय्या गृह्णात्येव न तु जुहोति। वायव्येन तु दारुपात्रेण जुहोति। यस्माद्ये देवा इतिमन्त्रोक्ताविज्ञातनामकांस्त्रयस्त्रिंशतो देवानुद्दिश्य स्थाल्या गृहीतः सोमो ग्रहणमात्रेण तद्देवतातृप्तावपि होमाभावत्परित्यक्त इव तस्माल्लोकेऽप्यविज्ञातेन गर्भेण ब्रह्महा भवति। प्रोषिते भर्तरि जारजन्यो गर्भो भर्तारं प्रत्यविज्ञातस्तेन गर्भेणोत्पन्नं ब्रह्म जहाति परित्यजतीति ब्रह्महा। अविज्ञातयोर्गर्भाग्रयणयोः परित्यागस्तुल्यः। तं च स्थालीगतं सोमं पुनर्दारुमयेऽन्तर्यामपात्रे सवित्रर्थं गृहीत्वा जुहोति। ततो दारुपात्रं प्रशस्तम्।
प्रकारान्तरेण दारुपात्राणि प्रशंसति — “अवभृथमव यन्ति परा स्थालीरस्यन्त्युद्वायव्यानि हरन्ति तस्मात्स्त्रियं जातां पराऽस्यन्त्युत्पुमाँसँ हरति” (सं. का. ६ प्र. ५ अ. १०) इति।
यदाऽवभृथं गच्छन्ति तदानीमाग्रयणोक्थ्यध्रुवादित्यस्थालीश्चतस्रो वेद्यामेव परास्यन्ति परित्यजन्ति। वायव्यानि दारुपात्राण्युद्धरन्त्यवभृथदेशे नयन्ति। तस्मात्स्थालीवल्लोकेऽपि स्त्रियं दुहितरं विवाहेन वरकुले परित्यजन्ति। पुमांसं वायव्यवदुद्धरन्ति सम्यक्पोषयन्ति।
पुरोरुचं ग्रहणं सादनं च क्रमेण प्रशंसति — “यत्पुरोरुचमाह यथा वस्यस आहरति तादृगेव तद्यद्ग्रहं गृह्णाति यथा वस्यस आहृत्य प्राऽऽह तादृगेव तद्यत्सादयति यथा वस्यस उपनिधायापक्रामति तादृगेव तत्” (सं. का. ६ प्र. ५ अ. १०) इति।
उपयामगृहीतोऽसीत्येतस्मात्पूर्वं पठ्यमानत्वादा वायो भूषेत्यादिका पुरोरुक्। वस्यसे वसुमत्तमाय राजामात्यादिकाय। यथा लोके धनिकायोपायनमाहृत्यैतदेव ममेत्युक्त्वा पुरतो निधाय गच्छन्ति तथा पुरोरुगादित्रयं द्रष्टव्यम्।
यजुःसामनी निन्दन्निव पुरोरुचं प्रशंसति — “यद्वै यज्ञस्य साम्ना यजुषा क्रियते शिथिलं तद्यदृचा तद्दृढं पुरस्तादुपयामा यजुषा गृह्यन्त उपरिष्टादुपयामा ऋचा यज्ञस्य धृत्यै” (सं. का. ६ प्र. ५ अ. १०) इति।
यज्ञसंबन्धि यदङ्गं यजुःसामभ्यां क्रियते तद्धि शिथिलमिव। वेदेषु सर्वत्र विश्वासाय तदेतदृचाऽभ्युक्तमित्यृच एवोदाहरणात्। उपयामगृहीतोऽस्यन्तर्यच्छ मघवन्नित्यादिमन्त्रैर्गृह्यमाणाः पुरस्तादुपयामाः। आ वायो भूषेत्यादिभिस्तूपरिष्टादुपयामाः। तत्र यजुषो दार्ढ्यार्थमुपयामपूर्वत्वम्। ऋचस्तु स्वयमेव दृढत्वान्न तत्पूर्वत्वम्। तदुभयं यज्ञस्य धृत्यै भवति।
सोमपात्राणि प्रशंसितुं द्वेधा विभजति — “प्रान्यानि पात्राणि युज्यन्ते नान्यानि” (सं. का. ६ प्र. ५ अ. १०) इति।
कानिचित्पात्राणि प्रकर्षेण युज्यन्तेऽनुष्ठीयन्ते पुनरावर्त्यन्त इत्यर्थः। यथा - उपांश्वन्तर्यामपात्रयोः प्रातःसवने प्रयुक्तयोः पुनस्तृतीयसवनेऽपि प्रयोगः। “यदुपाँशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति” “अन्तर्यामपात्रेण सावित्रमाग्र-यणाद्गृह्णाति” इत्याम्नातत्वात्। अन्यानि तु नाऽऽवर्त्यन्ते किंतु सकृदेवा-नुष्ठीयन्ते। तद्यथा — द्विदेवत्यग्रहादीनि तेषु सकृदनुष्ठितेषु स्वर्गजयः।
आवृत्तेस्त्वेतल्लोकजय इति प्रशंसति — “यानि पराचीनानि प्रयुज्यन्तेऽमुमेव तैर्लोकमभि जयति पराङिव ह्यसौ लोको यानि पुनः प्रयुज्यन्त इममेव तैर्लोकमभि जयति पुनः पुनरिव ह्ययं लोकः” (सं. का. ६ प्र. ५ अ. १०) इति।
पराचीनान्यनिवृत्तानि। स्वर्गः पराङिवानावृत्त इव। स्वर्गे स्थितस्यापि पुनर्जन्मान्तरेऽपि स्वर्गं प्राप्तुमुद्योगासंभवात्। मनुष्यलोके स्थितस्य पुनरेतदर्थ-मुद्यमोऽस्तीति तस्य पौनःपुन्यम्।
प्रकारान्तरेण प्रशंसति — “प्रान्यानि पात्राणि युज्यन्ते नान्यानि यानि पराचीनानि प्रयुज्यन्ते तान्यन्वोषधयः परा भवन्ति यानि पुनः प्रयुज्यन्ते तान्यन्वोषधयः पुनरा भवति” (सं. का. ६ प्र. ५ अ. १०) इति।
फलपाके विनाशः पराभवः। संवत्सरान्ते तदुत्पक्तिः पुनराभवनम्।
प्रकारान्तरेण प्रशंसति — “प्रान्यानि पात्राणि युज्यन्ते नान्यानि यानि पराचीनानि प्रयुज्यन्ते तान्यन्वारण्याः पशवोऽरण्यमप यन्ति यानि पुनः प्रयुज्यन्ते तान्यनु ग्राम्याः पशवो ग्राममुपावयन्ति” (सं. का. ६ प्र. ५ अ. ११) इति।
आरण्या व्याघ्रादयोऽरण्यमेवो(वा)पयन्ति न कदाचिदपि ग्रामम्। ग्राम्यास्तु गवादयस्तृणमत्तुमरण्यं गत्वा पुनर्ग्रामं प्रत्यागच्छन्ति।
शस्त्रं प्रशंसति — “यो वै ग्रहाणां निदानं वेद निदानवान्भवत्याज्यमित्युक्थं तद्वै ग्रहाणां निदानं यदुपाँशु शँसति तदुपाँश्वन्तयार्मयोर्यदुच्चैस्तदितरेषां ग्रहाणामेतद्वै ग्रहाणां निदानं य एवं वेद निदानवान्भवति” (सं. का. ६ प्र. ५ अ. ११) इति।
आज्यमित्युक्थमाज्यप्रउगादिनामकं शस्त्रं, प्रशंसाद्वारा ग्रहानुष्ठानप्रयोजक-त्वाद्ग्रहाणां निदानं मूलकारणम्। तदेतद्यो वेद स निदानवांश्चिरजीविभिर्मा-तापितृस्वामिभिः संयुक्तो भवति। शस्त्रेष्वषि यदुपांशु शस्यते तद्द्वयोर्ग्रहयो-र्निदानं, यदुच्चैस्तदितरेषां सर्वेषामित्येवं विशेषं जानतोऽपि तदेव फलम्।
स्थालीवायव्यरूपं द्वंद्वं प्रशंसति — “यो वै ग्रहाणां मिथुनं वेद प्र प्रजया पशुभिर्मिथुनैर्जायते स्थालीभिरन्ये ग्रहा गृह्यन्ते वायव्यैरन्य एतद्वै ग्रहाणां मिथुनं य एवं वेद प्र प्रजया पशुभिर्मिथुनैर्जायते” (सं. का. ६ प्र. ५ अ. ११) इति।
आग्रयणोक्थ्यादिग्रहाः स्त्रीरूपाभिर्मृन्मयस्थालीभिर्गृह्यन्ते। उपांश्वन्तर्यामा-दिग्रहास्तु पुरुषरूपैर्वायव्यैः। वेदने तु मनुष्यमिथुनैः पशुमिथुनैश्च प्रजायते युक्तो भवति। य एवं वेदेति पुनरभिधानमुपसंहारार्थम्।
“इन्द्रस्त्वष्टुः सोममभीषहाऽपिबत्स विष्वङ्व्यार्च्छत्स आत्मन्नारमणं नाविन्दत्स एताननुसवनं पुरोडाशानपश्यत्तान्निरवपत्तैर्वै स आत्मन्नारमणमकुरुत तस्माद-नुसवनं पुरोडाशा निरुप्यन्ते तस्मादनुसवनं पुरोडाशानां प्राश्नीयादात्मन्नेवाऽऽरमणं कुरुते नैनँ सोमोऽति पवते” (सं. का. ६ प्र. ५ अ. ११) इति।
इन्द्रेण विश्वरूपाभिधे त्वष्टुः पुत्रे हते सति कुपितस्त्वष्टा विनेन्द्रं सोमयागं कर्तुं प्रवृत्तस्तदानीमिन्द्रोऽभीषहा बलादेवापिबत्। स इन्द्रः सहसा पीतस्य सोमस्योदरमध्य इतस्ततो विधावनाद्व्यर्च्छद्विविर्धार्तिमाप्नोत्। तेनाऽऽर्तः स इन्द्रः स्वात्मनि सुखं नालभत। ततस्त्रिष्वपि सवनेषु सवनीयपुरोडाशैः सुखं प्राप्तवान्। तस्मात्पुरोडाशान्निरुप्य तच्छेषभक्षणेन सुखं भवति। सोमश्चैनं नातिपवते नेतस्ततः संचारेण बाधते।
तेषु सवनीयपुरोडाशेषु पञ्चद्रव्यविधिमर्थवादेनोन्नयति — “ब्रह्मवादिनो वदन्ति नर्चा न यजुषा पङ्क्तिराप्यतेऽथ किं यज्ञस्य पाङ्क्तत्वमिति धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पङ्क्तिराप्यते तद्यज्ञस्य पाङ्क्तत्वम्” (सं. का. ६ प्र. ५ अ. ११) इति।
पञ्चाक्षरा पङ्क्तिरित्याम्नानात्पञ्चसंख्यायोगेन पाङ्क्तत्वं वक्तव्यम्। ऋचो यजुषो वा नास्ति काचिन्नियता पञ्चसंख्या। न च मा भूत्पाङ्क्तत्वमिति वाच्यम्। पाङ्क्तो यज्ञ इति सर्वत्रोद्घोषणात्। अतः किं पाङ्क्तत्वमिति प्रश्नः। धानादिद्रव्येषु नियतया पञ्चसंख्यया पाङ्क्तत्वामित्युक्तरम्। (भृ) ष्टा यवा धानाः। आज्यसंयुक्ताः सक्तवः करम्भः। व्रीहिजन्या लाजाः परिवापः। पिष्टविकारःपुरोडाशः। क्षीरविकारः पयस्या।
अथ मीमांसा।
तृतीयाध्यायस्य पञ्चमपादे चिन्तितम् —
“किं स्याच्चमसिनामेव हारियोजनभक्षणम्।
सर्वेषां वाऽग्रिमस्तेषां पूर्ववाक्येन(ण) संनिधेः॥
लिप्सन्ते सर्व एवेति हारियोजनवाक्यतः।
ग्रावस्तुतोऽप्यस्ति भक्षश्चमसित्वमकारणम्” इति।
हरिरसि हारियोजन इत्यनेन मन्त्रेण गृह्यमाणो ग्रहो हारियोजनः। होतृ-ब्रह्मादयश्चमसिनः। यस्तु चतुर्णां होतॄणां मध्ये चतुर्थो ग्रावस्तुन्नामकोऽस्ति नासौ चमसी। तत्र चमसिनामेव हारियोजनभक्षणम्। कुतः। यथाचमसमन्यां श्चमसांश्चमसिनो भक्षयन्ति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्त इत्यत्र पूर्ववाक्ये चमसिनां संनिहितत्वेनोत्तरवाक्ये सर्वशब्देन तेषामेवाभिधातव्यत्वात्। अतो नास्ति ग्रावस्तुतस्तत्र भक्ष इति प्राप्ते ब्रूमः - अथशब्देनैवकारेण च चमसिमात्रशङ्कामपोह्य वाक्येन विहितस्य सर्वभक्षणस्य संनिधिमात्रेण संकोचायोगादस्ति ग्रावस्तुतोऽपि भक्षः। तस्माच्चमसित्वं च भक्षणे कारणम्।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठकेऽष्टाविंशोऽनुवाकः ॥२८॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशत्रिंशैकत्रिंशद्वात्रिंशत्रयस्त्रिंशचतु–स्त्रिंशपञ्चत्रिंशषट्त्रिंशानुवाकाः)
कल्पः -त्रीनग्निष्टोमेऽतिग्राह्यान्गृह्णात्याग्नेयमैन्द्रं सौर्यमित्यग्न आयूँष्युत्ति-ष्ठंस्तरणिरिति ग्रहणसादनाः- इति।
प्रथममन्त्रपाठस्तु — अग्न इति। हेऽग्ने त्वं भक्तानामायूंषि पवसे शोधयसि वर्धयसीत्यर्थः। अस्माकमिषमन्नमूर्जं बलमासुव प्रयच्छ। दुच्छुनां वैरिसेनामारे दूरं यथा स्या-त्तथा बाधस्व। स्पष्टमन्यत्।
द्वितीयमन्त्रपाठस्तु — उत्तिष्ठन्निति। हे इन्द्र सुतं सोमं पीत्वौजसा बलेन सहोत्तिष्ठंश्चमू भक्षणक-रणभूते शिप्रे हनू अवेपयश्चालय। तच्चालनलिङ्गेन तुष्टमात्मानमस्माकं दर्शये-त्यर्थः। स्पष्टमन्यत्।
तृतीयमन्त्रपाठस्तु तरणिरित्यादिरारण्यके समाम्नातत्वान्नात्र व्याख्येयः।
कल्पः-आग्रयणग्रहं गृहीत्वाऽथ षोडशिनं गृह्णामीति परिमृज्याऽऽसाद-यति एष ते योनिरिन्द्राय त्वा षोडशिन इतिः- इति।
पाठस्तु - आ तिष्ठेति। हे वृत्रहन्निन्द्र तव हरी अश्वौ ब्रह्मणा मन्त्रेण युक्ता रथयोजितौ। अतो रथमातिष्ठाऽऽरोह। अयं ग्रावा वग्नुना वचनेनाभिषवध्वनिना त्वन्मनोऽऽभिषुते सोमेऽर्वाचीनमभिमुखं करोतु। षोडशसंख्यापूरकं स्तोत्रं च यस्येन्द्रस्यास्त्यसौ षोडशी। स्पष्टमन्यत्।
अस्मिन्नेव ग्रहे पञ्च मन्त्रा विकल्पन्ते। तत्र प्रथमः- इन्द्रमिदिति। ऋषीणां मन्त्राणां स्तुतीश्च मानुषाणां यज्ञं चोपेत्याप्रतिधृष्ट-शवसं केनाप्यतिरस्कृतबलमिन्द्रमेव हरी रथेन वहतः।
अथ द्वितीयः - असावीति। हे शविष्ठातिशयेन बलवन्निन्द्र ते त्वदर्थं सोमोऽसावि सुतः। हे धृष्णो धाष्टर्ययुक्ताऽऽगह्यागच्छ। इन्द्रियशक्तिस्त्वामापृणक्तु आपुरयतु। किमिव। रश्मिभिः स्वीकृतं रज उदकं सूर्यमिव। एतच्चान्यत्राऽऽम्नातम्-आपः सूर्ये समाहिताः। अभ्राण्यपः प्रपद्यन्ते- इति।
अथ तृतीयः - सर्वस्येति। सर्वस्य भूतजातस्य प्रतिशीवर्याभिमुख्यशायिनी भूमिस्त्वामि-न्द्रोपस्थ उपरितनस्थान आधिताऽऽदधातु। हे भूमेऽस्मा इन्द्राय स्योना सुखप्रदा सुषदा शोभननिवासस्थाना च भव। अस्मै यजमानाय सप्रथा अतिविस्तृता सती शर्म सुखं प्रयच्छ।
अथ चतुर्थः - महाँ इन्द्र इति। स्पष्टोऽर्थः।
अथ पञ्चमः - सजोषा इति। हे वृत्रहञ्शूरेन्द्र सजोषाः प्रीतिसहितो मरुद्भिर्युक्ततया सगणस्त्वं यजमानभक्तिं विद्वान्सोमं पिब। अस्माकं मारणोद्यताञ्शत्रून्मारय। इतरान्मृधो वैरिणोऽपनुदस्व। अनन्तरमस्माकं सर्वतो भयराहित्यं कुरु।
अत्र विनियोगसंग्रहः -
“ऐन्द्रवायव आ वायो इन्द्र तस्म पुनग्रहः।
मैत्रावरुणकेयं वामाश्विन द्वौ विकल्पितौ॥१॥
शुक्रे मन्थिनि चैकैकः प्रागिवाऽऽग्रयणे द्वयम्।
एकैक उक्थ्यध्रुवयोश्चतुर्दश तु मन्त्रकाः॥२॥
ऋतुग्रहेषूपयामः सर्वेष्वादौ प्रयुज्यते।
ऐन्द्राग्नो वैश्वदेवश्च त्रयो मारुत्वतग्रहाः॥३॥
वैकल्पिकौ द्वौ माहेन्द्रे कदाऽऽदित्यग्रहस्तथा।
कदा दधिग्रहस्तत्र यज्ञः सोमं पुनः क्षिपेत्॥४॥
विव ग्राव्णाऽऽलोडयेद्या काम्यो दध्नः प्रतिश्रयः।
त्रयो विकल्प्याः सावित्रे वैश्वदेवे परो ह्यसौ॥५॥
पात्नीवतग्रहस्यास्य होमोऽग्ना इति मन्त्रतः।
हारियोजननाम्नस्तु हरीः स्थेति हुतिर्भवेत्॥६॥
अग्नेऽतिग्राह्य आग्नेय उत्तिष्ठन्ग्राह्य ऐन्द्रकः।
षड्विकल्प्या षोडशिनि ग्रहकाण्ड समाप्यतेः॥७॥ इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशमारभ्य षट्त्रिंशपर्यन्ता अष्टानुवाकाः॥२९॥३०॥ ३१॥ ३२॥ ३३॥ ३४॥ ३५॥ ३६॥

अथ सूर्योपस्थाने विनियुक्तं मन्त्रमाह -
हे सूर्य त्वं तरणिरन्धकारोत्तरणहेतुः, विश्वदर्शतो विश्वैः सर्वैः प्राणिभिर्दर्शनीयः ज्योतिष्कृत्सर्वस्मिल्ँ लोके प्रकाशकृच्चासि । विश्वं सर्वं जगद्रोचनं दीप्यमानं यथा भवति तथाऽऽभासि सर्वतः प्रकाशयसि । अग्निष्टोमे योऽयमतिग्राह्यरूपो ग्रहोऽस्ति तादृश हे ग्रह भ्राजस्वते दीप्तियुक्ताय यथोक्तमहिमोपेताय सूर्याय त्वां गृह्णामि, अतस्त्वं तदर्थमुपयामगृहीत उपयामेन पृथिवीकार्येण पात्रेण गृहीतोऽसि । एष हविर्धानमण्डपस्थः खरप्रदेशस्ते तव योनिः स्थानम्, अतो भ्राजस्वते दीप्तिमते सूर्याय, त्वां तत्र प्रदेशे सादयामि, ईदृशोऽयमतिग्राह्यो यस्मै सूर्याय गृह्यते किमु वक्तव्यं तस्य माहात्म्यमित्येवमुपस्थानकाले स्तुत्यर्थो ग्रहोपन्यासो लिङ्गबलात्तस्यातिग्राह्यस्य ग्रहणेऽप्ययं मन्त्रो विनियुज्यते ॥

प्रेतदाहस्थानसमीपेऽवटं खात्वा जलं प्रक्षिप्य तेन सेचनं संगाहनं तत्र विनियुक्तां सौमीमृचमाह -
हे मदिन्तमातिशयेन हर्षयुक्त सोम विश्वाभिरूतिभिः सर्वप्रकारैरस्मदीयरक्षणैराप्यायस्व सर्वतो वर्धस्व । नोऽस्मान्प्रति सप्रथस्तमोऽतिशयेन प्रथायुक्तो भव ॥

अथावगाहने विनियुक्तामृचमाह -
ये मर्त्यासो मनुष्या व्युच्छन्तीं प्रभातं कुर्वतीमुषसमुषःकालदेवतां पूर्वतरामितरेभ्योऽत्यन्तं पूर्वामपश्यन्पश्यन्ति, ते मनुष्या ईयुस्तां देवतां प्राप्नुवन्ति । (सा)अस्माभिरू नु अस्माभिरपि नु क्षिप्रं प्रतिचक्ष्याऽभूत्प्रत्यक्षं दर्शनीयाऽभूत् । येऽन्येऽप्यपरीष्वपररात्रिषु रात्रीणामवसानेषु पश्यान्पश्यन्ति ते ओ यन्ति तेऽपि तां देवतां सर्वथा प्राप्नुवन्ति ॥

अथोपोषणे दाहे विनियुक्तानि यजूंष्याह -
प्रेतं दग्धुं या समित्प्रक्षिप्यते तां संबोध्योच्यते - हे समित्वामस्य प्रेतस्योपरि सादयामि स्थापयामि । ज्योतिष्मतीमित्यादिभिर्विशेषणैस्तत्समिन्निष्ठाया ज्वालाया उत्तरोत्तराभिवृध्याऽवस्थाविशेषा उच्यन्ते । अत्यल्पप्रकाशोपेता ज्योतिष्मती । ईषदधिकप्रकाशोपेता ज्योतिष्कृत् । ततोऽप्यधिकप्रकाशोपेता ज्योतिर्वित् । एवं भास्वत्यादिषु योजनीयम् । मल्मलेति दह्यमानकाष्ठध्वनेरनुकरणम् । लिङ्गानुसारेणायं मन्त्र इष्टकोपधानेऽपि विनियोक्तव्यः ॥

अथ स्रुवाहुतिमन्त्रा उच्यन्ते । तत्र द्वादश मन्त्रानाह -
प्रेतस्य यमलोके बाधका देवताविशेषाः प्रयासादिशब्दवाच्याः, तन्निर्वचनानि तु यतायोगमुन्नेयानि । तस्यै तस्यै देवतायै स्रुवेण गृहीतमिदमाज्यं स्वाहुतमस्तु ॥

अथ राजगवीहविषो होमार्थोऽयमनुवाक उच्यते । तत्र नव मन्त्रानाह -
अत्र द्वितीयान्ताश्चित्तादिशब्दा देवताविशेषवाचिनः । तृतीयान्ताः संतानादिशब्दाः पशोर्मांसविशेषवाचिनः । संतानाख्येन मांसविशेषेण चित्ताख्यं देताविशेषं परितोषयाम इति वाक्यशेषः । एवं सर्वत्र योजनीयम् । तदेवमस्मिन्प्रपाठके ब्रह्मचितिब्रह्ममेधयोरङ्गभूता मन्त्रा उक्ताः । चातुर्होत्रियचितिर्ब्रह्मचितिः । ब्रह्म वै चतुर्होतार इत्याम्नातत्वात् । तस्यां ब्रह्मचितौ चित्तिः स्रुगित्यादयः सुवर्णं घर्ममित्येवमन्ता अनुवाका विनियुक्ताः । ब्रह्ममेधे तु कृत्नोऽपि प्रपाठको विनियुक्तः । आहिताग्नेर्यो दहनादिसंस्कारः सोऽयं पितृमेधः । आहिताग्नित्वे सति यो ब्रह्मतत्वं जानाति तस्य दहनादिसंस्कारो ब्रह्ममेध इत्युच्यते । तस्मिन्ब्रह्ममेधेऽस्य प्रपाठकस्य विनियोगं भरद्वाज आह - “अथात उत्तरं पितृमेधं व्याख्यास्यामो ब्रह्ममेध इत्याचक्षते । तथाऽप्युदाहरन्ति द्विजातीनामपवर्गार्थस्तत्वदर्शिभिः । ऋषिभिस्तपसो योगाद्वेष्टितुं पुरुषोत्तमम् । होतॄंश्च पितृमेधं च संसृज्य विधिरुत्तरः । विहितस्तु समासेन क्रतूनामुत्तमः क्रतुः” इति । तस्य सग्रहैर्होतृभिर्होमो भर्तृसूक्तेन भरणं पत्नीभिरुपसादनं दक्षिणाप्रतिग्रहैर्निर्मार्गो हृदयैर्हिरण्यशकलान्संभारयजुर्भिः पात्रचयनं ज्योतिष्मतीभिरुपोषणं नारायणाभ्यामुपस्थानं ब्राह्मण एकहोतेति चानुमन्त्रणं चित्तँ संतानेनेति हविराहुतीः प्रयासायस्वाहेति स्रुवाहुतीर्मृत्युसूक्तेनानुशंसनं सौम्या संगाहनं सौर्येणाऽऽदित्योपस्थानमीयुष्ट इत्यवगाहनं समानमत ऊर्ध्वं पैतृमेधिकमायवौदनप्राशनात्परं ब्रह्मेत्याचक्षते तानसाधारणे श्मशाने प्रयुञ्जीत नानाचार्याय द्विजातीनामेव संतिष्ठते ब्रह्ममेधः ॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशत्रिंशैकत्रिंशद्वात्रिंशत्रयस्त्रिंशचतु–स्त्रिंशपञ्चत्रिंशषट्त्रिंशानुवाकाः)
कल्पः -त्रीनग्निष्टोमेऽतिग्राह्यान्गृह्णात्याग्नेयमैन्द्रं सौर्यमित्यग्न आयूँष्युत्ति-ष्ठंस्तरणिरिति ग्रहणसादनाः- इति।
प्रथममन्त्रपाठस्तु — अग्न इति। हेऽग्ने त्वं भक्तानामायूंषि पवसे शोधयसि वर्धयसीत्यर्थः। अस्माकमिषमन्नमूर्जं बलमासुव प्रयच्छ। दुच्छुनां वैरिसेनामारे दूरं यथा स्या-त्तथा बाधस्व। स्पष्टमन्यत्।
द्वितीयमन्त्रपाठस्तु — उत्तिष्ठन्निति। हे इन्द्र सुतं सोमं पीत्वौजसा बलेन सहोत्तिष्ठंश्चमू भक्षणक-रणभूते शिप्रे हनू अवेपयश्चालय। तच्चालनलिङ्गेन तुष्टमात्मानमस्माकं दर्शये-त्यर्थः। स्पष्टमन्यत्।
तृतीयमन्त्रपाठस्तु तरणिरित्यादिरारण्यके समाम्नातत्वान्नात्र व्याख्येयः।
कल्पः-आग्रयणग्रहं गृहीत्वाऽथ षोडशिनं गृह्णामीति परिमृज्याऽऽसाद-यति एष ते योनिरिन्द्राय त्वा षोडशिन इतिः- इति।
पाठस्तु - आ तिष्ठेति। हे वृत्रहन्निन्द्र तव हरी अश्वौ ब्रह्मणा मन्त्रेण युक्ता रथयोजितौ। अतो रथमातिष्ठाऽऽरोह। अयं ग्रावा वग्नुना वचनेनाभिषवध्वनिना त्वन्मनोऽऽभिषुते सोमेऽर्वाचीनमभिमुखं करोतु। षोडशसंख्यापूरकं स्तोत्रं च यस्येन्द्रस्यास्त्यसौ षोडशी। स्पष्टमन्यत्।
अस्मिन्नेव ग्रहे पञ्च मन्त्रा विकल्पन्ते। तत्र प्रथमः- इन्द्रमिदिति। ऋषीणां मन्त्राणां स्तुतीश्च मानुषाणां यज्ञं चोपेत्याप्रतिधृष्ट-शवसं केनाप्यतिरस्कृतबलमिन्द्रमेव हरी रथेन वहतः।
अथ द्वितीयः - असावीति। हे शविष्ठातिशयेन बलवन्निन्द्र ते त्वदर्थं सोमोऽसावि सुतः। हे धृष्णो धाष्टर्ययुक्ताऽऽगह्यागच्छ। इन्द्रियशक्तिस्त्वामापृणक्तु आपुरयतु। किमिव। रश्मिभिः स्वीकृतं रज उदकं सूर्यमिव। एतच्चान्यत्राऽऽम्नातम्-आपः सूर्ये समाहिताः। अभ्राण्यपः प्रपद्यन्ते- इति।
अथ तृतीयः - सर्वस्येति। सर्वस्य भूतजातस्य प्रतिशीवर्याभिमुख्यशायिनी भूमिस्त्वामि-न्द्रोपस्थ उपरितनस्थान आधिताऽऽदधातु। हे भूमेऽस्मा इन्द्राय स्योना सुखप्रदा सुषदा शोभननिवासस्थाना च भव। अस्मै यजमानाय सप्रथा अतिविस्तृता सती शर्म सुखं प्रयच्छ।
अथ चतुर्थः - महाँ इन्द्र इति। स्पष्टोऽर्थः।
अथ पञ्चमः - सजोषा इति। हे वृत्रहञ्शूरेन्द्र सजोषाः प्रीतिसहितो मरुद्भिर्युक्ततया सगणस्त्वं यजमानभक्तिं विद्वान्सोमं पिब। अस्माकं मारणोद्यताञ्शत्रून्मारय। इतरान्मृधो वैरिणोऽपनुदस्व। अनन्तरमस्माकं सर्वतो भयराहित्यं कुरु।
अत्र विनियोगसंग्रहः -
“ऐन्द्रवायव आ वायो इन्द्र तस्म पुनग्रहः।
मैत्रावरुणकेयं वामाश्विन द्वौ विकल्पितौ॥१॥
शुक्रे मन्थिनि चैकैकः प्रागिवाऽऽग्रयणे द्वयम्।
एकैक उक्थ्यध्रुवयोश्चतुर्दश तु मन्त्रकाः॥२॥
ऋतुग्रहेषूपयामः सर्वेष्वादौ प्रयुज्यते।
ऐन्द्राग्नो वैश्वदेवश्च त्रयो मारुत्वतग्रहाः॥३॥
वैकल्पिकौ द्वौ माहेन्द्रे कदाऽऽदित्यग्रहस्तथा।
कदा दधिग्रहस्तत्र यज्ञः सोमं पुनः क्षिपेत्॥४॥
विव ग्राव्णाऽऽलोडयेद्या काम्यो दध्नः प्रतिश्रयः।
त्रयो विकल्प्याः सावित्रे वैश्वदेवे परो ह्यसौ॥५॥
पात्नीवतग्रहस्यास्य होमोऽग्ना इति मन्त्रतः।
हारियोजननाम्नस्तु हरीः स्थेति हुतिर्भवेत्॥६॥
अग्नेऽतिग्राह्य आग्नेय उत्तिष्ठन्ग्राह्य ऐन्द्रकः।
षड्विकल्प्या षोडशिनि ग्रहकाण्ड समाप्यतेः॥७॥ इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशमारभ्य षट्त्रिंशपर्यन्ता अष्टानुवाकाः॥२९॥३०॥ ३१॥ ३२॥ ३३॥ ३४॥ ३५॥ ३६॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशत्रिंशैकत्रिंशद्वात्रिंशत्रयस्त्रिंशचतु–स्त्रिंशपञ्चत्रिंशषट्त्रिंशानुवाकाः)
कल्पः -त्रीनग्निष्टोमेऽतिग्राह्यान्गृह्णात्याग्नेयमैन्द्रं सौर्यमित्यग्न आयूँष्युत्ति-ष्ठंस्तरणिरिति ग्रहणसादनाः- इति।
प्रथममन्त्रपाठस्तु — अग्न इति। हेऽग्ने त्वं भक्तानामायूंषि पवसे शोधयसि वर्धयसीत्यर्थः। अस्माकमिषमन्नमूर्जं बलमासुव प्रयच्छ। दुच्छुनां वैरिसेनामारे दूरं यथा स्या-त्तथा बाधस्व। स्पष्टमन्यत्।
द्वितीयमन्त्रपाठस्तु — उत्तिष्ठन्निति। हे इन्द्र सुतं सोमं पीत्वौजसा बलेन सहोत्तिष्ठंश्चमू भक्षणक-रणभूते शिप्रे हनू अवेपयश्चालय। तच्चालनलिङ्गेन तुष्टमात्मानमस्माकं दर्शये-त्यर्थः। स्पष्टमन्यत्।
तृतीयमन्त्रपाठस्तु तरणिरित्यादिरारण्यके समाम्नातत्वान्नात्र व्याख्येयः।
कल्पः-आग्रयणग्रहं गृहीत्वाऽथ षोडशिनं गृह्णामीति परिमृज्याऽऽसाद-यति एष ते योनिरिन्द्राय त्वा षोडशिन इतिः- इति।
पाठस्तु - आ तिष्ठेति। हे वृत्रहन्निन्द्र तव हरी अश्वौ ब्रह्मणा मन्त्रेण युक्ता रथयोजितौ। अतो रथमातिष्ठाऽऽरोह। अयं ग्रावा वग्नुना वचनेनाभिषवध्वनिना त्वन्मनोऽऽभिषुते सोमेऽर्वाचीनमभिमुखं करोतु। षोडशसंख्यापूरकं स्तोत्रं च यस्येन्द्रस्यास्त्यसौ षोडशी। स्पष्टमन्यत्।
अस्मिन्नेव ग्रहे पञ्च मन्त्रा विकल्पन्ते। तत्र प्रथमः- इन्द्रमिदिति। ऋषीणां मन्त्राणां स्तुतीश्च मानुषाणां यज्ञं चोपेत्याप्रतिधृष्ट-शवसं केनाप्यतिरस्कृतबलमिन्द्रमेव हरी रथेन वहतः।
अथ द्वितीयः - असावीति। हे शविष्ठातिशयेन बलवन्निन्द्र ते त्वदर्थं सोमोऽसावि सुतः। हे धृष्णो धाष्टर्ययुक्ताऽऽगह्यागच्छ। इन्द्रियशक्तिस्त्वामापृणक्तु आपुरयतु। किमिव। रश्मिभिः स्वीकृतं रज उदकं सूर्यमिव। एतच्चान्यत्राऽऽम्नातम्-आपः सूर्ये समाहिताः। अभ्राण्यपः प्रपद्यन्ते- इति।
अथ तृतीयः - सर्वस्येति। सर्वस्य भूतजातस्य प्रतिशीवर्याभिमुख्यशायिनी भूमिस्त्वामि-न्द्रोपस्थ उपरितनस्थान आधिताऽऽदधातु। हे भूमेऽस्मा इन्द्राय स्योना सुखप्रदा सुषदा शोभननिवासस्थाना च भव। अस्मै यजमानाय सप्रथा अतिविस्तृता सती शर्म सुखं प्रयच्छ।
अथ चतुर्थः - महाँ इन्द्र इति। स्पष्टोऽर्थः।
अथ पञ्चमः - सजोषा इति। हे वृत्रहञ्शूरेन्द्र सजोषाः प्रीतिसहितो मरुद्भिर्युक्ततया सगणस्त्वं यजमानभक्तिं विद्वान्सोमं पिब। अस्माकं मारणोद्यताञ्शत्रून्मारय। इतरान्मृधो वैरिणोऽपनुदस्व। अनन्तरमस्माकं सर्वतो भयराहित्यं कुरु।
अत्र विनियोगसंग्रहः -
“ऐन्द्रवायव आ वायो इन्द्र तस्म पुनग्रहः।
मैत्रावरुणकेयं वामाश्विन द्वौ विकल्पितौ॥१॥
शुक्रे मन्थिनि चैकैकः प्रागिवाऽऽग्रयणे द्वयम्।
एकैक उक्थ्यध्रुवयोश्चतुर्दश तु मन्त्रकाः॥२॥
ऋतुग्रहेषूपयामः सर्वेष्वादौ प्रयुज्यते।
ऐन्द्राग्नो वैश्वदेवश्च त्रयो मारुत्वतग्रहाः॥३॥
वैकल्पिकौ द्वौ माहेन्द्रे कदाऽऽदित्यग्रहस्तथा।
कदा दधिग्रहस्तत्र यज्ञः सोमं पुनः क्षिपेत्॥४॥
विव ग्राव्णाऽऽलोडयेद्या काम्यो दध्नः प्रतिश्रयः।
त्रयो विकल्प्याः सावित्रे वैश्वदेवे परो ह्यसौ॥५॥
पात्नीवतग्रहस्यास्य होमोऽग्ना इति मन्त्रतः।
हारियोजननाम्नस्तु हरीः स्थेति हुतिर्भवेत्॥६॥
अग्नेऽतिग्राह्य आग्नेय उत्तिष्ठन्ग्राह्य ऐन्द्रकः।
षड्विकल्प्या षोडशिनि ग्रहकाण्ड समाप्यतेः॥७॥ इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशमारभ्य षट्त्रिंशपर्यन्ता अष्टानुवाकाः॥२९॥३०॥ ३१॥ ३२॥ ३३॥ ३४॥ ३५॥ ३६॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशत्रिंशैकत्रिंशद्वात्रिंशत्रयस्त्रिंशचतु–स्त्रिंशपञ्चत्रिंशषट्त्रिंशानुवाकाः)
कल्पः -त्रीनग्निष्टोमेऽतिग्राह्यान्गृह्णात्याग्नेयमैन्द्रं सौर्यमित्यग्न आयूँष्युत्ति-ष्ठंस्तरणिरिति ग्रहणसादनाः- इति।
प्रथममन्त्रपाठस्तु — अग्न इति। हेऽग्ने त्वं भक्तानामायूंषि पवसे शोधयसि वर्धयसीत्यर्थः। अस्माकमिषमन्नमूर्जं बलमासुव प्रयच्छ। दुच्छुनां वैरिसेनामारे दूरं यथा स्या-त्तथा बाधस्व। स्पष्टमन्यत्।
द्वितीयमन्त्रपाठस्तु — उत्तिष्ठन्निति। हे इन्द्र सुतं सोमं पीत्वौजसा बलेन सहोत्तिष्ठंश्चमू भक्षणक-रणभूते शिप्रे हनू अवेपयश्चालय। तच्चालनलिङ्गेन तुष्टमात्मानमस्माकं दर्शये-त्यर्थः। स्पष्टमन्यत्।
तृतीयमन्त्रपाठस्तु तरणिरित्यादिरारण्यके समाम्नातत्वान्नात्र व्याख्येयः।
कल्पः-आग्रयणग्रहं गृहीत्वाऽथ षोडशिनं गृह्णामीति परिमृज्याऽऽसाद-यति एष ते योनिरिन्द्राय त्वा षोडशिन इतिः- इति।
पाठस्तु - आ तिष्ठेति। हे वृत्रहन्निन्द्र तव हरी अश्वौ ब्रह्मणा मन्त्रेण युक्ता रथयोजितौ। अतो रथमातिष्ठाऽऽरोह। अयं ग्रावा वग्नुना वचनेनाभिषवध्वनिना त्वन्मनोऽऽभिषुते सोमेऽर्वाचीनमभिमुखं करोतु। षोडशसंख्यापूरकं स्तोत्रं च यस्येन्द्रस्यास्त्यसौ षोडशी। स्पष्टमन्यत्।
अस्मिन्नेव ग्रहे पञ्च मन्त्रा विकल्पन्ते। तत्र प्रथमः- इन्द्रमिदिति। ऋषीणां मन्त्राणां स्तुतीश्च मानुषाणां यज्ञं चोपेत्याप्रतिधृष्ट-शवसं केनाप्यतिरस्कृतबलमिन्द्रमेव हरी रथेन वहतः।
अथ द्वितीयः - असावीति। हे शविष्ठातिशयेन बलवन्निन्द्र ते त्वदर्थं सोमोऽसावि सुतः। हे धृष्णो धाष्टर्ययुक्ताऽऽगह्यागच्छ। इन्द्रियशक्तिस्त्वामापृणक्तु आपुरयतु। किमिव। रश्मिभिः स्वीकृतं रज उदकं सूर्यमिव। एतच्चान्यत्राऽऽम्नातम्-आपः सूर्ये समाहिताः। अभ्राण्यपः प्रपद्यन्ते- इति।
अथ तृतीयः - सर्वस्येति। सर्वस्य भूतजातस्य प्रतिशीवर्याभिमुख्यशायिनी भूमिस्त्वामि-न्द्रोपस्थ उपरितनस्थान आधिताऽऽदधातु। हे भूमेऽस्मा इन्द्राय स्योना सुखप्रदा सुषदा शोभननिवासस्थाना च भव। अस्मै यजमानाय सप्रथा अतिविस्तृता सती शर्म सुखं प्रयच्छ।
अथ चतुर्थः - महाँ इन्द्र इति। स्पष्टोऽर्थः।
अथ पञ्चमः - सजोषा इति। हे वृत्रहञ्शूरेन्द्र सजोषाः प्रीतिसहितो मरुद्भिर्युक्ततया सगणस्त्वं यजमानभक्तिं विद्वान्सोमं पिब। अस्माकं मारणोद्यताञ्शत्रून्मारय। इतरान्मृधो वैरिणोऽपनुदस्व। अनन्तरमस्माकं सर्वतो भयराहित्यं कुरु।
अत्र विनियोगसंग्रहः -
“ऐन्द्रवायव आ वायो इन्द्र तस्म पुनग्रहः।
मैत्रावरुणकेयं वामाश्विन द्वौ विकल्पितौ॥१॥
शुक्रे मन्थिनि चैकैकः प्रागिवाऽऽग्रयणे द्वयम्।
एकैक उक्थ्यध्रुवयोश्चतुर्दश तु मन्त्रकाः॥२॥
ऋतुग्रहेषूपयामः सर्वेष्वादौ प्रयुज्यते।
ऐन्द्राग्नो वैश्वदेवश्च त्रयो मारुत्वतग्रहाः॥३॥
वैकल्पिकौ द्वौ माहेन्द्रे कदाऽऽदित्यग्रहस्तथा।
कदा दधिग्रहस्तत्र यज्ञः सोमं पुनः क्षिपेत्॥४॥
विव ग्राव्णाऽऽलोडयेद्या काम्यो दध्नः प्रतिश्रयः।
त्रयो विकल्प्याः सावित्रे वैश्वदेवे परो ह्यसौ॥५॥
पात्नीवतग्रहस्यास्य होमोऽग्ना इति मन्त्रतः।
हारियोजननाम्नस्तु हरीः स्थेति हुतिर्भवेत्॥६॥
अग्नेऽतिग्राह्य आग्नेय उत्तिष्ठन्ग्राह्य ऐन्द्रकः।
षड्विकल्प्या षोडशिनि ग्रहकाण्ड समाप्यतेः॥७॥ इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशमारभ्य षट्त्रिंशपर्यन्ता अष्टानुवाकाः॥२९॥३०॥ ३१॥ ३२॥ ३३॥ ३४॥ ३५॥ ३६॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशत्रिंशैकत्रिंशद्वात्रिंशत्रयस्त्रिंशचतु–स्त्रिंशपञ्चत्रिंशषट्त्रिंशानुवाकाः)
कल्पः -त्रीनग्निष्टोमेऽतिग्राह्यान्गृह्णात्याग्नेयमैन्द्रं सौर्यमित्यग्न आयूँष्युत्ति-ष्ठंस्तरणिरिति ग्रहणसादनाः- इति।
प्रथममन्त्रपाठस्तु — अग्न इति। हेऽग्ने त्वं भक्तानामायूंषि पवसे शोधयसि वर्धयसीत्यर्थः। अस्माकमिषमन्नमूर्जं बलमासुव प्रयच्छ। दुच्छुनां वैरिसेनामारे दूरं यथा स्या-त्तथा बाधस्व। स्पष्टमन्यत्।
द्वितीयमन्त्रपाठस्तु — उत्तिष्ठन्निति। हे इन्द्र सुतं सोमं पीत्वौजसा बलेन सहोत्तिष्ठंश्चमू भक्षणक-रणभूते शिप्रे हनू अवेपयश्चालय। तच्चालनलिङ्गेन तुष्टमात्मानमस्माकं दर्शये-त्यर्थः। स्पष्टमन्यत्।
तृतीयमन्त्रपाठस्तु तरणिरित्यादिरारण्यके समाम्नातत्वान्नात्र व्याख्येयः।
कल्पः-आग्रयणग्रहं गृहीत्वाऽथ षोडशिनं गृह्णामीति परिमृज्याऽऽसाद-यति एष ते योनिरिन्द्राय त्वा षोडशिन इतिः- इति।
पाठस्तु - आ तिष्ठेति। हे वृत्रहन्निन्द्र तव हरी अश्वौ ब्रह्मणा मन्त्रेण युक्ता रथयोजितौ। अतो रथमातिष्ठाऽऽरोह। अयं ग्रावा वग्नुना वचनेनाभिषवध्वनिना त्वन्मनोऽऽभिषुते सोमेऽर्वाचीनमभिमुखं करोतु। षोडशसंख्यापूरकं स्तोत्रं च यस्येन्द्रस्यास्त्यसौ षोडशी। स्पष्टमन्यत्।
अस्मिन्नेव ग्रहे पञ्च मन्त्रा विकल्पन्ते। तत्र प्रथमः- इन्द्रमिदिति। ऋषीणां मन्त्राणां स्तुतीश्च मानुषाणां यज्ञं चोपेत्याप्रतिधृष्ट-शवसं केनाप्यतिरस्कृतबलमिन्द्रमेव हरी रथेन वहतः।
अथ द्वितीयः - असावीति। हे शविष्ठातिशयेन बलवन्निन्द्र ते त्वदर्थं सोमोऽसावि सुतः। हे धृष्णो धाष्टर्ययुक्ताऽऽगह्यागच्छ। इन्द्रियशक्तिस्त्वामापृणक्तु आपुरयतु। किमिव। रश्मिभिः स्वीकृतं रज उदकं सूर्यमिव। एतच्चान्यत्राऽऽम्नातम्-आपः सूर्ये समाहिताः। अभ्राण्यपः प्रपद्यन्ते- इति।
अथ तृतीयः - सर्वस्येति। सर्वस्य भूतजातस्य प्रतिशीवर्याभिमुख्यशायिनी भूमिस्त्वामि-न्द्रोपस्थ उपरितनस्थान आधिताऽऽदधातु। हे भूमेऽस्मा इन्द्राय स्योना सुखप्रदा सुषदा शोभननिवासस्थाना च भव। अस्मै यजमानाय सप्रथा अतिविस्तृता सती शर्म सुखं प्रयच्छ।
अथ चतुर्थः - महाँ इन्द्र इति। स्पष्टोऽर्थः।
अथ पञ्चमः - सजोषा इति। हे वृत्रहञ्शूरेन्द्र सजोषाः प्रीतिसहितो मरुद्भिर्युक्ततया सगणस्त्वं यजमानभक्तिं विद्वान्सोमं पिब। अस्माकं मारणोद्यताञ्शत्रून्मारय। इतरान्मृधो वैरिणोऽपनुदस्व। अनन्तरमस्माकं सर्वतो भयराहित्यं कुरु।
अत्र विनियोगसंग्रहः -
“ऐन्द्रवायव आ वायो इन्द्र तस्म पुनग्रहः।
मैत्रावरुणकेयं वामाश्विन द्वौ विकल्पितौ॥१॥
शुक्रे मन्थिनि चैकैकः प्रागिवाऽऽग्रयणे द्वयम्।
एकैक उक्थ्यध्रुवयोश्चतुर्दश तु मन्त्रकाः॥२॥
ऋतुग्रहेषूपयामः सर्वेष्वादौ प्रयुज्यते।
ऐन्द्राग्नो वैश्वदेवश्च त्रयो मारुत्वतग्रहाः॥३॥
वैकल्पिकौ द्वौ माहेन्द्रे कदाऽऽदित्यग्रहस्तथा।
कदा दधिग्रहस्तत्र यज्ञः सोमं पुनः क्षिपेत्॥४॥
विव ग्राव्णाऽऽलोडयेद्या काम्यो दध्नः प्रतिश्रयः।
त्रयो विकल्प्याः सावित्रे वैश्वदेवे परो ह्यसौ॥५॥
पात्नीवतग्रहस्यास्य होमोऽग्ना इति मन्त्रतः।
हारियोजननाम्नस्तु हरीः स्थेति हुतिर्भवेत्॥६॥
अग्नेऽतिग्राह्य आग्नेय उत्तिष्ठन्ग्राह्य ऐन्द्रकः।
षड्विकल्प्या षोडशिनि ग्रहकाण्ड समाप्यतेः॥७॥ इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशमारभ्य षट्त्रिंशपर्यन्ता अष्टानुवाकाः॥२९॥३०॥ ३१॥ ३२॥ ३३॥ ३४॥ ३५॥ ३६॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशत्रिंशैकत्रिंशद्वात्रिंशत्रयस्त्रिंशचतु–स्त्रिंशपञ्चत्रिंशषट्त्रिंशानुवाकाः)
कल्पः -त्रीनग्निष्टोमेऽतिग्राह्यान्गृह्णात्याग्नेयमैन्द्रं सौर्यमित्यग्न आयूँष्युत्ति-ष्ठंस्तरणिरिति ग्रहणसादनाः- इति।
प्रथममन्त्रपाठस्तु — अग्न इति। हेऽग्ने त्वं भक्तानामायूंषि पवसे शोधयसि वर्धयसीत्यर्थः। अस्माकमिषमन्नमूर्जं बलमासुव प्रयच्छ। दुच्छुनां वैरिसेनामारे दूरं यथा स्या-त्तथा बाधस्व। स्पष्टमन्यत्।
द्वितीयमन्त्रपाठस्तु — उत्तिष्ठन्निति। हे इन्द्र सुतं सोमं पीत्वौजसा बलेन सहोत्तिष्ठंश्चमू भक्षणक-रणभूते शिप्रे हनू अवेपयश्चालय। तच्चालनलिङ्गेन तुष्टमात्मानमस्माकं दर्शये-त्यर्थः। स्पष्टमन्यत्।
तृतीयमन्त्रपाठस्तु तरणिरित्यादिरारण्यके समाम्नातत्वान्नात्र व्याख्येयः।
कल्पः-आग्रयणग्रहं गृहीत्वाऽथ षोडशिनं गृह्णामीति परिमृज्याऽऽसाद-यति एष ते योनिरिन्द्राय त्वा षोडशिन इतिः- इति।
पाठस्तु - आ तिष्ठेति। हे वृत्रहन्निन्द्र तव हरी अश्वौ ब्रह्मणा मन्त्रेण युक्ता रथयोजितौ। अतो रथमातिष्ठाऽऽरोह। अयं ग्रावा वग्नुना वचनेनाभिषवध्वनिना त्वन्मनोऽऽभिषुते सोमेऽर्वाचीनमभिमुखं करोतु। षोडशसंख्यापूरकं स्तोत्रं च यस्येन्द्रस्यास्त्यसौ षोडशी। स्पष्टमन्यत्।
अस्मिन्नेव ग्रहे पञ्च मन्त्रा विकल्पन्ते। तत्र प्रथमः- इन्द्रमिदिति। ऋषीणां मन्त्राणां स्तुतीश्च मानुषाणां यज्ञं चोपेत्याप्रतिधृष्ट-शवसं केनाप्यतिरस्कृतबलमिन्द्रमेव हरी रथेन वहतः।
अथ द्वितीयः - असावीति। हे शविष्ठातिशयेन बलवन्निन्द्र ते त्वदर्थं सोमोऽसावि सुतः। हे धृष्णो धाष्टर्ययुक्ताऽऽगह्यागच्छ। इन्द्रियशक्तिस्त्वामापृणक्तु आपुरयतु। किमिव। रश्मिभिः स्वीकृतं रज उदकं सूर्यमिव। एतच्चान्यत्राऽऽम्नातम्-आपः सूर्ये समाहिताः। अभ्राण्यपः प्रपद्यन्ते- इति।
अथ तृतीयः - सर्वस्येति। सर्वस्य भूतजातस्य प्रतिशीवर्याभिमुख्यशायिनी भूमिस्त्वामि-न्द्रोपस्थ उपरितनस्थान आधिताऽऽदधातु। हे भूमेऽस्मा इन्द्राय स्योना सुखप्रदा सुषदा शोभननिवासस्थाना च भव। अस्मै यजमानाय सप्रथा अतिविस्तृता सती शर्म सुखं प्रयच्छ।
अथ चतुर्थः - महाँ इन्द्र इति। स्पष्टोऽर्थः।
अथ पञ्चमः - सजोषा इति। हे वृत्रहञ्शूरेन्द्र सजोषाः प्रीतिसहितो मरुद्भिर्युक्ततया सगणस्त्वं यजमानभक्तिं विद्वान्सोमं पिब। अस्माकं मारणोद्यताञ्शत्रून्मारय। इतरान्मृधो वैरिणोऽपनुदस्व। अनन्तरमस्माकं सर्वतो भयराहित्यं कुरु।
अत्र विनियोगसंग्रहः -
“ऐन्द्रवायव आ वायो इन्द्र तस्म पुनग्रहः।
मैत्रावरुणकेयं वामाश्विन द्वौ विकल्पितौ॥१॥
शुक्रे मन्थिनि चैकैकः प्रागिवाऽऽग्रयणे द्वयम्।
एकैक उक्थ्यध्रुवयोश्चतुर्दश तु मन्त्रकाः॥२॥
ऋतुग्रहेषूपयामः सर्वेष्वादौ प्रयुज्यते।
ऐन्द्राग्नो वैश्वदेवश्च त्रयो मारुत्वतग्रहाः॥३॥
वैकल्पिकौ द्वौ माहेन्द्रे कदाऽऽदित्यग्रहस्तथा।
कदा दधिग्रहस्तत्र यज्ञः सोमं पुनः क्षिपेत्॥४॥
विव ग्राव्णाऽऽलोडयेद्या काम्यो दध्नः प्रतिश्रयः।
त्रयो विकल्प्याः सावित्रे वैश्वदेवे परो ह्यसौ॥५॥
पात्नीवतग्रहस्यास्य होमोऽग्ना इति मन्त्रतः।
हारियोजननाम्नस्तु हरीः स्थेति हुतिर्भवेत्॥६॥
अग्नेऽतिग्राह्य आग्नेय उत्तिष्ठन्ग्राह्य ऐन्द्रकः।
षड्विकल्प्या षोडशिनि ग्रहकाण्ड समाप्यतेः॥७॥ इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशमारभ्य षट्त्रिंशपर्यन्ता अष्टानुवाकाः॥२९॥३०॥ ३१॥ ३२॥ ३३॥ ३४॥ ३५॥ ३६॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशत्रिंशैकत्रिंशद्वात्रिंशत्रयस्त्रिंशचतु–स्त्रिंशपञ्चत्रिंशषट्त्रिंशानुवाकाः)
कल्पः -त्रीनग्निष्टोमेऽतिग्राह्यान्गृह्णात्याग्नेयमैन्द्रं सौर्यमित्यग्न आयूँष्युत्ति-ष्ठंस्तरणिरिति ग्रहणसादनाः- इति।
प्रथममन्त्रपाठस्तु — अग्न इति। हेऽग्ने त्वं भक्तानामायूंषि पवसे शोधयसि वर्धयसीत्यर्थः। अस्माकमिषमन्नमूर्जं बलमासुव प्रयच्छ। दुच्छुनां वैरिसेनामारे दूरं यथा स्या-त्तथा बाधस्व। स्पष्टमन्यत्।
द्वितीयमन्त्रपाठस्तु — उत्तिष्ठन्निति। हे इन्द्र सुतं सोमं पीत्वौजसा बलेन सहोत्तिष्ठंश्चमू भक्षणक-रणभूते शिप्रे हनू अवेपयश्चालय। तच्चालनलिङ्गेन तुष्टमात्मानमस्माकं दर्शये-त्यर्थः। स्पष्टमन्यत्।
तृतीयमन्त्रपाठस्तु तरणिरित्यादिरारण्यके समाम्नातत्वान्नात्र व्याख्येयः।
कल्पः-आग्रयणग्रहं गृहीत्वाऽथ षोडशिनं गृह्णामीति परिमृज्याऽऽसाद-यति एष ते योनिरिन्द्राय त्वा षोडशिन इतिः- इति।
पाठस्तु - आ तिष्ठेति। हे वृत्रहन्निन्द्र तव हरी अश्वौ ब्रह्मणा मन्त्रेण युक्ता रथयोजितौ। अतो रथमातिष्ठाऽऽरोह। अयं ग्रावा वग्नुना वचनेनाभिषवध्वनिना त्वन्मनोऽऽभिषुते सोमेऽर्वाचीनमभिमुखं करोतु। षोडशसंख्यापूरकं स्तोत्रं च यस्येन्द्रस्यास्त्यसौ षोडशी। स्पष्टमन्यत्।
अस्मिन्नेव ग्रहे पञ्च मन्त्रा विकल्पन्ते। तत्र प्रथमः- इन्द्रमिदिति। ऋषीणां मन्त्राणां स्तुतीश्च मानुषाणां यज्ञं चोपेत्याप्रतिधृष्ट-शवसं केनाप्यतिरस्कृतबलमिन्द्रमेव हरी रथेन वहतः।
अथ द्वितीयः - असावीति। हे शविष्ठातिशयेन बलवन्निन्द्र ते त्वदर्थं सोमोऽसावि सुतः। हे धृष्णो धाष्टर्ययुक्ताऽऽगह्यागच्छ। इन्द्रियशक्तिस्त्वामापृणक्तु आपुरयतु। किमिव। रश्मिभिः स्वीकृतं रज उदकं सूर्यमिव। एतच्चान्यत्राऽऽम्नातम्-आपः सूर्ये समाहिताः। अभ्राण्यपः प्रपद्यन्ते- इति।
अथ तृतीयः - सर्वस्येति। सर्वस्य भूतजातस्य प्रतिशीवर्याभिमुख्यशायिनी भूमिस्त्वामि-न्द्रोपस्थ उपरितनस्थान आधिताऽऽदधातु। हे भूमेऽस्मा इन्द्राय स्योना सुखप्रदा सुषदा शोभननिवासस्थाना च भव। अस्मै यजमानाय सप्रथा अतिविस्तृता सती शर्म सुखं प्रयच्छ।
अथ चतुर्थः - महाँ इन्द्र इति। स्पष्टोऽर्थः।
अथ पञ्चमः - सजोषा इति। हे वृत्रहञ्शूरेन्द्र सजोषाः प्रीतिसहितो मरुद्भिर्युक्ततया सगणस्त्वं यजमानभक्तिं विद्वान्सोमं पिब। अस्माकं मारणोद्यताञ्शत्रून्मारय। इतरान्मृधो वैरिणोऽपनुदस्व। अनन्तरमस्माकं सर्वतो भयराहित्यं कुरु।
अत्र विनियोगसंग्रहः -
“ऐन्द्रवायव आ वायो इन्द्र तस्म पुनग्रहः।
मैत्रावरुणकेयं वामाश्विन द्वौ विकल्पितौ॥१॥
शुक्रे मन्थिनि चैकैकः प्रागिवाऽऽग्रयणे द्वयम्।
एकैक उक्थ्यध्रुवयोश्चतुर्दश तु मन्त्रकाः॥२॥
ऋतुग्रहेषूपयामः सर्वेष्वादौ प्रयुज्यते।
ऐन्द्राग्नो वैश्वदेवश्च त्रयो मारुत्वतग्रहाः॥३॥
वैकल्पिकौ द्वौ माहेन्द्रे कदाऽऽदित्यग्रहस्तथा।
कदा दधिग्रहस्तत्र यज्ञः सोमं पुनः क्षिपेत्॥४॥
विव ग्राव्णाऽऽलोडयेद्या काम्यो दध्नः प्रतिश्रयः।
त्रयो विकल्प्याः सावित्रे वैश्वदेवे परो ह्यसौ॥५॥
पात्नीवतग्रहस्यास्य होमोऽग्ना इति मन्त्रतः।
हारियोजननाम्नस्तु हरीः स्थेति हुतिर्भवेत्॥६॥
अग्नेऽतिग्राह्य आग्नेय उत्तिष्ठन्ग्राह्य ऐन्द्रकः।
षड्विकल्प्या षोडशिनि ग्रहकाण्ड समाप्यतेः॥७॥ इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशमारभ्य षट्त्रिंशपर्यन्ता अष्टानुवाकाः॥२९॥३०॥ ३१॥ ३२॥ ३३॥ ३४॥ ३५॥ ३६॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके सप्तत्रिंशोऽनुवाकः)।
षट्त्रिंशेऽनुवाके ग्रहाः समापिताः। सप्तत्रिंशे दक्षिणा वर्ण्यते —
कल्पः -प्रचरण्या दाक्षिणानि जुहोति हिरण्यं प्रबध्य धृतेऽवधायोदु त्यं चित्रमिति द्वाभ्यां गार्हपत्ये जिहोति- इति।
तत्र प्रथमा — उदु त्यमिति। केतवो रश्मयस्त्यं जातवेदसं तमग्निसदृशं सूर्यं देवमुद्बहन्ति ऊर्ध्वदेश एव प्रापयन्ति। किमर्थम्। विश्वाय कृत्स्नस्य जगतः सूर्यं दृशे द्रष्टुम्।
अथ द्वितीया — चित्रमिति। चित्रं रक्तश्वेतादिविविधवर्णं देवानां रश्मीनामनींक सैन्यसदृशं मण्डलमुदगादुदयं गच्छति। कीदृशम्। मित्रादिदेवोपलक्षितस्य कृत्स्नस्य प्राणिजातस्येन्द्रियाधिष्ठातृत्वाच्चक्षुःस्थानीयं तन्मण्डलस्थः सूर्यो जगतो जङ्गमस्य तस्थुषः स्थावरस्य चाऽऽत्मा सल्ँ लोकत्रयमाप्राः पूरितवान्।
कल्पः - अग्ने नयेत्याग्निध्रमेत्य जुहोति- इति।
पाठस्तु — अग्ने नयेति। हेऽग्ने राये पारलौकिकधनप्राप्त्यर्थमस्माञ्शोभनेन मार्गेण नय। हे देव त्वं विश्वानि वयुनानि सर्वान्मार्गान्विद्वाञ्जानासि। जुहुराणं कुटिलमेनः पापमस्माद्युयोधि वियोजय। तुभ्यं भूयिष्ठां नमस्कारोक्तिं विधेम कुर्याम।
दाक्षिणहोमं विधत्ते — सुवर्गाय वा एतानि लोकाय हूयन्ते यद्दाक्षिणानि- (सं. का. ६ प्र. ६ अ. १) इति।
दक्षिणां दित्सुना होतव्यानि दाक्षिणानि।
होमाधिकरणं विधत्ते — द्वाभ्यां गार्हपत्ये जुहोति द्विपाद्यजमानः प्रतिष्ठित्या आग्नीध्रे जुहोत्यन्तरिक्ष एवाऽक्रमते (सं. का. ६ प्र. ६ अ. १) इति।
द्वाभ्यां वक्ष्यमाणाभ्याम्।
आग्नीध्रहोमादूर्ध्वं सदःप्रवेशं विधत्ते – सदोऽभ्यैति सुवर्गमेवैनां लोकं गमयति- (सं. का. ६ प्र. ६ अ. १) इति।
मन्त्रान्विनियुङ्क्ते — “सौरीभ्यामृग्भ्यां गार्हपत्ये जुहोत्यमुमेवैनं लोकँ समारोहयति नयवत्यर्चाऽऽग्नीध्रे जुहोति सुवर्गस्य लोकस्याभिनीत्यै- (सं. का. ६ प्र. ६ अ. १) इति।
उदु त्यं चित्रमित्येते सौर्यौ। अग्ने नय सुपथेति नयवती।
दिवमिति। कल्पः –दिवं गच्छ सुवः पतेति हिरण्यं हुत्वोद्गृह्णाति- (सं. का. ६ प्र. ६ अ. १) इति।
हे हिरण्य त्वमाकाशं प्रति गच्छ, ततः स्वर्गं प्राप्नुहि।
अनेन यजमानस्य स्वर्गप्राप्तिरित्याह — “दिवं गच्छ सुवः पतेति हिरण्यँ हुत्वोद्गृह्णाति सुवर्गमेवैनं लोकं गमयति” (सं. का. ६ प्र. ६ अ. १) इति।
यद्धिरण्यं प्रबध्य घृतेऽवहितं तद्धिरण्यं घृतहोमादूर्ध्वं हस्तेनोद्धरेत्।
कल्पः – “रूपेण वो रूपमभ्यैमीति दक्षिणा अभ्यैति” इति।
पाठस्तु — रूपेणेति। हे दक्षिणा अनेनोद्धृतहिरण्यरूपेण वेदेर्दक्षिणभागेऽवस्थितानां युष्माकं रूपमाभिमुख्येन प्राप्नोमि। कीदृशेन हिरण्यरूपेण। वयसा कमनीयेन। कीदृशं युष्मद्रूपम्। वयः कमनीयम्।
रूपेणेत्ययं शब्दो हिरण्यपर इत्येतद्दर्शयति — “रूपेण वो रूपमभ्यैमीत्याह रूपेण ह्यासाँ रूपमभ्यैति यद्धिरण्येन” (सं. का. ६ प्र. ६ अ. १) इति।
हिरण्येन यद्रूपमभ्यैति तद्रूपेण वा रूपमिति मन्त्रेणोच्यत इत्यर्थः।
कल्पः – “तुथो वो विश्ववेदा वि भजत्विति ता यजमानश्चतुर्धा कृष्णाजिने व्युद्धृत्य चतुर्थमध्वर्युभ्यो विभजति यावदध्वर्यवे ददाति तस्यार्धं प्रतिप्रस्थात्रे तृतीयं नेष्ट्रे चतुर्थमुन्नेत्रे। एतेनेतरेषां दानमुक्तम्” इति।
पाठस्तु — तुथ इति। हे दक्षिणा वृद्धतमे स्वर्गेऽधिरूढस्तुथनामको देवः सर्वज्ञो युष्मान्यथोचितं विभजतु।
एतमेवार्थं स्पष्टयति — “तुथो वो विश्ववेदा वि भजत्वित्याह तुथो ह स्म वै विश्ववेदा देवानां दक्षिणा वि भजति तेनैवेना विभजति” (सं. का. ६ प्र. ६ अ. १) इति।
कल्पः – “एतत्ते अग्ने राध दक्षिणानिनयने” इति। मन्त्र इति शेषः।
पाठस्तु — एतदिति। हेऽग्ने दक्षिणाद्रव्याणि ते राधस्तव समृद्धिकारणं सोमच्युतं सोमयागे प्राप्तमेतद्दक्षिणाद्रव्यमैत्यागच्छति। तद्द्रव्यं मित्रस्य पथा शान्तस्य तव मार्गेण नय। हे चन्द्रदक्षिणाः सुवर्णादिद्रव्यरूपा ऋतस्य सत्यस्य पथा मार्गेण प्रेत प्रकर्षेण गच्छत सत्यफलकेन देवेन यथायथं विभक्ता गच्छतेत्यर्थः। कीदृश्यश्चन्द्रदक्षिणाः। सुविता शोभनगमनयुक्तेन यज्ञस्य पथा यज्ञपुरुषस्य मार्गेण सदोगार्हपत्ययोर्मध्यवर्तिना नयन्तीर्दक्षिणदेशादुत्तरदेशे नीयमानाः। अत्र सूत्रम् “हिरण्यपाणिरग्रेण गार्हपत्यं नयति जघनेन सदोऽन्तराऽऽग्नीध्रं च सदश्च ता उदीचीः” इति।
दक्षिणाद्रव्यस्य सोमच्युतत्वं प्रशस्तमित्याह — “एतत्ते अग्ने राध ऐति सोमच्युतमित्याह सोमच्युतँ ह्यस्य राध ऐति” (सं. का. ६ प्र. ६ अ. १) इति।
मित्रशब्दप्रयोजनमाह — “तन्मित्रस्य पथा नयेत्याह शान्त्यै” (सं. का. ६ प्र. ६ अ. १) इति।
तुथो रुद्रोऽग्निरिति श्रुतत्वाद्रुद्रस्य पथा चेदशान्तिः स्यादतो मित्रस्येत्युच्यते। ऋतशब्दो नात्र यज्ञवाची किंतु सत्यवाचीत्याह — “ऋतस्य पथा प्रेत चन्द्रदक्षिणा इत्याह सत्यं वा ऋतँ सत्येनैवैना ऋतेन वि भजति” (सं. का. ६ प्र. ६ अ. १) इति।
मुख्यस्यार्धिनस्तृतीयिनः पादिनश्चर्त्विजां यथोचितं विभजतीत्यर्थः।
दक्षिणानां सदोगार्हपत्ययोर्मध्यवर्तिना यज्ञमार्गेण गमनं प्रसिद्धमित्याह — “यज्ञस्य पथा सुविता नयन्तीरित्याह यज्ञस्य ह्येताः पथा यन्ति यद्दक्षिणाः” (सं. का. ६ प्र. ६ अ. १) इति।
कल्पः- “ब्राह्मणमद्य राध्यासमित्यात्रेयाय प्रथमाय हिरण्यं ददाति द्वितीयाय तृतीयाय वा तदभावे य आर्षेयः संनिहितस्तस्मै दद्यात्” इति।
त्रिविधा आत्रेयाः प्रवरे पठिता अतः प्रथमायेत्यादिविशेषणम्।
पाठस्तु — ब्राह्माणमिति। अद्यास्मिन्यज्ञदिने ब्राह्मणमत्रिगोत्रोत्पन्नं राध्यासं हिरण्येन साधयानि तोषयाणीत्यर्थः। कीदृशम्। ऋषिं वेदार्थज्ञम्। आर्षेयं वेदार्थविदः पुत्रम्। पितृमन्तं पित्रा सम्यगनुशिष्टम्। पैतृमत्यं पितृमत्याः सम्यगनुशिष्टायाः पतिव्रतायाः पुत्रम्। शोभनो धातुः सर्वधातुभ्य उत्तमं हिरण्यं दक्षिणा यस्यासौ सुधातुदक्षिणस्तादृशम्।
ब्राह्मणादिशब्दैर्वेदशास्त्रपारंगतो विवक्षित इति दर्शयति — “ब्राह्मणमद्य राध्यासमृषिमार्षेयमित्याहैष वै ब्राह्मण ऋषिरार्षेयो यः शुश्ररवान्तस्मादेवमाह” (सं. का. ६ प्र. ६ अ. १) इति।
कल्पः – “सद एत्य वि सुवः पश्येत्यनुवीक्षते” इति।
एतदेवाभिप्रेत्य सदोऽभ्यैतीति पूर्वं विहितम्।
पाठस्तु — वि सुवरिति। हे यजमान स्वर्गं विपश्यान्तरिक्षं च विपश्य। सदस्यवस्थितैर्विप्रैः सह यतस्वानुतिष्ठ।
सुव पश्येत्यस्याभिप्रायं दर्शयति — “वि सुवः पश्य व्यन्तरिक्षमित्याह सुवर्गमेवैनं लोकं गमयति” (सं. का. ६ प्र. ६ अ. १) इति।
सदस्यैरित्यनया सहार्थे तृतीयया मित्रताऽभिहितेत्याह — ‘यतस्व सदस्यैरित्याह मित्रत्वाय’ (सं. का. ६ प्र. ६ अ. १) इति।
कल्पः-“अस्मद्दात्रा देवत्रा गच्छतेति नीता अनुमन्त्र्य” इति।
पाठस्तु — अस्मद्दात्रा इति। हे दक्षिणा अस्माभिर्दत्ताः सत्यो देवेषु ऋत्विक्षु गच्छत। हे गावो मधुरक्षीरोपेताः सत्यः परलोके प्रदातारं यजमानं रूपान्तरेणऽऽविशत। अस्माननवहायापरित्यज्य देवयानेन पथेत सुकृतां मार्गेण गच्छत। गत्वा च पुण्यकृतां स्थाने सीदत। तत्स्थानं नोऽस्मदर्थं संकृतं सम्यगुपभोगयोग्यतया निष्पादितम्।
प्रदातारमाविशतेत्यस्यार्थमाह — “अस्मद्दात्रा देवत्रा गच्छत मधुमतीः प्रदातारमा विशतेत्याह वयमिह प्रदातारः सोऽस्मानुत्र मधुमतीरा विशतेति वावैतदाह” (सं. का. ६ प्र. ६ अ. १) इति।
प्रथमतो दातव्यं विधत्ते — “हिरण्यं ददाति ज्योतिर्वै हिरण्यं ज्योतिरेव पुरस्ताद्धत्ते सुवर्गस्य लोकस्यानुख्यात्यै” (सं. का. ६ प्र. ६ अ. १) इति।
तस्य प्रतिग्रहीतृसंबन्धं विधत्ते — “अग्नीधे ददात्यग्निमुखानेवर्तून्प्रीणाति” (सं. का. ६ प्र. ६ अ. १) इति।
अग्नीमुखानग्निसहितानाधानकालवसन्ताद्यृतून्। अत्र सूत्रम्- “हिरण्यं पूर्ण-पात्रमुपबर्हणं सार्वसूत्रमित्यग्नीधे ददाति” इति।
ऋत्विगन्तरे दानं विधत्ते — “ब्रह्मणे ददाति प्रसूत्यै होत्रे ददात्यात्मा वा एष यज्ञस्य यद्धोताऽऽत्मानमेव यज्ञस्य दक्षिणाभिः समर्धयति” (सं. का. ६ प्र. ६ अ. १) इति।
प्रसूत्या अनुज्ञानाय। होतुर्बहुमन्त्रपाठेन यज्ञात्मत्वम्। एवमृत्विगन्तरे दानमुन्नेयम्।
अत्र विनियोगसंग्रहः-
“उदुत्रिभिर्दक्षिणानां होमो दिवमतो घृतात्।
हिरण्यमुद्गृह्य रूपे दक्षिणा अभिगच्छति॥१॥
तुथो वो विश्ववेदेति भिन्द्याच्चर्मणि दक्षिणाः॥
एतत्ता निनयेद्ब्राह्म हेनाऽऽत्रेयाय यच्छति॥२॥
वि सुवः सद आलोक्य ह्यस्मद्दात्राऽनुमन्त्रणम्।
सप्तत्रिंशेऽनुवाकेऽस्मिन्दश मन्त्रा उदीरिताः॥३॥ इति।
अथ मीमांसा।
दशमाध्यायस्य द्वितीयपादे चिन्तितम् —
“ऋत्विग्दानमदृष्टार्थमानत्यै वाऽग्रिमः श्रुतेः।
वैरूप्यान्नियमान्मैवं दृष्टत्वादानतेः श्रुतिः॥
भृतौ च नियमादेतददृष्टं स्याद्विरूपता।
वचनात्तेन सत्रेषु स्वामित्वान्न भृतिः क्वचित्॥ इति।
ऋग्विग्भ्यो दक्षिणां ददातीति प्रकृतौ श्रूयते। तत्किमदृष्टार्थमानत्यर्थं वेति संशयः। भृत्या परिक्रीय वशीकार आनतिः। अदृष्टार्थं तत्स्यात्। अन्न-हिरण्यादीनामदृष्टार्थे त्यागे दानशब्दस्य प्रसिद्धत्वात्। यद्येतद्दानं भृतिः स्यात्तदानीमल्पाधिककर्मानुरूप्येण द्रव्यं देयम्। वैरूप्यं त्वत्र दृश्यते - स्वल्पकर्मणि त्रैधातवीये सहस्रं देयम्। अधिके कर्मण्यृतपेये स्वल्पं सोमचमसमात्रं दीयते। तथा द्वादशशतादिपरिमाणनियमो मन्त्रनियमश्च भृतौ नोपपद्यते। कर्मकरानुमत्या न्यूनाधिकभावसंभवात्तक्षरजकादिभृतौ मन्त्रादर्शनाच्च। तस्माददृष्टार्थमित्यग्रिमः पक्षः प्राप्नोति। मैवम्। आनतेर्द्दष्टप्रयोजनत्वात्। दानश्रुतिस्तु दृष्टार्थभृतावप्यस्ति। भृतिर्देयेति प्रयोगात्। परिमाणमन्त्रनियमाददृष्टमस्तु। दृष्टस्याभावात्। वैरूप्यं तु वचनबलादभ्युपगम्यते। दक्षिणाया भृतिरूपत्वं प्रत्यक्षवेदवाक्यादप्यवगम्यते “दीक्षितमदीक्षिता दक्षिणापरिक्रीता ऋत्विजो याजयेयुः” इति। तस्मादृत्विग्दानमानत्यर्थम्। एवं च सति सत्र ऋत्विजां यजमानत्वाभृतिरूपा दक्षिणा न क्वापि देयेत्येतद्विचारफलं द्रष्टव्यम्।
तत्रैव तृतीयपादे चिन्तितम् —
“दक्षिणा द्वादशशतं तस्येत्येतद्गवादिषु।
सर्वेषु केषुचिद्वाऽऽद्ये प्रत्येकं मिलितेषु वा।
संख्यागुणस्य प्रत्येकं गवाद्यन्वयतोऽग्रिमः।
वाक्यभेदान्न तत्किंतु मिलितेषु समुच्चयात्॥
प्रस्थाद्यौचित्यतो धान्ये सर्वेषां न समुच्चयः।
असर्वेष्विति पक्षेऽपि पशवो वैकमेव वा॥
संख्यौचित्येन पशवो नैतत्तस्येत्यनन्वयात्।
एकत्वेऽप्यत्र यत्किंचिन्माषा वा गाव एव वा॥
यत्किंचिन्नियमाभ्वान्माषाः संनिहितत्वतः।
माषा निराकृता गावः प्राथम्याच्चोपकारतः।
तस्येति वाक्याद्गोद्रव्यं न युक्तः प्रकृतः क्रतुः।
संख्यान्तरं चेद्विकृतौ स्याद्गवां बाध्यतामियम्’ इति।
ज्योतिष्टोमे देयद्रव्याण्यानुक्रम्य संख्याविशिष्टा दक्षिणा विधीयते — ‘गौश्चाश्वश्चाश्वतरश्च गर्दभश्चाजाश्चावयश्च व्रीहयश्च यवाश्च तिलाश्च माषाश्च तस्य द्वादशशतं दक्षिणा’ इति। द्वादशाधिकं शतं द्वादशशतम्। तत्र संशयः - येयं संख्या सा किं गवादिसर्वद्रव्यविषया किंवा कतिपयविषया। सर्वपक्षेऽपि प्रतिद्रव्यमियं संख्या, उत मिलितानाम्। तत्र गवादिद्रव्याणि प्रधानानि, संख्या तु तद्गतो गुणः। प्रतिप्रधानं गुणावृत्तिर्न्याय्या। तस्माद्गवादिद्रव्येषु सर्वेषु प्रत्येकमियं संख्येति प्रथमपक्षगते प्रथमे संख्याविकल्पे प्राप्ते ब्रूमः ‘नैतद्युक्तं वाक्यभेदप्रसङ्गात्। अते मिलितानामियं संख्येति द्वितीयः संख्याविकल्पोऽभ्युपग-न्तव्यः। तथा सति समुच्चयवाचिनश्च शब्दा अनुगृह्यन्ते। एतदप्ययुक्तमनौचित्यात्। न व्रीहियवादिधान्येषु द्वादशाधिकशतान्तर्गता द्वित्रादिसंख्योचिता। परिक्रीतस्यर्त्विजो द्वित्रैर्व्रीहिबीजैः प्रयोजनाभावात्प्रस्थाधिकखार्यादिसंख्या तत्रोचिता। न चेयमत्र श्रुता। तस्मान्मिलितानां सर्वेषां समुच्चय इत्ययं पक्षो न युक्तः। कतिपयद्रव्यविषया संख्येत्यस्मिन्नपि पक्षे किं गवाद्याः षड्विधाः पशवः किंवा दशसु गवादिद्रव्येष्वेकं द्रव्यम्। तत्रा पशुषु श्रूयमाणायाः संख्याया उचितत्वात्पशव इति प्राप्ते ब्रूमः नैतद्युक्तम्। तस्य द्वादशशतं दक्षिणेत्यत्र तस्येत्यनेनै-कवचनान्तेन षण्णां गवादिपशूनामन्वेतुमयोग्यत्वात्। एकत्वपक्षेऽपि यत्किं-चिदेकं किंवा माषद्रव्यमुत गोद्रव्यम्। तत्र नियामकाभावाद्यत्किंचिदिति प्राप्तम्। तन्न। संनिधेर्नियामकत्वात्। माषाश्च तस्य द्वादशशतं दक्षिणेति माषा संनिहिताः। तर्ह्यस्तु माषद्रव्यमिति चेत् न। प्रस्थादिपरिमाणसंख्यौचित्येन निराकृतत्वात्। तस्माद्गोद्रव्यमिति पक्षः परिशिष्यते। प्रथमश्रुतत्वोपकारौ तत्र नियामकौ। अस्ति हि महानुपकारः ऋत्विजः प्रतिग्रहीतुर्गव्यैराज्य-क्षीरादिभिरग्निहोत्रदर्शपूर्णमासादिद्धेः। ननु तस्य प्रकृतस्य क्रतोर्द्वादशशतं दक्षिणेत्यन्वयाद्गोद्रव्यं न प्रतीयत इति चेत्। न। यद्गोद्रव्यं तस्य द्बादशशतमिति वाक्येन तत्प्रतीतेः। वाक्यं हि प्रकरणाद्बलीयः। तस्माद्गवां द्वादशशतमिति सिद्धान्तः। विकृतिषु यत्र गोदक्षिणायाः संख्यान्तरं श्रुतं तत्रास्याः संख्याया बाधो विचारफलम्।
तत्रैवान्यच्चिन्तितम् —
“गोदाने विहिते स्वेच्छा नियतिर्वाऽन्तिमेऽपि किम्।
अविभागो विभागो वा नियमानुक्तितोऽग्रिमः।
अविभागो बहुत्वोक्तेर्बहुत्वं न विवक्षितम्।
विभागः स्यात्परस्वत्वसिद्धेर्लिंङ्ग च दृश्यते’ इति।
पूर्वोक्त एव गवां दाने संशयः। ऋत्विग्भ्यो देयानामुक्तसंख्यानां गवां विभागाविभागयोर्यजमानेच्छैव प्रयोजिका, उतास्त्यन्यतरनियतिः। यदाऽपि नियतिस्तदाऽप्यविभागो वा। तत्र नियामकस्यानुक्तत्वादिच्छेति तावत्प्राप्तम्। ऋत्विग्भ्यो दक्षिणां ददातीति बहुवचनश्रवणेन समूहस्य प्रतिग्रहीतृ-त्वादविभाग इति पक्षान्तरम्। ग्रहैकत्ववदुद्देश्यगतत्वाद्बहुवचनं न विवक्षितमित्येकैकः प्रतिग्रहीता। तथा सति विभागोऽवश्यं भवति। समूहाय दत्ते सत्येकैकस्य स्वामित्वाभावात्परस्वत्वापादनलक्षणो दानशब्दार्थो न सिध्यति। किंच “तुथो वो विश्ववेदा वि भजतु’ इति मन्त्रे विभागलिङ्गं दृश्यते। तस्माद्विभागनियमो राद्धान्तः।
तत्रैवान्यच्चिन्तितम् —
“स विभागः समो नो वा विशेषाश्रवणात्समः।
वैषम्यं स्याद्यथायासमेवं तत्स्यात्समाख्यया’ इति।
पूर्वोक्तः स विभागः समः स्यात्। वैषम्यहेतोर्विशेषस्याश्रवणात्। साम्यहेतु-स्तु लौकिको न्यायः। लोके हि पुत्राणां पितृधने समविभागो दृष्टः। तस्मात्सम इत्येकः पक्षः। कर्मकरेषु प्रयासानुरूपे(प्ये)ण भृतितारतम्यं दृष्टं तद्वदत्रापीति द्वितीयः पक्षः। द्वादशाहे दीक्षायामेवं समाख्यायते – ‘अर्धिनो दीक्षयन्ति पादीनो दीक्षयन्ति’ इति। अर्धं येषामृत्विजां तेऽर्धिनः एवं पादिनो योजनीयाः। तद्विशेषो याज्ञिकमुखादवगन्तव्यः। ततः श्रौतसमाख्यानुरूपे(प्ये)ण केषांचिदर्धं केषांचित्पाद इत्यादिर्विषमो विभाग इति राद्धान्तः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके सप्तत्रिंशोऽनुवाकः॥३७॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके अष्टात्रिंशोऽनुवाकः)।
सप्तत्रिंशेऽनुवाके दक्षिणा निरूपिता। अष्टात्रिंशे समिष्टयजुर्होमो निरूप्यते।
कल्पः – ‘जुह्वां नवगृहीतं गृहीत्वा धाता रातिरित्यन्तर्वेद्यूर्ध्वस्तिष्ठन्संततं समशो नव समिष्टयजूंषि जुहोति’ इति।
तत्र षड् ऋचस्त्रीणि यजूंषि जुहोति।
षट्सु प्रथमा तावदेवं पठिता — धातेति। धाता सविता प्रजापतिरित्यग्निस्त्वष्टा विष्णुश्चैते षड्देवा नोऽस्माकमिदं हविर्जुषन्ताम्। कीदृशो धाता। रातिर्दानशीलः। कीदृशः प्रजापतिः। निधिपतिः, महाशङ्खखर्वादिनामकानां नवानां निधीनां पालयिता। सोऽयं देवगणो यजमानसंबन्धिन्या प्रजया संरराणः सम्यग्रममाणस्तथा यजमानार्थं द्रविणं दधातु पोषयतु।
अथ द्वितीया — समिन्द्रेति। हे इन्द्र त्वमनुग्रहयुक्तेन मनसा नोऽस्मान्गोभिः संनेषि संयोजय। सूरिभिर्विद्वद्भिर्होतृप्रमुखैः संयोजय। हे मघवन्स्वस्त्या क्षेमेण संयोजय। ब्रह्मणा वेदेनार्थज्ञानसहितेन देवकृतं देवार्थं कर्म यदस्ति तेन संयोजय। यज्ञसंबन्धिनां देवानां सुमत्याऽनुग्रहबुद्ध्या संयोजय।
अथ तृतीया — सं वर्चसेति। वयं देवतानुग्रहबलाद्वर्चसा बलेन तद्धेतुना च पयसा क्षीरादिना समगन्महि संगताः स्मः। तनूभिः शरीरैः सोभनैः संगताः। शिवेन श्रद्धालुना मनसा संगताः। त्वाष्टा देवो नोऽस्माकमत्रास्मिन्कर्मणि वरिवो वरणीयं धनं कृणोतु करोतु। किंच तनुवः शरीराणि अनुमार्ष्टु शोधयतु। यद्विलिष्टं पापं तदप्यनुमार्ष्टु।
अथ चतुर्थी — यदद्येति। हेऽग्ने यद्यस्मात्कारणादद्यास्मिन्दिन इह देवयजनदेशेऽस्मिन्यज्ञे प्रयति प्रवर्तमाने सति त्वां होतारं होमनिष्पादकमवृणीमहि तस्मात्कारणादृधक्समृद्धं यथा भवति तथाऽयाडयाक्षीः। उतापि च त्वमृधक्समृद्धं प्रजानन्नशमिष्ठा अस्मद्विघ्नशान्तिमकार्षीः। अतस्त्वं विद्वानस्मद्भक्तिं जानन्निमं यज्ञमुपयाहि प्राप्नुहि।
अथ पञ्चमी — स्वगा व इति। हे देवा ये यूयं जुषाणाः प्रीयमाणा इदं सवना इमानि त्रीणि सवनानि आजग्माऽऽगतास्तेषां वः सदनं स्थानं स्वगा स्वाधीनमकर्म वयमकार्ष्म। विश्वे ते सर्वे यूयं जक्षिवांसः सवनीयपुरोडाशान्भक्षितवन्तः पपिवांसः सोमं पीतवन्तश्च। हे वसवो निवासहेतवो यूयमस्मे अस्मासु वसूनि धनानि धत्त स्थापयत।
अथ षष्ठी — यानावह इति। हेऽग्ने देवोशतो हवींषि कामयमानान्यान्देवानावहो वर्णव्यत्ययादाहव आहूतवानसि, तान्देवान्स्वे स्वकीये सधस्थे सहनिवासस्थाने प्रेरय। हे देवा हवींषि वहमाना रथादिभिर्नयन्तो भरमाणाः पोषयन्तो वसुं जगन्निवासहेतुं धर्ममादित्यमातिष्ठताऽऽगच्छत। अन्वनन्तरं दिवं स्वर्गमागच्छत।
अथ त्रयाणां यजुषां मध्ये प्रथमं यजुः - यज्ञेति। हे यज्ञ त्वं स्वप्रतिष्ठार्थं यज्ञनामकं विष्णुं गच्छ। फलप्रदानार्थं यज्ञपतिं यजमानं गच्छ। स्वनिष्पत्त्यर्थं स्वां योनिं स्वकारणभूतां वायोः क्रिया शक्तिं गच्छ। स्वाहा हुतमस्तु।
अथ द्वितीयम् — एष त इति। हे यज्ञपते यज्ञस्वामिन्नेषोऽनुष्ठीयमानस्ते यज्ञः सूक्तवाकैः स्तोत्रैः सहितः, शोभना वीराः कर्मकुशला ऋत्विजो यस्यासौ सुवीरः। तत इदमाज्यं त्वया स्वाहा हुतमस्तु।
अथ तृतीयम् – देवा इति। हे गातुविदो मार्गज्ञा देवा गातुं वित्त्वा भवदागमनमार्गं ज्ञात्वा यज्ञे समाप्ते सति गातुमित पुनस्तमेव मार्गं गच्छत। हे मनसस्पते देव परमेश्वर नोऽस्माकमिमं यज्ञं देवेषु हविर्भुक्षु स्वाहा प्रथमं स्थापय। ततो वाचि मन्त्ररूपायां वाग्देवतायां स्थापय। ततो वाते क्रियाप्रवर्तके देवे धाः स्थापय।
यथोक्तमन्त्रसाध्यं होमं विधत्ते — ‘समिष्टयजूँषि जुहोति यज्ञस्य समिष्ट्यै यद्वै यज्ञस्य क्रूरं यद्विलिष्टं यदत्येति यन्नात्येति यदतिकरोति यन्नापि करोति तदेव तैः प्रीणाति’ (सं. का. ६ प्र. ६ अ. २) इति।
सम्यग्यजनं समिष्टं युज्यन्ते प्रयुज्यन्त इति धारा रातिरित्यादयो मन्त्रा यजूंषि। समिष्टार्थानि यजूंष्युच्चार्याऽऽज्यं जुहुयात्। तच्च यज्ञस्य सम्यगनुष्ठित्यै संपद्यते। क्रूरादिदोषाणां होमेन समाहितत्वात्। क्रूरं पशुहिंसादि। विलिष्ठं विहितस्य दक्षिणादिद्रव्यस्याल्पीभावः। अत्ययानत्ययौ कालकृतौ। तथा हि ‘पाशुकानां प्रयाजानां चोदकवशेन हविरासादनादूर्ध्वमनुष्ठनं प्राप्तं तत्तु तिष्ठन्तं पशुं प्रयजन्तीति वचनेन पशुविशसनात्प्रागपकृष्टं, तदनादृत्य चोदकवशेनैवानुष्ठानमशास्त्रीयः कालात्ययः। तथा तृतीयसवनोपक्रमे सवनीयपशोरङ्गप्रचारानन्तरमेवानूयाजाश्चोदकवशेन प्राप्तास्ते त्वाग्निमारुतादूर्ध्वमनूयाजैश्चरन्तीति वचनेन तृतीयसवनस्य समाप्तिकाल उत्कृष्टाः, तदनादृत्योपक्रम एव तदनुष्ठानमशास्त्रीयः काला(न)त्ययः। अपबर्हिषः प्रयाजान्यजतीति वचनेनावभृथे बर्हिर्नामकश्चतुर्थप्रयाजो निषिद्धः। तन्निषेधमतिक्रम्य तस्यानुष्ठानमतिकरम्। विहितस्य कस्यचिदङ्गस्य विस्मृतिरकरणम्। अपिशब्दः क्रूरादीनां समुच्चयार्थः। तच्च क्रूरादिकं तैरेव होमैः प्रीणाति समादधाति।
आहुतिसंख्यां विधत्ते — ‘नव जुहोति नव वै पुरुषे प्राणाः पुरुषेण यज्ञः संमितो यावानेव यज्ञस्तं प्रीणाति’ (सं. का. ६ प्र. ६ अ. २) इति।
प्राणास्तदाधारच्छिद्राणि।
नवसु मन्त्रेषु ऋग्यजुषोरवान्तसंख्यां विधत्ते — ‘षड्ऋग्मियाणि जुहोति षड्वा ऋतव ऋतूनेव प्रीणाति त्रीणि यजूँषि त्रय इमे लोका इमानेव लोकान्प्रीणाति’ (सं. का. ६ प्र. ६ अ. २) इति।
यज्ञस्य यजमानप्राप्तिः स्वकारणप्राप्तिश्च मन्त्रपाठादेव संपद्यत इत्याह — ‘यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छेत्याह यज्ञपतिमेवैनं गमयति स्वां योनिं गच्छेत्याह स्वामेवैनं योनिं गमयति’ (सं. का. ६ प्र. ६ अ. २) इति।
सुवीरशब्देन वीर्यप्राप्तिः सूच्यत इत्याह — ‘एष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीर इत्याह यजमान एव वीर्यं दधाति’ (सं. का. ६ प्र. ६ अ. २) इति।
देवा गातुविद इत्येतन्मन्त्रप्रशंसार्थमाख्यायिकामाह — ‘वासिष्ठो ह सात्यहव्यो देवभागं पप्रच्छ यत्सृञ्जयान्बहुयाजिनोऽयीयजो यज्ञे यज्ञं प्रत्यतिष्ठिपा३ यज्ञपता३विति स होवाच यज्ञपताविति सत्याद्वै सृञ्जयाः परा बभूवुरिति होवाच यज्ञे वाव यज्ञः प्रतिष्ठाप्य आसीद्यजमानत्यापराभावायेति देवा गातुविदो गातुं वित्त्वा गातुमितेत्याह यज्ञ एव यज्ञं प्रति प्रापयति यजमानस्यापराभावाय’ (सं. का. ६ प्र. ६ अ. २) इति।
वसिष्ठगोत्रोत्पन्नः सत्यहवस्य पुत्रो देवभागनामानं मुनिं प्रपच्छ, यदा सृञ्ज-याख्यदेशस्थान्बहुविधसोमयागानुष्ठायिनो याजितवानसि तदा किं यज्ञं स्वाहेत्येवं यज्ञलिङ्गके देवा गातुविद इत्येतस्मिन्मन्त्रे यज्ञं समिष्टयजुर्होमं समापितवानसि, उत यज्ञपतिं गच्छेत्येवं यज्ञपतिलिङ्गके यज्ञ यज्ञं गच्छेत्येतस्मिन्मन्त्र इति। तत्र द्वितीयपक्षे सति यस्मात्सत्याद्यज्ञात्पराभवंस्तस्मात्प्रथमपक्ष एवोपादेय इत्युत्तरम्।
अत्र विनियोगसंग्रहः – “धातानुवाके सर्वस्मिन्समिष्टाख्ययजूंषि हि। ऋचः षडाद्याः शेषाणि यजूंष्येतैर्जुहोति हि’ इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके अष्टात्रिंशोऽनुवाकः॥३८॥

(अथ प्रथमाष्टके चतुर्थप्रपाठके एकोनचत्वारिंशोऽनुवाकः)।
अष्टात्रिंशेऽनुवाक समिष्टयजुर्होमोऽभिहितः। एकोनचत्वारिंशेऽनुवाकेऽवभृथो वर्ण्यते।
कल्पः – ‘उरुँहि राजा वरुणश्चकारेति वेद्या अभिप्रयान्तो वदन्ति चात्वालाद्वा’ इति।
पाठस्तु — उरुँ हीति। उशब्दोऽवधारणे। वरुण एव राजा सूर्याय सूर्यस्यान्वेतवै अनुक्रमेण गन्तुमपदे निरालम्बेऽन्तरिक्ष उरुं पन्थां विस्तीर्णं मार्गं यस्माच्चकार तस्मादस्माकमपि पादा प्रतिधातवे पादं प्रक्षेप्तुं मार्गमकः करोतु। उतापि च यः शत्रुरपवक्ता निन्दको यश्च हृदयाविधो हृदयोपलक्षितं शरीरं ताडयति, चिच्छब्दः समुच्चये, सोऽपि प्रतिबन्धमकृत्वा मार्गं करोत्वित्यर्थः।
कल्पः –‘शतं ते राजन्भिषजः सहस्त्रमित्यपो दृष्ट्वा जपति’ इति।
पाठस्तु — शतं त इति। हे राजन्वरुण तव शतसहस्रसंख्याका भिषजोऽस्मदुपद्रव-निवारकाः सन्ति। तस्मादस्मासु तव सुमतिरनुग्रहबुद्धिरस्तु। कीदृशी। उर्वी विपुला सार्वकालिकीत्यर्थः गम्भीराऽऽदरयुक्तेत्यर्थः। द्वेषो द्वेषिणो बाधस्व।
नितिं यज्ञविघातिनीं पराचैः कुरु तिरस्कुर्वित्यर्थः। अस्माभिः कृतमपि पापमस्मत्तः प्रमोचय।
अभिष्ठित इति। कल्पः – ‘अभिष्ठितो वरुणस्य पाश इत्युदकान्तमभिति-ष्ठन्ते(ति)’ इति।
जलमध्यवर्ती सूक्ष्मतन्त्वाकारो बन्धनहेतुर्जीवविशेषो वरुणस्य पाशः। सोऽयमभिष्ठितः पादाक्रमणेन तिरस्कृतः।
कल्पः- ‘अग्नेरनीकमप आ विवेशेति स्रुच्यमाघारयति’ इति।
पाठस्तु — अग्नेरिति। अग्नेरनीकं मुखमप्सु प्रविष्टम्। हेऽपां नपादेतन्नामकाग्ने दमेदमे तत्तद्गृहेऽसूर्यमसुरैः कृतं यज्ञविघ्नं प्रतिरक्षन्प्रतिनिवर्त्य यज्ञं पालयन्समिधं समिन्धनसाधनं घृतं यक्षि संमतं कुरु। ते तव जिह्वा घृतं प्रत्युच्चरण्येदुद्युक्ता भवतु।
उरुँ हि राजेत्यादिमन्त्रान्व्याचिख्यासुः प्राचीनमनुष्ठानं विधत्ते — “अवभृथयजूँषि जुहोति यदेवार्वाचीनमेकहायनादेनः करोति तदेव तैरव यजते’ (सं. का. ६ प्र. ६ अ. ३) इति।
अवभृथाख्यं कर्म कर्तुमुदकसमीपं जिगमिषुरायुर्दा इत्यादीनि यजूंषि जुहुयात्। तथा च सूत्रम् ‘आयुर्दा अग्ने हविषो जुषाण इत्यवभृथमवैष्यञ्जुहुयादवभृथ निचङ्कुणेति च, नमो रुद्राय वास्तोष्पतये, आयने विद्रवणे, उद्याने यत्परायणे,
आवर्तने विवर्तने, यो गोपायति तँहुवे’ इति, इतः पूर्वमेकस्मिन्संवत्सरे यत्कृतं पापं तदेव तैरवयजते विनाशयति।
अवभृथमुद्दिश्योदकसमीपे गमनं विधत्ते — ‘अपोऽवभृथमवैत्यप्सु वै वरुणः साक्षादेव वरुणमव यजते’ (सं. का. ६ प्र. ६ अ. ३) इति।
अपां प्राप्त्या तदभिमानिनं वरुणं साक्षादव्यवधानेनैवावयजते पूजयति।
प्रस्तोतुः साम्नाऽनुयानं विधत्ते — ‘वर्त्मना वा अन्वित्य यज्ञँ रक्षाँसि जिघाँसन्ति साम्ना प्रस्तोताऽन्ववैति साम वै रक्षोहा रक्षसामपहत्यै’ (सं. का. ६ प्र. ६ अ. ३) इति।
त्रित्वसंख्यां विधत्ते — ‘त्रिर्निधनमुपैति त्रय इमे लोका एभ्य एव लोकेभ्यो रक्षाँस्यपहन्ति’ (सं. का. ६ प्र. ६ अ. ३) इति।
सर्वेषां निधनोच्चरणं विधत्ते — ‘पुरुषःपुरुषो निधनमुपैति पुरुषःपुरुषो हि रक्षस्वी रक्षसामपहत्यै’ (सं. का. ६ प्र. ६ अ. ३) इति।
रक्षस्वी सर्वेषां प्रत्येकं बाधकं रक्षोऽस्तीत्यर्थः। अत्र सूत्रम् “सर्वे सपत्नी-कास्त्रिः साम्नो निधनमुपयन्त्यर्धाध्वे द्वितीयं प्राप्य तृतीयम्’ इति।
मन्त्रोक्तो मार्गविस्ता(स्त)रः पादप्रतिष्ठार्थ इत्याह — ‘उरुँ हि राजा वरुणश्चकारेत्याह प्रतिष्ठित्यै’ (सं. का. ६ प्र. ६ अ. ३) इति।
भिषक्शब्देन यजमानस्य पापोपद्रवपरिहारः सूच्यत इत्याह — ‘शतं ते राजन्भिषजः सहस्रमित्याह भेषजमेवास्मै करोति’ (सं. का. ६ प्र. ६ अ. ३) इति।
मन्त्रेणैव वरुणपाशः परिह्रियत इत्याह — ‘अभिष्ठितो वरुणस्य पाश इत्याह वरुणापाशमेवाभि तिष्ठति’ (सं. का. ६ प्र. ६ अ. ३) इति।
अप्सु बर्हिः प्रक्षिप्य तस्योपरि जुहुयादिति विधत्ते — ‘बर्हिरभि जुहोत्याहुतीनां प्रतिष्ठित्या अथो अग्निवत्येव जुहोति’ (सं. का. ६ प्र. ६ अ. ३) इति।
‘अग्निवान्वै दर्भस्तम्बः’ इति श्रुतेरग्नियुक्तत्वम्। अत्र सूत्रम् “तृणं प्रहृत्य स्रौवमाघारयति। यदि वा पुरा तृणं स्यात्तस्मिञ्जुहुयात्’ इति।
चोदकप्राप्तेषु पञ्चसु प्रयाजेषु बर्हिर्नामकं चतुर्थं प्रयाजं निषेधति — ‘अपबर्हिषः प्रयाजान्यजति प्रजा वै बर्हिः प्रजा एव वरुणपाशान्मुञ्चति’ (सं. का. ६ प्र. ६ अ. ३) इति।
यद्यप्यत्राऽऽज्यभागौ चोदकादेव प्राप्तौ तथाऽपि मन्त्रविशेषमभिप्रेत्य पुनर्विधत्ते — “आज्यभागौ यजति यज्ञस्यैव चक्षुषी नान्तरेति’ (सं. का. ६ प्र. ६ अ. ३) इति।
आज्यभागयोर्यज्ञचक्षुष्ट्वमन्यत्र श्रुतम् “चक्षुषी वा एते यज्ञस्य यदाज्यभागौ’ इति। प्रकृतावग्निर्वृत्राणीत्यादिके पुरोनुवाक्ये। इह तु अप्स्वग्ने सधिष्ठवेत्यादिके। तथा च सूत्रम् “अप्सुमन्तावाज्यभागौ यजति अप्स्वग्न इत्येषाऽप्सु मे सोमो अब्रवीत्’ इति।
प्रधानदेवतां विधत्ते — ‘अग्नीवरुणौ यजति साक्षादेवैनं वरुणपाशान्मुञ्चति’ (सं. का. ६ प्र. ६ अ. ३) इति।
साक्षाच्छीघ्रमेवेत्यर्थः।
चोदकप्राप्तेषु त्रिष्वनूयाजेषु बर्हिर्नामकं प्रथमानूयाजं निषेधति — ‘अपबर्हिषावनूयाजौ यजति प्रजा वै बर्हि प्रजा एव वरुणपाशान्मुञ्चति’ (सं. का. ६ प्र. ६ अ. ३) इति।
प्रयाजानूयाजान्प्रशंसति — “चतुरः प्रयाजान्यजति द्वावनूयाजौ षट् संपद्यन्ते षड्वा ऋतव ऋतुष्वेव प्रति तिष्ठति’ (सं. का. ६ प्र. ६ अ. ३) इति।
समुद्र इति। बौधायनः “अथाप्सु स्रुचं प्रतिष्ठापयति समुद्रे ते हृदय-मप्स्वन्तरित्यथैनामद्भिः पूरयति सं त्वा विशन्त्वोषधीरुताऽऽप इत्यप्स्वेवापो जुहोति यज्ञस्य त्वा यज्ञपते हविर्भिः सूक्तवाके नमोवाके विधेमेति’ इति।
आपस्तम्बस्त्वेकमन्त्रतामाह “ऋजीषस्य स्रुचं पूरयित्वाऽप्सूपमारयति समुद्रे ते हृदयमप्स्वन्तरिति ततो यो बिन्दुरुपप्लवते तमुपस्पृशेत्’ इति।
हे जुहु ते हृदयं बिलं समुद्रसमास्वप्स्वन्तर्मध्ये प्रतितिष्ठतु। ऋजीषरूपा ओषधयस्त्वां सम्यक्प्रविशन्तु। अपि चाऽऽपो विशन्तु। अथवा वरुणं संबोध्य व्याख्येयम्। ‘इदं द्यावापृथिवी’ इत्यादिको मन्त्रः सूक्तवाकः। ‘नमो वाचे या चोदिता’ इत्यादिको मन्त्रः नमोवाकः। हे यज्ञपते यजमान त्वदीयैर्हविर्भिर्देवताः संतर्प्य त्वां सूक्तवाकनमोवाकद्वयोक्तफले विधेम स्थापयामः।
अवभृथेति। बोधायनः “अथैतमवभृथं संकिरन्ति यत्किंच सोमलिप्तं भवत्यवभृथ निचङ्कुण निचेरुरसि निचङ्कुणाव देवैर्देवकृतमेनोऽयाडव मर्त्यैर्मर्त्यकृतमुरोरा नो देव रिषस्पाहीति’ इति।
आपस्तम्बस्तु “आयुर्दा अग्ने नमो रुद्राय वास्तोष्पतय इत्येताभ्यां मन्त्राभ्यां सहैतं मन्त्रं होमे विनियुक्तवान्। तच्च पूर्वमुदाहृतम्। हेऽवभृथाभिमानिन्वरुण निचङ्कुण राक्षसभर्त्सनार्थं नितरां ध्वनिं कारितवानसि। निचेरुरसि अस्मद्रक्षार्थं निगूढत्वेन चरणशीलोऽसि। हे निचङ्कुणास्माभिर्देवेषु कृतमेनोऽपराधं तैर्देवैः सह त्वमवायाड्विनाशय। मर्त्येषु ऋत्विक्षु कृतं तत्तैर्मर्त्यैः सहानायाड्विनाशय। हे देवोरोरधिकाद्रिषो देवमर्त्यकृतहिंसनान्नोऽस्माना समन्तात्पाहि।
पाठक्रममनादृत्यैतन्मन्त्रमादौ व्याचष्टे — ‘अवभृथ निचङ्कुणेत्याह यथोदितमेव वरुणमव यजते’ (सं. का. ६ प्र. ६ अ. ३) इति।
निचेरुनिचङ्कुणादिशब्दोदितं वरुणमवयजत उपचरति। धातूनामनेकार्थत्वाद्यथोचितं व्याख्येयम्।
वरुणसंबोधनपक्षमाश्रित्य व्याचष्टे — ‘समुद्रे ते हृदयमप्स्वन्तरित्याह समुद्रे ह्यन्तर्वरुणः’ (सं. का. ६ प्र. ६ अ. ३) इति।
संशब्देन यजमानस्याद्भिरोषधीभिश्च समृद्धिः सूच्यत इत्याह — “सं त्वा विशन्त्वोषधीरुताऽऽप हत्याहाद्भिरेवैनमोषधीभिः सम्यञ्चं दधाति’ (सं. का. ६ प्र. ६ अ. ३) इति।
सुमित्रा इति। बौधायनः “अथाञ्जलिनाऽप उपसंगृह्य सुमित्रा न आप ओषधयः सन्त्विति तां दिशं निरुक्षति यस्यां दिश्यस्य द्वेष्यो भवति दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति’ (सं. का. ६ प्र. ६ अ. ३) इति।
आपस्तम्बस्यैक एव मन्त्रः “सुमित्रा न आप ओषधय इत्यापः प्रगाह्य’ इति।
स्पष्टो मन्त्रार्थः।
कल्पः “देवीराप इत्यवभृथं यजमानोऽभिमन्त्र्य’ इति।
पाठस्तु — देवीराप इति। हे आपो देव्य एष वरुणो युष्माकं गर्भवदन्तरवस्थितोऽतो वो युष्माकं परितोषाय तं वरुणं हविषा सुप्रीतं सुभृतं सुष्ठु पुष्टं चाकर्म वयं कृतवन्तः। स वरुणो नोऽस्मान्सुकृतः सम्यगनुष्ठातॄन्ब्रवीतु।
स्पष्टार्थत्वात्सुमित्रा न इति मन्त्रमुपेक्ष्य देवीराप इत्यस्य स्पष्टार्थतामाह — ‘देवीराप एष वो गर्भ इत्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. ६ अ. ३) इति।
ऋजीषस्याप्सु प्रहारेणोद्गतानां बिन्दूनां भक्षणाभक्षणयोर्दोषसद्भावात्तत्परिहारायोपस्पर्शं विधत्ते — ‘पशवो वै सोमो यद्भिन्दूनां भक्षयेत्पशुमान्त्स्याद्वरुणस्त्वेनं गृह्णीयाद्यन्न भक्षयेदपशुः स्यान्नैनं वरुणो गृह्णीयादुपस्पृश्यमेव पशुमान्भवति नैनं वरुणो गृह्णाति’ (सं. का. ६ प्र. ६ अ. ३) इति।
सोमस्य पशुप्राप्तिसाधनत्वात्पशुत्वम्। भिद्यन्त इति भिन्दवो जलकणाः। वरुणग्रहणं नाम महोदराख्यरोगोत्पत्तिः।
प्रतियुत इति। कल्पः “अथापामन्तं प्रतियौति प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाश इति’ इति।
बन्धनस्य हेतुर्वरुणस्य पाशः प्रतियुतः पृथक्कृतः। प्रत्यस्तो विनाशितः।
मन्त्रस्यार्थस्तथैव फलतीत्याह — “प्रतियुतो वरुणस्य पाश इत्याह वरुणपाशादेव निर्मुच्यते” (सं. का. ६ प्र. ६ अ. ३) इति।
जलान्निर्गत्य पुनस्तज्जलमदृष्ट्वैव देवयजनदेशे गन्तव्यमिति विधत्ते — “अप्रतीक्षमा यन्ति वरुणस्यान्तर्हित्यै” (सं. का. ६ प्र. ६ अ. ३) इति।
अन्तर्हितिरदर्शनम्।
कल्पः - “एधोऽस्येधिषीमहीत्याहवनीये समिध आधायापो अन्वतारिषमित्यु-पतिष्ठन्ते” इति।
पाठस्तु — एधोऽसीति। हे समिदेधोऽसि वृद्धिहेतुरसि। अतो वयमेधिषीमहि अभिवृद्धिं प्राप्ताः। अयमाद्यो मन्त्रः। समित्समिन्धनसाधनमसीति द्वितीयः। तेजः कान्तिसाधनमसि। कान्तिं मयि धेहि स्थापयेति तृतीयः। एतैस्तिस्रः समिध आदध्यात्। अपोऽनु जलमनुप्राप्याचारिषमवभृथकर्मानुष्ठितवानस्मि। रसेन फलेन समसृक्ष्महि संगतोऽस्मि। हेऽग्ने पयस्वान्क्षीरादिसमृद्धियुक्त आगममिहाऽऽगतोऽस्मि। तं मा वर्चसा बलेन संयोजय।
समिदाधानेन वह्निः पूज्यत इत्याह — “एधोऽस्येधिषीमहीत्याह समिधैवाग्निं नमस्यन्त उपायन्ति” (सं. का. ६ प्र. ६ अ. ३) इति।
नमस्यन्तः पूजयन्तः। मयि धेहीत्यस्याभिप्रायमाह — “तेजोऽसि तेजो मयि धेहीत्याह तेज एवाऽऽत्मन्धत्ते” (सं. का. ६ प्र. ६ अ. ३) इति।
अवशिष्टः स्पष्टत्वादुपेक्षितः। अत्र विनियोगसंग्रहः — उरुं वदन्ति गच्छन्तः सर्वेऽप्यवभृथं प्रति।
शतं दृष्ट्वा जले जप्यमभ्याक्रामति तज्जलम्॥१॥
अग्नेः स्रुचाऽऽधारयेत्तु समृजीषं जलं क्षिपेत्।
अवेति गमने होमः सुमित्रा अवगाहनम्॥२॥
देवीरित्यभिमन्त्र्याथ प्रत्युद्गच्छति तज्जलात्।
एधः समित्तेज एतैर्होम आहवनीयके॥
अपो अग्नेरुपस्थानमिति मन्त्रास्त्रयोदश॥३॥ इति।
यद्यप्येतावता सौमिकमन्त्रकाण्डं तद्व्याख्यानरूपं ब्राह्मणं च समाप्तं तथाऽपि सन्ति ब्राह्मणशेषा अष्टावनुवाकास्ते त्वत्रैव विव्रियन्ते। तेष्वनुवाकेषु क्रमेणैतेऽर्थाः प्रतिपाद्यन्ते — यूपैकादशिनी पश्वैकादशिनी पात्नीवतः पशुः सौम्यचर्वादिरतिग्राह्योऽदाभ्योऽँशुः षोडशी चेति। तत्र समनन्तरानुवाकप्रतिपाद्या यूपैकादशिन्येकयूपेन सह विकल्पिता। तथा चान्यन्त्र श्रूयते — “एकयूपो वैकादशिनी वा। अन्येषां यज्ञानां यूपा भवन्ति। एकविँशिन्यश्वमेधस्य” इति।
अग्निष्टोमे यः सवनीयः पशुस्तेन सहोपरितनानुवाके वक्ष्यमाणा ऐकादशिनाः पशवो विकल्पिताः। तथा च सूत्रम् —”क्रतुपशव ऐकादशिनाश्च विकल्पन्ते” इति।
तत्रैकादशिनपश्वर्था यूपैकादशिनी, तां विधत्ते — “स्फ्येन वेदिमुद्धन्ति रथाक्षेण वि मिमीते यूपं मिनोति त्रिवृतमेव वज्रँ संभृत्य भ्रातृव्याय प्र हरति स्तृत्यै” (सं. का. ६ प्र. ६ अ. ४) इति।
भूमेरुपरितनममेध्यमपहन्तुं वेदिस्थानमुद्धन्यात्। तस्मिन्स्थाने वेदिरेकयूपपक्षे पदैर्विमिता। तथा च पूर्वमुदाहृतम् – “त्रिँशत्पदानि पश्चात्तिरश्ची” इत्यादि। एकादशिनीपक्षे त्ववकाशस्य पर्याप्तये रथाक्षेण वेदिर्मातव्या। तथा च सूत्रम् - “यत्प्राग्वेदिसंमानात्तत्कृत्वा दशरथाक्षामेकादशोपराँ रज्जुं नीत्वा” इति। उपरशब्देन प्रादेशपरिमिता यूपावटदेशा विवक्षिताः। द्वयोर्द्वयोरवटदेशयोर्मध्यदेशो रथाक्षेण परिमितस्तादृश्या वेदेर्दक्षिणांसमारभ्योत्तरांसपर्यन्तेषु पङ्क्तिरूपेणावस्थितेष्वेकादशस्ववटेषु यूपानुच्छ्रयेत्। यूपमिति जातावेकवचनम्। स्फ्यरथाक्षयूपास्त्रयो वज्रस्य भागाः तथा चाऽऽम्नातम् — “इन्द्रो वृत्राय वज्रं प्राहरत्स त्रेधा व्यभवत्स्फ्यस्तृतीयँ रथस्तृतीयम्” इति। तेषां त्रयाणामत्र मेलनाद्वज्रस्त्रिवृत्संपद्यते। स्तृत्यै हिंसायै।
यूपावटस्यार्धं वेद्यामर्धं बहिश्चेत्येवं तद्देशं विधत्ते — “यदन्तर्वेदि मिनुयाद्देवलोकमभि जयेद्यद्बहिर्वेदि मनुष्यलोकं वेद्यन्तस्य संधौ मिनोत्युभयोर्लोकयोरभिजित्यै” (सं. का. ६ प्र. ६ अ. ४) इति।
अन्तः समीपदेशः। वेदिश्चान्तश्च वेद्यन्तं तत्संधावुच्छ्रयेत्।
उच्छ्रये कांश्चित्काम्यान्विशेषान्विधत्ते — “उपरसंमितां मिनुयात्पितृलोककामस्य रशनसंमितां मनुष्यलोककामस्य चषालसंमितामिन्द्रियकामस्य सर्वान्त्समान्प्रतिष्ठाकामस्य ये त्रयो मध्यमास्तान्त्समान्पशुकामस्य” (सं. का. ६ प्र. ६ अ. ४) इति।
तक्षणरहितानि यूपमूलानि उपराणि तैरेकादशिनी संमिता सदृशी। एकस्योपरस्य यावानायामस्तावानेवेतरेषां दशानामित्यर्थः। रशनादेशस्थौल्येन समाना रशनसंमिता। चषालविस्तारेण समाना चषालसंमिता। अत एव सूत्रकारेणोक्तम् – “आयामत उपराणि समानि स्युस्तिर्यक्तो मध्यानि रशनाश्च प्रथिम्नश्चषालानि” इति। सर्वानुपररशनादेशचषालविस्तारान्। एकादशसु षष्ठो मध्यमस्तत्पार्श्ववर्तिनौ द्वौ तेषां त्रयाणामेवोपरादिसाम्यनियमो नेतरेषाम्। तथा च सति पशुप्राप्तिः।
तामेव पशुप्राप्तिं दर्शयति — “एतान्वा अनु पशव उप तिष्ठन्ते पशुमानेव भवति” (सं. का. ६ प्र. ६ अ. ४) इति।
एतान्समाननु यजमानं पशवः प्राप्नुवन्ति।
त्रिभ्योऽतिरिक्तेष्वष्टास्वन्योन्यस्पर्शं विद्यत्ते — “व्यतिषजेदितरान्प्रजयैवैनं पशुभिर्व्यतिषजति” (सं. का. ६ प्र. ६ अ. ४) इति।
यूपैकादशिन्याः कामनाभेदेन दक्षिणदेशप्रवणत्वं निन्दित्वोत्तरदेशप्रवणत्वं
विधत्ते — “यं कामयेत प्रमायुकः स्यादिति गर्तमितं तस्य मिनुयादुत्तरार्ध्यं वर्षिष्ठमथ ह्रसीयाँसमेषा वै गर्तमिद्यस्यैव मिनोति ताजक्प्र मीयते दक्षिणार्ध्यं वर्षिष्ठं मिनुयात्सुवर्गकामस्याथ ह्रसीयाँसमाक्रमणमेव तत्सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै” (सं. का. ६ प्र. ६ अ. ४) इति।
गर्तशब्देन दक्षिणदेशनिम्नश्मशानं विवक्षितम्। गर्तवन्मीयन्ते यूपा अस्यामेकादशिन्यामिति गर्तमित्तादृशीमुच्छ्रयेत्। अग्निष्ठनामको यो मध्यमो यूपस्तस्मादुत्तरार्धे स्थितं यूपपञ्चकं वर्षिष्ठमत्युन्नतम्। दक्षिणार्धे स्थितं पञ्चकं ह्रसीयांसं ह्रस्वम्। ईदृश्येकादशिनी गर्तमित्तस्यामुच्छ्रितायां तदानीमेव म्रियते। स्वर्गार्थमुक्तवैपरीत्यं कुर्यात्। आक्रम्यत आरुह्यते स्वर्गोऽनेन सेतुनेत्याक्रमणः।
लौकिकदृष्टान्तेन रशनाद्वयं विधत्ते — “यदेकस्मिन्यूपे द्वे रशने परिव्ययति तस्मादेको द्वे जाये विन्दते यन्नैकाँ रशनां द्वयोर्यूपयोः परिव्ययति तस्मान्नैका द्वौ पती विन्दते” (सं. का. ६ प्र. ६ अ. ४) इति।
अत्र सूत्रम् — “अग्निष्ठं द्वाभ्यां रशनाभ्यां परिवीय” इति।
रशनाद्वयस्यान्तयोर्मेलनं प्रवेष्टनं च कामनाभेदेन विधत्ते — “यं कामयेत स्त्र्यस्य जायेतेत्युपान्ते तस्य व्यतिषजेत्स्त्र्येवास्य जायते यं कामयेत पुमानस्य जायेतेत्यान्तं तस्य प्र वेष्टयेत्पुमानेवास्य जायते” (सं. का. ६ प्र. ६ अ. ४) इति।
अन्तयोः समीप उपान्ते। अन्तेन सहितमान्त रशनाद्वयभागम्।
एकादशभ्योऽतिरिक्तमुपशयाख्यं यूपं विधत्ते — “असुरा वै देवान्दक्षिणत उपानयन्तान्देवा उपशयेनैवापानुदन्त तदुपश-यस्योपशयत्वं यद्दक्षिणत उपशय उपशये भ्रातृव्यापनुत्त्यै” (सं. का. ६ प्र. ६ अ. ४) इति।
पुरा कदाचिदसुरा देवान्स्ववशान्कृत्वाऽग्निष्ठाद्यूपाद्दक्षिणभागे समानयन्। तानसुरान्देवा उपशयेनैकादशिनीसमीपे शयानेन यूपेनापानुदन्त। समीपशयनादुपशयनाम संपन्नम्। उपशय उपशेते शयानत्वेन पातयेदित्यर्थः। अत्र सूत्रम् - “उपाशयं द्वाभ्यां परिवीयाग्रेण दक्षिणं यूपं निदधाति” इति।
द्वेष्यं पशुत्वेन निर्दिशेदिति विधत्ते — “सर्वे वा अन्ये यूपाः पशुमन्तोऽथोपशय एवापशुस्तस्य यजमानः पशुर्यन्न निर्दिशेदार्तिमार्च्छेद्यजमानोऽसौ ते पशुरिति निर्दिशेद्यं द्विष्याद्यमेव द्वेष्टि तमस्मै पशुं निर्दिशति” (सं. का. ६ प्र. ६ अ. ४) इति।
अग्निष्ठादय एकादश यूपा वक्ष्यमाणैराग्नेयादिपशुभिरुपेताः। उपशये तु प-श्वन्तराभावाद्यजमानस्याऽऽर्तिप्राप्तिर्द्वेष्यं निर्दिश्य तद्वारयेत्।
द्वेष्याभावे मूषकं निर्दिशेदिति विधत्ते — “यदि न द्विष्यादाखुस्ते पशुरिति ब्रूयान्न ग्राम्यान्पशून्हिनस्ति नाऽऽरण्यान्” (सं. का. ६ प्र. ६ अ. ४) इति।
विहितामेकादशिनीं प्रशंसति — “प्रजापतिः प्रजा असृजत सोऽन्नाद्येन व्यार्ध्यत स एतामेकादशिनीमपश्य-त्तया वै सोऽन्नाद्यमवारुन्ध यद्दश यूपा भवन्ति दशाक्षरा विराडन्नं विराड्विरा-जैवान्नाद्यमव रुन्धे य एकादशः स्तन एवास्यै स दुह एवैनां तेन” (सं. का. ६ प्र. ६ अ. ४) इति।
दशयूपानां विराड्रूपत्वेन धेनुत्वादेकादशो यूपः स्तनो भवति।
पात्नीवताख्यं त्रयोदशं यूपं विधत्ते — “वज्रो वा एषा सं मीयते यदेकादशिनी सेश्वरा पुरस्तात्प्रत्यञ्चं यज्ञँ सं-मर्दितोर्यत्पात्नीवतं मिनोति यज्ञस्य प्रत्युत्तब्ध्यै सयत्वाय” (सं. का. ६ प्र. ६ अ. ४) इति।
सैकादशिनी वज्ररूपा सती पुरस्तादवस्थाय प्रत्यगवस्थितं यज्ञं संमर्दितिमी-श्वरा भवति। मर्दितस्य पुनः समाधानं प्रत्युत्तब्धिः। सयो बन्धः। षिञ्बन्धन इत्यस्माद्धातोरुत्पन्नत्वात्। सयत्वाय दृढत्वायेत्यर्थः।
यूपैकादशिनी निरूपिता। अथ पश्वेकादशिनीं विधत्ते — ‘प्रजापतिः प्रजा असृजत स रिरिचानोऽमन्यत स एतामेकादशिनीमपश्य-त्तया वै स आयुरिन्द्रयं वीर्यमात्मन्नधत्त प्रजा इव खलु वा एष सृजते यो य जते स एतर्हि रिरिचान इव यदेषैकादशिनी भवत्यायुरेव तयेन्द्रियं वीर्यं यजमान आत्मान्धत्ते’ (सं. का. ६ प्र. ६ अ. ५) इति।
प्रजासृष्ट्या वीर्यादिक्षयाद्रिक्तोऽहमिति धीः। तथा यज्ञप्रयासेनापि। पश्वे-कादशिन्या तत्समाधानम्। ते च पशुविशेषा देवतासहिता अशमवमेधप्रकरणे समाम्नाताः - ‘आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौम्यः पौष्णः श्यामः शितिपृष्ठो बार्हस्पत्यः शिल्पो वैश्वदेव ऐन्द्रोऽरुणो मारुतः कल्माष ऐन्द्राग्नः सँ हितोऽधोरामः सावित्रो वारुणः पेत्वः’ इति। कृष्णग्रीवत्वादिभिर्विशेषिताः सर्वेऽप्यजाः। मेषी त्वेकैवान्यजातिः। विशेषणानि च तस्मिन्नेव प्रकरणे व्याख्यास्यन्ते।
तानेतानत्र पशून्विशेषेण प्रशंसन्विशेषविधिमुन्नयति — ‘प्रैवाऽऽग्नेयेन वापयति मिथुनँ सारस्वत्या करोति रेतः सौम्येन दधाति प्र जनयति पौष्णेन बार्हस्पत्यो भवति ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै प्रजाः प्र जनयति वैश्वदेवो भवति वैश्वदेव्यो वै प्रजाः प्रजा एवास्मै प्र जनयतीन्द्रिय मेवैन्द्रेणाव रुन्धे विशं मारुतेनौजो बलमैन्द्राग्नेन प्रसवाय सावित्रो निर्वरुणत्वाय वारुणः’ (सं. का. ६ प्र. ६ अ. ५) इति।
प्रवापयति बीजं स्वतः संपादयति। आग्नेयस्य पुंसः सारस्वत्या स्त्रिया सह मिथुनीकरणम्। सौम्येन योषिति रेतोधारणम्। पौष्णेन प्रजोत्पत्तिः। बार्हस्पत्ये ब्रह्मण उत्पत्तिसाधनत्वम्। वैश्वदेवेन प्रजानां तद्देवतानुग्रहः। ऐन्द्रेणेन्द्रियपाटवम्। मारुतेन जनपदप्राप्तिः। ऐन्द्राग्नेन पुष्टिर्बलं च। सावित्रेणानुष्ठाने प्रेरणम्। वारुणेनोपद्रवराहित्यम्।
अत्र षष्ठसप्तमाष्ठमानां पशूनां वैश्वदेवैन्द्रमारुतानामितरपशुवत्पाठत एव क्रमो यद्यपि प्राप्तस्तथाऽपि तं क्रममनूद्य प्रशंसति — ‘मध्यत ऐन्द्रमा लभते मध्यत एवेन्द्रियं यजमाने दधाति पुरस्तादैन्द्रस्य वैश्वदेवमा लभते वैश्वदेवं वा अन्नमन्नमेव पुरस्ताद्धत्ते तस्मात्पुरस्तादन्नमद्यत ऐन्द्रमालभ्य मारुतमा लभते विड्वै मरुतो विशमेवास्मा अनु बध्नाति’ (सं. का. ६ प्र. ६ अ. ५) इति।
वैश्वदेवमारुतयोर्नध्यमेन्द्रस्य स्थानम्। तेन मध्यम एव वयसि बलाधिक्यं यजमाने स्थापयति। विश्वे देवा अन्नाभिमानिनः। वैश्वदेवस्य पुरस्तादनुष्ठितत्वात्तत्संबद्धमन्नमत्तुं पुरस्तादेव स्थापयति। तच्चान्नं पुरस्तान्मुखेनाद्यते। मारुतस्यैन्द्रमनु वर्तमानत्वान्मरुद्रूपा ग्रामनिवासिप्रजा अस्य यजमानस्यानुकूलाः करोति।
कामनाविशेषेण क्रमव्यत्यासं विधत्ते — ‘यदि कामयेत योऽवगतः सोऽप रुध्यतां योऽपरुद्धः सोऽव गच्छत्वित्यैन्द्रस्य लोके वारुणमा लभेत वारुणस्य लोक ऐन्द्रं य एवावगतः सोऽप रुध्यते योऽपरुद्धः सोऽव गज्छति’ (सं. का. ६ प्र. ६ अ. ५) इति।
अवगतः प्राप्तैश्वर्यः। अपरुध्यतामैश्वर्यात्क्लिश्यताम्। अयमेकः कामः एतद्विपर्ययोऽन्यः कामः। तस्मिन्नुभयविधेऽपि कामे सप्तमैकादशस्थानयोरैन्द्रवारुणयोः स्थानव्यत्ययं कुर्यात्।
प्रजानां व्याकुलीभावं चेत्कामयेत तदानीमेकादशानां पशूनां क्रमसांकर्यं विधत्ते — ‘यदि कामयेत प्रजा मुह्येयुरिति पशून्व्यतिषजेत्प्रजा एव मोहयति’ (सं. का. ६ प्र. ६ अ. ५) इति।
उदक्प्रवणत्वेन स्थापिताया एकादशयूपपङ्क्तेर्दक्षिणयूपे वारुणस्याऽऽलम्भं
विधत्ते — ‘यदभिवाहतोऽपां वारुणमालभेत प्रजा वरुणो गृह्णीयाद्दक्षिणत उदञ्चमा लभतेऽपवाहतोऽपां प्रजानामवरुणग्राहाय’ (सं. का. ६ प्र. ६ अ. ५) इति।
अपामभिवाहस्तत्प्रवाहस्थानभूतो निम्नो देशः। तत्रावस्थित उत्तरयूपे वारु-णालम्भेन प्रजानां वरुणग्रहरूपो रोगः स्यात्। दक्षिणयूपे पशोरुदङ्मुखत्वे-नाऽऽलम्भे रोगो न भवति। दक्षिणयूपस्योन्नदेशवर्तित्वेनापामपवाहतः प्रवाहस्थानाभावादित्यर्थः। अत्र सूत्रम् - ‘आग्नेयं कृष्णग्रीवमग्निष्ठ उपाकरोति उत्तरे सारस्वतीं मेषीं दक्षिणे सौम्यं बभ्रुमेवं व्यत्यासं दक्षिणापवर्गान्पशूनुपाकरोति वारुणमन्ततो दक्षिणत उदञ्चम्’ इति।
पश्वेकादशिनी निरूपिता। अथ पात्नीवतपशुं विधत्ते – ‘इन्द्रः पत्निया मनुमयाजयत्तां पर्यग्निकृतामुदसृजत्तया मनुरार्ध्नोद्यत्पर्यग्निकृतं पात्नीवतमुत्सृजति यामेव मनुद्धिमार्ध्नोत्तामेव यजमान ऋध्नोति’ (सं. का. ६ प्र. ६ अ. ५) इति।
अत्र पत्नीशब्देन पात्नीवतसंज्ञके यूप उपाकृतस्त्वष्टृदेवताकः पशुरुपलक्ष्यते। शाखान्तरे तथा विधानात्। पश्वेकादशिनीगतपत्नीसंयाजानन्तरभावित्वादस्य यूपस्य पात्नीवतत्वम्। अत्र सूत्रम् - ‘जाघनीभिश्च पत्नीः संयाजयन्ति अनूबन्ध्यावपायां हुतायामग्रेण शालामुखीयं पात्नीवतं मिनोति यथाऽधोनाभिमनवस्तीर्णे चषालं तस्मिंस्त्वाष्ट्रं साण्डं लोमशं पिङ्गलं पशुमुपाकृत्य पर्यग्निकृतमुत्सृज्याऽऽज्येन शेषं संस्थापयेत्, यावन्ति पशोरवदानानि स्युस्तावत्कृत्व आज्यस्यावद्येत्पशुधर्माऽऽज्यं भवति शालामुखीये प्रचरन्तीति विज्ञायते’ इति। तस्मादिन्द्रः पात्नीवतयूपे नियुक्तेन पशुना मनुमयाजयदिति व्याख्येयम्।
पर्यग्निकृते पशावुत्सृष्टे सति कर्मशेषस्याऽऽज्येन समाप्तिं विधत्ते — ‘यज्ञस्य वा अप्रतिष्ठिताद्यज्ञः परा भवति यज्ञं पराभवन्तं यजमानोऽनु परा भवति यदाज्येन पात्नीवतँ सँस्थापयति यज्ञस्य प्रतिष्ठित्यै यज्ञं प्रतितिष्ठन्तं यजमानोऽनु प्रति तिष्ठति’ (सं. का. ६ प्र. ६ अ. ६) इति।
अप्रतिष्ठितादसंस्थापनात्।
अस्य पशोः कालं विधत्ते — ‘इष्टं वपया भवत्यनिष्टं वशयाऽथ पात्नीवतेन प्र चरति तीर्थ एव प्र चरत्यथो एतर्ह्येवास्य यामः’ (सं. का. ६ प्र. ६ अ. ६) इति।
वशा वन्ध्या, सा चानूबन्ध्येत्यनेन नाम्नोच्यते। तदीयवपाहोमादूर्ध्वं हृदयाद्यङ्गहोमात्प्रागेतस्य पात्नीवतपशोः कालः। स च तीर्थमुचितं स्थानम्। किंचैतस्मिन्कालेऽनूबन्ध्याख्यस्य पशोर्याम उपरमः समाप्तिर्भवति। तस्य चान्तिमपशुत्वात्समाप्तेः प्रागेव पात्नीवतप्रचारो युक्तः।
देवतां विधत्ते — ‘त्वाष्ट्रो भवति त्वष्टा वै रेतसः सिक्तस्य रूपाणि वि करोति तमेव वृषाणं पत्नीष्वपि सृजति सोऽस्मै रूपाणि वि करोति’ (सं. का. ६ प्र. ६ अ. ६) इति।
विकरोति विविधाति करोति।
पात्नीवतपशुर्निरूपितः। अथ सौम्यं चरुं विधत्ते — ‘घ्नन्ति वा एतत्सोमं यदभिषुण्वन्ति यत्सौभ्यो भवति यथा मृतायानुस्तरणीं घ्नन्ति तादृगेव तत्’ (सं. का. ६ प्र. ६ अ. ७) इति।
सोमस्याभिषवो वधस्थानीयोऽतोऽनुस्तरणीस्थानीयः सौम्यश्चरुः कर्तव्यः। मृतं दीक्षितमनु स्तीर्यते हन्यत इत्यानुस्तरणी काचिद्गौः। दीक्षितशवस्यावयवेषु हृदयहस्तादिषु गोशवस्य हृदयाद्यवयवान्संस्थाप्य तं दीक्षितं दहेत्। तदर्थं काचिद्गौर्हन्यते।
चरोर्होमस्थानं विधत्ते — ‘यदुत्तरार्धे वा मध्ये वा जुहुयाद्देवताभ्यः समदं दध्याद्दक्षिणार्धे जुहोत्येषा वै पितृणां दिक्स्वायामेव दिशि पितॄन्निरवदयते’ (सं. का. ६ प्र. ६ अ. ७) इति।
वह्नेरुत्तरार्धमध्यदेशयोर्देवाहुतिस्थानत्वात्तत्र पित्र्ये होमे देवताभिः सह पितृणां समदं कलहं कुर्यात्। अतो निरवदयते देवदेशान्निष्कृष्य पितॄन्यजते।
चारुशेषस्य दानं विधत्ते — “उद्गातृभ्यो हरन्ति सामदेवत्यो वै सौम्यो यदेव साम्नश्छम्बट्कुर्वन्ति तस्यैव स शान्तिः” (सं. का. ६ प्र. ६ अ. ७) इति।
सामैव सौम्यचरोरभिमानिदेवता। तथा सति सामवेदसंबन्धि यदङ्गमुद्गातार इत्थं छम्बट्कुर्वन्ति विनष्टं कुर्वन्ति तस्य दोषस्य स चरुः प्रतीकारः।
तस्मिन्नाज्यपूर्णो चरावुद्गातृभिः स्वदेहच्छाया द्रष्टव्येति विधत्ते — ‘अवेक्षन्ते पवित्रं वै सौम्य आत्मानमेव पवयन्ते’ (सं. का. ६ प्र. ६ अ. ७) इति।
सौम्यचरोः शुद्धिहेतुत्वात्तत्प्रेक्षणेनोद्गातारः स्वदेहं शोधयन्ति। अत्र सूत्रम् —‘आज्येन चरुमभिपूर्योद्गातृभ्यो हरन्ति तमुद्गातारोऽवेक्षन्ते’ इति।
आज्यस्यापर्याप्तौ पुनरप्यन्यत्पूरणं विधत्ते — ‘य आत्मानं न परिपश्येदितासुः स्मादभिददिं कृत्वाऽवेक्षेत तस्मिन्ह्यात्मानं परिपश्यत्यथो आत्मानमेव पावयते’ (सं. का. ६ प्र. ६ अ. ७) इति।
इतासुर्गतप्राणः। अमितो दीयते प्रक्षिप्यत आज्यमस्मिंश्चरावित्यभिददिः।
काम्येऽवेक्षणे मन्त्रविश्षं विधत्ते — ‘यो गतमनाः स्यात्सोऽवेक्षेत यन्मे मनः परागतं यद्वा मे अपरागतम्। राज्ञा सोमेन तद्वयमस्मासु धारयामसीति मन एवाऽऽत्मन्दाधार न गतमना भवति’ (सं. का. ६ प्र. ६ अ. ७) इति।
गतमना अव्यवस्थितचित्तः। उद्गातॄणां मध्ये गतमना यन्मे मन इत्यादिमन्त्रे-णावेक्षेत। मदीयं मनो यदि मत्तो निष्क्रान्तं यदि वा निष्क्रमणोन्मुखं तदिदानीं निष्क्रान्तस्य सोमस्य राज्ञः प्रसादाद्वयं तन्मनोऽस्मास्वेव धारयामः। मन्त्रसामर्थ्याच्चित्तसमाधानं भवति।
अग्नाविष्णू महि धाम प्रियं वामित्यनयर्चा घृतयागं विधत्ते — ‘अप वै तृतीयसवने यज्ञः क्रामतीजानादनीजानमभ्याग्नावैष्णव्यर्चा घृतस्य यजत्यग्निः सर्वा देवता विष्णुर्यज्ञो देवताश्चैव यज्ञं च दाधार’ (सं. का. ६ प्र. ६ अ. ७ इति।
ईजानादिष्टवतो यजमानादनीजानं पुरुषमभिलक्ष्य यज्ञोऽपक्रामति तत्समाधानायाऽऽग्नावैष्णवमन्त्रयागः।
तत्र नीचध्वनिं विधत्ते — ‘उपाँशु यजति मिथुनत्वाय।’ (सं. का. ६ प्र. ६ अ. ७) इति।
सौम्यचरुगतेनोच्चध्वनिना सहोपांशुध्वनेर्मिथुनत्वम्।
अनूबन्ध्यां विधत्ते — ‘ब्रह्मवादिनो वदन्ति मित्रो यज्ञस्य स्विष्टं युवते वरुणो दुरिष्टं क्व तर्हि यज्ञः क्व यजमानो भवतीति यन्मैत्रावरुणीं वशामालभते मित्रेणैव यज्ञस्य स्विष्टँ शमयति वरुणेन दुरिष्टं नाऽऽर्तिमार्च्छति यजमानः’ (सं. का. ६ प्र. ६ अ. ७ इति।
यज्ञस्य यदङ्गं सम्यगिष्टं तस्याधिपतिर्मित्रः स्वयमनाराधितस्तदङ्गं दुरिष्टेन मिश्रयति। दुरिष्टस्याङ्गस्याधिपतिर्वरुणश्चानाराधितस्तद्दुरिष्टं संपाद्य स्विष्टेन मिश्रयति। तथा सत्युभाभ्यां स्विष्टस्य विनाशितत्वाद्यज्ञः क्वावतिष्ठेत। यज्ञाभावे यजमानोऽपि कुत्र फलोपेतो भवेत्। वशालम्भेन तुष्टो मित्रः स्विष्टं पालयति। वरुणो दुरिष्टं नाशयति। ततो यज्ञस्य सुस्थितत्वान्निष्फलस्वरूपामार्तिं यजमानो न प्राप्नोति। अत्र सूत्रम् – ‘मैत्रावरुणीं गां वशामनूबन्ध्यामालभेत’ इति।
तामनूबन्ध्यां प्रशंसति — ‘यथा वै लाङ्गलेनोर्वरां प्रभिन्दन्त्येवमृक्सामे यज्ञं प्र भिन्तो यन्मैत्रावरुणीं वशामालभते यज्ञायैव प्रभिन्नाय मत्यमन्ववास्यति शान्त्यै’ (सं. का. ६ प्र. ६ अ. ७) इति।
सर्वसस्योपेता भूमिरुर्वरा तस्यां कृष्टायां कर्षणमनु तत्र मत्यं क्षिपन्ति। शक्त्याधानसाधनं गोमयादिद्रव्यं मत्यं, मतमभिमतं फलमर्हतीति मत्यम्। तद्बदृक्त्सामाभ्यां कर्षणवद्योग्यतामापादितस्य यज्ञस्य वशालम्भेन मत्यप्रक्षेपवत्फलजननशक्तिर्भवति। तेन चाशाक्तिलक्षणस्य दोषस्य शान्तिर्भवति।
पुनरपि वशां प्रशंसति - ‘यातयामानि वा एतस्य छन्दाँसि य ईजानाश्छन्दसामेष रसो यद्वशा यन्मैत्रावरुणीं वशामालभते छन्दाँस्येव पुनरा प्रीणात्ययातयामत्वायाथो छन्दाःस्वेव रसं दधाति’ (सं. का. ६ प्र. ६ अ. ७) इति।
ईजानो यज्ञं कृतवान्। एतस्य च्छन्दांसि गतसाराणि भवन्ति। वशा तु च्छन्दसां सारः। वषट्कारदेवतया गायत्रीदेवतायाः शिरसि च्छिन्ने पतितेन रसेनोत्पन्नत्वात्। एतच्च काम्यपशुकाण्डे समाम्नातम्। अतो वशालम्भेन च्छन्दसां गतसारत्वाभावात्प्रीतिर्भवति। प्रत्युत च्छन्दःसु विशेषरसः स्थाप्यते।
सौम्यचरुघृतयागानूबन्ध्या निरूपिताः। अथातिग्राह्यान्विधत्ते — ‘देवा वा इन्द्रियं वीर्यं व्यभजन्त ततो यदत्यशिष्यत तदतिग्राह्या अभवन्त-दतिग्राह्याणामतिग्राह्यत्वं यदतिग्राह्या गृह्यन्त इन्द्रियमेव तद्वीर्यं यजमान आत्मन्धत्ते’ (सं. का. ६ प्र. ६ अ. ८) इति।
इन्द्रवायुमित्रवरुणादिदेवैरिन्द्रियगतसामर्थ्यहेतौ सोमरसे विभक्ते सत्यतिरि-क्ताद्रसादेते गृह्यन्ते। तद्ग्रहणेन सामर्थ्यं यजमाने स्थाप्यते।
विहितानामतिग्राह्याणामग्न्यादिदेवतासंबन्धं विधत्ते — ‘तेज आग्नेयेन्द्रियमैन्द्रेण ब्रह्मवर्चसँ सौर्येण’ (सं. का. ६ प्र. ६ अ. ८) इति।
यजमान आत्मन्धत्त इत्यनुवर्तते। तेज कान्तिः। इन्द्रियं बलम्। ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः। प्रातःसवन आग्रयणसादनादूर्ध्वमेते त्रयो गृहीतव्याः। अत्र सूत्रम् - ‘एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयित्वा त्रीनग्निष्टोमेऽतिग्राह्यान्गृह्णात्याग्नेयमैन्द्रँ सौर्यमित्यग्न आयुँष्युत्तिष्ठँस्तरणिरिति ग्रहणासादनाः’ इति।
व्यतिरेकमुखेन(ण) पृष्ठ्यषडहे तानतिग्राह्यान्विधत्ते — ‘उपस्तम्भनं वा एतद्यज्ञस्य यदतिग्राह्याश्चक्रे पृष्ठानि यत्पृष्ठ्ये न गृह्णीयात्प्राञ्चं यज्ञं पृष्ठानि सँशृणीयः’ (सं. का. ६ प्र. ६ अ. ८) इति।
यज्ञरूपस्य रथस्यातिग्राह्या उत्तम्भनकाष्ठस्थानीयाः। षट्सु दिनेषु क्रमेण रथंतरबृहद्वैरूपवैराजशाक्वररैवतसामनामकैः साध्यानि पृष्ठ्य(ष्ठ) स्तोत्राणि चक्रस्थानीयानि। ततः पृष्ठ्यषडहेऽतिग्राह्यरूपोत्तम्भनाभावे तानि पृष्ठानि तं यज्ञरथं पुनः पातयित्वा संशृणीयुर्विनाशयेयुः।
तस्मात्तान्गृह्णीयादित्यर्थः।
उक्थ्ये चोदकप्राप्तानतिग्राह्यान्प्रतिषेधति — ‘यदुक्थ्ये गृह्णीयात्प्रत्यञ्चं यज्ञमतिग्राह्याः सँशृणीयुः’ (सं. का. ६ प्र. ६ अ. ८) इति।
उत्तम्भनमन्तरेणैव पुरत उन्नतसदृश उक्थ्यस्तस्मिन्गृहीता अतिग्राह्याः पुरत्तादस्यौन्नत्यमापाद्य यज्ञरथं प्रत्यञ्चं पातयित्वा विनाशयेयुः। तस्मात्तान्न गृह्णीयादित्यर्थः।
पृष्ठषडहेऽप्युक्थ्यसद्भावादेतं प्रतिषेधं वारयितुं पूर्ववाक्येनै(णै)ते विहिता-स्तद्वद्विश्वजिद्यागस्याप्युक्थ्यसंस्थस्य शाखान्तरे सद्भावात्तत्रापि निषेधं वारयितुं विधत्ते — ‘विश्वाजिति सर्वपृष्ठे ग्रहीतव्या यज्ञस्य सवीर्यत्वाय’ (सं. का. ६ प्र. ६ अ. ८) इति।
रथंतरादीनि षडपि पृष्ठ्य(ष्ठ)स्तोत्राणि यस्मिन्सन्ति स सर्वपृष्ठः।
अग्निष्ठोमे तान्विधत्ते — ‘प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत्स प्रियास्तनूरप न्यधत्त तदतिग्राह्या अभवन्वितनुस्तस्य यज्ञ इत्याहुर्यस्यातिग्राह्या न गृह्यन्त इत्यप्यग्निष्टोमे ग्रहीतव्या यज्ञस्य सतनुत्वाय’ (सं. का. ६ प्र. ६ अ. ८) इति।
व्यादिशद्विभज्य दत्तवान्। तदा स प्रजापतिर्यज्ञसंबन्धिनीः प्रियास्तनूरप-न्यधत्तापनीय क्वचिद्गोपितवान्। तास्तनवोऽतिग्राह्याः। तस्मादग्निष्टोमस्य सतनुत्वाय तान्गृह्णीयात्। अत्रातिग्राह्याणां पृष्ठ्यषडहादिविकृतिसंबन्धप्रतीतेः प्रकृतावग्निष्टोमेऽपि विधीयन्ते।
व्यावृत्तिकामस्य तान्विधत्ते — “देवता वै सर्वाः सदृशीरासन्ता न व्यावृतमगच्छन्ते देवा एत एतान्ग्रहान-पश्यन्तानगृह्णताऽऽग्नेयमग्निरैन्द्रमिन्द्रः सौर्यँ सूर्यस्ततो वै तेऽन्याभिर्देवताभिर्व्यावृतमगच्छन्यस्यैवं विदुष एते ग्रहा गृह्यन्ते व्यावृतमेव पाप्मना भ्रातृव्येण गच्छति” (सं. का. ६ प्र. ६ अ. ८) इति।
सदृशीस्तुल्यैश्वर्याः व्यावृतमैश्वर्याधिक्यलक्षणम्। इतरेभ्यो व्यावृतं भ्रातृव्यादैश्वर्याधिक्यमेतैरतिग्राह्यैः प्राप्नोति।
तानतिग्राह्यान्प्रशंसति — ‘इमे लोका ज्योतिष्मन्तः समाद्वीर्याः कार्या इत्याहुराग्नेयेनास्मिल्ँ लोके ज्योतिर्धत्त ऐन्द्रेणान्तरिक्ष इन्द्रवायू हि सयुजौ सौर्येणामुष्मिल्ँ लोके ज्योतिर्धत्ते ज्योतिष्मन्तोऽस्मा इमे लोका भवन्ति समावद्वीर्यानेनान्कुरुते’ (सं. का. ६ प्र. ६ अ. ८) इति।
इमे पृथिव्यान्तरिक्षद्युलोकस्ते चाग्न्यादिदेवतानुग्रहेण ज्योतिष्मन्तस्तुल्यासा-मर्थ्याः। अन्तरिक्षस्य वायुर्देवता न त्विन्द्र इति चेन्न, इन्द्रवाय्योः सहावस्था-नादैन्द्रवायवग्रहे तद्दर्शनात्।
प्रकारान्तरेण तान्प्रशंसति — ‘एतान्वै ग्रहान्बम्बाविश्ववयसाववित्तां ताभ्यामिमे लोकाः पराञ्चश्चार्वाञ्चश्च प्राभुर्यस्यैवं विदुष एते ग्रहा गृह्यन्ते प्रास्मा इमे लोकाः पराञ्चश्चार्वाञ्चश्च भान्ति’ (सं. का. ६ प्र. ६ अ. ८) इति।
बम्बाश्च विश्ववयाश्च तयोरतिग्राह्यमहिमाभिज्ञत्वात्तदर्थमुत्तमा अधमाश्चेमे लोकाः प्राभुः प्रभावन्तः।
अतिग्राह्या निरूपिताः। अथादाभ्यग्रहं विधत्ते — ‘देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा अदाभ्ये छन्दाँसि सवनानि समस्थापयन्ततो देवा अभवन्पराऽसुरा यस्यैवं विदुषोऽदाभ्यो गृह्यते भवत्यात्मना पराऽस्य भ्रातृव्यो भवति’ (सं. का. ६ प्र. ६ अ. ८) इति।
असुरा मात्सर्येण देवैरनुष्ठितं यज्ञाङ्गं स्वयमप्यमनुष्ठितवन्तः। तदाऽसुरवञ्चनेन देवा गायत्रीत्रिष्टुब्जगतीभिर्निष्पाद्यनि त्रीणि सवनान्यदाभ्यग्रहे समापितवन्तः। तत्र हि - ‘वसवस्त्वा प्रवृहन्तु गायत्रेण छन्दसा’ इत्यादिभिस्त्रिभिर्मन्त्रैस्त्रयः सोमांशवः पृथक्कर्तव्याः। अत्र सूत्रम् - ‘उपनद्धस्य राज्ञस्त्रीनँशून्प्रवृहन्ति वसवस्त्वा प्रवृहन्तु गायत्रेण छन्दसेत्येतैः प्रतिमन्त्रं तैरेनं चतुराधूनोति’ इति। तदिदं छन्दसां सवनानां च समापनम्। तेन देवानां विभूतिरसुराणां पराभवश्चाभूत्। तद्बदन्यस्याप्यदाभ्यग्रहणेन भवति।
निर्वचनेन प्रशंसति — ‘यद्वै देवा असुरानदाभ्येनादभ्नुवन्तददाभ्यस्यादाभ्यत्वम्’ (सं. का. ६ प्र. ६ अ. ९) इति।
अदभ्नुवन्हिंसितवन्तः असुरदम्भनहेतुरयं ग्रहः स्वयमन्येन केनचिदपि दम्भितुमशक्यत्वाददाभ्यः।
एतद्वेजनं प्रशंसति — ‘य एवं वेद दभ्नोत्येव भ्रातृव्यं नैनं भ्रातृव्यो दभ्नोति’ (सं. का. ६ प्र. ६ अ. ९) इति।
अथादाभ्यस्य कालं विधत्ते — ‘एष वै प्रजापतेरतिमोक्षिणी नाम तनूर्यददाभ्य उपनद्धस्य गृह्णात्यतिमुक्त्यै’ (सं. का. ६ प्र. ६ अ. ९) इति।
अतिशयेन पापान्मोक्षोऽतिमोक्षः। सोऽस्या अस्तीत्यतिमोक्षिणी। प्रजापते-स्तादृग्रूपोऽयमदाभ्यः। तस्मादुपनद्धस्य वस्त्रेण बद्धस्य सोमस्य बन्धनादतिमुक्त्यर्थं गृह्णीयात्। शकटादवरोपितो वस्त्रबद्धसोमोऽधिषवणफलकयोरुपर्यवतिष्ठते। तस्य च सोमस्य बन्धमुपांशुग्रहकाले विस्रस्येन्द्राय त्वा वृत्रघ्न इत्यादिभिर्मन्त्रैः सोमं मिमीते। तस्माद्विस्रंसनात्प्रागेवादाभ्यो ग्रहीतव्य इत्यर्थः।
एतद्वेदनं प्रशंसति — ‘अति पाप्मानं भ्रातृव्यं मुच्यते य एवं वेद’ (सं. का. ६ प्र. ६ अ. ९) इति।
पापरूपं वैरिणमुत्क्रम्य तत्कृतोपद्रवान्मुच्यते।
अदाभ्यस्य सोमव्यतिरिक्तं द्रव्यं विधत्ते — ‘घ्नन्ति वा एतत्सोमं यदभिषुण्वन्ति सोमे हन्यमाने यज्ञो हन्यते यज्ञे यजमानो ब्रह्मवादिनो वदन्ति किं तद्यज्ञे यजमानः कुरुते येन जीवन्त्सुवर्गं लोकमेतीति जीवग्रहो वा एष यददाभ्योऽनभिषुतस्य गृह्णाति जीवन्तमेवैनँ सुवर्गं लोकं गमयति’ (सं. का. ६ प्र. ६ अ. ९) इति।
अभिषवेण सोमस्य हतत्वाद्यज्ञे हते यजमानो हतप्रायो भवति। तादृग्वध-मन्तरेण स्वर्गप्राप्तवुपायान्ब्रह्मवादिनो विचार्यादाभ्यं निश्चितवन्तः। स च जीव-नोपेतो ग्रहः। तस्मादनभिषुतस्याभिषवरूपवधरहितस्य द्रव्यस्य रसं तत्र गृह्णी-यात्। अत्र सूत्रम् — ‘अँशुमदाभ्यं वा प्रथमं गृह्णाति शुक्रं ते शुक्रेण गृह्णा-मीति दध्नः पयसो निग्राभ्याणां वा’ इति।
अदाभ्यग्रहस्याऽऽधवनहेतूनां सोमांशूनां त्रयाणां सवनत्रयगतेषु त्रिषु महा-भिषवेषु मेलनं विधत्ते — ‘वि वा एतद्यज्ञं छिन्दन्ति यददाभ्ये सँ स्थापयन्त्यँशूनपि सृजति यज्ञस्य संतत्यै’ (सं. का. ६ प्र. ६ अ. ९) इति।
असुरवञ्चनाय वसवस्त्वेत्यादिमन्त्रैरंशुत्रयं(य) पृथक्करणरूपसवनत्रय (स)-मापनं देवैः कृतं तद्वदन्येनापि कृते सत्युपांश्वन्तर्यामादीनाम(न)नुष्ठानाद्यज्ञो विच्छिद्यते, तत्परिहाराय पृथक्कृतानंशूनभिषवेषु मेलयेत्। अत्र सूत्रम् - ‘आधवनानँशून्प्रज्ञातान्निधायोशिक्त्वं देव सोम गायत्रेण छन्दसेत्येतैः प्रतिमन्त्रमनुसवनमेकैकं महाभिषवेष्वपिसृजति’ इति।
अदाभ्यो निरूपितः। अथांशूग्रहं विधत्ते — ‘देवा वै प्रबाहुग्ग्रहानगृह्णत स एतं प्रजापतिरँशुमपश्यत्तमगृह्णीत तेन वै स आर्ध्नोद्यस्यैवं विदुषोऽँशुर्गृह्यत ऋध्नोत्येव’ (सं. का. ६ प्र. ६ अ. १०) इति।
प्रबाहुक्तुल्यस्वभावान्। प्रजापतिस्तु समृद्ध्यर्थं विलक्षणमंशुग्रहं गृहीत्वा समृद्धोऽभवत्।
इतरग्रहवैलक्षण्यं क्रमेण दर्शयन्नभिषवस्याऽऽवृत्त्यभावं विधत्ते — ‘सकृदभिषुतस्य गृह्णाति सकृद्धि स तेनाऽऽर्ध्नोत्’ (सं. का. ६ प्र. ६ अ. १०) इति।
अष्टौ कृत्वोऽग्रेऽभिषुणोतीत्यादिना। ग्रहान्तरेऽभिषवावृत्तिः श्रुता न त्वत्र तथा कुर्यात्किंतु सकृदेव। यस्मात्स प्रजापतिः सकृदेवाभिषुत्य तेन ग्रहेण सम्यक्समृद्धिं गतः।
ग्रहणमन्त्रस्योच्चारणं निवारयितुं मानसमनुसंधानं विधत्ते — ‘मनसा गृह्णाति मन इव हि प्रजापतिः प्रजापतेराप्त्यै’ (सं. का. ६ प्र. ६ अ. १०) इति।
संकल्पमात्रेण जगत्सर्जनात्प्रजापतेर्मनःसादृश्यम्।
ग्रहणपात्रं विधत्ते — ‘औदुम्बरेण गृह्णात्यूर्ग्वा उदुम्बर ऊर्जमेवाव रुन्धे’ (सं. का. ६ प्र. ६ अ. १०) इति।
पात्रस्याऽऽकारं विधत्ते — ‘चतुःस्रक्ति भवति दिक्ष्वेव प्रति तिष्ठति’ (सं. का. ६ प्र. ६ अ. १०) इति।
चतुष्कोणमित्यर्थः।
वामदेवेन दृष्टस्य कया नश्चित्र आ भुवदित्यस्यामृच्युत्पन्नस्य साम्नो ग्रहणमन्त्रतामाह — ‘यो वा अँशोरायतनं वेदाऽऽयतनवान्भवति वामदेव्यमिति साम तद्वा अस्याऽऽयतनं मनसा गायमानो गृह्णात्यायतनवानेव भवति’ (सं. का. ६ प्र. ६ अ. १०) इति।
गृहवानित्यर्थः।
अनुच्छ्वासं ग्रहणकाले विधत्ते — ‘यदध्वर्युरँशुं गृह्णाति सैवास्यर्द्धिः’ (सं. का. ६ प्र. ६ अ. १०) इति।
अंशुं नार्धयेत्समृद्धं न कुर्यात्। तदानीमध्वर्युयजमानयोः समृद्धिर्न स्यात्। अनुच्छ्वासगृहीतिरेवांशोः समृद्धिः। अत्र सूत्रम् - ‘अंशुं गृह्णन्नेकग्रहायाऽऽप्तं राजानमुपरे न्युप्य सकृदभिषुत्य वामदेव्यं मनसा गायमानोऽनवानं गृह्णाति’ इति।
कथंचिदुच्छ्वासश्चेत्तद्दोषनिवारणाय विधत्ते — ‘हिरण्यमभि व्यनित्यमृतं वै हिरण्यमायुः प्राण आयुषैवामृतमभि धिनोति’ (सं. का. ६ प्र. ६ अ. १०) इति।
हिरण्यस्याऽऽभिमुख्येन श्वासं कुर्यात्। तथा सत्यायुःस्वरूपेणैव प्राणवायुना हिरण्यरूपममृतमभिप्रीणयति।
हिरण्यस्येयत्तां विधत्ते — ‘शतमानं भवति शतायुः पुरुषा शतेन्द्रिय आयुष्येवेन्द्रिये प्रति तिष्ठति’ (सं. का. ६ प्र. ६ अ. १०) इति।
शतनिष्कपरिमितं शतमानपरिमितं वा हिरण्यं भवति। दशानां ज्ञानकर्मे-न्द्रियाणामेकैकस्य दशनाडीषु संचाराच्छतेन्द्रियत्वम्। अत्र सूत्रम् - ‘यदि व्यवाने(न्या)दा नः प्राण एतु परावत इति शतमानँ हिरण्यमभि व्यनीया(न्या)तामध्वर्युर्यजमानश्च’ इति। अंशुग्रहादाभ्यग्रहयोः पौर्वापर्यं विकल्पितम्। अत एव सूत्रकारेणोक्तम् – ‘अंशुमदाभ्यं वा प्रथमं गृह्णाति’ इति।
अंशुग्रहो निरूपितः। अथ षोडशिग्रहं विधत्ते — ‘प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत्स रिरिचानोऽमन्यत। स यज्ञानाँ षोड-शधेन्द्रियं वीर्यमात्मानमभि समर्क्खिदत्तत्षोडश्यभवन्न वै षोडशी नाम यज्ञोऽस्ति यद्वाव षोडशँ स्तोत्रँ षोडशँ शस्त्रं तेन षोडशी तत्षोडशिनः षोडशित्वं यत्षोडशी गृह्यत इन्द्रियमेव तद्वीर्यं यजमान आत्मन्धत्ते’ (सं. का. ६ प्र. ६ अ. ११) इति।
‘देवेभ्यो यज्ञान्विभज्य दत्त्वा स्वार्थस्य कस्याप्यभावाद्रिक्तोऽहमिति मन्यमानः स्वात्मानमभिलक्ष्य सर्वयज्ञसंबन्धिनमिन्द्रियसामर्थ्यप्रदमंशं षोडशभेदभिन्नं समक्खिदत्समुपादाय श्रान्तोऽभवत्। तच्च सामर्थ्यं षोडशिनामकः क्रतुरभवत्। स च सोमयागव्यतिरिक्तो यज्ञः कश्चिन्नूतनो न।
प्रकारान्तरेण प्रशंसति — ‘देवेभ्यो वै सुवर्गो लोको न प्राभवत्त एतँ षोडशिनमपश्यन्तमगृह्णत ततो वै तेभ्यः सुवर्गो लोकः प्राभवद्यत्षोडशी गृह्यते सुवर्गस्य लोकस्याभिजित्यै’ (सं. का. ६ प्र. ६ अ. ११) इति।
न प्राभवन्न स्वाधीनः।
पुनः प्रकारान्तेण प्रशंसति — ‘इन्द्रो वै देवानामानुजावर आसीत्स प्रजापतिमुपाधावत्तस्मा एतँ षोडशिनं प्रायच्छत्तमगृह्णीत ततो वै सोऽग्रं देवतानां पर्यैद्यस्यैवं विदुषः षोडशी गृह्यतेऽग्रमेव समानानां पर्येति’ (सं. का. ६ प्र. ६ अ. ११) इति।
अनुजेभ्यो निकृष्टेभ्योऽवरोऽत्यन्तनिकृष्टः। आनुजेति दीर्घश्छान्दसः। अग्रं श्रैष्ठ्यम्।
कालं विधत्ते — ‘प्रातःसवने गृह्णाति वज्रो वै षोडशी वज्रः प्रातःसवनँ स्वादेवैनं योनेर्निगृह्णाति’ (सं. का. ६ प्र. ६ अ. ११) इति।
वज्रवदनिष्टनिवारकत्वादुभयोर्वज्रत्वम्। तस्मादेव साम्यात्प्रातःसवनं वज्रस्य स्वयोनिः।
पक्षान्तरमाह — ‘सवनेसवनेऽभि गृह्णाति सवनात्सवनादेवैनं प्र जनयति’ (सं. का. ६ प्र. ६ अ. ११) इति।
अत्र सूत्रम् - ‘षोडशिनो ग्रहणं प्रातःसवन उत्तमो धाराग्रहाणाँ सवने सवनो वा’ इति।
नित्यत्वेन विहितस्यैव काम्यत्वमपि विधत्ते — ‘तृतीयसवने पशुकामस्य गृह्णीयाद्वज्रो वै षोडशी पशवस्तृतीयसवनं वज्रेणैवास्मै तृतीयसवनात्पशूनव रुन्धे’ (सं. का. ६ प्र. ६ अ. ११) इति।
यथा खादिरो यूपो भवति खादिरं वीर्यकामस्य यूपं कुर्वीतेति वचनद्वयादे-कस्यैव नित्यत्वं काम्यत्वं च तद्बत्।
उक्थ्यक्रतावपि शाखान्तरानुसारेण प्रसक्तं प्रतिषेधति — ‘नोक्थ्ये गृह्णीयात्प्रजा वै पशव उक्थानि यदुक्थ्ये गृह्णीयात्प्रजां पशूनस्य निर्दहेत्’ (सं. का. ६ प्र. ६ अ. ११) इति।
उक्थ्यक्रतुगतानां शस्त्राणां प्रजापशुरूपत्वाद्वज्ररूपेण षोडशिना दाहः स्यात्। शाखान्तरे विधानादिह निषेधाच्च विकल्पः सूत्रे दर्शितः नोक्थ्ये गृह्णीया (द) गृह्णीयाद्वा’ इति।
षोडशिक्रताविवातिरात्रक्रतावपि काम्यग्रहं विधत्ते — ‘अतिरात्रे पशुकामस्य गृह्णीयाद्वज्रो वै षोडशी वज्रेणैवास्मै पशूनवरुध्य रात्रियोपरिष्टाच्छमयति’ (सं. का. ६ प्र. ६ अ. ११) इति।
वज्रषोडशिना पशूनामवरोधेऽपि नास्ति बाधः। षोडशिशस्त्रस्योपरिष्टादनु-ष्ठेयेन रात्रिशब्दोपलक्षितेन शस्रसमूहेन तद्बाधोपशमनात्। पशुकामस्येति विशेषणादन्यस्यातिरात्रे षोडशिग्रहो नास्ति।
अधिकारिविशेषेण ग्रहं विधत्ते — ‘अप्यग्निष्टोमे राजन्यस्य गृह्णीयाद्व्यावृत्कामो हि राजन्यो यजते’ (सं. का. ६ प्र. ६ अ. ११) इति।
द्वादशभिः स्तोत्रैः शस्त्रैश्चोपेतोऽग्निष्टोमो वर्णत्रयसाधारणः। राजन्यस्तु विप्र-वैश्याभ्यां व्यावृत्तिमुत्कर्षं कामयते तदर्थं गृह्णीयात्।
अस्मिन्षोडशिग्रहस्तोत्रस्यैकविंशनामकं स्तोमं विधत्ते — ‘साह्न एवास्मै वज्रं गृह्णाति स एनं वज्रो भूत्या इन्धे निर्वा दहत्येक विँशँ स्तोत्रं भवति प्रतिष्ठित्यै’ (सं. का. ६ प्र. ६ अ. ११) इति।
अह्ना सह वर्तत इति एकदिवसनिष्पाद्यः सोमयागः साह्नः। तस्मिन्नेव यजमानार्थमध्वर्युः षोडशिरूपं वज्रं गृह्णाति। स च वज्रो वैरिविनाशाय प्रयुक्त एनं यजमानमैश्वर्यार्थं प्रकाशयति। अथवा प्रयोगकौशलाभावादस्मिन्नेव यजमाने परीतो निःशेषेणैनमेव दहति। अतः पाक्षिकदाहनिवृत्त्या यजमानस्य प्रतिष्ठार्थमेकविंशस्तोत्रं संपादयेत्। प्रगीतमन्त्रसाध्यस्तुतिः स्तोत्रम्। तच्च गानं तृचे कर्तव्यम्। एकं साम तृचे क्रियते स्तोत्रीयमिति विधानात्। षोडशिस्तोत्र-स्यासावि सोम इन्द्र व इत्यृक्प्रथमा। इन्द्रमिद्धरी वहत इति द्वितीया। आ तिष्ठ वृत्रहन्निति तृतीया। सोऽयं तृचस्त्रिभिः पर्यायैरावृत्तिविशेषो (षेण) गीयमान एकविंशत्यृगात्मकं(को) भवति। प्रथमे पर्याये प्रथमद्बितीययोचोस्त्रि-स्त्रिर्गानम्। तृतीयस्याः सकृद्गानम्। द्वितीयपर्याये प्रथमायाः। तृतीयपर्याये मध्यमायाः सकृद्गानम्। तथा च च्छनेदोगब्राह्मण आम्नायते - ‘सप्तेभ्यो हिं करोति स तिसृभिः स तिसृभिः स एकया सप्तभ्यो हिं करोति स एकया स तिसृभिः स तिसृभिः सप्तभ्यो हिं करोति स तिसृभिः स एकया स तिसृभिः सप्तसप्तिमेकविंशस्य विष्टुतिः’ इति। सप्तभ्यः सप्तभिग्भिर्हिं करोति गायेत्। यथोक्तावृत्तिविशिष्टेयमेकविंशनामकस्य स्तोमस्य संबन्धिनी विशिष्टा स्तुतिः। तस्याश्च सप्तसप्तिमिति नामधेयमित्यर्थः।
षोडशिशस्त्रं विधत्ते — ‘हरिवच्छस्यत इन्द्रस्य प्रियं धामोपाऽऽप्नोति’ (सं. का. ६ प्र. ६ अ. ११) इति।
हरिशब्दोऽस्मिन्नस्तीति हरिवच्छस्त्रम्। इन्द्रमिद्धरी वहत इत्यादिष्वृक्षु हरिशब्दो बहुलमुपलभ्यते। तेन शस्त्रेणेन्द्रस्य परितोषात्तदीयो लोकः प्राप्यते। तच्च शस्त्रं द्विविधं विहृतमविहृतं च। नानाविधच्छन्दसामृचां संमेलनेन निष्पादितं विहृतम्। त(य)थावस्थितमविहृतम्।
तत्र विहरणप्रकारं विधत्ते — ‘कनीयाँसि वै देवेषु छन्दाँस्यासञ्ज्यायाँस्यसुरेषु ते देवाः कनीयसा छन्दसा ज्यायश्छन्दोऽभि व्यशँसन्ततो वै तेऽसुराणां लोकमवृञ्जत यत्कनीयसा छन्दसा ज्यायश्छनोऽभि विशँसति भ्रातृव्यस्यैव तल्लोकं वृङ्क्ते’ (सं. का. ६ प्र. ६ अ. ११) इति।
सन्त्यस्मिञ्शस्रे बहुनि च्छन्दांसि। तान्याश्वलायनेनोदाहृतानि - ‘आ त्वा वहन्तु हरय इति तिस्रो गायत्र्यः। उपो षु शृणुही गिरः सुसंदृशं त्वा वयं मघवन्नित्येका द्वे च पङ्क्ती। यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यत इत्यौष्णिह-बार्हतौ तृचौ’ इत्यादिना। तत्र चतुर्विंशत्यक्षरा गायत्री। अष्टाविंशत्यक्षरो-ष्णिक्। अनयोरल्पाक्षरत्वेन कनीयस्त्वोद्देवच्छन्दस्त्वम्। अष्टाक्षरपादैः पञ्च-भिश्चत्वारिंशदक्षरा पङ्क्तिः। षट्त्रिंशदक्षरा बृहती। अनयोरधिकाक्षरत्वेन भूय-स्त्वादसुरच्छन्दस्त्वम्। एवं छन्दोन्तरेष्वप्युन्नेयम् । तत्र देवा गायत्रीछन्दसा पङ्क्तिच्छन्दोऽभितो विहृत्य शस्त्रमपठन्। विहार आश्वलायनेन दर्शतः - ‘तदेव शंस्यं विहरेत्पादान्व्यवधायार्धर्चशः शंसेत्पूर्वासां पूर्वाणि पदानि गायत्र्यः पङ्क्तिभिः पङ्क्तीनां तु द्वे द्वे पदे शिष्येते ताभ्यां प्रहिणुयादुष्णिहो बृहतीभिः’ इत्यादिना। अस्यायमर्थः - अविहृतं यच्छस्रं तदेव विहृतं कुर्यात्। तद्यथा-गायत्र्याः प्रथमं पादं पङ्क्तेः प्रथमपादेन संयोज्यैकमर्धर्चं संपादयेत्। एवं द्वि-तीयतृतीयपादसंयोगेन पुनरर्धर्चद्वयं संपाद्यम्। पङ्क्तेरवशिष्टं पादद्वयमेकोऽर्ध-र्चस्तस्यान्ते प्रणवं कुर्यात्। तैरेतैश्चतुर्भिरर्धर्चैर्द्वाव (द्वे अ) नुष्टुभौ संपद्येते। एवं गायत्र्यः पङ्क्तिभिः संयोज्याः। अनया विशंसति विहरेदिति। तेन विहृतेन शस्रेण भ्रातृव्यस्थानं विनाशयति।
संख्यान्तरमभिप्रेत्य विहरणं दर्शयति — ‘षडक्षराण्यति रेचयन्ति षड्वा ऋतव ऋतूनेव प्रीणाति चत्वारि पूर्वाण्यव कल्पयन्ति चतुष्पद एव पशूनव रुन्धे द्वे उत्तरे द्विपद एवाव रुन्धे’ (सं. का. ६ प्र. ६ अ. ११) इति।
काचिदृगष्टाविंशद(त्य)क्षराऽन्या त्वष्टात्रिंशदक्षराऽन्या त्रिंशदक्षरा। तत्र मध्यमायाः षडक्षराण्यनुष्टुभोऽतिरिच्यन्ते। तस्या ऋच आदौ चत्वारि पूर्वस्यामृचि संयोज्यानि। अन्तिमं द्वयमुत्तरस्यामृचि संयोज्यम्।
विहरणे फलितं दर्शयति।
‘अनुष्टुभमभि सं पादयन्ति वाग्या अनुष्टुप्तस्मात्प्राणानां वायुत्तमा’ (सं. का. ६ प्र. ६ अ. ११) इति।
आश्वलायनः - ‘अनुष्टुप्प्रकारं शंसेदूर्ध्वं स्तोत्रियानुरूपाभ्यमतो विहृत इति।
स्तोत्रोपाकरणस्य कालं विधत्ते — ‘समयाविषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोत्येतस्मिन्वै लोक इन्द्रो वृत्रमह-न्त्साक्षादेव वज्रं भ्रातृव्याय प्र हरति’ (सं. का. ६ प्र. ६ अ. ११) इति।
समयाविषितोऽर्धास्तमितस्तस्मिन्नेवार्धास्तमयकाले पूर्वमिन्द्रो भूलोके वृत्रं जघान।
षोडशिनो योग्यां दक्षिणां विधत्ते — ‘अरुणपिशङ्गोऽश्वो दक्षिणैतद्वै वज्रस्य रूपँ समृद्धयै’ (सं. का. ६ प्र. ६ अ. ११) इति।
अरुणमिश्रपिशङ्गवर्णः। तदेवं ब्राह्मणशेषाणामनुवाकानामर्था निरूपिताः।
अथ मीमांसा।
चतुर्थाध्यायस्य द्वितीयपादे चिन्तितम् —
“पात्रस्यावभृथे सोमलिप्तस्य नयनं तु किम्।
साधनं प्रतिपत्तिर्वा यन्ति तेनेत्यतः श्रुतेः
प्राप्ता साधनता मैवं पुरोडाशहविष्ट्वतः।
पात्रस्य तदसंबन्धात्प्रक्षेपः प्रतिपत्तये” इति।
ज्योतिष्टोमे श्रूयते – “वरुणगृहीतं वा एतद्यज्ञस्य यदृजीषं यद्ग्रावाणो यदौदुम्बर्यधिषवणफलके तस्माद्यत्किंचित्सोमलिप्तं द्रव्यं तेनावभृथं यन्ति” इति। निष्पीडितस्य सोमस्य नीरसो भाग ऋजीषम्। तदेतदृजीषग्रावादिकं सोमाभिषवादौ सोमेन लिप्यते। तस्य लिप्तस्य सर्वस्य द्रव्यस्यावभृथसाधन-त्वमभ्युपेयम्। कुतः। तेनावभृथं यन्तीति तृतीयाश्रुत्याऽवभृथसाधनत्वावग-मात्। तस्मात्सोमलिप्तं द्रव्यमवभृथे हविष्ट्वेन नीयत इति चेन्मैवम्। वारुणेनैव कपालेनावभृथमवयन्तीत्यनेनोत्पत्तिवाक्यशिष्टपुरोडाशहविषाऽवरुद्धेऽवभृथे सोमलिस्तस्य पात्रस्य हविष्ट्वेन संबन्धासंभवात्। तथा सत्यमभृथशब्देन तदीयं देशं लक्षयित्वा तस्मिन्देशे सोमलिप्तस्य पात्रस्य नयनमत्र विधीयते। तच्च नयन प्रतिपत्तये भवति। पात्रस्य पूर्वमुपयुक्तत्वात्। तस्मादेतत्प्रतिपत्तिकर्म।
दशमाध्यायस्य सप्तमपादे चिन्तितम् —
“किं स्यादवभृथे बर्हिर्वर्जं सर्वमुताऽऽचरेत्।
यावदुक्तं प्रयाजानुयाजबर्हिर्निषेधतः॥
आद्योऽप्सुमन्तावित्याज्यभागोक्त्या परिसंख्यया।
अन्येनात्र गुणप्राप्तेरपूर्वत्वेन वाऽन्तिमः” इति।
ज्योतिष्टोमावभृथे चतुर्थप्रयाजप्रथमानुयाजरूपौ बर्हिर्यागौ वर्जयित्वा शिष्टं चोदकप्राप्तं सर्वमनुष्ठेयम्। कुतः। अपबर्हिषः प्रयाजान्यजत्यपबर्हिषावनूयाजौ यजतीति बर्हिर्यागद्वयमात्रवर्जनावगमादिति प्राप्ते ब्रूमः - अप्सुमन्तावाज्यभागौ यजतीति परिसंख्यानादुक्तमेवानुष्ठेयम्। अथोच्येत चोदकप्राप्तावाज्यभागावनू द्याप्सुमच्छब्दोपेतमन्त्रद्वयरूपस्य गुणस्यात्र विधानान्न परिसंख्येति। मैवम्। लिङ्गक्रमाभ्यामेव मन्त्रयोः प्राप्तत्वात्। अतः परिसंख्यया गृहमेधीयवदुपद्व-च्चापूर्वकर्मत्वेन वा यावदुक्तमनुष्ठेयम्।
एकादशाध्यायस्य द्वितीयपादे चिन्तितम् —
“किमप्स्ववभृथे मुख्यमात्रं साङ्गमुताग्रिमः।
मुख्यत्वेनान्वयान्मैवं प्रयोगेण तदन्वयात्” इति।
इदं श्रूयते — अप्स्ववभृथेन चरन्तीति। तत्र वारुण एककपालोऽवभृथशब्द-वाच्यत्वान्मुख्यं कर्म तेन मुख्येनापामन्वयः श्रूयते। अतोऽत्र द्रव्यदेवतावदपां मुख्यमात्राङ्गत्वात्प्रधानस्यैवाप्स्वनुष्ठानम्। आघाराज्यभागादीन्याहवनीयेऽनुष्ठे-यानीति प्राप्ते ब्रूमः - स्यादेतदेवम्। यद्यप्स्ववभृथ इत्येतावदेव श्रूयेत। इह त्वाप्सु चरन्तीति श्रवणादवभृथप्रयोगेणापामन्वयात्साङ्गं प्रधानमप्सु कर्तव्यम्। एतद्विचारत्रयमवभृथयजूंषि जुहोतीत्यस्मन्ननुवाके द्रष्टव्यम्।
पञ्चमाध्यायस्य द्बितीयपादे चिन्तितम्
“यूपाञ्जनादिरेकैकः संघो वाऽनुसमीयते।
एकैकः पूर्ववन्मैवं वचनात्काण्डसंगतेः” इति।
ज्योतिष्टोमेऽग्नीषोमीयपशौ यूपस्य घृतेनाञ्जनमच्छ्रयणमवटस्य पर्यूहणं यूप-मूलस्य दृहणं मध्ये रशनया परिव्ययणमित्येते पदार्था आम्नाताः। ते चैकयू-पपक्षे तथैव कर्तव्याः। एकयूपस्य च विकल्पः श्रूयते- ‘एकयूपो वैकादशिनी वा। अन्येषां यज्ञानां यूपा भवन्ति। एकविँशिन्यश्वमेधस्य’ इति। तत्र बहु-यूपेष्वञ्जनादिरेकैकः पदार्थः प्राजापत्यपशूपाकरशादिवदनुसमेतव्य इति प्राप्ते ब्रूमः - अञ्जनादिपरिव्ययणान्तं यजनानो यूपं नावसृजेदिति वचनेन यजमानस्य यूपत्यागनिषेधोऽञ्जनादिकाण्डस्यानुसमये सत्युपपद्यते। तस्मान्नात्र पदार्थानुसमयः।
सप्तमाध्यायस्य तृतीयपादे चिन्तितम् —
“संस्कारः स्यादुपशये न वा यूपोक्तितोऽग्रिमः।
न स्यान्नियोजनाभावात्तूष्णीं छेदेन यूपता” इति।
यूपैकादशिन्यां श्रूयते - ‘उपशयो यूपो भवति’ इति। एकादशानां यूपानां समूह एकादशिनी। तत्र दक्षिणतोऽवस्थापितो द्वादशो यूप उपशयः। तथा च श्रूयते – ‘यद्दक्षिणत उपशयः’ इति। तस्मिन्नुपशये परिव्ययणादिको यूपसंस्कारोऽस्ति, संस्कारनिमित्तस्यैकस्य यूपशब्दस्य तत्र प्रयुक्तत्वादिति चेन्मैवम्। संस्कारप्रयोजनस्यात्राभावात्। पशुं नियोक्तुं यूपः संस्क्रियते। तच्च नियोजनमितरेष्वकादशसु यूपेष्वस्ति न तु द्वादश उपशये। तथा च तैत्तिरीयकब्राह्मणम् – ‘सर्वे वा अन्ये यूपाः पशुमन्तोऽथोपशय एवापशुः’ इति। परिव्ययणादिसंस्काराभावेऽप्यमन्त्रच्छेदनादयः केचिद्धर्मास्तत्र वाचनिका विद्यन्ते। तावताऽल्पेन सादृश्येन गौणी तत्र यूपोक्तिः। तस्मान्न यूपशब्दो धर्मानतिदिशतीति। एतद्विचारद्वयं रफ्येन वेदिमुपद्धन्तीत्येस्मिन्ननुवाके द्रष्टव्यम्।
अष्टमाध्यायस्य प्रथमपादे चिन्तितम् —
“स्यादैकादशिने दैक्षात्सौत्याद्वाऽऽद्योऽस्तु पूर्ववत्।
रशनाद्वयसौत्यत्वविशेषाल्लिङ्गतोऽन्तिमः” इति।
ऐकादशिनाः पशव एवमाम्नायन्ते - ‘आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौभ्यः पौष्णः श्यामः शितिपृष्ठो बार्हस्पत्यः शिल्पो वैश्वदेव ऐन्द्रोऽरुणो मारुतः कल्पाष ऐन्द्राग्रः सँहितोऽधोरामः सावित्रो वारुणः पेत्वः’ इति। यद्यप्यश्वमेधप्रकरण एते पठितास्ताथाऽपि ज्योतिष्टोमप्रकरणेऽप्येते विधीयन्ते - ‘प्रैवाऽऽग्नेयेन वापयति मिथुनँ सारस्वत्या करोति रेतः सौम्येन दधाति प्रजनयति पौष्णेन’ इत्यादिना। तेष्वैकादशिनेषु दैक्षादग्नीषोमीयाद्विध्यन्तातिदेशः स्यात्। कुतः। अग्नीषोमीयस्य पशुप्रकृतित्वेन पूर्वाधिकरणे निर्णीतत्वादिति चेन्मैवम्। सौत्यगतविशेषलिङ्गदर्शनात्। सुत्याकाले भवः सौत्यः सवनीयः पशुः। तत्र चोदकप्राप्ता रशनैका वाचनिकी द्वितीया। एतच्च तृतीये निर्णीतम्। तदेतद्रशनाद्वयमग्नीषोमीयपशावसंभवात्सवनीयस्य विशेषलिङ्गमेकं सुत्याकालीनत्वं द्वितीयम्। ते च द्बे लिङ्गे ऐकादशिनेषु दृश्येते। तत्रेदमाम्नायते – ‘द्वे द्वे रशने आदाय द्वाभ्यां द्वाभ्यां रशनाभ्यामेकैकं यूपं परिव्ययति’ इति। सुत्याकालीनत्वं च तेष्वस्ति। ततः सौत्याद्धर्मातिदेशः।
नवमाध्यायस्य तृतीयपादे चिन्तितम् —
“कृष्णग्रीवादिके नोह ऊहो वाऽस्ति न पूर्ववत्।
देवत्वं न गणस्यात ऊहो बह्वभिधित्सया” इति।
यूपैकादशिन्यामग्न्यादिदेवताकाः पशव आम्नाताः — ‘प्रैवाऽऽग्नेयेन वापयति मिथुनँ सारस्वत्या करोति रेतः सौम्येन दधाति प्रजनयति पौष्णेन’ इत्यादि-ना। ते च स्वनामभिरन्यत्रऽऽम्राताः — ‘आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौम्यः पौष्णः श्यामः’ इत्यादिना। तत्राप्येकवचनान्तस्य मेधपतिश-ब्दस्याऽऽदित्येष्विव नोह इति चेन्मैवम्। वैषम्यात्। आदित्यगणस्य तत्र देव-त्वम्। इह त्वेकैकस्य पृथग्देवत्वम्। अतो बहून्देवानभिधातुं बहुवचनान्तत्वेनोहनीयम्।
एकादशाध्यायस्य द्वितीयपादे चिन्तितम् —
“ऐकादशिनके (गे) तन्त्रं वसाहोमेऽथ भिन्नता।
तन्त्रं शक्यं (क्य) त्वतो भेदः प्रधानार्धर्चभेदतः” इति।
ऐकादशिनेष्वाग्नेयसारस्वतसौम्यादिपशुषु वसाहोमस्य सह कर्तुं शक्यत्वा-त्तन्त्रमिति प्राप्ते ब्रूमः - देवताभेदेन प्रधानभेदात्तत्तद्याज्यार्धर्चान्तकालानां भिन्नत्वेनावुष्ठानयौगपद्यासंभवाद्भेदः।
तत्रैवान्यच्चिन्तितम् —
“यूपैकाशिनीयूपाहुतेर्भेदोऽथ तन्त्रता।
सामीप्यभेदादाद्योऽन्त्यः सामीप्यं दृष्टिगं यतः” इति।
यूपैकादशिन्यां चोदकप्राप्ता यूपाहुतिः प्रतियूपं भिद्यते। कुतः। यूपस्या-न्तिकेऽग्निं मथित्वा यूपाहुतिं जुहोतीति तद्विधानात्सामीप्यानां च भेदादिति प्राप्ते ब्रूमः — न तावदत्यन्तसामीप्यं संभवति यूपदाहप्रसङ्गात्। अतो यावता व्यवधानेन यूपा दृष्टिगोचरा भवन्ति तावतो देशस्य समीपत्वमभ्युपेतव्यम्। तथा सति देशैक्यादाहुतेस्तन्त्रता।
तत्रैव चतुर्थपादे चिन्तितम् —
“किमैकादशिनेष्वस्य कुम्भ्यादेर्भिन्नता न वा।
असंदेहाय भेदो न लिङ्गादेवास्य सिद्धितः” इति।
भिन्नदेवताकेष्वैकादशिनेषु पशुष्वेककुम्भीपाके सति किमङ्गं कां देवतां प्रत्युपाकृतस्य पशोः संबन्धीति संदेहे सति प्रदानं संकीर्येत। तस्मात्कुम्भ्यादे-रावाप (र्भेद) इति चेन्मैवम्। चिह्नकरणमात्रेण संदेहापगमसिद्धौ लाघवात्। तस्मादत्र तन्त्रता।
तत्रैवान्यच्चिन्तितम् —
“तत्तन्त्रं हेयमुत नो चिह्नं नास्ति वसास्वतः।
हेयं नो प्रतिपत्तित्वात्सांकर्येणाप्यदोषतः”॥
ऐकादशिनेषु कुम्भ्यादेर्यत्तन्त्रं निर्णीतं तत्परित्याज्यमङ्गानामिव वसानां चिह्न-करणासंभवेन सांकर्यप्रसङ्गादिति चेन्मैवम्। वसाहोमस्य प्रतिपत्तिकर्मत्वेन द्रव्यं प्रत्यपि प्रयोजकत्वाभावेन तद्द्रव्यश्रपणार्थं कुम्भीभेदप्रयोजकत्वस्य दूरापेतत्वात्। न चात्र द्रव्यसांकर्यं दोषाय भवति, व्यवस्थापकप्रमाणाभावात्। ननु तत्तद्देवताविषययाज्यार्धर्चान्तेषु भिन्ना होमाः पूर्वं निर्णीताः। बाढं, तथैवैकादशकृत्वो हूयतां किमायातं द्रव्यसांकर्ये। तस्मात्कुम्भ्यादेस्तन्त्रं न त्याज्यम्। इदं षट्कं प्रजापतिः प्रजा असृजतेत्यस्मिन्ननुवाके द्रष्टव्यम्।
द्वितीयाध्यायस्य तृतीयपादे चिन्तितम् —
“पर्यग्निकृतः पात्नीवत उत्सृज्यत इत्यसौ।
यागो गुणो वा यागः स्यादन्वयाव्यवधानतः॥
प्रत्यभिज्ञान(त)मालभ्यमनूद्योत्सर्गशब्दतः।
गुणं पर्यग्निकृत्याख्यं वक्त्युत्तरनिवृत्तये।
न दुष्टा परिसंख्याऽत्र चोदकात्प्राग्विधौ सति।
पर्यग्निकरणान्ताङ्गरीतिः कॢप्तोपकारतः” इति॥
“त्वाष्ट्रं पात्नीवतमालभेत” इति प्रकृत्यैवमाम्नातम् — “पर्यग्निकृतं पात्नीवतमुत्सृजति” इति। तत्र पर्यग्निकृतशब्देन संस्कृतपशुद्रव्यस्य पात्नीवत-शब्देन पत्नीवन्नामकदेवतासंबन्धस्य च प्रतीयमानत्वादयं यागविधिः। एवं सति पर्यग्निकृतपात्नीवतशब्दयोरव्यावहितान्वयो लभ्यते। सिद्धान्ते तु पर्यग्निकृतमुत्सृजतीत्यन्वयं वाञ्छन्ति। तदा व्यवहितान्वयो दुर्वारः। तस्माद्वायव्यपशुवद्यागविधिरिति प्राप्ते ब्रूमः - अनारभ्याधीतत्वान्नस्ति वायव्ये प्रकृतप्रत्यभिज्ञा। इह त्वालभ्यत्वेन प्रकृतः पशुः पात्नीवतशब्देन प्रत्यभिज्ञायते। तमनूद्य पर्यग्निकृतशब्दान्वितेनोत्सृजतीत्याख्यातेन पर्यग्निकरणाख्यो गुणो विधीयते। न च प्रकृतिगतस्य पर्यग्निकरणस्य विकृतौ चोदकेन प्राप्तत्वादनर्थकोऽयं विधिरिति वाच्यम्। उपरितनाङ्गनिवृत्तेर्विधिप्रयोजनत्वात्। नन्वेवं सति परिसंख्या स्यात्। सा च दोषत्रयदुष्टा। स्वार्थत्यगोऽन्यार्थस्वीकारः प्राप्तबाधश्चेति त्रयो दोषाः। पर्यग्निक-रणवाक्ये स्वार्थो विधिस्त्यज्येत। अन्यार्थो निषेधः स्वी क्रीयेत। चोदकप्रा-प्तान्युपरितनान्यङ्गानि बाध्येरन्। मैवम्। पर्यग्निकरणोत्तरभावीन्यङ्गानि नानु-ष्ठेयानीत्येतस्याः परिसंख्याया अनङ्गीकारात्। कथं तर्हि तन्निवृत्तिः। आर्थि-कीति ब्रूमः। चोदकप्रवृत्तेः प्रागेवायं विधिः प्रवर्तते। प्रत्यक्षोपदेशस्य शीघ्र-बुद्धिजनकतया कल्प्यातिदेशात्प्रबलत्वात्। तथा सत्युपदिष्टैरेवाङ्गैर्निराकाङ्क्षा-यां विकृतौ चोदकस्याप्रवृत्त्यैवोपरितनान्यङ्गानि न प्राप्यन्ते। न चानेन न्याये न पर्यग्निकरणात्प्राचीनानामप्यप्राप्तिरिति वाच्यम्। विधीयमानस्य पर्यग्निकरण-स्य नूतनत्वे सत्युपकारकल्पनापत्त्या प्रकृतौ यत्कॢप्तोपकारं पर्यग्निकरणं तद-वस्थापन्नस्यैवात्र विधेयत्वात्। प्रकृतौ च प्रचीनाङ्गानन्तरभाविन एवोपकारः कॢप्त इत्यत्रापि तादृशस्यैव विधानात्पर्यग्निकरणान्ताङ्गरीतिः सिध्यति। एवं च सत्युत्सृजतीत्याख्यातेन यथोक्तपर्यग्निकरणविधावर्थसिद्ध उपरितनाङ्गोत्सर्गो धातुनाऽनूद्यते। तदेवमत्र गुणविधिः।
नवमाध्यायस्य चतुर्थपादे चिन्तितम् —
“आज्येन शेषमित्युक्तौ द्रव्यप्रतिनिधिर्भवेत्।
कर्मान्यद्वाऽग्रिमस्त्यागशेषसंस्थापनोक्तिभिः॥
अङ्गरीत्या समाप्तत्वाद्देवतोक्त्यनुवर्तनात्।
साम्याच्छेषः संस्थितिस्तु याग आलम्भनादिवत्” इति।
‘त्वाष्ट्रं पात्नीवतमालभेत’ इति प्रकृत्य ‘पर्यग्निकृतं पात्नीवतमुत्सृजति’ इति श्रुतम्। तत्र पुनः श्रूयते - ‘आज्येन शेषं संस्थापयेत्’ इति। तदिदमाज्यं पशुद्रव्यस्य प्रतिनिधिर्भवेत्। कुतः। उत्सर्गशेषसंस्थापनशब्दैस्तदवगमात्। पर्यग्निकरणादूर्ध्वं पशुद्रव्यस्य त्यागमभिधायाऽऽज्येनेति द्रव्यान्तरं पशुस्थानीयं साधनभूतमुपदिश्य चोदकप्राप्तमुत्तरकालीनमङ्गजातं तेन द्रव्येण समापनीयमिति विधीयत इति प्राप्ते ब्रूमः - पूर्वाधिकारणन्यायेनाङ्गरीत्या पात्नीवतः पशुः समाप्तः। यदि पात्नीवतमालभेतेति विहितस्य कर्मणः समाप्तिर्न स्यात्, केवलं पशुद्रव्यत्यागः क्रियेत तदा विहितो द्रव्यदेवतासंबन्धरूपो यागो नानुष्ठितः स्यात्। ततो देवतामद्दिश्य त्यागोऽवश्यं कर्तव्यः। तथा सति पशुसाधनके यागे मुख्येन पशुनैव साधिते कुतः प्रतिनिधिः। देवतोद्देशत्यागस्य चोत्पत्तिवाक्येनैव सिद्धत्वात्। पर्यग्निकरणोत्सर्गवाक्येना(णा)ङ्गरीतिविधाने संस्थापनीयः शेषो न कोऽप्यस्ति। तस्मादाज्यवाक्येन कर्मान्तरं विधीयते। पश्वाज्यद्रव्यकयोः पूर्वोत्तरकर्मणोः पत्नीवदाख्याया देवताया एकत्वेनाव्यवहितानुष्ठानेन चोपक्रमोपसंहारसदृशत्वात्। संस्थितिक्रियया चाऽऽलम्भननिर्वापादिवद्यागो लक्ष्यते। लिङ्प्रत्ययश्चापूर्वभावनामभिधत्ते। तस्मादाज्यद्रव्यकं पत्नीवद्देवताकं शेषवत्पशुयागसमनन्तरोत्तरभाविकर्मान्तरमत्र विधीयते। एतदुभयमिन्द्रः पत्नियेत्यनुवाके द्रष्टव्यम्।
द्वादशाध्यायस्य द्वितीयपादे चिन्तितम् —
“अस्त्याहुतिश्चरौ सौम्ये नास्ति वा पशुपाकतः।
निवृत्तत्वादस्ति मैवमनिवृत्तेः पुरोत्थितेः” इति।
तृतीयसवनीये ये सौम्यचर्वादयस्तेषु हविष्कृदाह्वानं पुनः कर्तव्यम्। पश्वर्थ माहूतायास्तस्याः पशुपाके निष्पन्ने सति निवृत्तत्वादिति चेन्मैवम्। प्रकृतौ पत्नीसंयाजेभ्य ऊर्धं हविष्कृतः पत्न्या उत्थानं वाक्येन विहितम्। पशावपि ततः पूर्वं निवृत्त्यभावात्। तस्मात्तत्कालीनेषु सौम्यचर्वादिषु नास्ति पुनराह्वानम्। एतच्च घ्नन्ति वा एतत्सोममित्यनुवाके द्रष्टव्यम्।
पञ्चमाध्यायस्य प्रथमपादे चिन्तितम् —
“उक्थ्योत्कर्षे षोडशी नोत्कृष्येतेऽथवा।
स्तोत्रकालाय नोत्कर्षः पूर्ववत्षोडशिग्रहे।
ज्योतिष्टोमे षोडशिग्रहं प्रकृत्य श्रूयते – ‘तं पराञ्चमुक्थ्येभ्यो निगृह्णाति’ इति। तृतीयसवने सूर्यास्तमयात्प्रगेवोक्थ्यग्रहास्त्रयो गृह्यन्ते। तेभ्यः परस्तादयं षोडशी विहितः। यदि कदाचिद्दैवादुक्थ्यग्रहा अस्तमयादूर्ध्वमुत्कृष्येरंस्तदा तत ऊर्ध्वं विहितस्यापि षोडशिग्रहस्य नास्त्युत्कर्षः। कुतः। पूर्वन्यायेन काल-स्यानुसरणीयत्वात्। कालोऽप्येवमाम्नातः - ‘समयाविषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोति’ इति। समयोऽस्तमयस्तं प्राप्ते सूर्ये स्तोत्रप्रारम्भकालः। सोऽयमुत्कर्षे सति बाध्यते। तच्चायुक्तं, पूर्वमग्निहोत्रस्य स्वकालमबाधितुमेवेष्टिमध्येऽनुष्ठानाङ्गीकारादिति प्राप्ते ब्रूमः - पराञ्चमिति शब्देनोक्थ्येभ्य उत्तरकालः षोडशिग्रहाङ्गत्वेन विधीयते। ततो मुख्यग्रहस्य कालमबाधितुमुपसर्जनस्य स्तोत्रस्य कालं बाधित्वा सस्तोत्रग्रह उत्क्रष्टव्यः।
दशमाध्यायस्य पञ्चमपादे चिन्तितम् —
“विकृतौ प्रकृतौ वा स्यात्षोडश्युत्कर्षतोऽग्रिमः।
अविरुद्धेन वाक्येनानुत्कर्षात्कर्षात्प्रकृतावसौ” इति।
ज्योतिष्टोमप्रकरणे श्रूयते — ‘य एवं विद्वान्षोडशिनं गृह्णाति’ इति। सोऽयं षोडशिग्रहो विकृतौ निविशते। कुतः। प्रबलेन वाक्येन तस्य ग्रहस्य प्रकरणादुत्कृष्यमाणत्वात्। ‘उत्तरेऽहन्द्विरात्रस्य गृह्यते मध्यमेऽहंस्रिरात्रस्य’ इति हि वाक्यम्। द्विरात्रादीनां च विकृतित्वं प्रसिद्धम्। अतः प्रकरणं बाधित्वा विकृतौ निवेश इति प्राप्ते ब्रूमः – ‘अप्यग्निष्टमे राजन्यस्य गृह्णीयात्’ इत्यन्यद्वाक्यमस्ति। तेन प्रकृतिभूतेऽग्निष्टोमे निविशते। न चात्र प्रकरणबाधः। अग्निष्टोमस्य ज्योतिष्टोमावान्तरसंस्थारूपत्वेन ततोऽनन्यत्वात्। न चैवं सति चोदकेनैव द्विरात्रादिषु प्राप्तत्वत्वात्पुनर्विधिवाक्यं व्यर्थमिति शङ्कनीयम्। अहर्विशेषसंबन्धाय राजन्यादिनिमित्तनैरपेक्ष्याय च तदुपपत्तेः। तस्मात्प्रकृतौ निवेशः -
तत्रैवान्यच्चिन्तितम् — “उक्थ्याग्रयणतः स स्यात्केवलाग्रयणादुत।
आद्य उक्तिद्वयादन्त्य उक्थ्योर्ध्वत्वविधित्वतः” इति।
स पूर्वोक्तः षोडशी वचनद्वयबलेनोक्थ्यपात्रादाग्रणपात्राच्च ग्रहीतव्यः। ‘उक्थ्यान्निगृह्णाति षोडशिनम्’ इत्येकं वाक्यम्। ‘आग्रयणाद्गृह्णाति’ इत्यूर्ध्वकालवाचिनः पराक्शब्दस्य प्रयोगात्। ततो नोभयस्माद्ग्रहणम्।
तत्रैवान्यच्चिन्तितम् —
“सवनेषु तृतीये वा स त्रयोक्त्या भवेत्त्रिषु।
द्वे निन्दित्वा तृतीयस्य विधेस्तत्रैव गृह्यताम्” इति।
स पूर्वोक्तः षोडशिग्रहस्त्रिषु सवनेषु भवेत्। कुतः। सवनत्रयस्योक्तत्वात्। षोडशिनं प्रकृत्याऽऽम्नायते। ‘प्रातःसवने ग्राह्यो माध्यंदिनसवने ग्राह्यस्तृतीय-सवने ग्राह्यः’ इति। नैतद्युक्तम्। सवनद्वयस्यार्थवादत्वेन तृतीयसवनस्योक्त-त्वात्। अत एव वाक्यशेषे सवनद्वयं निन्दित्वा तृतीयसवनं विधीयते। यत्प्रातःसवन इत्यादिना सवनद्वये वज्रपातदोषोऽभिहितः। तृतीयसवने ग्राह्यो न सर्वेषु सवनेषु गृह्णातीति प्रशंसापूर्वकं विहितम्। तस्मात्तृतीयसवन एव षोडशिग्रहः।
पुनरप्यन्यत्तत्रैव चिन्तितम् — “अग्निष्टोमोक्थ्यसंबन्धी षोडश्यस्तुतशस्त्रकः।
तद्युक्तो वाऽग्रिमः प्राप्तस्तत्र संस्थामबाधितुम्॥
स्तोत्रं भवत्येकविंशं हरिवच्छस्यते ततः।
इष्यते ह्यन्यसंस्थात्वं स्तुतशस्त्रयुतस्ततः” इति॥
षोडशिनं प्रकृत्याऽऽम्नायते — ‘अप्यग्निष्टोमे राजन्यस्य गृह्णीयादप्युक्थ्ये ग्राह्यः’ इति। सोऽयमग्निष्टोमोक्थ्यसंस्थयोर्विहितः षोडशिग्रहः स्तुतशस्रवर्जितो भवितुमर्हति। अन्यथा तदीयाभ्यां स्तुतशस्त्राभ्यां क्रतुसमाप्तौ षोडशिसंस्थात्वं प्रसज्येत, अग्निष्टोमसंस्थात्वमुक्थ्यसंस्थात्वं च बाध्येत, तत्संबन्धिसमाप्त्यभावादिति प्राप्ते ब्रूमः - ‘एकविँशँ स्तोत्रं भवति प्रतिष्ठित्यै हरिवच्छस्यते’ इति षोडशिनि प्रत्यक्षविधिना स्तुतशस्त्रे विहिते। किंच ‘ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोति’ इति ग्रहग्रहणचमसोन्नयनयोः स्तोत्रनिमित्तत्वं श्रुतम्।न हि सति निमित्ते नैमिक्तिकं त्यक्तुं शक्यम्। तस्मात्पूर्वसंस्थात्वहानिमन्यसंस्थात्वं चाभ्युपेत्य स्तुतशस्त्रयुतत्वं द्रष्टव्यम्।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठक एकोनचत्वारिंशोऽनुवाकः॥३९॥

(अथ प्रथमकाण्डे चतुर्थप्रपाठके चत्वारिंशोऽनुवाकः)
एकोनचत्वारिंशेऽनुवाके सोमयागः समापितः। अथास्य प्रपाठकस्यान्तिमेऽ-नुवाके काम्ययाज्यापुरोनुवाक्या उच्यन्ते।
इष्टिकाण्डे द्विहविष्का काचिदिष्टिरेवमाम्नायते — ‘अग्नये पुत्रवते पुरोडामष्टाकपालं निर्वपेदिन्द्राय पुत्रिणे पुरोडाशमेकाद-शकपालं प्रजाकामोऽग्निरेवास्मै प्रजां प्रजनयति वृद्धामिन्द्रः प्र यच्छति’ (सं. का. २ प्र. २ अ. ४) इति।
वृद्धां पुत्रपौत्रेणाभिवृद्धाम्।
तत्राऽऽग्नेयस्य पुरोनुवाक्यामाह — यस्त्वेति। जातवेदो योऽहं मर्त्यः सन्कीरिणा गुणकीर्तमशीलेन हृदा मनसा त्वाममर्त्यं मरणरहितं मन्यमान आह्वयामि, तादृशेष्वस्मासु पुत्रपौत्रदिरूपप्र-जाभिर्निष्पादितं यशः कीर्तिं निधेहि। हेऽग्ने त्वत्प्रसादादमृतत्वं देवत्वमश्यां प्राप्नुयाम्।
अथ याज्यामाह — यस्मै त्वमिति। शोभनं कर्म करोतीति सुकृत्। जातं जगद्वेत्तीति जातवेदाः। हे जातवेदोऽग्ने त्वं सुकृते यस्मै यजमानाय स्योनं सुखकरमुत्कृष्टं स्थानं कृणवः करोषि स यजमानो रयिं धनं स्वस्ति नशते सम्यक्प्राप्नोति। कीदृशं धनम् अश्वैः पुत्रैः शूरभटैर्गोभिश्च संयुतम्।
ऐन्द्रस्य पुरोनुवाक्यामाह — त्वे सु पुत्रेति। त्वे त्वयि। शवसो बलस्य। स्ववृत्रन्सुष्ठु वर्तन्ते। कामा भोगाः काम्यन्ते याभिः स्तुतिभिस्ताः कामकातयः। इन्द्रस्यातिप्रबलत्वाच्छवसः पुत्रेत्युपचर्यते। हे शवसः पुत्रेन्द्रास्मदीयस्तुतयस्त्वयि सुष्ठु वर्तन्ते, काचिदपि स्तुतिस्त्वां नातिरिच्यते। सर्वस्य स्तुतुवाक्यस्य त्वयि विद्यमानत्वात्।
अथ याज्यामाह — उक्थ इति। उक्थउक्थे सोमयागवर्तिनि तत्तच्छस्रे स सोम इन्द्रं ममाद हर्षयामास। नीयत आहूयत इन्द्रोऽत्रेति नीथो यागप्रदेशः। समानदक्षा-स्तुल्येषु यजमानेषु कुशलाः सुतासः पुत्रस्थानीया यजमानाः पितृस्थानीयं मघवानं नीथेनीथे तत्तद्यागप्रदेशेऽवसे रक्षार्थं हवन्त आह्वयन्ति। यदीं सबाधो यस्मादीदृश आहूतो मघवा विरोधिष्वसुरेषु बाधकारी तस्मादाह्वयन्ते। पुत्राः पितरं न पितरमिव। यथा बाला अन्यैस्ताडयमाना रक्षार्थं पितरमाह्व-यन्ति तद्वत्।
इष्टयन्तरं विधत्ते — ‘अग्नये रसवतेऽजक्षीरे चरुं निर्वपेद्यः कामयेत रसवन्त्स्यामित्यग्निमेव रसवन्तँ स्वेन भागधेयेनोप धावति स एवैनँ रसवन्तं करोति भवत्यजक्षीरे भवत्याग्नेयी वा एषा यदजा साक्षादेव रसमव रुन्धे’ (सं. का. २ प्र. २ अ. ४) इति।
रसवान्क्षीरदध्यादिरसोपेतः। अजाया अग्निवत्प्रजापतिमुखादुत्पन्नत्वादाग्ने-यत्वम्। साक्षादव्यवधानेन शीघ्रमित्यर्थः।
तत्र पुरोनुवाक्यामाह — अग्ने रसेनेति। हे जातवेदोऽग्ने रसनास्मान्योजय। तेजसा विशेषेण प्रकाशसे। कीदृशस्त्वम्। यागदेशे रक्षसां हन्ता। शरीरेऽमीवस्याऽऽन्तररोगस्य चातनो विनाशकः। याज्या लिखिता। उरुँ हि राजा वरुणश्चकारेत्यस्मिन्ननुवाके व्याख्यातो मन्त्रः।
इष्ट्यन्तरं विधत्ते — “अग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेत वसुमान्त्स्यामित्य-ग्निमेव वसुमन्तँ स्वेन भागधेयेनोप धावति स एवैनं वसुमन्तं करोति वसुमानेव भवति” (सं. का. २ प्र. २ अ. ४) इति।
तत्र पुरोनुवाक्याह — वसुरिति। हेऽग्ने हिकं यस्मात्कारणात्त्वं वसुर्लोकानां वासि(सयि)ता धन पतिः प्रजायुक्त(तिस्तेजोधन)श्चासि तस्माद्वयमपि तवानुग्रहबुद्धाववस्थिता भवेम।
याज्यामाह — त्वामग्न इति। हे राजन्दीप्तिमन्नग्नेऽध्वरेषु यज्ञेषु त्वामभिप्रमन्दे सर्वतः प्रकर्षेण तोषयामि। कीदृशं त्वाम्। वसूनां वसुपतिं धनानां मध्ये यानि श्रेष्ठानि धनानि तेषामधिपतिमित्यर्थः। वाजयन्तोऽन्नमिच्छन्तो वयं त्वात्प्रसादेन वाजमन्नं जयेम। विरोधिनां मनुष्याणां पृत्सुतीः सेनाः अभिष्यामाभिभवितुं शक्ता भवेम।
इष्ट्यन्तरं विधत्ते — ‘अग्नये वाजसृते पुरोडाशमष्टाकपालं निर्वपेत्संग्रामे संयत्ते वाजं वा एष सिसीर्षति यः संग्रामं जिगीषत्यग्निः खलु वै देवानां वाजसृदग्निमेव वाजसृतँ स्वेन भागधेयेनोप धावति धावति वाजँ हन्ति वृत्रं जयति तँ संग्राममथो अग्निरिव न प्रतिधृषे भवति’ (सं. का. २ प्र. २ अ. ४) इति।
वाजमन्नं सरति प्राप्नोतीति वाजसृत्। लोके युद्धं जेतुमिच्छुर्जयादूर्ध्वं वैरिसंबद्धमन्नं कृत्स्नं प्राप्तुमिच्छति। अतो वाजसृदिति विशेषणं युक्तम्। वाजं धावति प्राप्नोति तदर्थं वृत्रं हन्ति युद्धं च जयति। किंचाग्निरिवायमन्येन प्रतिधृषे तिरस्कर्तुं शक्तो न भवति।
त्वामग्न इति। हेऽग्ने त्वां विप्रा यजमाना अभिवृद्धिं प्रापयन्ति। कीदृशं त्वाम्। वाजसातममतिशयेनान्नप्रदं सुष्टुतं स्तोत्रैर्हि सुष्ठु स्तुतम्। स तादृशस्त्वं नोऽस्माकं सुष्ठु सामर्थ्यं रास्व देहि।
याज्यामाह — अयं नो इति। अयमग्निरस्माकं वरिवः परिचारकं भृत्यवर्गं संपादयतु। मृधो वैरिणो विदारयन्नोऽस्माकं पुरतो गच्छतु। जर्हृषाणः प्रहरञ्शत्रूञ्जयतु। वाजसातावन्नदाननिमित्तं परकीयमन्नं जयतु।
इष्ट्यन्तरं विधत्ते — “अग्नयेऽग्निवते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्नावग्निमभ्युद्धरेयुर्निर्दिष्टभागो वा एतयोरन्योऽनिर्दिष्टभागोऽन्यस्तौ संभवन्तौ यजमानमभि संभवतः स ईश्वर आर्तिमार्तोर्यदग्नेऽग्निवते निर्वपति भागधेयेनैवैनौ शमयति नाऽऽर्तिमार्च्छति यजमानः” (सं. का. २ प्र. २ अ. ४) इति।
गार्हपत्यादाहवनीयेऽग्निं प्रक्षिप्य तत्राग्निहोत्रं हूयते। तथा सति यस्य यज-मानस्य संबन्धिनः पुरुषा विस्मृत्योद्धृत आहवनीयाग्नौ पुनरन्यमग्निमुद्धरेयुः स यजमानोऽग्नियुक्तायाग्नये निर्वपेत्। तत्र विशष्यरूपोऽग्निर्निर्दिष्टभागो विशेषण-रूपस्त्वनिर्दिष्टभागस्तावुभौ परस्परं संसृज्यमानौ यजमानं भक्षयितुमभिलक्ष्य संभवतः। ततः स यजमान अर्तिमार्तोरीश्वरो विनाशं प्राप्तुं संप्रभवति। तावग्नी अनयेष्ट्या शाम्यतः।
तत्र पुरोनुवाक्यामाह — अग्निनेति। पश्चात्प्रक्षिप्तेनाग्निना पूर्वस्थितोऽग्निः सम्यग्दीप्यते। सोऽग्निर्वि-शेषणैः कविरित्यादिभिर्विशिष्टः।
याज्यामाह — त्वँ ह्यग्न इति। हे पूर्वस्थिताग्ने पश्चात्प्रक्षिप्तेनाग्निना त्वं समिध्यसे। तादृशस्त्वं ब्राह्मणजात्यभिमानी सन्मार्गवतीं प्रियश्च। इतरोऽपि तादृश एव।
इष्ट्यन्तरं विधत्ते — ‘अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेत्’ (सं. का. २ प्र. २ अ. ४) इति।
यस्य यजमानस्याग्निहोत्रार्थमुद्धृतोऽग्निर्होमात्पूर्वमेवोपशाम्यति स एतामिष्टिं निर्वपेत्।
अत्र शास्रान्तरानुसारिणां मतं पूर्वपक्षत्वेनोपन्यस्यति — ‘अपर आदीप्यानूद्धृत्य इत्याहुः’ (सं. का. २ प्र. २ अ. ४) इति।
अपरोऽग्निर्गार्हपत्ये प्रदीप्य पूर्वोद्धरणमनु पुनरुद्धरणीय इति तन्मतम्।
तदिदं दूषयति — ‘तत्तथा न कार्यं यद्भागधेयमभि पूर्व उद्ध्रियते किमपरोऽभ्युद्ध्रियेतेति’ (सं. का. २ प्र. २ अ. ४) इति।
अग्निहोत्रहविर्लक्षणो(णं) यद्भागधेयमभिलक्ष्य पूर्वो वह्निरुद्धृतस्तमेव भागमभिलक्ष्यापरो वह्निः किमुद्ध्रियेत तदनुचितम्। इतिशब्दो हेतौ। तस्मान्नकार्यम्।
सिद्धान्तं विधत्ते — ‘तान्येवावक्षाणानि संनिधाय मन्थेत्’ (सं. का. २ प्र. २ अ. ४) इति।
यान्युल्मुकानि शान्तानि तान्येवाधस्तादवस्थाप्यारणीभ्यामग्निमन्थनं कुर्यात्।
मन्थने मन्त्रमुत्पादयति — ‘इतः प्रथमं जज्ञे अग्निः स्वाद्योनेरधि जातवेदाः। स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन्निति’ (सं. का. २ प्र. २ अ. ४) इति।
अग्निः पूर्वमितो दग्धकाष्ठादुत्पन्न इदानीमपि स जातवेदा गायत्र्यादि-भिश्छन्दोभिरनुगृहीतः स्वाद्योनेर्दग्धकाष्ठादधिजायताम्। जातश्च तं तं देवं प्रजानन्देवेभ्यो हव्यं वहतु।
मन्त्रस्य तात्पर्यं व्याचष्टे — ‘छन्दोभिरेवैनँ स्वाद्योनेः प्र जनयति’ (सं. का. २ प्र. २ अ. ४) इति।
नन्वस्मिन्सिद्धन्तेऽपि पूर्वपक्षादपरोऽग्निः प्रसज्येतेत्याशङ्कयाऽऽह — ‘एष वाव सोऽग्निरित्याहुः’ (सं. का. २ प्र. २ अ. ४) इति।
स्वकारणादुत्पन्नत्वादेष एव पूर्वोऽग्निर्न तु भेदोऽस्तीति सिद्धान्तित आहुः।
किमर्था तर्हीयमिष्टिरित्याशङ्कयाऽऽह — ‘ज्योतिस्त्वा अस्य परापतितमिति यदग्नये ज्योतिष्मते निर्वपति यदेवास्य ज्योतिः परापतितं तदेवाव रुन्धे’ (सं. का. २ प्र. २ अ. ४) इति।
अस्य पूर्वाग्नेर्ज्योतिरेव विनष्टं न त्वग्निर्विनष्टः। तच्च ज्वालारूपं ज्योतिरिष्ट्या संपाद्यते।
तत्र याज्यापुरोनुवाक्ययोचोः प्रतीकं(के) दर्शयति — उदग्न इति। उदग्ने शुचयस्तव शुक्रा भ्राजन्त इत्ययं मन्त्रस्त्वमग्ने रुद्र इत्यस्मिन्ननुवाके व्याख्यातः। वि ज्योतिषा बृहतेत्ययं मन्त्रं कृणुष्व पाज इत्यस्मिन्ननुवाके व्याख्यातः।
अत्र विनियोगसंग्रहः -
“यस्त्वा याज्या पुत्रवत्यामिष्टौ त्वे पुत्रयागके।
अग्ने रसवद्यागे तु वसुर्वसुमतीष्यते॥१॥
त्वामग्ने वाजसृद्यागे ह्यग्निनाऽग्निवतीष्यते।
उदविज्योतिषे ज्योतिष्मत्ये तत्र चतुर्दश॥२॥ इति।
अथ मीमांसा।
नवमाध्यायस्यचतुर्थपादे चिन्तितम् — “ज्योतिष्मती भवेन्नो वा दर्शाद्युद्धृतलोपने।
निमित्तसत्त्वात्स्यान्नाग्निहोत्रार्थोद्धृतिवर्जनात्” इति॥
अग्निहोत्रप्रक्रियायामिदमाम्नायते - “अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्निरुद्धृतोऽग्निहोत्र उद्वायेत्” इति। प्रतिदिनमग्निहोत्रं होतुं गार्हपत्यादुद्धृत्याऽऽहवनीयेऽग्निः प्रक्षिप्यते। सोऽयमुद्धृतोऽग्निः कदाचिद-हुतेऽग्निहोत्रे यदि शाम्येत्तदानीमियमिष्टिः प्रायश्चित्तमित्यर्थः। तत्र दर्शपूर्ण-मासार्थमुद्धृतस्याप्यग्नेः शान्तौ सेयं ज्योतिष्मतीष्टिर्भवेत्। कुतः। अग्न्युद्वानस्य निमित्तस्य सद्भावादिति चेन्मैवम्। अग्निहोत्रर्थोद्धृतस्यैवाग्नेरुद्वानं निमित्तमिति प्रकरणादवगम्यते। अनया चेष्टयाऽग्निहोत्रयैवाग्निः पुनरुत्पाद्यते। तथा सत्यग्निहोत्रस्येयमिष्टिः सामवायिकमङ्गं भवति। अतोऽग्नित्रार्थोद्धृतोद्वानस्य निमित्तस्याभावान्नैमित्तिकीष्टिर्न प्रवर्तते।
तत्रैवान्यच्चिन्तितम् —
“धार्योद्वाने साऽस्ति नो वा सर्वार्थत्वेन विद्यते।
गतश्रीत्वनिमित्तं तत्सर्वार्थत्वं न विद्यते” इति॥
इदमाम्नायते — “धार्यो गतश्रिय आहवनीयः” इति। गतश्रीशब्दार्थस्त्वेवं श्रूयते — “त्रयो वै गतश्रियः शुश्रुवान्ग्रामणी राजन्यः” इति। और्वो गौतमो भारद्वाज इति कल्पसूत्रकारः। गतश्रीभिर्धार्यमाणस्यऽऽहवनीयस्य सर्वकर्मार्थत्वे सत्यग्निहोत्रार्थत्वमप्यस्तीति तदुद्वाने सा ज्योतिष्मतीष्टिर्विद्यत इति चेन्मैवम्। न ह्यस्य धारणेऽग्निहोत्रं निमित्तं किंतु गतश्रीत्वम्। सर्वकर्मसमुदायस्य चोदनया कदाचिदप्यचोदितत्वात्सर्वार्थत्वं शङ्कितुमप्यशक्यम्। गतश्रीत्वं निमित्तीकृत्य धृतोऽग्निः प्रसङ्गात्सर्वकर्मसूप-कुर्वन्नग्निहोत्रेऽप्युपकरोतीति चेत्। उपकरोतु नाम, नैतावता प्रायश्चित्तस्य निमित्तत्वं लभ्यते। अग्निहोत्रार्थमुद्धृतस्योद्वानं तन्निमित्तं, न चात्र तदस्ति। किंत्वन्यस्य यस्य कस्यचित्कर्मणोऽर्थे समुद्धृतस्य गतश्रीत्वनिमित्तं धारणं क्रियते। तस्मान्निमित्ताभावान्नास्ति सेष्टिः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके चत्वारिंशोऽनुवाकः॥४०॥