प्रश्नः-3

(अथ प्रथमकाण्डे तृतीयः प्रपाठकः)।
(तत्र प्रथमोऽनुवाकः)।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥१॥
द्वितीयस्मिन्प्रपाठके सोमक्रयं प्राधान्येन प्रतिपाद्य ततो हविर्धानमण्डपनिर्माणपर्यन्तं कर्मजातं प्रतिपादितम्। अथ तृतीयेऽस्मिन्प्रपाठकेऽग्नीषोमीयपशुः प्राधान्येन प्रतिपाद्यते। आदौ तावत्पूर्वशेषः सदोमण्डनिर्माणादिः प्रतिपाद्यते। तत्रानुवाकार्था विनियोगसंग्रहकारेणाभिहिताः —
“पशुप्रश्ने तृतीयेऽस्मिन्ननुवाकाश्चतुर्दश।
सदश्चोपरवा धिष्ण्या वैसर्जनहुतिस्तथा॥१॥
यूपच्छेदस्तत्प्रतिष्ठा पशूपाकृतिहिंसने।
वपोत्खेदो वसाहोमो गुदकाण्डाहुतिस्तथा॥२॥
वसतीवर्युपादानं सोमोपावहृतिस्तथा।
काम्ययाज्या इति प्रोक्ता अर्था अत्रानुवाकगाः॥३॥” इति।
देवस्येति। कल्पः — “अथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य शालामुखीयाच्छङ्कोरनुस्यन्द्यां षट् प्राचः प्रक्रमान्प्रक्रामति दक्षिणा सप्तमं तत्राभ्रिं निदधाति स औदुम्भर्यै कालादभ्रिमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामा दद इति” इति।
अभ्न्यादानं विधत्ते —
“देवस्य त्वा सवितुः प्रसव इत्यभ्निमादत्ते प्रसूत्या अश्विनोबार्हुम्यामित्याहाश्विनौ हि देवातामध्वर्यू आस्तां पूष्णो हस्ताभ्यामित्याह यत्यै” [सं. का. ६ प्र. २ अ. १०) इति।
अभ्रिरिति। कल्पः — “आदायाभिमन्त्रयतेऽभ्रिरसि नारिरसीति” इति।
खननसाधनभूता काष्ठमयी तीक्ष्णमुखाग्राऽभ्रिरित्युच्यते। यद्यपि त्वमभ्रिरसि तथाऽप्यस्मान्प्रति नारिरशत्रुरसि।
नारिशब्दप्रयोजनमाह —
“व्रज्र इव वा एषा यदभ्रिरभ्रिरसि नारिरसीत्याह शान्त्यै” (सं. का. ६ प्र. २ अ. १०) इति।
परिलिखितमिति। कल्पः — “तयौदुम्बर्या अवटं परिलिखति परिलिखितँरक्षः परिलिखिता अरातय इदमहँ रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपि कृन्तामीति” इति।
परिलेखनप्रयोजनमाह —
“काण्डेकाण्डे वै क्रियमाणे यज्ञँ रक्षाँसि जिघाँसन्ति परिलिखितँ रक्षः परिलिखिता अरातय इत्याह रक्षसामपहत्या इदमहँ रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तयोरेवानन्तरायं ग्रीवाः कृन्तति” (सं. का. ६ प्र. २ अ. १०) इति।
दिव इति। बौधायनः – “औदुम्बर्येषा स्थूणा प्रक्षालिता प्रपन्ना प्रागवटादुपशेते तां परस्तादर्वाचीं प्रोक्षति दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेति” इति।
आपस्तम्बः – “दिवे त्वेत्यग्रं प्रोक्षत्यन्तरिक्षाय त्वेति मध्यं पृथिव्यै त्वेति मूलम्” इति।
प्रोक्षामीत्यध्याहारः। औदुम्बरीभागानां(णां) लोकत्रयात्मकत्वं मन्त्रेणाभिप्रेतमित्याह — “दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेत्याहैभ्य एवैनां लोकेभ्यः प्रोक्षति” (सं. का. ६ प्र. २ अ. १०) इति।
अग्रमारभ्य मूलपर्यन्तं प्रोक्षणं विधत्ते —
“परस्तादर्वाचीं प्रोक्षति तस्मात्परस्तादर्वाचीं मनुष्या उर्जमुप जीवन्ति” (सं. का. ६ प्र. २ अ. १०) इति।
ऊर्ध्ववर्तिनो मुख्या(खा)दारभ्यार्वाचीमुदरावसानम्।
शुन्धतामिति। कल्पः — अवटेऽपोऽवनयति शुन्धतां लोकः पितृषदन इति’ इति।
पितरः सीदन्त्यस्मिन्निति पितृषदनोऽवटाख्यो लोकः शुद्धो भवतु।
अबवनयनं विधत्ते —
“क्रूरमिव वा एतत्करोति यत्खनत्यपोऽव नयति शान्त्यै” (सं. का. ६ प्र. २ अ. १०) इति।
यवोऽसीति। कल्पः — “यवान्प्रस्कन्दयति यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति” इति।
हे धान्य त्वं यवोऽसि अमिश्रीकर्ताऽसि। अतो द्वेषिणो राक्षसानितरानपि शत्रूनस्मत्तो वियोजय।
पूर्वोक्तास्वप्सु यवप्रस्कन्दनं विधत्ते —
“यवमतीरव नयत्यूर्ग्वै यव ऊर्गुदुम्बर ऊर्जैवोर्जँ समर्थयति” (सं. का. ६ प्र. २ अ. १०) इति।
औदुम्बर्या निखातभागादूध्वर्भागे प्रमाणं विधत्ते —
“यजमानेन संमितौदुम्बरी भवति यावानेव यजमानस्तावतीमेवास्मिन्नूर्जं दधाति” (सं. का. ६ प्र. २ अ. १०) इति।
यजमानस्य यावत्पर्याप्तं तावदन्नं भवतीत्यर्थः।
पितृणामिति। कल्पः — “बर्हिर्हस्तं व्यतिषज्यावस्तृणाति पितृणाँ सदनमसीति” इति।
बर्हिर्हस्तो बर्हिर्मुष्टिः। हे बर्हिः पितृणां स्थानमसि।
विधत्ते —
“पितृणाँ सदनमसीति बर्हिरव स्तृणाति पितृदेवत्यं ह्येतद्यन्निखातम्” ( सं. का. ६ प्र. २ अ. १०) इति।
निखातस्य पितरो देवतेत्यर्थवादान्तरादवगन्तव्यम्।
उद्दिवमिति। कल्पः — “अथैनामुच्छ्रयति उद्दिवँ स्तभानाऽन्तरिक्षं पृण पृथिवीं दृँहेति” इति।
हे औदुम्बरि द्युलोकमूर्ध्वदेशे विधारय, अन्तरिक्षं पूरय, पृथिवीं दृढी कुरु।
उच्छ्रयणं विधत्ते —
“यद्बर्हिरनवस्तीर्य मिनुयात्पितृदेवत्या निखाता स्याद्बर्हिरवस्तीर्य मिनोत्यस्यामेवैनां मिनोत्यथो स्वारुहमेवैनां करोति” [सं. का. ६ प्र. २ अ. १०] इति।
यदि बर्हिरस्तीर्त्वा प्रथमत एव तामुच्छ्रयेत्तदा पितृणां निखातं मनुष्याणामूर्ध्वं निखातादित्ययं विभागो न स्यात्किंतु कृत्स्ना पितृदेवत्यैव स्थापिता भवेत्। बर्हिषः पृथिवीजन्यत्वेन तत्पृथिव्यामेव कृतं भवति। किंच स्वसंबद्धामेवैनां करोतीति नोक्तदोषः।
मन्त्रे दिवमित्यादिपदानामुपयोगमाह —
“उद्दिवँ स्तभानाऽन्तरिक्षं पृणेत्याहैषां लोकानां विधृत्यै” (सं. का. ६ प्र. २ अ. १०) इति।
द्युतान इति। कल्पः – “अथैनां प्राचीनकर्णामुच्छ्रितामवटे प्रक्षिपेत् द्युतानस्त्वा मारुतो मिनोतु मित्रावरुणयोर्ध्रुवेण धर्मणेति” इति।
हे औदुम्बरि मित्रावरुणयोः संबन्धिना दृढेन त्वदीयधारणेनेतस्ततः पतितां त्वां मरुत्पुत्रो द्युताननामको देवोऽवटे प्रक्षिपतु।
इतरपरित्यागेन द्युतानस्वीकारकारणमाह —
‘द्युतानस्त्वा मारुतो मिनोत्वित्याह द्युतानो ह स्म वै मारुतो देवानामौदुम्बरीं मिनोति तेनैवैनां मिनोति’ [सं. का. ६ प्र. २ अ. १०] इति।
ब्रह्मवनिमिति। कल्पः – ‘अथैनां प्रदक्षिणं पुरीषेण पर्यूहति ब्रह्मवनिं त्वा क्षत्रावनिँ सुप्रजावनिँ रायस्पोषवनिं पर्यूहामीति’ इति।
ब्रह्म ब्राह्मणजातिं वनति भजतीति ब्रह्मवनिः। हे औदुम्बरि ब्राह्मण्यादि प्रदां त्वां परितो मृत्तिकां प्रक्षिपामि।
मन्त्रस्य स्पष्टार्थतां दर्शयति —
‘ब्रह्मवनिं त्वा क्षत्रवनिमित्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. २ अ. १०) इति।
ब्रह्मेति। कल्पः – ‘मैत्रावरुणदण्डेन सँहन्ति ब्रह्म दृँह क्षत्त्रं दृँह प्रजां दृँह रायस्पोषं दृँहेति’ इति।
हे दण्ड ब्राह्मण्यादीन्दृढी कुरु। मन्त्रोऽयं ब्राह्मणेनोपेक्षितः।
घृतेनेति। कल्पः — ‘तस्या विशाखे हिरण्यं निधाय घृतेन द्यावापृथिवी आ पृणेथामिति स्रुवेण हिरण्ये जुह्वदान्तमौदुम्बरीमन्ववस्त्रावयति’ इति’
हे द्यावापृथिवीरूपे औदुम्बर्या अग्रमूले घृतेनानेन समन्तात्तृप्येथाम्।
विधत्ते —
“घृतेन द्यावापृथिवी आ पृणेथामित्यौदुम्बर्यां जुहोति द्यावापृथिवी एव रसेनानक्ति” (सं. का. ६ प्र. २ अ. १०) इति।
अग्रे हुतस्याऽऽज्यस्य मूलपर्यन्तातां विधत्ते —
‘आन्तमन्वनस्रावयत्यान्तमेव यजमानं तेजसाऽनक्ति’ (सं. का. ६ प्र. २ अ. १०) इति।
यजमानस्य शिर आरभ्य पादपर्यन्तं तेजः संपादितं भवति।
इन्द्रस्येति। बौधायनः — ‘तस्या उच्छ्रयणमनु प्राचीनकर्णाः स्थूणा उच्छ्रयन्ति तासूदीचो वंशान्प्रोहन्त्यध्यस्यन्ति मध्यमं छदिरिन्द्रस्य सदोऽसीति, विश्वजनस्य छायेति ये अभितो भवतः’ इति।
आपस्तम्बः — ‘उदीचः प्राचश्च वंशानत्याधायैन्द्रमसीति तेषु मध्यमानि त्रीणि च्छदींष्यध्यूहति, विश्वजनस्य छायेति त्रीणि दक्षिणानि, इन्द्रस्य सदोऽसीति त्रीण्युत्तराणि’ इति।
ऐन्द्रमसीति शाखान्तरेऽवगतो मन्त्रः। उत्तरयोर्मन्त्रयारत्रैवाऽऽम्नातयोर्ब्राह्मणान्तरानुसारेण क्रमव्यत्ययः।
विधत्ते —
‘एन्द्रमसीति छदिरधि नि दधात्यैन्द्रँ हि देवतया सदो विश्वजनस्य छायेत्याह विश्वजनस्य ह्येषा छाया यत्सदः’ (सं. का. ६ प्र. २ अ. १०) इति।
इन्द्रस्य सदोऽसीत्ययं मन्त्र उपेक्षितः।
सदस्थानां कामनाभेदेन च्छदिषां संख्यां विधत्ते —
‘नवछदि तेजस्कामस्य मिनुयात्त्रिवृता स्तोमेन संमितं तेजस्त्रिवृत्तेजस्व्येव भवत्येकादशछदीन्द्रियकामस्यैकादशाक्षरा त्रिष्टुगिन्द्रियं त्रिष्टुगिन्द्रियाव्येव भवति पञ्चदशछदि भ्रातृव्यवतः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै सप्तदशछदि प्रजा-
कामस्य सप्तदशः प्रजापतिः प्रजापतेराप्त्यै एकविँशतिछदि प्रतिष्ठाकामस्यैकविँशः स्तोमानां प्रतिष्ठा प्रतिष्ठित्यै’ (सं. का. ६ प्र. २ अ. १०) इति।
नवसंख्याकानि च्छदींषि यस्य सदसस्तन्नवछदि मिनुयात्कुर्यात्। त्रिवृत्पञ्चदशसप्तदशैकविंशशब्दैः साम्न आवृत्तिभेदेन निष्पन्ना स्तोमा उच्यन्ते। त्रिवृत्स्तोमे सामावृत्त्यभावेऽपि ऋचां नवत्वात्संख्यासाम्यम्। प्रजापतिमुखादग्निना सहोत्पन्नत्वात्त्रिवृतस्तेजस्त्वम्। वीर्यवतः प्रजापतिबाहुत उत्पन्नतया पञ्चदशस्य वज्रत्वम्। आ श्रावयेत्यादिमन्त्राक्षराणां संख्यया समत्वात्सप्तदशस्य प्रजापतित्वम्। त्रिवृदादीनामन्तर्भावेनैकाविंशस्य प्रतिष्ठात्वम्।
औदुम्बरीस्थापनसदोमण्डपमध्यप्रदेशं विधत्ते —
“उदरं वै सद ऊर्गुदुम्बरो मध्यत औदुम्बरीं मिनोति मध्यत एव प्रजानामूर्जं दधाति तस्मान्मध्यत ऊर्जा भुञ्जते” [सं. का. ६ प्र. २ अ. १०] इति।
दक्षिणदिग्गतच्छदिषामग्राण्युत्तरदिग्गतच्छदिषामुपरि दृश्यमानतया स्थापनीयानीति विधत्ते —
‘यजमानलोके वै दक्षिणानि छदीँपि भ्रातृव्यलोक उत्तराणि दक्षिणान्युत्तराणि करोति यजमानमेवायजमानादुत्तरं करोति तस्माद्यजमानोऽयजमानादुत्तरः’ [सं. का. ६ प्र. २ अ. १०] इति।
लोके स्थाने। उत्तर उत्कृष्टः।
छदिषामन्तरालच्छिद्रेषु तृणमूलैराधानं विधत्ते —
“अन्तर्वर्तान्करोति व्यावृत्त्यै तस्मादरण्यं प्रजा उप जीवन्ति” (सं. का. ६ प्र. २ अ. १०) इति।
मूलानां विलक्षणत्वाच्छदिर्भ्यो व्यावृत्तिर्भवति। यस्मात्तृणमरण्यजन्यं तस्मात्तृणकाष्ठलाभाय प्रजा अरण्यमुपजीवन्ति।
परि त्वेति। कल्पः — ‘अथैनान्परिश्रयन्ति परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतो वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टय इति’ इति।
गीर्भिः स्तुतिभिर्वननीयो भजनीय इन्द्रः सदोभिमानी गिर्वणाः। हे गिर्वण इमाः स्तोत्रशस्त्ररूपा गिरः सर्वतः कटकरूपेण त्वां परिभवन्तु वेष्टयन्तु। कीदृश्यः। दीर्घायुषं त्वामनु स्वयमपि वृद्धिमत्यः। किंच, जुष्टयोऽस्मात्सेवास्तव जुष्टाः प्रिया भवन्तु।
मन्त्रस्य स्पष्टार्थतां दर्शयति —
‘परि त्वा गिर्वणो गिर इत्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. २ अ. १०) इति।
इन्द्रस्येति। कल्पः — ‘अथ दक्षिणद्वार्बाहौ कुशहस्तमुपनिगृह्य दर्भणं करोति प्रवर्तयति दर्भणे स्पन्द्यामिन्द्रस्य स्यूरसीति, इन्द्रस्य ध्रुवमसीति ग्रन्थिं करोति तं तदानीमेव विस्रस्याहाकुर्वन्तो हस्तान्ग्रन्थकौशलैर्निस्तिष्ठन्ति, एवमेवोत्तरं द्वार्बाहुमेवमेवापरौ द्वार्बाहू निस्तिष्ठन्ति’ इति।
व्याख्यातं हविर्धानेन।
व्याचष्टे —
‘इन्द्रस्य स्यूरसीन्द्रस्य ध्रुवमसीत्याहैन्द्रँ हि देवतया सदः’ (सं. का. ६ प्र. २ अ. १०) इति।
प्रज्ञातग्रन्थेर्विस्त्रंसनं विधत्ते —
‘यं प्रथमं ग्रन्थिं ग्रथ्नीयाद्यत्तं न विस्त्रँसयेदमेहेनाध्वर्युः प्र मीयेत तस्मात्स विस्रस्यः’ (सं. का. ६ प्र. २ अ. १०) इति।
अत्र विनियोगसंग्रहः —
“देवस्येत्यभ्रिमादत्ते ह्यभ्रिरित्यनुमन्त्रणम्।
परीत्यवटमालिख्य दिवेऽग्रे मध्यमूलयोः॥१॥
प्रोक्षेदौदुम्बरीं शुन्ध शेषो गर्तेऽवनीयते।
यवो यवं क्षिपेत्तत्र पितृ दर्भेण संस्तृतिः॥२॥
उदौदुम्बर्युच्छ्रयोऽथ द्युता तामवटे क्षिपेत्।
ब्रह्म पासुं क्षिपेद्गर्ते ब्रह्म गर्तदृढीकृतिः॥३॥
घृतेनौदुम्बरीहोम इन्द्रविश्वद्वयाद्दिशोः।
छदींष्यध्यू(ध्यु)ह्य कर्तव्यः परि त्वेति परिश्रयः॥४ ॥
इन्द्र रज्जुं क्षिपेदिन्द्र बध्वैन्द्रमिति मण्डपम।
स्पृशेद्धस्तेन मन्त्रास्तु विंशतिः समुदीरिताः॥५॥” इति।
अथ मीमांसा।
तृतीयाध्यायस्याष्टमपादे चिन्तितम् —
“वृष्टिकामी सदो नीचैर्मिनुयादिति कामना।
अध्वर्योः स्वामिनो वाऽऽद्यो वाक्यान्मातुः स उच्यते॥
परस्मैपदतोऽध्वर्युव्यापारस्य परार्थता।
श्रुताऽतो वाक्यबाधेन तपोवत्स्वामिनोऽस्तु तत् “ इति।
ज्योतिष्टोमे श्रूयते — “यः कामयेत वर्षुकः पर्जन्यः स्यादिति नीचैः सदो मिनुयात्” इति।
यथा पुरस्तात्पश्चाच्चावस्थितौ हविर्धानप्राचीनवंशावुच्चौ तथा सदो नोच्चं किंतु नीचं कार्यमित्यर्थः। इयं च वृष्टिकामनाऽध्वर्योर्युक्ता। यः कामयेत स मिनुयादिति वाक्येन कामयितृमात्रोरेकत्वावगमात्। मातृत्वं चाध्वर्योरित्यविवादाम्। तस्मात्स एव कामयितेति चेन्मैवम्। मिनुयादिति परस्मैपदेनाध्वर्युव्यापारफलस्य परगामिता प्रतीयते। ततो वृष्टिलक्षणफलस्य यजमानगामित्वात्परस्मैपदश्रुत्या वाक्यं बाधित्वा कामस्य यजमानकर्तृत्वं द्रष्टव्यम्। यजमानकामितां वृष्टिं पर्जन्यः संपादयत्वित्येवं योऽध्वर्युः कामयेत स मिनुयादिति वाक्यं व्याख्येयम्। “एवं विदुद्गताऽऽत्मने वा यजमानाय वा यं कामं कामयते तमागायति” इत्यृत्विजोऽपि काम इति चेत्तर्हि तस्मिन्नुद्गीथोपासने वचनादृत्विजोऽपि फलमस्तु।
अथ च्छन्दः —
परि त्वा गिर्वण इत्यनुष्टुप्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके प्रथमोऽनुवाकः॥१॥

(अथ प्रथमाष्टके तृतीयप्रपाठके द्वितीयोऽनुवाकः)।
प्रथमेऽनुवाके सदोनिर्माणमुक्तम्। एतावता षट्त्रिंशता पदैः परिमितायां महावेद्यां निर्मातव्यानि उत्तरवेदिहविर्धानसदांसि संपन्नानि। तस्याश्च महावेद्या उत्तरदक्षिणभागस्थयोराग्नीध्रीयमार्जालीययोर्मन्त्रा न सन्त्यतो निर्मितेषु स्थानेष्वभ्यन्तरे यदन्यत्समन्त्रकं निर्मातव्यं भवति तदभिधेयम्। तत्रोत्तरवेद्यां सर्वस्याभिहितत्वाद्धविर्धानाभ्यन्तर उपरवा द्वितीयानुवाक उच्यन्ते।
रक्षोहण इति। कल्पः — “दक्षिणस्य हविर्धानस्याधस्तात्पुरोक्षं चतुर उपरवानवान्तरदेशेषु प्रादेशमुखान्प्रादेशान्तरालान्करोति रक्षोहणो वलगहनो वैष्णवान्खनामीति खनति” इति।
विष्णुर्देवता येषामुपरवाणां ते वैष्णवाः। जीर्णकटपटादिखण्डबद्धा अस्थिनखरोमपादपांसुप्रभृतयो विरोधिनां मारणार्थं ये भूमौ निखन्यन्ते ते वलगास्तान्घ्नन्तीति वलगहनः। रक्षांसि घ्नन्तीति रक्षोहणः। तादृशानुपरवनामकान्गर्तान्खनामि।
विधत्ते —
‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवा हविर्धाने खायन्त तस्माच्छीर्षन्प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।
उपरवबिलानां श्रोत्रनासिकादिच्छिद्रगतप्राणस्थानीयत्वाच्छिरःस्थानीये हविर्धाने खननं युक्तम्।
विधत्ते —
‘अधस्तात्खायन्ते तस्मादधस्ताच्छीष्णेः’ [सं. का. ६ प्र. २ अ. ११] इति।
यस्माद्धविर्धानस्याधोभागे भूमावुपरवास्तस्माल्लोकेऽपि शिरस्यूर्ध्वकपालदध एव प्राणसंचारः।
वैष्णवानिति तद्धितो देवतावाचीत्याह —
‘रक्षोहणो वलगहनो वैष्णवान्खनामीत्याह वैष्णवा हि देवतयोपरवाः’ (सं. का. ६ प्र. २ अ. ११) इति।
वितस्तित्रयप्रमाणं विधत्ते –
‘असुरा वै निर्यन्तो देवानां प्राणेषु वलगान्न्यखनन्तान्बाहुमात्रेऽन्वविन्दन्तस्माद्बाहुमात्राः खायन्ते’ (सं. का. ६ प्र. २ अ. ११) इति।
निर्यन्तः पलायनोद्युक्ताः। प्राणविनाशनिमित्तम्। न्यखनन्निति नितरां भूमावन्तर्धापितवन्तः।
इदमहमिति। बौधायनः — ‘अथैभ्यः पांसूनुद्वपतीदमहं तं वलगमुद्वपामि यं नः समानो यमसमानो निचखानेदमेनमधरं करोमि यो नः समानो योऽसमानोऽरातीयति गायत्रेण छन्दसाऽवबाढो वलग इति” इति।
आपस्तम्बो मन्त्रभेदमाह — ‘इदमहं तं वलगमुद्वपामीत्युदुप्योपरवाः खन्यन्तेऽवबाधते गायत्रेण छन्दसाऽवबाढो वलग इति” इति।
अस्मान्विनाशयितुं विद्यावित्तसौभाग्यादिभिः समानोऽसमानो वा यं वलगं निचखान तं वलगमहमिदमुद्वपामि। किंचास्मानुद्दिश्य समानोऽसमानो वा यः कोऽप्यरातिवदाचरति एनमिदमधरं यजमानपादस्याधोवर्तिनं करोमि।
गायत्रच्छन्दोभिमानिदेवेन वलगोऽवबाधितः। अशेषशात्रुसंग्रहाय समानासमानशब्दावुभावप्युपादेयावित्याह —
‘इदमहं तं वलगमुद्वपामि यं नः समानो यमसमानो निचखानेत्याह द्वौ वाव पुरुषौ यश्चैव समानो यश्चासमानो यमेवास्मै तौ वलगं निखनतस्तमेवोद्वपति” (सं. का. ६ प्र. २ अ. ११) इति।
चतुर्णामुपरवाणामधस्तादेकीकरणं विधत्ते —
‘सं तृणत्ति तस्मात्संतृण्णा अन्तरतः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।
प्राणापानचक्षुःश्रोत्रादयः सर्वेऽपि शरीरस्याभ्यन्तरे हृद्येकीभूय वर्तन्ते।
तदुपरि चतुर्णां पृथक्करणं विधत्ते —
‘न सं भिनत्ति तस्मादसंभिन्नाः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।
संभेद एकीभावस्तं न कुर्यात्। प्राणाश्च बहिः स्वस्वगोलकेषु तिष्ठन्तो नैकी भवन्ति।
किमत्रेति। कल्पः — ‘दक्षिणपूर्वं यजमानोऽवमृशति, उत्तरापरमध्वर्युरथ यजमानः पृच्छति अध्वर्यो किमत्रेति, भद्रामितीतरः प्रत्याह, तन्नौ सहेत्युक्त्वा’ इति। अध्वर्यो, इत्यध्याह्रियते। अत्रोपरवेष्वस्मदुपयुक्तं किमस्तीति प्रश्नः। भद्रं सोमाभिषवद्वारेण भजनीयं सर्वमस्तीत्युत्तरम्। तद्भमावयोः सह भवेदिति यजमानोक्तिः।
विराडिति। कल्पः — ‘अथैनानभिमृशति विराडसि सपत्नहा सम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहा विश्वाराडसि विश्वासां नाष्ट्राणाँ हन्तेति’ इति।
दक्षिणपूर्वमुपक्रम्य प्रदक्षिणक्रमेण चतुर्षु चत्वारो मन्त्राः। विविधं राजते सम्यग्राजते स्वयमेव राजते विष्वेषु राजत इति विराडादयः। विरुद्धेन्द्रियवृत्तिरान्तरः शत्रुः। ततो बाह्यो विरुद्धजातिः। ततोऽपि बाह्यो ग्रामसीमादौ विवदमानोऽन्यगोत्रजः। ततोऽपि बाह्याः परराष्ट्रसेनाः सर्वनाशहेतवः। एतच्चतुष्टयं सपत्नादिशब्दैर्विवक्षितम्।
रक्षोहण इति। कल्पः — ‘अथैनानद्भिः प्रोक्षति रक्षोहणो वलगहनः प्रोक्षामि वैष्णवानिति सर्वानेवानुपूर्वमथैतेष्वपोऽवनयति रक्षोहणो वलगहनोऽवनयामि वैष्णवानिति सर्वेष्वनुपूर्वमथैतेषु यवान्प्रस्कन्दयति यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति सर्वेष्वनुपूर्वमथैनान्बर्हिषाऽवस्तृणाति रक्षोहणो वलगहनोऽव स्तृणामि वैष्णानिति सर्वानेवानुपूर्वमथैनान्हिरण्यमन्तर्धाय स्रुवाहुत्याऽभिजुहोति रक्षोहणो वलगहनोऽभि जुहोमि वैष्णवानिति सर्वानेवानुपूर्वम्’ इति।
किमत्रेत्यादिमन्त्रा उपेक्षिताः।
प्रोक्षणशेषस्य जलस्योपरवदेशेऽवनयनं विधत्ते —
‘अपोऽव नयति तस्मादार्द्रा अन्तरतः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।
मुखनासिकाचक्षुरादिगोलकेषु द्रवदर्शनात्प्राणानामार्द्रत्वम्।
अवनीते जले यवप्रक्षेपं विधत्ते —
‘यवमतीरव नयत्यूर्ग्वै यवः प्राणा उपरवाः प्राणेष्वेवोर्जं दधाति’ (सं. का. ६ प्र. २ अ. ११) इति।
या अपोऽवनयति ता यवयुक्ताः कुर्यादिति योजना।
उपरवेषु दर्भप्रक्षेपणं विधत्ते —
‘बर्हिरव स्तृणाति तस्माल्लोमशा अन्तरतः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।
अक्षिपक्ष्मनासिकादिषु लोमदर्शनाल्लोमशत्वम्।
होमं विधत्ते —
‘आज्येन व्याघारयति तेजो वा आज्यं प्राणा उपरवाः प्राणेष्वेव तेजो दधाति’ (सं. का. ६ प्र. २ अ. ११) इति।
रक्षोहणाविति। कल्पः — ‘अथास्यैते फलके दीर्घसोमे संतृण्णे भवतोऽसंतृण्णे एकाहे ते संसृष्टे उपदधाति रक्षोहणौ वलगहनावुप दधामि वैष्णवी इत्यथैने शङ्कुभिः परिणिहन्ति द्वाभ्यां पुरस्ताद्द्वाभ्यां पश्चाद्द्वाभ्यामभितोऽनवसर्पणाय प्रदक्षिणं पुरीषेण पर्यूहति रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी इत्यथैनं बर्हिषा परिस्तृणाति रक्षोहणौ वलगहनौ परि स्तृणामि वैष्णवी इत्यथैने अभिमृशति रक्षोहणौ वलगहनौ वैष्णवी इति’ इति।
फलकविशेषविवक्षया रक्षोहणाविति पुंलिङ्गनिर्देशः। हनूत्वेन ब्राह्मणे निरूप्यमाणत्वाद्वैष्णवी इति स्त्रीलिङ्गनिर्देशः।
बृहन्निति। कल्पः — ‘अथैने चर्मफलकयोः प्राचीनग्रीवमत्तरलोमोपस्तृणाति यज्ञं प्रतिष्ठेति वा तूष्णीं वा तिरश्चर्मफलके ग्राव्णोद्वादयति बृहन्नसि बृहद्ग्रावा बृहतीमिन्द्राय वाचं वदेति’ इति।
उद्वादयति पाषाणेन फलके शब्दं जनयेत्। हे पाषाण त्वं वीर्येण बृहन्महानसि। किंच बृहन्तोऽवयवभूता ग्रावाणो यस्य स च त्वं बृहद्ग्रावाऽसि। इन्द्रार्थमिन्द्रो यथा शृणोति तथा बृहतीमुच्चध्वनिमस्मद्यज्ञविषयां वाचं वद। त एते मन्त्रा उपेक्षिताः।
फलकयोरत्यन्तसंश्लेषं निषेधति —
‘हनू वा एते यज्ञस्य यदधिषवणे न सं तृणत्त्यसंतृण्णे हि हनू’ [सं. का. ६ प्र. २ अ. ११] इति।
हनू मुखस्याऽऽधारफलके सोमाभिषवाधारफलके। संतर्दनं रज्जुबन्धनादिना दृढसंश्लेषस्तमत्र न कुर्यात्।
तद्द्विरात्रादौ प्रसङ्गाद्विधत्ते –
‘अथो खलु दीर्घसोमे संतृद्ये धृत्यै’ (सं. का. ६ प्र. २ अ. ११) इति। आवृत्तत्वात्सोमस्य दीर्घत्वम्। अभिषवबाहुल्याद्दार्ढ्यार्थं तत्र संतर्दनम्।
अथ रूपकेणोपरवान्प्रशंसन्प्रसङ्गात्सनिमित्तं सदसि सोमभक्षणं विधत्ते —
‘शिरो वा एतद्याज्ञस्य यद्धविर्धानं प्राणा उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ता मुखमाहवनीयो नासिकोत्तरवेदिरुदरँ सदो यदा खलु वै जिह्वया दत्स्वधि खादत्यथ मुखं गच्छति यदा मुखं गच्छत्यथोदरं गच्छति तस्माद्धविर्धाने चर्मन्नधि ग्रावभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति’ [सं. का. ६ प्र. २ अ. ११] इति।
अत्राभिषवहोमौ विधेयस्य भक्षणस्य निमित्तम्।
पुनरप्युपरवस्तुत्यै प्रकारान्तरेण रूपकं परिकल्प्य तद्वेदनं प्रशंसति —
‘यो वै विराजो यज्ञमुखे दोहं वेद दुह एवैनामियं वै विराट्तस्यै त्वक्चर्मोधोऽधिषवणे स्तना उपरवा ग्रावाणो वत्सा ऋत्विजो दुहन्ति सोमः पयो य एवं वेद दुह एवैनाम्’ (सं. का. ६ प्र. २ अ. ११) इति।
अग्निष्टोमे द्वादशसु स्तोत्रेषु विद्यमाना ऋच आवर्त्यमानाः सत्यो नवतिः संपद्यन्ते। तत्र नवसु दशकेषु प्रत्येकं विराट्छन्दोऽक्षरसंख्याऽस्तीत्ययं यज्ञो विराडित्युच्यते। एतदेवाभिप्रेत्य सप्तमकाण्डस्य प्रथमानुवाके समाम्नायते ‘विराजमभिसंपद्यते’ इति। सोऽयं यज्ञो विराडत्र कामधेनुत्वेन निरूप्यते। इयं च महावेदिरेव विराडाख्या धेनुस्तस्या धेनोर्या त्वक्तदिदमास्तृतं चर्म। ऊध आपीनभारः। तद्रूपं फलकद्वयम्। एवमन्यद्योज्यम्। परेद्युः कर्तव्यस्य यज्ञस्यायं कल्पः प्रारम्भोऽन्तःपातित्वान्मुखं, तस्मिन्मुखे विराजो धेनोर्दोहनप्रकारं यो वेद स एनां कामधेनुं सर्वथा दुग्धे। य एवं वेद दुह एवैनामिति पुनर्वचनमुपसंहारार्थम्। सेयमुपरवप्रशंसेति केचित्। स्वतन्त्रोपास्तिविधिरित्यन्ये। यथा सप्तमकाण्डान्तेऽश्वमेधप्रकरणे — ‘उषा वा अश्वस्य मेध्यस्य शिरः’ इति स्वतन्त्रोपास्तिराम्नाता तद्वत्। तस्याश्च स्वातन्त्र्यं बृहदारण्यकस्याऽऽदौ विस्पष्टम्। एतादृशानां वाक्यानां कर्मप्रकरणादुत्कर्ष उत्तरमीमांसायां गुणोपसंहारे मनश्चिदाद्यधिकरणे निर्णीतः। तस्मात्दुत्कर्षे स्वातन्त्र्यमनुत्कर्षे तु स्तुतित्वेनोपरववाक्याङ्गत्वमित्याकारद्वयमभ्युपेयम्। अवेष्टेश्चातुर्मास्यानां च राजसूयान्तःप्रयोगबहिष्प्रयोगो(गौ) यथा तद्वदेतद्द्रष्टव्यम्।
अत्र विनियोगसंग्रहः —
“खनेदुपरवान्रक्ष इदं तन्मृदमुद्वपेत्।
गाय तत्रावबाधेत किं स्वामी पृच्छतीतरः॥१॥
भद्रमित्याह तन्नावित्याह स्वामीतरं प्रति।
विराट्चतुर्भिः संस्पर्शो रक्षः पञ्चस्फुटक्रिया॥२॥
रक्षोऽधिषवणाख्ये तु फलके स्थापयेत्तथा।
पर्युह्य परितः स्तृत्वा मन्त्रयेच्च बृहन्निति॥
उपांशु सवनाश्मानं सा(नेऽश्मना वा)दयेद्विंशतिर्मता॥३॥’ इति॥
अथ मीमांसा।
तृतीयाध्यायस्याष्टमपादे चिन्तितम् —
‘भद्रं तन्नौ सहेत्येतत्कस्मिन्स्वामिनि युज्यते।
द्वित्वश्रुत्या भवेदेतदध्वर्युयजमानयोः’ इति॥
ज्योतिष्टोमे हविर्धानमण्डपे सोपाभिषवाधारयोः फलकयोरधस्ताच्चतसृष्वाग्नेय्यादिविदिक्षु चत्वार उपरवनामका गर्ता बाहुमात्रखाता अधोभागे परस्परमिलिता ऊर्ध्वभागे परस्परं प्रादेशमात्रव्यवहिता वर्तन्ते। तेष्वेकस्मिन्नुपरवे यजमानो दक्षिणहस्तं प्रसारयति। तथैवाध्वर्युरन्यस्मिन्स्वहस्तं प्रसार्याधस्ताद्यजमानहस्तं गृह्णाति। तदा यजमानः किमत्रेत्यनेन मन्त्रेण फलं पृच्छति। अध्वर्युश्च भद्रमित्यनेन मन्त्रेणोत्तरं ब्रूते। ततो यजमानस्तन्नौ सहेत्यनेन मन्त्रेण तत्फलं स्वकीयत्वेन स्वी करोति। तस्माद्यजमानस्यैतदिति चेन्मैवम्। नावित्यनेन द्विवचनेन सहेत्यनेन चोभयगामितयैव स्वीकारात्।
तत्रैव तृतीयपादे चिन्तितम् —
‘संतृद्ये दीर्घसोमे तत्प्रकृतौ विकृतावुत।
दीर्घस्य सोम इत्युक्तेः प्रकृतावस्तु तर्दनम्॥
सामानाधिकरण्यस्य षष्ठीतो बलवत्त्वतः।
दैर्घ्ययुक्तेऽन्य(क्तोक्थ्य)संस्थादावुत्कर्षोऽन्यत्र बाधनात्’ इति॥
ज्योतिष्टोमे श्रूयते — ‘दीर्घसोमे संतृद्ये धृत्यै’ इति। सोम-
यागविशेषो दीर्घसोमः। तस्मिन्सोमाभिषवाधारयोरधिषवणफलकयोः संतर्दनं कार्यम्। अन्योन्यवियोगेन शैथिल्यं मा भूदिति दृष्टसंश्लेषः संतर्दनम्। तदेतत्प्रकरणबलात्प्रकृतौ विनिविशते। न च तत्र दीर्घसोमत्वानुपपत्तिः। दीर्घस्य सोम इत्येवं दीर्घत्वस्य यजमानविशेषणत्वेनाप्युपपत्तेरिति प्राप्ते ब्रूमः — षष्ठीसमासात्कर्मधारयो बलीयानिति वक्ष्यते। तथा सति दीर्घत्वं सोमस्य धर्मो न तु यजमानस्य। नन्वेवमपि प्रकृतिभूतस्य सोमस्येष्टिपश्वपेक्षया दीर्घत्वमस्त्येवेति चेन्न। सोमशब्देनैव तदवगतौ दीर्घशब्दवैयर्थ्यात्। न हीष्टिपश्वपेक्षया ह्रस्वः कश्चित्सोमोऽस्ति यस्य व्यावृत्तये दीर्घशब्दः प्रयुज्येत। तस्मात्प्रकृतिरूपं ह्रस्वसोमं व्यावर्तयितुमयं दीर्घशब्दः। विकृतिषूक्थ्यादिषु ग्रहाधिक्येन दीर्घत्वम्। तस्माद्वाक्येन प्रकरणं बाधित्वा विकृतिषु तन्निवेशः प्रकृतौ तु दीर्घशब्दस्य बाधः पूर्वमुक्तः। संतर्दनबाधश्च साक्षाच्छ्रूयते — “हनू वा एते यज्ञस्य यदधिषवणे न संतृणत्त्यसंतृष्णे हि हनू” इति। तस्मान्न प्रकृतौ निवेशः।
तत्रैव पञ्चमपादे चिन्तितम् —
“आख्यावचोवषट्कारा एव किं भक्षहेतवः।
किंवाऽभिषवहोमौ च तत्राऽऽद्योऽस्तूक्तया दिशा॥
हविर्धानेऽभिषुत्याथ हुत्वा सदसि भक्षयेत्।
इति श्रुतत्वतस्तौ च भक्षहेतू यथेतरे” इति॥
प्रैतु होतुश्चमस इत्यत्र समाख्या भक्षहेतुः, हारियोजनवाक्यं, वषट्कर्तुः प्रथमभक्ष इत्यत्र वषट्कार इत्येवमुक्तत्वात्त्रय एव इति चेन्मैवम्। “हविर्धाने (चर्मन्नधि) ग्रावभिरभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति” इति श्रूयते। उत्तरवेद्याः प्रतीचीने सदसः प्राचीने मण्डपेऽभिषवः। उत्तरवेद्यां होमः। सदसि भक्षणम्। तत्राभिषवहोमयोर्वचनान्तरप्राप्तयोरभि(वि)धेयतया तौ निमित्तत्वेनानूद्य भक्षणं विधीयते। तस्मात्समाख्यादिवदेतयोरपि [भक्ष]हेतुत्वमस्ति।
षष्ठाध्यायस्य चतुर्थपादे चिन्तितम् —
“अभिषुत्य ततो हुत्वा खादेदेकैकहतुना(ता)।
संहत्य वा निमित्तोक्तौ साहित्याविधितोऽग्रिमः॥
होमाभिषवकर्ताऽत्र भक्षाङ्गत्वेन चोद्यते।
निमित्तताऽऽर्थिकी तस्मात्साहित्यं हेतुगं मतम्’ इति॥
ज्योतिष्टोमे श्रूयते — ‘हविर्धाने चर्मन्नधि ग्रावभिरभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति’ इति। तत्राभिषवहोमयोरकैक एव भक्षहेतुः। साहित्यस्याविधेयत्वात्। अभिषवहोमावत्र निमित्तत्वेनोच्येते। तत्र साहित्यविधौ वाक्यं भिद्येत। अभिषवहोमौ भक्षहेतू। तौ च सहितावित्येवं तद्भेदः। तस्मात्साहित्यस्याविधेयत्वादभिषवहोमयोः प्रत्येकं भक्षणनिमित्तत्वमिति प्राप्ते ब्रूमः – नात्र निमित्तमुपन्यस्यते, किंतु होमाभिषवयोः कर्ता भक्षणं प्रत्यङ्गत्वेन पूर्वमप्राप्तत्वाद्विधीयते। तथा सत्यभिषवहोमयोर्यन्निमित्तत्वं प्रतीयते तदार्थिकमिति वाक्यभेददोषाभावात्साहित्यं प्रतीयमानं विवक्षितमिति सहितयोरेव तयोर्निमित्तत्वम्।
अत्र सर्वेषां यजुष्ट्वान्नास्ति च्छन्दः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके द्वितीयोऽनुवाकः॥२॥

(अथ प्रथमाष्टके तृतीयप्रपाठके तृतीयोऽनुवाकः)।
द्वितीयेऽनुवाके हविर्धानगतोपरवनिर्माणमुक्तम्। अथावशिष्टेष्वाग्नीध्रीयसदःप्रभृतिस्थानेषु धिष्णियास्तृतीयेऽनुवाकेऽभिधीयन्ते । विभूरसीति। कल्पः — ‘आग्नीध्रीयं गत्वा स्फ्येनोद्धत्यावोक्ष्य चात्वालपुरीषं सिकता इति निर्वपति विभूरसि प्रवाहणो रौद्रेणानीकेन पाहि माऽग्ने पिपृहि मा मा मा हिँसीरिति ते परिमण्डलं धिष्णियं करोत्यथैनं सिकताभिराभ्राशितं करोत्यथान्तःसदसि धिष्णियान्निवपति होतुः प्रथमं वह्निरसि हव्यवाहन इति श्वात्रोऽसि प्रचेता इति दक्षिणतो मैत्रावरुणस्य, तुथोऽसि विश्ववेदा इत्युत्तरतो ब्राह्मणाच्छंसिनः, उशिगसि कविरित्युत्तरतः पोतुः अङ्घारिरसि बम्भारिरित्युत्तरतो नेष्टुः, अवस्युरसि दुवस्वानित्युत्तरतोऽच्छावाकस्याथ दक्षिणे वेद्यन्ते मार्जालीयं निवपति शुन्ध्यूरसि मार्जालीय इति सर्वेष्वेष रौद्रमनुवर्तयत्यथाष्टावनुदिशति सम्राडसि कृशानुरित्याहवनीयमुपतिष्ठते, परिषद्योऽसि पवमान इत्यास्तावं, प्रतक्वाऽसि नभस्वानिति चात्वालमसंमृष्टोऽसि हव्यसूद इति पशुश्रपणपथ सदसो द्वारि तिष्ठन्नौदुम्बरीमुपतिष्ठत ऋतधामाऽसि सुवर्ज्योतिरिति, ब्रह्मज्योतिरसि सुवर्धामेति ब्रह्मसदनमथात्रैव तिष्ठन्गार्हपत्यमुपतिष्ठतेऽजोऽस्येकपादिति, अहिरसि बुध्निय इति यं प्रहास्यन्तो भवन्ति’ इति।
अत्र रौद्रेणेति वाक्यं सर्वमन्त्रशेषत्वादन्ते समाम्नायते। आभ्राशितं समन्ताद्यथा न भ्रश्यति तथा करोनि शुभ्रं वा करोति। हे अग्नीध्रीय त्वत्तोऽन्यधिष्णियं विहरंस्त्वं विभूरसि विविधं भवसि। हविषां प्रवाहयितृत्वात्प्रवहणोऽसि। हे होत्रीय त्वं यो वह्निर्हव्यवाहनस्तद्रूपोऽसि। हे मैत्रावरुणीय श्वात्रो मित्रः प्रचेता वरुणस्तदुभयरूपोऽसि। हे ब्राह्मणाच्छंसिसंबन्धिन्। तुथो ह स्म वै विश्ववेदा देवानां दक्षिणा विभजतीत्याम्नातो विश्वभिज्ञो यस्तुथस्तद्रूपोऽसि। हे पोत्रीय त्वमुशिक्कमनीयः कविर्विद्वानसि, हे नेष्ट्रीय सोमरक्षकौ यावङ्घारिबम्भारिनामकौ तद्रूपोऽसि। हेऽच्छावाकसंबन्धिन्, अवस्यवे त्वा वाताय स्वाहा दुवस्वते त्वा वाताय स्वाहेत्याम्नातौ याववस्युदुवस्वन्तौ वातविशेषौ तद्रूपोऽसि। हे मार्जालीय त्वं शुन्ध्यूः शोधकः पात्रप्रक्षालनेन लेपमार्जनस्थानभूतोऽसि। हे आहवनीय सम्यग्राजमानः कृशानुरसि। हे आस्ताव स्तोत्रस्थान परिषद्यः परितः सदनयोग्यः पवमानः पूतोऽसि। हे चात्वाल कृष्णविषाणत्यागार्थं प्रतक्वा प्रकृष्टगमनविषयो नभस्वानन्तरवकाशवानसि। हे पशुश्रपणप्रदेश राक्षसैरसंसृष्टो हव्यसूदो हृदयादिहव्यपाचकोऽसि। हे औदुम्बरि त्वमृतधामा सामगानामृतमवश्यंभावि धामोपवेशनस्थानं यस्यास्तादृशी सुवर्ज्योतिरुन्नतत्वेन स्वर्गप्रकाशिकाऽसि। हे ब्रह्मसदन त्वं ब्रह्मज्योतिर्ब्रह्मनामकस्यर्त्विजः प्रोक्षणादिकर्माभ्यनुज्ञानरूपं ज्योतिर्यस्मिन्स्थाने तादृशमसि, सुवर्धाम स्वर्गसदृशं स्थानं यस्य तथाविधमसि। हे नूतनगार्हपत्य यो देवः प्रोष्ठपदा नक्षत्रमज एकपाद्देवतेत्याम्नातस्तद्रूपोऽसि। पुरातनं गार्हपत्यमित ऊर्ध्वमृत्विजः परित्यक्ष्यन्तो भवन्ति। हे त्याज्यगार्हपत्य यो देवः प्रोष्ठपदा नक्षत्रमहिर्बुध्नियो देवतेत्याम्नातस्तद्रूपोऽसि। आग्नीध्रीयमारभ्य पुराणगार्हपत्यान्तेषु षोडशसु स्थानेष्वभिमन्यमान हेऽग्ने त्वदीयेन रौद्रेण सैन्येन राक्षसेभ्यो मां पाहि, कर्मफलप्रदानेन मां पिपृहि पूर्णमनोरथं कुरु, मद्विनाशरूपां हिंसां मा कुरु।
तनेतान्सर्वानु(न)पेक्ष्यानुष्ठानं विधत्ते —
“चात्वालद्धिष्णियानुप वपति योनिर्वै यज्ञस्य चात्वालं यज्ञस्य सयोनित्वाय” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
ततः पुरिषमादायोत्तरवेद्याः करणाच्चात्वालं यज्ञस्य योनिः। तादृशाच्चात्वालाद्धिष्णियनामकानां स्थलविशेषाणां निवपने यज्ञः सर्वोऽपि स्वयोनियुक्तो भवति।
कालान्तरेऽनुष्ठेयान्यपि कानिचिद्धिष्णियप्रसङ्गादिह विधीयन्ते। तत्राऽऽग्नीध्रीयधिष्णियस्थिताद्वह्नेर्होत्रीयादिधिष्णियेष्वग्निस्थापनं विधत्ते —
“देवा वै यज्ञं पराऽजयन्त तमाग्नीघ्रात्पुनरपाजयन्नेतद्वै यज्ञस्यापराजितं यदाग्नीध्रं यदाग्नीध्राद्धिष्णियान्विहरति यदेव यज्ञस्यापराजितं तत एवैनं पुनस्तनुते” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
पराजयन्त पराजयमकुर्वत। यज्ञमसुरा अगृह्णन्। पुनस्तं यज्ञमाग्नीध्रदेवता-
सामर्थ्येनासुरेभ्योऽपच्छिद्य देवा अजयन्। आग्नीध्रस्यापराजितस्थानत्वात्ततो विहरणं युक्तम्।
प्रैषमन्त्रमुत्पादयति —
“पराजित्येव खलु वा एते यन्ति ये बहिष्पवमानँ सर्पन्ति बहिष्पवमाने स्तुते आहाग्नीदग्नीन्वि हर बर्हिः स्तृणाहि पुरोडाशाँ अलं कुर्विति यज्ञमेवापजित्य पुनस्तत्वाना यन्ति” (सं॰ का॰ ६ प्र॰ ३॰ अ॰ १) इति।
बहिष्पवमानं नाम प्रातःसवने सामगैर्गीयमानमुपास्मै गायतेत्यादिकं स्तोत्रम्। तत्तु गायन्त ऋत्विजो धावन्ति यथा लोके पराजित्य पलायन्ते तद्वत्। ततः स्तोत्रे समापिते सत्याग्नीध्रं संबोध्याग्निविहरणादिप्रैष उक्ते यज्ञं पराजयादपावृत्य पुनः प्रसारितवन्तो भवन्ति।
विहरणे विशेषं विधत्ते —
“अङ्गारैर्द्वे सवने वि हरति शलाकाभिस्तृतीयँ सशुक्रत्वायाथो सं भरत्येवैनत्” (सं॰ का॰ ६ प्र॰ ३॰ अ॰ १) इति।
प्रातःसवनमाध्यंदिनसवनयोराग्नीध्रीयगतैर्दग्धकाष्ठैर्विहरेत्। तृतीयसवने तु शलाकभिर्दीप्ततृणमुष्टिभिर्विरहेत्। अत्र सोमस्य गायत्रीमुखेन(ण) पीतत्वान्नास्ति सोमे तेजः। दीप्तासु शलाकासु साररूपं तजोऽस्तीति सशुक्रत्वाय सतेजस्त्वाय तथा कुर्यात्। किंचैनत्तृतीयसवनमितरसदृशं कृत्वा संभरति सम्यक्पोषयति।
पूर्वोक्तं धिष्णियसंघं प्रशंसति —
“धिष्णिया वा अमुष्मिल्लोँके सोममरक्षन्तेभ्योऽधि सोममाहरन्तमन्ववायन्तं पर्यविशन्” (सं॰ का॰ ६ प्र॰ ३॰ अ॰ १) इति।
स्वानभ्राजादय इव धिष्णियदेवता अपि सोमं रक्षन्ति। आह्रियमाणं सोममनु स्वयमप्यागत्य परित उपविष्टाः। तस्मात्प्रशस्ता धिष्णियाः।
एतद्वेदनं प्रशंसति —
“य एवं वेद विन्दते परिवेष्टारम्” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
सेवकयजनमित्यर्थः।
केषुचिद्धिष्णियेषु सोमाहुतिं विदधाति—
“ते सोमपीथेन व्यार्ध्यन्त ते देवेषु सोमपीथमैच्छन्त तान्देवा अब्रुवन्द्वेद्वे नामनी कुरध्वमथ प्र वाऽऽप्स्यथ न वेत्यग्नयो वा अथ धिष्णियास्तस्माद्द्विनामा ब्राह्मणोऽर्धुकस्तेषां ये नेदिष्ठं पर्यविशन्ते सोमपीथं प्राऽऽप्नुवन्नाहवनीय आग्नीध्रीयो होत्रीयो मार्जालीयस्तस्मात्तेषु जुह्वति” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
ते धिष्णियाः सोमपानेन वियुक्ताः। ततस्ते देवेषु मध्ये सोमपानमस्माकमस्त्वित्यैच्छन्त। एकैकनाममात्रधारणेन युष्माकं सोमपानयोग्यता सर्वथा नास्ति। नामद्वये तु स्वीकृते पाक्षिकी तद्योग्यतेति देवैरुक्ता अग्निनाम धिष्णियनाम च कृतवन्तः। यस्मान्नामद्वयमुत्कर्षहेतुस्तस्माल्लोकेऽपि देवदत्तादिनाम प्रथमं धृत्वा पश्चात्तपोविद्यादिभिराचार्योपाध्यायादिकं द्वितीयं नाम दधत्सत्कारेण समृद्धो भवति। नामद्वयधारिणां तेषां मध्ये ये चत्वार आवहनीयादयः सोमस्यात्यन्तसमीपे निविष्टस्ते समीपवर्तित्वेन सोमपानयोग्या इति तेषु सोमं जुहुयुः।
द्विनामधारित्वेनेतरेषामपि प्रसक्तं सोमपानं वारयति —
“अतिहाय वषट्करोति वि ह्येते सोमपीथेनाऽऽर्ध्यन्त” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
ये दूरवर्तिनो मैत्रावरुणधिष्णियादयस्तानतिलङ्घ्य समीपस्थेभ्य एव वषट्कारस्तथाऽपि अनुवषट्कारप्रदानाहुतिब्राह्मण ऐतरेयश्रुतौ तदाहुतिदेवतात्वेन चतुर्णामेव श्रवणात्तानतिहाय वषट्करोतीत्युक्तं युक्तम्। सा च श्रुतिः — “यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेन धिष्णियान्प्रीणाति” इति। तस्मात्तेषां वषट्कारपूर्वको होमः। इतरे तु सोमपानेन व्यार्ध्यन्त, हि यस्मात्पूर्वोक्तस्य वियोगस्य प्रतीकारं सामीप्यलक्षणं न संपादितवन्तः। द्वितीयनामप्रयुक्तस्तूत्कर्षस्तेषां सोमाभावेऽप्याज्यव्याघारणादेवोपपद्येते।
सोमाहुतीनां व्यवस्थां विधत्ते —
“देवा वै याः प्राचीराहुतीरजुहवुर्ये पुरस्तादसुरा आसन्ताँस्ताभिः प्राणुदन्त याः प्रतीचीर्ये पश्चादसुरा आसन्ताँस्ताभिरपानुदन्त प्राचीरन्या आहुतयो हूयन्ते प्रत्यङ्ङासीनो धिष्णियान्व्याघारयति पश्चाच्चैव पुरस्ताच्च यजमानो भ्रातृव्यान्प्र णुदते तस्मात्पराचीः प्रजाः प्र वीयन्ते प्रतीचीर्जायन्ते” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
प्राङ्मुखेग हूयमानाः प्राचीरुत्तरवेदिगताः। यस्मादाहुतिषु द्वैविध्यं तस्माल्लोकेऽपि प्रजाः पित्रा यन्मुखेन प्रवीयन्ते निषिच्यन्ते तद्विपरीतदिङ्मुखा उत्पद्यन्ते।
अध्वर्योः प्रत्यग्गमननिषेधं निन्दाभ्यामुन्नयति —
“प्राणा वा एते यद्धिष्णिया यदध्वर्युः प्रत्यङ्धिष्णियानतिसर्पेत्प्राणान्त्संकर्षेत्प्रमायुकः स्यान्नाभिर्वा एषा यज्ञस्य यद्धोतोर्ध्वः खलु वै नाभ्यै प्राणोऽवाङपानो यदध्वर्युः प्रत्यङ्होतारमतिसर्पेदपाने प्राणं दध्यात्प्रमायुकः स्यात्” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
अतिसर्पेदतिक्रम्य गच्छेत्। होता यज्ञस्य नाभिर्मध्यदेशे वर्तते। प्राणवत्प्राग्वर्तिनोरध्वर्योः प्रत्यग्गमनमयुक्तम्।
ऋत्विज उपगायन्तीति विधिप्राप्तगानमध्वर्योर्निषेधति —
“नाध्वर्युरुप गायेद्वाग्वीर्यो वा अध्वर्युर्यदध्वर्युरुपगायेदुद्गात्रे वाचँ सं प्रयच्छेदुपदासुकाऽस्य वाक्स्यात्” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
उद्गात्रा सामनि गीयमाने पृष्ठतदङ्गीकरणमुपगानम्। उपदासुकोपक्षयशीला। प्रकारन्तरेणाध्वर्योः प्रत्यग्गमनं विधातुं चोद्यमुद्भावयति —
“ब्रह्मवादिनो वदन्ति नासँस्थिते सोमेऽध्वर्युः प्रत्यङ्सदोऽतीयादथ कथा दाक्षिणानि होतुमेति” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
अध्वर्योः सद उल्लङ्घ्य प्रत्यग्गमनं निषिद्धम्। दाक्षिणहोमस्तु प्राचीनवंशे नूतनगार्हपत्ये कर्तव्यः। तत्कथं घटते। असंस्थितेऽसमाप्ते। कथा केन प्रकारेण।
उक्तचोद्यस्य परिहारभासमाशङ्कते —
“यामो हि स तेषाम्” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
याम उपरमः। यस्मात्स दाक्षिणहोमस्तेषां देवानां संबन्धिनः कर्मण उपरमकालीनोऽतो लौकिकगमनत्वाद्देवा अनुज्ञास्यन्ति।
इत्थमुत्तराभासं दूषयति –
“कस्मा अह देवा यामं वाऽयामं वाऽनु ज्ञास्यन्तीति” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति। अहेत्युक्तनिषेधे। यदुत्तरवादिनोक्तं भवति, देवाः कस्मै प्रयोजनाय कर्मण उपरतियनुपरतिं वाऽनुज्ञास्यन्ति, न हि तदनुज्ञया देवानां किंचित्प्रयोजनं पश्यामः। ततः प्रत्यग्गमनस्य निषिद्धत्वाद्दाक्षिणहोमो न घटत एवेति चोद्यं सुस्थितम्।
तस्य मुख्यं परिहारं दर्शयन्प्रत्यग्गमनं विधत्ते —
‘उत्तरेणाऽऽग्नीध्रं परीत्य जुहोति दाक्षिणानि न प्राणान्त्सं कर्षति’ [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
आग्नीध्रहविर्धानयोर्मध्ये गत्वा यत्सदोतिक्रमणं तदेव निषिद्धम्। अयं त्वाग्नीध्रं वामतः परित्यज्य तस्मादुत्तरतः प्रत्यङ्मुखो गत्वा प्राचीनवंशे दाक्षिणानि जुहुयात्। ततो नोक्तदोषः।
प्रासङ्गिकं परिसमाप्य प्रकृतमनुसरति। तत्र चात्वालाद्धिष्णियानुपवपतीति सामान्यशास्त्रेणाऽग्नीध्रादीनां प्राजहितान्तानां षोडशानामपि निवपने प्रसक्ते मार्जालीयान्तानामेवेति विशेषं विधत्ते —
‘न्यन्ये धिष्णिया उप्यन्ते नान्ये यान्निवपति तेन तान्प्रीणाति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
इतरेषामाहवनीयादीनां प्राजहितान्तानामष्टानामुपस्थानं विधत्ते —
‘यान्न निवपति यदनुदिशति तेन तान्’ (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति। प्रीणातीत्यनुवर्तते। अनुदेशनं मन्त्रेणोपस्थानम्।
अत्र विनियोगसंग्रहः —
‘विभूपदत्रयात्मानो मन्त्राः षोडश निर्वपेत्।
धिष्ण्यान्दिशेच्च सर्वेषु रौद्रेणेत्यनुदिश्यते॥१॥ इति।
अत्र मीमांसाछन्दसी न स्तः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके तृतीयोऽनुवाकः॥३॥

(अथ प्रथमकाण्डे तृतीयप्रपाठके चतुर्थोऽनुवाकः)।
तृतीयानुवाके धिष्णिया वर्णिताः। एतावता वेदिगतविशेषनिर्माणं समाप्तम्। अथ तस्यां वेद्यामग्नीषोमीयपशुर्वक्तव्यः। तस्य चाग्नीषोमयोः प्रणीतयोः पश्चाद्वक्तुमुचितत्वात्तत्प्रणयनाय वैसर्जनहोमश्चतुर्थेऽनुवाकेऽभिधीयते।
त्वँ सोमेति। कल्पः — “स्रुचि चतुर्गृहीतं गृहीत्वा शालामुखीये वैसर्जनहोमं जुहोति त्वँ सोम तनुकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्य उरु यन्ताऽसि वरूथँ स्वाहेति, स्रुवेणाप्तुं प्रस्कन्दयति जुषाणो अप्तुराज्यस्य वेतु स्वाहेति, पूर्वया द्वारोपनिष्क्रामत्ययं नो अग्निर्वरिवः कृणोत्वयं मृधः पुर एतु प्रमिन्दन्। अयँ शत्रूञ्जयतु जर्हृषाणोऽयं वाजं जयतु वाजसाताविति, अथाऽऽहवनीये स्रुवाहुतिं जुहोति उरु विष्णो वि क्रमस्वोरु क्षयाय नः कृधि। घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहेति” इति।
तनूं शरीरं कृन्तति च्छिन्दन्तीती तनूकृन्ति रक्षांसि। द्विषन्तीति द्वेषांसि। अन्यैरस्मद्विरोधिभिरभिचरद्भिः कृतानि प्रेरितानीत्यन्यकृतानि। हे सोम त्वं तादृशेभ्यो नियन्ताऽसि। यथा तादृशानि नास्मान्बाधन्ते तथाऽऽस्मानन्यत्र सुरक्षितप्रदेशे स्थापयित्वा पालयसि। तस्मात्त्वमेवास्माकमुरु प्रभूतं वरूथं बलमसि, तस्मै तुभ्यमिदं हुतमस्तु। अप्तुं प्रस्कन्दयतीत्यत्राप्तुशब्द आज्यबिन्दुवाची मन्त्रे त्वल्पदेहवाची। हे सोम त्वं जुषाणोऽस्मासु प्रीतिमान्रक्षसामदर्शनायाप्तुरल्पदेहः सन्नाज्यस्य बिन्दुं वेतु पिब, तवेदं हुतमस्तु। पूर्वद्वारेण निष्क्रामन्तो यमग्निं प्रणयन्ति। अयमग्निरस्माकं वरिवः कृणोतु श्रेयः करोतु। अयं मृधो वैरिणः प्रभिन्दन्पुर एतु अग्रे गच्छतु। अयं जर्हृषाणो हृष्टान्तःकरणः शत्रूञ्जयतु। वाजस्यान्नस्य सातिर्लाभो यस्मिन्संग्रामे स वाजसातिस्तस्मिन्नयमस्मदर्थ वाजं जयतु वशी करोतु। हे विष्णो व्यापिन्नाहवनीयास्मदनुग्रहार्थमुरु विक्रमस्व वैरिषु बहुलं पराक्रमं कुरु। नोऽस्माकं क्षयाय निवासार्थमुरु कृधि बहुलं गृहधनादिकं संपादय। घृतेन ज्वालोद्भवाद्घृतयोनिः। हे घृतयोने हूयमानमिदं घृतं पिब, यज्ञपतिं यजमानं (प्र) प्रतिरातिशयेन वर्धय।
मन्त्रान्व्याचिख्यासुरादौ होमं विधत्ते —
“सुवर्गाय वा एतानि लोकाय हुयन्ते यद्वैसर्जनानि” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
अवान्तरदीक्षाविसर्जनार्थत्वादेतानि होमकर्माणि वैसर्जनानि।
तत्प्रकारः सूत्रे दर्शितः — “उपस्थे ब्रह्मा राजानं कुरुते समपि व्रतान्ह्वयध्वमिति संप्रेष्यति यजमानस्यामात्यान्संह्वयन्न (न्तम) ध्वर्युं यजमानोऽन्वारभते यजमानं पत्नीमितरे पुत्रभ्रातरोऽहतेन वाससाऽमात्यान्संप्रच्छाद्य वाससोऽन्ते स्रुग्दण्डमुपनियम्य प्रचरण्या वैसर्जनानि जुहोति” इति।
व्रतामात्यशब्दौ बन्धुवाचकौ। प्रचरणी जुह्वा सदृशी।
विशेषान्क्रमेण विधत्ते —
“द्वाभ्यां गार्हपत्ये जुहोति द्विपाद्यजमानः प्रतिष्ठित्या आग्नीध्रे जुहोत्यन्तरिक्ष एवाऽऽक्रमत आहवनीये जुहोति सुवर्गमेवैनं लोकं गमयति” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
द्वाभ्यां त्वँ सोम जुषाण इत्येताभ्याम्। आग्नीध्रे होमस्य मन्त्रो विधास्यते। आहवनीय उरु विष्णो, इति मन्त्रः।
होमात्पूर्वमेव ब्रह्मणा सोम आदातव्य इति विधत्ते –
“देवान्वै सुवर्गं लोकं यतो रक्षाँस्यजिघाँसन्ते सोमेन राज्ञा रक्षाँस्यपहत्याप्तुमात्मानं कृत्वा सुवर्गं लोकमायन्रक्षसामनुपलाभायाऽऽत्तः सोमो भवत्यथ वैसर्जनानि जुहोति रक्षसामपहत्यै” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
यतो गच्छतः। अप्तुं रक्षोभिरुपलब्धुमशक्यमल्पदेहम्। आत्तो भवति स्वीकृतो भवेत्। तत ऊर्ध्वं कृतो होमो रक्षांस्यपहन्ति।
प्रथममन्त्रस्य पूर्वभागोऽभिप्रेतं सोमस्य सामर्थ्यमुपपादयति —
“त्वँ सोम तनूकृद्भ्य इत्याह तनूकृद्ध्येषः” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
तनुच्छिदां रक्षसामपि तनूं कृणत्ति च्छिनत्तीत्येष सोमोऽत्यन्तं तनुकृत्तस्माद्रक्षोभ्योऽस्मान्पालयितुं समर्थः।
द्वितीयभागे विशेष्यं पूरयति —
“द्वेषोभ्योऽन्यकृतेभ्य इत्याहान्यकृतानि हि रक्षाँसि” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
तृतीयभागस्योरु वरूथमित्यस्य वाक्यस्य शेषं पूरयति —
‘उरु यन्ताऽसि वरुथमित्याहोरु णस्कृधीति वावैतदाह’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
बहुलमस्मदर्थं कुर्वित्येतदेव स भागो ब्रूते।
द्वितीयमन्त्रेऽप्तुशब्दसूचितमाह —
‘जुषाणो अप्तुराज्यस्य वेत्वित्याहाप्तुमेव यजमानं कृत्वा सुवर्गं लोकं गमयति रक्षसामनुपलाभाय’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
प्राचीनवंशान्निष्क्रम्याऽऽग्नीध्रे जिगमिषुभिरनुष्ठेयानि सोमस्वीकारादीनि षड् विधत्ते —
‘आ सोमं ददत आ ग्राव्ण आ वायव्यान्या द्रोणकलशमुत्पत्नीमा नयन्त्यन्वनाँ सि प्र वर्तयन्ति यावदेवास्यास्ति तेन सह सुवर्गं लोकमेति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
सोमं हविर्धाने नेतुमाददीरन्। ग्रावणोऽभिषवार्थाः। वायव्यान्युलूखलसदृशानि ग्रहपात्राणि। द्रोणकलशः प्रौढं काष्ठपात्रम्। एतान्याददीरन्। पत्नीं स्वस्थानादुत्थाप्याऽऽनयेयुः। व्रीह्याद्यौषधद्रव्यार्थं यत्तृतीयं शकटं तदेवासकृदावृत्तत्वादनांसीति बहुवचनेनोच्यते। तदनु पुनः पुनः प्रवर्तयेयुः। एवं सति यजमानस्य स्वं यावदस्ति तेन सर्वेण सह स्वर्गं प्राप्नोति।
विधत्ते — ‘नयवत्यर्चाऽऽग्नीध्रे जुहोति सुवर्गस्य लोकस्याभिनीत्यै’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
अग्ने नय सुपथेत्यसौ नयवती।
अत्र सूत्रम् – ‘शालामुखीये प्रणयनीयमिध्ममादीप्य सिकताभिरुपयम्याग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहीति संप्रेष्यति प्रणीयमानायानुब्रूहीति वा प्रथमायां त्रिरनूक्तायामयं नो अग्निर्वरिवः कृणोत्वित्यग्निप्रथमाः सोमप्रथमा वा प्राञ्चोऽभि प्रव्रजन्त्याग्नीध्रीयेऽग्निं प्रतिष्ठाप्याग्ने नयेत्यर्धमाज्यशेषस्य जुहोति’ इति।
प्रचरण्या चतुर्गृहीतस्याऽऽज्यस्यार्धं गार्हपत्ये मन्त्रद्वयेन हुतमवशिष्टेऽप्यर्धमाज्यमाग्नीध्रे हुत्वेतरदाहवनीये होतुं शेषयेत्।
विधत्ते — ‘ग्राव्णो वायव्यानि द्रोणकलशमाग्नीध्र उप वासयति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
स्थापयेदित्यर्थः।
तद्वत्सोमस्यापि स्थापनप्राप्तौ तद्वारयितुं ग्रहणं विधत्ते —
‘वि ह्येनं तैर्गृह्णते यत्सहोपवासयेदपुवायेत्’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
एनं सोमं तैर्ग्रावादिभिर्वियुज्य नेतुं गृह्णीरन्। यदि कश्चित्तैः सह स्थापयेत्तदानीमभिषवभीत्या सोमस्योदरं पूति भवेत्। अत्राऽऽज्यशेषस्याऽऽहवनीये होमायोरु विष्णो, इति यो मन्त्रो यश्च ततः पूर्वोऽयं नो अग्निरिति मन्त्रस्तावुपेक्षितौ।
सोम इति। कल्पः — ‘ब्रह्मणो राजानमादाय पूर्वया द्वारा हविर्धानं प्रपादयति सोमो जिगाति गातुविद्देवानामेति निष्कृतमृतस्य योनिमासदमिति’ इति।
गातुविन्मार्गज्ञः सोमो जिगाति गच्छति। कं देशं गच्छति, आसीदत्यस्मिन्हविर्धानदेश इत्यासदः। देवानामासदमेति। कीदृशं, निष्कृतमलंकृतम्। ऋतस्य यज्ञस्य योनिं कारणं ग्रहचमसादिहविषामत्रावस्थितत्वात्।
विधत्ते —
‘सौम्यर्चा प्र पादयति स्वयैवैनं देवतया प्र पादयति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
अदित्या इति। कल्पः – ‘अथ दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनमास्तृणाति अदित्याः सदोऽसीत्यदित्याः सद आ सीदेति। कृष्णाजिने राजानम्’ इति।
स्पष्टार्थतां दर्शयति —
‘अदित्याः सदोऽस्यदित्याः सद आ सीदेत्याह यथायजुरेवैतत्’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
एष व इति। कल्पः — ‘अथैनं देवताभ्यः संप्रयच्छत्येष वो देव सवितः सोमस्तँ रक्षध्वं मा वो दभदिति’ इति।
एतावन्तं कालं यजमानः सोममरक्षत्। इत ऊर्ध्वं हे देव युष्मदीयं सोमं यूयमेव रक्षध्वम्। यद्यपीन्द्रादयः सर्वे संबोधनीयास्तथाऽपि परिवृढत्वादशेषोप-
लक्षणार्थं सवितैव संबोध्यते। मा वो दभत्सोमं रक्षमाणान्युष्मान्कश्चिदपि मा हिंसीत्।
सवितृसंबोधनतात्पर्यमाह —
‘यजमानो वा एतस्य पुरा गोप्ता भवत्येष वो देव सवितः सोम इत्याह सवितृमसूत एवैनं देवताभ्यः सं प्र यच्छति” [सं॰ का॰ ६ प्र॰ ३ अ॰ २] इति।
एतत्त्वमिति। बौधायनः – “संपदायोपतिष्ठत एतत्त्वँ सोम देवो देवानुपागा इदमहं मनुष्यो मनुष्यान्त्सह प्रजया सह रायस्पोषेणेति” इति।
हे सोम त्वं देवः सन्भवदीयान्देवानेतदिदानीं प्राप्तोऽसि। अहमपि मनुष्यः सन्मदीयान्मनुष्यानिदमिदानीं प्राप्तोऽस्मि। कीदृशोऽहं, पुत्रादिप्रजया पश्वादिधनपुष्ठ्या च सह वर्तमानः।
मन्त्रभागयोर्द्वयोः प्रसिद्धिं तृतीयभागे विपक्षबाधं च दर्शयति —
“एतत्त्वँ सोम देवो देवानुपागा इत्याह देवो ह्येष सन्देवानुपैतीदमहं मुनुष्यो मनुष्यानित्याह मनुष्यो ह्येष सन्मनुष्यानुपैति यदेतद्यजुर्न ब्रूयादप्रजा अपशुर्यजमानः स्यात्सह प्रजया सह रायस्पोषेणेत्याह प्रजयैव पशुभिः सहेमं लोकमुपावर्तते” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
नम इति। बौधायनः — “नमो देवेभ्य इति प्राञ्चमञ्जलिं करोति स्वधा पितृभ्य इति दक्षिणाप्रत्यञ्चमथोपनिष्क्रामतीदमहं निर्वरुणस्य पाशादित्यथाऽऽहवनीयमुपतिष्ठते सुवरभि वि ख्येषं वैश्वानरं ज्योतिरिति” इति।
आपस्तम्बः — “इदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्य नमो देवेभ्य इति प्राचीनमञ्जलिं कृत्वा स्वधा पितृभ्य इति दक्षिणे, इदमहं निर्वरुणस्य पाशादित्युपनिष्क्रम्य सुवरभि वि ख्येषमिति सर्वं विहारमनुवीक्षते वैश्वानरं ज्योतिरित्याहवनीयम्” इति।
मन्त्रद्वयार्थप्रसिद्धिं दर्शयति —
“नमो देवेभ्य इत्याह नमस्कारो हि देवानाँ स्वधा पितृभ्य इत्याह स्वधाकारो हि पितृणाम्” (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
निर्वरुणस्य पाशादित्यत्र निर्मुञ्चामीत्यध्याहर्तव्यम्।
एतमेवाभिप्रायं दर्शयति —
“इदमहं निर्वरुणस्य पाशादित्याह वरुणपाशादेव निर्मुच्यते’ (सं॰ का॰ ६ प्र॰ ३ अ॰ २) इति।
अग्न इति। कल्पः – “अथ यजमानोऽवान्तरदीक्षां विसर्जति अग्ने व्रतपते त्वं व्रातानां व्रतपतिरसि या मम तनूस्त्वय्यभूदियँ सा मयि या तव तनूर्मय्यभूदेषा सा त्वयि यथायथं नौ व्रतपते व्रतिनोर्व्रतिनोर्व्रतानीति” इति।
अवान्तरदीक्षाया आदौ यजमानः स्वतनुमग्नौ संकल्पेनावस्थाप्याग्नितनुं च स्वस्मिन्नवस्थाप्य सह व्रतनियममुपचक्रमे। इदानीं तु शरीरव्यत्ययस्यासमाहितत्वाद्व्रतिनोरग्नियजमानयोः स्वोचितव्रतमेवास्तु। अत्र सुवरभि वि ख्येषं वैश्वानरं ज्योतिरित्येतौ मन्त्रौ पुरोडाशब्राह्मणे स्पष्टत्वादुपेक्षितौ।
अस्य तु मन्त्रस्य प्रतीकग्रहणपूर्वकं तात्पर्यमाह —
“अग्ने व्रतपत आत्मनः पूर्वा तनूरादेयेत्याहुः को हि तद्वेद यद्वसीयान्त्स्वे वशे भूते पुनर्वा ददाति न वेति” [सं॰ का॰ ६ प्र॰ ३ अ॰ २] इति।
अग्ने व्रतपत इत्येतावत्प्रतीकम्। स्वकीया पूर्वा तनूरग्निसकाशात्सहसा स्वीकार्येति बुद्धिमन्त आहुः। कुतः वसीयानत्यन्तधनिकः प्रभुः परकीये वस्तुनि स्ववशीभूते सति पुनर्ददाति वा न वेति यत्तत्को नाम वेद। ततो वशीभावात्प्रागेवाऽऽदेया।
ग्रावादीनामाग्नीध्रे स्थापनं यत्पूर्वमुक्तं तत्प्रशंसति —
“ग्रावाणो वै सोमस्य राज्ञो मलिम्लुसेना य एवं विद्वान्ग्राव्ण आग्नीध्र उपवासयति नैनं मलिम्लुसेना विन्दति” [सं॰ का॰ ६ प्र॰ ३ अ॰ २] इति।
मलिम्लुसेना विरोधितस्करसेना।
अत्र विनियोगसंग्रहः —
“त्वँ जुषा पश्चिमे वह्नौ वैसर्जनहुतिस्त्वयम्।
शालामुखीयतो वह्निं धृत्वा प्राञ्चोऽभियान्ति ही ॥१॥
उरु हुत्वा पूर्ववह्नौ सोमो राजानमग्रतः।
हविर्धानं नयत्यत्र चर्म संस्तीर्य सादयेत् ॥२॥
अदिद्वयोदेष सोमं निर्दिश्यैतन्निमन्त्रयेत्।
इदं दक्षिणमावृत्य नमः प्रागञ्जलिः स्वधा ॥३॥
दक्षिणाञ्जलिरेतस्मान्निर्गच्छेन्मण्डपादिदम्।
सुवर्विहारमीक्षित्वा वैश्वा पूर्वाग्निमीक्षते।
अग्ने वह्नेरुपस्थानं मन्त्राः षोडश कीर्तिताः ॥४॥” इति।
Page no. 363
अथ मीमांसा।
प्रथमाध्यायस्व तृतीयपादे चिन्तितम्—
‘वैसर्जनाख्यहोमीयवाससो ग्रहणस्मृतिः।
प्रमा न वा श्रुत्यबाधात्प्रमा स्यादष्टकादिवत्॥
दृष्टलोभैकमूलत्वसंभवे श्रुत्यकल्पनात्।
सर्ववेष्टनवद्बाधहीनाऽप्येषा न हि प्रमा’ इति॥
इदं स्मर्यते — ‘वैसर्जनहोमवासोऽध्वर्युर्गृह्णाति’ इति। सेयं स्मृतिः सर्ववेष्टनस्मृतिवत्प्रत्यक्षश्रुत्या न बाध्यते। ततोऽष्टकादिस्मृतिवन्मूलवेदानुमानेन प्रमाणमिति प्राप्ते ब्रूमः — कदाचित्कश्चिदध्वर्युर्लोभादेतद्वासो जग्राह। तन्मूलैवैषा स्मृतिरित्यपि कल्पना संभवति। दृष्टानुसारिणी चेयं कल्पना। दक्षिणया परिक्रीतानामृत्विजां लोभदर्शनात्। तथा सत्यस्याः स्मृतेरन्यथाऽप्युपपत्तावष्टकादिमूलश्रुतिवन्मूलश्रुतिर्न कल्पयितुं शक्यते। अतो बाधाभावेऽपि मूलवेदाभावान्नेयं स्मृतिः प्रमाणम्।
अथ च्छन्दः –
त्वँ सोमेति गायत्री, अयं नो अग्निरिति त्रिष्टुप्। उरु विष्णो, इत्यनुष्टुप्। सोमो जिगातीति गायत्री॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके चतुर्थोऽनुवाकः ॥४॥

(अथ प्रथमकाण्डे तृतीयप्रपाठके पञ्चमोऽनुवाकः)।
चतुर्थेऽनुवाके वैसर्जनहोमेऽवान्तरदीक्षां विसृज्याग्नीषोमयोराग्नीध्रीये हविर्धाने च प्रणयनमुक्तम्। अथ पञ्चममारभ्यैकादशान्तेषु सप्तस्वनुवाकेषु प्रणीतयोस्तयोरग्नीषोमयोः पशुर्वक्तव्यः। तत्रास्मिन्पञ्चमेऽनुवाके पश्वङ्गयूपस्य च्छेदनमभिधीयते। अत्यन्यानिति। बौधायनः — ‘पुनः पूर्वया द्वारोपनिष्क्रम्य तां दिशं यन्ति यत्रास्य यूपस्तष्टो भवति यत्र वा वेत्स्यन्मन्यते स यः समे भूम्यै स्वाद्योने रूढो बहुपर्णो बहुशाखोऽप्रतिशुष्काग्रः प्रत्यङ्ङुपनतस्तमुपतिष्ठते — अत्यन्यानगां नान्यनुपागामर्वाक्त्वा परैरविदं परोऽवरैस्तं त्वा जुषे वैष्णवं देवयज्याया इति’ इति।
आपस्तम्बः – ‘अतिक्रम्य यूप्यान्यं जोषयते तमभिमन्त्रयतेऽत्यन्यानगामित्यथैनमुपस्पृशति तं त्वा जुषे वैष्णवं देवयज्याया इति’ इति।
वृक्षा द्विविधा यूप्या अयूप्याश्च। पलाशखदिरादयो यूप्याः। निम्बजम्बीरादयस्त्वयूप्याः। हे पुरोवर्तियूप्यवृक्ष त्वत्तोऽन्यान्कांश्चिद्यूप्यानपि समप्रदेशजन्मादिलक्षणरहितानत्यगाम्। अन्यांस्त्वयूप्यान्नोपागाम्। त्वां त्वविदं लब्धवानस्मि। कीदृशं, परैरर्वागुत्कृष्टैर्लक्षणैः प्रत्यासन्नं तल्लक्षणयुक्तमित्यर्थः। पुनः कीदृशं, परोऽवरैर्निकृष्टैर्लक्षणैर्दूरवर्तिनं तद्रहितमित्यर्थः। हे वृक्ष तं त्वां विष्णुदेवताकं देवयजनार्थं सेवे।
विधत्ते —
‘वैष्णव्यर्चा हुत्वा यूपमच्छैति वैष्णवो वै देवतया यूपः स्वयैवैनं दवेतयाऽच्छैति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
उरु विष्णो वि क्रमस्वेति स्रुवेणाऽऽहवनीये यूपाहुतिं हुत्वा ततो यूपं प्राप्तुं गच्छेत्।
यथोक्तमन्त्रार्थे प्रसिद्धिं दर्शयति —
“अत्यन्यानगां नान्यानुपागामित्याहाति ह्यन्यानेति नान्यानुपैत्यर्वाक्त्वा परैरविदं परोऽवरैरित्याहार्वाग्घ्येनं परैर्विन्दति परोऽवरैस्तं त्वा जुषे वैष्णवं देवयज्याया इत्याह देवयज्यायै ह्येनं जुषते” [सं॰ का॰ ६ प्र॰ ३ अ॰ ३] इति।
देवस्त्वेति। कल्पः “देवस्त्वा सविता मध्वाऽनक्त्विति स्रुवेण सर्वतो मूलं पर्यणाक्त्योषधे त्रायस्वैनमित्यूर्ध्वाग्रं दर्भद्वयमन्तर्धाय स्वधिते मैनँ हिँसीरिति स्वधितिना प्रहरति” इति। मध्वा मधुरेणाऽऽज्येन।
एतदेवाभिप्रेत्याऽऽह –
“देवस्त्वा सविता मध्वाऽनक्त्वित्याह तेजसैवैनमनक्त्योषधे त्रायस्वैनँ स्वधिते मैनँ हिँसीरित्याह वज्रो वै स्वधितिः शान्त्यै” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
विधत्ते — “स्वधितेर्वृक्षस्य बिभ्यतः प्रथमेन शकलेन सह तेजः परा पतति यः प्रथमः शकलः परापतेत्तमप्या हरेत्सतेजसमेवैनमा हरति” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
स्वधितिभयात्पतितस्य वृक्षतेजस आहरणायेहाऽऽद्यशकलाहरणम्।
दिवमिति। कल्पः — “प्राञ्चं वोदञ्चं वा प्रयन्तमनुमन्त्रयते दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन हिँसीः पृथिव्या सं भवेति” इति।
हे छिन्नवृक्ष त्वं पतन्दिवं मा लेखीर्मा विदारीः पृथिव्या संभव संयुज्यावतिष्ठस्व।
अप्रसक्तप्रतिषेधबुद्धिं वारयति —
“इमे वै लोका यूपात्प्रयतो बिभ्यति दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन मा हिँसीरित्याहैभ्य एवैनं लोकेभ्यः शमयति” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
प्रयतः पततः।
वनस्पत इति। कल्पः “अथाऽऽव्रश्चने हिरण्यं निधाय संपरिस्तीर्याभिजुहोति वनस्पते शतवल्शो वि रोह स्वाहेति” इति।
विधत्ते — “वनस्पते शतवल्शो वि रोहेत्याव्रश्चने जुहोति तस्मादाव्रश्चनाद्वृक्षाणां भूयाँस उत्तिष्ठन्ति” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
आवृश्च्यते वृक्षो यस्मान्मूलादित्याव्रश्चनम्। भूयांसो बहवो वल्शाः शाखाविशेषाः।
सहस्रेति। कल्पः “सहस्रवल्शा वि वयँ रुहेमेत्यात्मानं प्रत्यभिमृश्य” इति।
विरोहैवेत्याशीरर्थो विवक्षित इत्याह —
“सहस्रवल्शा वि वयँ रुहेमेत्याहाऽऽशिषमेवैतामा शास्ते ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
यं त्वेति। कल्पः — “ अन्वग्रँ शाखां प्रसूदयति यं त्वाऽयँ स्वधितिस्तेतिजानः प्रणिनाय महते सौभगायेति ” इति।
हे छिन्नवृक्ष तेतिजानस्तीक्ष्णोऽयं स्वधितिर्यं त्वां महते सौभगाय दर्शनीयत्वाय तिर्यक्शाखाछेदनेन प्रणिनाय प्रकृष्टं यूपत्वं प्रापयामास। ततस्तादृशेन त्वया छेदनान्न भेतव्यम्।
अच्छिन्न इति। कल्पः — “ अच्छिन्नो रायः सुवीर इत्यग्रं परिवासयति ” इति।
हे यूप त्वमच्छिन्नो भव। मन्त्रसामर्थ्येन च्छेदनव्यथा तव मा भूत्। कीदृशस्त्वं, सुवीरः शोभना वीरा यजमानपुत्रपौत्रादयो येन त्वया लभ्यन्ते स त्वं सुवीरः। तादृशस्त्वं रायो धनानि यजमानाय देहि। यं त्वाऽयमच्छिन्न इत्येतौ मन्त्रावुपेक्षितौ।
योऽयं यूपार्थो वृक्षच्छेदः पूर्वमुक्तस्तत्र च्छेदे छेद्यं वृक्षस्य प्रदेशं विधत्ते –
“अनक्षसङ्गं वृश्चेत् ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
छिन्नावशिष्टस्य मूलस्योपरि गच्छतः शकटस्याक्षो यथा न प्रसज्यते तथा नीचं मूलमवस्थाप्य च्छिन्द्यात्।
विपक्षे बाधकमाह —
“ यदक्षसङ्गं वृश्चेदध ईषं यजमानस्य प्रमायुकँ स्यात् ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
यदि च्छिन्ने वृक्षमूले शकटस्याक्षः प्रसज्येत तदा यजमानस्य संबन्धि गोवत्सादिकमीषाया अधो मरणशीलं भवेत्। शकटस्य प्राचीनं दीर्घकाष्ठमीषा
शाखाया यूपार्थं छेदनं निन्दति —
“यं कामयेताप्रतिष्ठितः स्यादित्यारोहं तस्मै वृश्चेदेष वै वनस्पतीनामप्रतिष्ठितोऽप्रतिष्ठित एव भवति ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ३] इति।
वृक्षमारुह्य जायत इत्यारोहः शाखा। स च भूमावनुत्पन्नत्वादप्रतिष्ठितः। तस्य यूपत्वे यजमानोऽप्रतिष्ठित एव भवति।
अपर्णमपि निन्दति —
“यं कामयेतापशुः स्यादित्यपर्णं तस्मै शुष्काग्रं वृश्चेदेव वै वनस्पतीनामपशव्योऽपशुरेव भवति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
वनस्पतीनां मध्य एव पर्णरहितः शुष्काग्रश्चापशव्यः पशुभ्यो न हितः।
बहुपर्णं विधत्ते — ‘ यं कामयेत पशुमान्त्स्यादिति बहुपर्णं तस्मै बहुशाखं वृश्चेदेष वै वनस्पतीनां पशव्यः पशुमानेव भवति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
भूमौ समप्रदेशे स्वबीजादुत्पन्नं विधत्ते — “ प्रतिष्ठितं वृश्चेत्प्रतिष्ठाकामस्यैष वै वनस्पतीनां प्रतिष्ठितो यः समे भूम्यै स्वाद्योने रूढः प्रत्येव तिष्ठति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
स्वाद्योनेरित्यनेन वृक्षजन्या शाखा व्यवर्त्यते।
पश्चिमदिश्यानतं विधत्ते — “ यः प्रत्यङ्ङुपनतस्तं वृश्चेत्स हि मेधमभ्युपनतः ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
मेधो यज्ञः। स चोत्तरवेद्यां क्रियमाणो यूपस्थानात्प्रत्यङ् भवति। अतो मेधमभिलक्ष्यैवोपनतः।
यूपस्य काम्यानि परिमाणानि विधत्ते — “ पञ्चारत्निं तस्मै वृश्चेद्यं कामयेतोपैनमुत्तरो यज्ञो नमेदिति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञ उपैनमुत्तरो यज्ञो नमति षडरत्निं प्रतिष्ठाकामस्य षड् वा ऋतव ऋतुष्वेव प्रति तिष्ठति सप्तारत्निं पशुकामस्य सप्तपदा शक्वरी पशवः शक्वरी पशूनेवाव रुन्धे नवारत्निं तेजस्कामस्य त्रिवृता स्तोमेन संमितं तेजस्त्रिवृत्तेजस्व्येव भवत्येकादशारत्निमिन्द्रियकामस्यैकादशाक्षरा त्रिष्टुगिन्द्रियं त्रिष्टुगिन्द्रियाव्येव भवति पञ्चदशारत्निं भ्रातृव्यवतः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै सप्तदशारत्निं प्रजाकामस्य सप्तदशः प्रजापतिः प्रजापतेराप्त्या एकविँशत्यरत्नीं प्रतिष्ठाकामस्यैकविँशः स्तोमानां प्रतिष्ठा प्रतिष्ठित्यै ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
चतुर्विंशतिरङ्गुलयोऽरत्निः। उत्तरो यज्ञः सोमविकृतिः।
विधत्ते —
“ अष्टाश्रिर्भवत्यष्टाक्षरा गायत्री तेजो गायत्री गायत्री यज्ञमुखं तेजसैव गायत्रिया यज्ञमुखेन संमितः ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
गायत्र्यास्तेजस्त्वमग्निना सहोत्पन्नत्वात्। यज्ञमुखत्वं प्रातःसवने प्रयोज्यत्वात्। अतोऽष्टसंख्याद्वारा तेजोगायत्रीयज्ञमुखैः समानो भवति। तस्मात्तक्षणेन यूपस्याष्टावश्रयः कार्याः।
अत्र विनियोगसंग्रहः —
“ अति वृक्षं मन्त्रयित्वा तं त्वा यूपतरुं स्पृशेत्।
देवस्तन्मूलमभ्यज्य ह्योष दर्भान्तरायतः ॥१॥
स्वधि च्छिन्द्याद्दिवं प्राच्यां पातयेद्वन शेषिते।
मूले हुत्वा सहेत्यात्मस्पर्शो यं त्वाऽङ्गकानि च।
अच्छीत्यग्रं च संछिन्द्याद्दश मन्त्रा उदीरिताः ॥२॥ इति।
अथ मीमांसा।
पञ्चमाध्यायस्य प्रथमपादे चिन्तितम् —
“ यूपच्छेदापकर्षः किं तदन्ते श्रुत एव वा।
प्रयाजवत्तदन्तत्वान्नयनं चापकृष्यताम्॥
अग्नीषोमप्रणयनं सौमिकं पाशुकी छिदा।
प्रयाजाघारवैषम्याच्छ्रुतमात्रापकर्षणम् ”॥ इति।
ज्योतिष्टोमे वैसर्जनहोमकाले प्राचीनवंशगतो वह्निराग्नीध्रीये प्रणेतव्यः। सोमश्च प्राचीनवंशे पूर्वं स्थापित इदानीं हविर्धाने प्रणेतव्यः। तयोरुभयोः प्रणयनादूर्ध्वं यूपच्छेद आम्नातः। तदेतत्सर्वं सुत्यादिनात्प्राचीन औपवसथ्ये दिने प्राप्तम्। तत्र यूपच्छेदो दिनत्रयात्पूर्वस्मिन्दीक्षाकालेऽपकृष्टः। दीक्षासु यूपं छिनत्तीति तद्विधानात्। तम्मिन्नपकृष्टे प्रयाजन्यायेन तदन्ताङ्गसमूहस्यापकर्षात्प्रणयनमप्यपकृष्यतामिति प्राप्ते ब्रूमः – प्रयाजाधारादीनामेकमेव प्रधानं प्रत्यङ्गत्वेनैकप्रयोगन्तःपातित्वादवश्यंभावी परस्परक्रम इति प्रयाजापकर्षे तदन्ताङ्गसमूहापकर्षो युक्तः। इह तु प्रणयनं सोमयागाङ्गम्। यूपच्छेदस्त्वग्नीषोमीयपशोरङ्गमिति प्रणयनच्चेदनयोर्नान्योन्यक्रमोऽपेक्षितः। तस्माछ्रुतस्य यूपच्छेदनमात्रस्यापकर्षः।
एकादशाध्यायस्य तृतीयपादे चिन्तितम् —
“ अग्नीषोमीयमुख्येषु यूपो भिन्नोऽथ तन्त्रता।
उपदेशातिदेशाभ्यां भिन्नो नो कालभेदतः ”॥ इति।
ज्योतिष्टोमे पशवोऽग्नीषोमीयसवनीयानुबन्ध्यास्त्रयो विहिताः। तेषु यूपभेदो युक्तः। कुतः। अग्नीषोमीये प्रत्यक्षवचनेन तदुपदेशादितरयोश्चोदकाभ्यामतिदेशादिति प्राप्ते ब्रूमः — न तावदग्नीषोमीयपशोः कर्मणः काले यूपस्योत्पत्तिः। (किंतु) ततः प्रागेव यूपोत्पत्तिकालः। दीक्षासु यूपं छिनत्ति क्रीते वा राजनीति तत्कालविधानात्। अत आधानवत्सर्वार्थत्वं संभवति। यथा स्वकाले संपन्नमाधानं तत्तद्वाक्यविशेषैस्तेषु तेषु कर्मसु संबध्यते तथा स्वकाले छेदनादिना निष्पन्नो यूपः प्रत्यक्षचोदकोक्तिभ्यां तत्र तत्र विनियुज्यते। तस्मात्तन्त्रेण यूपः संपादनीयः।
तत्रैव द्वितीयपादे चिन्तितम् —
“ यूपैकादशिनी यूपाहुतेर्भेदोऽथ तन्त्रता।
सामीप्यभेदादाद्योऽन्त्यः सामीप्यं दृष्टिगं यतः ”॥ इति।
यूपैकादशिन्यां चोदकप्राप्ता यूपाहुतिः प्रतियूपं भिद्यते। कुतः। यूपस्यान्तिकेऽग्निं मथित्वा यूपाहुतिं जुहोतीति तद्विधानात्सामीप्यानां च भेदादिति प्राप्ते ब्रूमः — न तावदत्यन्तसामीप्यं संभवति यूपदाहप्रसङ्गात्। अतो यावता व्यवधानेन यूपा दृष्टिगोचरा भवन्ति तावतो देशस्य समीपत्वमभ्युपेयम्। तथा सति देशैक्यसंभवादाहुतेस्तन्त्रता।
षष्ठस्य तृतीयपादे चिन्तितम् —
“ अमुख्ये संस्कृते मुख्यलाभे किं ग्राह्यमेतयोः।
अमुख्यस्तक्षणाद्यूपः खादिरस्तक्षणात्पुनः ”॥ इति।
यदा यूपार्थं खदिरमलब्ध्वा कदरे तक्षणादिसंस्कृते सति पश्चान्मुख्यः खदिरो यदि पशुनियोजनात्प्रागेव लभ्यते तदा तक्षणादिसंस्कृतः प्रतिनीधिः कदर एव ग्राह्यः, असंस्कृतात्संस्कृतस्य प्रशस्तत्वादिति चेन्त्मैवम्। मुख्ये खदिरे लब्धे पुनस्तक्षणादिसंस्कारः कर्तव्यः। तथा सति संस्कृतस्य मुख्यस्य लाभात्प्रतिनिधिः संस्कृतोऽपि परित्याज्यः।
तत्रैवान्यच्चिन्तितम् —
“ पशौ नियुक्ते खदिरलाभे कार्यं पुनर्न वा।
साद्गुण्याय पुनः कार्यं मुख्यावृत्तिर्गुणान्न हि ”॥ इति।
यदा संस्कृते प्रतिनिधौ पशुर्नियुज्यते तत ऊर्ध्वं खदिरो यदि लभ्येत तदाऽपि पूर्वन्यायेन मुख्यलाभात्साद्गुण्याय मुख्ये यूपे पुनर्नियोजनं कार्यमिति चेन्मैवम्। गुणभूतो यूपः, पशुनियोजनं प्रधानं, न हि गुणानुसारेण प्रधानस्याऽऽवृत्तिर्युक्ता। त्समान्न नियोजनं पुनः कार्यम्।
तत्रैवान्यच्चिन्तितम् —
“ अमुख्यमुख्ये संस्कारयोग्यायोग्ये तदा तु किम्।
आद्यो बहुगुणालोपान्न मुख्यायास्तु लोपनम् ”॥ इति।
यदाऽमुख्यः कदरः स्थूलत्वात्तक्षणादिसंस्कारयोग्यः, मुख्यस्तु खदिरः सूक्ष्मत्वादयोग्यस्तदा तक्षणादिबहुगुणलोपो मा भूदिति प्रतिनिधिरेवाऽऽदरणीय इति चेन्मैवम्। मुख्यसिद्धये गुणलोपस्य सोढुं शक्यत्वात्। तस्मात्कृशोऽपि मुख्य एवोपादेयः।
तत्रैवान्यच्चिन्तितम् —
“ नियोजनेऽप्ययोग्यश्चेत्खदिरः किं तदा भवेत्।
मुख्यत्वेन स एव स्यात्तद्वैयर्थ्येन हीतरः ”॥ इति॥
यदा त्वत्यन्तकृशत्वात्तक्षणादिरहितोऽपि खदिरो नियोजनेऽप्ययोग्यस्तदाऽपि मुख्यत्वात्खदिर एवोपादेय इति चेन्मैवम्। उपात्तस्य प्रयोजनाभावान्नियोजनयोग्यः प्रतिनिधिरेव ग्राह्यः।
अत्र नास्ति च्छन्दः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके पञ्चमोऽनुवाकः ॥५॥

(अथ प्रथमकाण्डे तृतीयप्रपाठके षष्ठोऽनुवाकः)।
पञ्चमेऽनुवाके यूपच्छेदो वर्णितः। छिन्नस्य यूपस्य स्थापनं षष्ठेऽनुवाके वर्ण्यते। पृथिव्या इति। कल्पः — “ यूप एष प्रक्षालितः प्रपन्नः संपन्नचषालः प्रागवटादुपशेते तमुत्तरेणाऽऽहवनीयं तिष्ठन्पराञ्चं प्रोक्षति पृथिव्यै त्वाऽन्तारिक्षाय त्वा दिवे त्वेति ” इति।
प्रोक्षामीति शेषः। चषालो यूपाग्रे प्रतिमुच्यमानः कटकः।
लोकत्रयाभिमानिदेवताप्रीत्यर्थं प्रोक्षणमित्वाह —
“ पृथिव्यै त्वाऽन्तारिक्षाय त्वा दिवे त्वेत्याहैभ्य एवैनं लोकेभ्यः प्रोक्षति ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ४] इति।
नात्रौदुम्बर्या इवाग्रमारभ्याधोमुखप्रोक्षणं किंतु मूलमारभ्योर्ध्वमुखमिति विधत्ते —
‘ पराञ्चं प्रोक्षति पराङिव हि सुवर्गो लोकः ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
शुन्धतामिति। कल्पः — ‘ अवटेऽपोऽवनयति शुन्धतां लोकः पितृषदन इति, यवान्प्रस्कन्दयति यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति, बर्हिर्हस्तं व्यतिषज्यावस्तृणाति पितृणाँ सदनसीति ” इति।
यूपस्थापनार्थो योऽवटस्तास्मिन्प्रोक्षणशेषं निनीय यवान्प्रक्षिप्य बर्हिर्मुष्टेरर्धं प्रागग्रमर्धमुदगग्रमित्येवं व्यतिषज्य वर्हिरवस्तृणीयात्।
एतानर्थान्विधत्ते — ‘ क्रूरीमव वा एतत्करोति यत्खनत्यपोऽव नयति शान्त्यै यवमतीरव नयत्यूर्ग्वै यवो यजमानेन यूपः संमितो यावानेव यजमानस्तावतीमेवास्मिन्नूर्जं दधाति पितृणाँ सदनमसीति ब्रर्हिरव स्तृणाति पितृदेवत्यँ ह्येतद्यन्निखातं यद्बर्हिरनवस्तीर्य मिनुयात्पितृदेवत्यो निखातः स्याद्बर्हिरवस्तीर्य मिनोत्यस्यामेवैनं मिनोति, ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
यद्यप्यत्र यूपावटखननं नाऽऽम्नातं तथाऽप्यौदुम्बर्यामाम्नातं तस्येहानुवृत्तिमभिप्रेत्य यत्खनतीत्यनूद्यते। तदनुवृत्तये समानविषयत्वं प्रत्यभिज्ञापयितुं तत्र विहितमप्यवनयनादिकं पुनरत्र विधीयते।
स्वावेश इति। कल्पः – “ यूपशकलमवास्यति स्वावेशोऽस्यग्रेगा नेतृणां वनस्पतिरधि त्वा स्थास्यति तस्य वित्तादिति ” इति।
शोभन आवेशो यूपोवस्थितिलक्षणो यस्मिन्प्रथमशकले स स्वावेशः। हे शकल त्वं स्वावेशोऽसि। यूपस्य त्रयो नेतारः प्रथमशकलः स्वरुश्चषालश्चेति। तेषां नेतृणां मध्ये त्वमग्रेगा प्रथमभावी। वनस्पतिरूपो यूपस्त्वामधिष्ठास्यति। तस्य वित्तात्, तं यूपमनुजानीहि।
विधत्ते — “ यूपशकलमवास्यति सतेजसमेवैनं मिनोति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
यत्पूर्वोक्तं स्वधितेर्वृक्षस्य बिभ्यतः प्रथमेन शकलेन सह तेजः परापततीति शकले प्रक्षिप्ते सति तेन तेजसा सहितमेवैनं यूपं स्थापितवान्भवति।
देवस्त्वेति। कल्पः — “ अथ प्रवृह्य चषालं यूपस्याग्रमनक्ति देवस्त्वा सविविता मध्वाऽनक्त्विति ” इति।
मध्वा मधुरेण तेजोरूपेणाऽऽज्येन।
तदिदं दर्शयति — “ देवस्त्वा सविता मध्वाऽनक्त्वित्याह तेजसैवैनमनक्ति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
सुपिप्पलाभ्य इति। कल्पः – “ अन्तरश्च बाह्यतश्च स्वभ्यक्तं कृत्वा चषालं प्रतिमुञ्चति सुपिप्पलाभ्य इति ” इति।
यूपस्याग्रभागः पूर्वमाच्छिन्नो रायः सुवीर इति मन्त्रेण च्छिन्नस्तेन निष्पादितश्चतुरङ्गुलोछ्रितः सच्छिद्रश्चषालः। हे चषाल त्वां यूपाग्रे प्रतिमुञ्चामि। किमर्थम्। शोभनफलसंयुक्तौषध्यर्थम्।
विधत्ते — “ सपिप्पलाभ्यस्त्वौषधीभ्य इति चषालं प्रति मुञ्चति तस्माच्छीर्षत ओषधयः फलं गृह्णन्ति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
यस्मात्फलार्थमग्रे चषालः प्रतिमुक्तस्तमस्माच्छिरस्यग्रे फलग्रहणम्।
विधत्ते — “ अनक्ति तेजो वा आज्यं यजमानेनाग्निष्ठाऽश्रिः संमिता यदग्निष्ठामश्रिमनक्ति यजमानमेव तेजसाऽनक्त्यान्तमनक्त्यान्तमेव यजमानं तेजसाऽनक्ति ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ४ ] इति।
तक्षणेन निष्पादितास्वष्टासु यूपाश्रिषु मध्ये येयमाहवनीयाग्निसमीपे स्थिता साऽग्निष्ठा तामाज्येनानक्ति। तदिदमञ्जनममन्त्रकमिति बौधायनस्य मतम्। अथ स्रुवेणाग्निष्ठामश्रिमभिघारयन्नाह यूपायाज्यमानायानुब्रूहीत्येतावत एवाभिधानात्।
आपस्तम्बस्तु समन्त्रकतामाह – “ देवस्त्वा सविता मध्वाऽनक्त्विति स्रुवेण संततमविच्छिन्दन्नग्निष्ठामश्रिमनक्त्योपरात् ” इति।
अवटे क्षिप्यमाणो मूलभाग उपरम्। मूलतोऽतष्टमुपरमिति।
विधत्ते — “ सर्वतः परि मृशत्यपरिवर्गमेवास्मिन्तेजो दधाति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
यजमाने कमप्यवयवमवर्जयित्वा तेजो दधाति।
अद्दिवमिति। कल्पः – ‘ उच्छ्रयत्युद्दिवँ स्तभानाऽन्तरिक्षं पृण पृथिवीमुपरेण दृँहोति ” इति।
वाक्यत्रयप्रयोजनमाह — “ उद्दिवँ स्तभानाऽन्तरिक्षं पृणेत्याहैषां लोकानां विधृत्यै ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
बौधायनः — “ अथैनं वैष्णवीभ्यामृग्भ्यां कल्पयति ते ते धामानि विष्णोः कर्माणि पश्यतेति द्वाभ्यां स यत्राग्निष्ठामश्रिमाहवनीये संपादयति तद्यूपस्य चषालं परीक्षयति तद्विष्णोः परमं पदँ सदा पश्यन्ति सूरयः। दिवीव चक्षुराततमिति ” इति।
आपस्तम्बः — “ ते ते धामानीत्यवटेऽवदधाति विष्णोः कर्माणि पश्यतेति द्वाभ्यामाहवनीयेनाग्निष्ठाँ संमिनेति ” इति।
आद्यो मन्त्र एवमाम्नातः —
ते ते धामानीति। ते तानि, ते तव धामानि स्थानानि उश्मसि कामयामहे गमध्ये गन्तुं, गावो गन्तारः, भूरिशृङ्गा बहुदीप्तयः, अयासोऽनपायाः, अह, एव। उरगायस्य महात्मभिर्गीयमानस्य, भूरेर्महतः। हे यूपाभिमानिन्विष्णो तव तानि स्थानानि गन्तुं कामयामहे। येषु गन्तारो बहुदीप्तयो वर्तन्ते न कदाचिदपयन्ति। एष्वेव स्थानेषु महात्मभिर्गीयमानस्य महतो विष्णोस्तत्परमं पदमवभाति। तादृशस्थानप्राप्तिहेतवे कर्मणे यूपोऽस्मिन्नवटे तिष्ठतु।
विधत्ते — ‘ वैष्णव्यर्चा कल्पयति वैष्णवो वै देवतया यूपः स्वयैवैनं देवतया कल्पयति ’ (सं॰ का॰ ६ प्र॰ २ अ॰ १०) इति।
ते ते धामानीत्यसौ वैष्णवी। कल्पयति उच्छ्रयेत्।
मन्त्रान्तरं त्वेवमाम्नातम् — विष्णोरिति। हे जना विष्णोः कर्माणि सृष्टिस्थितिसंहारचरितानि पश्यत, यतो यैः कर्मभिर्व्रतानि भवदीयलौकिकवैदिककर्माणि पस्पशे सृष्टवान्निर्मितवान्। स विष्णुरिन्द्रस्य युज्यो योग्यः सखा।
तद्विष्णोरिति। तद्विष्णोरिति मन्त्रस्यायमर्थः — सूरयो विद्वांसो वेदान्तपारंगता विष्णोस्तत्परमं पदं स्वरूपं सदा पश्यन्ति। कीदृशं दिव्याकाशे निरावरणे प्रसृतं चक्षुरिवाऽऽततं व्याप्तम्। तादृशस्य विष्णोरनुग्रहाद्वैष्णवस्य यूपस्याग्निष्ठामश्रिमाहवनीयेन संमितां स्थापयामीत्यर्थः।
अस्मिन्स्थापने विष्णोः कर्माणि तद्विष्णोरिति मन्त्रद्वयं विनियुङ्क्ते —
‘ द्वाभ्यां कल्पयति द्विपाद्यजमानः प्रतिष्ठित्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
ते ते धामानीत्यादीनां त्रयाणां मन्त्राणां पदार्था उपेक्षिताः।
अग्निष्ठाश्रिस्थापने पूर्वपक्षं दर्शयति —
‘यं कामयेत तेजसैनं देवताभिरिन्द्रियेण व्यर्धयेयमित्यग्निष्ठां तस्याश्रिमाहवनीयादित्थं वेत्थं वाऽति नावयेत्तेजसैवैनं देवताभिरिन्द्रियेण व्यर्धयति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
तक्षणवेलायामष्टास्वश्रिषु कांचिदाश्रिमियमाग्निष्ठेति प्रज्ञातां कुर्यात्। तामश्रिं यूपस्य पश्चिमभागे स्थितादा(तमा)हवनीयमतिलङ्घ्य दक्षिणत उत्तरतो वा नावयेत्प्रापयेत्। तथा सति तेजआदिभिर्व्यर्धयति वियोजयति।
सिद्धान्तं दर्शयति —
‘ यं कामयेत तेजसैनं देवताभिरिन्द्रियेण समर्धयेयमित्यग्निष्ठां तस्याश्रिमाहवनीयेन सं मिनुयात्तेजसैवैनं देवताभिरिन्द्रियेण समर्धयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति। संमिनुयात्संमुखां स्थापयेत्।
ब्रह्मवनिमिति। कल्पः — ‘ अथैनं प्रदक्षिणं पर्यूहति ब्रह्मवनिं त्वा क्षत्रावनिँ सुप्रजावनिँ रायस्पोषवनिं पर्यूहामीति, मैत्रावरुणदण्डेन संहन्ति ब्रह्म दृँह क्षत्रं दृँह प्रजां दृँह रायस्पोषं दृँहेति ’ इति।
मन्त्रयोः स्पष्टार्थतां दर्शयति — ‘ब्रह्मवनिं त्वा क्षत्रवनिमित्याह यथायजुरेवैतत्” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
परिवीरिति। कल्पः — ‘ प्रदक्षिणं परिव्ययति परिवीरसि परि त्वा दैवीर्विशो व्ययन्तां परीमँ रायस्पोषो यजमानं मनुष्या इति ’ इति।
हे यूप त्वं परिवीरसि परितो रशनया वीतो वेष्टितोऽसि। दैवीर्विशो देवसंबन्धिन्यः प्रजा मरुद्गणादयस्त्वां परितो व्ययन्तां वेष्टयन्तु। तद्वदिमं यजमानं धनपुत्रभृत्यादिमनुष्याश्च परिव्ययन्तु।
अन्तरिक्षस्येति। कल्पः — ‘ स्वरुमादायान्तरिक्षस्य त्वा सानावव गूहामीत्युत्तरेणाग्निष्ठां मध्यमे रशनागुणेऽवगूहति ’ इति।
हे स्वरो त्वामन्तरिक्षलोकमध्यवर्तिनो रशनागुणस्य सानौ पार्श्वेऽवगूढं करोमि मन्त्रयोरर्थ उपेक्षितः।
विधत्ते — ‘ परि व्ययत्यूर्ग्वै रशना यजमानेन यूपः संमिता यजमानमेवोर्जा समर्धयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
ओषधिविशेषैर्दर्भैरुत्पन्नत्वाद्रशनाया ऊर्ग्रूपत्वम्। तया यूपस्य संबन्धे सति यूपप्रमाणहेतुर्यजमान एवान्नेन समृद्धो भवति। रशनाया मध्यमगुणस्य देशं विधत्ते ‘नाभिदघ्ने परि व्ययति नाभिदघ्न एवास्मा ऊर्जं तधाति तस्मान्नाभिदघ्न ऊर्जा भुञ्जते’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति। अस्मा अस्य यजमानस्य नाभिदघ्न उदर ऊर्जं स्थापयति। ततः सर्वे तत्रोर्जा भुञ्जते भुक्तामूर्जं धारयन्ति।
नाभिदघ्नप्रशंसार्थं निन्द्यं पक्षमुपन्यस्यति — ‘यं कामयेतोर्जैनं व्यर्धयेयमित्यूर्ध्वां वा तस्यावाचीं वाऽवोहेदूर्जैवैनं व्यर्धयति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
उदरसदृशान्नाभिदघ्नादूर्ध्वमधो वा रशनावेष्टने यजमानमन्नेन वियोजयति।
कामनाभेदेन देशविशेषं विधत्ते — ‘यदि कामयेत वर्षुकः पर्जन्यः स्यादित्यवाचीमवोहद्वृष्टिमेव नियच्छति यदि कामयेतावर्षुकः स्यादित्यूर्ध्वामुदूहेद्वृष्टिमेवाद्यच्छति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
नाभिदघ्नदेशादवाचीनमधोदेशे बद्धां पुनरप्यवोहेदपकर्षेत्तेन वृष्टिं नियच्छति न्यग्भावेन प्रवर्तयति। ऊर्ध्वप्रदेशे बद्धां पुनरप्युदूहेदुत्कर्षेत्तेन वृष्टिमुद्यच्छति ऊर्ध्वं प्रवर्तयति निवारयतीत्यर्थः।
यूपं सर्वदेवताप्रीतिहेतुतया स्तौति — ‘ पितॄणां निखातं मनुष्याणामूर्ध्वं निखातादा रशनाया ओषधीनाँ रशना विश्वेषां देवानामूर्ध्वँ रशनाया आ चषालादिन्द्रस्य चषालँ साध्यानामतिरिक्तँ स वा एष सर्वदेवत्यो यद्यूपो यद्यूपं मिनोति सर्वा एव देवताः प्रीणाति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
निखातमुपरं पितॄणां प्रियं, निखातरशनादेशयोर्मध्यं मनुष्याणां रशनादेश ओषधीनां, तद्देशचषालयोर्मध्यं विश्वेषां देवानां चषालदेश इन्द्रस्य, अतिरिक्तं तु साध्यानाम्। तच्च सूत्रे दर्शितम् — ‘ यावदुत्तममङ्गुलिकाण्डं तावदूर्ध्वं चषालाद्यूपस्यातिरिक्तं द्व्यङ्गुलं त्र्यङ्गुलं वा ’ इति।
पुनरपि स्वर्गलोकावगतिहेतुतया यूपं स्तौति —
यज्ञेन वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति ते यूपेन योपयित्वा सुवर्गं लोकमायन्तमृषयो यूपेनैवानु प्राजानन्तद्यूपस्य यूपत्वं यद्यूपं मिनोति सुवर्गस्य लोकस्य प्रज्ञात्यै ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ४] इति।
देवाः पुरा कदाचिद्यज्ञं कृत्वा तेन यज्ञेन स्वर्गं गच्छन्तो मनुष्या अप्यस्मानन्वागत्यास्मत्सदृशास्ते भविष्यन्तीति मत्वा यूपेन मनुष्यान्योपयित्वा मोहयित्वा स्वयमेव स्वर्गं गताः। यूपः सर्वदेवत्य इत्यज्ञात्वा काष्ठमात्ररूप इति बुद्धिर्मोहः। ऋषयस्तु यूपमाहात्म्यस्यातीन्द्रियस्यापि द्रष्टारस्तेनैव विदिततत्त्वेन यूपेन देवाननु तं स्वर्गं प्रज्ञातवन्तः। तत्तस्मान्मनुष्यमोहनहेतुत्वाद्यूपस्य यूपत्वं यूपनाम संपन्नम्। ‘ यू(यु)प विमोहने ’ इत्यस्माद्धातोर्यूपशब्दो निष्पन्नः। एवं च सति विदतमाहात्म्यस्य यूपस्य स्थापनेन स्वर्गः प्रज्ञायते।
आहवनीयात्पूर्वदेशे यूपस्थापनाय विधत्ते — ‘ पुरस्तान्मिनोति पुरस्ताद्धि यज्ञस्य प्रज्ञायते प्रज्ञातँ हि तद्यदतिपन्न आहुरिदं कार्यमासीदिति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
अत्र सूत्रम् — ‘अग्रेणाऽऽहवनीयं यूपावटं परिलिखत्यर्धमन्तर्वेद्यर्धं बहिर्वेदि’ इति। विधिवाक्ये पुरस्ताच्छब्दः पूर्वदेशवाची। अर्थवादे तु पूर्वकालवाची। यज्ञस्य संबन्धि यत्कर्तव्यमङ्गजातं तत्सर्वमनुष्ठानात्पूर्वमेव प्रज्ञायते। तथा च ब्राह्मणान्तरे — ‘आ चतुर्थात्कर्मणोऽभिसमीक्षेतेदं करिष्यामीदं करिष्यामि’ इति। यत्तु पूर्वं न ज्ञातं तत्पश्चाद्बुद्धमपि सदज्ञातमेव यस्माल्लोके विस्मरणेनान्यथाकरणेन वा कस्मिंश्चिदनुष्ठेयेऽतिपन्ने विनष्टे सति पश्चात्क्लिश्यन्त आहुरिदं गमनादिकमध्ययनादिकं वा तस्मिन्नेव दिने कार्यमासीन्न चास्माभिस्तदानीं प्रज्ञातमिति। तस्मात्पूर्वकालस्य प्रज्ञानार्हत्वेन प्रशस्तत्वात्पूर्वदेशोऽपि पूर्वत्साम्येन प्रशस्तः।
यदुक्तं चषालादतिरिक्तं साध्यानामिति तत्समर्थ्यते —
“ साध्या वै देवा यज्ञमत्यमन्यन्त तान्यज्ञो नास्पृशत्तान्यद्यज्ञस्यातिरिक्तमासीत्तदस्पृशदतिरिक्तं वा एतद्यज्ञस्य यदग्नावग्निं मथित्वा प्रहरत्यतिरिक्तमेतद्यूपस्य यदूर्ध्वं चषालत्तेषां तद्भागधेयं तानेव तेन प्रीणाति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
साध्यनामका देवाः पुरा यज्ञं क्लृप्तं यज्ञभागमतिलङ्घ्याधिको भागोऽस्माकमस्त्वित्यमन्यन्त। तानधिकं लिप्समानान्यज्ञो नास्पृशत्। तर्हि किमस्पृशत्। यद्यज्ञस्यातिरिक्तमिहाऽऽसीत्तत्तानस्पृशत्। किमतिरिक्तम्। यदग्नावग्निं मथित्वा प्रहरणमस्ति एतदन्ययज्ञेऽभावादिहातिरिक्तम्। यदपि चषालादूर्ध्वं यूपाग्रमेतदपि यजमानपरिमाणादधिकत्वादतिरिक्तम्। तदुभयं साध्यानां प्रीतिहेतुः।
यूपप्रसङ्गात्स्वकाले स्वरुहोमं विधत्ते —
‘ देवा वै सँस्थिते सोमे प्र स्रुचोऽहरन्प्र यूपं तेऽमन्यन्त यज्ञवेशसं वा इदं कुर्म इति ते प्रस्तरँ स्रुचां निष्क्रयणमपश्यन्त्स्वरुं यूपस्य सँस्थिते सोमे प्र प्रस्तरँ हरति जुहोति स्वरुमयज्ञवेशसाय ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
पुरा देवाः समाप्ते सोमयज्ञे स्रुचो यूपं चाग्नौ प्राहरन्नग्नौ प्रहर्तुं संकल्पितवन्तः। ततो यज्ञविनाशो मा भूदिति विचार्य प्रस्तरेण स्रुचः स्वरुणा यूपं च निष्क्रीतवन्तः। तस्मात्सोमसमाप्तौ प्रस्तरमग्नौ प्रहरेत्स्वरुं च जुहुयात्। स्वरुर्यूपतक्षणे प्रथमः शकलः। तथा च सूत्रम् —
‘ अवतक्षणानां स्वरुमधिमन्थनशकलम् ’ इति।
अत्र विनियोगसंग्रहः —
‘ पृथिषट्कं पुरेवात्र स्वावे प्रथमपातितम्।
शकलं चावटे क्षिप्त्वा देवोऽग्निष्ठाश्रिकाञ्चनम् ॥१॥
सुप्यारोपश्चषालाग्रे ह्युद्दि यूपं समुच्छ्रयेत्।
ते तेऽवटे क्षिपेद्विष्णोर्द्वाभ्यां यूपस्य कल्पनम् ॥२॥
ब्रह्मद्वयं गतं यूपो [पे] रज्ज्वा संवेष्टनं परि।
अन्त स्वरुं तत्र गूहेदिति सप्तदशेरिताः ॥३॥ ” इति।
अथ मीमांसा।
तृतीयाध्यायस्य सप्तमपादे चिन्तितम् —
अन्तर्वेदि मिनोत्यर्धं यूपाङ्गमुत लक्षयेत्।
देशं यूपाङ्गभावेन वेदिभागोऽत्र चोद्यते॥
बहिर्वेद्यर्धमित्येतद्वाक्यं भिद्येत तद्विधौ।
मीयमानस्य यूपस्य तावान्देशोऽत्र लक्ष्यते ” इति॥
अग्नीषोमीये पशौ यूपं मिनोतीति प्रकृत्य श्रूयते — ‘अर्धमन्तर्वेदि मिनोत्यर्धं बहिर्वेदि ’ इति।
यूपं स्थापयितुं कियाद्विस्तारवानवटोऽपेक्षित इति बुभुत्सायां तन्निर्णयायैतन्मूलस्य स्थौल्यमङ्गुल्यादिभिर्मातव्यम्। तस्य च मीयमानस्य वेद्यभ्यन्तरभागोऽङ्गत्वेन विधीयत इति चेन्मैवम्। यथा संस्कृतो वेद्यभ्यन्तरभागोऽधर्मन्तर्वेदीत्यनेन वाक्येन विधीयते तद्वदसंस्कृतो वेदिबहिर्भागोऽप्यर्धं बहिर्वेदीत्यनेन वाक्येन विधातव्यः। ततो वाक्यं भिद्येत। यदा तु वेदेरभ्यन्तरबाह्यभागाभ्यामुपलक्षितोऽसंस्कृतो लौकिको देशो मीयमानयूपोचितो विधीयते तदा नास्ति वाक्यभेदः। तस्माल्लौकिकदेश एवात्र यूपाङ्गत्वेन विधीयते न तु संस्कृतवेदिभागः।
अथ च्छन्दः — ते ते धामानीति त्रिष्टुप्। विष्णोः कर्माणि तद्विष्णोरित्युभे गायत्र्यौ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके षष्ठोऽनुवाकः ॥६॥

(अथ प्रथमकाण्डे तृतीयप्रपाठके सप्तमोऽनुवाकः)।
षष्ठेऽनुवाके यूपस्थापनमुक्तम्। तस्मिन्यूपे पशुं नियोक्तुमुपाकरणमस्मिन्सप्तमेऽनुवाकेऽभिधीयते। इषे त्वेति। बौधायनः — “अथैवं पशुं पल्पूलितमन्तरेण चात्वालोत्करौ प्रपाद्याग्रेण यूपं पुरस्तात्प्रत्यङ्मुखं स्थापयति तमिषे त्वेति बर्हिषी आदायोपाकरोति उपवीरस्युपो देवान्दैवीर्विशः प्रागुर्वह्नीरुशिजो बृहस्पते धारया वसूनि हव्या ते स्वदन्तां देव त्वष्टर्वसु रण्व रेवती रमध्वमिति ” इति।
पल्पूलितं स्नपितम्।
आपस्तम्बः – “ इषे त्वेति बर्हिषी आदत्त उपवीरसीति प्लक्षशाखां बर्हिर्भ्यां प्लक्षशाखया च पुरस्तात्प्रत्यञ्चं पशुमुपाकरोति उपो देवान्दैवीर्विश इति ” इति। हे बर्हिरिषे पशुलक्षणाय देवान्नायेष्यमाणाय त्वामाददे। बर्हिरिति जातावेकवचनम्। उपाकर्तुं वेति गच्छतीत्युपवीः। हे प्लक्षशाखे त्वमुपवीरसि। उपोसमीपे प्रागुः प्राप्ताः। के, उपक्रियमाणपशुसंबन्धिहृदयाद्यवयवां इत्यर्थाल्लभ्यते। कान्प्राप्ताः, देवानग्नीषोमादीन्दैवीर्विशस्तद्देवसंबन्धिनीः प्रजाश्च। किंच वह्नीर्यागनिर्वाहकानुशिजः शेषभक्षणकामान्प्राप्ताः। हे बृहस्पते वसूनि हृदयादिद्रव्याणि धारय पोषय। हे पशो ते त्वदीयानि हव्यानि स्वदन्तां स्वादूनि भवन्तु। हे देव त्वष्टुनामक वसु पशुद्रव्यं रण्व रमणीयं कुरु। हे रेवतीः क्षीरादिघनन्तः पशवो रमध्वं यजमानगृहे क्रीडध्वम्। अग्नेरिति। कल्पः — “अग्नेर्जनित्रमसीत्यधिमन्थनशकलं निदधाति, वृषणौ स्थ इति प्राञ्चौ दर्भौ, उर्वश्यसीत्यधरारणिमादत्ते, पुरूरवा इत्युत्तरारणिं, घृतेनाक्ते वृषणां दधाथामित्युभे अभिमन्त्र्याऽऽयुरसीति समवधाय ” इति। हे शकल त्वमग्नेर्जनकमसि। हे दर्भौ युवां वृषणौ वीर्यसेचकौ स्थः। हेऽधरारणे त्वमुर्वश्या सदृशी भवसि। हे उत्तरारणे त्वं पुरूरवसा सामानाऽसि। हे उभे अरणी युवां घृतेनाक्ते सत्यौ सेचनं पोषयतम्। हेऽरणिद्वय मातापितृस्थानीय त्वमायुरसि यज्ञस्याऽऽयुस्थानीयमसि। पुत्रस्थानीयं वह्निमुत्पाद्य यज्ञाभिवृद्धिकरत्वात्। यद्यप्यत्र पाठक्रमेणेषे त्वेत्यादय उपाकरणमन्त्रा व्याख्यातव्यास्तथाऽपि पूर्वानुवाके प्रसङ्गाद्यदुक्तमतिरिक्तं वा एतद्यज्ञस्य यदग्नावग्निं मथित्वा प्रहरतीति तद्विस्पष्टयितुमादावग्निमन्थनमन्त्रान्व्याचिख्यासुर्मन्थनविशिष्टमग्निप्रहरणं विधत्ते —
“ साध्या वै देवा अस्मिल्लोँक आसन्नान्यत्किंचन मिषत्तेऽग्निमेवाग्नये मेधायाऽऽलभन्त न ह्यन्यदालम्भ्यमविन्दन्ततो वा इमाः प्रजाः प्राजायन्त यदग्नावग्रिं मथित्वा प्रहरति प्रजानां प्रजननाय ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ५] इति।
मनुष्यपश्वादिसृष्टेः पुरा लोके साध्यनामका देवा एवाऽऽसन्। अन्यत्किमपि मिषत्प्राणिजातं नाऽऽसीत्। ते च साध्याः प्रजाकामास्तद्धेतवे यज्ञायाऽऽलभन्त(म्भन) योग्यमन्यत्पशुजातमलब्ध्वाऽग्निमेव पशुत्वेनाग्नये देवताया आलभन्त पुरुषारण्यपशुन्यायेन पर्यग्निकरणान्तासंस्कारानकुर्वत। तथा चाश्वमेधकाण्डे श्रूयते — “पर्यग्निकृतं पुरुषं चाऽऽरण्याँश्चोत्सृजन्त्यहिँसायै” इति। ततोऽग्न्यालम्भनरूपाद्यज्ञादेव प्रजा असृजन्त। तस्मात्पूर्वसिद्धाग्नौ मथिताग्नेः प्रहरणं प्रजोत्पत्तये भवति।
अथ मन्थनकालश्चिन्त्यते – उपाकरणमारभ्य मारणपर्यन्तो व्यापार आलम्भशब्दार्थः, किं तस्मादालम्भादूर्ध्वमग्निर्निर्मन्थनीय आहोस्विदुपाकरणानन्तरमिति। तत्र प्रथमपक्षे दोषमाह —
“ रुद्रो वा एष यदग्निर्यजमानः पशुर्यत्पशुमालभ्याग्निं मन्येद्रुद्राय यजमानमपि दध्यात्प्रमायुकः स्यात् ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ५) इति। रुद्रः क्रूरः। पशोर्यजमाननिष्क्रयणरूपत्वात्पशुरेव यजमानः। ततः आलम्भादूर्ध्वमग्निमन्थने हविर्भूतं यजमानमपि रुद्राय दद्यात्। ततो यजमानो मरणशीलः स्यात्।
तस्मिन्नेव पक्षे गुणमपि दर्शयति —
“ अथो खल्वाहुरग्निः सर्वा देवता हविरेतद्यत्पशुरिति यत्पशुमालभ्याग्निं मन्थति हव्यायैवाऽऽसन्नाय सर्वा देवता जनयति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ५) इति।
“ ते देवा अग्नौ तनूः संन्यदधत। तस्मादाहुः। अग्निः सर्वा देवताः ” इति श्रुतेरग्नेः सर्वदेवतारूपत्वम्। पशोर्हविष्ट्वं प्रसिद्धम्। तथा सत्यालभ्य मन्थने प्रत्यासन्नाय हविषे सर्वा देवता जनयति संनिधापयति।
द्वितीयपक्षं सिद्धान्तत्वेनोपादत्ते —
“उपाकृत्यैव मन्थ्यस्तन्नेवाऽऽलब्धं नेवानालब्धम्” [सं॰ का॰ ६ प्र॰ ३ अ॰ ३] इति।
उपाकरणेनाऽऽलम्भ उपक्रान्तोऽतो यथोक्तगुणः सिध्यति। अमारणेनासमाप्तत्वाद्यथोक्तदोषो न भविष्यति।
द्वयोर्मन्त्रयोरर्थे प्रसिद्धिं दर्शयति —
“ अग्नेर्जनित्रमसीत्याहाग्नेर्ह्येतज्जनित्रं वृषणौ स्थ इत्याह वृषणौ ह्येतौ ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ५) इति।
स्त्रीमन्त्रपुरुषमन्त्रतत्समवधानमन्त्रैर्मिथुनत्वसिद्धिं दर्शयति — “ उर्वश्यस्यायुरसीत्याह मिथुनत्वाय ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
वृषणशब्देन निषिक्तवीर्यस्थानीय उत्पाद्यो वह्निर्विवक्षित इत्याह — “ घृतेनाक्ते वृषणं दधाथामित्याह वृषणँ ह्येते दधाते ये अग्निम् ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ५) इति।
ये अधरोत्तरारणी वह्निं धारयत एते वृषणं सिक्तवीर्यं दधाते इति मन्त्रेणोच्यते।
गायत्रमिति। बौधायनः — “ अथ प्रजातीर्वाचयति गायत्रं छन्दोऽनु प्र जायस्व त्रैष्टुभं जागतं छन्दोऽनु प्रजायस्वेति ” इति।
त्रैष्टुभमित्यत्र च्छन्द इत्यनुषङ्ग।
आपस्तम्बः – “ अग्नये मथ्यमानायानु ब्रूहीति संप्रेष्यति मथ्यमानायानुब्रूहीति वा, प्रथमायां त्रिरनूक्तायां त्रिः प्रदक्षिणमग्निं मन्थति गायत्रं छन्दोऽनु प्र जायस्वेति प्रथमं, त्रैष्टुभमिति द्वितीयं, जागतमिति तृतीयं, ततो यथाप्राशु मन्थति ” इति।
हेऽग्ने होत्रा पठ्यमानं गायत्रं छन्दोऽनुलक्ष्य त्वं प्रजायस्व। एवमितरत्रापि योज्यम्। प्राशु क्षिप्रमित्यर्थः।
छन्दसां साधनत्वमनेन मन्त्रेण दर्शितमित्याह — ‘गायत्रं छन्दोऽनु प्र जायस्वेत्याह छन्दोभिरेवैनं प्र जनयति’ (सं० का० ६ प्र० ३ अ० ५) इति।
होतारं प्रत्यध्वर्योः प्रैषमन्त्रमुत्पादयति — ‘अग्नये मथ्यमानायानु ब्रूहीत्याह ’ (सं० का० प्र० ३ अ० ५) इति।
होतुरभि त्वा देव सवितरित्येतामृचं विधत्ते — ‘ सावित्रीमृचमन्वाह सवितृप्रसूत एवैनं मन्थति ’ (सं० का० ६ प्र० ३ अ० ५) इति।
पुनः प्रैषद्वयमुत्पादयति — ‘ जातायानु ब्रूहि प्रह्रियमाणायानु ब्रूहीत्याह काण्डेकाण्ड एवैनं क्रियमाणे समर्धयति ’ (सं० का० ६ प्र० ३ अ० ५) इति।
मन्थनकाण्ड एकः। मथितस्य जन्मकाण्डोऽपरः। जातस्य पूर्वाग्नौ प्रहरणकाण्डोऽन्यः। तत्र सर्वत्र प्रैषे सति मन्त्रैरग्निः समृद्धो भवति।
होतृमन्त्रान्विधत्ते — ‘ गायत्रीः सर्वा अन्वाह गायत्रछन्दा वा अग्निः स्वेनैवैनं छन्दसा समर्धयति ’ (सं० का० ६ प्र० ३ अ० ५) इति।
मन्थनकालेऽनुवचनीया अभि त्वा देव सवितरित्याद्याः। जाते सति उत ब्रुवन्तु जन्तव इत्यादिकमनुब्रूयात्। प्रहरणकाले प्र देवं देववीतय इत्यादिकमनुब्रूयात्। ताः सर्वा ऋचो गायत्र्यः। अग्निश्च गायत्र्या सहोत्पन्नत्वाद्गायत्रछन्दाः।
कल्पः — ‘ भवतं नः समनसावित्यग्रेणोत्तरं परिधिमाहवनीये प्रहरति संधिना वाऽग्नावग्निश्चरति प्रविष्ट इति प्रहृत्य स्रुवेणाभिजुहोति ’ इति।
प्रपा ० ३ अनु० ७] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(यूपे पशुनियोजनार्थमुपाकरणाभिधानम्)
मन्त्रौ त्वेवमाम्नातौ —
भवतमिति। योऽग्निः पुराऽऽहवनीये वर्तते, यश्चेदानीं मथितस्तस्मिन्प्रह्रियते, तौ युवामस्मान्प्रति समनसौ समानमनस्कौ विप्रतिपत्तिरहितौ समोकसौ समाननिवासस्थानावरेपसौ पापचित्तरहितौ भवतम्। यज्ञस्य यज्ञपतेश्च हिंसां मा कुरुतम्। अद्यास्मिन्कर्मणि नोऽस्मान्प्रति शिवौ शान्तौ भवतम्। एष मथितोऽग्नि-राहवनीयाग्नौ प्रविष्टश्चरति। कीदृशः। ऋषीणां मन्त्राणामृत्विजां वा पुत्रः। तैरुत्पा-दितत्वात्। अधिकं राजत इत्याधिराजः। हे मथिताग्ने ते तुम्यं स्वाहाशब्दमुच्चार्य मन्त्रेण जुहोमि। देवानां भागधेयं मिथुया कः, मिथ्याभूतं मा कुरु।
शिवौ भवतमिति प्रार्थनायाः प्रसक्तिं दर्शयति —
‘ अग्निः पुरा भवत्याग्निं मथित्वा प्र हरति तौ संभवन्तौ यजमानमभि संभवतो भवतं नः समनसावित्याह शान्त्यै ’ [सं० का० ६ प्र० ३ अ० ५] इति।
यजमानं भक्षयितुमभिलक्ष्य परस्परसंयुक्तत्वात्तच्छान्त्यै प्रार्थनीयौ। अग्नाव-ग्निरिति मन्त्र उपेक्षितः।
विधत्ते— ‘ प्रहृत्य जुहोति जातायैवास्मा अन्नमपि दधात्याज्येन जुहोत्येतद्वा अग्नेः प्रियं धाम यदाज्यं प्रियेणैवैनं धाम्ना समर्धयत्यथो तेजसा ’ [सं० का० ६ प्र० ३ अ० ६] इति। समर्धयतीत्यन्वयः।
उत्तरभाविनोऽपि मन्थनमन्त्रा औत्सुक्येनाऽऽदौ व्याख्याताः। अथ पूर्वभाविन उपाकरणमन्त्रान्व्याचिख्यासुर्विधत्ते— ‘ इषे त्वेति बर्हिरा दत्त इच्छत इव ह्येष यो यजते ’ [सं० का० प्र० ३ अ० ६] इति।
एष यजमानो देवेभ्यो दातुं पशुरूपं हविरिच्छत्येव। तस्मादिष इत्युच्यते। पशुसमीपे देवानाह्वयतीति प्लक्षशाखोपवीरित्युच्यते, तदेतद्दर्शयति— ‘ उपवीरसीत्याहोप ह्येनानाकरोति ’ [सं० का० ६ प्र० ३ अ० ६] इति।
हृदयाद्यवयवा देवान्देवप्रजाश्च प्राप्ता इति यद्व्याख्यातं तत्प्रसिद्धमित्याह— ‘ उपो देवान्दैवीर्विशः प्रागुरित्याह दैवीर्ह्येता विशः सतीर्देवानुपयन्ति ’ (सं० का० ६ प्र० ३ अ० ६) इति।
यद्वा हृदयादय एव पदार्थत्वेन देवप्रजा भूत्वा देवान्प्राप्नुवन्ति।
वह्निशब्दो वाहकवाचीत्यभिप्रेत्य दर्शयति — ‘ वह्निरुशिज इत्याहर्त्विजो वै वह्नय उशिजस्तस्मादेवमाह ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
अत्र पशुप्रदत्वेन बृहस्पतिप्रार्थनमित्याह — ‘ बृहस्पते धारया वसूनीत्याह ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै पशूनव रुन्धे ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
हृदयादीनि स्वादूकर्तुमियमाशीरित्याह – ‘ हव्या ते स्वदन्तामित्याह स्वदयत्येवैनान् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
मिथुनरूपपशुप्रदत्वेन त्वष्टुः प्रार्थनमित्याह — ‘ देव त्वष्टर्वसु रण्वेत्याह त्वष्टा वै पशूनां मिथुनानाँ रूपकृद्रूपमेव पशुषु दधाति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
रेवतीशब्दः पशुपर इत्याह — ‘ रेवती रमध्वमित्याह पशवो वै रेवतीः पशूनेवास्मै रमयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
अत्र विनियोगसंग्रहः –
“ इषे बर्हिः समादत्त उपेति प्लक्षशाखिकाम्।
उपो पशुमुपाकृत्य ह्यग्नेः शकलसंस्थितिः ॥१॥
वृषात्र दर्भौ संस्थाप्य ह्युर्वारणिमधः क्षिपेत्।
पुरूत्तरां समादत्त आयुरित्युपरि क्षिपेत् ॥२॥
घृते संमन्त्र्य गायेति त्रिमिर्मथ्नाति निक्षिपेत्।
भव पूर्वानलेऽथाग्नौ होमो मन्त्राश्चतुर्दश ’ इति ॥३॥
अत्र विशेषमीमांसा नास्ति।
अथ च्छन्दः — भवतं न समनसाविति पङ्क्तिः। अग्नावग्निरिति त्रिष्टुप्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके सप्तमोऽनुवाकः ॥७॥

(अथ प्रथमकाण्डे तृतीयप्रपाठकेऽष्टमोऽनुवाकः)।
सप्तमेऽनुवाके पशोरुपाकरणं प्राधान्येनोक्तम्। अथोपाकृतस्य विशसनमष्टमेऽनुवाके विधीयते।
आ दद इति। बौधायनः – ‘अथ रशनामादत्ते देवस्य त्वा सवितुः प्रसवेऽश्वितोबार्हुभ्यां पूष्णो हस्ताभ्यामा दद इति ’ इति।
अत्राऽऽम्नात आ दद इति मन्त्रो देवस्य त्वेत्यनेन पूर्यते।
आपस्तम्बः — ‘ सावित्रेण रशनामादाय पशोर्दक्षिणे बाहौ परिवीयोर्ध्वमुत्कृष्यर्तस्य त्वा देवहविः पाशेनाऽऽरभ इति दक्षिणेऽर्धशिरसि पाशेनाक्ष्णया प्रतिमुच्य धर्षा मानुषानित्युत्तरतो यूपस्य नियुनक्ति दक्षिणत ऐकादशिनान् ’ इति।
हे रशने त्वामाददे। हे देवहविः पशो, ऋतस्य यज्ञस्य सिद्ध्यर्थं त्वां पाशेनावबध्नामि। हे विनियुज्यमानपशो देवत्वप्राप्त्या मानुषानुपद्रवांस्ताडनादीन्धर्षाभिभव।
विधत्ते — ‘ देवस्य त्वा सवितुः प्रसव इति रशानामा दत्ते प्रसूत्या अश्विनोर्बाहुभ्यामित्याहाश्विनौ हि देवानामध्वर्यू आस्तां पूष्णो हस्ताम्यामित्याह यत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
ऋतशब्दार्थमाह — ‘ऋतस्य त्वा देवहविः पाशेनाऽऽरभ इत्याह सत्यं वा ऋतँ सत्येनैवैनमृतेनाऽऽरभते’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
अवश्यंभाविफलोपेतत्वाद्यज्ञस्वरूपं सत्यं, तेन निमित्तेनैनं पशुं बध्नाति।
बन्धनप्रकारं विधत्ते — ‘ अक्ष्णया परि हरति वध्यँ हि प्रत्यञ्चं प्रतिमुञ्चन्ति व्यावृत्त्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
अक्ष्णया पूर्वोक्तया दक्षिणपादादिशिरोभागपर्यन्तया वक्रया परिहरति वेष्टयति। लोके तु मांसभक्षिणो वध्यं पशुं प्रत्यञ्चं स्वाभिमुखमवस्थाप्य गले पाशं प्रतिमुञ्चन्ति। अतस्तद्व्यावृत्तये वक्रबन्धनम्।
विधत्ते — ‘ धर्षा मानुषानिति नि युनिक्ति धृत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
नियुनक्ति निरन्तरं बध्नीयात्। तञ्च बन्धनं धृत्यर्थं पलायननिवारणार्थम्।
अद्भ्य इति। कल्पः — ‘ अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीति प्रोक्षति, अपां पेरुरसीति पाययति, स्वात्तं चित्सदेवँ हव्यमापो देवीः स्वदतैनमित्युपरिष्टादधस्तात्सर्वतश्च प्रोक्ष्य ’ इति।
हे पशो त्वामद्भिरोषधीभिश्च प्रोक्षामि। दर्मैरपामुत्पूतत्वादस्त्योषधीनामपि प्रोक्षणसाधनत्वम्।
पातृस्वीकृताभ्यां तृणोदकाभ्यां पशोरुत्पन्नत्वेनोभयेन प्रोक्षणं युक्तमित्याह — अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीत्याहाद्भ्यो ह्येष ओषधीभ्यः संभवति यत्पशुः ’ [का॰ ६ प्र॰ ३ अ॰ ६] इति।
पेरुशब्दः पातृवाचीत्याह — ‘ अपां पेरुरसीत्याहैष ह्यपां पाता यो मेधायाऽऽरभ्यते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
यज्ञार्थमालभ्यमानस्य पशोरित ऊर्ध्वमुदकपानाभावादिदानीमेव पातृत्वम्। हे आपो देव्यः स्वात्तं चित्स्वादुभूतमपि सदेवं देवतार्थं हव्यं होतुं योग्यमेनं पशुं स्वदत स्वादुं कुरुत।
अनेन मन्त्रेण स्वादुता भवतीत्याह — ‘ स्वात्तं चित्सदेवँ हव्यमापो देवीः स्वदतैनमित्याह स्वदयत्येवैनम् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
त्रिभिर्मन्त्रैरनुष्ठेयानि विधत्ते — ‘ उपरिष्टात्प्रोक्षत्युपरिष्टादेवैनं मेध्यं करोति पाययत्यन्तरत एवैनं मेध्यं करोत्यधस्तादुपोक्षति सर्वत एवैनं मेध्यं करोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ६] इति।
अथ होतारं प्रत्यध्वर्योः प्रैषमुत्पादयति –
‘अग्निना वै होत्रा देवा असुरानभ्यभवन्नग्नये सामिध्यमानायानु ब्रूहीत्याह भ्रातृव्याभिभूत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
अग्निः समिद्धो भ्रातृव्यानभिभवति।
अग्निसमिन्धनाय होत्राऽनूच्यमानानामृचां चोदकप्राप्तां पञ्चदशसंख्यामपोद्य सप्तदशसंख्यां विधत्ते – ‘ सप्तदश सामिधेनीरन्वाह सप्तदशः प्रजापतिः प्रजापतेराप्त्यै ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ६] इति।
आश्रावयेत्यादिभिरक्षरैः प्रजापतेः सप्तदशत्वम्।
तमेव विधिमनूद्य प्रशंसति — ‘ सप्तदशान्वाह द्वादश मासाः पञ्चर्तवः स संवत्सरः संवत्सरं प्रजा अनु प्र जायन्ते प्रजानां प्रजननाय ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।
हेमन्तशिशिरयोः समासेनेति बह्वृचब्राह्मणाम्नानादृतूनां पञ्चसंख्या। प्रजाः संवत्सरं गर्भे स्थित्वा पश्चात्प्रजायन्ते।
अमन्त्रकं प्रथममाघारं विधत्ते — ‘ देवा वै सामिधेनीरनूच्य यज्ञं नान्वपश्यन्स प्रजापतिस्तूष्णीमाघारमाघारयत्ततो वै देवा यज्ञमन्वपश्यन्यत्तूष्णीमाघारामाघारयति यज्ञस्यानुख्यात्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
बहुनियमोपेते सामिधेन्यनुवचने व्यापृता बुद्धिः श्रान्ता सती पश्चात्कर्तव्यं यज्ञं नान्वपश्यत्। ततः प्रजापतिस्तूष्णीमाघारेण मन्त्रविषयव्यापारजन्यं बुद्धेः श्रममपनीतवान्।
तमेव विधियनूद्य प्रशंसति — ‘ असुरेषु वै यज्ञ आसीत्तं देवास्तूष्णीँ होमेनावृञ्जत यत्तूष्णीमाघारमाघारयति भ्रातृव्यस्यैव तद्यज्ञं वृङ्क्ते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
असुरा गूढचारिणो भूत्वा देवैरनुष्ठितमवगत्य स्वयमपि तथैवानुतिष्ठन्ति। तथा च श्रुत्यन्तरम् — ‘ देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ’ इति। तं वृत्तान्तमवगत्य देवा गूढचारिणां समीपे प्रथममाघारममन्त्रकं हुतवन्तः तं दृष्टवन्तोऽसुराः सहसा गत्वा कृत्स्नं यज्ञं तूष्णीं कृत्वा नाशितवन्तः। तमभिप्रेत्य तं देवास्तूष्णीं होमेनावृञ्जतेत्युच्यते।
त्रयाणां परिधीनां मार्जनं प्रत्येकं तदावृत्तिं च विधत्ते — ‘ परिधीन्त्सं मार्ष्टि पुनात्येवैनान्त्रिस्त्रिः सं मार्ष्टि त्र्यावृद्धि यज्ञोऽथो रक्षसामपहत्यै द्वादश सं पद्यन्ते द्वादश मासाः संवत्सरः संवत्सरमेव प्रीणात्यथो संवत्सरमेवास्मा उप दधाति सुवर्गस्य लोकस्य समष्ट्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
परिधिषु पतितस्य भस्मादेरपनयनेन ते शुद्धा भवन्ति। तिस्र आवृत्तयो यस्यासौ त्र्यावुत्। त्रिः प्रथमामन्वाहेत्यदिषु तत्प्रसिद्धम्। त्र्यावृत्त्या तदादरं दृष्टवा रक्षसां भयातिशयो भवति। त्रिषु परिधिषु नव संमार्जनान्युक्तानि।
अत्रानुक्तैस्त्रिभिर्वह्निसंमार्जनैः सह द्वादशसंपत्तिः। अत एव दर्शपूर्णमासब्राह्मणे श्रूयते।
‘ परिधीन्त्संमार्ष्टि पुनात्येवैनान्त्रिर्मध्यमं त्रयो वै प्राणाः प्राणानेवाभिजयति त्रिदर्क्षिणार्ध्यं त्रय इमे लोका इमानेव लोकानभिजयति त्रिरुत्तरार्ध्यं त्रयो वै देवयानाः पन्थानस्तानेवाभिजयति त्रिरुपवाजयति त्रयो वै देवलोका देवलोकानेवाभिजयति द्वादश संपद्यन्ते ’ इति।
तया संख्यया संवत्सरदेवतां तोषयति। किंचास्य यजमानस्य स्वर्गप्रापणाय तां संवत्सरदेवतामुपदधाति समीपे समानयति।
पूर्वं स्रौवाधारो विहितः। अथ स्रुच्याघारं विधत्ते — ‘ शिरो वा एतद्यज्ञस्य यदाघारोऽग्निः सर्वा देवता यदाघारमाघारयति शीर्षत एव यज्ञस्य यजमानः सर्वा देवता अव रुन्धे ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
आघारस्य होमेषु प्रथमभावित्वेन शिरोरूपत्वम्। यद्यपि पशोरिष्टिर्विकृतिवदेवाऽऽघारद्वयं प्राप्नोति तथाऽपि तद्विकृतित्वमेव निश्चेतुं तदीयलिङ्गत्वेनात्र त्पुनर्विहितम्।
सं त इति।कल्पः — ‘ स्रुच्यमाघार्य प्रत्याक्रम्य जुह्वा पशुं समनक्ति सं ते प्राणो वायुना गच्छतामिति शिरसि, सं यजत्रैरङ्गानीत्यंसोच्चलयोः, सं यज्ञपतिराशिषेति श्रोण्याम् ’ इति।
उच्चलशब्देन ककुदुच्यते। हे पशो ते तव प्राणो वायुना संगच्छताम्। हृदयाद्यङ्गानि यजत्रैर्यागविशेषैः संयुज्यन्ताम्। यज्ञपतिराशिषा संयुज्यताम्।
स्रुचाऽऽघारशेषेण पश्वञ्जनं विधत्ते — ‘ शिरो वा एतद्यज्ञस्य यदाघार आत्मा पशुराघारमाघार्य पशुँ समनक्त्यात्मन्नेव यज्ञस्य शिरः प्रति दधाति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।
आत्मा ग्रीवाया अधोवर्तिदेहः।
प्राणस्य बाह्ये वायुसंगमो युक्त इत्याह – ‘ सं ते प्राणो वायुना गच्छतामित्याह वायुदेवत्यो वै प्राणो वायावेवास्य प्राणं जुहोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।
अस्य यज्ञस्य फलेन वायुना यजमानो युज्यत इत्येतमर्थमन्त्यमन्त्रे दर्शयति – ‘ सं यजत्रैरङ्गानि सं यज्ञपतिराशिषेत्याह यज्ञपतिमेवाऽऽस्याशिषं गमयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
मध्यममन्त्रेण हृदयाद्यङ्गानि यागविशेषैर्योजयतीत्येतावदुन्नेयम्।
पूर्वं शिरस्यञ्जनं विहितम्। इदानीं ककुदि श्रोण्यां चाञ्जनं विधत्ते। अथवा पूर्वविधेः साधारणत्वात्तमेवानूद्य प्रशंसति — ‘ विश्वरूपो वै त्वाष्ट्र उपरिष्टात्पशुमभ्यवमीत्तस्मादुपरिष्टात्पशोर्नावद्यन्ति यदुपरिष्टात्पशुँ समनक्ति मेध्यमेवैनं करोति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
त्वष्टुः पुत्रो विश्वरूपः पशुमभि प्राप्योपरिष्टात्पृष्ठभागे वमनमकरोत्। तस्माद्याज्ञिका हृदयादिवदुपरिभागान्नावद्यन्ति। तं भागमञ्जनेन शुद्धं करोति।
विधत्ते — ‘ ऋत्विजो वृणीते छन्दाँस्येव वृणीते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
वक्ष्यमाणसंख्यासाम्यादृत्विजां छन्दस्त्वम्।
सप्तत्वसंख्यां विधत्ते — ‘ सप्त वृणीते सप्त ग्राम्याः पशवः सप्ताऽऽरण्याः सप्त छन्दाँस्युभयस्यावरुद्ध्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
होताऽऽग्नीध्रोऽध्वर्युर्मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टेति [ सप्तर्त्विजः ]। सप्तग्राम्यादिकं व्याख्यातम्।
चोदकप्राप्तेषु संख्यां विधत्ते — ‘ एकादश प्रयाजान्यजति दश वै पशोः प्राणा आत्मैकादशो यावानेव पशुस्तं प्र यजति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
प्राणशब्देन तदाधारभूतानि च्छिद्राण्युच्यन्ते। तानि च शिरसि सप्त, अधस्ताद् द्वे, नाभिर्दशमी। आत्मा देहः। अत एकादशसंख्याया कृत्स्नं पशुं प्रयजति।
अन्तिमप्रयाजस्य कालान्तरं विधत्ते — ‘ वपामेकः परि शय आत्मैवाऽऽत्मानं परि शये ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
वपां परि वपाहोमसमीपे शये शेते तस्मिन्काले यजेदित्यर्थः। चरमः प्रयाजो देहत्वेन निरूपितात्वात्पशोरात्मा, वपाऽपि मुख्यावयवत्वादात्माऽतस्तयोः सामीप्यं युक्तम्। घृतेनेति। कल्पः — ‘ जुह्वा स्वरुस्वधिती अनक्ति, द्विः स्वरुं सकृत्स्वधितेरन्यतरां धारां स्वरुमन्तर्धाय स्वधितिना पशुं समनक्ति घृतैनाक्तौ पशुं त्रायेथामिति शिरसि ’ इति।
हे स्वरुस्वधिती इति संबोधनीयम्।
स्वरुस्वधितिघृतानामुपयोगं दर्शयति — ‘ वज्रो वै स्वधितिर्वज्रो यूपशकलो घृतं खलु वै देवा वज्रं कृत्वा सोममघ्नन्घृतेनाक्तौ पशुं त्रायेथामित्याह वज्रेणैवैनं वशे कृत्वाऽऽलभते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
त्रिविधेन वज्रेणैनं पशुं वशीकृत्य मारयति —
विधत्ते — ‘ पर्यग्नि करोति सर्वहुतमेवैनं करोत्यस्कन्दयास्कन्नँ हि तद्यद्धुतस्य स्कन्दति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
अत्र प्रकारः सूत्रेऽभिहितः – ‘ आहवनीयादुल्मुकमादायाऽग्नीघ्रः परिवाजायति कविरिति त्रिः प्रदक्षिणं पर्यग्नि करोति पशुं यूपमाहवनीयं शामित्रदेशं चात्वालमाज्यानि चेत्येके ’ इति। तेन पर्यग्निकरणेनैनं पशुं सर्वमपि हुतमेव करोति। तद्धुतत्वं स्कन्दनदोषराहित्याय भवति। होमादूर्ध्वं स्कन्दनेऽपि तद्दोषो न भवति।
आवृत्तिं विधत्ते — ‘ त्रिः पर्याग्ने करोति त्र्यावृद्धि यज्ञोऽथो रक्षसामपहत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
रेवतीरिति। कल्पः — ‘ रेवतीर्यज्ञपतिं प्रियधाऽऽविशतेति वपाश्रपणीभ्यां पशुमन्वारभेते अध्वर्युर्यजमानश्च ’ इति।
हे रेवतीर्घनवन्तः पश्ववयवा यजमानं प्रति प्रियधारिण्यो भवत, हविष्ट्वेन यज्ञमाविशत।
अत्र विचारं दर्शयति — ‘ ब्रह्मवादिनो वदन्त्यन्वारभ्य पशू३र्नान्वारभ्या३ इति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
प्रथमपक्षे दोषमाह — ‘ मृत्यवे वा एष नीयते यत्पशुस्तं यदन्वारभेत प्रमायुको यजमानः स्यात् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
द्वितीयपक्षे दोषमाह — ‘ अथो खल्वाहुः सुवर्गाय वा एष लोकाय नीयते यत्पशुरिति यन्नान्वारभेत सुवर्गाल्लोकाद्यजमानो हीयेत ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
दोषद्वयपरिहाराय प्रकारन्तरं विधत्ते — ‘ वपाश्रपणीभ्यामन्वारभते तन्नेवान्वारब्धं नेवानन्वारब्धम् ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।
याभ्यां दारुमयीभ्यां वपा पच्यते ते वपाश्रपण्यौ।
प्रैषमन्त्रमुत्पादयति — ‘ उप प्रेष्य होतर्हव्या देवेभ्य इत्याहेषितँ हि कर्म क्रियते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
हे होतर्देवेभ्यो वपादीनि हव्यानि कर्तुमुपप्रेष्य पशुसमीपे शमितॄन्प्रेरय। लोके हि प्रभुणा प्रेषितं कर्म सहसा क्रियते।
मन्त्रस्तु स्पष्टार्थ इत्याह — ‘ रेवतीर्यज्ञपतिं प्रियधाऽऽविशतेत्याह यथायजुरेवैतत् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
कल्पः — ‘ आहवनीयादुल्मुकमादायाऽऽग्नीध्रः पूर्वः प्रतिपद्यते शमिता पशुं नयत्युरो अन्तरिक्षेत्यन्तरा चात्वलोत्करावुदञ्चं पशुं नयति ’ इति।
मन्त्रस्त्वेवमाम्नातः
उर इति। अत्रान्तरिक्षशब्देन पशोः श्रोत्रादिच्छिद्रेष्ववस्थित इन्द्रियसमुदाय उपलक्ष्यते। हे उरो अन्तरिक्ष विस्तीर्णेन्द्रियसमुदायास्य पशोरभिमानिदेवेन वातेन प्राणवायुना त्मना जीवात्मना च सजूः सह हविषो यज हविर्देहि। किंचास्य पशोस्तनुवा भविष्यता देवशरीरेण संभव संयुज्यस्व। हे वर्षीयोऽतिविस्तीर्णेन्द्रियसमुदाय वर्षीयस्यतिविस्तीर्णे यज्ञे यज्ञपतिं यजमानं धाः स्थापय। मन्त्रोऽयमुपेक्षितः।
विधत्ते — ‘ अग्निना पुरस्तादेति रक्षसामपहत्यै ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।
उल्मुकेन सह पशोः पुरस्तादाग्नीध्रो गच्छेत्।
पृथिव्या इति। कल्पः — ‘ अभिपर्यग्निकृते देश उल्मुकं निदधाति स शामित्रस्तं दक्षिणेन प्रत्यञ्चं पशुमवस्थाप्य पृथिव्याः संपृचः पाहीति बर्हिरुपास्यत्युपाकरणयोरन्यतरत् ’ इति।
हे बर्हिर्भूसंपर्कात्पालय।
विधत्ते — ‘ पृथिव्याः संपृचः पाहीति बर्हिरुपास्यत्यस्कन्दायास्कन्नँ हि तद्यद्बर्हिषि स्कन्दत्यथो बर्हिषदमेवैनं करोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।
पशुसंबन्धि यदङ्गं बर्हिषि स्कन्देत्तद्भूमावपतनादस्कन्नमेव। अथ कथंचिदधः पतितेप्येनं बर्हिषदमेव करोति।
विधत्ते — ‘ पराङा वर्ततेऽध्वर्युः पशोः संज्ञप्यमानात्पशुभ्य एव तन्निह्नुत आत्मनोऽनाव्रस्काय ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
अध्वर्युर्मार्यमाणं पशुमदृष्ट्वा ततः पराङ्मुखः प्रत्यवर्तेत। तेन पशुभ्यो निह्नुते पशुं न मारयामीत्येवमपलपति। स चापलापः स्वस्य दोषाभावाय भवति।
वेदनं प्रशंसति — ‘ गच्छति श्रियं प्र पशुनाप्नोति य एवं वेद ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
अत्र सूत्रम् — ‘ प्रत्यक्शिरसमुदीचीनपादममायुं कृण्वन्तं संज्ञपयेत्युक्त्वा पराङावर्ततेऽध्वर्युः ’ इति।
नम इति। कल्पः – ‘ ततः प्रतिप्रस्थाता पत्निमुदानयति नमस्त आतनेति पत्न्यादित्यमुपतिष्ठते ’ इति।
आ समन्तात्तानो व्याप्तिर्यस्य सूर्यरश्मेः स आतानः।
एतदेव दर्शयति — ‘ पश्चाल्लोका वा एषा प्राच्युदानीयते यत्पत्नी नमस्त आतानेत्याहाऽऽदित्यस्य वै रश्मय आतानास्तेभ्य एव नमस्करोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।
पश्चात्प्रतीच्यां दिशि निर्मिता शाला लोको निवासस्थानं यस्याः सा पश्चाल्लोका। तादृशी यदा प्राचीं गच्छति तदानीमाभिमुख्येन सूर्यरश्मिर्भवतीति तन्नमस्कारो युक्तः।
अनर्वेति। बौधायनः – ‘ अथैनामन्तरेण चात्वालोत्करावुदगुपनिष्क्रमय्य प्राचीमुदानयन्वाचयत्यनर्वा प्रेहि घृतस्य कुल्यामनु सह प्रजया सह रायस्पोषेणेत्यागतामध्वर्युरप्सु वाचयत्यापो देवीः शुद्धायुवः शुद्धा यूयं देवाँ ऊड्ढ्वँ शुद्धा वयं परिविष्ठाः परिवेष्टारो वो भूयास्मेति ’ इति।
आपस्तम्बः — ‘ अनर्वा प्रेहीति प्राचीमुदानयत्यनुमन्त्रयत इत्येके। आपो देवीः शुद्धायुव इति चात्वाले पत्न्यपोऽवमृशति ’ इति।
हे पत्नि त्वमनर्वा शत्रुरहिता सती घृतप्रवाहमनु प्रजया सह धनपुष्ट्या च सह प्रयाहि। घृतस्य कुल्यामित्यनेन सर्ववस्तुसंपूर्णं स्थानमुपलक्ष्यते। हे आपो देव्यो यूयं देवानूड्ढ्वं यागप्रदेशे प्रापयत। कीदृश्यो यूयम्। शुद्धायुवः शुद्धिमस्मदीयामिच्छन्तीति शुद्धायुवः। यूयं तु
स्वत एव शुद्धाः। वयमपि युष्माभिः परिवेष्टिताः शुद्धाः सन्तो युष्माकं परिवेष्टारो भूयास्म।
एतौ मन्त्रौ व्याचष्टे — ‘ अनर्वा प्रेहीत्याह भ्रातृव्यो वा अर्वा भ्रातृव्यापनुत्त्यै घृतस्य कुल्यामनु सह प्रजया सह रायस्पोषेणेत्याहाऽऽशिषमेवैतामा शास्त आपो देवीः शुद्धायुव इत्याह यथायजुरेवैतत् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
अत्र विनियोगसंग्रहः –
“ आ ददे रज्जुमादाय ऋत बध्नाति तं पशुम्।
धर्ष यूपे नियुङ्क्तेऽद्भ्यः प्रोक्ष्यापां पायदेदपः॥१॥
स्वात्तं सर्वत्र संप्रोक्ष्य सं ते मूर्ध्नि समञ्जनम्।
सं यांसयोः सं य पश्चाद्घृते सस्वरुशस्त्रके॥२॥
रेव श्रपण्युपस्पर्श उरो उत्तरतो नयेत्।
पृथि बर्हिरवस्थाप्य नमः पत्नी रविं भजेत्।
अन पत्नीं नयेदापः स्पृश(शे)न्मन्त्रास्तु षोडश ॥३॥ ” इति ।
अथ मीमांसा।
द्वितीयाध्यायस्य प्रथमपादे चिन्तितम् —
“ गच्छतामिति शब्दस्यानुषङ्गोऽस्ति न वोपरी।
सं यज्ञपतिरित्यत्र योग्यत्वात्सोऽस्ति पूर्ववत्॥
तदेकवचनं मध्यमन्त्रोङ्गानीत्यनेन हि।
नान्वेति तद्व्यवायेन नोपर्यप्यनुषज्यते ” इति।
अग्नीषोमीयपशौ श्रूयते — ‘ सं ते प्राणो वायुना गच्छताँ सं यजत्रैरङ्गानि सं यज्ञपतिराशिषा ’ इति।
अयमर्थः – भोः पशो तव प्राणवायुर्वायुना संगच्छतां तव हृदयाद्यङ्गानि यागविशषैः संयुज्यन्तां यज्ञपतिराशिषा संयुज्यतामिति। तत्र यज्ञपतिरित्यास्मिंस्तृतीयमन्त्रे समित्युपसर्गस्य कियापदाकाङ्क्षत्वारत्प्रथममन्त्रगतस्य गच्छतामिति पदस्यैकवचनान्तस्य यज्ञपतिशब्देनान्वेतुं योग्यत्वात्पूर्ववद्बुद्धिस्थत्वेन संनिहितत्वादाकाङ्क्षासंनिधियोग्यतानां सद्भावेन क्रियापदमनुषज्यत इति प्राप्ते ब्रूमः — मध्यममन्त्रे बहुवचनान्तेनाङ्गानीत्यनेनान्वेतुमयोग्यत्वात्तद्व्यवायेन बुद्धिसंनिधिलोपान्नास्त्यनुषङ्गः। ततो द्वितीयतृतीयमन्त्रयोर्यथोचितं वाक्यशेषोऽध्याहर्तव्यः।
अष्टमाध्यायस्य प्रथमपादे चिन्तितम् —
“ न पशावैष्टिकः स्याद्वा न कपालाद्यभावतः।
स्याद्व्यक्तद्रव्यदेवत्वप्रयाजस्रुच्यसाम्यतः ” इति।
अग्नीषोमीयपशावैष्टिको विध्यन्तो नास्ति। कुतः। पूर्ववदत्र निर्वापकपालादिलिङ्गाभावदिति चेन्मैवम्। आग्नेयमष्टाकपालमित्यत्रोत्पत्तिवाक्ये यथा द्रव्यदेवते व्यक्ते तथाऽग्नीषोमीयं पशुमित्यत्रापि। न तु सोमेन यजेतेत्यत्रेव देवताया अव्यक्तत्वम्। तदेतद्व्यक्तद्रव्यदेवत्वमेकं लिङ्गम्। एकादश प्रयाजान्यजतीति प्रयाजवत्त्वं द्वितीयम्। स्रुच्यमाघार्य जुह्वा पशुमनक्तीत्याघाराञ्जने लिङ्गान्तरे। आलम्भो लिङ्गान्तरम्। इष्टावपीषामालभत इति दर्शनात्। तस्मादस्ति पशावैष्टिको विध्यन्तः।
“ प्रयाजेष्वपकर्षोऽनुयाजेषूत्कर्ष इत्यमू।
श्रुतमात्रे तदन्तेषु तदाद्येषु च वाऽग्रिमः॥
अन्येषां मुख्यकालत्वान्मैवं व्युत्क्रमशक्तितः।
प्रयाजान्ते ह्यनु [नू] याजादिके चैतौ समूहके ” इति।
अग्नीषोमीयपशो प्रयाजानामपकर्षः श्रूयते — ‘ तिष्ठन्तं पशुं प्रयजन्ति ’ इति। प्रकृतौ हविष्यासादिते पश्चात्प्रयाजा इज्यन्ते। इहापि पशुसंज्ञपनादूर्ध्वं
हविष्यासादिते पश्चादेव प्रयाजाश्चोदकेन प्राप्ताः। ते चात्र वचनाज्जीवत्येव पशावपकृष्यन्ते। तथा सवनीयपशावनुयाजानामुत्कर्षः श्रूयते — “आग्निमारुतादूर्ध्वमनुयाजैश्चरन्ति ” इति। तत्र प्रयाजमात्रस्यापकर्षः श्रुतः। अनुयाजमात्रस्योत्कर्षः। तावुभौ श्रुत्यनुसारेण तथैवाङ्गीकर्तव्यौ। यदि प्रयाजान्तस्याङ्गकलापस्यापकर्षः स्यात्तदा प्रयाजेभ्यः पूर्वभाविनामाघारसामिधेन्यादीनां ततोऽऽयपकर्षादत्यन्तव्यवहितानां प्रधानकालीनत्वं न स्यात्। प्रयाजमात्रेऽपकृष्टे सत्याघारादीनां मुख्यकालीनत्वं न लुप्यते। एवमनुयाजमात्र उत्कृष्टे तत ऊर्ध्वभाविनां सूक्तवाकशंयुवाकदीनामनुत्कर्षात्प्रधानसंनिधिर्न विनश्यति। तस्मात्प्रयाजमात्रस्यापकर्षोऽनुयाजमात्रास्यौत्कर्ष इति प्राप्ते ब्रूमः — प्रकृतौ पदार्थानुष्ठानक्रमस्य क्लृप्तत्वात्सक्रमाणामेव पदार्थानां चोदकेनातिदेशाद्व्युत्क्रमे सति पूर्वेण पदार्थेनोत्तरपदार्थस्य, बुद्धावनुपस्थापितत्वादनुष्ठानमेव लुप्येत। तस्मात्प्रयाजान्तस्य कर्मसमूहस्यापकर्षः, अनुयाजादेरङ्गसमूहस्योत्कर्षः।
तत्रैव तृतीयपादे चिन्तितम् —
“ एकादश प्रयाजाः किं प्रत्येकं स्यादुतान्यथा।
संख्यावृद्धिरिहाऽऽद्योऽस्तु प्रतिमुख्यं गुणो यतः॥
प्रत्येकं समुदाये वा स्वरूपेण न सिध्यति।
संख्यावृद्धिः प्रयोगात्तु साऽऽवृत्त्या संभविष्यति ” इति।
अग्निषोमीयपशौ श्रूयते — ‘ एकादश प्रयाजान्यजति ’ इति। तत्र चोदकप्राप्तेषु पञ्चसु प्रयाजेष्वेकैकस्य प्रयाजस्येयमेकादशत्वसंख्या युक्ता। कुतः प्रयाजानुद्दिश्य संख्यागुणे विहिते सति प्रतिप्रधानं गुणस्याभ्युपेयत्वादिति प्राप्ते ब्रूमः — न ह्येकैकस्य प्रयाजस्य स्वरूपमात्रमुपजीव्येयमेकादशत्वसंख्या संपादयितुं शक्या। नापि पञ्चप्रयाजसमुदायस्य स्वरूपे साऽस्ति। तस्मात्प्रयोगद्वारा सा संपादनीया। प्रयोगस्य चाऽऽवर्तयितुं शक्यत्वात्। पञ्च प्रयाजान्द्विरावर्त्य पुनरपि चरमप्रयाजे सकृदावर्तिते सत्येकादशत्वसंख्या संपद्यते।
अथ छन्दः।
उरो अन्तरिक्षेति त्रिष्टुप्। आपो देवीः शुद्धायुव इत्यनुष्टुप्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठकेऽष्टमोऽनुवाकः ॥८॥

(अथ प्रथमकाण्डे तृतीयप्रपाठके नवमोऽनुवाकः)।
अष्टमेऽनुवाके संज्ञपनमुक्तम्। संज्ञपिसस्य पशोर्वपोत्खेदनमभिधीयते।
वाक्त इति। बौधायनः – ‘सानुपूर्वं पशोः प्राणानाप्याययति वाक्त आ प्यायतामिति वाचं, प्राणस्त आ प्यायतामिति प्राणं, चक्षुस्त आ प्यायतामिति चक्षुः श्रोत्रं त आ प्यायतामिति श्रोत्रं तानेव पुनः संमृशति या ते प्रणाञ्छुग्जगाम या चक्षुर्या श्रोत्रं यत्ते क्रूरं यदास्थितं तत्त आ प्यायतां तत्त एतेन शुन्धतामिति नाभिस्त आ प्यायतामिति नाभिं, पायुस्त आ प्यायतामिति पायुं, संप्रगृह्य पदः प्रक्षालयति शुद्धाश्चरित्राः शमद्भ्यः शमोषधीभ्यः शं पृथिव्या इति, शमहोभ्यामिति शिष्टा दक्षिणतोऽनुपृष्ठं निनयेत्’ इति।
आपस्तम्बोऽत्र कंचिद्विशेषमाह – ‘या ते प्रणाञ्छुग्जगामेति हृदयदेशं शुद्धाश्चरित्रा इति पादानेकैकमाप्याय्य जपति शमद्भ्य इति पुरा स्तोकानां भूमेः प्रापणाच्छमोषधीभ्यः शं पृथिव्या इति भूम्यां शेषं निनीय’ इति।
हे पशो त्वदीयं वागिन्द्रियं गोलकपरित्यागशोकं संत्यज्य स्वीकरिष्यमाणदेवतादेहे सुखेनाऽऽप्यायतां वर्धताम्। एवमन्यत्रापि। किंच निर्याणकाले हृदयपुण्डरीके संकुचितांस्तव प्राणवायूंश्चक्षुरादीन्द्रियाणि च यः शोको जगाम, यच्च बन्धनमुखनिरोधनादिकं क्रूरमस्माभिः कृतं, यदपि छेदादिकमास्थितं कर्तुमुपस्थितं तव तत्सवर्माप्यायतां शाम्यतु। किंच तव तत्प्रणादिकमेतेन जलेन शुन्धतां भाविदेहप्रवेशाय शुद्धं भवतु। चरत्येभिरिति चरित्राः पादास्तेऽपि शुद्धाः सन्तु। याभिरद्भिः प्रोक्षणं क्रियते, याश्चौषधयो बर्हिःस्वरूपेण पशोरधः स्थापिताः, या च पृथिवी म्रियमाणं पशुं बिभर्ति, यौ चाहोरात्रौ पशुमारणकाल उपस्थितौ, तेषां सर्वेषां शं सुखं भवतु।
शोकप्रसक्तिं दर्शयन्व्याचष्टे – ‘पशोर्वा आलब्धस्य प्राणाञ्छुगृच्छति वाक्त आ प्यायतां प्रणस्त आ प्यायतामित्याह प्राणेभ्य एवास्य शुचँ शमयति’ (सं. का. ६ प्र. ३ अ. ९) इति।
शुगव्यथां विधत्ते – ‘सा प्राणेभ्योऽधि पृथिवीँ शुक् प्र विशति शमहोभ्यामिति नि नयत्यहोरात्राभ्यामेव पृथिव्यै शुचँ शमयति’ (सं. का. ६ प्र. ३ अ. ९) इति।
प्राणेभ्योऽपनीता शुक्पृथिवीमधिष्ठाय तदीयदेवताशरीरे प्रविशति। एवं कालादौ प्रवेशः। प्रविष्टायाः शुचः शान्तिर्निनयनेन भवति।
ओषध इति। कल्पः – ‘ओषधे त्रायस्वैनमित्युपाकरणयोरवशिष्टं दक्षिणेन नाभिमन्तर्धाय स्वधिते मैनँ हिँसीरिति स्वधितिना पार्श्वतस्तिर्यगाच्छ्यति’ इति।
मा हिँसीरित्येतस्याभिप्रायमाह – ‘ओषधे त्रायस्वैनँ स्वधिते मैनँ हिँसीरित्याह वज्रौ वै स्वधितिः शान्त्यै’ (सं. का. ६ प्र. ६ अ. ९) इति।
विधत्ते – ‘पार्श्वत आ च्छ्यति मध्यतो हि मनुष्या आच्छ्यन्ति तिरश्चीनमा च्छ्यत्यनूचीनँ हि मनुष्या आच्छ्यन्ति व्यावृत्त्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।
वपोत्खेदनार्थं दक्षिणपार्श्वे छिन्द्यात्। मांसाहारास्तु मनुष्या नाभिदेशे छिन्दन्ति। तत्राप्यनूचीनं पशोर्दैर्घ्यमनुसृत्य तदुभयवैलक्षण्यमिह कार्यम्।
रक्षसामिति। बौधायनः – ‘अथैतस्यैव बर्हिषोऽणिमत्सचते स्थविमदुभयतो लोहितेनाङ्क्त्वेमां दिशं निरस्यति रक्षसां भागोऽसीदमहँ रक्षोऽधमं तमो नयामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमेनमधमं तमो नयामीति’ इति।
आपस्तम्बः – ‘बर्हिषोऽग्रं सव्येन पाणिनाऽऽदत्तेऽथ मध्यं यत आच्छ्यति तदुभयतो लोहितेनाङ्क्त्वा रक्षसां भागोऽसीत्युत्तरमपरमवान्तरदेशं निरस्याथैनत्सव्येन पदाऽधितिष्टतीदमहँ रक्ष इति’ इति।
विधत्ते – ‘रक्षसा भागोऽसीति स्थविमतो बर्हिरक्त्वाऽपास्यत्यस्नैव रक्षाँसि निरवदयते’ (सं. का. ६ प्र. ३ अ. ९) इति।
स्थूलस्य भावः स्थविमा तस्मात्सप्तम्यर्थे तसिल्। स्थविमतः। स्थविमशब्देन बर्हिषो मूलभागः स्थूलत्वादुपलक्ष्यते। तस्मिन्भागे रक्तेन बर्हिरङ्क्त्वा निरस्येत्। तथा सत्यसृजैव रक्षांसि निःशेषेण भागवन्ति कृत्वाऽपनयति।
द्वितीयमन्त्रं व्याचष्टे – ‘इदमहँ रक्षोऽधमं तमो नयामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तावुभावधमं तमो नयति’ (सं. का. ६ प्र. ३ अ. ९) इति।
अधमं तमो महद्दुःखम्।
‘इषे त्वेति। कल्पः – इषे त्वेति वपामुत्खिदति घृतेन द्यावापृथिवी प्रोर्ण्वाथामिति वपया द्विशूलां प्रच्छाद्य’ इति।
हे वपे यजमानस्य देवतायाश्चेष्यमाणान्नसिद्धयर्थं त्वामुत्खिदामि। हे शूलद्वयरूपे द्यावापृथिवीतुल्ये वपाश्रपण्यौ घृतसमानया वपया भवदीयस्वरूपं प्रोर्ण्वाथामाच्छादयतम्।
विधत्ते – ‘इषे त्वेति वपामुत्खिदतीच्छत इव ह्येष यो यजते’ (सं. का. ६ प्र. ३ अ. ९) इति।
अत्र शूलाग्रेण वपां भिन्द्यान्न वेति विचारं हृदि निधाय पक्षद्वयेऽपि दूषणमुपन्यस्यति–
‘यदुपतृन्द्याद्रुद्रोऽस्य पशून्घातुकः स्याद्यन्नोपतृन्द्यादयता स्यात्’ (सं. का. ६ प्र. ३ अ. ९) इति।
भेदनमन्तरेण धृताऽपि नियन्तुमशक्यत्वादितस्ततः पतेत्।
दोषद्वयास्पृष्टं पक्षान्तरं विधत्ते–
‘अन्ययोपतृणत्यन्यया न धृत्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।
एकया शाखया भिन्द्यादितरया न भिन्द्यात्तथा सति धृताऽपि भवति रुद्रश्च न हिनस्ति।
वपाशब्दशूलशब्दौ परित्यज्य घृतशब्दप्रयोगस्य द्यावापृथिवीशब्दप्रयोगस्य
च तात्पर्यमाह – ‘घृतेन द्यावापृथिवी प्रोर्ण्वाथामित्याह द्यावापृथिवी एव रसेनानक्ति’ (सं. का. ६ प्र. ३ अ. ९) इति।
अच्छिन्न इति। कल्पः – ‘अधस्तात्परिवासयत्यच्छिन्नो रायः सुवीर इति’ इति।
अयं वपाभागश्छिद्यमानोऽपि मन्त्रसामर्थ्येन व्यथानुत्पत्तेर्न च्छिन्नः। कीदृशो भागः। शोभना वीरा यजमानस्य पुत्रपौत्रादयो यस्य स सुवीरः। तादृशो रायो धनानि प्रयच्छतु।
स्पष्टार्थतामाह – ‘अच्छिन्नो रायः सुवीर इत्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. ३ अ. ९) इति।
उर्विति। कल्पः – ‘उर्वन्तरिक्षमन्विहीत्यभिप्रव्रजति’ इति।
हे वपे त्वमुत्खेदनरूपस्य क्रौर्यस्य शान्तये विस्तीर्णमन्तरिक्षमनुप्रविश्याऽऽहवनीयदेशं गच्छ।
इममेवार्थं दर्शयति – ‘क्रूरमिव वा एतत्करोति यद्वपामुत्खिदत्युर्वन्तरिक्षमन्विहीत्याह शान्त्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।
वपाश्रपण्योः स्पर्शं विधत्ते – ‘प्र वा एषोऽस्माल्लोकाच्च्यवते यः पशुं मृत्यवे नीयमानमन्वारभते वपाश्रपणी पुनरन्वारभतेऽस्मिन्नेव लोके प्रति तिष्ठति’ (सं. का. ६ प्र. ३ अ. ९) इति।
वपायाः पुरतः पशोरिव वह्निं विधत्ते– ‘अग्निना पुरस्तादेति रक्षसामपहत्या अथो देवता एव हव्येनान्वेति’ (सं. का. ६ प्र. ३ अ. ९) इति।
अग्नेः सर्वदेवतात्मकत्वात्तस्य पृष्ठतो वपानयने सर्वा अपि देवता हव्येनानुगता भवन्ति।
वायविति। कल्पः – ‘आहवनीयस्यान्तिमेष्वङ्गारेषु वपायै। प्रतितप्यमानायै बर्हिषोऽग्रमुपास्यति वायो वीहि स्तोकानामिति’ इति।
द्विशूलया शाखया धार्यमाणाया उपरि त्वामु ते दधिर इति मन्त्रेणाऽऽज्ये हुते सति तत्सकाशात्पतन्तो बिन्दवः स्तोकाः। हे वायो तान्स्तोकान्वीहि विभक्तान्कुरु पिबेत्यर्थः।
व्यतिरेकमुखेणाऽऽहवनीयस्योत्तरपार्श्ववर्तिष्वङ्गारेषु वपायाः श्रपणं विधत्ते– ‘नान्तममङ्गारमतिहरेद्यदन्तममङ्गारमतिहरेद्देवता अति मन्येत’ (सं. का. ६ प्र. ३ अ. ९) इति।
अङ्गारस्य सर्वदेवतात्मकत्वेन तदवज्ञया देवता एवावज्ञाता भवन्ति। तस्मादस्मिन्नेवाङ्गारे वपां श्रपयेत्।
वीहीत्यत्र विशब्दस्यार्थं दर्शयति – ‘वायो वीहि स्तोकानामित्याह तस्माद्विभक्ताः स्तोका अव पद्यन्ते’ (सं. ६ का. ६ प्र. ३ अ. ९) इति।
पतन्तीत्यर्थः। वपाया अधस्ताद्बर्हिरग्रस्थापनविधिमर्थवादेनोन्नयति– ‘अग्रं वा एतत्पशूनां यद्वपाऽग्रमोषधीनां बर्हिरग्रेणैवाग्रँ समर्धयत्यथो ओषधीष्वेव पशून्प्रति ष्ठापयति’ (सं. का. ६ प्र. ३ अ. ९) इति।
अग्रं श्रेष्ठम्। ओषध्यग्रेण बर्हिषा पश्वग्ररूपाया वपायाः समृद्ध्यर्थमोषधीषु पशुप्रतिष्ठापनार्थं बर्हिरग्रं वपाया अधः स्थापयेदित्यर्थः।
अथान्तिमप्रयाजार्थं मैत्रावरुणं प्रत्यध्वर्योः प्रैषमन्त्रमुत्पादयति– ‘स्वाहाकृतीभ्यः प्रेष्येत्याह यज्ञस्य समिष्ट्यै’ (सं. का. ६ प्र. अ. ९) इति।
स्वाहाशब्दबहुला कृतिर्मन्त्रप्रयोगो यासामन्तिमप्रयाजदेवतानां ताः स्वाहाकृतयस्तदर्थं हे मैत्रावरुण होतारं प्रेरय। मैत्रावरुणस्तु होता यक्षदग्निं स्वाहाऽऽज्यस्येत्यादिमन्त्रेण होतारं प्रेष्यति। स च होता सद्यो जातो व्यमिमीत यज्ञमित्यादिकां याज्यां पठति। ततोऽध्वर्युरन्तिमप्रयाजं यजति। एवमयं प्रैषो यज्ञस्य सम्यगिष्ट्यै संपद्यते।
प्रयाजशेषेण हविरभिघारणं विधत्ते– ‘प्राणापानौ वा एतौ पशूनां यत्पृषदाज्यमात्मा वपा पृषदाज्यमभिघार्य वपामभि घारयत्यात्मन्नेव पशूनां प्राणापानौ दधाति’ (सं. का. ६ प्र. ३ अ. ९) इति।
दधिमिश्रमाज्यं पृषदाज्यम्। पृषदाज्यस्य वपायाश्चाभिघारणेन वपारूपे पश्वात्मनि पृषदाज्यरूपौ पशूनां प्राणापानौ स्थापयति।
स्वाहेति। कल्पः – ‘प्रतिप्रस्थाताऽऽहवनीये वपाश्रपणी प्रहरति स्वाहोर्ध्वनभसं मारुतं गच्छतमिति प्राचीं द्विशूलां प्रतीचीमेकशूलाम्’ इति।
हे वपाश्रपण्यौ युवां स्वाहुते सत्यावूर्ध्वनभःसंज्ञकं मरुत्पुत्रं गच्छतम्।
तत्प्राप्तावुपयोगं दर्शयति– ‘स्वाहोर्ध्वनभसं मारुतं गच्छतमित्याहोर्ध्वनभा ह स्म वै मारुतो देवनां वपाश्रपणी प्र हरति तेनैवैने प्र हरति’ (सं. का. ६ प्र. ३ अ. ९) इति।
व्यत्यस्ताग्रतां विधत्ते– ‘विषूची प्र हरति तस्माद्विष्वञ्चौ प्राणापानौ’ (सं. का. ६ प्र. ३ अ. ९) इति।
प्राण ऊर्ध्ववृत्तिरपानोऽधोवृत्तिरित्युभयोर्व्यत्यासः।
अत्र विनियोगसंग्रहः –
“वागष्टाऽऽप्यायने शेषं शमहो निनयेद्भुवि।
ओष स्वधि यथापूर्वं रक्ष दर्भं सलोहितम्॥१॥
त्यजेदिदं बाधनीयमिष उत्खिद्यते वपा।
घृते श्रपण्यावाच्छाद्ये अच्छि सा कृत्यते वपा॥२॥
उरु पूर्वानलं गत्या वायो दर्भमधः क्षिपेत्।
स्वाहा श्रपण्युपक्षेपो मन्त्रा एकोनविंशतिः॥३॥” (इति)॥
अत्र मीमांसाछन्दसी न स्तः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे–
दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके
नवमोऽनुवाकः॥९॥

(अथ प्रथमाष्टके तृतीयप्रपठके दशमोऽनुवाकः)।
नवमेऽनुवाके वपाप्रयोगोऽभिहितः। दशमे तु वसाहोमोऽभिधीयते। सं त इति। कल्पः – ‘शमितुर्हृदयशूलमादाय तेन हृदयमुपतृद्य तं शमित्रे प्रदाय पृषदाज्येन हृदयमभिघारयति सं ते मनसा मनः सं प्राणेन प्राणो जुष्टं देवेभ्यो हव्यं घृतवत्स्वाहेति’ इति। हे हृदय ते मनस्थानीयेन पृषदाज्येन देवानां मनः संगतमस्तु। एवं प्राणेऽपि योज्यम्। हव्यं त्वां देवानां प्रियं घृतवद्यथा भवति तथा स्वाहाऽभिघारयामि। सोऽयं मन्त्र उपेक्षितः।
अभिघारणं विधित्सुरादौ वपोत्खेदप्रयुक्तच्छिद्रापिधानरूपं पश्वङ्गं पुरोडाशं विधत्ते– ‘पशुमालभ्य पुरोडाशं निर्वपति समेधमेवैनमा लभते’ (सं. का. ५ प्र. ३ अ. १०) इति।
मेधः सारः। पुरोडाशस्य व्रीहिसारत्वात्सारोपेतं पशुमालब्धवान्भवति।
निरुप्तस्य होमकालं विधत्ते– ‘वपया प्रचर्य पुरोडाशेन प्र चरत्यूर्ग्वै पुरोडाश ऊर्जमेव पशूनां मध्यतो दधात्यथो पशोरेव छिद्रमपि दधाति’ (सं. का. ६ प्र. ३ अ. १०) इति।
जातवेदो वपया गच्छ देवानिति मन्त्रेण वपां हुत्वा पश्चात्पुरोडाशहोमः। वपाहृदयादिहोमयोर्मध्यं पशूनामुदरस्थानमतस्तत्रैवोर्जं पुरोडाशरूपमन्नं स्थापितवान्भवति। किंच वपाछेदेन यत्पशोश्छिद्रं तत्पिहितं भवति।
उत्तरदेशे हृयादिहविः पचन्तं शमितारं प्रति प्रश्नमन्त्रमुत्पादयति – ‘पृषदाज्यस्यस्योपहत्य त्रिः पृच्छति शृतँ हवीः३ शमितरिति त्रिषत्या हि देवाः’ (सं. का. ६ प्र. ३ अ. १०) इति।
पृषदाज्यस्य पात्रगतस्यांशं स्रुवेणोपहत्य पृथक्स्वीकृत्य मन्त्रेण त्रिः पृच्छेत्। शृतं पक्वम्। प्लुतिः प्रश्नार्था। त्रिरुक्तं सत्यमिति बुद्धिर्येषां ते त्रिषत्याः। व्यतिरेकमुखेणोत्तरविधिमुन्नयति – ‘योऽशृतँ शृतमाह स एनसा’ (सं. का. ६ प्र. ३ अ. १०) इति।
युज्यत इति शेषः। तस्माच्छृते सत्युत्तरं ब्रूयादिति विधिः।
अत्र सूत्रम् – ‘अथ प्रतिप्रस्थाता पृषदाज्यं विहृत्य जुह्वां समानीयान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य पृच्छति शृतँ हवीः३ शमितरिति शमितैष उत्तरतो हृदयशूलं धारयंस्तिष्ठति स शृतमिति प्रत्याह तं तथैव द्वितीयमुत्क्रम्य पृच्छति तं तथैवेतरः प्रत्याह तं तथैव तृतीयमुत्क्रम्य पृच्छति तं तथैवेतरः प्रत्याह’ इति।
अत्र सं ते मनसा मन इत्यस्य मन्त्रस्यार्थमुपेक्ष्याभिघारणं विधत्ते – ‘प्राणापानौ वा एतौ पशूनां यत्पृषदाज्यं पशोः खलु वा आलब्धस्य हृदयमात्माऽभि समेति यत्पृषदाज्येन हृदयमभिघारयत्यात्मन्नेव पशूनां प्राणापानौ दधाति’ (सं. का. ६ प्र. ३ अ. १०) इति।
अभिसमेत्याभिमुख्येनाऽऽत्मा हृदयदेशमागच्छति।
अथ प्लक्षनामकस्य शाखामवदानाधारत्वेन विधत्ते–
‘पशुना वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति तस्य शिरश्छित्त्वा मेधं प्राक्षारयन्त्स प्रक्षोऽभवत्तत्प्रक्षस्य प्रक्षत्वं यत्प्लक्षशाखोत्तरबर्हिर्भवति समेधस्यैव पशोरव द्यति’ (सं. का. ६ प्र. ३ अ. १०) इति। पशुना सह स्वर्गं गच्छन्तो देवा मनुष्याणां स्वैः सहाऽऽगमनं मा भूदित्यभिप्रेत्य तद्वारयितुं पशोः शिरश्छित्त्वा मेधं रसं प्राक्षारयन्नस्रावयन्। स रसो भूमौ पतित्वा प्लक्षवृक्षोऽभवत्। तस्मात्क्षरणादुत्पन्नस्य प्लक्षनाम संपन्नम्। तच्छाखा बर्हिष ऊर्ध्वं स्थापनादुत्तरबर्हिरित्युच्यते। तदावस्थापनेन सरसस्यैव पशोर्हविरवत्तं भवति।
अत्र सूत्रम् – ‘जुहूपभृतोर्हिरण्यशकलमवधाय बर्हिषि प्लक्षशाखायामव–दानान्यवद्यन्संप्रेष्यति मनोतायै हविषोऽवदीयमानस्यानुब्रूहीति, हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसो यथाकाममितरेषां मध्यतो गुदस्यावद्यतीत्युक्तम्’ इति।
पक्कस्य हृदयादिहविष आहवनीयं प्रत्यानयने मार्गविशेषं विधत्ते– ‘पशुं वै ह्रियमाणँ रक्षाँस्यनु सचन्तेऽन्तरा यूपं चाऽऽहवनीयं च हरति रक्षासामपहत्यै’ (सं. का. ६ प्र. ३ अ. १०) इति।
अनुसचन्तेऽनुगच्छन्ति। यूपस्याऽऽहवनीयस्य च रक्षोघातित्वात्तयोरन्तराले भयं नास्ति।
होतारं प्रति प्रैषमन्त्रमुत्पादयति – ‘पशोर्वा आलब्धस्य मनोऽप क्रामति मनोतायै हविषोऽवदीयमानस्यानु ब्रूहीत्याह मन एवास्याव रुन्धे’ (सं. का. ६ प्र. ३ अ. १०) इति।
अग्निदेवता मनोता। त्वँ ह्यग्ने प्रथमो मनोतेति मन्त्राम्नानात्। मनस्यूता संबद्धेति मनोता।
संख्याविशिष्टान्यवदानानि विधत्ते– ‘एकादशावदानान्यव द्यति दश वै पशोः प्राणा आत्मैकादशा यावानेव पशुस्तस्याव द्यति’ (सं. का. ६ प्र. ३ अ. १०) इति।
नाभिसहितानि दश च्छिद्राणि प्राणा देह आत्माऽत एकादशसंख्यया कृत्स्नोऽपि पशुरवत्तो भवति। तान्येकादशाङ्गानि सूत्रेऽभिहितानि – ‘हृदयं जिह्वा वक्षो यकृद्वृक्यौ सव्यं दोरुभे पार्श्वे दक्षिणा श्रोणिर्गुदतृतीयमिति दैवतानि’ इति।
क्रमं विधत्ते– ‘हृदयस्याग्रेऽव द्यत्यथ जिह्वाया अथ वक्षसो यद्वै हृदयेनाभिगच्छति तज्जिह्वया वदति यज्जिह्वया वदति तदुरसोऽधि निर्वदत्येतद्वै पशोर्यथापूर्वम्’ (सं. का. ६ प्र. ३ अ. १०) इति।
लोके प्रथमं हृदयेन यन्निश्चिनोति तत्पश्चाज्जिह्वया वदति। पुनरपि तदेव निःशेषेणोच्चध्वनिना यदा वदति तदानीमुरस ऊर्ध्वदेशगतबलेन वदति। तस्माद्धृदयादीनां त्रयाणामंशक्रमेणावद्येत्। एतदेव क्रमावदानं पशोरङ्गेषु यथापूर्वं भवति। यथा लोकेऽभिवदनव्यवहारः पूर्वं प्रवृत्तस्तथैव भवति।
उत्तरेष्वङ्गेषु हृदयादिवत्प्रसक्तं क्रमं वारयति– ‘यस्यैवमवदाय यथाकाममुत्तरेषामवद्यति यथापूर्वमेवास्य पशोरवत्तं भवति’ (सं. का. ६ प्र. ३ अ. १०) इति।
उक्तप्रकारेण यस्य पशोर्हृदयादीनि त्रीण्यङ्गान्यवदायोत्तरेषामैच्छिकक्रमेऽपि पूर्वं हृदयाद्यङ्गं यथा न दोषकारि तथैवोत्तरमपि भवति।
एकादशस्वङ्गेषु गुदकाण्डरूपमङ्गमुत्तममध्यमाधमभागैस्त्रेधा विभज्य त्रिषु तेषु भागेषु मध्यमोत्तमभागयोर्विकल्पेनावदानं विधत्ते – ‘मध्यतो गुदस्याव द्यति मध्यतो हि प्राण उत्तमस्याव द्यत्युत्तमो हि प्राणो यदीतरं यदीतरमुभयमेवाजामि’ (सं. का. ६ प्र. ३ अ. १०) इति।
प्राणवायुर्मुखमध्ये वर्तते, स्वयं जीवनहेतुत्वाच्चक्षुरादिषु सर्वेषूत्तमश्च। अतो यदीतरं मध्यमभागं स्वी कुर्यात्, यदीतरमुत्तमभागं तदुभयमपि जामिकृन्न भवति, किंत्वनालस्यं दोषरहितमित्यर्थः।
हृदयाद्यवदानानि प्रशंसति– ‘जायमानो वै ब्रह्मणस्त्रिभिणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी तदवदानैरेवाव दयते तदवदानानामवदानत्वम्’ (सं. का. ६ प्र. ३ अ. १०) इति।
ब्रह्मचर्येण वेदाभ्यासेन ब्रह्मचारित्वेन गुरुगृहे वसतीति ब्रह्मचारिवासी वेदाभ्यासादिभिरपाकर्तव्यं यदृणं तद्धृदयाद्यवदानैरेवापाकरोति। ऋणमवदयत एभिरित्यवदानत्वम्।
स्विष्टकृदर्थं त्र्यङ्गावदानं विधत्ते– ‘देवासुराः संयत्ता आसन्ते देवा अग्निमब्रुवन्त्वया वीरेणासुरानभिभवामेति सोऽब्रवीद्वरं वृणै पशोरुद्धारमुद्धरा इति स एतमुद्धारमुदहरत दोः पूर्वार्धस्य गुदं मध्यतः श्रोणिं जघनार्धस्य ततो देवा अभवन्पराऽसुरा यत्त्र्यङ्गाणाँ समवद्यति भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति’ (सं. का. ६ प्र. ३ अ. १०) इति।
उद्धारमुत्कृष्टं ध्रियमाणमुत्तमं भागमुद्धरै स्वी करवाणि। पशोः पूर्वार्धस्य संबन्धि दोर्हस्तम्। मध्यतः पशुमध्यभागसंबन्धि गुदम्। अपरार्धस्य संबन्धिनीं श्रोणिम्।
वक्रगतिं विधत्ते – ‘अक्ष्णयाऽव द्यति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै’ (सं. का. ६ प्र. ३ अ. १०) इति।
गवादयः शयनकालेऽङ्गानि पादानक्ष्णया वक्रत्वेनावस्थापयन्ति। अत्र वक्रगतिः सूत्रे दर्शिता – ‘दक्षिणं दोः सव्या श्रोणिर्गुदतृतीयमिति सौविष्टकृतानि’ इति।
विधत्ते – ‘मेदसा स्रुचौ प्रोर्णोति मेदोरूपा वै पशवा रूपमेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।
जीर्णपटसदृशं हृदयवेष्टनं मेदः। स्रुचौ जुहूपभृतौ। उभयं मेदसाऽऽच्छादयेत्। सति मेदोबाहुल्ये पशवो रूपवन्तो भवन्ति।
तत्र कंचिद्विशेषं विधत्ते– ‘यूषन्नवधाय प्रोर्णोति रसो वा एष पशूनां यद्यू रसमेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।
यूषशब्देन मांसेन सह पक्वं जलमुच्यते। तस्मिञ्जले मेदः प्रक्षिप्य तेनाऽऽच्छादयेत्।
ऐन्द्र इति। कल्पः – ‘अथ पशोरवदानानि संमृशत्यैन्द्रः प्राणो अङ्गेअङ्गे नि देध्यदैन्द्रोऽपानो अङ्गेअङ्गे वि बोभुवद्देव त्वष्टर्भूरि ते सँसमेतु विषुरूपा यत्सलक्ष्माणो भवथ देवत्रा यन्तमवसे सखायोऽनु त्वा माता पितरो मदन्त्वति’ इति।
इन्द्रदेवताकः प्राणोऽस्य पशोस्तस्मिंस्तस्मिन्हृदयाद्यङ्गे नि देध्यन्नितरां धीयतां स्थाप्यताम्। यद्वदपानोऽपि विबोभुवद्विशेषेण भवतु। हे देव त्वष्टस्ते तवानुग्रहेण भूरि सर्वमङ्गजातं संसमेतु च्छेदनेन विश्लिष्टमपि समवेतं भवतु। हे हृदयाद्यवयवा यूयं विषुरूपा विलक्षणरूपा अपि सलक्ष्माणो हविष्ट्वेन समानलक्षणा भवथ। यद्यस्मात्पूर्वं विषुरूपास्तस्मादित ऊर्ध्वं सलक्ष्मत्वं संपादनीयम्। हे पशो देवत्रा देवेषु यन्तं गच्छन्तं त्वां सखाय इतरे पशवो माता पितरश्चानुमदन्तु। किमर्थम्। अवसे त्वन्मुखेन स्वर्गप्राप्त्या स्वकुलं सर्वं सेवितुम्।
श्रीरिति। बौधायनः – ‘अथ दक्षिणेन पार्श्वेन वसाहोमं प्रयौति कुम्बतः श्रीरस्यग्निस्त्वा श्रीणात्वापः समरिणन्वातस्य त्वा ध्रज्यै पूष्णो रँह्या अपामोषधीनाँ रोहिष्या इति’ इति।
आपस्तम्बः – ‘श्रीरसीति पार्श्वेन वसाहोमं प्रयौति वातस्य त्वा ध्रज्या इति तेनैवापि दधाति’ इति।
मांसपाकभाण्डे स्थितः स्नेहात्माको द्रवविशेषो वसा। सा च हूयत इति होमशब्दाभिधेया। पार्श्वशब्देन तत्रत्यमस्थि विवक्षितं, तस्यास्थ्नोऽग्रभागः स्थूलः कुम्बशब्दाभिधेयः। तेन वसारूपं होमद्रव्यं पात्रे गृहीतं प्रयौत्यालोडयेदिति बौधायनवाक्यार्थः।
मन्त्रार्थस्तु – हे वसे श्रीरसि आश्रयणीयाऽसि। तस्मादाहवनीयोऽग्निस्त्वां श्रीणात्वाश्रयतु स्वी करोतु। आपश्च त्वां स्मरिणन्सम्यक्प्राप्नुवन्तु तव शोषो मा भूत्। हे वसे त्वामपिदधामि। किमर्थम् वातस्य ध्रज्यै वायोर्गतये। पूष्णो रंह्यै, आदित्यस्य गतये। अप्संबन्धिनीनामोषधीनां रोहिष्यै प्ररोहार्थम्। त्वयि पिधानेन सुरक्षितायां त्वदीयहोमसुकृतेन वायुगमनादिरूपो जगद्व्यहारः सुस्थितो भवतीति स्तूयते।
आलोडनं विधत्ते– ‘पार्श्वेन वसाहोमं प्र यौति मध्यं वा एतत्पशूनां यत्पार्श्वँ रसं दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।
अवदानसंमर्शनमन्त्रस्य पूर्वभागे श्रुत ऐन्द्र इत्यसौ तद्धितो देवतावाचीत्याह– ‘घ्नन्ति वा एतत्पशुं यत्संज्ञपयन्त्यैन्द्रः खलु वै देवतया प्राण ऐन्द्रोऽपान ऐन्द्रः प्राणो अङ्गेअङ्गे नि देध्यदित्याह प्राणापानावेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।
संज्ञपनं हननेन गलनिरोधनाद्युपघातेन संपद्यते। तेनोपद्रवेणापनीतयोः प्राणापानयोः पुनः स्थापनं कर्तव्यम्।
द्वितीयभागे त्वष्टृश्ब्दाभिप्रायमाह– ‘देव त्वष्टर्भूरि ते सँ समेत्वित्याह त्वाष्ट्रा हि देवतया पशवः’ (सं. का. ६ प्र. ३ अ. ११) इति।
तृतीयभागे हृदयाद्याकारेण वैलक्षण्यं हविष्ट्वेन सालक्षण्यं च प्रसिद्धमित्याह– ‘विषुरूपा यत्सलक्ष्माणो भवथेत्याह विषुरूपा ह्येते सन्तः सलक्ष्माण एतर्हि भवन्ति’ (सं. का. ६ प्र. ३ अ. ११ इति।
चतुर्थभागेऽनुमदन्तुशब्दस्याभिप्रायमाह–
‘देवत्रा यन्तमवसे सखायोऽनु त्वा माता पितरो मदन्त्वित्याहानुमतमेवैनं मात्रा पित्रा सुवर्गं लोकं गमयति’ (सं. का. ६ प्र. ३ अ. ११) इति।
श्रीरसि वातस्य त्वेत्येतौ मन्त्रावुपेक्षितौ।
घृतमिति। बौधायनः – ‘सौऽर्धर्चे याज्यायै वसाहोमं जुहोति घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा त्वाऽन्तरिक्षाय स्वाहेति वषट्कृते हविर्जुहोत्येतस्य होममनु प्रतिप्रस्थाता वसाहोमोद्रेकेण दिशो जुहोति दिशः प्रदिश आदिशो विदिश उद्दिशः स्वाहा दिग्भ्यो नमो दिग्भ्य इति’ इति।
आपस्तम्बः – ‘याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहोति घृतं घृतपावानः पिबतेत्युद्रेकेण दिशः प्रदिश इति प्रतिदिशं जुहोति मध्ये पञ्चमेन प्राञ्चमुत्तमं संस्थाप्य नमो दिग्भ्य इत्युपतिष्टते’ इति।
उद्रेकः शेषः। हे घृतपावानो देवा अत्रत्यं घृतं पिबत। एवमुत्तरत्र। हे पशो त्वमन्तरिक्षवासिनो देवगणस्य हविरस्यतोऽन्तरिक्षवासिने त्वां स्वाहा जुहोमि। दिशः प्राच्यै दिशे स्वाहेति शेषः। प्रदिशः, दक्षिणायै। एवमन्यत्रापि। षष्ठे तु मन्त्रे सर्वाभ्यो दिग्भ्यः स्वाहेति योज्यम्। मन्त्रा उपेक्षिताः।
विधत्ते– ‘अर्धर्चे वसाहोमं जुहोत्यसौ वा अर्धर्च इयमर्धर्च इमे एव रसेनानक्ति दिशो जुहोति दिश एव रसेनानक्त्यथो दिग्भ्य एवोर्जँ रसमव रुन्धे’ (सं. का. ६ प्र. ३ अ. ११ इति।
याज्यायाः पूर्वोत्तरयोरर्धर्चयोरभिमानिनौ देवौ द्यावापृथिव्याविति मध्ये होमेनोभे अपि रसेनाक्ते भवतः। उद्रेकहोमेन दिग्देवतास्तृप्यन्ति। यजमानस्यापि दिशां सकाशादन्नरसप्राप्तिर्भवति।
अवदानपूर्वकं द्वौ प्रैषमन्त्रौ मैत्रावरुणं प्रत्युत्पादयति– ‘प्राणापानौ वा एतौ पशूनां यत्पृषदार्ज्यं वानस्पत्याः खलु वै देवतया पशवो यत्पृषदाज्यस्पोपहत्याऽऽह वनस्पतयेऽनु ब्रूहि वनस्पतये प्रेष्येति प्राणापानावेवं पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।
पृषदाज्यस्योपहत्य पात्रगतं पृषदाज्यं स्रुवेण जुह्वामवदायेत्यर्थः। प्रैषयोरयमर्थः – हे मैत्रावरुण वनस्पतिदेवतायै त्वमनुब्रूहि पुरोनुवाक्यां पठ, ततो याज्यां पठितुं होतारं प्रेरयेति। एवं सति वनस्पतिदेवताकेषु पशुषु पृषदाज्यरूपौ प्राणापानौ दधाति।
अथेडार्थं तस्य तस्य हृदयाद्यङ्गस्यांशमेकत्र समवद्यतीति विधत्ते – ‘अन्यस्यान्यस्य समवत्तँ समवद्यति तस्मान्नानारूपाः पशवः’ (सं. का. ६ प्र. ३ अ. ११ इति।
समवत्तमवत्तशेषम्। अवदेयानामङ्गानां बहुविधत्वाद्धोमलभ्याः पशवोऽपि बहुविधाः।
सर्वेष्ववदानेषु मांसनिःस्रुतजलेनोपसेचनं विधत्ते – ‘यूष्णोप सिञ्चति रसो वा एष पशूनां यद्यू रसमेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११ इति।
हविःशेषस्येडाभागस्य भक्षणायेडोपाह्वानं होतुर्विधत्ते –
‘इडामुप ह्वयते पशवो वा इडा पशूनेवोप ह्वयते चतुरुप ह्वयते चतुष्पादो हि पशवः’ (सं. का. ६ प्र. ३ अ. ११ इति।
इडादेवताया गोरूपत्वात्पशव इडेत्युक्तम्। यद्यप्येतच्चोदकादेव प्रप्तं तथाऽऽप्याघारवदिष्टिविकृतित्वद्योतनाय पुनर्विधानम्।
अत्रेडावदाने मेदसोपस्तरणाभिघारणे विधातुं तद्व्यतिरेकं निन्दति– ‘यं कामयेतापशुः स्यादित्यमेदस्कं तस्मा आ दध्यान्मेदोरूपा वै पशवो रूपेणैवैनं पशुभ्यो निर्भजत्यपशुरेव भवति’ (सं. का. ६ प्र. ३ अ. ११ इति।
स्निग्धद्रवरहितं मांसममेदस्कम्। एनं यजमानं पशूनां (शुभ्यो) निर्भजति निरस्यति। अतो यजमानः पशुरहितो भवति।
विधत्ते– ‘यं कामयेत पशुमान्त्स्यादिति मदस्वत्तस्मा आ दध्यान्मेदोरूपा वै पशवो रूपेणैवास्मै पशूनव रुन्धे पशुमानेव भवति’ (सं. का. ६ प्र. ३ अ. ११ इति।
अत्र सुत्रम् – ‘मेदसोपस्तीर्य मेदसाऽभिघारयाति’ इति।
पृषदाज्येनानूयाजहोमं विधत्ते– ‘प्रजापतिर्यज्ञमसृजत स आज्यं पुरस्तादसृजत पशुं मध्यतः पृषदाज्यं पश्चात्तस्मादाज्येन प्रयाजा इज्यन्ते पशुना मध्यतः पृषदाज्येनानूयाजास्तस्मादेतन्मिश्रमिव पश्चात्सृष्टँ हि’ (सं. का. ६ प्र. ३ अ. ११ इति।
यथा प्रथमसृष्टेनाऽऽज्येन प्रथमभाविनः प्रयाजा इज्यन्ते, यथा वा मध्यतः सृष्टेन पशुना मध्यतो यजते, तथा पश्चात्सृष्टेन पृषदाज्येन पश्चाद्भाविनोऽनूयाजा यष्टव्याः। यस्मादेकं द्रव्यं न पर्याप्तमिति बुद्ध्या पश्चाद्द्रव्यान्तेरेण सहैतद्विहितं तस्मादेतत्पृषदाज्यं दधिमिश्रमेव चोदकप्राप्तम्।
त्रित्वसंख्यामपोद्य संख्यान्तरं विधात्ते– ‘एकादशानूयाजान्यजति। दश वै पशोः प्राणा आत्मैकादशो यावानेव पशुस्तमनु यजति’ (सं. का. ६ प्र. ३ अ. ११) इति।
पृषदाज्यं प्रशंसति– ‘घ्नन्ति वा एतत्पशुं यत्संज्ञपयन्ति प्राणापानौ खलु वा एतौ पशूनां यत्पृषदाज्यं यत्पृषदाज्येनानूयाजान्यजति प्राणापानावेव पशुषु दधति’ (सं. का. ६ प्र. ३ अ. ११ इति।
अत्र विनियोगसंग्रहः –
‘सं तेऽभिघार्य हृदयमैन्द्रोऽवत्ताभिमर्शनम्।
श्रीः पार्श्वेन वसां यौति वात पार्श्वावृता वसा॥१॥
घृतं वसाहुतिः षड्भिर्दिग्घोमा नम इत्यतः।
दिश्युपस्थानमत्रैते मन्त्रा द्वादश वर्णिताः॥२॥’ इति।
अथ मीमांसा।
द्वादशाध्यायस्य प्रथमपादे चिन्तितम्–
“पश्वर्थानुष्ठितैर्नास्ति पुरोडाश उपक्रिया।
अस्ति वा विध्यभावान्नो ह्यस्त्यवार्यत्वतोध्ववत्” इति।
अग्नीषोमीयस्य पशोर्यानि चोदकप्राप्तानि प्रयाजादीन्यङ्गान्यनुष्ठितानि तैः पशुपरोडाश उपकारो नास्ति। कुतः। तदुपकारबोधकस्य विधेरभावात्। चोदकस्तु दर्शपूर्णमासवत्पशुरनुष्ठेय इत्येवंरूपत्वात्वात्पशावेव तदुपकारं बोधयति। ननु पशुपुरोडाशस्यापीष्टिविकृतित्वात्तत्रापि चोदकोऽस्तीति चेद्बाढम्। अत एव भिन्नचोदकबलात्पुरोडाशोपकाराय प्रयाजाद्यङ्गानि पृथगनुष्ठेयानीति प्राप्ते ब्रूमः – यद्यपि पश्वर्थैः पुरोडाशस्योपकार इत्येतादृशं शास्रं नास्ति तथाऽप्ययमुपकारोऽर्थतः प्राप्तो न वारयितुं शक्यते। यथा प्रदीपस्य वेदिप्रकाशार्थं निर्मितस्यार्थसिद्धं मार्गप्रकाशकत्वमनिवार्यं तथा पशुतन्त्रमध्येऽनुष्ठीयमानस्य पुरोडाशस्य पश्वर्थैरङ्गैरुपकारः केन वार्येत। तस्मादन्यार्थैरस्तूपकारः।
तत्रैवान्यच्चिन्तितम्–
“आज्यभागौ पुरोडाशे न स्तः स्तो वाऽस्य चोदकः।
लुप्तस्ततो न तौ मैवं प्रयोगांशस्य लोपनात्” इति॥
तौ न पशौ करोतीति निषेधादाज्यभागयोः पशावभावेन पुरोडाशे प्रसङ्गसिद्धिर्नास्ति। ततस्तौ विचार्येते। तत्र पुरोडाश आज्यभागौ न स्त इति तावत्प्राप्तम्। कुतः। पुरोडाशविशषयस्य चोदकस्य लुप्तत्वात्। अन्यथा प्रयाजादीनामपि पुनरनुष्ठानापत्तेरिति प्राप्ते ब्रूमः – न तावत्पुरोडाशे चोदको लुप्यते। चोद(बाध)काभावात्। पूर्वोक्तप्रसङ्गसिद्धिस्तु प्रयोगवचनमेव बाधते न चोदकम्। अन्यथा प्रयाजादीनां पुरोडाशाङ्गत्वाभावेन प्रसङ्गसिद्धेरप्यवक्तव्यत्वात्। ननु प्रयोगबाधेऽप्याज्यभागौ न स्त इति चेन्न। आज्यभागौ प्रति बाधिता(का)याः प्रसङ्गसिद्धेरभावात्। ततः प्रसङ्गसिद्धाङ्गविषयप्रयोगांशस्यैव बाधादबाधितेन प्रयोगवचनांशेनाऽऽज्यभागावनुष्ठाप्येते। यथा देवदत्ते यज्ञदत्तयानमारूढे देवदत्तयानं निवर्त्यते न तु वस्त्रालंकारादि तद्वत्।
दशमाध्यायस्य तृतीयपादे चिन्तितम्–
“प्रयाजैकादशत्वादिविशेषविधिभिर्युते।
पश्वादौ सामिधेन्यादिविध्यन्तो नास्त्युतास्त्यसौ॥
विशिष्टाङ्गविधौ नासौ चोदकस्याप्रवृत्तितः।
लाघवाद्गुणमात्रस्य विधेः साऽ(सोऽ)स्त्यतिदेशतः” इति॥
अग्नीषोमीयपशावेकादश प्रयाजाः श्रुताः चातुर्मास्येषु नव प्रयाजा, वायव्यपशौ हिरण्यगर्भ इत्याघारमन्त्र इत्यादिभिर्युतेषु पश्वादिषु प्राकृतेतिकर्तव्यता सामिधेन्यादिर्नास्ति। कुतः। संख्यामन्त्रादिगुणविशिष्टस्य प्रयाजाघाराद्यङ्गास्य प्रत्यक्षविधौ सत्युपदिष्टेनैवाङ्गेन निराकाङ्क्षे पश्वादौ चोदकस्याप्रवृत्तेरिति पूर्वः पक्षः। पश्वादिविधिस्तावदितिकर्तव्यतामाकाङ्क्षाति। तत्र प्राकृताङ्गान्यतिदिश्य वा तदाकाङ्क्षा पूर्यतां विधास्यमानान्यङ्गान्तराण्युपदिश्य वेति विवक्षायां कॢप्तोपकारतया प्राकृताङ्गातिदेश एव न्याय्यः। ततश्चातिदेशतः प्राप्तप्रयाजाद्यङ्गमनूद्य गुणमात्रविधौ लाघवं भवति। गुणविशिष्टाङ्गविधौ तु गौरवं स्यात्। तस्मात्संख्यान्तरमन्त्रान्तराभ्यां पूर्वयोः संख्यामन्त्रयोर्बाधेऽपि प्रयाजाघारसामिधेन्यादीतिकर्तव्यता प्राप्नोत्येवातिदेशादिति राद्धान्तः।
दशमाध्यायस्य सप्तमे पादे चिन्तितम्–
“पशुः कृत्स्नो हविः किंवा प्रत्यङ्गं हविरन्यता।
आद्यश्चोदनया मैवमवदानपृथक्त्वतः” इति॥
अग्नीषोमीयं पशुमालभेतेत्यत्र कृत्स्नस्य पशोरेकहविष्ट्वं युक्तम्। कुतः। अग्नीषोमीयदेवतां प्रति द्रव्यत्वेन पशोश्चोदित्वात्। न हि हृदयाद्यङ्गं साक्षात्पशुर्भवतीति प्राप्ते ब्रूमः – ‘हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः’ ‘दोष्णोरवद्यति पार्श्वयोरवद्यति’ इत्यादिना हृदयाद्यङ्गानामवदानानि पृथगाम्नायन्ते। अवदानं च हविष्ट्वप्रयोजकः संस्कारः। पुरोडाशादौ होतुमवदीयमानत्वदर्शनात्। हविःशब्दश्च कर्मव्युत्पत्त्या होमयोग्यं द्रव्यं ब्रूते। पश्वाकृतिचोदना तु हृदयाद्यङ्गद्वारेण देवतासंबन्धादुपपद्यते। तस्मात्प्रत्यङ्गं हविर्भेदः।
तत्रैवान्यच्चिन्तितम्–
“एकेनाङ्गेन सर्वैर्वा यद्वैकादशभिर्यजिः।
एकेन यागसंसिद्धेर्हविषां भेदतोऽखिलैः॥
एकादशभिरन्येषां परिसंख्या भवेद्यतः।
न त्रिदोषी गत्भावादशृतोक्तेश्च सोचिता” इति।
प्रत्यङ्गं हविर्भेदे स्थिते सति त्रेधा यागे संशयः। तत्रानिर्दिष्टविशेषेण येन केनाप्यङ्गेन यागः कर्तव्यस्तावतैव यागस्य सिद्धेरित्येकः पक्षः। चोदितपश्वङ्गत्वं परिगणितेषु हृदयादिष्वङ्गेषु चांसशिरःप्रभृतिषु समानम्। ततो हृदयादिवदंसादीनां हविर्भेदत्वाद्यागमन्तरेण हूयमानत्वलक्षणहविष्ट्वस्यापर्यवसानात्सर्वैरङ्गैर्याग इति द्वितीयः पक्षः। हृदयादिभिरेकादशभिरेवाङ्गैर्यागः कर्तव्यः। कुतः। अन्येषामंसादीनां परिसंख्यातत्वात्। कुतः, चोदकेन सर्वेषामङ्गानामवदाने प्राप्ते हृदयादिवाक्येनांसादयः परिसंख्यायन्ते। ननु परिसंख्यायां विधिः स्वार्थं जह्यात्परार्थः कल्पेत प्राप्तं च बाधेतेति दोषत्रयं प्रसज्येत। प्रसज्यतां नाम। सति हि गत्यन्तरे तेषां दोषत्वम्। परिसंख्यायास्तु ते त्रयः स्वरूपमिति कृत्वा न दोषतां भजन्ते। किंच द्वयानि मांसान्यभिमृशन्ति शृताशृतानीति केषांचिन्मांसानामपक्वत्वमुच्यते। पाकस्तु हविषो मांसस्य प्रतिनियतः। तस्मादशृतत्वोक्तिरंसादिपरिसंख्यां गमयति। एतदेवाभिप्रेत्यांसादिप्रतिषेधः श्रुत्या वर्ण्यते ‘नांसयोरवद्यति न शिरसः’ इत्यादिना। तस्मादेकादशभिरेव यागः कर्तव्यः।
तत्रैवान्यच्चिन्तितम्–
“इज्याशेषैरशेषैर्वा त्र्यङ्गैः स्विष्टकृतो हुतिः।
आद्यः प्रकृतिवन्मैवं पूर्वार्धेत्युक्तिशेषतः” इति॥
पशौ श्रूयते – ‘त्र्यङ्गैः स्विष्टकृतं यजति’ इति। तत्रेज्यार्थानां हृदयाद्येकादशाङ्गानां मध्ये यैः कैश्चित्त्र्यङ्गैरिज्याशेषभूतैः स्विष्टकृद्धोतव्यः। कुतः। प्रकृताविज्याशेषेण पुरोडाशेन स्विष्टकृतो हुतत्वादत्रापि चोदकेन तथात्वादिति प्राप्ते ब्रूमः – ‘दोष्णः पूर्वार्धादग्नये समवद्यति गुदस्य मध्यतः श्रोण्या जघानतः’ इति वाक्यशेषेण हृदयादिभ्य एकादशभ्योऽन्यानि त्रीण्यङ्गानि स्विष्टकृते समाम्नायन्ते। न च हृदयादिष्वपि गुदादीन्याम्नातानीति शङ्कनीयं, तद्विशेषस्य कल्पसूत्रकारेण दर्शितत्वात्। ‘हृदयं जिह्वा वक्षो यकृद्वृक्यौ सव्यं दोरुभे पार्श्वे दक्षिणा श्रोणिर्गुदतृतीयमिति दैवतानि, दक्षिणं दोः सव्या श्रोणिर्गुदतृतीयमिति सौविष्टकृतानि’ इति।
तस्मादनिज्याशेषैस्त्र्यङ्गैः स्विष्टकृद्धोमः।
अष्टमाध्यायस्य द्वितीयपादे चिन्तितम्–
“पुरोडाशस्य सांनाय्यस्य वा धर्मः पशौ यतः।
देवैक्यमाद्यस्तस्मान्नो हविर्जन्मादिसाम्यतः” इति॥
अग्नीषोमीये पशावग्नीषोमीयपुरोडाशस्य धर्मः कार्यः। कुतः। देवतैक्यादिति चेन्मैवम्। सांनाय्यं पशोरुत्पन्नं, पशुरपि पशोरुत्पन्नः, श्रपणार्थमुखा सांनाय्यपश्वोः समा। हविःसाम्यं च बलीय इत्युक्तम्। तस्मात्सांनाय्यस्य धर्मः।
अत्र च्छन्दो नास्ति॥
इति श्रीमत्सायणाचार्विरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके दशमोऽनुवाकः॥१०॥

अथ प्रथमाष्टके तृतीयप्रपाठक एकादशोऽनुवाकः)।
दशमेऽनुवाके वसाहोमो वर्णितः। एकादशे गुदकाण्डेनोपयट्संज्ञका होमा उच्यन्ते।
कल्पः – ‘आग्नीध्रादौपयजानङ्गारानाहरति होत्रीय उपयज उपयजति शामित्रान्निरूढपशुबन्ध उत्तरस्यां वेदिश्रोण्यां गुदकाण्डमेकादशधा तिर्याक्छित्त्वाऽसंभिन्दन्नपर्यावर्तयन्ननूयाजानां वषट्कृते वषट्कृत एकैकं गुदकाण्डं प्रतिप्रस्थाता हस्तेन जुहोति समुद्रं गच्छ स्वाहेत्येतैः प्रतिमन्त्रं सर्वाणि हुत्वाऽभ्यस्त्वौषधीभ्य इति बर्हिषि लेपं निमृज्य मनो मे हार्दि यच्छेति जपति’ इति।
समुद्रमिति। हे हविस्त्वं समुद्रादिनामकान्देवान्गच्छ। हे लेप त्वामप्कार्यौषधिसिद्ध्यर्थं बर्हिषि निमार्ज्मि। हृदये भवो हार्दो हर्षः सोऽस्यास्तीति हार्दि। हे समुद्रादिदेवतासमूह मे हार्दि मनः प्रयच्छ। त्वत्प्रसादात्तनूमुत्तमजातियुक्तं शरीरं त्वचं कान्तिमद्रूपं तथा गुणवन्तं पुत्रं तत्पौत्रं चाशीय प्राप्नुयाम्।
उपयजो विधत्ते– ‘यज्ञेन वै प्रजापतिः प्रजा असृजत ता उपयड्भिरेवासृजत यदुपयज उपयजति प्रजा एव तद्यजमानः सृजते’ (सं. का. ६ प्र. ४ अ. १) इति।
ज्योतिष्टोमयज्ञस्य सृष्टिसाधनत्वेऽपि साक्षात्साधनत्वमुपयजामेव। अनूयाजसमीप इज्यन्त इत्युपयजः।
पशोः पाश्चात्यभागं द्रव्यत्वेन विधत्ते– ‘जघनार्धादव द्यति जननार्धाद्धि प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. ४) इति।
त्रेधा विभक्ते गुदकाण्डे स्थूलभागं विधत्ते–
‘स्थाविमतोऽव द्यति स्थविमतो हि प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. १) इति।
निर्गन्तुं सुकरात्स्थूलाच्छिद्रात्प्रजा उत्पद्यन्ते।
क्रमेण च्छिन्नानां भागानां सांकर्यं वारयति– “असंभिन्दन्नव द्यति प्राणानामसंभेदाय” (सं. का. ६ प्र. ४ अ. १) इति।
अग्रभागं प्रथमतोऽवदाय पश्चान्मूलभागमित्येतादृशं विपर्यासं निषेधति– ‘न पर्यावर्तयति यत्पर्यावर्तयेदुदावर्तः प्रजा ग्राहुकः स्यात्’ (सं. का. ६ प्र. ४ अ. १) इति।
उदावर्तो रोगविशेषः।
समुद्रादिमन्त्राणां सर्वेषां प्रजोत्पत्तावुपयोगं विवक्षुः समुद्रजलस्य रेतःसाम्यमभिप्रेत्याऽऽह– ‘समुद्रं गच्छ स्वाहेत्याह रेत एव तद्दधाति’ (सं. का. ६ प्र. ४ अ. १) इति।
अन्तरिक्षशब्दस्यावकाशप्रदानेनोपयोगं दर्शयति– ‘अन्तरिक्षं गच्छ स्वाहेत्याहान्तरिक्षेणैवास्मै प्रजाः प्र जनयत्यन्तरिक्षँ ह्यनु प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. १) इति।
प्रेरकत्वेन सवितुरुपयोग इत्याह– देवँसवितारं गच्छ स्वाहेत्याह सवितृप्रसूत एवास्मै प्रजाः प्र जनयति’ (सं. का. ६ प्र. ४ अ. १) इति।
उत्पत्तिकालत्वेनाहोरात्रोपयोगमाह– ‘अहोरात्रे गच्छ स्वाहेत्याहोरात्राभ्यामेवास्मै प्रजाः प्र जनयत्यहोरात्रे ह्यनु प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. १) इति।
प्राणापानप्रदत्वेन मित्रावरुणयोगमाह– ‘मित्रावरुणौ गच्छ स्वाहेत्याह प्रजास्वेव प्राजातासु प्राणापानौ दधाति’ (सं. का. ६ प्र. ४ अ. १) इति।
देवतात्वेन सोमोपयोगमाह– ‘सोमं गच्छ स्वाहेत्याह सौम्या हि देवतया प्रजाः’ (सं. का. ६ प्र. ४ अ. १) इति।
प्रजाप्रदत्वेन यज्ञस्योपयोगमाह– ‘यज्ञं गच्छ स्वाहेत्याह प्रजा एव यज्ञियाः करोति’ (सं. का. ६ प्र. ४ अ. १) इति।
पशुप्रदत्वेन च्छन्दसामुपयोगमाह– ‘छन्दाँसि गच्छ स्वाहेत्याह पशवो वै छन्दाँसि पशूनेवाव रुन्धे’ (सं. का. ६ प्र. ४ अ. १) इति।
धारणाय द्यावापृथिव्योरुपयोगमाह–
‘द्यावापृथिवी गच्छ स्वाहेत्याह प्रजा एव प्रजाता द्यावापृथिवीभ्यामुभयत परि गृह्णाति’ (सं. का. ६ प्र. ४ अ. १) इति।
वृष्टिप्रदानेन नभस उपयोगमाह– ‘नभो दिव्यं गच्छ स्वाहेत्याह प्रजाभ्य एव प्रजाताभ्यो वृष्टिं नि यच्छति’ (सं. का. ६ प्र. ४ अ. १) इति।
प्रतिष्ठाप्रदानेन वैश्वानरस्योपयोगमाह– ‘अग्निं वैश्वानरं गच्छ स्वाहेत्याह प्रजा एव प्रजाता अस्यां प्रति ष्ठापयति’ (सं. का. ६ प्र. ४ अ. ३) इति।
अद्भ्यस्त्वौषधीभ्य इति मन्त्र उपेक्षितः।
मनो मे हार्दि यच्छेति प्रार्थनायाः प्रसङ्गमाह– ‘प्राणानां वा एषोऽव द्यति योऽवद्यति गुदस्य मनो मे हार्दि यच्छेत्याह प्राणानेव यथास्थानमुप ह्वयते’ (सं. का. ६ प्र. ४ अ. ३) इति।
गुदस्य प्राणाधारत्वेन तदवदाने सति स्थानभ्रष्टाः प्राणाः पुनर्मन्त्रेण यथास्थानं स्थापिता भवन्ति।
शुगसीति। कल्पः – ‘अग्रेण यूपं स्फ्येनोद्धत्यावोक्ष्य शुष्कस्य चाऽऽर्द्रस्य च संधौ हृदयशूलमुद्वासयति शुगसि तमभि शोच योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाद्भिर्मार्जयन्ते धाम्नोधाम्नो राजन्नितो वरुण नो मुञ्च यदापो अघ्निया वरुणेति शपामहे ततो वरुण नो मुञ्चेति’ इति।
हे हृदयशूल त्वं शुगसि शोकरूपमसि। अतो द्वेष्टारं द्वेष्यं चाभिशोचाभिप्राप्य शोचय। हे वरुण त्वमितो धाम्नोधाम्नस्तत्तद्द्वेष्टृष्यस्थानाच्छोकप्रापकादस्मान्मोचय। किंच हे आपो हेऽघ्निया हे वरुणेत्येवं वयं तदाऽस्माकमिष्टप्राप्त्यनिष्टनिवारणार्थं देवं त्वां शपामहे बाधामहे। महतां प्रत्यक्षं नामग्रहणमेव तावन्महान्द्रोहः। तथा च श्रूयते – ‘यो वै वसीयाँसं यथानाममुपचरति पुण्यार्तिं वै स तस्मै कामयते’ इति। न केवलमत्र नामग्रहणं किंत्वस्मदपेक्षिततत्तत्कार्यसाधनप्रयासश्च। तेनोभयेन जन्यं यत्पापमस्ति हे वरुण ततः पापादस्मान्मोचय। मन्त्रावेतावुपेक्षितौ।
शूलोद्वासनं विधत्ते– ‘पशोर्वा आलब्धस्य हृदयँ शुगृच्छति सा हृदयशूलमभि समेति यत्पृथिव्याँ हृदयशूलमुद्वासयेत्पृथिवीँ शूचाऽर्पयेद्यदप्स्वपः शुचाऽर्यच्छुष्कस्य चाऽऽर्द्रस्य च संधावुद्वासयत्यिभयस्य शान्त्यै’ (सं. का. ६ प्र. ४ अ. १०) इति।
उद्वासनकाले ध्यानं विधत्ते– ‘यं द्विष्यात्तं ध्यायेच्छुचैवैनमर्पयति’ (सं. का. ६ प्र. ४ अ. १) इति।
अत्र विनियोगसंग्रहः – “समुद्रं गुदकाण्डस्य होमा अद्भ्यस्तु बर्हिषि।
लेपं मार्ष्टि मनो जप्यः शुक्संधावार्द्रशुष्कयोः।
त्यक्त्वा शूलं धाम्नो मृज्यं भवेत्पञ्चदशोदिताः॥१॥” इति।
अत्र मीमांसाछन्दसी न स्तः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयपाठपके एकादशोऽनुवाकः ॥११॥

(अथ प्रथमाकाण्डे तृतीयप्रपाठके द्वादशोऽनुवाकः)।
एकादशेऽनुवाके गुदकाण्डहोमो वर्णितः। एतावताऽग्नीषोमीयः पशुः समाप्तः। अथ सोमाभिषवोपयुक्तानां वसतीवरीसंज्ञकानामपामुपादानं द्वादशेऽनुवाकेऽभिधीयते।
हविष्मतीरिति। कल्पः – ‘अथ यो वीडितः कुम्भस्तं याचति तमादायान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य यत्राऽऽपस्तदेति नान्तमा वहन्तीरत्येति न स्थावराणां गृह्णाति प्रतीपं तिष्ठन्गृह्णाति च्छायायै चाऽऽतपश्च संधौ गृह्णाति हविष्मतीरिमा आपो हविष्मान्देवो अध्वरो हविष्माँआ विवासति हविष्माँअस्तु सूर्य इति’ इति।
वीडितो दृढः। इमा गृह्यमाणा वसतीवरीसंज्ञका आपः स्वसंस्कारेण सोमेन हविष्मत्यो भवन्तु। देव इन्द्रोऽपि हविष्मानस्तु। अध्वरो यागोऽपि हविष्मानाविवासति समन्ताद्विशेषेण प्रवर्तताम्। वसतीवरीणां प्रकाशकत्वेन सूर्योऽपि हविष्मानस्तु।
विधत्ते– ‘देवा वै यज्ञमाग्नीध्रे व्यभजन्त ततो यदत्यशिष्यत तदब्रुवन्वसतु नु न इदमिति तद्वसतीवरीणां वसतीवरित्वं तस्मिन्प्रातर्न समशक्नुवन्तदप्सु प्रावेशयन्ता वसतीवरीरभवन्वसतीवरीर्गृह्णाति यज्ञो वै वसतीवरीर्यज्ञमेवाऽऽरण्य गृहीत्वोप वसति’ (सं. का. ६ प्र. ४ अ. २) इति।
पुरा कदाचिद्देवा आग्नीध्रमण्डपे स्थित्वा यज्ञशालामंशेनेदं ममेदं ममेत्येवं व्यभजन्त। ततः सर्वैः स्वस्वभागेषु यदवशिष्टं तदुद्दिश्य परस्परमब्रुवन्निदमवशिष्टमिदानीं साधारण्येनास्माकमेव तिष्ठतु प्रातर्विभागं करिष्याम इति। यस्माद्वसत्विति देवैरुक्तं तस्मात्तस्यांशस्य देवोक्तियोगाद्वसतीवरीरिति नाम संपन्नम्। वसत्वित्युक्त्या यच्छेषभूतं तद्वत्य आपो वसतीवर्यः। ततः प्रातःकाले पुनः समागत्य तस्मिन्नवशिष्टे विभागं कर्तुं नाशक्नुवन्। तस्याल्पत्वेन बहूनामपर्याप्तत्वात्। तस्य साधारणस्यैकेन ग्रहीतुमशक्यत्वादप्सु परित्यक्तवन्तः। ताश्चाऽपो वसतीवर्योऽभवन्। ततो यज्ञांशत्वाद्वसतीवरीर्गृह्णीयात्। तद्ग्रहणेन यज्ञमेवोपक्रम्य दृढं धारयित्वा तत्समीपे वसति।
तस्य ग्रहणस्य सूर्यास्तमयात्पूर्वकालं व्यतिरेकमुखेन(ण)
विधत्ते– ‘यस्यागृहीता अभि निम्रोचेदनारब्धोऽस्य यज्ञः स्याद्यज्ञं वि च्छिन्द्यात्’ (सं. का. ६ प्र. ४ अ. २) इति।
अगृहीता एता अभिलक्ष्य यन्निम्रोचेदस्तमियात्तदा पूर्वदिने यज्ञोऽनुपक्रान्तो भवेत्। तदाऽपरेद्युरनुष्ठितोऽपि विच्छिन्न एव स्यात्।
कथंचिदस्तमये सति त्रेधा प्रतीकारं विधत्ते–
‘ज्योतिष्या वा गृह्णीयाद्धिरण्यं वाऽवधाय सशुक्राणामेव गृह्णाति यो वा ब्राह्मणो बहुयाजी तस्य कुम्भ्यानां गृह्णीयात्स हि गृहीतवसतीवरीकः’ (सं. का. ६ प्र. ४ अ. २) इति।
उल्कया द्योतिता इत्याद्यः पक्षः। कुम्भे हिरण्यमवधाय तत्सहिता इति द्वितीयः पक्षः। सोमयाजिगृह कुम्भगता इति तृतीयः पक्षः।
उक्तमेव विधिमनूद्य प्रशंसति–
‘वसतीवरीर्गृह्णाति पशवो वै वसतीवरीः पशूनेवाऽऽरभ्य गृहीत्वोप वसति’ (सं. का. ६ प्र. ४ अ. २) इति।
पशुप्राप्तिहेतुतया पशुत्वम्।
ग्रहणकाले प्रवाहाभिमुख्यं विधात्ते–
‘यदन्वीपं तिष्ठन्गृह्णीयान्निर्मार्गुका अस्मात्पशवः स्युः प्रतीपं तिष्ठन्गृह्णाति प्रतिरुध्यैवास्मै पशून्गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।
प्रवाहो यन्मुखस्तन्मुखत्वेनावस्थानमन्वीपत्वं, तद्वैपरीत्यं प्रतीपत्वं,
निर्मार्गुका विनश्वराः, प्रतिरुध्य विनाशं निवार्य।
प्रवाहगतोदकं विधत्ते– ‘इन्द्रो वृत्रमहन्त्सोऽपोऽभ्यम्रियत तासां यन्मेध्यं यज्ञियँ सदेवमासीत्तदत्यमुच्यत ता वहन्तीरभवन्वहन्तीनां गृह्णाति या एव मेध्या यज्ञियाः सदेवा आपस्तासामेव गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।
प्रवाहेष्वत्यन्तसमीपस्थं जलं व्यतिरेकमखेण विधत्ते– ‘नान्तमा वहन्तीरतीयाद्यदन्तमा वहन्तीरतीयाद्यज्ञमति मन्येत’ (सं. का. ६ प्र. ४ अ. २) इति।
अन्तमा अन्तिकतमाः। अतिमन्येतावजानीयात्।
वहन्तीष्वपि नदीषु या ह्रदवर्तिन्यः स्थावरा आपो याश्च तटाकादिस्थास्तासां ग्रहणं निषेधति–
‘न स्थावराणां गृह्णीयाद्वरुणगृहीता वै स्थावरा यत्स्थावराणां गृह्णीयाद्वरुणेनास्य यज्ञं ग्राहयेत्’ (सं. का. ६ प्र. ४ अ. २) इति।
अपां ग्रहणाय च्छायातपयोः संधिदेशं विधत्ते–
‘यद्वै दिवा भवत्यपो रात्रिः प्र विशति तस्मात्ताम्रा आपो दिवा ददृश्रे यन्नक्तं भवत्यपोऽहः प्र विशति तस्माच्चन्द्रा आपो नक्तं ददृश्रे छायायै चाऽऽतपतश्च संधौ गृह्णात्यहोरात्रयोरेवास्मै वर्णं गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।
अहर्यदा वर्तते तदानीमप्सु रात्रिः प्रविशति। तत्र जलवर्णस्य शुक्लस्य रात्रिवर्णस्य कृष्णस्य च मेलनादीषत्ताम्रा इवाऽऽपो दिने दृश्यन्ते। यथा राहुग्रस्ते चन्द्रे ताम्रत्वं तद्वत्। यदा तु रात्रिः प्रवर्तते तदानीमहोऽप्सु प्रविशति। तत्र शुक्लवर्णयोर्मेलनादापो रात्रौ चन्द्रवदतिश्वेता दृश्यन्ते। तस्माद्वर्णद्वयोपेते संधिदेशे गृह्णीयात्।
जलविशेषेण मन्त्रगतहविःशब्देन हविःसंपादकत्वं विवक्षितमित्याह–
‘हविष्मतीरिमा आप इत्याह हविष्कृतानामेव गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।
सूर्यशब्देनापां प्रकाशोपेतत्वं विवक्षितमित्याह–
‘हविष्माँ अस्तु सूर्य इत्याह सशुक्रणामेव गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।
मन्त्रगतस्य च्छन्दस उपयोगमाह–
‘अनुष्टुभा गृह्णाति वाग्वा अनुष्टुग्वाचैवैनः सर्वया गृह्णाति’ (सं. का. ६ प्र. ४ अ. २) इति।
अग्नेरिति। कल्पः – ‘अग्नेर्वोऽपन्नगृहस्य सदसि सादयामीत्यपरेण शालामुखीयमुपसादयति, सुम्नाय सुम्निनीः सुम्ने मा धत्तेति सर्वेषु वसतीवरीणां सादनेषु यजमानो जपति, निशायां वसतीवरीः परिहरत्यन्तर्वेद्यासीने यजमाने पत्न्यां च नादीक्षितमभिपरिहरेत्सव्येंऽसेऽत्याधायापरेण प्राजिहितं परिक्रम्य पूर्वया द्वारोपनिर्हृत्य दक्षिणेन वेदिं गत्वा दक्षिणेन मार्जालीयं धिष्णियं परीत्य दक्षि णस्यामुत्तरवेदिश्रोण्यां सादयति – इन्द्राग्नियोर्भागधेयीः स्थेति, दक्षिणेंऽसेऽत्याधाय यथेतं गत्वा पूर्वया द्वारोपनिर्हृत्योत्तरेण वेदिं गत्वोत्तरेणाऽऽग्नीध्रीयं धिष्णियं परीत्योत्तरस्यामुत्तरवेदिश्रोण्यां सादयति मित्रावरुणयोर्भागधेयीः स्थेति, सव्येंऽसेऽत्याधाय यथेतं गत्वाऽपरेणाऽऽग्नीध्रीयं धिष्णियमुपसादयति विश्वेषां देवानां भागधेयीः स्थेति, यज्ञे जागृतेति सन्ना अनुमन्त्रयते’ इति।
हे वसतीवर्यो युष्मानविनश्वरगृहस्य शालामुखीयस्याग्नेः सदसि सादयामि समीपस्थाने स्थापयामि। हे आपः सुम्नाय सर्वप्राणिसुखाय प्रवृत्ताः सुम्निनीः स्वयमपि सुखवत्यो यूयं मां यजमानं सुम्ने सुखे धत्त स्थापयत। यूयं यक्ष्यमाणानामिन्द्रादिदेवानां भागरूपाः स्थ। तस्माद्यज्ञे जागृत रक्षोनिवारणाय सावधाना भवत। अग्नेर्वः सुम्नायेति द्वौ मन्त्रावुपेक्षितौ।
हविष्मतीरित्यारभ्य क्रचः पादेषु या चतुःसंख्या या च शालामुखीयोत्तरवेद्याग्नीध्रीयस्थानत्रयविशिष्टा सादनसंख्या तदुभयं प्रशंसति–
‘चतुष्पदयर्चा गृह्णाति त्रिः सादयति सप्त सं पद्यन्ते सप्तपदा शक्वरी पशवः शक्वरी पशूनेवाव रुन्धे’ (सं. का. ६ प्र. ४ अ. २) इति।
शालामुखीयोत्तरवेद्योः सादनं विधत्ते– ‘अस्मै वै लोकाय गार्हपत्य आ धीयतेऽमुष्मा आहवनीयो यद्गार्हपत्य उपसादयेदस्मिल्ँ लोके पशुमान्त्स्याद्यदाहवनीयेऽमुष्मिल्ँ लोके पशुमान्त्स्यादुभयोरुप सादयत्युभयोरेवैनं लोकयोः पशुमन्तं करोति’ (सं. का. ६ प्र. ४ अ. २) इति।
स्थानत्रये यत्सूत्रोक्तं परिभ्रामणं तद्विधत्ते– ‘सर्वतः परि हरति रक्षसामपहत्यै’ (सं. का. ६ प्र. ४ अ. ४) इति।
मन्त्रचतुष्टये स्पष्टार्थतां दर्शयति– ‘इद्राग्नियोर्भागधेयीः स्थेत्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. ४ अ. ४) इति।
विधत्ते– ‘आग्निध्र उप वासयत्येतद्वै यज्ञस्यापराजितं यदाग्नीध्रं यदेव यज्ञस्यापराजितं तदेवैना उप वासयति’ (सं. का. ६ प्र. ४ अ. २) इति।
तदेव तस्मिन्नेव। यद्विहितं वहन्तीनां गृह्णातीति तदेव प्रशंसति–
‘यतः खलु वै यज्ञस्य विततस्य न क्रियते तदनु यज्ञँ रक्षाँस्यव चरन्ति यद्वहन्तीनां गृह्णाति क्रियमाणमेव तद्यज्ञस्य शये रक्षासामनन्ववचाराय’ (सं. का. ६ प्र. ४ अ. २) इति।
विततस्य विस्तीर्णस्य यज्ञस्य यतो यदङ्गं विमृश्य न क्रियते तदेव च्छिद्रमनुप्रविश्य रक्षांस्यवचरन्ति अपकुर्वन्ति वहन्तीग्रहणेन तदङ्गं क्रियमाणमेव शये शेते भवति।
आग्नीध्रे सादितानां तृतीयसवनगताभिषवपर्यन्तं धारणं विधत्ते – ‘न ह्येता ईलयन्त्या तृतीयसवनात्परि शेरे यज्ञस्य संतत्यै’ (सं. का. ६ प्र. ४ अ. २) इति।
एता आपो न ह्यपगमयन्ति, किंतु परिशेरेऽवतिष्ठन्ते, स्थापयेदित्यर्थः।
अत्र विनियोगसंग्रहः –
“हविर्गृह्णाति वसतीवरीरग्नेस्तु सादयेत्।
शालामुखीयतः पश्चात्सुम्ना स्वामी जपेत्पुनः॥१॥
इन्द्रमित्रद्वयाद्वेदिश्रोण्योरासादयेत्क्रमात्।
विश्वे ह्याग्नीध्रधिष्ण्यस्य पश्चादासादयेत्पुनः।
यज्ञेति मन्त्रयेत्सन्नाः सन्नाः सप्तमन्त्रा इहोदिताः॥२॥” इति
अत्र न मीमांसा।
अथ च्छन्दः।
हविष्मतीरित्यनुषिटुप्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके द्वादशोऽनुवाकः॥१२॥

(अथ प्रथमाष्टके तृतीयप्रपाठके त्रयोदशोऽनुवाकः)।
द्वादशेऽनुवाके सोमाभिषवार्थानां वसतीवरीणां ग्रहणमुक्तम्। अभिषोतव्यस्य सोमस्य शकटादुपावरोहस्त्रयोदशेऽनुवाकेऽभिधीयते। अथ महारात्रे प्रबुध्य सोमपात्राण्यासाद्य सोममवरोहयेत्।
कल्पः – ‘अथैतच्चर्मफलकयोः प्रचीनग्रीवमुत्तरलोमोपस्तृणाति यज्ञ प्रतितिष्ठेति वा तूष्णीं वा तस्मिन्संमुखान्ग्राव्णः कृत्वा दक्षिणस्य हविर्धानस्यान्तरेणेषे सोमं राजानमुपावहरति हृदे त्वा मनसे त्वा सोम राजन्नेह्यवरोहेति द्वाभ्याम्’ इति।
मन्त्रौ त्वेवमाम्नातौ – हृदे त्वेति। हे सोम त्वां हृद्दे हृदयवद्भ्यो मनुष्येभ्यो मनसे मनस्विभ्यः पितृभ्यो दिवे द्युलोकवासिभ्यो देवेभ्यो विशेषतः सूर्याय चोपावहरामि। त्वमिमं प्रवृत्तमध्वरं विनाशरहितमूर्ध्वमुन्नतं समाप्तं कृधि कुरु। दिविष्ठेषु देवेषु होत्रा अस्मदीयान्याह्वानानि स्तोत्ररूपाणि यच्छावस्थापय। हे सोम राजन्नेह्यभिषवस्थाने समागच्छ। शकटादवरोह। मा भैषीः। मा च संविक्थाः कम्पिष्ठाः। अहं तु त्वां मा हिंसिषम्। अतस्त्वं देवलोके गत्वा दैवीः प्रजा उपावरोह प्राप्नुहि। प्रजाश्च त्वामुपावरोहन्तु प्राप्नुवन्तु ।
अत्रोपावहरेदिति विधिं सूचयन्हृदयादिशब्दानां यथोक्तार्थं दर्शयति – ‘ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद्यः सोममुपावहरन्त्सर्वाभ्यो देवताभ्य उपावहरेदिति हृदे त्वेत्याह मनुष्येभ्य एवैतेन करोति मनसे त्वेत्याह पितृभ्य एवैतेन करोति दिवे त्वा सूर्याय त्वेत्याह देवेभ्य एवैतेन करोत्येतावतीर्वै देवतास्ताभ्य एवैनँ सर्वाभ्य उपावहरति’ (सं. का. ६ प्र. ४ अ. ३) इति।
यो हृदे त्वेति मन्त्रेण सर्वदेवतार्थमुपावहर्तुं जानाति स एव मुख्योऽध्वर्युरिति ब्रह्मवादिनामुक्तिः। सोम राजन्निति मन्त्र उपेक्षितः।
विधत्ते – ‘पुरा वाचः प्रवदितोः प्रातरनुवाकमुपाकरोति यावत्येव वाक्तामव रुन्धे’ (सं. का. ६ प्र. ४ अ. ३) इति।
रात्रौ निद्रां कुर्वन्तो मनुष्या उषःकाले प्रबध्य परस्परं वाक्प्रसरं कुर्वन्ति। पक्षिणः शब्दं कुर्वन्ति। तद्धि वाचः प्रवदनम्। प्रातःकालात्पूर्वं होत्राऽनुवाक्तव्य क्रक्समूहः प्रातरनुवाकः। उपाकरणं नाम होतारं प्रति प्रैषोक्तिः। अत्र सूत्रम्– ‘पुरा वाचः पुरा वा वयोभ्यः प्रातर्यावभ्यो देवेभ्योऽनुब्रूहि’ इति। प्रवदितोः प्रवदनात्।
प्रातरनुवाकस्य प्रथमामृचं विधत्ते – ‘अपोऽग्रेऽभिव्याहरति यज्ञो वा आपो यज्ञमेवाभि वाचं वि सृजति’ (सं. का. ६ प्र. ४ अ. ३) इति।
अपोऽभिलक्ष्य तत्प्रतिपादिकामृचमग्रे प्रथमं व्याहरेत्। आपो रेवतीः क्षयथा हि वस्व इत्येतामृचमित्यर्थः।
तत ऊर्ध्वं वक्तव्या ऋचो विधत्ते – ‘सर्वाणि छन्दाँस्यन्वाह पशवो वै छन्दाँसि पशूनेवाव रुन्धे’ (सं. का. ६ प्र. ४ अ. ३) इति।
तत्तच्छन्दोयुक्ता ऋग्विशेषा ग्रन्थबाहुल्यभयाद्बह्वृचब्राह्मणे स्पष्टत्वाच्च नात्र प्रदर्श्यन्ते।
प्रातरनुवाकसमाप्तौ पठनीयामृचं कामनाभेदेन विकल्पितां विधत्ते – ‘गायत्रिया तेजस्कामस्य परि दध्यात्त्रिष्टुभेन्द्रियकामस्य जगत्या पशुकामस्यानुष्टुभा प्रतिष्ठाकामस्य पङ्क्त्या यज्ञकामस्य विराजाऽन्नकामस्य’ (सं. का. ६ प्र. ४ अ. ३) इति।
परिदध्यात्समापयेत्।
कल्पः – ‘यत्राभिजानात्यभूदुषा रुशत्वशुरिति तत्प्रचरण्या जुहोति शृणोत्वग्निः सभिधा हवं म इति’ इति।
अभूदुषा इत्येषा प्रातरनुवाकस्य परिधानीया तां होत्रा पठ्यमानां यदाऽध्वर्युर्जानाति तदा जुहुयात्।
मन्त्रस्त्वेवमाम्नायते – शृणोत्विति। सम्यगिध्यतेऽनयाऽऽज्याहुत्येति सभिदाहुतिस्तया समिद्धोऽग्निर्मे हवं मदीयमाह्वानं शृणोतु। हे आपो ग्रहीष्यमाणा यूयमपि शृणुत। कीदृश्यः। धिषणा विद्योपेताः। देव्यो देवतारूपाश्च। हे ग्रावाणोऽभिषवार्थमिहोपस्थिता यूयं विदुषो नु विद्वांस एव सन्तो यज्ञं शृणुत। सविता देवो मदीयमाह्वानं शृणोतु।
अग्न्यादिश्रवणप्रयोजनमाह – ‘शृणोत्वग्निः सभिधा हवं म इत्याह सवितृप्रसूत एव देवताभ्यो निवेद्यापोऽच्छैति’ (सं. का. ६ प्र. ४ अ. ३) इति।
एकधनसंज्ञकाः पन्नेजनीसंज्ञकाश्चाऽऽप आनेतव्याः। अतो मन्त्रेण देवताभ्यो विज्ञाप्य ता अपः प्राप्तुं गच्छति।
प्रैषमन्त्रमुत्पादयति – ‘अप इष्य होतरित्याहेषितँ हि कर्म क्रियते’ (सं. का. ६ प्र. ४ अ. ३) इति।
हे होतरानेतव्या अप उद्दिश्य प्र देवत्रा ब्रह्मणे गातुरेत्वित्यादिका ऋच इष्य पठेत्यर्थः। लोकेऽपीषितमभीष्टं कर्म सम्यक्क्रियते’
प्रैषान्तरमुत्पादयति – ‘मैत्रावरुणस्य चमसाध्वर्यवा द्रवेत्याह मित्रावरुणौ वा अपां नेतारौ ताभ्यामेवैना अच्छैति’ (सं. का. ६ प्र. ४ अ. ३) इति।
चमसिनामृत्विजां परिचारकाश्चमसाध्वर्यवः। तत्र मेत्रावरुणनाम्न ऋत्विजो यश्चमसाध्वर्युस्तं संबोध्याऽऽगच्छेति ब्रूयात्। तदनेन प्रैषेणोदकप्रवर्तकमित्रावरुणदेवद्वयेन सहैवैना अपः प्राप्तुं गच्छति।
देवीरिति। कल्पः – ‘अपरं चतुर्गृहीतं गृहीत्वा बर्हिरादाय संप्रैषमाहाप इष्य होतर्मैत्रावरुणस्य चमसाध्वर्यवाद्रवैकधनिन आद्रवत नेष्टः पत्नीमुदानयाग्नीद्धोतृचमसेन वसतीवरीभिश्च चात्वाले प्रत्युपलम्बस्वेति यथासंप्रैषं ते कुर्वन्ति यत्राऽऽपस्तद्यन्त्यथाप्सु बर्हिः प्रास्याभिजुहोति देवीरापो अपां नपाद्य ऊर्मिर्हविष्य इन्द्रियावान्मादिन्तमस्तं देवेभ्यो देवत्रा धत्त शुक्रँ शुक्रपेभ्यो येषां भागः स्थ स्वाहेति’ इति।
न पातयत्युदकमध्ये गूढतया स्थितोऽपि तदुदकं न विनाशयतीपि नपात्। अपां नपादिति वह्निविशेषस्य संज्ञा। हे आपो देव्यो हे वह्ने यूयं य ऊर्मिर्युष्मदीयस्तं देवत्रा देवेषु धत्त स्थापयत। किमर्थम्। देवेभ्यो देवार्थमस्माभिर्दवानुद्दिश्य होतुमित्यर्थः। कीदृश ऊर्मिः। हविष्यो हविषे सोमरूपाय हितः। इन्द्रियावान्प्री(पी)तः सन्निन्द्रियवृद्धिकारी। मदिन्तमः पीयमानोऽत्यन्तहर्षकारी। कीदृशं तम्। शुक्रं दीप्तिमन्तम्। कीदृशेभ्यो देवेभ्यः। येषां यूयं भागभूताः स्थ तेभ्यः शुक्रपेभ्यः सोमपेभ्यः। इदमाज्यं युष्मभ्यं हुतमस्तु।
ग्रहीष्यमाणानामपां मूल्यत्वेन हविष्ट्वसंपादनेन चेयमाहुतिरुपयुज्यत इत्याह – ‘देवीरापो अपां नपादित्याऽऽहाहुत्यैवैना निष्क्रीय गृह्णात्यथो हविष्कृतानामेवाभिघृतानां गृह्णाति’ (सं. का. ६ प्र. ४ अ. ३) इति।
कल्पः – ‘कार्षिरसीति दर्भैराहुतिमपप्लाव्य’ इति।
कार्षिरिति। हे आज्य त्वमप्सु हुतं सत्कार्षिः कर्षणीयमपनेतव्यमसि। अपां मृध्रं युद्धोपलक्षितानिष्टरूपं त्वामपनयामि।
एतमर्थं दर्शयति – ‘कार्षिरसीत्याह शमलमेवाऽऽसामप प्लावयति’ (सं. का. ६ प्र. ४ अ. ३) इति। शमलं मलिनांशम्।
समुद्रस्येति। कल्पः – ‘समुद्रस्य वोऽक्षित्या उन्नय इत्यभिहुतानां मेत्रावरुणचमसेन गृह्णाति’ इति।
हे आपः समुद्रवद्युष्माकमक्षीणत्वाय पूर्वेद्युर्वसतीवरीर्गृहीत्वाऽपि पुनरिदानीमुन्नयामि।
अक्षितिं विशदयति – ‘समुद्रस्य वोऽक्षित्या उन्नय इत्याह तस्मादद्यमानाः पीयमाना आपो न क्षीयन्ते’ (सं. का. ६ प्र. ४ अ. ३) इति।
यथा चमसेन जलं गृहीतं तथा त्रिभिः कुम्भैरेकधना गृह्णीयात्पन्नेजनीश्च गृह्णीयात्। तथा च सूत्रम – ‘अथैकधनान्गृह्णातीन्द्राय वो जुष्टान्गृ(गृ)ह्णामीति वाऽथ पन्नेजनीगृह्णातीति’ इति।
विधत्ते – ‘योनिर्वै यज्ञस्य चात्वालं यज्ञो वसतीवरीर्होतृचमसं च मैत्रावरुणचमसं च सँस्पर्श्य वसतीवरीर्व्यानयति यज्ञस्य सयोनित्वायाथो स्वादेवैना योनेः प्र जनयति’ (सं. का. ६ प्र. ४ अ. ३) इति।
उत्तरवेदिनिष्पादकतया चात्वालो यज्ञयोनिः। देवविभक्तयज्ञावशेषत्वाद्वसतीवरीणां यज्ञत्वम्। व्यानयति व्याप्ता अधिकाः करोति। तत्प्रकारः सूत्रे दर्शितः – ’होतृचमसे वसतीवरीभ्यो निषिच्योपरिचात्वालं होतृचमसं च मैत्रावरुणचमसं च सँस्पर्श्य वसतीवरीर्व्यानयति समन्या यन्तीत्यभिज्ञाय होतृचमसान्मैत्रावरुणचमस आनयति मेत्रावरुणचमसाद्धोतृचमसे’ इति।
प्रश्नोत्तरमन्त्रावुत्पादयति – ‘अध्वर्योऽवेरपा ३ इत्याहोतेमनन्नमुरुतेमाः पश्येति वावैतदाह’ (सं. का. ६ प्र. ४ अ. ३) इति।
प्लुतिः प्रश्नार्था। हेऽध्यर्यो, अपः किमवेर्लब्धवानसि। सोऽयं होतुः प्रश्नः। उतेमनन्नमुरित्यध्वर्योरुत्तमन्त्रः। लब्धवानस्मीत्येतावदेव न भवति उतापि तु ई ता अनन्नमुरुसंप्राप्ताः। दूरवर्तित्वेऽपि सत्त्वमात्रेण लाभो भवति तदुपसंप्राप्ति–र्लाभादतिरिच्यते। उतेमा इति वाक्यं मन्त्रस्य व्याख्यानम्। हे होतर्न केवलं मद्वचनमात्रेण विश्वसिहि किंत्विमाः पुरोवर्तिनीः पश्येत्येवमेव सर्वमन्त्रेणाध्वर्युर्ब्रूते।
कल्पः – ‘अध्वर्योऽवेरपा ३ इति होताऽध्वर्युं पृच्छत्युतेमनन्नमुरिति प्रत्युक्त्वा प्रचरणीशेषात्क्रतुकरणं जुहोति यमग्ने पृत्सु मर्त्यमिति’ इति।
यमग्न इति। हेऽग्ने यं मर्त्यं पृत्सु संग्रामेषु आवो रक्षसि, किंच वाजेष्वन्ननिमित्तं यं मर्त्यं जुना गच्छसि हवींषि ग्रहीतुं यस्य सकाशं गच्छसीत्यर्थः। स मर्त्यस्त्वदनुग्रहेण शश्वतीरिषो नित्यान्यन्नानि धनरूपाणि यन्ता नियंस्यति प्राप्स्यतीत्यर्थः। मन्त्रोऽयमुपोक्षितः।
अस्य च क्रतुकरणाख्यस्य होमस्य विषयविशेषव्यवस्थितिं विधत्ते – ‘यद्यग्निष्टोमो जुहोति यद्युक्थ्यः परिधौ नि मार्ष्टि यद्यतिरात्रो यजुर्वदन्प्र पद्यते यज्ञक्रतूनां व्यावृत्त्यै’ (सं. का. ६ प्र. ४ अ. ३) इति।
अनुष्ठीयमानस्य कर्मणोऽग्निष्टोमत्वे मन्त्रेण क्रतुकरणं जुहुयात्। उक्थ्यत्वे परिधावाज्यलेपं निमृज्यात्। अतिरात्रत्वे मन्त्रं पठन्हविर्धानं प्राप्नुयात्। एवं सत्यग्निष्टोमादीनामनुष्ठास्यमानानां परस्परं व्यावृत्तिरिदानीमेवावगता। सक्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूप इत्युपनिषदि तत्क्रत्विति वैयासिकसूत्रे चोपास्तिष्वपि क्रतुशब्दस्य प्रयोगात्तद्व्यवच्छेदार्थं यज्ञशब्दः। द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपर इत्यादौ तपःप्रभृतिष्वपि यज्ञशब्दप्रयोगात्तद्व्यवच्छेदाय क्रतुशब्दप्रयोगः।
अत्र विनियोगसंग्रहः –
‘हृदे सोमद्वयात्सोमं शकटादवरोहयेत्।
शृणोऽग्नौ जुहुयाद्देवीरप्सु हुत्वाऽथ दर्भकैः॥१॥
अप्सूपप्लावयेत्कार्षिः समुद्रो गृह्यते जलम्।
यमग्ने क्रतुकृद्धोमो मन्त्राः सप्तेह वर्णिताः॥२॥’
अथ मीमांसा।
तृतीयाध्यायस्य सप्तमपादे चिन्तितम् –
“चमसाध्वर्यवो नान्य ऋत्विग्भ्योऽथवाऽग्रिमः।
यौगिक्या संज्ञया मैवं षष्ठ्या तेभ्यो विभेदनात्” इति॥
ज्योतिष्टोमे श्रूयते – ‘चमसाध्वर्यून्वृणीते’ इति। ये पूर्वं तत्र कार्यानुसारेणाध्वर्युप्रमुखा ऋत्विज उक्तास्तेभ्यो न व्यतिरिक्ताश्चमसाध्वर्यवः। कुतः। यौगिकसंज्ञया तदभेदप्रतीतेः। यथा देवदत्त एव पचिक्रियायोगात्पाचको भवति तद्वदध्वर्युप्रमुखा एव चमसयोगाच्चमसाध्वर्यव इति चेन्मैवम्। मध्यतः कारिणां चमसाध्वर्यवोहोत्रकाणां चमसाध्वर्यव इति षष्ठ्या भेदावभासात्। मध्यतः कारिणो होत्रादयः। होत्रकाः प्रतिप्रस्थातृमैत्रावरुणादयः तस्मादृत्विग्भ्योऽन्ये।
तत्रैरैवान्यच्चिन्तितम् –
“तान्वृणीतेति बहुता नास्ति वाऽस्ति ग्रहैक्यवत्।
नैवेति चेन्न वैषम्यादुत्पत्तौ बहुताश्रुतेः” इति॥
चमसाध्वर्यून्वृणीत इति यद्बहुत्वं श्रुतं तन्न विवक्षितं, ग्रहैकत्ववदुद्देश्यगतत्वादिति चेन्मैवम्। ग्रहवैषम्यात्। ग्रहं संमार्ष्टीत्येतन्न ग्रहाणामुत्पत्तिवाक्यं, चमसाध्वर्यूणां त्वेतदेवोत्पत्तिवाक्यं, ततस्तेषामुपादेयत्वात्तद्गतं बहुत्वं विवक्षितम्।
तत्रेवान्यच्चिन्तितम् –
“नेयत्ताऽस्त्यस्ति वा तेषां न नियामकवर्जनात्।
चमसानां दशत्वेन चमसाध्वर्यवो दश” इति॥
स्पष्टोऽर्थः।
अथ छन्दः ।
शृणोत्वग्निरिति त्रिष्टुप्। यमग्ने पृत्स्विति गायत्री॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै–
त्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके त्रयोदशोऽनुवाकः ॥१३॥

(अथ प्रथमाष्टके तृतीयप्रपाठके चतुर्दशोऽनुवाकः)।
त्रयोदशेऽनुवाके हविर्धानशकटादधिषवणफलकयोरुपरि सोमोऽवरोहितः। अथाभिषवो वक्तव्यः। तथाऽप्यध्यापकसंप्रदायेन प्रपाठकसमाप्तिरूपत्वाच्चतुर्दशेऽनुवाके काम्ययाज्यापुरोनुवाक्याः क्रमप्राप्ता अभिधीयन्ते।
तत्र काम्येष्टिकाण्डे राक्षोघ्नेष्टेरूर्ध्वमिष्टयन्तरं विधत्ते– ‘अग्नये रुद्रवते पुरोडाशमष्टाकपालं निर्वपेदभिचरन्नेषा वा अस्य घोरा तनूर्यद्रुदस्तस्मा एवैनमा वृश्चति ताजगार्तिमार्च्छति’ (सं. का. २ प्र. ४ अ. २) इति।
रुद्रवते घोरतनूयुक्ताय। अभिचरञ्शत्रुं मारयन्। तस्मै रुद्रवतेऽग्नये। एनं शत्रुमावृश्चति समन्ताच्छित्त्वा प्रयच्छति। ताजक् तदानीमेव।
तत्र पुरोनुवाक्या – त्वमग्न इति। हेऽग्ने त्वं रुद्रो घोरतनूयुक्तोऽसुरः शत्रूणां निरसिता। दिवो द्युलोकस्य मह उत्सवरूपो हविर्वहनेनोत्सवकारित्वात्। त्वं मारुतं शर्धो मरुतां संबन्धि बलं बलवत्त्वेन प्रसिद्धानां मरुद्गणानामपि त्वदनुग्रहेणैव बलं भवति। अतः पृक्ष ईशिषे मरुद्भिः संपृक्तस्तदीयं सैन्यं नियमय। किंच त्वं शंगयः सुखं प्राप्तो वायुवेगैररुणवर्णैरश्वैर्यासि। किंच पोषकस्त्वं नु त्मना स्वयमेव पासि। कान्, विधतो हविषा परिचर्यां विदधतो यजमानान्।
अथ याज्या– आ व इति। हे ऋत्विग्यजमाना वो युष्माकमवसे रक्षणायाग्निमाकृणुध्वं वशी कुरुत। कदा, तनयित्नोरचित्तात्, न विद्यते चित्तं यस्मिन्मरणे तदचित्तं शत्रुणा विस्तारिताद्भवदीयमरणात्पूर्वमेव। कीदृशमग्निम्। अध्वरस्य राजानं यज्ञस्वामिनं, रुद्रँ शत्रून्प्रति क्रूरं, होतारं फलदानाय भक्तानामाह्वातारं, रोदस्योः सत्ययजं द्युलोके भूलोके च सत्यमवश्यं कर्मफलं यजति ददातीति सत्ययजस्तं, हिरण्यरूपं तत्सदृशम्।
इष्ट्यन्तरं विधत्ते– ‘अग्नये सुरभिमते पुरोडाशमष्टाकपालं निर्वपेद्यस्य गावो वा पुरुषा वा प्रमीयेरन्यो वा बिभीयादेषा वा अस्य भेषज्या तनूर्यत्सुरभिमती तयैवास्मै भेषजं करोति सुरभिमते भवति पूतीगन्धस्यापहत्यै’ (सं. का. २ प्र. २ अ. २) इति। सुरभिमते भेषज्यतनूयुक्ताय। यस्य यजमानस्य गावो वा भृत्या वा दैविकरोगबाहुल्येन बहवो म्रियेरन्स्वयं वा कदाचिदपमृत्योर्भीतो भवेत्तादृशो निर्वपेत्पूतीगन्धास्य शवगन्धस्य निवृत्तये सुगन्धयुक्ताय कुर्यात्।
तत्र पुरोनुवाक्या – अग्निर्होतेति। अयमग्निर्मातुरुपस्थे वेदेः समीपवर्तिनि सुरभावु लोके सुरभिगन्धयुक्त एवाऽऽहवनीयस्थाने निषसादोपविष्टः। कीदृशोऽग्निः। होता देवानामाह्वाता। यजीयान्मानुषाद्धोतुरतिशयेन यष्टा। युवा नित्यं तरुणः। कविर्मेधावी। पुरुनिष्ठः पुरुषु गार्हपत्यादिस्थाने स्थितः। ऋतावा सत्यवान्। कृष्टीनां धर्ता मनुष्याणां पोषकः। अपि च मध्ये मनुष्याणामुदर इद्धो जाठराग्निरूपेण दीप्तः।
अथ याज्या – साध्वीमिति। अयमग्निरद्य नो देववीतिमस्माभिर्देवेभ्यो दत्तां भक्ष्यां पुरोडाशाहुतिं साध्वीमकः स्वादुमकरोत्। अतो यज्ञस्य जिह्वास्थानीयां गोप्यामग्निदेवतामविदाम वयं लब्धवन्तः। सुरभिः पुरोडाशाज्यादिसुगन्धोपेतः सोऽग्निरायुर्वसानोऽस्मदीयमायुराच्छादयन्गोपायन्नगादागच्छतु। अद्य नोऽस्मदीयां देवहूतिं भद्रामकः, देवार्थं होमं यथाशास्त्रं करोतु।
इष्ट्यन्तरं विधत्ते – ‘अग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्संग्रामे संयत्ते भागधेयेनैवैनँ शमयित्वा परानभि निर्दिशति यमवरेषां विध्यन्ति जीवति स यं परेषां प्र स मीयते जयति तँ संग्रामम्’ (सं. का. ६ प्र. २ अ. २) इति।
क्षामवते क्षुधायुक्ताय। युद्धे प्रत्यासन्ने सति जयार्थी निर्वपेत्। स्वदत्तेनाग्निभागेन स्वविषयमग्निं शान्तं कृत्वा पराञ्शत्रून्वह्नेराभिमुख्येन निर्दिशति हन्तुं प्रदर्शयति। तथा सत्यवरेषां स्वसैन्यगतानां मध्ये यं पुरुषं शत्रवो विध्यति स जीवति। परेषां शत्रुसैन्यगतानां मध्ये यं पुरुषमितरे विध्यन्ति स प्रम्रियते। ततो यजमानो जयति।
यथा जयार्थिन एषेष्टिस्तथा बहुबन्धुमरणनिवारणार्थिनोऽप्येतामिष्टिं विधत्ते – ‘अभि वा एष एतानुच्यति येषां पूर्वापरा अन्वञ्चः प्रमीयन्ते पुरुषाहुतिर्ह्यस्य प्रियतमाऽग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेद्भागधेयेनैवैनँ शमयति नैषां पुराऽऽयुषोऽपरः प्र मीयते’ (सं. का. ६ प्र. २ अ. २) इति। पूर्वापरा ज्येष्ठा कनिष्ठाश्च। अन्वञ्चो विच्छेदवर्जिताः। येषां बन्धूनां मध्ये बहवो विच्छेदमन्तरेण म्रियन्त एतानभिलक्ष्यैष क्षामवानग्निरुच्यति समवैति। कुतः, पुरुषाहुतेरेतत्प्रियत्वात्पुरोडाशेनाग्निः शाम्यति। तत एषां बन्धुनां मध्ये ज्येष्ठे जीवति सत्यपरः कनिष्ठ आयुःसंपूर्तेः पूर्वमपमृत्युना न म्रियते।
गृहदाहादि निमित्तीकृत्यापि तामेवेष्टिं विधत्ते – ‘अभि वा एष एतस्य गृहानुच्यति यस्य गृहान्दहत्यग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेद्भागधेयेनैवेनँ शमयति नास्यापरं गृहान्दहति’ (सं. का. २ प्र. २ अ. २) इति।
अपरं यथा भवति तथा न दहति। न पुनर्दहतीत्यर्थः।
अस्यां त्रिविधायां क्षामवतेष्टौ पुरोनुवाक्यामाह – अक्रन्ददिति। अयमग्निरक्रन्ददस्मदनिष्टनिवारणार्थं गर्जतु। किमिव। स्तनयन्निव द्यौर्यथा द्युलोकस्थो मेघो गर्जन्सस्यशोषभीतिं निवारयति तद्वत्। किं कुर्वन्। क्षाम दाहकमस्मद्विरुद्धं रेरिहल्लेलिहानो वीरुधः समञ्जन्पुष्पलतावदस्मदनुकूलानि सम्यगभिव्यञ्जयन्। हि यस्माज्जज्ञान उत्पद्यमानः सद्य ईमिदानीमेवेद्धो दीप्तो व्यख्यद्विविधं जगत्प्रख्यापयति। रोदसी द्यावापृथिव्योरन्तर्भानुना रश्मिना स्वयमाभाति समन्तात्प्रकाशते।
अथ याज्या – त्वे वसूनीति। हे पुर्वणीकात्यन्तबहुल होतर्देवानामाह्वातर्दोषा रात्रौ वस्तोर्दिवा च यज्ञियासो यज्ञार्हाणि वसूनि हवींषि एरिर आगच्छन्ति। त्वदनुग्रहात्पूर्वं क्षामेव दग्धं पटादिकमिव विश्वा भुवनानि निःसाराणि भूत्वा पावके त्वय्यनुगृह्णाति सति पश्चात्सौभगानि संदधिरे सौभाग्यं प्राप्नुवन्। तादृशस्त्वमस्माननिगृहाणेत्यर्थः।
इष्ट्यन्तरं विधत्ते – ‘अग्नये कामाय पुरोडाशमष्टाकपालं निर्वपेद्यं कामो वोपनमेदग्निमेव कामँ स्वेन भागधेयेनोप धावति स एवैनं कामेन समर्धयत्युपैनं कामो नमति’ (सं. का. २ प्र. २ अ. ३) इति। कामाय कामप्रदाय, कामितार्थो यं यजमानं न प्राप्नुयात्स निर्वपेत्।
तत्र पुरोनुवाक्या – तुभ्यमिति। हेऽङ्गिरस्तमातिशयेनाङ्गसारोपेताग्ने सुक्षितयो वेदिरूपशोभनभूमियुक्ता विश्वाः सर्वास्ताः प्रजाः पृथक्कामयमाना विविधकामितार्थसिद्धिप्रदाय तुभ्यं येमिरे नियमं स्वीकृतवन्तः।
अथ याज्या – अश्यामेति। हेऽग्ने तवोती त्वदीयरक्षया तं काममभीष्टफलमश्याम व्याप्नुयाम। किंच, हे रयिवो हे धनवन्सुवीरं शोभनपुत्रपौत्राद्युपेतं रयिं धनमश्याम। किंच वाजयन्तोऽन्नमिच्छन्तो वयं वाजमन्नमभितोऽश्याम। किंच, हेऽजर तव प्रसादादजरमक्षयं द्युम्नं यशोऽश्याम।
इष्ट्यन्तरं विधत्ते – ‘अग्नये यविष्टाय पुरोडाशमष्टाकपालं निर्वपेत्स्पर्धमानः क्षेत्रे वा सजातेषु वाऽग्निमेव यविष्ठँ स्वेन भागधेयेनोप धावति तेनैवेन्द्रियं वीर्यं भ्रातृव्यस्य युवते वि पाप्मना भ्रातृव्येण जयते’ (सं. का. २ प्र. २ अ. ३) इति।
यविष्ठायातिशेन वियोगकारिणे, युवते वियोजयति। यजमानः पापिना वैरिणा वियुक्तो जयति।
एतामेवेष्टिं परप्रयुक्ताभिचारनिवारणाय विधत्ते – ‘अग्नये यविष्ठाय पुरोडाशमष्टाकपालं निर्वपेदभिचर्यमाणोऽग्निमेव यविष्ठँ स्वेन भागधेयेनोप धावति स एवास्माद्रक्षाँसि यवयति नैनमभिचरन्त्स्तृणुते’ (सं. का. २ प्र. २ अ. ३) इति। यवयति वियोजयति। अभिचरन्वैर्येनमिष्टिकारिणं न स्तृणुते हन्तुं न शक्नोति।
एतस्यां द्विविधायामिष्टौ पुरोनुवाक्यामाह – श्रेष्ठमिति। हेऽग्ने रयिमाभर धनमाहर। यविष्ठातिशयेन वियोगकारिन्। भारत ऋत्विग्भिर्भरणीय। वसो, आहुतिनिवासभूत। कीदृशं रयिं, श्रेष्ठं प्रशस्ततमं द्युमन्तं दीप्तिमन्तं पुरुस्पृहं पुरुभिर्बहुभिः स्पृहणीयं मणिमुक्तादिरूपम्।
अथ याज्या – स श्वितान इति। योऽग्निः पावकः शोधयिता पुरुतम आहवनीयगार्हपत्या–दिनामभिर्यविष्ठादिविशेषणैश्चात्यन्तं बहुविधः पुरूणि बहूनि पृथूनि विस्तृतानि पुरोडाशादिहवींषि भर्वन्भक्षयन्ननुयाति यजमानगृहमनुदिनं गच्छति सोऽग्निर्वक्ष्यमाणगुणोपेतः। श्वितानो दीप्यमानः। तन्यतुः फलानां विस्तारयिता। रोचनस्था दीप्तिमत्सु देवयजनेष्ववस्थितः। अजरेभिर्जरारहितैर्नानदद्भिः स्तुतिं कुर्वाणैर्देवैः संयुतः। यविष्ठोऽतिशयेन वैरिवियोगकर्ता।
इष्ट्यन्तरं विधत्ते – ‘अग्नय आयुष्मते पुरोडाशमष्टाकपालं निर्वेपेद्यः कामयेत सर्वमायुरियामित्यग्निमेवाऽऽयुष्मन्तँ स्वेन भागधेयेनोप धावति स एवास्मिन्नायुर्दधाति सर्वमायुरेति’ (सं. का. २ प्र. २ अ. ३) इति।
अयुष्मत आयुष्प्रदाय।
तत्र पुरोनुवाक्या – आयुष्ट इति। हे यजमान ते तुभ्यं वरेण्यः श्रेष्ठोऽयमग्निर्विश्वत आयुर्दधत्संपूर्णमायुर्दधातु। अपमृत्युना गृहीतोऽपि ते प्राणः पुनरस्यानुग्रहेणाऽऽयाति त्वद्देहे ,समागच्छतु। ते तव यक्ष्मं व्याधिं परासुवामि विनाशयामि।
अथ याज्या – आयुर्दा इति। हेऽग्ने त्वमायुर्दा एधि यजमानस्याऽऽयुष्प्रदो भव। कीदृशस्त्वम्। हविषो जुषाणः पुरोडाशं सेवामानः। घृतप्रतीको घृतोपक्रम आघारप्रयाजादीनां घृतेन हूयमानत्वात्। घृतयोनिरवसानेऽप्यनूयाजादौ घृतमेव योनिर्जन्मोत्पत्तिकारणं यस्यासौ घृतयोनिः। तादृशस्त्वं मधु स्वादुतमं चारु शोधितत्वेन निर्मलं गव्यं घृतं पीत्वा पिता पुत्रमिवेमं यजमानमभितो रक्षो।
इष्ट्यन्तरं विधत्ते – ‘अग्नये जातवेदसे पुरोडाशमष्टाकपालं निर्वपेद्भूतिकामोग्निमेव जातवेदसँ स्वेन भागधेयेनोप धावति स एवैनं भूतिं गमयति भवत्येव’ (सं. का. २ प्र. २ अ. ३) इति।
जातवेदस उत्पन्नधनाय भवत्येव भूतिं प्राप्नोत्येव।
तत्र पुरोनुवाक्या – तस्मा इति। विविधाश्चर्षणयो मनुष्या यजमाना यस्यासौ विचर्षणिः। हे विचर्षणे जातवेदोऽग्ने प्रतिहर्यते प्रतिदिनं यजमानगृहं गच्छते तस्मै ते शोभनां स्तुतिं जनामि जनयामि।
अथ याज्या – दिवस्परीति। अग्निः प्रथमं दिवस्परि द्युलोकस्योपरि जज्ञे सूर्यरूपेणोत्पन्नः। अस्मत्परि अस्मदीयस्य मनुष्यलोकस्योपरि जातवेदा द्वितीयं जज्ञे प्रसिद्धमग्निरूपेण द्वितीयं जन्म प्राप्तवान्। अप्सु समुद्रे तृतीयं जज्ञे वडवानलरूपेणोत्पन्नः। अजस्रं त्रिष्वपि जन्मसु नृमणा नृषु यजमानेषु मनोऽनुग्रहबुद्धिर्यस्यासौ नृमणाः। एनमीदृशमग्निमिन्धानः पुरोडाशादिभिर्दीपयन्स्वाधीः स्वायत्तचित्तो जरते जीर्यते जरापर्यन्तं परिचरतीत्यर्थः।
इष्ट्यन्तरं विधत्ते – ‘अग्नये रुक्मते पुरोडाशमष्टाकपालं निर्वपेद्रुक्कामोऽग्निमेव रुक्मन्तँ स्वेन भागधेयेनोप धावति स एवास्मिन्रुचं दधाति रोचत एव’ (सं. का. २ प्र. २ अ. ३) इति।
रुक्मते कान्तिमते। रोचते कान्तिमान्भवति।
तत्र पुरोनुवाक्या – शुचिरिति। हे पावक शोधयितरग्ने शुचिर्वन्द्यश्च त्वं घृतप्रभृतिभिर्हव्यैः समन्ताद्धुतः सन्बृहद्विरोचसे।
अथ याज्या – दृशान इति। दृशानो दर्शनीयरूपो रुक्मः सुवर्णसदृशोऽग्निरुर्व्या महत्या दप्त्या व्यद्यौद्विद्योतते। किं कुर्वन्। दुर्मर्षमितरैरतिरस्कार्यमायुर्जीवनं श्रिये श्रयितुं रुचानो वाञ्छन्। तथाविधोऽग्निर्वयोभिरमृतोऽभवत्। यद्यस्मादेनमग्निं द्यौर्द्युलोकवासी देवगणः सुरेताः सन्नजनयत्तस्मादस्यामृतत्वं युक्तम्।
इष्ट्यन्तरं विधत्ते – ‘अग्नये तेजस्वते पुरोडाशमष्टाकपालं निर्वपेत्तेजस्कामोऽग्निमेव तेजस्वन्तँ स्वेन भागधेयेनोप धावति स एवास्मिन्तेजो दधाति तेजस्व्येव भवति’ (सं. का. २ प्र. २ अ. ३) इति।
तेजस्वते प्रभावते नियमनसामर्थ्यवते वा।
तत्र पुरोनुवाक्या – आ यदिति। यत्तेज इषेऽभीष्टसिद्धये नृपतिं यजमानपालकमग्निमा समन्तादानड्व्याप्नोत्, यदपि शुचि रेतः शुद्धं बीजं मातापितृभ्यां निषिक्तं तेन तेजसा तेन च बीजेन द्यौर्द्युलोकस्थोऽग्निरभीके प्रत्यासन्नकाले शर्धादिविशेषणोपेतं पुरुषं जनयदुत्पादयति, सूदयच्च विरोधिपापं नाशयत्यपि। शर्धं बलवन्तम्। अनवद्यं दोषरहितम्। युवानं तरुणम्। स्वाधियं स्वयत्तचित्तम्। अतो यजमानाय तेजो दातुमग्निः शक्नोति।
अथ याज्या – स तेजीयसेति। स यजमानस्त्वोतस्त्वया रक्षितः। केन साधनेन। तेजीयसाऽत्यन्ततेजोयुक्तेन मनसा। किंच हेऽग्ने स्वपत्यस्य शोभपुत्रपौत्रादियुक्तस्य शिक्षोः शक्तुमिच्छतो नृतमस्य मनुष्यतमस्य मनुष्येषु श्रेष्ठस्य यजमानस्य रायः शिक्ष धनानि देहि। ते प्रभूतौ त्वदनुग्रहेण प्रभुत्वे सति वयं वस्वो वसुमत्तमाः सुष्टुतयश्च शोभनस्तुतियुक्ता बहुयागानुष्ठानेन स्तोत्रशस्त्रैः प्रभूता भूयास्म।
इष्ट्यन्तरं विधत्ते – ‘अग्नये साहन्त्याय पुरोडाशमष्टाकपालं निर्वपेत्सीक्षमाणोऽग्निमेव साहन्त्यँ स्वेन भागधेयेनोप धावतितेनैव सहते यँ सीक्षते’ (सं. का. २ प्र. २ अ. ३) इति।
साहन्त्याय सहिष्णवे वैरिणामभिभवित्रे सीक्षमाणः सोदुमभिभवितुमिच्छुः। यं वैरिणं सीक्षते तं तेनानुगृहीतोऽभिभवति।
तत्र पुरोनुवाक्या – अग्न इति। हेऽग्ने द्युम्नस्यास्मदीयस्य यशसः सहन्तमभिभवितारं वैरिणं प्रासहा प्रसभमाभरास्मद्वशे समानय। रयिं तदीयं धनं चाऽऽनय। यो भवांश्चर्षणीर्मनुष्यसेना विश्वा अस्मत्प्रतिपक्षभूताः सर्वा अभिसासहदभिभवेत्। किंनिमित्तं, वाजेषु अस्मदीयेष्वन्नेषु निमित्तभूतेषु। केन साधनेन। आसा त्वत्संनिधानेन। पराभिभावाय त्वत्संनिध्यतिरिक्तप्रयत्नो नापेक्षित इत्यर्थः।
अथ याज्या – तमग्न इति। हेऽग्ने (सहस्वो बलवन्) तं पृतनासहं परकीयसेनाभिभवक्षमं रयिं धनमाभराऽऽहर। हि यस्मात्त्वं सत्यः परमार्थभूतो बाधरहितोऽद्भुत आश्चर्यचरित्रस्तस्माद्गोमतो बहुगोयुक्तस्य वाजस्यान्नस्य दाता त्वमेव।
इष्ट्यन्तरं विधत्ते – ‘अग्नयेऽन्नवते पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेतान्नवान्त्स्यामित्यग्निमेवन्नवन्तँ स्वेन भागधेयेनोप धावति स एवैनमन्नवन्तं करोत्यन्नवानेव भवति’ (सं. का. २ प्र. २ अ. ४) इति।
अन्नवते बह्वन्नयुक्ताय।
तत्र पुरोनुवाक्या – उक्षान्नायेति। अग्नये स्तोमैः स्तोत्रैर्विधेम परिचर्यां कुर्याम। कीदृशाय। उक्षान्नाय वशान्नाय। उक्षा वृषभः। वशा वन्ध्या। तत्पशुद्वयं क्वचिद्यागे हविष्ट्वेन श्रूयते – ‘यो भ्रातृव्यवान्त्स्यात्स स्पर्धमानो वैष्णावरुणीं वशामालभेतैन्द्रमुक्षाणम्’ इति। यद्यप्यत्र देवताऽन्या तथाऽपि हविरग्नावेव हूयत इत्यग्निरुक्षान्नो वशान्नश्च। एतदन्नान्तरस्याप्युलक्षार्थम्। सोमयुक्तानि पृष्ठस्तोत्राणि यस्यासौ सोमपृष्टः। अनेकस्तोत्रसत्कृतदेवतासंयुक्तः सोमोऽप्यस्यान्नमित्यर्थः। वेधसेऽन्नस्य विधात्रे।
अथ याज्या – वद्मा हीति। हे सूनो पुत्रवदभिमतकारिन्नग्ने त्वं वद्माऽसि वदत्यनयेति वद्मा वाक्तदभिमानिदेवत्वेन तद्रूपोऽसि। अस्मिन्नर्थे श्रुत्यन्तरप्रसिद्धिद्योतनाय हिशब्दः। ‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’ इति श्रुत्यन्तरम्। सोऽग्निरस्मदर्थमन्नमज्म च चक्रे। (अज्म गृहम्)। तन्नामसु पाठात्। विवाहाग्निर्जायमान एव गृहाश्रमं कारयति। कीदृशोऽग्निः। अद्मसद्वा, अद्यत इत्यद्मान्नं तस्मिन्सीदतीत्यद्मसद्वा, भुक्तमन्नं जरयितुं जठराग्निरूपेणात्र सीदति। केन व्यापारेणान्नमज्म (च) चक्रे जनुषा जन्ममात्रेण न तु व्यापारान्तरेण। न हि संकल्पसिद्धस्य व्यापारापेक्षाऽस्ति। हे ऊर्जसने रसप्रद त्वं नोऽस्मभ्यमूर्जं रसं धा देहि। राजेव जेः, राजा यथा जयति तद्वज्जय। वृकवद्धिंस्रको वृकः। अवृके हिंसादिदोषरहिते यजमाने त्वनुग्रहीतुमन्तः क्षेषि निवससि।
इष्ट्यन्तरं (रे) विधत्ते – ‘अग्नयेऽन्नादाय पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेतान्नादः स्यामित्यग्निमेवान्नादँ स्वेन भागधेयेनोप धावति स एवैनमन्नादं करोत्यन्नाद एव भवत्यग्नयेऽन्नपतये पुरोडाशमष्टकपालं निर्वपेद्यः कामयेतान्नपतिः स्मामित्यग्निमेवान्न–पतिँ स्वेन भागधेयेनोप धावति स एवैनमन्नपतिं करोत्यन्नपतिरेव भवति’ (सं. का. २ प्र. ३ अ. ४) इति। अन्नमत्तीत्यन्नादस्तीव्रदीपनयुक्तः। अन्नपतिर्बह्वन्नस्वामी। अनयोरपीष्टयोर-न्नमात्रलिङ्गकमन्नपतिसाधारण्यादेव याज्यापुरोनुवाक्यायुगलं द्रष्टव्यम्। यद्वा शाखान्तरेऽन्नादलिङ्गकमन्नपतिलिङ्गकं चान्वेषणीयम्।
इष्ट्यन्तरं हविस्त्रयोपेतं विधत्ते – ‘अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदग्नये पावकायाग्नये शुचये ज्योगामयावी यदग्नये पवमानाय निर्वपति प्राणमेवास्मिन्तेन दधाति यदग्नये पावकाय वाचमेवास्मिन्तेन दधाति यदग्नये शुचय आयुरेवास्मिन्तेन दधात्युत यदीतासुर्भवति जीवत्येव’ (सं. का. २ प्र. ३ अ. ४) इति।
पवमानाय पापानां शोधयित्रे। पावकाय पापानां शुद्धिहेतवे। शुचये, औज्ज्वल्यहेतवे। द्वितीयतृतीयवाक्ययोरपि पुरोडाशमष्टाकपालं निर्वपेदित्यनुवर्तते। ज्योगामयावी दीर्घरोगयुक्तः। उतापि च यद्यपीतासुर्गतप्राणो भवेत्तथाऽपि जीवत्येव, तत्र नीरोगो भवतीति किमु वक्तव्यम्।
पुनरपि तामेवेष्टिं फलान्तराय विधत्ते – ‘एतामेव निर्वपेच्चक्षुष्कामो यदग्नये पवमानाय निर्वपति प्राणमेवास्मिन्तेन दधाति यदग्नये पावकाय वाचमेवास्मिन्तेन दधाति यदग्नये शुचये चक्षुरेवास्मिन्तेन दधात्युत यद्यन्धो भवति प्रैव परयति’ (सं. का. २ प्र. २ अ. ४) इति।
यत्र फलभेदेन द्विविधायामस्यामिष्टौ प्रथमहविषः पुरोनुवाक्या – अग्न इति। हेऽग्न आयूंष्यस्मदीयजीवनानि पवसे यथा वर्धन्ते तथा शोधयसे। ऊर्जं क्षीरादिरसमिषमन्नं च नोऽस्माकमासुवाऽऽभिमुख्येन प्रेरय। दुच्छुनामुपद्रवमारे दूरे नीत्वा बाधस्य विनाश्य।
अथ याज्या – अग्ने पवस्वेति। हेऽग्ने शोभनमपः कर्म यस्यासौ स्वपाः। तादृशस्त्वमस्मे अस्मदीयं वर्चो ब्रह्मवर्चसं सुवीर्यं शोभनं सामर्थ्यं च पवस्व शोधयस्व वर्धयेत्यर्थः। पुष्टिं रयिं धनं च मयि दधत्स्थापय।
द्वितीयस्य हविषः पुरोनुवाक्या – अग्ने पावकेति। हेऽग्ने पावक शोधक देव द्योतनात्मक रोचिषा दीप्तिमत्या मन्द्रया श्लक्ष्णया जिह्वया वाचा देवानावक्षि यक्षि आवह यज च।
अथ याज्या – स न इति। हे पावक शोधक दीदिवो दीप्यमानाग्ने नोऽस्मदर्थं देवानिह कर्मण्यावह, अस्माकमिमं यज्ञं हविश्चोप देवसमीपे प्रपय।
तृतीयस्य हविषः पुरोनुवाक्या – अग्निः शुचीति। अयमग्निः प्रथमं तावच्छुचिव्रततमः स्वत एव शुचिव्रततमोऽतिशयेन शुद्धं व्रतमाचरणं दाहपाकप्रकाशरूपं यस्यासौ तादृशः। तत उर्ध्वं विप्राभिमानित्वादपि शुचिः। तत उर्ध्वं विद्वदभिमानित्वेन शुचिः। ततोऽप्यूर्ध्वमाभिमुख्येन हुतः शुचिर्दीप्तिमान्रोचते शोभते।
अथ याज्या – उदग्न इति। हेऽग्ने शुचयः शुद्धास्तव शुक्रा रश्मयो भ्राजन्तः प्रकाशमाना उदीरत उद्गछन्ति। तथाऽर्चयः पूजका ज्योतींषि भासकानि देवतारूपाणि प्राप्नुवन्ति।
अत्र विनियोगसंग्रहः –
“त्वं याज्या रुद्रवद्यागे ह्यग्निः सुरभिसंयुते।
अक्रन्क्षामयुजे तुभ्यं कामिनि श्रेष्ठमित्यसौ॥१॥
यविष्ठयुत आयुष्टे आयुष्मति तथोपरि।
जातवेदयुते तस्मै शुची रुक्मयुते तथा॥२॥
आ यत्तेजोयुते ह्यग्ने साहन्त्यगुणसंयुते।
उक्षान्नसंयुते ह्यग्ने पवमानयुते तथा।
अग्ने पावकवत्यग्निः शुचावष्टौ च विंशतिः॥३॥” इति।
अत्र मीमांसा नास्ति।
अथ च्छन्दः –
त्वमग्ने रुद्र इत्यादयः षट्। अश्याम तं स श्वितान आयुर्दा अग्ने दिवस्परि दृशानो रुक्म आ यदिषे स तेजीयसा वद्मा हि सूनो च त्रिष्टुभः। तुभ्य ताः श्रेष्ठं यविष्ठ तस्मै ते शुचिः पावकोक्षन्नायेत्येता अग्न आयूंषीत्यदयश्च षड् गायत्र्यः। आयुष्टेऽग्ने सहन्तं तमग्ने पृतनासहमित्येता अनुष्टुभः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके चतुर्दशोऽनुवाकः ॥१४॥