(अथ प्रथमाष्टके द्वितीयः प्रपाठकः)।
(तत्र प्रथमोऽनुवाकः)।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥१॥
आद्यप्रपाठके दर्शपूर्णमासेष्टिरीरिता । प्रपाठकत्रयेणाथ सोमयागः प्रवक्ष्यते ॥२॥
तदिदं सौम्यकाण्डम् । तथा चानुक्रमणिकायामुक्तम् —
“अध्वरप्रभृतित्रीणि तद्विधिर्वाजपेयकौ । सवाः शुक्रियकाण्डे च नवेन्दोरिति धारणा” इति ॥
आप उन्दन्त्वित्यादिकमध्वरकाण्डम्। आ ददे ग्रावाऽसीत्यादिकं ग्रहकाण्डम्। उदु त्यं जातवेदसमित्यादिकं दक्षिणाकाण्डम्। तान्येतानि त्रीणि। प्राजीनवँशं करोतीत्यादिकं त्रयाणामेतेषां विधिः। देव सवितः प्र सुवेत्यादिकं वाजपेयस्य मन्त्रकाण्डम्। देवा वै यथादर्शं यज्ञानाहरन्तेत्यादिकं वाजपेयस्य विधिकाण्डम्। त्रिवृत्स्तोमो भवतीत्यादिकाः सवाः। नमो वाचे या चोदितेत्यादिकं शुक्रियमन्त्रकाण्डम्। देवा वै सत्रमासतेत्यादिकं तद्विधिकाण्डम्। तान्येतानि नवसंख्याकानि चन्द्रस्य काण्डानि। अतस्तेषु चन्द्र ऋषिरिति ध्यायेत्।
“सोमाङ्गे दीक्षणीयादौ दर्शमन्त्रातिदेशनात् । दर्शोर्ध्वत्वं तत्र युक्तमग्निष्टोमोऽत्र वर्ण्यते” ॥
त्रिविधः सोमयाग एकाहाहीनसत्रनामकः । एकस्मिन्नेवाहनि सवनत्रयेण निष्पाद्य एकाहः । द्विरात्रमारभ्यैकादशरात्रपर्यन्ता अहीनाः । त्रयोदशरात्रमारभ्य सहस्रसंवत्सरपर्यन्तानि सत्राणि । द्वादशाहस्तु द्विरूपः । तत्राहीनरूपेण द्विरात्रादीनां प्रकृतिः, सत्ररूपेण त्रयोदशरात्रादीनाम् । तस्य च द्वादशाहस्यैकाहरूपो ज्योतिष्टोमः प्रकृतिः । अत एवाऽऽम्नायते — “एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमः” इति । यद्यपि सप्तसंस्थो ज्योतिष्टोमोऽग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामो वाजपेयश्चेति, तथाऽप्यग्निष्टोमे कृत्स्नाङ्गजातस्योपदिष्टत्वात्स एवेतरेषां प्रकृतिः । अतः प्रथमं स एवाभिधीयते । तत्र प्रपाठकत्रयस्यानुवाकानां चार्थभेदो विनियोगसंग्रहे दर्शितः –
“द्वितीयप्रश्नमारभ्य प्रश्नत्रय उदीर्यते । सोमयागे मन्त्रजातं तत्रावान्तरभेदतः ॥१॥
क्रयः पशुर्ग्रहश्चेति प्रश्नभेदोऽवगम्यताम् । क्रयप्रश्नेऽनुवाकाः स्युरर्थभेदाच्चतुर्दश ॥२॥
प्राग्वंशावेशनं दीक्षा स्याद्देवयजनग्रहः । सोमक्रयण्यानयनं तदीयपदसंग्रहः ॥३॥
सोमोन्मानं क्रयस्तस्य शकटारोपणं गतिः । आतिथ्योपसदस्तद्वद्भवेदुत्तरवेदिका ॥
हविर्धानं काम्ययाज्या इत्यर्था अनुवाकगाः ॥४॥ इति॥
तत्र प्रथमानुवाके क्षौरादिभिः संस्कृतस्य यजमानस्य प्राचीनवंशाख्यशालाप्रवेशोऽभिधीयते । आप उन्दन्त्वित्यादयः क्षौरमन्त्राः । क्षौरात्प्रागेव शाला निर्मातव्या । ततो बौधायनो दीक्षासाधनद्रव्यसंपादनपूर्वकं शालानिर्माणमाह – “अग्निष्टोमेन यक्ष्यमाणो भवति स उपकल्पयते कृष्णाजिनं च कृष्णविषाणं च वासश्च मेखलां च” इति । “जुष्टे देवयजने शाला कारिता भवति” इति च ।
आपस्तम्बोऽपि “सोमेन यक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीते” इत्युपक्रम्य वरणं देवयजनाध्यवसानं दीक्षणीयेष्टिं चाभिधायेदमाह — “प्राचनिवँशं करोति पुरस्तादुन्नतं पश्चान्निनतँ सर्वतः परिश्रितम्” इति ।
एतदेवाभिप्रेत्य वपनविधेः पूर्वं शालां विधत्ते –
“प्राचीनवँशं करोति देवमनुष्या दिशो व्यभजन्त प्राचीं देवा दक्षिणां पितर, प्रतीचीं मनुष्या उदीचाँ रुद्रा यत्प्राचीनवँशं करोति देवलोकमेव तद्यजमान उपावर्तते” (सं. का.६ प्र.१ अ.१) इति ।
प्रागायतः पृष्ठवंशो यस्य गृहविशेषस्य स प्राचीनवंशः । केचित्तु वस्य देवयजनस्येति विगृह्य कृत्स्नदेवयजनविधिमेतमाहुः। देवयजनैकदेशरूपगृहसंबद्धो वंशो देवयजनसंबद्धो भवति। वंशस्य प्रागग्रत्वेन तद्गृहं यजमानो देवलोकं करोति।
गृहस्य कुड्यस्थानीयमावरणं विधत्ते —
‘परिश्रयत्यन्तर्हितो हि देवलोको मनुष्यलोकात्” (सं. का. ६ प्र. १ अ. १) इति।
स्वर्गस्य मनुष्यैरदृश्यत्वादत्रापि तदर्थं परिश्रयणम्।
द्वाराणि विधत्ते —
‘नास्माल्लोकात्स्वेतव्यमिवेत्याहुः को हि तद्वेद यद्यमुष्मिल्ँ लोकेऽस्ति वा न वेति दिक्ष्वतीकाशान्करोत्युभयोर्लोकयोरभिजित्यै’ (सं. का. ६ प्र. १ अ. १) इति।
इहलोके तावत्सुखं प्रत्यक्षसिद्धम्। गृहक्षेत्रपुत्रमित्रादिभिस्तदुत्पादात्॥ स्वर्गे तु संदिग्धम्। यद्यविघ्नेनेदं कर्म साङ्गं समाप्येत तदा सुखमस्ति नान्यथा। भवदपि तत्सुखं नेदानीं भवति किंतु मरणादूर्ध्वम्। तदाऽपि प्रबलेन केनचिन्नरकप्रदेन कर्मणा प्रतिबन्धे सति ततोऽपि विलम्ब्येत। तस्मादिदानीमेवास्माल्लोकान्न सर्वात्मना निर्गन्तव्यमिति बुद्धिमन्त आहुः। तत एतल्लोकदर्शनाय द्वारेषु कृतेषु लोकद्वयजयो भवति।
आप इति। कल्पः ‘अथास्य प्राङ्मुखस्य दक्षिणं गोदानमद्भिरनुबध्याऽऽप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चस इति’ इति।
गोदानं शिरसो भागः। जीवनायुर्वृद्धिब्रह्मवर्चसेभ्य आपः शिर आर्द्रीकुर्वन्तु।
ओषध इति। कल्पः- ‘ऊर्ध्वाग्रं बर्हिरनूच्छ्रयति ओषधे त्रायस्वैनमिति स्वधितिं तिर्यञ्चं निदधाति स्वधिते मैनँ हिँसीरिति प्रवपति देवश्रूरेतानि प्र वप इति’ इति।
स्वाधितिः क्षुरः। देवेषु प्रसिद्धत्वेन श्रूयत इति देवश्रूर्देवनापितस्तद्रूपोऽहं वपनं कुर्वे। एतानि केशादीनि।
स्वस्तीति। बौधायनः — ‘स्वस्त्युत्तराण्यशीयेत्युक्त्वा तं प्रत्यभिमृशते’ इति।
आपस्तम्बः — ‘स्वस्त्युत्तराण्यशीयेति यजमानो जपति’ इति।
अविघ्नोत्तराणि कर्माणि प्राप्नुयाम्।
विधत्ते —
‘केशश्मश्रु वपते नखानि निकृन्तते मृता वा एषा त्वममेध्या यत्केशश्मश्रु मृतामेव त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेधमुपैति’ (सं. का. ६ प्र. १ अ. १) इति।
आप इति। बौधायनः — ‘अथैनमद्भिरभिषिञ्चत्यापो अस्मान्मातरः शुन्धन्तु धृतेन नो घृतपुवः पुनन्त्विति संप्रधाव्य रजः प्रक्षालयति विश्वमस्मत्प्र वहन्तु रिप्रमिति’ इति।
आपस्तंम्बस्त्वेकमन्त्रतां मन्यते। अस्मानस्मदीया यजमानान्। क्षरदुदकमत्र घुतम्। तेन पुनन्ति पर्जन्यादयो घृतपुवः रिप्रं पापम्। इमा आपः सर्वं पापमस्मत्तोऽपनयन्तु।
उदाभ्य इति। कल्पः — ‘उदाभ्यः शुचिरा पूत एमीत्युद्गाहमानो जपति’ इति।
स्नानाचमनाभ्यां बहिरन्तश्च शुद्धः सन्नद्भ्य उद्गम्याऽऽगच्छामि।
विधत्ते —
‘अङ्गिरसः सुवर्गं लोकं यन्तोऽप्सु दीक्षातपसी प्रावेशयन्नप्सु स्नाति साक्षादेव दीक्षातपसी अवरुन्धे’ (सं. का. ६ प्र. १ अ. १) इति।
मुण्डनादिसंस्कारो दीक्षा। आहारदिनियमस्तपः। अप्सु स्नानेन तदुभयमव्यवधानेनैव प्राप्नोति। अवतरणप्रदेशं विधत्ते —
‘तीर्थे स्नाति तीर्थे हि ते तां प्रावेशयन्’ (सं. का. ६ प्र. १ अ. १) इति। उक्तमेवार्थमनूद्य स्तौति –
‘तीर्थे स्नाति तीर्थमेव समानानां भवति’ (सं. का. ६ प्र. १ अ. १) इति। संख्यादीनां समानानां तीर्थवत्सेव्यो भवति।
आचमनं विधत्ते –
‘आपोऽश्नात्यन्तरत एव मेध्यो भवति’ (सं. का. ६ प्र. १ अ. १) इति।
सोमस्येति। कल्पः — ‘अथ प्रदक्षिणमहतं वासः परिधत्ते सोमस्य तनूरसि तनुवं मे पाहीति’ इति।
क्षौमवस्त्रस्य सोमोऽभिमानी देव इति तस्य वस्त्रं शरीरम्। विधत्ते – ‘वाससा दीक्षयति सौम्यं वै क्षौमं देवतया सोममेष देवतामुपैति यो दीक्षते’ (सं. का. ६ प्र. १ अ. १) इति। दीक्षयति संस्करोति।
मन्त्रस्य पूर्वोत्तरभागौ व्याचष्टे —
‘सोमस्य तनूरसि तनुवं मे पाहीत्याह स्वामेव देवतामुपैत्यथो आशिषमेवैतामाशास्ते’ (सं. का. ६ प्र. १ अ. १) इति।
वस्त्रपरिहितस्य सोम एव स्वा देवता। प्रकारान्तरेण प्रस्तौति —
‘अग्नेस्तूषाधानं वायोर्वातपानं पितृणां नीविरोषधीनां प्रघात आदित्यानां प्राचीनतानो विश्वेषां देवानामोतुर्नक्षत्राणामतीकाशास्तद्वा एतत्सर्वदेवत्यं यद्वासो यद्वाससा दीक्षयति सर्वाभिरेवैनं देवताभिर्दीक्षयति’ (सं. का. ६ प्र. १ अ. १) इति।
शलाकोपधानं तूषाः। तत्र तन्तूनां पूरणं तूषाधानम्। वायुना शोषणं वातपानम्। नीविर्बन्धविशेषः। प्रघातो दण्डेन शलाकोपधानेन वा प्रहारः। प्राचीनतानो दीर्घतन्तुप्रसारणम्। ओतुस्तिर्यक्तन्तुप्रसारणम्। अतीकाशाश्छिद्राणि। एतेषु क्रमेणाग्न्यादयोऽभिमानिदेवताः। भोजनं विधत्ते —
‘बहिःप्राणो वै मनुष्यस्तस्याशनं प्राणोऽश्नाति सप्राण एव दीक्षते’ (सं. का. ६ प्र. १ अ. १) इति।
प्राणस्थितिहेतुत्वादशनस्य प्राणत्वम्। मित्रबन्ध्वादिभिः प्रार्थितो बहु भुञ्जीतेति।
विधत्ते — ‘आशितो भवति यावानेवास्य प्राणस्तेन सह मेधमुपैति” (सं. का. ६ प्र. १ अ. १) इति।
महीनामिति। बौधायनः — ‘अथास्यैतन्नवनीतं विचितमुदशराव उपशेते तस्य पाणिभ्यां संप्रम्लाय मुखमेव प्रथममभ्यङ्क्ते महीनां पयोऽसि वर्चोधा असि नुवर्चो मयि धेहीत्यनुलोमपादाभ्याम्’ ।
आपस्तम्बो मन्त्रभेदमाह — ‘महीनां पयोऽसीति दर्भपुञ्जीलाभ्यां नवनीतमुद्यौति वर्चोधा असीति तेन पराचीनं त्रिरभ्यङ्क्ते’ इति।
हे नवनीत त्वं गवां पयः कार्यमसि। स्निग्धतारूपं वर्चो धारयसि। अतो मयि ब्रह्मवर्चसं धेहि।
अभ्यङ्गं विधत्ते —
‘घृतं देवानां मस्तु पितृणां निष्पक्वं मनुष्याणां तद्वा एतत्सर्वदेवत्यं यन्नवनीतं यन्नवनीतेनाभ्यङ्क्ते सर्वा एव देवताः प्रीणाति’ (सं. का. ६ प्र. १ अ. १) इति।
नवनीतस्य पाकजन्यास्तिस्रोऽवस्थाः पक्वं किंचित्पक्वं निःशेषपक्वं च। द्राव्यान्तरप्रक्षेपेण सुरभि निःशेषपक्वम्। अत एव बह्वृचः पठन्ति – ‘आज्यं वै देवानां सुरभि घृतं मनुष्याणामायुतं पितॄणां नवनीतं गर्भाणाम्’ इति।
प्रकारान्तरेण नवनीताभ्यङ्गं प्रस्तौति —
‘प्रच्युतो वा एषोऽस्माल्लोकादतो देवलोकं यो दीक्षितोऽन्तरेण नवनीतं तस्मान्नवनीतेनाभ्यङ्क्ते” (सं. का. ६ प्र. १ अ. १) इति।
दीक्षितस्य सर्वसाधने प्रवृत्तत्वादेतल्लोकप्रच्युतिः। यागस्यासमाप्तत्वाद्देवलोकप्राप्त्यभावः। नवनीतमपि क्षीरभावात्प्रच्युत्य घृतभावं न प्राप्नोति। अतोऽन्तरालवर्तित्वसाम्यात्तेन तस्याभ्यङ्गो युक्तः। गुणद्वयं विधत्ते –
‘अनुलोमं यजुषा व्यावृत्त्यै’ (सं. का. ६ प्र. १ अ. १) इति।
मनुष्याणां नास्त्यानुलोम्ये नियमः न वाऽभ्यङ्क्ते मन्त्रोऽस्ति। तस्माद्व्यावृत्त्यै तदुभयमत्रेति नियम्यते।
वृत्रस्येति। कल्पः – ‘अथास्यैतदाञ्जनं पिष्टं दृषदुपले सतूलया च शरेषीकया चास्य प्रङ्मुखस्य प्रत्यङ्मुख उपविश्य सव्येन पाणिना दक्षिणामक्ष्यनक्ति वृत्रस्य कनीनिकाऽसि चक्षुष्पा असि चक्षुर्मे पाहीति’ इति।
मन्त्रार्थं विशदयन्नञ्जनं विधत्ते —
‘इन्द्रो वृत्रमहन्तस्य कनीनिका पराऽपतत्तदाञ्जनमभवद्यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते” (सं. का. ६ प्र. १ अ. १) इति। विनाशयतीत्यर्थः।
क्रमेण गुणान्विधत्ते —
‘दक्षिणं पूर्वमाऽङ्क्ते सव्यँहि पूर्वं मनुष्या आञ्जते न नि धावते नीव हि मनुष्या धावन्ते पञ्चकृत्व आऽङ्क्ते पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवावरुन्धे परिमितमाऽङ्क्तेऽपरिमितँ हि मनुष्या आञ्जते सतूलयाऽऽङ्क्तेऽपतूलया हि मनुष्या आञ्जते व्यावृत्त्यै” (सं. का. ६ प्र. १ अ. १) इति।
मनुष्यस्य योषितामञ्जने वामभागपूर्वत्वं प्रसिद्धम्। अञ्जनोपेताङ्गुलेश्चक्षुषि सहसा पुनः पुनः पर्यावर्तनं निधावनं तच्च मनुष्याः कुर्वन्ति। यज्ञे सवनीयपुरोडाशद्रव्याणां पञ्चसंख्यया पङ्क्तिच्छन्दोगताक्षरसाम्याद्यज्ञस्य पाङ्क्तत्वम्।
तथा च पञ्चमप्रपाठके वक्ष्यति – ‘ब्रह्मवादिनो वदन्ति नर्चा न यजुषा पङ्क्तिराप्यतेऽथ किं यज्ञस्य पाङ्क्तत्वमिति धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पङ्क्तिराप्यते तद्यज्ञस्य पाङ्क्तत्वम्’ (सं. का. ६ प्र. ५ अ. १०) इति।
परिमितमल्पं पञ्चसंख्यानियमो वा। न ह्ययं नियमो मनुष्येष्वस्ति। अग्रसहिता शरेषीका सतूला। मनुष्याणामिषीकानियम एव नास्ति कृतः सतूलत्वनियमः।
विपक्षे बाधकपूर्वकं स्वपक्षं निगमयति — ‘यदपतूलयाऽऽञ्जीत वज्र इव स्यात्स तूलयाऽऽङ्क्ते मित्रत्वाय’ (सं. का. ६ प्र. २ अ. १) इति।
तूलरहिताशरकाष्ठस्य तीक्ष्णाग्रत्वाद्वज्रसमत्वम्।
चिदिति। कल्पः – ‘अथैनमेकविँशत्या दर्भपुञ्जीलैः पवयति चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति” इति।
प्रथमद्वितीयमन्त्रयोरच्छिद्रेणेत्यनुषज्यते। हे यजमान चितां ज्ञानानां पतिर्मनो देवस्त्वां पुनातु। वाचां शब्दानां पतिः सरस्वत्यसौ वा आदित्योऽच्छिद्रं पवित्रं तद्रूपोऽयं दर्भस्तोमः। जगन्निवासहेतोः सूर्यस्य रश्मिरूपा दर्भाः।
दर्भस्तोमविशिष्टं मार्जनं विधत्ते —
“इन्द्रो वृत्रमहन्त्सोऽपोऽभ्यम्रियत तासां यन्मेध्यं यज्ञियँ सदेवमासीत्तदपोदक्रामत्ते दर्भ अभवन्यद्दर्भपुञ्जीलैः पवयति या एव मेध्या यज्ञियाः सदेवा आपस्ताभिरेवैनं पवयति” (सं. का. ६ प्र. १ अ. १) इति।
मेध्यं शुद्धं, यज्ञियं यज्ञार्हं, सदेवं देवताप्रियम्। उत्पवनब्राह्मणे दर्भोत्पत्तिर्व्याख्याता।
दर्भस्तोमस्य संख्याविशेषान्विधत्ते —
“द्वाभ्यां पवयत्यहोरात्राभ्यामेवैनं पवयति त्रिभिः पवयति त्रय इमे लोका एभिरेवैनं लोकैः पवयति पञ्चभिः पवयति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञायैवैनं पवयति षड्भिः पवयति षड्वा ऋतव ऋतुभिरेवैनं पवयति सप्तभिः पवयति सप्त छन्दाँसि छन्दोभिरेवैनं पवयति नवभिः पवयति नव वै पुरुषे प्राणाः सप्राणमेवैनं पवयत्येकविँशत्या पवयति दश हस्त्या अङ्गुलयो दश पद्या आत्मैकविँशो। यावनेव पुरुषस्तमपरिवर्गं पवयति” (सं. का. ६ प्र. १ अ. १) इति।
“गायत्री त्रिष्टुब्जगत्यनुष्टुप्पङ्क्त्या सह। बृहत्युष्णिहा ककुत्सूचीभिः शिम्यन्तु त्वा” इति कश्चिन्मन्त्र आम्नायते। तत्रोष्णिक्ककृभोरवान्तरभेदपरित्यागेन सप्त च्छन्दांसि। संचारस्थानभूतच्छिद्राभिप्रायेण प्राणानां नवत्वम्। अपरिवर्गं निःशेषम्। एकविंशतिपक्ष एवात्रानुष्ठेयः। “एकविँशत्या दर्भपुञ्जीलैः पवयति” इति बह्वृचब्राह्मण आम्नातत्वात्। तत्प्रशंसार्थमितरे पक्षा अवयुत्यानुवादः।
मन्त्रं व्याचष्टे —
“चित्पतिस्त्वा पुनात्वित्याह मनो वै चित्पतिर्मनसैवैनं पवयति वाक्पतिस्त्वा पुनात्वित्याह वाचैवैनं पवयति देवस्त्वा सविता पुनात्वित्याह सवितृप्रसूत एवैनं पवयति” (सं. का. ६ प्र. १ अ. १) इति।
तस्येति। कल्पः – “यजमानं वाचयति तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयमिति” इति।
आदित्यरूपस्याच्छिद्रपवित्रस्य पतिः प्रेरकोऽन्तर्यामी। हे पवित्रपते तादृशस्य तव पवित्रेण यस्मा अग्निष्टोमकर्मणे कमात्मानं शोधयामि तत्कर्तुं शक्तो भूयासम्।
एतमभिप्रायं दर्शयति —
“तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयमित्याहाऽऽशिषमेवैतामाशास्ते” (सं. का. ६ प्र. १ अ. १) इति।
आ व इति। बौधायनः – “अथैनं सव्ये पाणावभिपाद्य शालामानयति आ वो देवास ईमहे सत्यधर्माणो अध्वरे यद्वो देवास आगुरे यज्ञियासो हवामह इति” इति।
अपस्तम्बः — “आ वो देवास ईमहे इति पूर्वया द्वारा प्राग्वंशे प्रविश्य” इति।
हे देवा युष्माकं संबन्धिन्यस्मिन्नध्वरे वयं सत्यधर्माणोऽवश्यंभाव्यनुष्ठानपरा आगच्छामः। हे यज्ञसंबन्धिनो देवा यस्मादागुरे कर्मोद्यमे युष्मानाह्वास्यामस्तस्माद्वयमत्राऽऽगच्छामः।
इन्द्राग्नी इति। बौधायनः — “पूर्वया द्वारा शालां प्रपादयति, इन्द्राग्नी द्यावापृथिवि आप ओषधीरिति” इति।
आपस्तम्बः – ‘इन्द्राग्नी द्यावापृथिवी आप ओषधीरित्यपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य” इति।
हे इन्द्रादय एनमनुजानीतेति शेषः।
त्वमिति। बौधायनः — अथैनमग्रेणाऽऽहवनीयं पर्याहृत्य दक्षिणत उदङ्मुखमुपवेश्याऽऽहवनीयमीक्षयति त्वं दीक्षाणामधिपतिरसीह मा सन्तं पाहीति” इति।
आपस्तम्बः — “त्वं दीक्षाणामधिपतिरसीत्याहवनीयमुपोपविशति” इति।
हे आहवनीय त्वं दीक्षारूपाणां नियमानां पालकोऽस्यतस्त्वत्समीपे स्थितं मां पालय।
पूर्वोक्तपूतत्वप्रशंसापूर्वकं प्राचीनवंशप्रवेशं विधत्ते —
“यावन्तो वै देवा यज्ञायापुनत त एवाभवन्य एवं विद्वान्यज्ञाय पुनीते भवत्येव बहिः पवयित्वाऽन्तः प्रपादयति मनुष्यलोक एवैनं पवयित्वा पूतं देवलोकं प्रणयति” (सं. का. ६ प्र. १ अ. २) इति।
अभवन्नैश्वर्यं प्राप्तः। भवत्येवैश्वर्यं प्राप्नोत्येव।
अत्र विनियोगसंग्रहः –
“आपः शिर उनत्त्योष दर्भोऽत्रान्तर्हितः स्वधि।
क्षुरं निधाय देवश्रूर्वपेत्स्वस्ति तदा जपेत्॥१॥
आपः स्नायादुदा जप्यं सोम वस्त्रपरिग्रहः।
महीति नवनीतस्य ग्रहो वर्चोऽतिलेपनम्॥२॥
वृत्रेत्याङ्क्ते चित्पतिस्त्वात्रिभिर्दर्भेण पावयेत्।
तस्येति जपति स्वामी ह्या वः प्राग्वंशवेशनम्॥३॥
इन्द्राग्नी दक्षिणे गत्वा त्वमित्युपविशेदिह।
प्रथमे ह्यनुवाकेऽस्मिन्मन्त्रा अष्टादशेरिताः॥४॥ इति।
अथ मीमांसा।
चतुर्थाध्यायस्य तृतीयपादे चिन्तितम् —
“किं दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यागकः।
अङ्गाङ्गिता वा कालो वा ह्यपारार्थ्याय चाङ्गता॥
दर्शादिलक्षिते काले सोमयागो विधीयते।
स्वनन्त्रफलवत्त्वेन न युक्ताऽङ्गाङ्गिता तयोः” इति।
इदमाम्नायते – “दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत” इति। तत्रोभयोराग्निमारुतानूयाजवदन्याधीनत्वाभावद्दर्शपूर्णमासोक्तेः पारार्थ्यपरिहाराय सोमस्य दर्शपूर्णमासाङ्गत्वबोधकोऽयं संयोग इति चेन्मैवम्। स्वतन्त्रफलवतः सोमयागस्याङ्गत्वासंभवात्। फलवत्संनिधावफलं तदङ्गमिति न्यायात्। न चात्र बृहस्पतिसवन्यायेन सोमधर्मकमफलं कर्मान्तरं विधीयत इति शक्यं वक्तुम्। सोमशब्दस्य बृहस्पतिसवशब्दवन्नामत्वाभावेन धर्मातिदेशकत्वाभावत्। क्त्वाप्रत्ययस्तु असत्यङ्गाङ्गिभावे कर्त्रैक्यमात्रेणोपपद्यते। तस्माद्दर्शपूर्णमासशब्दस्य पारार्थ्ममभ्युपेत्यापि तदिष्ट्युपलक्षित उत्तरकाले सोमविधिरयम्।
एतदेवाभिप्रेत्य रथरूपकमाम्नायते —
“एष वै देवरथो यद्दर्शपूर्णमासौ यो दर्शपूर्णमासाविष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानामवस्यति” (सं. का. २ प्र. ५ अ. ६) इति।
अवसाने निश्चिते वरे मार्गे यथा रथेन क्षुण्णे मार्गे गन्तुः कण्टकपाषाणादिबाधराहित्येन सुखं भवति तथा प्रथमं दर्शपूर्णमासाविष्टवत उत्तरकाले तदिष्टिविकृतिषु सोमाङ्गभूतदीक्षणीयाप्रायणीयादिषु कर्मानुष्ठानं सुकरं भवतीत्यर्थः। तस्मात्कालार्थः संयोगः।
पञ्चमाध्यायस्य चतुर्थपादे चिन्तितम्।
“दर्शादीष्ट्वा सोमयागः क्रमोऽयं नियतो न वा।
उक्तेराद्यो न सोमस्याऽऽधानानन्तरताश्रुतेः” इति॥
दर्शपूर्णमासाविष्ट्वा सोमेन यजेतेति क्त्वाप्रत्ययेनावगम्यमानः क्रमो नियत इति चेन्मैवम्। सोमेन यक्ष्यमाणोऽग्नीना दधीतेत्याधानानन्तरताया अपि श्रवणात्। तस्मादिष्टिसोमयोः पौर्वापर्यं न नियतम्।
तत्रैवान्यच्चिन्तितम् —
“विप्रस्य सोमपूर्वत्वं नियतं वा न वाऽग्रिमः।
उत्कर्षतो नैवमग्नीषोमीयस्यैव तच्छ्रुतेः” इति॥
इष्टिपूर्वत्वं सोमपूर्वत्वं च विकल्पितमिति यदुक्तं तत्र ब्राह्मणस्य सोमपूर्वत्वमेव नियतम्। कुतः उत्कर्षश्रवणात् “आग्नेयो वै ब्राह्मणो देवतया स सोमेनेष्ट्वाऽग्नीषोमीयो भवति यदेवादः पौर्णमासं हविस्तत्तर्ह्यनु निर्वपेत्तर्ह्युभयदेवतो भवति” इति। अस्यायमर्थः — प्रजापतेर्मुखादग्निब्राह्मणश्चेत्युभावुत्पन्नौ। ततो ब्राह्मणस्यैकैव देवतेत्याग्नेय एव ब्रह्मणो न तु सौम्यः। सोमस्य तद्देवतात्वाभावात्। यदा स ब्राह्मणः सोमेन यजति तदा सोमोऽऽप्यस्य देवतेत्यग्नीषोमीयो भवति। तस्याग्नीषोमीयस्य ब्राह्मणस्यानुरूपं पौर्णमासमग्नीषोमीयपुरोडाशरूपं हविः सोमादूर्ध्वमनुनिर्वपेत्। तदा स ब्राह्मणो देवताद्वयसंबन्धी भवतीति। यद्यप्यत्र कर्मान्तरं किंचिद्विधीयत इति कश्चिन्मन्येत तथाऽपि पौर्णमासं हविरिति विस्पष्टं प्रत्यभिज्ञानान्न कर्मान्तरं किंतु दर्शपूर्णमासयोः सोमादूर्ध्वमुत्कर्षः। तस्माद्विप्रस्य सोमपूर्वत्वमेव नियतमिति प्राप्ते ब्रूमः — नात्र दर्शशब्दः पूर्ण-
मासशब्दो वा कश्चिद्यागवाची श्रूयते। पौर्णमासमित्येष तद्धितान्तो हविर्विशेषणात्वेनोपन्यस्यते। तच्च हविरग्नीषोमीयपुरोडाशरूपमिति देवताद्वयेन संस्तवादवगम्यते। तस्मादेकस्यैव हविष उत्कर्षो न तु कृत्स्नयोर्दर्शपूर्णमासयोः। तथा सति ब्राह्मणस्यैकस्मिन्नेवाग्नीषोमीयपुरोडाशे सोमपूर्वत्वनियमः। इतरत्र क्षत्रियवैश्ययोरिवास्यपीष्टिपूर्वत्वसोमपूर्वत्वे विकल्प्येते।
तृतीयाध्यायस्य चतुर्थपादे चिन्तितम्।
“दिशं प्रतीचीं मनुजा व्यभजन्तेत्यसौ विधिः।
वादो वाऽत्र पुराकल्पस्तुत्यर्थो विधिमर्हति॥
प्राचीनवंशवाक्योक्तेर्विधानस्यौकवाक्यतः।
दिग्विधावर्थवादोऽयमुपवीते निवीतवत्” इति।
ज्योतिष्टोमे श्रूयते —
“प्राचीनवँशं करोति देवमनुष्या दिशो व्यभजन्त प्राचीं देवा दक्षिणा पितरः प्रतीचीं मनुष्या उदीचीँ रुद्रा यत्प्राचीनवँशं करोति देवलोकमेव तद्यजमान उपावर्तते” (सं. का.६ प्र.१ अ.१) इति । तत्र देवादीनां कर्मानधिकारान्न तत्र विधिशङ्का । मनुष्याः प्रतीचीं विभजेयुरित्येव विधिः स्यात् । कुतः । पुराकल्परूपेणार्थवादेन स्तूयमानत्वात् । पूर्वपुरुषाचरितत्वाभिधानं पुराकल्पः । व्यभजन्तेत्यनेन भूतार्थवाचिना तदभिधीयते । तस्माद्विधिरयमिति पूर्वः पक्षः । यस्य मण्डपविशेषस्योपरि वंशाः प्रागग्रा भवन्ति स प्राचीनवंशः । तद्विध्येकवाक्यत्वाभ्युपगमादर्थवादः। सायंकालीनार्घ्यादौ प्रतीची प्राप्ता ।
तृतीयाध्यायस्य सप्तमपादे चिन्तितम् —
“वपतीत्युपकारः किं द्वयोर्मुख्याङ्गयोरुत । मुख्य एव द्वयोरस्य कृत्स्नकर्तृगतत्वतः ॥
युक्तः शास्त्रीयसंस्कारो मुख्येऽस्य फलभोगि(जि)नः । विनाऽपि संस्कृतिं दृष्टं कर्तृत्वं तस्य नास्ति सः” इति ॥
ज्योतिष्टोमे केशश्मश्रुवपनपयोव्रतादयो यजमानसंस्कारा आम्नाताः । ग्रहैः सोमहोमो ज्योतिष्टोमे मुख्यः । अग्नीषोमीयपश्वादिकमङ्गम् । तत्र द्वयोर्मुख्याङ्गयोरेते वपनादय उपकुर्वन्ति । कुतः । कर्तृधर्मत्वात् । यजमानो हि कर्तृतया वपनादिभिः संस्क्रियते । कर्तृत्वं च यथा मुख्यं प्रति तस्य विद्यते तथाऽङ्गं प्रत्यप्यस्ति । तस्मादुभयोरुपकार इति चेन्मैवम् । द्वौ हि यजमानस्याऽऽकारौ क्रियाकर्तृत्वं फलभोक्तृत्वं चेति । तयोरदृष्टः फलभोगः क्रियानिष्पत्तिश्च दृष्टा । तथा सति वपनादिकृतोपकारस्याप्यदृष्टत्वाद्भोक्तृशेषा वपनादयः फलभोगसाधने मुख्य एव पर्यवस्यन्ति । वपनादिसंस्काररहितैर्ऋत्विग्भिः कृषीवलादिभिश्च क्रिया निष्पाद्यमाना दृश्यते । ततस्तत्र कर्तृत्वाकारे वपनादिकृतः स उपकारो नास्ति । तस्माददृष्टफलभोजिनो यजमानस्य योऽयमदृष्टरूपः शास्त्रीयसंस्कारः सोऽयं मुख्ये कर्मणि युक्तो नाङ्गेषु । नात्र पूर्ववद्वाक्यमस्ति । येन परम्परया फलसाधनाङ्गेषु वपनाद्युपकारः शङ्क्येत । प्रकरणं तु मुख्यस्यैव न त्वङ्गानाम् । तस्मान्न तेषूपकारः ।
तत्रैवाष्टमे पादे चिन्तितम् —
“संस्कारा वपनाद्या, किमध्वर्योः स्वामिनोऽथवा । अध्वर्योस्तत्र शक्तत्वात्तद्वेदोक्तेश्च तस्य ते ॥
संस्कारैर्योग्यतां प्राप्य स्वकार्यं कर्तुमृत्विजः । क्रीणात्यन्यक्रिया तेषां संस्क्रिया यजमानगा” इति ॥
आप उन्दन्तु जीवस इत्याद्याः संस्कारमन्त्राः । तद्विधयश्चाध्वर्युवेदे समाम्नाताः – “केशश्मश्रु वपते नखानि निकृन्तते” इति । शक्तश्चाध्वर्युर्वपनादौ । तस्मात्तस्याध्वर्योर्वपनादिसंस्कारा इति चेन्मैवम् । वपनादिसंस्कारा यजमानगतमालिन्यमपनीय यागयोग्यतामुत्पादयितुं क्रियन्ते । तथा च ब्राह्मणम् — “केशश्मश्रु वपते नखानि निकृन्तते मृता वा एषा त्वगमेध्या यत्केशश्मश्रु मृतामेव त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेधमुपैति” (सं. का.६ प्र.१ अ.१) इति । न ह्यध्वर्युवपनेन यजमानगता मृता त्वगपैति । योग्यस्य हि कर्माधिकारे सति पश्चात्प्रयासरूपेषु व्यापारेषु स्वयमशक्तः सन्कर्मकरानृत्विजः परिक्रीणाति । लोकेऽपि रोगिणः स्वामिन औषधाद्यानयन एव भृत्या जीवितदानेन परिक्रीयन्ते । न तु तदौषधं भृत्याः सेवन्ते । तस्मादितरक्रियार्त्विजाम् । संस्कारस्तु यजमानस्य । क्वचित्तु वचनादृत्विजामपि संस्कारोऽस्तु ।
चतुर्थाध्यायस्य तृतीयपादे चिन्तितम् —
“जुह्वाः पर्णमयीत्वेन न पापश्रुतिरञ्जनात् । वैरिदृग्वर्जनं वर्म प्रयाजैः पुरुषाय किम् ॥
क्रतवे वाऽग्रिमो भानात्फलस्य न हि साध्यता । विभाति क्रतवे तस्मादर्थवादः फलं भवेत्” इति ॥
इदमाम्नायते — “यस्य पर्णमयी जुहूर्भवति न पापँ श्लोकँ शृणोति, यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते, यत्प्रयाजानूयाजा इज्यन्ते वर्मैव तद्यज्ञाय क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्यै” इति । तत्र यज्जुह्वाः प्रकृतिभूतं पर्णद्रव्यं यश्चाञ्जनेन चक्षुःसंस्कारो यच्च प्रयाजानूयाजरूपं वर्म तत्त्रितयं पुरुषार्थत्वेन विधीयते । कुतः । पापश्लोकश्रवणराहित्यादेः पुरुषसंबन्धिफलस्य प्रतिभानादिति चेन्मैवम् । फलं हि साध्यं भवति । न चात्र साध्यता प्रतिभासते । न शृणोति, वृङ्क्ते, वर्म क्रियत इति वर्तमानत्वनिर्देशात् । अतः क्रत्वर्था एते विधयः । तत्र पर्णमयीत्वस्यानारभ्याधीतस्यापि वाक्येन क्रतुसंबन्धः । संस्कारक(व)र्मणोस्तु प्रकरणेन । क्रत्वर्थानां क्रतुनिष्पादनव्यतिरेकेण फलाकाङ्क्षया असंभवद्वर्तमाननिर्देशस्य विपरिणामं कृत्वाऽपि फलं कल्पयितुं न शक्यम् । तस्मात्फलवत्त्वभ्रमहेतुः पापश्लोकराहित्यादिरर्थवादः ।
द्वितीयाध्यायस्य प्रथमपादे चिन्तितम् —
“नानुषङ्गोऽनुषङ्गो वाऽच्छिद्रेणेत्यस्य शेषिणौ । चित्पतिस्त्वेत्यनाकाङ्क्षावतो नात्रानुषज्यते ॥
करणत्वं क्रियापेक्षं क्रिया चैका पुनात्विति । मन्त्रद्व(त्र)येऽतस्तद्द्वारा सर्वशेषोऽनुषज्यते” इति ।
ज्योतिष्टोमे दीक्षाप्रकरणे पठ्यते — “चित्पतिस्त्वा पुनातु, वाक्पतिस्त्वा पुनातु, देवस्त्वा सविता पुनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः” इति । तत्र तृतीयमन्त्रशेषोऽच्छिद्रेणेत्यादिभागः प्रथमद्वितीयमन्त्रयोर्नानुषज्यते । कुतः । न हि चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनात्वित्यनयोर्मन्त्रयोः शेषिणोः संपूर्णवाक्ययोः काचिच्छेषाकाङ्क्षाऽस्तीति प्राप्ते ब्रूमः – मा भूच्छेषिणोराकाङ्क्षा तथाऽपि शेषस्याऽऽकाङ्क्षाऽस्तीति । पवित्रेण रश्मिभिरित्युक्तं करणत्वं क्रियामपेक्षते । क्रिया च पुनात्वित्येषा त्रिष्वपि मन्त्रेष्वेका । तथा च क्रियया संबद्धः शेषः क्रियाद्वारा तृतीयमन्त्रे निरपेक्षेऽपि यथाऽन्वेति तथा पूर्वयोरप्यन्वेतु । तस्मादनुषङ्गः ।
अथ च्छन्दः ।
आप उन्दन्त्विति द्विपदा गायत्री । आपो अस्मानिति द्विपदा विराट् । विश्वमित्येकपदा विराट् । उदाभ्य इति तद्वत् । चित्पतिरित्यनुषङ्गे सति तिस्रो गायत्र्यः । आ वो देवास इत्यनुष्टुप् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके प्रथमोऽनुवाकः ॥१॥
(अथ प्रथमकाण्डे द्वितीयप्रपाठकं द्वितीयोऽनुवाकः)।
प्रथमानुवाके प्राचीनवंशप्रवेशोऽभिहितः। अथ प्रविष्टस्य दीक्षानियमरूपेण तपसा शरीरशुद्धौ सत्यां पश्चाद्देवयजनस्वीकारादियोग्यतेति द्वितीयानुवाके दीक्षा विधीयते। तत्र दीक्षणीयेष्टावध्वरमन्त्राणामतिदेशतः प्राप्तत्वाद्दीक्षाहुत्यादिमन्त्रा एवोच्यन्ते।
आकूत्या इति। कल्पः – “आज्यस्थाल्याः स्रुवेणोपघातं दीक्षाहुतीर्जहोति आकूत्यै प्रयुजेऽग्नये स्वाहा मेधायै मनसेऽग्नये स्वाहा दीक्षायै तपसेऽग्नये स्वाहा सरस्वत्यै पूष्णेऽग्नये स्वाहेत्यथ स्रुचि चतुर्गृहीतं गृहीत्वा स्रुचा पञ्चमीं जुहोति आपो देवीर्बृहतीर्विश्वशंभुवो द्यावापृथिवी उर्वन्तरिक्षं बृहस्पतिर्नो हविषा वृधातु स्वाहेति” इति।
यज्ञं करिष्यामीत्येवंविधो मानसः संकल्पः आकूतिः। तत्संपूर्त्यर्थमविघ्नेन मां प्रेरयते वह्नये हविरिदं हुतमस्तु। श्रुतयो फलसाधनयोर्धारणाशक्तिर्मेधा। तत्सिद्ध्यर्थं मदीयमनोभिमानिने वह्नये हुतमस्तु। दीक्षा व्रतनियमः। तत्सिद्ध्यर्थं मदीयतपोभिमानिने वह्नये हुतमस्तु। मन्त्रोच्चारणशक्तिः सरस्वती। तत्सिद्ध्यर्थं वागिन्द्रियपोषकाय वह्नये हुतमस्तु। बृहस्पतिरस्माकं हविषा वर्धताम्। हे आपो भवत्योऽपि वर्धन्ताम्। द्यावापृथिव्यौ वर्धेताम्। विस्तीर्णमन्तरिक्षं च वर्धताम्। कीदृश्य आपः। देवीर्वृष्टिरूपेण द्युलोकादागताः। बृहतीर्बहुलाः। विश्वशंभुवः सस्यपाचनेन सर्वस्य जगतः सस्यं कुर्वत्यः।
आहुतीर्विधत्ते —
“अदीक्षित एकयाऽऽहुत्येत्याहुः स्रुवेण चतस्रो जुहोति दीक्षितत्वाय स्रुचा पञ्चमीं पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवावरुन्धे” (सं. का. ६ प्र. १ अ. २) इति।
प्रथममन्त्र आकूत्युपयोगमाह —
“आकूत्यै प्रयुजेऽग्नये स्वाहेत्याहाऽऽकूत्या हि पुरुषो यज्ञमभि प्रयुङ्क्ते यजेयेति” (सं. का. ६ प्र. १ अ. २) इति।
यदा मनसाऽऽकूतिस्तदा पुरुष क्रत्विजामग्रे यज्ञमभिलक्ष्य यजेयेति वाचं प्रयुङ्क्ते।
द्वितीयमन्त्रे मेधोपयोगमाह —
“मेधायै मनसेऽग्नये स्वाहेत्याह मेधया हि मनसा पुरुषो यज्ञमभिगच्छति” (सं. का. ६ प्र. १ अ. २) इति।
श्रुतयोः फलसाधनयोरविस्मरणेन धृतयोर्मनसा यज्ञकर्तव्यतां प्रतिपद्यते। तपोभिमानिनो वह्नेरनुग्रहेण दीक्षासिद्धिः स्पष्टेत्यभिप्रेत्य तृतीयमन्त्रो न व्याख्यातः।
चतुर्थमन्त्रे पदवाक्ययोरर्थमाह —
“सरस्वत्यै पूष्णेऽग्नये स्वाहेत्याह वाग्वै सरस्वती पृथिवी पूषा वाचैव पृथिव्या यज्ञं प्रयुङ्क्ते” (सं. का. ६ प्र. १ अ. २) इति।
वाचा मन्त्रोच्चारणसिद्धिः। पृथिव्या यज्ञस्य देवयजनव्रीह्यादिद्रव्यसिद्धिः।
पञ्चममन्त्रस्य पूर्वभागे बहुविशेषणाभिप्रायमाह —
“आपो देवीर्बृहतीर्विश्वशंभुव इत्याह या वै वर्ष्यास्ता आपो देवीर्बृहतीर्विश्वशंभुवः” (सं. का. ६ प्र. १ अ. २) इति।
वर्षे भवा वर्ष्याः।
विपक्षे बाधमाह —
“यदेतद्यजुर्न ब्रूयाद्दिव्या आपोऽशान्ता इमं लोकमागच्छेयुः” (सं. का. ६ प्र. १ अ. २) इति।
दिव्यत्वादशनिवदपामशान्तत्वम्।
यस्मान्मन्त्रोक्तगुणस्तुत्या जलदेवतायाः शान्तिस्तस्माच्छान्ताः सुखकारिण्य इत्येतं स्वपक्षमुपसंहरति —
“आपो देवीर्बृहतीर्विश्वशंभुव इत्याहास्मा एवैना लोकाय शमयति तस्माच्छान्ता इमं लोकमागच्छन्ति” (सं. का. ६ प्र. १ अ. २) इति।
मन्त्रस्य द्वितीयतृतीयभागयोरुपयोगमाह —
द्यावापृथित्री इत्याह द्यावापृथिव्योर्हि यज्ञ उर्वन्तरिक्षमित्याहान्तरिक्षे हि यज्ञः” (सं. का. ६ प्र. १ अ. २) इति।
भूमौ देवयजनमन्तरिक्षेऽनुष्ठानाय संचारो दिवि फलमिति यज्ञस्य लोकत्रयवर्तित्वम्।
मन्त्रस्य चतुर्थभागाभिप्रायमाह —
“बृहस्पतिर्नो हविषा वृधात्वित्याह ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै यज्ञमवरुन्धे” (सं. का. ६ प्र. १ अ. २) इति।
देवानां मध्ये बृहस्पतेर्गुरुत्वेन परब्रह्मस्वरूपत्वम्।
हविषा विधेरिति शाखान्तरमन्त्रपाठस्तं निन्दित्वा स्वपाठं प्रशंसति —
“यद्ब्रूयाद्विधेरिति यज्ञस्थाणुमृच्छेद्वृधात्वित्याह यज्ञस्थाणुमेव परिवृणाक्ति” (सं. का. ६ प्र. १ अ. २) इति।
बृहस्पतिर्विदधात्वित्युक्ते सत्यभिवृद्धेरसूचितत्वाद्यज्ञविघ्नं यजमानः प्राप्नुयाद्वृधात्वित्युक्त्या तत्परिहारः।
विश्व इति। बौधायनः – ‘अपरं चतुर्गृहीतं गृहीत्वाऽऽज्यपूर्णेन(र्णया) स्रुचौद्ग्राहणं जुहोति विश्वे देवस्य नेतुर्मर्तो वृणीत सख्यं विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहेति” इति।
आपस्तम्बः — “द्वादशगृहीतेन स्रुचं पूरयित्वा विश्वे देवस्य नेतुरिति पूर्णाहुतिँ षष्ठीम्” इति।
विश्वे विश्वात्मकस्य नेतुर्जगन्निर्वाहकस्य देवस्य सख्यमनुग्रहं मर्तो मरणवान्यजमानः सहसा वृणीत तच्च सख्यमीदृशेन स्तोत्रेण लभ्यते। विश्वे हे विश्वात्मक रायो धनस्येषुध्यसीशिषे। स्तुत्वा(त्या) पुष्यसे यज्ञपोषणाय द्युम्नं धनं याचेत। इदं हविस्तव हुतमस्तु।
तमिममौद्ग्रहणहोमं विधास्यन्नाख्यायिकया पदं निर्वक्ति —
“प्रजापतिर्यज्ञमसृजत सोऽस्मात्सृष्टः पराङैत्सप्रयजुव्लीनात्प्र साम तमृगुदयच्छद्यदृगुदयच्छत्तदौद्ग्रहणस्यौद्ग्रहणत्वम्” (सं. का. ६ प्र. १ अ. २) इति।
पलायमानं यज्ञपुरुषं गृहीतुं प्रजापतिना प्रेरितानां त्रिविधमन्त्रपुरुषणां मध्ये यजुःसामपुरुषौ स यज्ञः प्रकर्षेणाव्लीनादावृणोत्। ऋग्देवता तु तं यज्ञमुदगृह्णात्तस्मादेतदृक्साध्यमनुष्ठानमौद्ग्रहणम्।
तदेतद्विधत्ते —
“ऋचा जुहोति यज्ञस्योद्यत्यै” (सं. का. ६ प्र. १ अ. २) इति।
तदीयं छन्दः प्रशंसति —
“अनुष्टुप्छन्दसामुदयच्छदित्याहुस्तस्मादनुष्टुभा जुहोति यज्ञस्योद्यत्यै” (सं. का. ६ प्र. १ अ. २) इति।
एतन्मन्त्रगतमृक्त्वं छन्दश्च यथा प्रशस्तं तथैव पदसंख्यामपि प्रशंसति —
“द्वादश वात्सबन्धनान्युदयच्छन्नित्याहुस्तस्माद्द्वादशभिर्वात्सबन्धविदो दीक्षयन्ति” (सं. का. ६ प्र. १ अ. २) इति।
यथा वत्स एकैकेन पाशेन प्रबध्यते तथा विश्वे देवस्येत्यादिषु द्वादशसु पदेष्वेकैकेन पदेन यज्ञो बध्यतेऽतस्तानि पदानि वात्सबन्धानि। वत्सस्येव बन्धो वत्सबन्धः। तदीयानि पदानि यज्ञमुदगृह्णन्तीत्याहुः पूर्वेऽभिज्ञाः। तद्विदोऽध्वर्यव इदानीमपि तैः पदैर्जुह्वति।
पूर्वमभिज्ञप्रसिद्ध्या छन्दसः प्रशंसा कृता। इदानीं वागात्मकत्वेन च्छन्दः स्तूयते —
“सा वा एषर्गनुष्टुग्वागनुष्टुग्यदेतयर्चा दीक्षयति वाचैवैनँ सर्वथा दीक्षयति” (सं. का. ६ प्र. १ अ. २) इति।
अनुष्टुभो वाग्विशेषत्वेन वाग्रूपत्वम्। छन्दोऽन्तरस्यापि तत्सममिति चेत्तर्हि प्रसङ्गे सति तदपि तथा स्तोतव्यम्।
लिङ्गोपजीवनेन मन्त्रं स्तौति —
“विश्वे देवस्य नेतुरित्याह सावित्र्येतेन मर्तो वृणीत सख्यमित्याह पितृदेवत्यैतेन विश्वे राय इषुध्यसीत्याह वैश्वदेव्येतेन द्युम्नं वृणीत पुष्यस इत्याह पौष्ण्येतेन सा वा एषर्क्सर्वदेवत्या यदेतयर्चा दीक्षयति सर्वाभिरेवैनं देवताभिर्दीक्षयति” (सं. का. ६ प्र. १ अ. २) इति।
प्रथमपादे सवितृपर्यायस्य नेतृशब्दस्य प्रयोगेण सावित्रत्वम्। द्वितीयपादे
मर्तशब्देन मृतपितृसूचनात्पितृदेवत्यत्वम्। तृतीयपादे विश्वशब्दस्य प्रयोगाद्वैश्वदेवत्वम्। चतुर्थपादे पुष्यस इत्युक्तत्वात्पौष्णत्वम्।
अक्षरसंख्यामुपजीव्य स्तौति —
“सप्ताक्षरं प्रथमं पदमष्टाक्षराणि त्रीणि यानि त्रीणि तान्यष्टावुपयन्ति यानि चत्वारि तान्यष्टौ यदष्टाक्षरा तेन गायत्री यदेकादशाक्षरा तेन त्रिष्टुग्यद्द्वादशाक्षरा तेन जगती सा वा एषर्क्सर्वाणि च्छन्दाँसि यदेतयर्चा दीक्षयति सर्वेभिरेवैनं छन्दोभिर्दीक्षयति” (सं. का. ६ प्र. १ अ. २) इति।
प्रथमं पदमृचि प्रथमः पादः। द्वितीयादिषु त्रिषु पादेष्वस्ति प्रत्येकमक्षरगताष्टत्वसंख्या। द्वितीयपादे सखियमित्यक्षरत्रयेणाष्टत्वं पूरणीयम्। प्रथमपादं द्वेधा विभज्य त्रिण्यक्षराणि तृतीयपादे चत्वारि चतुर्थपादे गणनीयानि। तथा सति द्वितीयतृतीयचतुर्थपादा अक्षरसंख्याभिर्गायत्र्यादिसमा इति च्छन्दस्त्रयसंपत्तिः। गायत्र्यदीनां त्रयाणां सवनत्रये प्राधान्यात्सर्वच्छन्दःसंपत्तिः।
सप्तसंख्यामुपजीव्य स्तौति —
“सप्ताक्षरं प्रथमं पदँ सप्तपदा शक्वरी पशवः शक्वरी पशुनेवावरुन्धे” (सं. का. ६ प्र. १ अ. २) इति।
विश्वे देवस्य नेतुरित्यत्र सप्ताक्षराणि। प्रोष्वस्मै पुरो रथमित्यस्यां च शक्वर्यामृचि सप्त पादाः। शक्वर्याः पशुप्रदत्वात्पशुरूपत्वम्।
अशेषजगद्व्यवहारसमत्वेन मन्त्रं स्तौति —
“एकस्मादक्षरादनाप्तं प्रथमं पदं तस्माद्यद्वाचोऽनाप्तं तन्मनुष्या उपजीवन्ति पूर्णया जुहोति पूर्ण इव हि प्रजापतिः प्रजापतेराप्त्यै न्यूनया जुहोति न्यूनाद्धि प्रजापतिः प्रजा असृजत प्रणानाँ सृष्ट्यै” (सं. का. ६ प्र. १ अ. २) इति।
यस्मादस्यामृचि प्रथमः पाद एकेनाक्षरेण न्यूनस्तस्मान्मनुष्या वाचः स्वरूपमनाप्तमसंपूर्णमुपजीवन्ति। मूलाधारादुत्पन्नो वायुर्मूर्धपर्यन्तं प्रसृतो वक्त्रे तत्तत्स्थानेषु वर्णानुत्पादयति। तदिदं वर्णाभिव्यक्तिलक्षणं वाचश्चतुर्थं पदम्। पूर्वाणि तु त्रीणि कण्ठादध एव रूढत्वान्नाभिव्यञ्जयितुं शक्यन्ते। तथा चाऽऽम्नायते — “गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति” इति। एतेनासंपूर्णवाग्व्यवहारसाम्यं दर्शितम्। किंचेयमृगुत्तरेवु पादेष्वक्षरपूर्णा तेन सृष्टिपूर्णप्रजापतिसाम्यात्तत्प्राप्तये भवति। प्रथमपादे यदक्षरन्यूनत्वं तेन सृष्टिशून्यजगद्वीजसाम्यात्प्रजोत्पत्तये भवति।
ऋगिति। कल्पः – “अथ यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति तस्य शुक्लकृष्णो संमृशति शुक्लेऽङ्गुष्ठो भवति कृष्णेऽङ्गुलिक्सामयोः शिल्पे स्थस्ते वामा रभे ते मा पातमाऽस्य यज्ञस्योदृच इति” इति।
हे शुक्लकृष्णो रेखे युवामृक्सामयोः संबन्धिनी चित्रे भवथः। एतच्च ब्राह्मणे स्पष्टी भविष्यति। तादृशौ ते युवां स्पृशामि। अस्य यज्ञस्य येयमृगुत्तमा तपोपलक्षिता या कर्मसमाप्तिस्तत्पर्यन्तं ते युवां पालयतम्।
इमं मन्त्रमवतारयन्नाख्यायिकया शिल्पत्वं विशदयति —
“ऋक्सामे वै देवेभ्यो यज्ञायाऽऽतिष्ठमाने कृष्णो रूपं कृत्वाऽपक्रम्यातिष्ठतां तेऽमन्यन्त यं वा इमे उपावर्त्स्यतः स इदं भविष्यतीति ते उपामन्त्रयन्त ते अहोरात्रयोर्महिमानमपनिधाय देवानुपावर्तेतामेष वा ऋषो वर्णो यच्छुक्लं कृष्णाजिनस्यैष साम्नो यत्कृष्णम्” (सं. का. ६ प्र. १ अ. ३) इति।
ऋक्सामे देवते केनापि निमित्तेन देवयज्ञार्थमात्मानमप्रकाशयमाने आत्मतिरोघानाय कृष्णमृगो भूत्वा तदीयं संपूर्णं रूपं कृत्वा देवेभ्योऽपक्रम्य क्वचिद्गूढे अतिष्ठताम्। देवा विचारितवन्तो यं पुरुषमिमे ऋक्सामे प्राप्स्यतः स इदं यज्ञफलं प्राप्स्यतीति। देवास्तु ऋक्सामे रहसि केनाप्युपायेनोपच्छन्दितवन्तः। ते उभे अहोरात्रमहिमानं शुक्लकृष्णवर्णद्वयं स्वकीये मृगशरीरे स्थापयित्वा देवसमीपमागच्छताम्। कृष्णाजिनस्य यच्छुक्लं स एष ऋचा स्वीकृतोऽह्नो वर्णः। यत्कृष्णं स एष साम्ना स्वीकृतो रात्रेर्वर्णः।
शिल्पत्वमुपपाद्य मन्त्रं व्याचष्टे —
“ऋक्सामयोः शिल्पे स्थ इत्याहर्क्सामे एवावरुन्धे” (सं. का. ६ प्र. १ अ. ३) इति।
न केवलमृक्सामप्राप्तिः। किंत्वहोरात्रसारप्राप्तिश्चेत्याह —
“एष वा अह्नो वर्णो यच्छुक्लं कृष्णाजिनस्यैष रात्रिया यत्कृष्णं यदेवैनयोस्तत्र न्यक्तं तदेवावरुन्धे” (सं. का. ६ प्र. १ अ. ३) इति।
एनयोरहोरात्रयोः संबन्धि यत्सारं तत्रर्क्सामयोर्न्यक्तं गूढं तदपि प्राप्नोति।
विधत्ते —
“कृष्णाजिनेन दीक्षयति ब्रह्मणो वा एतद्रूपं यत्कृष्णाजिनं ब्रह्मणैवैनं दीक्षयति” (सं. का. ६ प्र. १ अ. ३) इति।
ब्रह्म वेदस्तद्रूपत्वं कृष्णाजिनस्य। ऋक्सामशिल्पधारित्वात्तदुपपन्नम्। दीक्षयति कृष्णाजिनेन यजमानं योजयति। योजनं द्विविधम्। आस्तीर्णस्य कृष्णाजिनस्याऽऽरोहणमन्यस्य कृष्णाजिनस्य प्रावरणं च। तत्प्रकार आपस्तम्बेन दर्शितः — “कृष्णाजिनेन यजमानं दीक्षयति द्वाभ्याँ समस्य दीक्षेतान्तर्माँसाभ्यां बहिर्लोमाभ्यां यद्येकं स्याद्दक्षिणं पूर्वं पादं प्रतिषीव्येत्” इति।
इमामिति। कल्पः — “अथ दक्षिणं जान्वाच्याभिसर्पतीमां धियँ शिक्षमाणस्य देव क्रतुं दक्षं वरुण सँशिशाधि ययाऽति विश्वा दुरिता तरेम सुतर्माणमधि नावँ रुहेमेति” इति।
हे वरुण देवेमामग्निष्टोमविषयां धियमुपाददानस्य यजमानस्य संबन्धिनं दक्षं समृद्धमग्निष्टोमं क्रतुं संशिशाधि सम्यगुपदिश्य पारं नय। वयमपि पारं गन्तुं सर्वाणि विघ्नरूपदुरितानि यया नावाऽत्यन्तं तेरम तां सुखेन तरणे समर्थामिमां कृष्णाजिनरूपां नावमधिरुहेम।
मन्त्रस्य स्पष्टार्थतामाह —
“इमां धियँ शिक्षमामस्य देवेत्याह यथायजुरेवैतत्” (सं. का. ६ प्र. १ अ. ३) इति।
ऊर्गिति। बौधायनः — “प्रदक्षिणं मेखलां पर्यस्यति ऊर्गस्याङ्गिरस्यूर्णम्रदा ऊर्जं मे यच्छ पाहि मा मा मा हिँसीरिति। अथ यजमानं वाससा प्रोर्णोति विष्णोः शर्मासि शर्म यजमानस्य शर्म मे यच्छेति वसनस्यातिकाशेषु यजमानं वाचयति नक्षत्राणां माऽतीकाशात्पाहीति” इति।
हे मेखले त्वमङ्गिरसां संबन्धिन्यन्नरसरूपा कम्बलवन्मृदुरस्यतोऽन्नरसं मे प्रयच्छ, मां पालय, हिंसां बन्धनेन वेदनारूपां मा कुरु। हे वस्त्र त्वं विष्णोः सुखप्रदमसि, यजमानस्य सुखं प्रयच्छ, ममापि सुखं प्रयच्छ। हे वस्त्र मां नक्षत्रप्रकाशात्पाहि। शाखान्तरानुसारेण हे उष्णीषेति व्याख्येयम्।
तदिदं बौधायनेन मन्त्रक्रममनुसृत्योक्तम्। आपस्तम्बस्तु ब्राह्मणक्रममनुसृत्यवस्त्रमेखलायोः पौर्वापर्यमाह — “विष्णोः शर्मासीत्येन वाससा दक्षिणमँसं यज-
मानः प्रोर्णुते, नक्षत्राणां माऽतीकाशात्पाहीति शिरः, उष्णीषेण शिरो वेष्टयत इति वाजसनेयम्। शरमयी मौञ्जी वा मेखला त्रिवृत्पथ्व्यन्तःपाशा तया यजमानं दीक्षयति योक्त्रेण पत्नीमूर्गसीति” इति।
रज्जुसदृशी मेखला। जटासदृशं योक्त्रम्।
वस्त्रप्रावरणं विधत्ते —
“गर्भो वा एष यद्दीक्षित उल्बं वासः प्रोर्णुते तस्माद्गर्भाः प्रावृता जायन्ते” (सं. का. ६ प्र. १ अ. ३) इति।
दीक्षितस्य गर्भरूपत्वं बह्वृचब्राह्मणे प्रपञ्चितम् – “पुनर्वा एतमृत्विजो गर्भं कुर्वन्ति यं दक्षियन्ति” इति। पटसदृशं गर्भवेष्टनमुल्बम्।
विपक्षे बाधकपुरःसरमाच्छादनस्यापनयनकालं विधत्ते —
“न पुरा सोमस्य क्रयादपोर्ण्वीत यत्पुरा सोमस्य क्रयादपोर्ण्वीत गर्भाः प्रजानां परापातुकाः स्युः क्रीते सोमेऽपोर्णुते जायत एव तदथो यथा वसीयाँसं प्रत्यपोर्णुते तादृगेव तत” (सं. का. ६ प्र. १ अ. ३) इति।
सोमे क्रीते तत्तदैव जायते ततो वस्त्रापनयनं युक्तम्। किंचात्यन्तधनवन्तं राजादिकं प्रति जनानां दिदृक्षायं पार्श्वस्थैर्याष्टिकादिभिः सभाया आवरणपटो यथाऽपनीयते तादृगेव तदिति द्रष्टव्यम्।
ऊर्गस्याङ्गिरसीत्यस्यार्थमाख्यायिकया दर्शयन्मेखलां विधत्ते –
“अङ्गिरसः सुवर्गं लोकं यन्त ऊर्जं व्यभजन्त ततो यदत्यशिष्यत ते शरा अभवन्नूर्ग्वै शरा यच्छरमयी मेखला भवत्यूर्जमेवावरुन्धे” इति। (सं. का. ६ प्र. १ अ. ३) इति।
अङ्गिरोनामकानामृषीणां परस्परमन्नरसे विभज्यमाने यदवशिष्टं तच्छरनामकतृणविशेषरूपेणाऽविर्भूतं तस्मादूर्गसीत्यादिमन्त्र उपपन्नः।
मेखलाबन्धनप्रदेशं विधते —
“मध्यतः संनह्यति मध्यत एवास्मा ऊर्जं दधाति तस्मान्मध्यत ऊर्जां भुञ्जते” (सं. का. ६ प्र. १ अ. ३) इति।
अस्य यजमानस्य शरीरमध्ये रसं स्थापयति। तस्मात्सर्वेऽपि मध्य ऊर्जा भुञ्जते रसं धारयन्तीत्यर्यः।
प्रकारान्तरेण मध्यदेशं स्तौति –
“ऊर्ध्वं वै पुरषस्य नाभ्यै मेध्यमवाचीनममेध्यं यन्मध्यतः संनह्यति मेध्यं चैवास्यामेध्यं च व्यावर्तयति” (सं. का. ६ प्र. १ अ. ३) इति।
शरमयत्वं प्रशंसति —
‘इन्द्रो वृत्राय वज्र प्राहरत्स त्रेधा व्यभवत्स्फ्यस्तृतीयँ रथस्तृतीयं यूपस्तृतीयं येऽन्तःशरा अशीर्यन्त ते शरा अभवन्तच्छराणाँ शरत्वं वज्रो वै शराः क्षुत्खलु वै मनुष्यस्य भ्रातृव्यो यच्छरमयी मेखला भवति, वज्रेणैव साक्षात्क्षुधं भ्रातृव्यं मध्यतोऽपहते’ (सं. का. ६ प्र. १ अ. ३) इति।
ये वज्रस्यान्तः शीर्णाः क्षुद्रावयवास्ते शराख्यास्तृणरूपाः शरा अभवन्। गुणं विधत्ते —
‘त्रिवृद्भवति त्रिवृद्वै प्राणस्त्रिवृतमेव प्राणं मध्यतो यजमाने दधाति’ (सं. का. ६ प्र. १ अ. ३) इति।
प्राणापानव्यानवृत्तिभिः प्राणस्य त्रिगुणत्वम्।
गुणान्तरं विधत्ते —
‘पृथ्वी भवति रज्जूनां व्यावृत्त्यै’ (सं. का. ६ प्र. १ अ. ३) इति।
रज्जूनां सूक्ष्माणां खट्वादिस्थितानाम्।
मेखलायोक्त्रयोर्व्यवस्थां विधत्ते –
“मेखलया यजमानं दीक्षयति योक्त्रेण पत्नीं मिथुनत्वाय” (सं. का. ६ प्र. १ अ. ३) इति।
मेखला यजमानस्य स्त्री योक्त्ररूपः पत्न्याः पुमानिति प्रत्येकं मिथुनत्वम्।
इन्द्रस्येति। बौधायनः — ‘अथास्यैषा कृष्णविषाणा त्रिवलिर्वा पञ्चवलिर्वा शाण्या रज्ज्वा परितृण्णां तां यजमानाय प्रयच्छति-इन्द्रस्य योनिरसि मा मा हिँसीरिति यजमानः प्रतिगृह्णाति’ इति।
आपस्तम्बो मन्त्रैक्यं मेने।
कृष्णविषाणाय इन्द्रयोनित्वमाख्यायिकया विशदयन्विधत्ते –
‘यज्ञो दक्षिणामभ्यध्यायत्ताँ समभवत्तदिन्द्रोऽचायत्सोऽमन्यत यो वा इतो जनिष्यते स इदं भविष्यतीति तां प्राविशत्तस्या इन्द्र एवाजायत सोऽमन्यत यो वै मदितोऽपरो जनिष्यते स इदं भविष्यतीति तस्या अनुमृश्य योनिमाच्छिनत्सा सूतवशाऽभवत्तत्सूतवशायै जन्म ताँ हस्ते न्यवेष्टयत तां मृगेषु न्यदधात्सा कृष्णविषाणाऽभवदिन्द्रस्य योनिरसि मा मा हिँसीरिति कृष्णविषाणां प्रयच्छति सयोनिमेव यज्ञं करोति सयोनिं दक्षिणाँ सयोनिमिन्द्रँ सयोनित्वाय’ (सं. का. ६ प्र. १ अ. ३) इति।
यज्ञदेवस्य दक्षिणादेव्या सह योगमिन्द्रोऽवगम्य ततो जातः सर्वमिदमैश्वर्यं प्राप्स्यतीति निश्चित्य स्वयमेव दक्षिणां प्रविश्य ततोऽजायत। पुनरपि स्वस्मादपरस्तया जनिष्यमाणः सर्वं प्राप्स्यतीति मत्वा मातुर्योनिमाच्छिनत्। सा च माता सकृत्प्रसूता पश्चाद्वियोनित्वेन वन्ध्याऽभवत्। ततो लोके पश्चान्नष्टबीजा सूतवशा संपन्ना। ततस्तां योनिं हस्ते वेष्टयित्वा पश्चाद्बलिभिर्युक्तां तां योनिं कृष्णमृगेषु निदधौ। तत इयं कृष्णविषाणा यज्ञस्य भोग्या योनिर्दक्षिणाया अवयवभूता योनिरिन्द्रस्य कारणभूता योनिः।
कृष्या इति। कल्पः – “कृष्यै त्वां सुसस्याया इति तया वेदेर्लोष्टमुद्धन्ति” इति।
हे लोष्ट शोभनसस्योपेत कृष्यर्थं त्वामुद्धन्मि।
मन्त्रसामर्थ्यं दर्शयति —
‘कृष्यै त्वा सुसस्याया इत्याह तस्मादकृष्टपच्या ओषधयः पच्यन्ते’ (सं. का. ६ प्र. १ अ. ३) इति।
नीवारादयोऽकृष्टपच्याः।
सुपिप्पलाभ्य इति। कल्पः – ‘सुपिप्पलाभ्यस्त्वौषधीभ्य इत्यर्थे प्राप्ते शिरसि कण्डूयते’ इति।
यदा कण्डूयनप्रयोजनं प्रसक्तं तदा कण्डूयेत। हे शिरस्त्वां शोभनफलोपेतौषध्यर्थं कण्डूये।
पिप्पलशब्दसूचितमाह —
‘सुपिप्पलाभ्यस्त्वौषधीभ्य इत्याह तस्मादोषधयः फलं गृह्णन्ति’ (सं. का. ६ प्र. १ अ. ३) इति।
विपक्षबाधपुरःसरं द्वयं विधत्ते —
‘यद्धस्तेन कण्डूयेत पामनंभावुकाः प्रजाः स्युर्यत्स्मयेत नग्नंभावुकाः कृष्णविषाणया कण्डूयतेऽपिगृह्य स्मयते प्रजानां गोपीथाय” (सं. का. ६ प्र. १ अ. ३) इति।
पामाख्यरोगयुक्ता दारिद्र्येण वस्त्ररहिताश्चेत्यर्थः।
विपक्षबाधपूर्वकं कृष्णविषाणायास्त्यागं विधत्ते –
‘न पुरा दक्षिणाभ्यो नेतोः
कृष्णविषाणामवचृनतेद्यत्पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणामवचृतेद्योनिः प्रजानां परापातुका स्यन्नीतासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति योनिर्वै यज्ञस्य चात्वालं योनिः कृष्णविषाणा योनावेव योनिं दधाति यज्ञस्य सयोनित्वाय’ (सं. का. ६ प्र. १ अ. ३) इति।
दक्षिणाभ्यो नेतोर्दक्षिणानामृत्विग्भिरपनयनात्। अवचृतेत्परित्यजेत्। चात्वालाद्धिष्णियानुपवपतीति चात्वालनामकाद्गर्ताद्धिष्णियानामुत्पत्तेर्विधास्यमानत्वाच्चात्वालस्य यज्ञयोनित्वम्।
सूपस्था इति। बौधायनः — ‘अथास्मा ऊर्ध्वाग्रमौदुम्बरं दण्ड प्रयच्छति मुखेन संमितँ सूपस्था देवो वनस्पतिरूर्ध्वो मा पाह्योदृच इति यजमानः प्रतिगृह्णाति’ इति।
आपस्तम्बो मन्त्रैक्यमाह — ‘सूपस्था देवो वनस्पतिरिति तं यजमानः प्रतिगृह्य’ इति।
दण्डरूपो वनस्पतिकार्यो देवः सूपस्थाः सुष्ठूपस्थीयतेऽवष्टभ्यते मैत्रावरुणेन प्रैषकाल इति सूपस्थाः। हे तादृग्दण्ड त्वमूर्ध्वस्थित आ समाप्तेर्मां पालय।
यजमानाय दण्डप्रदानं विधत्ते —
‘वाग्वै देवेभ्योऽपाक्रामद्यज्ञायातिष्ठमाना सा वनस्पतीन्प्राविशत्सैषा वाग्वनस्पतिषु वदति या दुंदुभौ या तूष्णवे या वीणायां यद्दीक्षितदण्डं प्रयच्छति वाचमेवावरुन्धे’ (सं. का. ६ प्र. १ अ. ४) इति।
तूणवो वेणुः।
क्रमेण गुणौ विधत्ते —
‘औदुम्बरो भवत्यूर्ग्वा उदुम्बर ऊर्जमेवावरुन्धे मुखेन संमितो भवति मुखत एवास्मा ऊर्जं दधाति तस्मान्मुखत ऊर्जा भुञ्जते’ (सं. का. ६ प्र. १ अ. ४) इति।
यजमानस्य दण्डत्यागं विधत्ते —
‘क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति मैत्रावरुणो हि पुरस्तादृत्विग्भ्यो वाचं विभजति तामृत्विजो यजमाने प्रतिष्ठापयन्ति’ (सं. का. ६ प्र. १ अ. ४) इति।
मैत्रावरुणस्तत्र तत्र प्रैषैस्तेभ्य ऋत्विग्भ्यो मन्त्रान्विभजति। ते च ऋत्विजो यजमानार्थं तान्मन्त्रन्पठन्ति। अतो मैत्रावरुणस्य वाग्रूपो दण्डो युक्तः।
स्वाहेति। बौधायनः – ‘अथैनं यज्ञस्यान्वारम्भं वाचयति स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्याँ स्वाहोरोरन्तरिक्षात्स्वाहा यज्ञं वातादा रभ इति’ इति।
आपस्तम्बः — ‘अथाङ्गुलीर्न्यञ्चति स्वाहा यज्ञं मनसेति द्वे स्वाहा दिव इति द्वे स्वाहा पृथिव्या इति द्वे स्वाहोरोरन्तरिक्षादिति द्वे स्वाहा यज्ञं वातादा रभ इति मुष्टी करोति वाचं यच्छति’ इति।
स्वाहाशब्देनाव्ययेन यथाब्रह्मणमर्था उपलक्षणीयाः। मनसा यज्ञमभिगच्छामि। द्यावापृथिव्योरन्तरिक्षे च यज्ञ आश्रितः। साक्षादेव यज्ञं वायोः प्रसादादारभे। सोऽयमुपलक्षणप्रकारः।
तदेतद्दर्शयति — ‘स्वाहा यज्ञं मनसेत्याह मनसा हि पुरुषो यज्ञमभिगच्छति। स्वाहा द्यावापृथिवीभ्यामित्याह द्यावापृथिव्यार्हि यज्ञः स्वाहोरोरन्तरिक्षादित्याहान्तरिक्षे हि यज्ञः स्वाहा यज्ञं वातादा रभ इत्याहायं वाव यः पवते स यज्ञस्तमेव साक्षादारभते’ (सं. का. ६ प्र. १ अ. ४) इति।
वातस्य क्रियाहेतुत्वाद्यज्ञरूपत्वम्।
अत्र द्वयोर्हस्तयोः कनिष्ठिकामारभ्य चतसृणामङ्गुलीनां चतुभिर्मन्त्रैर्न्यग्भावः। पञ्चमेन मन्त्रेणाङ्गुष्ठाभ्यां दृढमुष्टिबन्धौ वाङ्नियमश्च।
तदेतद्विधत्ते —
‘मुष्टी करोति वाचं यच्छति यज्ञस्य धृत्यै’ (सं. का. ६ प्र. १ अ. ४) इति।
अप्रमत्तत्वं यज्ञधृतिः।
अध्वर्योः कंचिन्मन्त्रमुत्पाद्य विनियुङ्क्ते —
‘अदीक्षिष्टायं ब्राह्मण इति त्रिरुपाँश्चाह देवेभ्य एवैनं प्राह त्रिरुच्चैरुभयेभ्य एवैनं देवमनुष्येभ्यः प्राह’ (सं. का. ६ प्र. १ अ. ४) इति।
स्वीकृतवाङ्नियमस्य नक्षत्रोदयात्पुरा विमोकं निषेधति —
‘न पुरा नक्षत्रेभ्यो वाचं विसृजेद्यत्पुरा नक्षत्रेभ्यो वाचं विसृजेद्यज्ञं विच्छिन्द्यात्’ (सं. का. ६ प्र. १ अ. ४) इति।
कालविशेषे वाग्विमोकं विधत्ते, विमोककाले च वक्तव्यं कंचित्प्रैषमन्त्रमुत्पादयति —
उदितेषु नक्षत्रेषु व्रतं कृणुतेति वाचं विसृजति यज्ञव्रतो वै दीक्षितो यज्ञमेवाभि वाचं विसृजति’ (सं. का. ६ प्र. १ अ. ४) इति।
यज्ञार्थं स्वीकृतं वाङ्नियमादिरूपं व्रतं यस्यासौ यज्ञव्रतः। तथा सत्यस्य क्षीरसंपादनप्रैषस्यापि यज्ञार्थत्वान्नायं वाग्विमोको दोषकारी।
नक्षत्रोदयात्पुरा लौकिकवागुच्चारणे प्रायश्चित्तमाह —
‘यदि विसृजेद्वैष्णविमृचमनुब्रूयाद्यज्ञो वै विष्णुर्यज्ञेनैव यज्ञँ संतनोति’ (सं. का. ६ प्र. १ अ. ४) इति।
वैष्णवी विष्णो त्वं नो अन्तम इति केचित्। इदं विष्णुरित्यन्ये।
अथ विनियोगसंग्रहः –
‘आकूत्यै जुहुयात्षड्भिक्सामेत्यजिनं स्पृशेत्।
इमामजिनमारोहेद्बध्नात्यर्गिति मेखलाम्॥१॥
विष्णोर्वस्त्रेणोर्णुते तं नक्षेत्यावेष्टयेच्छिरः।
इन्द्र दद्यात्कृष्णशृङ्गं कृष्यै लोष्टोद्धतिस्तथा॥२॥
सुपि कण्डूयनं मूर्ध्नि सूप दण्डपरिग्रहः।
स्वाहाऽङ्गुलीर्द्वयोर्न्यञ्चेत्पञ्चभेदेन विंशतिः॥३॥ इति।
अथ मीमांसा।
पञ्चमाध्यायस्य तृतीयपादे वित्नितम् —
‘इष्टिदण्डादिभिर्दीक्षा किं वेष्ट्यैवोक्तितः क्रमात्।
युक्तः संस्कार इष्ट्यैव दण्डादेर्व्यञ्जकत्वतः’ इति।
ज्योतिष्टोमे दीक्षाप्रकरणे श्रूयते — ‘आग्नावैष्णवमेकादशकपालं निर्वपेद्दीक्षिष्यमाणः” इति। अन्यदपि श्रुतम् — ‘दण्डेन दीक्षयति मेखलया दीक्षयति कृष्णाजिनेन दीक्षयति’ इति। तत्रेष्टिवद्दण्डादीनामपि साधनत्वाभिधानात्सर्वैरियं दीक्षेति चेन्मैवम्। इष्टेः क्रियारूपत्वात्संस्कारहेतुत्वं युक्तम्। दण्डादयस्तु द्रव्यरूपा न पुरुषं संस्कर्तुं प्रभवन्ति। न चैतावता दण्डादिवैयर्थ्यं, दीक्षितोऽयमित्यभिव्यक्तिरूपस्य दृष्टस्य प्रयोजनस्य सद्भावात्। तस्मादिष्ट्यैव दीक्षा सिध्यति।
तृतीयाध्यायस्य सप्तमपादे चिन्तितम् —
“दण्डादीक्षा दक्षिणा तु शतं द्वादशभिर्युतम्।
द्वयार्थमुत मुख्यार्थं सोमस्येत्युक्तिसंभवात्॥
मुख्याङ्गद्वयगं मैवं पारम्पर्यविडम्बना।
वचनस्य न युक्ताऽतः प्रधानार्थमिदं स्थितम्’ इति॥
ज्योतिष्टोमे दीक्षादक्षिणे श्रूयेते — ‘दण्डेन दीक्षयति’ इति। ‘तस्य द्वादशशतं दक्षिणा’ इति च। तत्र दीक्षा मुख्याङ्गयोरुपकरोति। तथा दक्षिणाऽपि। न च वाच्यं दीक्षा सोमस्य दक्षिणा सोमस्येति वाक्ये षष्ठ्या मुख्यसंबन्ध एवावगम्वते न त्वङ्गसंबन्ध इति। दीक्षादक्षिणे साक्षात्सोमेनैव संबध्नीतां स सोमः पुनरङ्गौः संबध्यत इति परम्परया दीक्षादक्षिणयोरङ्गैरपि संबन्धोऽस्ति। तस्मादुभयार्थं दीक्षादिकमिति प्राप्ते ब्रूमः — अव्यवहितसंबन्ध एव षष्ठ्या अभिधेयोऽर्थः। तदसंभवे तु परम्परया संबन्धः कथंचिद्गृह्येत। इह तु तत्संभवात्पारंपर्यं न युक्तम्। तस्मात्प्रधानार्थं दीक्षादिकम्।
चतुर्थाध्यायस्य द्वितीयपादे चिन्तितम् —
“मैत्रावरुणके दण्डदानस्य प्रतिपत्तिता।
उतार्थकर्मताऽऽद्योऽस्तु धारणे कृतकृत्यतः॥
युक्तोपयुक्तसंस्कारादुपयोक्तव्यसंस्क्रिया।
स्थित्वा प्रैषानुवचने दण्डोऽपेक्ष्योऽर्थकर्म तत्” इति।
ज्योतिष्टोमे श्रुयते — ‘क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति’ इति। तदेतद्दण्डदानं प्रतिपत्तिकर्म। कुतः। दण्डस्य यजमानधारणेन कृतकृत्यत्वात्। यजमानो ह्यध्वर्युणा दीक्षासिद्ध्यर्थं दत्तं दण्डमासोमक्रयाद्धारयति। अत एवाऽऽम्नातम् —’ दण्डेन दीक्षयति। इति। ‘यद्दीक्षितदण्डं प्रयच्छति’ इति च। तस्मादुपयुक्तस्य दण्डस्य दानं प्रतिपत्तिरिति चेन्मैवम्। दण्डे भविष्यदुपयोगस्यापि सद्भावात्। यदा मैत्रावरुणः स्थित्वा प्रैषाननुवक्ष्यति तदानीमवलम्बनाय दण्डोऽपेक्षितः। अत एवाऽऽम्नातम् — ‘दण्डी प्रैषानन्वाह’ इति। तथा प्रतिपत्तिरूपादुपयुक्तसंस्कारादर्थकर्मरूप उपयोक्ष्यमाणः संस्कारः प्रशस्तः। उपयोजयितुमेव हि सर्वत्र संस्कारस्य प्रवृत्तिः। उपयुक्ते तु प्रतिपत्तिरूपस्य संस्कारस्याऽऽदरमात्रपर्यवसायित्वेन तत्कार्यपर्यवसानाभावादप्रशस्तत्वम्। तस्मान्मैत्रावरुणसंस्काराय दण्डदानमर्थकर्म। तथा सति निरूढपशावसत्यपि दीक्षिते दण्डसंपादनस्यैतद्दानं प्रयोजकम्।
तृतीयाध्यायस्य द्वितीयपादे चिन्तितम् —
“उत्तिष्ठन्प्रवदेदग्नीदग्नीनित्यादिकं तथा।
कृणुत व्रतमित्येवं पठन्वाचो विमुञ्चते॥
मन्त्रौ विधेयौ कालो वा मन्त्रावुत्थानमोकयोः।
विनियोज्यौ न कालस्य लक्षणा युज्यते विधौ॥
मन्त्रार्थानन्वयात्तत्र तद्विधिर्नैव शक्यते।
अगत्या लक्षणाऽप्यस्तु तेन कालो विधीयते” इति॥
ज्योतिष्टोमे समामनन्ति — “ उत्तिष्ठन्नाहाग्नीदग्नीन्विहर” इति। तथा “व्रतं कृणुतेति वाचं विसृजति” इति। तत्राऽऽग्नीध्रं संबोध्याग्निविहरणादिप्रैषरूपो मन्त्रोऽनेन वाक्योनोत्थानशेषतया विनियुज्यते। तथा मुष्टिं कृत्वा नियमितवाचो दीक्षितस्य वाग्विमोके व्रतं कृणुतेति मन्त्रो विनियुज्यते। न चात्रोत्थानविमोकशब्दौ काललक्षकौ, तत्कालयोर्विधेयत्वे सति लक्षणाया अन्याय्यत्वादिति प्राप्ते ब्रूमः — अग्निविहरणप्रैषे पयःपानरूपव्रतसंपादनप्रैषे चान्वितावेतौ मन्त्रौ न तूत्थाने वाग्विमोके च। अतोऽसमर्थयोर्विनियोगासंभवादगत्या लक्षणामप्यङ्गीकृत्य कालो विधीयते।
अथ च्छन्दः।
आपो देवीरिति त्रिपदा विराट्। विश्वे देवस्येत्यनुष्टुप्। इमां धियमिति त्रिष्टुप्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णायजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके
द्वितीयोऽनुवाकः॥२॥
[अथ प्रथमकाण्डे द्वितीयप्रपाठके तृतीयोऽनुवाकः]
द्वितीयेऽनुवाके दीक्षा वर्णिता। दीक्षितेन देवयजने स्वीकृते सति सोमक्रयणादिरूपः क्रतुव्यवहारस्तत्र कर्तुं शक्यत इति तृतीयेऽनुवाके देवयजनस्वीकारो वर्ण्यते। तत्स्वीकारादूर्ध्वं सोमार्थे देवयजने सोमक्रयस्यैव वक्तुमुचितत्वात्तत्स्वीकारात्पूर्वमनुवाकादौ व्रतपानद्रव्यसंपादनमभिधीयते।
दैवीमिति। बौधायनः – “अथाप आचामति दैवीं धियं मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहसँ सुपारा नो असद्वश इति” इति।
आपस्तम्बः – “दैवीं धियं मनामह इति हस्ताववनिज्य” इति।
अभीष्टार्थसिद्धये वयं देवताविषयां कर्मानुष्ठानबुद्धिमनया बुद्ध्या संपादयामः। कीदृशीं बुद्धिम्। समृडीकां सुखहेतुं ब्रह्मचर्यसाधारणहेतुं यज्ञनिर्वाहिकाम्। सेयं बुद्धिः सुष्ठु पारं गताऽस्माकं वशे भवतु।
सुमृडीकामिति पदस्याभिप्रायमाह —
“दैवीं धियं मनामह इत्याह यज्ञमेव तन्म्रदयति” (सं. का. ६ प्र. १ अ. ४) इति।
मृदू करोतीत्यर्थः।
सुपारेति पदेन यत्सूचितं तदाह —
“सुपारा नो असद्वश इत्याह व्युष्टिमेवावरुन्धे” (सं. का. ६ प्र. १ अ. ४) इति।
व्युष्टिः सुप्रभातं कृत्स्नयज्ञप्रकाशनमित्यर्थः।
य इति। कल्पः — “अथास्मै कँसे वा चमसे वा निषिच्य व्रतं प्रयच्छति तद्दक्षिणतः परिश्रित्य व्रतयति ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितारस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहेति” इति।
चक्षुरादिप्राणाभिमानिनो ये देवाः सन्ति तेऽस्मान्पयःपानरूपव्रतानुष्ठायिनोऽन्तर्बहिश्च शुद्धिसंपादनेन पालयन्तु। कीदृशा देवाः। उत्पत्तिकाले मनसा सहोत्पन्नाः। व्यवहारकालेऽपि मनसा युज्यन्ते। अन्यमनस्कस्य चक्षुरादिभिः संनिहितविषयाणामप्यनवगमात्। सति तु मनःसाहाय्ये स्वस्वविषयेषु सुदक्षाः कुशलाः। दक्षः प्रजापतिरुत्पादको येषां ते दक्षपितारः।
विचारपुरःसरं व्रतं विधत्ते —
“ब्रह्मवादिनो वदन्ति होतव्यं दीक्षितस्य गृहा३इ न होतव्या३मिति हविर्वै दीक्षितो यज्जुहुयाद्यजमानस्यावदाय जुहुयाद्यन्न जुहुयाद्यज्ञपरुरनन्तरियाद्ये देवा मनोजाता मनोयुज इत्याह प्राणा वै देवा मनोजाता मनोयुजस्तेष्वेव परोक्षं जुहोति तन्नेव हुतं नेवाहुतम्” (सं. का. ६ प्र. १ अ. ४) इति।
दीक्षितस्य हविष्ट्वमर्थवादान्तरे श्रूयते —
“पुरा खलु वावैष मेधायाऽऽत्मानमारभ्य चरति यो दीक्षितो यदग्नीषोमीयं पशुमालभत आत्मनिष्क्रयण एवास्य स तस्मात्तस्य नाऽऽश्यं पुरुषनिष्क्रयण इव ह्यथो खल्वाहुरग्नीषोमाभ्यां वा इन्द्रो वृत्रमहन्निति यदग्नीषोमीयं पशुमालभते वार्त्रघ्न एवास्य स तस्माद्वाश्यं वारुण्यर्चा परिचरति स्वयैवैनं देवतया परिचरति” (सं. का. ६ प्र. १ अ. ११) इति।
शाखान्तरेऽपि — “सर्वाभ्यो वा एष देवताभ्य आत्मानमालभते यो दीक्षितः” इति। तथा सति दीक्षितस्य गृहे यद्यग्निहोत्रं जुहुयात्तर्हि यजमान एव हुतो भवेत्। अहोमे तु नित्याग्निहोत्रस्य परुः प्रतिदिनानुष्ठानरूपं पर्व विच्छिद्येत। तत्र पूर्वप्रसिद्धेन मन्त्रेणाऽऽहवनीयाग्नौ होमः स प्रत्यक्ष इत्युच्यते। अयं तु परोक्षोऽग्निहोत्रहोमः। अन्यमन्त्रेण प्राणाग्निषु हूयमानत्वात्। अतस्तृतीयकोटित्वेन मुख्ययोर्होमाहोमयोरभावान्नोक्तदोषद्वयम्। तस्मादनेन मन्त्रेण व्रतं कुर्यादित्यभिप्रायः।
अग्न इति। बौधायनः — “अथ संवेशनयुजुर्जपति अग्ने त्वँसु जागृहि वयँसु मन्दिषीमहि गोपाय नः स्वस्तये प्रबुधे नः पुनर्दद इति” इति।
आपस्तम्बः — “अग्ने त्वँ सु जागृहीति स्वप्स्यन्नाहवनीयमभिन्त्रयते” इति।
सुमन्दिषीमहि निर्भयाः सन्तः स्वप्स्यामः। नोऽस्माकं स्वस्तये विनाशाभावार्थं प्रबुधे जागरणाय ददः सामर्थ्यं देहि।
भयप्रसक्तिं दर्शयन्मन्त्रं व्याचष्टे —
“स्वपन्तं वै दीक्षितँ रक्षाँसि जिघाँसन्त्यग्निः खलु वै रक्षोहाऽग्ने त्वँसु जागृहि वयँसु मन्दिषीमहीत्याहाग्निमेवाधिपां कृत्वा स्वपिति रक्षसामपहत्यै” (सं. का. ६ प्र. १ अ. ४) इति।
त्वमिति। कल्पः – “अथाध्वर्युर्मध्यरात्र आद्रुत्य प्रबुद्धयजुर्वाचयति त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा त्वं यज्ञेष्वीड्य इति” इति।
याज्यासु व्याख्यातम्।
व्रतभ्रंशप्रसक्तिं दर्शयन्प्रथमं पादं व्याचष्टे —
‘अव्रत्यमिव वा एष करोति यो दीक्षितः स्वपिति त्वमग्ने व्रतपा असीत्याहाग्निर्वै देवानां व्रतपतिः स एवैनं व्रतमालम्भयति’ (सं. का. ६ प्र. १ अ. ४) इति।
अविकलं करोतीत्यर्थः।
मनुष्येषु च्छिन्नं व्रतं मनुष्यावतारेण पालयतीति शङ्का वारयन्द्वितीयपादं व्याचष्टे —
‘देव आ मर्त्येष्वेत्याह देवो ह्येष सन्मर्त्येषु’ (सं. का. ६ प्र. १ अ. ४) इति।
अतो व्रतं समाधातुं शक्नोति।
अग्निर्मूर्धा दिवः ककुदित्यादियाज्यापुरोनुवाक्यादिमन्त्रेष्वाग्नेः स्तूयत इत्यभिप्रायं तृतीयपादे स्वयं दर्शयति —
‘त्वं यज्ञेष्वीड्य इत्याहैतँ हि यज्ञेष्वीडते’ (सं. का. ६ प्र. १ अ. ४) इति।
विश्व इति। बौधायनः – ‘अथ सनिहारान्प्राहिणोति स यं मन्यते न मां प्रत्याख्यास्यतीति तं प्रथममभिप्रहिणोति विश्वे देवा अभि मामाऽववृत्रन्पूषा सन्या सोमो राधसा देवः सविता वसोर्वसुदावेति, आहरन्तं दृष्ट्या जपति नानाहरन्तं रास्वेयत्सोमाऽऽभूयो भर मा पृणन्पूर्त्या वि राधि माऽहमायुषेति’ इति।
सनिशब्देन हिरण्यवस्त्रादि देयद्रव्यमुच्यते। सनिहारा द्रव्याणामानेतारः। आपस्तम्बस्तु प्रकारान्तरेण मन्त्रविनियोगविच्छेदावाह —
‘विश्वे देवा अभि मामाऽववृत्रन्निति प्रबुध्य जपति, पूषा सन्येति सनिहारान्त्सँ शास्ति, चन्द्रमसीत्येतैः प्रतिमन्त्रं यथालिङ्गं प्रतिगृह्णाति, देवः सविता वसोर्वसुदावेत्यन्यानि’ इति।
सर्वे देवा अभितः पालयितुं मामावृत्य तिष्ठन्तु। पूषा सन्या पोषको देवो देयेन हिरण्यद्रव्येण सहाऽऽयातु। सोमो राधसा साधकेन वस्त्रेण सहाऽऽयातु। वसोर्वस्वन्तरस्य गवादेः प्रेरको देवो वसुप्रदः सन्नायातु। हे सोमास्मिन्कर्मण्यपेक्षितमियद्देहि, संपूर्त्या मां पूरयन्भूय आभर, अहमायुषा मा विराधि वियुक्तो मा भूवम्।
प्रबुद्धो जपेदित्येतद्व्याचष्टे —
“अप वै दीक्षितात्सुषुपुष इन्द्रियं देवताः क्रामन्ति विश्वे देवा अभि मामाऽववृत्रन्नित्याहेन्द्रियेणैवैनं देवताभिः संनयति” (सं. का. ६ प्र. १ अ. ४) इति।
सुषुपुषः सुप्तात्। अतीन्द्रियसामर्थ्येन तदभिमानिदेवताभिश्चायं मन्त्रः संयोजयति।
विपक्षबाधपुरःसरमाऽऽभूयो भरेत्यमुं मन्त्रभागं व्याचष्टे —
‘यदेतद्यजुर्न ब्रूयाद्यावत एव पशूनभिदीक्षेत तावन्तोऽस्य पशवः स्यू रास्वेयत्सोमाऽऽभूयो भरेत्याहापरिमितानेव पशूनवरुन्धे’ (सं. का. ६ प्र. १ अ. ४) इति।
‘दीक्षाकाले विद्यमानान्यावतः पशूनभिप्राप्य दीक्षेत मन्त्रानुक्तौ तावन्त एव स्युः। मन्त्रोक्तौ तु तत्सामर्थ्यादपरिमिताः परलोके भवन्ति। पशुभिर्द्रव्यान्तराण्युपलक्ष्यन्ते। चन्द्रमसि मम भोगाय भव वस्त्रमसि मम भोगाय भवोस्राऽसि मम भोगाय भव हयोऽसि मम भोगाय भव च्छागोऽसि मम भोगाय भव मेषोऽसि मम भोगाय भवेत्येभिर्मन्त्रैर्यथालिङ्गं वसु स्वीकर्तव्यम्। चन्द्रं हिरण्यम्। उस्रा गौः।
तेन तेन मन्त्रेण तत्तद्द्रव्याभिमानिदेवतास्तुष्यन्तीत्याह —
‘चन्द्रमसि मम भोगाय भवेत्याह यथादेवतमेवैनाः प्रतिगृह्णाति’ (सं. का. ६ प्र. १ अ. ४) इति।
एना हिरण्यादिरूपा दित्सिता दक्षिणाः।
वायव इति। कल्पः — ‘ताः समुदायुत्व रक्षति तासां या नश्यति म्रियते वा वायवे त्वेति तामनुदिशति, याऽप्सु वा पाशे वा वरुणाय त्वेति तां या सं वा शीर्यते गर्ते वा पतति नित्यै त्वेति तां यामहिर्व्याघ्रो वा हन्ति रुद्राय त्वेति ताम्’ इति।
अनुदिशामीति शेषः।
विपक्षस्वपक्षयोर्दूषणभूषणे दर्शयति —
“वायवे त्वा वरुणाय त्वेति यदेवमेता नानुदिशेदयथादेवतं दक्षिणा गमयेदा देवताभ्यो वृश्च्येत यदेवमेता अनुदिशति यथादेवतमेव दक्षिणा गमयति न देवेताभ्य आ वृश्च्यते” (सं. का. ६ प्र. १ अ. ४) इति।
देवीरिति। बौधायनः – “ अथ यद्यपरियाणा आप उपाधिगच्छन्ति तज्जपति देवीरापो अपां नपाद्य ऊर्मिर्हविष्य इन्द्रियावान्मदिन्तमस्तं वो माऽवक्रमिषमच्छिन्नं तन्तुं पृथिव्या अनुगेषमिति सं वा गाहते सं वा तरति “ इति।
अपरियाणा गमनविरोधिन्यो मार्गप्रतिरोधिकाः।
आपस्तम्बः – “प्रयाणे देवीराप इत्यपोऽवगाहतेऽच्छिन्नं तन्तुं पृथिव्या अनुगेषमिति हस्तेन लोष्टं विमृद्नात्यापारात्” इति।
यदा केनापि निमित्तेन देवयजनादन्यत्र दीक्षेत तदानीं पृथगरणीष्वग्नीन्समारोप्य देवयजनं गच्छन्मध्ये प्राप्तायां नद्यामवगाह्योत्तरेत्। अपां नपादित्यग्निसंबोधनम्। हे देव्य आपो युष्माकं य ऊर्मिस्तं पादेन माऽवक्रमिषम्। कीदृश उर्मिः। व्रीह्याद्युत्पादनेन हविर्योग्यः स्वकीयजलपानेनेन्द्रियशक्तिकारी तृषां निवर्तयन्नतिहर्षप्रदः। मृदि लोष्टरूपं पृथिव्या अच्छिन्नं तन्तुं सेतुं प्राप्य तस्योपरि गच्छामि।
हविष्यशब्दाभिप्रायमाह —
“देवीरापो अपां नपादित्याह यद्वो मेध्यं यज्ञियँ सदेवं तद्वो माऽव क्रमिषमिति वावैतदाह” (सं. का. ६ प्र. १ अ. ४) इति।
इति वाव, इत्येव।
तन्तुशब्दाभिप्रायमाह —
“अच्छिन्नं तन्तुं पृथिव्या अनुगेषमित्याह सेतुमेव कृत्वाऽत्येति” (सं. का. ६ प्र. १ अ. ४) इति।
भद्रादिति। बौधायनः — “बृहस्पतिवत्यर्चा प्रयाति भद्रादभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्वित्यथ यत्र वत्स्यन्भवति तदवस्यत्यथेमव स्य वर आ पृथिव्या इत्यथाऽऽदित्यमुद्यन्तमुपतिष्ठत आरे शास्रून्कृणुहि सर्ववीर इति” इति।
आपस्तम्बस्तु त्रीन्मन्त्रानेकीकृत्य विनियुङ्क्ते — “पृथगरणीष्वग्नीन्समारोप्य रथेन प्रयाति एतदभावे रथाङ्गमादाय भद्रादभि श्रेय इति” इति।
अत्रार्थक्रमेण देवीराप इत्यस्मात्पूर्वमेवायं मन्त्रोऽवगन्तव्यः। हे रथ भद्रात्प्रशस्तादस्मान्नित्याग्निहोत्रस्नानादतिप्रशस्तं सौमिकं देवयजनमभिप्रयाहि। बृहस्पतिस्तव पुरतो गन्ता भवतु। अथ प्रयाणादूर्ध्वं पृथिव्याः संबन्धिन्या समन्ताद्वरे श्रेष्ठे स्थान ईमिमां गतिमवस्य समापय। हे रथाभिमानिन्नादित्य शत्रून्राक्षसादीनारे देवयजनाद्दूरे कुरु।
कल्पः — “अथ यत्र यक्ष्यमाणो भवति तदवस्यत्येदमगन्म देवयजनं पृथिव्या इत्पन्तादनुवाकस्य” इति।
स च मन्त्र एवमाम्नायते —
एदमिति। पृथिव्याः संबन्धि यद्देवयजनं तदिदमागन्म वयं प्राप्ताः। यद्देवयजने(नं) पूर्वे सर्वे देवा अजुषन्तासेवन्त तद्वयमागत्य वेदत्रयगतैर्मन्त्रैः सोमयागं संतरन्तः सम्यक्पारं नयन्तो रायस्पोषेण धनसमृद्ध्या समिषा समीचीनेनान्नेन च मदेम हृष्यास्म।
भद्रादभीत्यादिमन्त्रार्थः स्पष्ट इत्यभिप्रेत्य ब्राह्मणेनात्र व्याख्यानमुपेक्षितम्। औपानुवाक्यकाण्डे तु दीक्षितनियमप्रसङ्गाद्व्याख्यानं कृतम्। तत्र बृहस्पतेरुपयोगमाह —
“अग्निर्वै दीक्षितस्य देवता सोऽस्मादेतर्हि तिर इव यर्हि याति तमीश्वरँ रक्षाँसि हन्तोर्भद्रादभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्वित्याह ब्रह्म वै देवानां वृहस्पतिस्तमेवान्वारभते स एनँ संपारयति” (सं. का. ३ प्र. १ अ. १) इति।
यदा दीक्षितोऽग्निहोत्रस्थानात्प्रयाति तदाऽग्निस्तिरोहित इव नैनं पालयति। ततो रक्षांस्येनं मार्गे हन्तुमीश्वराणि भवन्ति। तत्र बृहस्पतौ पुरतो गच्छति सत्यनुगच्छन्तमेनं रक्षोबाधपरिहारेण स बृहस्पतिः सम्यक्पारं नयति।
उत्तरमन्त्रस्य चतुर्षु प्रतिपाद्योऽर्थः प्रसिद्ध इत्याह —
“एदमगन्म देवयजनं पृथिव्या इत्याह देवयजनँ ह्येष पृथिव्या आगच्छति यो यजते विश्वे देवा यदजुषन्त पूर्व इत्याह विश्वे ह्येतद्देवा जोषयन्ते यद्ब्राह्मणा
ऋक्सामाभ्यां यजुषा संतरन्त इत्याहर्क्सामाभ्याँ ह्येव यजुषा संतरति यो यजते रायस्पोषेण समिषा मदेमेत्याहाऽऽशिषमेवैतामाशास्ते। (सं. का. ३ प्र. १ अ. १) इति।
अध्वर्युप्रभृतयो ब्राह्मणा यद्देवयजनमिदानीमधितिष्ठन्ति तद्देवाः स्वयं सेवमाना एतान्सेवन्ते। यो यजते स एष संतरतीत्यन्वयः।
अत्र विनियोगसंग्रहः —
“दैवीं हस्तौ शोधयित्वा ये दे व्रतपयः पिबेत्।
अग्ने स्वप्स्यन्नग्निमाह त्वं प्रबुद्धो जपेत्तथा॥१॥
विश्व इत्यपि पूषेति सनिहारानुशासनम्।
देवो वसुग्रहश्चन्द्रं षड्भिस्तत्र प्रतिग्रहः॥२॥
वाय नष्टामप्सु मृतां सन्नामृग्भ्यां च गां स्पृशेत्।
देवीरापो विगाह्याच्छि लोष्टमप्सु विमर्दयेत्॥३॥
भद्राद्रथेन यात्येदं यागभूमिव्यवस्थितिः।
अनुवाके तृतीयेऽस्मिन्नुदिता एकविंशतिः॥४॥ इति।
अथ मीमांसा।
एकादशाध्यायस्य चतुर्थपादे चिन्तितम् —
‘स्वप्नादिमन्त्रा आवर्त्या नो वाऽऽद्योऽस्त्वन्तरायतः।
कृत्स्नोद्देशप्रवृत्तत्वान्निमित्ताभेदतः सकृत्” इति॥
दीक्षितस्य स्वप्ननद्युत्तरणवृष्टिक्लेदनामेध्यदर्शननिमित्तकास्तत्तन्नन्त्रजपाः पठिताः। त्वमग्ने व्रतपा असीत्यादिकः स्वप्नमन्त्रः। देवीरापो अपां नपादित्यादिर्नदीतरणमन्त्रः। उन्दतीर्बलं धत्त इत्यादिर्वृष्टिक्लेदनमन्त्रः। अबद्धं मन इत्यादिरमेध्यदर्शनमन्त्रः। यदा निद्रा मध्ये प्रबोधैरल्पैर्व्यवधीयते, नदी च बहुशःस्रोतोयुक्ता द्वीपैः, वृष्टिश्च विच्छेदैः, अमेध्यानि च देशैस्तदा तैरन्तरायैर्निमित्तेषु भिद्यामानेषु नैमित्तिका मन्त्रा आवर्तनीया इति प्राप्ते ब्रूमः — रात्रिगतां कृत्स्नां निद्रामुद्दिश्य मन्त्राभिधानान्निमित्तमेकम्। एवमन्यत्रापि योज्यम्। तस्मान्नास्त्यावृत्तिः।
तत्रैवान्यच्चिन्तितम् —
“प्रयाणे प्रत्यहं मन्त्रो भिन्नो नो वाऽत्र विश्रमैः।
प्रयाणभेदाभिन्नो नो गत्यैक्यादानिवृत्तितः’ इति।
भद्रादभि श्रेय इत्यादिः प्रयाणमन्त्रः। तत्र दीक्षितस्य निर्गमनमारभ्य पुनःप्रवेशपर्यन्तं विश्रमव्यवधानेऽपि प्रयोजनैक्यादेकमेव प्रयाणम्। ततो न मन्त्रावृत्तिः।
अथ च्छन्दः —
दैवीं धियमित्यग्ने त्वमिति चैते अनुष्टुभौ। त्वमग्न इति गायत्री। विश्वे देवा इत्येकपदा। एदमगन्मेति त्रिष्टुप्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-
दीयतौत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके
तृतीयोऽनुवाकः॥३॥
(अथ प्रथमकाण्डे द्वितीयप्रपाठके चतुर्थोऽनुवाकः)।
तृतीये देवयजनं स्वीकृतम्। अथ तस्मिन्नेव देवयजने सोमयागोपयोगिसोमं क्रेतुं सोमक्रयणीविषयं होमादिकं चतुर्थेऽभिधीयते। इयं ते शुक्रेत्यादयस्तन्मन्त्राः। प्रायणीयासंबन्धि ध्रौवाज्यम्। तेनाऽऽज्येन सोमक्रयणीमीक्षमाणो जुहुयात्। ततो मन्त्रव्याख्यानात्पूर्वं प्रायणीया सोमक्रयणी चानुवाकद्वयेन ब्राह्मणेऽभिधीयते।
तत्र प्रायणीयां प्रस्तौति —
“देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्तेऽन्योन्यमुपाधावन्त्वया प्रजानाम त्वयेति तेऽदित्याँ समध्रियन्त त्वया प्रजानामेति साऽब्रवीद्वरं वृणै मत्प्रायणा एव वो यज्ञा मदुदयना असन्निति तस्मादादित्यः प्रायणीयो यज्ञानामादित्य उदयनीयः” (सं. का. ६ प्र. १ अ. ५) इति।
देवयजनार्थमयं प्रदेशः समीचीनो न त्वितर इति निश्चेतुं परिभ्रम्य तं प्रदेशं निश्चित्य परिभ्रमणेन दिग्भ्रमं प्राप्य प्राचीनवंशादावसमर्थाः संपन्नाः। ततस्त्वमेव दिशं ज्ञापयेत्येवं परस्परं वदन्तो दिग्बोधकशक्तिमदित्यां निश्चितवन्तः। सो चादितिः सोमयागारम्भसमाप्त्योरहमेव देवता भूयासमिति वरमयाचत। प्रयन्ति प्रारभन्तेऽनेन देवतारूपेणेति प्रायणम्। उद्यन्त्युत्तिष्ठन्ति समापयन्त्यनेनेति उदयनम्। अहमेव प्रायणमारम्भदेवता येषां यज्ञानां ते मत्प्रायणाः। अहमेवोदयनं समाप्तिदेवता येषां यज्ञानां ते मदुदयनाः।
तस्मादेवं वृतत्वाददितिदेवताकः प्रायणीययागः कर्तव्यः। तत्प्रसङ्गादुदयनयागोऽपि विधीयते।
अदितिरेका प्राधानदेवता चतस्रस्त्वङ्गदेवता इत्यभिप्रेत्य संख्यां विधत्ते —
“पञ्च देवता यजति पञ्च दिशो दिशां प्रज्ञात्या अथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवावरुन्धे” (सं. का. ६ प्र. १ अ. ५) इति।
दिग्विशेषेषु देवताविशेषान्विधातुं प्रस्तौति —
“पथ्याँ स्वस्तिमयजन्प्राचीमेव तया दिशं प्राजानन्नग्निना दक्षिणा सोमेन प्रतीचीँ सवित्रोदीचीमदित्योर्ध्वाम्” (सं. का. ६ प्र. १ अ. ५) इति।
स्वस्तिसंज्ञा देवता पथ्या पथि साधुः।
दिग्विशेषबोधनरूपे मार्गे कुशलान्विधत्ते —
“पथ्याँ स्वस्तिं यजति प्राचीमेव तया दिशं प्रजानाति पथ्याँ स्वस्तिमिष्ट्वाऽग्नीषोमौ यजति चक्षुषी वा एते यज्ञस्य यदग्नीषोमौ ताभ्यामेवानुपश्यत्यग्नीषोमाविष्ट्वा सवितारं यजति सवितृप्रसूत एवानुपश्यति सवितारमिष्ट्वाऽदितिं यजतीयं वा अदितिरस्यामेव प्रतिष्ठायानुपश्यति” (सं. का. ६ प्र. १ अ. ५) इति।
अर्थानुसारेण होमविशेषा दिग्विशेषून्नेयाः। चक्षुर्द्वयरूपेण प्रशंसितुमग्नीषोमयोः सह निर्देशः। होमस्तु तयोः क्रमभावी दिग्भेदाद्याज्यानुवाक्याभेदाच्च। ततोऽग्निमिष्ट्वा सोमं यजतीत्यपि वाक्यं द्रष्टव्यम्। तयोश्चक्षुष्ट्वं दार्शिकाज्यभागाब्राह्मणे प्रपञ्चितम्। अत्रादितेश्चरुहोमः। “आदित्यः प्रायणीयः। पयसि चरुः” इति शाखान्तरे समाम्नानात्। आज्येन तु देवतान्तराणाम्। तथा च सूत्रम् — “चतुर आज्यभागान्प्रतिदिशं यजति” इति।
ऋगनुवचनमध्वर्योर्विधत्ते —
“अदितिमिष्ट्वा मारुतीमृचमन्वाह मरुतो वै देवानां विशो देवविशं खलु वै कल्पमानं मनुष्याविशमनुकल्पते यन्मारुतीमृचमन्वाह विशां कॢप्त्यै” [सं. का. ६ प्र. १ अ. ५] इति।
मरुतो यद्धव इत्येषा मारुती। तथा च सूत्रम् — “मारुतीमृचमन्वाह मरुतो यद्धवो दिव इति” इति। एकोनपञ्चाशत्संख्याकाः सप्तगणरूपा मरुतो मनुष्यवैश्यवद्देवानां धनसंपादकाः प्रजाः। अनेन मन्त्रानुवचनेन देवविशां समूहः स्वव्यपारे कॢप्तो भवति। तं च कल्पमानमनुसृत्य मनुष्यप्रजासंघः कल्पते। अतो मन्त्रानुवचनं प्रजानां कॢप्त्यै भवति।
पूर्वपक्षत्वेन चोदकप्राप्तं किं चिदङ्गमपवदति —
“ब्रह्मवादिनो वदन्ति प्रयाजवदननूयाजं प्रायणीयं कार्यमनुयाजवदप्रयाजमुदयनीयमितीमे वै प्रयाजा अमी अनूयाजाः सैव सा यज्ञस्य संततिः” [सं. का. ६ प्र. १ अ. ५] इति।
प्रमुखे यष्टव्याः समिदादिनामकाः पञ्च प्रयाजा अनु पश्चात्समाप्तौ यष्टव्या बर्हिरादिनामकास्त्रयोऽनूयाजाः। तदुभयं प्रायणीयोदयनीययोरिष्ट्योरतिदेशतः प्राप्तम्। तत्र प्रायणीमेष्ट्यामनुयाजानुष्ठाने यागः समाप्येत तद्वदुदयनीयायां प्रयाजानुष्ठाने यागान्तरं प्रारभ्येत। तथा सति सोमयागो मध्ये विच्छिद्येत। उभयवर्जने तु सोमयागस्य प्रारम्भरूपायां प्रायणीयेष्टाविदानीमनुष्ठीयमाना इमे प्रत्यक्षाः प्रयाजाः समाप्तिरूपायामुदयनीयेष्टावनुष्ठीयमाना अमी परोक्षा अनुयाजाः। तथा सति प्रयाजानूयाजद्वयेन दर्शयागस्य या संततिः सैवास्य सोमयागस्य मध्ये विच्छेदराहित्यलक्षणा सा संततिः संपद्यते।
पूर्वपक्षं दूषयति —
“तत्तथा न कार्यमात्मा वै प्रयाजाः प्रजाऽनूयाजा यत्प्रयाजानन्तरियादात्मानमन्तरियाद्यदनूयाजान्तरियात्प्रजामन्तरियाद्यतः खलु वै यज्ञस्य विततस्य न क्रियते तदनु यज्ञः पराभवति यज्ञं पराभवन्तं यजमानोऽनु पराभवति” (सं. का. ६ प्र. १ अ. ५) इति।
आत्मनो वा पुत्रादेर्वा नान्तरायः सोढुं शक्यते यतो द्वयं तदङ्गमित्यर्थः सिद्धान्तमाह —
“प्रयाजवदेवानुयाजवत्प्रायणीयं कार्य प्रयाजवदनूयाजवदुदयनीयं नाऽऽत्मानमन्तरेति न प्रजां न यज्ञः पराभवति न यजमानः” (सं. का. ६ प्र. १ अ. ५) इति।
विच्छेदपरिहाराय विधत्ते –
“प्रायणीयस्य निष्कास उदयनीयमभिनिर्वपति सैव सा यज्ञस्य संततिः” (सं. का. ६ प्र. १ अ. ५) इति।
प्रायणीययागसंबन्धि चरुपात्रमप्रक्षाल्य निष्कासे पात्रलिप्तेऽन्ने निर्वापान्नलेपस्य या संततिः सैव सोमयागस्याविच्छेदरूपा सा संततिर्भवति।
प्रायणीयोदयनीययोर्दैवतैक्येन याज्याया अप्येकत्वप्राप्तौ व्यत्यासं विधत्ते –
“याः प्रायणीयस्य याज्या यत्ता उदयनीयस्य याज्याः कुर्यात्पराङमुं
लोकमारोहेत्प्रमायुकः स्याद्याः प्रायणीयस्य पुरोनुवाक्यस्ता उदयनीयस्य याज्याः करोत्यस्मिन्नेव लोके प्रतितिष्ठति” ( सं. का. ६ प्र. १ अ. ५) इति।
स्वस्तिरिद्धि प्रपथे श्रेष्ठेत्याद्याः प्रायणीयस्य याज्या उदयनीयस्यपि तथेत्येवं केचिदाहुः। तथा सति प्रतिनिवृत्तेरभावद्यजमानोऽस्माल्लोकात्पराङ्मुखः स्वर्गमारोढुं सहसा म्रियेत। तस्मात्तेषां पक्षो न युक्तः। यास्तु स्वस्ति नः पथ्येत्याद्याः प्रायणीयस्य पुरोनुवाक्यास्तासां याज्यत्वे सति स्वस्तिरिद्धीत्यादीनां पूर्वोक्तानां पुरोनुवाक्यत्वाय प्रतिनिवृत्तेर्यजमानोऽप्यस्मिल्ँ लोके प्रतितिष्ठत्येव।
इत्थं प्रायणीयेष्टिगुक्त्वा सोमक्रयाणीं वक्तुं सोमाहरणं सोपाख्यानमाह —
“कद्रूश्च वै सुपर्णी चाऽऽत्मरूपयोरस्पर्धेताँ सा कद्रूः सुपर्णीमजयत्साऽब्रवीत्तृतीयस्यामितो दिवि सोमस्तमाहर तेनाऽऽत्मानं निष्क्रीणीष्वेति” (सं. का. ६ प्र. १ अ. ६) इति।
कद्रूः सुपर्णी चोमे सपत्न्यौ पराजये दासीत्वमभ्युपेत्य ममैव सौन्दर्यं ममैवेत्यस्पर्धेताम्। तत्र मध्यस्थाः कद्र्वा जयमूचिरे। सा च कद्रूः सपत्नीं दासीत्वेन परिगृह्य तन्मोचनोपायं स्वयमेवोपदिदेश। इतोऽस्माल्लोकादारभ्य गणनायां तृतीया द्यौः स्वर्गलोकस्तस्मिन्सोमो वर्तते। महर्जनस्तपः सत्यमित्येतेऽपि लोका द्युशब्दाभिधेयास्तस्मादितस्तृतीयस्यामिति विशेष्यते। सोम आहृत्य दत्ते सति त्वां मुञ्चामीति।
सोमाहरणं संभावयितुं श्रुतिराह —
“इयं वै कद्रूरसौ सुपर्णी छन्दाँसि सौपर्णेयाः” (सं. का. ६ प्र. १ अ. ६) इति।
भूलोकरूपत्वात्कद्रूः स्वयमाहर्तुं न शक्नोति। सुपर्णी तु द्युलोकरूपत्वादुत्पतनसमर्थानां गायत्र्यादिरूपाणामपत्यानां सद्भावाच्च शक्नोति।
अथ सा सुपर्णी स्वपुत्राणां गायत्र्यादीनामग्रे स्ववृत्तान्तं स्पष्टी करोतीत्याह —
“साऽब्रवीदस्मै वै पितरौ पुत्रान्विभृतस्तृतीयस्यामितो दिवि सोमस्तमाहर तेनाऽऽत्मानं निष्क्रीणीष्वेति मा कद्रूरवोचदिति” (सं. का. ६ प्र. १ अ. ६) इति।
पुंनामनरकोपलक्षितादशेषाद्दुःखात्त्रायन्त इति पुत्रास्तास्तान्पुत्रानस्यमा एतादृशोपद्रवपरित्राणाय मातापितरौ पुष्णीतः। हे गायत्र्यादिपुत्राः कद्रूवचनमवगत्य यदुचितं तत्कुरुध्वम्। गायत्र्यादीनामैच्छिकशरीरधारित्वात्पुत्रत्वमविरुद्धम्।
तत्र प्रौढत्वादादौ जगती प्रववृत इत्याह —
“जगत्युदपतच्चतुर्दशाक्षरा सती साऽप्राप्य न्यवर्तत तस्यै द्वे अक्षरे अमीयेताँ सा पशुभिश्च दीक्षया चाऽऽगच्छत्तस्माज्जगती छन्दसां पशव्यतमा तस्मात्पशुमन्तं दीक्षोपनमति” (सं. का. ६ प्र. १ अ. ६) इति।
पुरा जगतीपादस्य चतुर्दशाक्षराण्यासन्। तादृशी जगती द्युलोकं गत्वास्वानभ्राजादिसोमरक्षकैः सह युद्ध्वा सोममप्राप्याग्नीषोमीयसवनीयानूबन्ध्याख्यपशूनिष्टिसाध्यां दीक्षां च गृहीत्वा स्वकीये चाक्षरद्वये स्वानादिभिर्गृहीते सति पराजित्य समागता। यस्माज्जगती पशूनानयत्तस्मात्सैवात्यन्तं पशुप्रदा। यतः पशुभिः सह दीक्षाऽऽनीता ततः स्वाधीनसंपत्तौ सत्यां दीक्षायां प्रवर्तते।
तथैव त्रिष्टुभो युद्धं दर्शयति —
“त्रिष्टुगुदपतत्त्रयोदशाक्षरा सती साऽप्राप्य न्यवर्तत तस्यै द्वे अक्षरे अमीयेताँ सा दक्षिणाभिश्च तपसा चाऽऽगच्छत्” (सं. का. ६ प्र. १ अ. ६) इति।
गौश्चाश्वश्चेत्यादयो दक्षिणाः। अशनपरित्यागमुष्टिबन्धवाग्यमनवनीताभ्यङ्गकृष्णाजिनप्रावरणादिक्लेशसहिष्णुत्वं तपः। प्राणवत्प्रियस्य गवाश्वादेर्दानमधिकं तपः।
त्रिष्टुभा तदानयनमुपपादयति —
“तस्मात्त्रिष्टुभो लोके माध्यंदिने सवने दक्षिणा नीयन्त एतत्खलु वाव तप इत्याहुर्यः स्वं ददाति” (सं. का. ६ प्र. १ अ. ६) इति।
माध्यंदिनसवनस्य त्रिष्टुगभिमानिनी देवता। ततस्तदेतत्त्रिप्टुभो लोकः स्थानं, शरीरप्रयासादपि धनहानिकृतस्य मानसप्रयासस्याधिकत्वाद्दत्तेन धनेन परोपजीवनाच्च दानमेव महत्तप इत्यभिज्ञानां मतम्।
गायत्र्या युद्धे जयं दर्शयति —
“गायत्र्युदपतच्चतुरक्षरा सत्यजया ज्योतिषा तमस्या अजाऽभ्यरुन्ध तद
जाया अजत्वँ सा सोमं चाऽहरच्चत्वारि चाक्षराणि साऽष्टाक्षरा समपद्यत” ( सं. का. ६ प्र. १ अ. ६) इति।
सहायरहितयोः पूर्वयोः पराजयं दृष्ट्वा गायत्री स्वयमजया सहोदपतत्। सा त्वजा गायत्र्यर्थं स्वकीयेन तेजसा तं सोममभितो रुरोध। तस्माद्रोधनपर्यायक्षेपणार्थादजधातोरजेति नाम निष्पन्नम्।
प्रश्नोत्तराभ्यां गायत्रीं प्रशंसति —
“ब्रह्मवादिनो वदन्ति कस्मात्सत्याद्गायत्री कनिष्ठा छन्दसाँ सती यज्ञमुखं परीयायेति यदेवादः सोममाहरत्तस्माद्यज्ञमुखं पर्यैत्तस्मात्तेजस्विनीतमा” (सं. का. ६ प्र. १ अ. ६) इति।
सत्यात्कारणात्। कनिष्ठा न्यूनाक्षरा। यज्ञमुखं प्रातःसवनम्। तत्र बहिष्पवमाननाम्नि प्रथमस्तोत्र उपास्मै गायता नर इत्याद्या ऋचो गायत्र्यः। सेयं यज्ञमुखप्राप्तिः। ब्रह्मवादिष्वेव बुद्धिमन्तो यदेवेत्याद्युत्तरमाहुः। यस्मादियमदोऽमुष्माल्लोकात्सोममाहरत्तस्मादस्या मुखप्राप्तिर्युक्ता। मुखत्वादेवास्यास्तेजोबाहुल्यम्।
आहरणप्रकारं दर्शयति —
“पद्भ्यां द्वे सवने समगृह्णान्मुखेनैकं यन्मुखेन समगृह्णात्तदधयत्तस्माद्द्वे सवने शुक्रवती प्रातःसवनं च माध्यंदिनं च तस्मात्तृतीयसवन ऋजीषमभिषुण्वन्ति धीतमिव हि मन्यन्ते” (सं. का. ६ प्र. १ अ. ६) इति।
पक्षिरूपा गायत्री सवनद्वयपर्याप्तौ सोमभागो पद्भ्यां संगृह्य तृतीयसवनपर्याप्तं सोमभागं चञ्चुपुटाभ्यां संदश्य तदीयं रसं पपौ। यस्मात्पद्भ्यां धृतौ सोमभागौ न पीतौ तस्मात्प्रातःसवनमाध्यंदिनसवने शुक्रशब्दाभिधेयेन सोमरसेनोपेते।
यस्मात्तृतीये भागः पीतस्तस्मात्पीतत्वं मन्यमानास्तत्सादृश्यार्थमृजीषमभिषुणुयुरिति प्रासङ्गिके किंचिद्विधाय तत्रापरं विशेषं विधत्ते —
“आशिरमवनयति सशुक्रत्वायाथो संभरत्येवैनत्” [सं. का. ६ प्र. १ अ. ६] इति।
आशिरं क्षीरम्। सशुकत्वं सरसत्वम्। किंच क्षीरसेचनादृजीषगतसोमरसरूपहविः संभरति सम्यक्पोषयत्येव।
पुनरप्यन्यद्विधत्ते —
‘तँ सोममाह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात्स तिस्त्रो रात्रीः परिमुषितोऽवसत्तस्मात्तिस्रो रात्रीः सोमो वसति’ (सं. का. ६ प्र. १ अ. ६) इति।
उपसद्दिवसेषु त्रिष्वभिषवमकृत्वा सोमं निवासयेदित्यर्थः।
इत्थं सोमाहरणं निरूप्य सोमक्रयणीं निरूपयितुमारभते —
‘ते देवा अब्रुवनस्त्रीकामा वै गन्धर्वाः स्त्रिया निष्क्रीणामेति ते वाचँ स्त्रियमेकहायनीं कृत्वा तया निरक्रीणन्’ (सं. का. ६ प्र. १ अ. ६) इति।
एकसंवत्सरवयस्कया स्त्रीरूपया वाग्देवतया सोमस्य निष्क्रयः कृतः।
गन्धर्वेष्वपरक्तायास्तस्याः स्त्रिया रोहितगोरूपतां दर्शयति —
‘सा रोहिद्रूपं कृत्वा गन्धर्वेभ्योऽपक्रम्यातिष्ठत्तद्रोहितो जन्म’ (सं. का. ६ प्र. १ अ. ६) इति।
देवेष्वनुरक्तायाः पुनर्देवताप्राप्तिं दर्शयति –
‘ते देवा अब्रुवन्नप युष्मदक्रमीन्नास्मानुपावर्तते विह्वयामहा इति ब्रह्म गन्धर्वा अवदन्नगायन्देवाः सा देवान्गायत उपावर्तत तस्माद्गायन्तँ स्त्रियः कामयन्ते’ (सं. का. ६ प्र. १ अ. ६) इति।
विह्वयामहै विलक्षणं यथा भवति तथैवाऽऽकारयामः। ब्रह्म वेदः।
एतद्वृत्तान्तवेदनं प्रशंसति —
‘कामुका एनँ स्त्रियो भवन्ति य एवं वेदाथो य एवंविद्वानपि जन्येषु भवति तेभ्य एव ददत्युत यद्बहुतया भवन्ति’ (सं. का. ६ प्र. १ अ. ६) इति।
वरस्य स्निग्धा वरार्थं कन्यामन्वेष्टुं प्रवृत्ता बान्धवा जन्याः। तादृशानां जन्यानां द्वौ वर्गौ। तत्रैकस्मिन्वर्गे यथोक्तवेदनरहिता अनेकगुणान्तरोपेता बहवोवरा यद्यपि सन्ति तथाऽपि तं वर्गमुपेक्ष्य येषु जन्येष्वेकोऽप्येवं विद्वान्वरो भवति तेभ्य एव जन्येभ्यः कन्यां तत्पितरो ददति।
सोमक्रयण्यां गुणं विधत्ते —
“एकहायन्या क्रीणाति वाचैवैनँ सर्वया क्रीणाति तस्मादेकहायना मनुष्या वाचं वदन्ति” (सं. का. ६ प्र. १ अ. ६) इति।
वाग्देवतायाः सोमक्रयणीरूपस्वीकारात्सर्वया वाचा क्रय उपपद्यते। एकसंवत्सरस्वीकारश्च तस्मिन्वयसि सति वदनव्यवहारोपक्रमात्।
वर्ज्यदोषान्विशदयति —
‘अकूटयाऽकर्णयाऽकाणयाऽश्लोणयाऽसप्तशफया क्रीणाति” (सं. का. ६ प्र. १ अ. ६) इति।
कूटा कुटिलशृङ्गी। कर्णा छिन्नकर्णोपेता। काणा त्वेकाक्षी। श्लोणा कुष्ठादिदूषिता। सप्तशफा न्यूनाङ्गी। एता वर्ज्याः।
उपादेयां दर्शयति —
‘सर्वयैवैनं क्रीणाति’ (सं. का. ६ प्र. १ अ. ६) इति।
सर्वाऽवयवसंपूर्णेत्यर्थः।
विपक्षबाधपुरःसरं स्वपक्षं विधत्ते —
‘यच्छ्वेतया क्रीणीयाद्दुश्चर्मा यजमानः स्याद्यत्कृष्णयाऽनुस्तरणी स्यात्प्रमायुको यजमानः स्याद्यद्द्विरूपया वार्त्रघ्नी स्यात्स वाऽन्यं जिनीयात्तं वाऽन्यो जिनीयादरुणया पिङ्गाक्ष्या क्रीणात्येतद्वै सोमस्य रूपँ स्वयैवैनं देवतया क्रीणाति’ (सं. का. ६ प्र. १ अ. ६) इति।
मृतं पुरुषमनु हन्यमाना गौरनुस्तरणी। कृष्णायास्तादृक्त्वेन यजमानो म्नियेत। वर्णद्वयोपेता यद्यापि विरोधिघातिनी तथाऽपि यजमानतद्वैरिणोरन्योन्यविरोधित्वात्को हन्ति को वा हन्यत इति न ज्ञायते। अरुणत्वं पिङ्गाक्षत्वं च सोमदेवतायाः स्वरूपम्। अतस्तादृशी गौः सोमक्रयाय सदृशी भवति।
इत्थं चतुर्थानुवाकोक्तमन्त्रव्याख्यानस्योपोद्घातत्वेन ब्राह्मणेन प्रायणीयासोमक्रयण्यावनुवाकभ्यामभिहिते। अथ मन्त्रा व्याख्यातव्याः।
इयमिति। कल्पः – ‘अथैतद्ध्रुवाज्यमाप्याय्य स्रुचि चतुर्गृहीतं गृहीत्वा सूत्रेण हिरण्यं निष्टर्क्यं बद्ध्वा दर्भाभ्यां प्रबध्य स्रुच्यवदधातीयं ते शुक्र तनूरिदं वर्चस्तया सं भव भ्राजं गच्छेति’ इति।
हे शुक्र दीप्तिमद्धिरण्य तवेयं जुहूस्तनूः, इदं घृतं तव तेजोऽतस्तया जुह्वा संगच्छ संभव। हे हिरण्याऽऽज्यरूपां भ्राजं दीप्तिं प्राप्नुहि। अथवा हे शुक्र वह्ने इयमाज्यरूपा तव तनूरिदं हिरण्यं तव तेज इत्येवं ब्राह्मणानुसारेण व्याख्यातव्यम्।
आधानब्राह्मणोक्तं हिरण्यस्य महिमानं तत्रत्यपदत्रयोच्चारणेन प्रत्यभिज्ञाप्य प्रशंसति —
“तद्धिरण्यमभवत्तस्मादद्भ्यो हिरण्यं पुनन्ति” [सं. का. ६ प्र. १ अ. ७] इति।
आधानब्राह्मणे त्वेवमाम्नायते —
आपो वरुणस्य पत्नय आसन्। ता अग्निरभ्यध्यायत्। ताः समभवन्। तस्य रेतः परापतत्। तद्धिरण्यमभवत्” इति।
तस्माद्धिरणस्य वह्निः पिता आपो मातरः। तस्मात्स्वतःशुद्धं हिरण्यं यदि कदाचिद्रजस्वलादिस्पर्शेन शोधनीयं भवति तदाऽद्भ्यः पुनन्ति जलेनैव शोधयन्ति न तु कांस्यताम्रादेरिव भस्माग्न्यदिकमपेक्षन्ते।
जुह्वां हिरण्यप्रक्षेपेण विशिष्टं होमं विधत्ते —
“ब्रह्मवादिनो वदन्ति कस्मात्सत्यादनस्थिकेन प्रजाः प्र वीयन्तेऽस्थन्वतीर्जायन्त इति यद्धिरण्यं घृतेऽवधाय जुहोति तस्मादनस्थिकेन प्रजाः प्र वीयन्तेऽस्थन्वतीर्जायन्ते” [सं. का. ६ प्र. १ अ. ७] इति।
तस्मादनस्थिकेन वीर्येण प्रजाः प्रवीयन्ते गर्भाः क्रियन्ते। उत्पत्तिकाले त्वस्थियुक्ता जायन्ते। तत्र वीर्यसदृशमाज्यमस्थिसदृशं हिरण्यम्। तदिदं सादृश्यं निर्वोढुमीश्वरेणास्थि निर्मीयत इत्यर्थः।
वह्निसंबन्धबोधनपरतया मन्त्रं व्याचष्टे —
“एतद्वा अग्नेः प्रियं धाम यद्घृतं तेजो हिरण्यमियं ते शुक्र तनूरिदं वर्च इत्याह सतेजसमैवैनँ सतनुं करोत्यथो स भरत्येवैनम्” [सं. का. ६ प्र. १ अ. ७] इति।
एनमग्निं संभरति सम्यक्करोत्येव। वह्निसंबोधनेन तदीयतेजोरूपेण हिरण्यमत्र प्रकाश्यते।
हिरण्यस्य सूत्रेण बन्धनं विधत्ते —
“यदबद्धमवदध्याद्गर्भाः प्रजानां परापातुकाः स्युर्बद्धमव दधाति गर्भाणां धृत्यै” [सं. का. ६ प्र. १ अ. ७] इति।
सूत्राग्राकर्षणेन यथा सहसा मुच्यते तथा बध्नीयादिति विशेषं विधत्ते —
“निष्टर्क्यं बध्नाति प्रजानां प्रजननाय” (सं. का. ६ प्र. १ अ. ७) इति।
निःशेषेण सहसा मोचनयोग्यं निष्टर्क्यम्।
जूरसीति। कल्पः – “नाडीस्रुग्दण्ड उपसंगृह्याऽऽहवनीये जुहोत्यन्वारब्धे
यजमाने जूरसि धृता मनसा जुष्टा विष्णवे तस्यास्ते सत्यसवसः प्रसवे वाचो यन्त्रमशीय स्वाहेति” इति।
हे सोमक्रयणि वाग्रूपा त्वं जूर्वेगयुक्ताऽसि मनसा नियमिताऽसि यज्ञाय प्रियाऽसि। तादृश्या अमोघप्रेरणायास्तव प्रेरणे सति मन्त्रोच्चाणरूपाया वाचो यन्त्रं नियममशीय प्राप्नुयाम्। इदमाज्यं हुतमस्तु।
यथोक्तार्थं मन्त्रे दर्शयति —
“वाग्वा एवा यत्सोमक्रयणी जूरसीत्याह यद्धि मनसा जवते तद्वाचा वदति धृता मनसेत्याह मनसा हि वाग्धृता जुष्टा विष्णव इत्याह यज्ञो वै विष्णुर्यज्ञायैवैनां जुष्टां करोति तस्यास्ते सत्यसवसः प्रसव इत्याह सवितृप्रसूतामेव वाचमवरुन्धे” (सं. का. ६ प्र. १ अ. ७) इति।
जवते तूर्णं कर्तव्यमित्यवगच्छति।
शुक्रमिति। बौधायनः — “अग्रेण शालां तिष्ठन्यजमानमाज्यमवेक्षयति शुक्रमस्यमृतमसि वैश्वदेवँ हविरिति” इति।
आपस्तम्बः – “सोमक्रयणीमीक्षमाणो जुहोति जूरसीत्यपरं चतुर्गृहीतं गृहीत्वा शुक्रमसीति हिरण्यं घृतादुद्धृत्य वैश्वदेवँ हविरित्याज्यमवेक्ष्य” इति।
शुक्रं दीप्तिमत्। अमृतं नाशरहितम्। हे आज्य हे हिरण्येति वा योज्यम् हे आज्य त्वं सर्वदेवप्रियं हविरसि। तदिदं स्पष्टत्वान्न ब्राह्मणे व्याख्यातम्।
सूर्यस्येति। कल्पः — “अथैनद्धिरण्यमन्तर्धायाऽऽदित्यमुदीक्षयति सूर्यस्य चक्षुराऽरुहमग्नेरक्ष्णः कनीनिकां यदेतशेभिरीयसे भ्राजमानो विपश्चितेति” इति।
सूर्यसंबन्धि मदीयं चक्षुरिन्द्रियं, कनीनिका त्वग्निसंबन्धिनी, तदुभयमारुहं प्राप्तोऽस्मि। यतो हे सूर्य त्वमेतशनामकैरश्वर्गैच्छसि, हे वह्ने त्वं विपश्चिता तेजसा भ्राजमानोऽसि तस्माद्रक्षोनिवारणाय युवामुभौ प्राप्तोऽस्मि।
एतदभिप्रायं दर्शयति —
“काण्डेकाण्डे वै क्रियमाणे यज्ञँ रक्षाँसि जिघाँसन्त्येषु खलु वा अरक्षोहतः पन्था योऽग्नेश्च सूर्यस्य च सूर्यस्य चक्षुराऽरुहमग्नेरक्ष्णः कनीनिकामित्याह य एवारक्षोहतः पन्थस्तँ समारोहति” (सं. का. ६ प्र. १ अ. ७) इति।
काण्डेकाण्डे तत्तदुपाङ्गयुक्त एकैकस्मिन्यज्ञाङ्गे।
बौधायनः- “अथैताँ सोमक्रयणीमग्रेण शालमुदीचीमभिवर्तयन्ते तामनुमन्त्रयते चिदसि मनाऽसीत्यन्तादनुवाक्यस्य” इति।
स च मन्त्र एवमाम्नायते —
चिदसीति। आपस्तम्बस्तु त्रेधा विभज्य विनियुङ्क्ते — “चिदसि मनासीति सोमक्रयणीमभिमन्त्रयते, कर्णगृहीता पदिबद्धा भवति, मित्रस्त्वा पदि बध्नात्विति दक्षिणं पूर्वपादं प्रेक्षते, पूषाऽध्वनः पात्विति प्राचीमायतीमनुमन्त्रयते” इति।
हे वाग्देवतारूपे सोमक्रयणि त्वं चिदादिशब्दप्रतिपाद्याऽसि। अन्तःकरणस्य चित्तं मनो बुद्धिरिति तिस्रो वृत्तयः। देवादिसंघातस्याचेतनत्वं व्यावर्त्य चेतनत्वं संपादयन्ती बाह्यवस्तुषु वा निर्विकल्परूपं सामान्यप्रज्ञानं जनयन्ती वृत्तिश्चित्तम्। अयं पदार्थ एवं भवति वा न वेति विचाररूपा वृत्तिर्मनः। भवत्येवेति निश्चयरूपा बुद्धिः। एतत्त्रितयमिह चिन्मनोधीशब्दैरुच्यते। दक्षिणा कुशला देयद्रव्यरूपा वा यज्ञिया सोमक्रयद्वारेण यज्ञसंबन्धिनी। क्षत्त्रिया देवेषु सोमः क्षत्त्रियजात्यभिमानी।
तथा च वाजसनेयिन आमनन्ति —
“यान्येतानि देवक्षत्त्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः” इति।
तेन सोमेनाभिमन्तव्यस्य सोमलताद्रव्यस्य क्रयहेतुत्वेन क्षत्त्रिया। ज्योतिष्ठोमस्याऽऽद्यन्तयोः प्रायणीयोदयनीययोरदितेर्देवतात्वात्सेयमुभयतः शीर्ष्णी तद्रूपा त्वमसि। सा तादृशी त्वमस्मदर्थं सुप्राची सुप्रतीची संभव, प्रथमं सोमस्य क्रेतारं प्रति सुष्ठु प्राङ्मुखी गत्वा पश्चादस्मान्प्रति सुष्ठु प्रत्यङ्मुखी समागम्यास्माभिः संगच्छस्व।
यथोक्तमर्थं मन्त्रे दर्शयति —
“वाग्वा एषा यत्सोमक्रयणी चिदसि मनाऽसीत्याह शास्त्येवैनामेतत्तस्माच्छिष्टाः प्रजा जायन्ते” (सं. का. ६ प्र. १ अ. ७) इति।
एतेन मन्त्रेण वागात्मिकां सोमक्रयणीं चिदादिशब्दवाच्या भवेत्येवमनुशास्ति। यस्मादेवं तस्माल्ँ लोकेऽपि प्रजा अनुशिष्यन्ते।
कृत्स्नशस्तात्पर्यमुक्त्वा प्रत्यवयवं व्याचष्टे —
चिदसीत्याह यद्धि मनसा चेतयते तद्वाचा वदति मनाऽसीत्याह यद्धि मनसाऽभिगच्छति तत्करोति धीरसीत्याह यद्धि मनसा ध्यायति तद्वाचा वदति दक्षिणाऽसीत्याह दक्षिणा ह्येषा यज्ञियाऽसीत्याह यज्ञियामेवैनां करोति क्षत्त्रियाऽसीत्याह क्षत्त्रिया ह्येषाऽदितिरस्युभयतःशीर्ष्णीत्याह यदेवाऽऽदित्यः प्रायणीयो यज्ञानामादित्य उदयनीयस्तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ७) इति।
मनसा वृत्तित्रयसाधारणेनान्तःकरणेन चेतयते सामान्यतो जानात्यभिगच्छति विचारयति ध्यायति निश्चिनोति। उत्तरमन्त्रस्यायमर्थः। हे सोमक्रयणि मित्रो हितकारी देवस्त्वां दक्षिणे पादे बध्नातु।
एतन्मन्त्रविरुद्धं पक्षत्रयं व्यावर्तयन्मन्त्रं व्याचष्टे —
“यदबद्धा स्यादयता स्याद्यत्पदिबद्धाऽनुस्तरणी स्यात्प्रमायुको यजमानः स्याद्यत्कर्णगृहीता वार्त्रघ्नी स्यात्स वाऽन्यं जिनीयात्तं वाऽन्यो जिनीयान्मित्रस्त्वा पदि बध्नात्वित्याह मित्रो वै शिवो देवानां तेनवैनां पदि बध्नाति” (सं. का. ६ प्र. १ अ. ७) इति।
अत्र पादबन्धनं कर्णग्रहणं चामन्त्रकमङ्गी चकरेत्यविरोधः। अथवा, अकर्णगृहीता, अपदिबद्धेति पदच्छेदः। तृतीयमन्त्रस्यायमर्थः — हे सोमक्रयणि त्वां पूषा पोषको देवो भयोपेतान्मार्गात्पालयतु। यागध्यक्षायेन्द्राय त्वां सोमक्रयसाधनेन मातृ(ता)पित्रादयोऽनुमन्यन्ताम्। सगर्भ्यस्त्वया सहैकस्मिन्गर्भेऽवस्थितः। हे देवि सा त्वमिन्द्रार्थं सोमं देवमनुगच्छ। तां त्वां रुद्रो देवोऽस्मान्प्रति पुनरावर्तयतु। आवर्तयन्नपि न रौद्रेण मार्गेण किंतु मित्रस्य पथा। ततस्ते स्वस्ति सुखं भवतु। सोमः सखा यस्यास्तव सा त्वं सोमसखा भूत्वा धनेन सहास्मान्प्रति पुनरागच्छ। अत्र रुद्रस्त्वेत्यादिना पृथङ्मन्त्रेण सोमक्रयादूर्ध्वमेतस्याः प्रत्यावर्तनमिति केचित्।
मन्त्रस्य भागान्क्रमेण व्याचष्टे —
“पूषाऽध्वनः पात्वित्याहेयं वै पूषेमामेवास्या अधिपामकः समष्ट्या इन्द्रायाध्यक्षायेत्याहेन्द्रमेवास्या अध्यक्षं करोति अनु त्वा माता मन्यतामनु पितेत्याहानुमतयैवैनया क्रीणाति सा देवि देवमच्छेहीत्याह देवी ह्येषा देवः सोम इन्द्राय सोममित्याहेन्द्राय हि सोम आह्रियते यदेतद्यजुर्न ब्रूयात्पराच्येव सोमक्रयणीयाद्रुद्रस्त्वाऽऽवर्तयत्वित्याह रुद्रो वै क्रूरो देवानां तमेवास्यै परस्ताद्दधात्यावृत्त्यै क्रूरमिव वा एतत्करोति यद्रुद्रस्य कीर्तयति मित्रस्य पथेत्याह शान्त्यै वाचा वा एष वि क्रीणीते यः सोमक्रयण्या स्वस्ति सोम सखा पुनरेहि सह रय्येत्याह वाचैव विक्रीय पुनरात्मन्वाचं धत्तेऽनुपदासुकाऽस्य वाग्भवति य एवं वेद” (सं. का. ६ प्र. १ अ. ७) इति।
समष्ट्यै सम्यक्प्राप्तये। एतद्रुद्रस्ये(स्त्वे)ति यजुः। तमेव क्रूरं रुद्रम्। अस्याः सोमक्रयण्या आवृत्तये परस्तात्तामतिलङ्घ्य परभागे स्थापयति। अनुपदासुका क्षयरहिता तदेतद्वेतनस्य प्रशंसनम्।
अथ विनियोगसंग्रहः —
“इयं क्षिप्त्वा घृते स्वर्णं जूरसीति जुहोति हि।
शुक्रेति स्वर्णमुद्धृत्य वैश्वेत्याज्यमवेक्षते॥१॥
सूर्यसूर्यमुपस्थाय चित्सोमक्रयणीं जपेत्।
मित्रो दृष्ट्वा बद्धपादं पूषा तामनुमन्त्रयेत्।
रुद्रस्तामावर्तयीत मन्त्राः संकीर्तिता नव॥२॥ इति।
अथ मीमांसा।
एकादशाध्यायस्य द्वितीयपादे चिन्तितम् —
“प्रायणीयस्य निष्कासे यो निर्वापोऽर्थकर्म तत्।
निष्कासप्रतिपत्तिर्वोदयनीयस्य संस्कृतिः॥
उताऽऽद्यः पूर्ववन्मैवं मुख्यस्य प्रकृतित्वतः।
मध्योस्तु नोपयोक्तव्यसंस्कारस्य गुरुत्वतः॥” इति।
ज्योतिष्टोमे श्रूयते – “प्रायणीयस्य निष्कास उदयनीयमभिनिर्वपति” इति। अत्र पूर्वन्यायेन निष्कासद्रव्यकमुदयनीयसमानकर्मकमन्यदर्थकर्मेत्वाद्यः पक्षः। मुख्यस्योदयनीयस्य प्रकृतत्वाद्भिन्नप्रकरणाम्नातावभृथधर्मातिदेशवदुदयनीयधर्मातिदेशासंभावान्नार्थकर्मत्वम्। तर्हि निष्कासप्रतिपत्तिरिति मध्यमः पक्षोऽस्तु। सोऽपि न संभवत्युपयुक्तसंस्कारादुपयोक्ष्यमाणसंस्कारस्य गरीयस्त्वात्। तस्मादुदयनीयस्य संस्कारः।
तृतीयाध्यायस्य प्रथमपादे चिन्तितम् —
“क्रीणात्यरुणयेत्येतत्संकीर्णं वा क्रयैकभाक्।
क्रयेणानन्वयात्कीर्णः सर्वद्रव्येषु रक्तिमा॥
द्रव्यद्वारा क्रये योगात्तद्भागेनान्वयः पुनः।
साक्षात्क्रये गुणस्यार्थद्द्रव्ये संनिहितेऽस्त्वसौ” इति।
ज्योतिष्टोमे श्रूयते — “अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति” इति। तत्रारुणशब्दोऽरुणिमानं गुणमाचष्टे। गुणिविषयतया प्रयुज्यमानस्यापि नागृहीतविशेषणा विशिष्टे बुद्धिरिति न्यायेन गुणबोधकत्वादन्वयव्यतिरेकाभ्यां गुणमात्रे व्युत्पत्तेश्च। तस्य चारुणिमगुणस्य तृतीयाश्रुत्या सोमक्रयसाधनत्वं प्रतीयते। तच्चानुपपन्नममूर्तस्य गुणस्य वासोहिरण्यादिवत्क्रयसाधनत्वासंभवात्। ततस्तृतीयाश्रुतेर्विनियोजकत्वाभावेन प्रकरणस्यात्र विनियोजकत्वं वक्तव्यम्। प्रकरणं च ग्रहचमसाद्यखिलद्रव्येष्वरुणिमानं विनिवेशयति। न चानेन न्यायेन पिङ्गाक्ष्येकहायनीश्ब्दयोरपि सर्वद्रव्यगामित्वं शङ्कनीयम्। तयोः शब्दयोर्द्रव्यवाचित्वात्। पिङ्गलवर्णे अक्षिणी यस्याः सा गौः पिङ्गाक्षी। एवमेकहायनी। यद्यप्येकगोवाचिनौ शब्दौ तथाऽपि विशेषणीभूतधर्मभेदाच्छब्दद्वयम्। तच्च युगपत्प्रवृत्तं सद्धर्मद्वयविशिष्टं गोद्रव्यं क्रयसाधनत्वेन विदधाति। न चैतद्द्रव्यमितरद्रव्ये विनिवेशयितुं शक्यम्। अरुणिमगुणो द्रव्येषु विशेषणत्वेनान्वेतुं योग्यत्वात्तेषु निवेश्यते। तत्रैषाऽक्षरयोजना। अरुणयेत्येतत्पृथग्वाक्यम्। तत्र तृतीयाश्रुत्या प्राकरणिकानि साधनद्रव्याणि तानि सर्वाण्यनूद्य प्रतिपदिकेन गुणो विधीयते यानि ज्योतिष्टोमे साधनद्रव्याणि तानि सर्वाण्यरुणानि कर्तव्यानीति। तस्माद्गुणः संकीर्ण इति प्राप्ते ब्रूमः — यद्यप्यमूर्तो गुणस्तथाऽपि हायनवदक्षिवच्च गोद्रव्यमवच्छिनत्ति। तञ्च द्रव्यं साधनमिति तद्द्वारा गुणस्य क्रयेणान्वयो भवति। एवं सति वाक्यभेदो न भविष्यति। ननु वाक्यभेदाभावेऽपि लक्षणादुर्वारा। गुणवाचिनः शब्दस्य गुणिद्रव्यपरत्वाङ्गीकारात्। मैवम्। गुणस्यैवात्र तृतीयाश्रुत्या साधनत्वमुच्यते। तच्च द्रव्यद्वारमन्तरेण न संभवतीत्यर्थापत्त्या द्रव्यावच्छेदकं कल्प्यते। तर्हि ग्रहचमसादिद्रव्यमवच्छिद्यतामिति चेत्। न। तस्य द्रव्यस्य क्रयसाधनत्वाभावेन तदवच्छेदकगुणस्य श्रूयमाणक्रयसाधनत्वासिद्धेः। तर्हि वाससा क्रीणात्यजया क्रीणातीति वस्त्रादीनां क्रयसाधनत्वात्तदेवच्छेदोऽस्त्विति चेत्। न। तेषां क्रयान्तरसाधनत्वात्। न हि तत्राग्निहोत्रे पयोदध्यादिविकल्पवत्क्रयानुवादेन वस्त्रादिविकल्पो युक्तः। अनुवाद्यस्य क्रयमात्रस्याग्निहोत्रवदन्यत्राविधानात्। ततो वस्त्रादिद्रव्यविशिष्टाः क्रयान्तरविधयः। न हि स्ववाक्यगतमेकहायनीद्रव्यमुपेक्ष्य वस्त्राद्यवच्छेदो युक्तः। तस्मात्क्रमेण साक्षादन्वितयोर्द्रव्यगुणयोः पश्चादन्यथाऽनुपपत्त्या परस्परावच्छेदकत्वेनान्वयः। तथा सत्यारुण्यविशिष्टयैकहायन्या क्रीणातीत्यर्थः पर्यवस्यति। तस्मादारुण्यगुणः क्रयहेतुमेकहायनीमेव भजते।
अथ च्छन्दः —
सूर्यस्य चक्षुरारुहमित्यनुष्टुप्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय
तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके
चतुर्थोऽनुवाकः॥४॥
[अथ प्रथमकाण्डे द्वितीयप्रपाठके पञ्चमोऽनुवाकः]
चतुर्थेऽनुवाके क्रयप्रदेशं प्रति सोमक्रयणीगमनमुक्तम्। गतायां तस्यां क्रयाय सोमोन्मानस्यावसरः। सप्तमपदसंग्रहस्तु गमनमध्य एव कर्तव्यः। ततः पञ्चमे सोऽभिधीयते।
वस्व्यसीति। कल्पः- “तस्यै षट्पदान्यनुनिष्क्रामति वस्व्यसि रुद्राऽस्यदितिरस्यादित्याऽसि शुक्राऽसि चन्द्राऽसीति गच्छन्तीं सोमक्रयणीमनुगच्छन्षट्सु तदीयपदेषु षड्भिरेतैर्मन्त्रैः स्वपादं प्रक्षिपेत्” इति।
वसुरुद्रादित्याः सवनत्रयदेवताः। अदितिः प्रायणीयोदयनीययोर्देवता। शुक्रशब्देन दीप्तिमान्सोमो विवक्षितः। चन्द्रशब्देनाऽऽह्लादकारि सुवर्णम्। हे सोमक्रयणि त्वं वस्वादीनां स्वरूपमसि। तदपेक्षितसोमयागसाधनत्वात्।
बृहस्पतिरिति। कल्पः – “सप्तमं पदमञ्जलिना गृह्णाति बृहस्पतिस्त्वा सुम्ने रण्वतु रुद्रो वसुभिरा चिकेत्विति” इति।
हे सोमक्रयाणीपद त्वां बृहस्पतिरस्मिन्सुखप्रदेशे रमयतु वसुभिः सहितो रुद्रस्त्वामनुजानातु आवर्तयतु वा।
पृथिव्या इति। कल्पः — “अथैतस्मिन्पदे हिरण्यं निधाय संपरिस्तीर्याभिजुहोति पृथिव्यास्त्वा मूर्धन्ना जिघर्मि देवयजन इडायाः पदे घृतवति स्वाहेति” इति।
हे घृत त्वामिडायाः सोमक्रयण्याः पदे समन्तात्क्षारयामि। कीदृशे पदे। पृथिव्या मूर्धस्थानीये देवतानां यागस्थाने घृतयुक्ते। तथाऽन्यत्राऽम्नातम् ‘सा यत्र यत्र न्यक्रामत्ततो घृतमपीड्यत तस्माद्घृतपद्युच्यते” इति।
मन्त्रान्व्याख्यातुमादावनुष्ठानं विधत्ते —
‘षट्पदान्यनु नि क्रामति षडहं वाङ्नाति वदत्युत संवत्सरस्यायने यावत्येव वाक्तामवरुन्धे’ (सं. का. ६ प्र. १ अ. ८) इति।
आस्ति कश्चित्पृष्ठ्यः षडहाख्यो यागः। तत्र षड्विधानि स्तोत्राणि बृहद्रथंतरवैरूपवैराजशक्वररैवतनामकैः सामभिः साध्यानि। तानि च क्रमेण षट्सु दिनेषु गीयन्ते। न तु सप्तमं पृष्ठ्यस्तोत्रं किंचिदप्यस्ति। ततः प्रधानभूतपृष्ठ्यस्तोत्ररूपा वाग्देवता षडहगतां संख्यामतीत्य न क्वापि वदति। अपि च संवत्सरकालसंबन्धिनि गवामयनेऽपि नाधिकं पृष्ठ्यस्तोत्रं वदति। तस्माद्वाग्रूपायाः सोमक्रयण्याः षट्पदानामनुक्रमणं युक्तम्। तस्माद्वाग्रूपत्वादेव सर्वं वाचमवरुन्धे।
विधत्ते —
“सप्तमे पदे जुहोति सप्तपदा शक्वरी पशवः शक्वरी पशूनेवाव रुन्धे सप्त ग्राम्याः पशवः सप्ताऽऽरण्याः सप्त छन्दाँस्युभयस्यावरुद्ध्यै” (सं. का. ६ प्र. १ अ. ८) इति।
गवादयो ग्राम्याः। कृष्णमृगादय आरण्याः। तथा च बौधायनः – “सप्त ग्राम्याः पशवोऽजाश्वो गौर्महिषी वराहो हस्त्यश्वतरी चेत्यथ सप्ताऽऽरण्या द्विखुराश्चैकखुराश्च पक्षिणश्च सरीसृपाश्च श्वापदश्च शरभाश्च मर्कटाश्च” इति। गायत्री त्रिष्टुबित्यीदीनि सप्त छन्दांसि। पशुजातीयं छन्दोजातीयं चेत्युभयमपि सप्तसंख्ययाऽवरुध्यते।
प्रथममन्त्रगतशब्दस्वरूपेणैव सोमक्रयण्या महिमाऽऽख्यायत इत्याह —
“वस्व्यसि रुद्राऽसीत्याह रूपमेवास्या एतन्महिमानं व्याचष्टे” (सं. का. ६ प्र. १ अ. ८) इति।
द्वितीयमन्त्रे बृहस्पतिशब्दमा चिकेत्विति शब्दं व्याचष्टे —
“बृहस्पतिस्त्वा सुम्ने रण्वत्वित्याह ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै पशूनव रुन्धे रुद्रो वसुभिरा चिकेत्वित्याहाऽऽवृत्त्यै” (सं. का. ६ प्र. १ अ. ८) इति।
तृतीयमन्त्रार्थस्य प्रसिद्धिं दर्शयति-
“पृथिव्यास्त्वा मूर्धन्ना जिघर्मि देवयजन इत्याह पृथिव्या ह्येष मूर्धा यद्देवयजनमिडायाः पद इत्याहेडायै ह्येतत्पदं यत्सोमक्रयण्यै घृतवति स्वाहेत्याह यदेवास्यै पदाद्घृतमपीड्यत तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ८) इति।
सोमक्रयणीपदे हिरण्यप्रक्षेपं विधत्ते —
“यदध्वर्युरनग्नावाहुतिं जुहुयादन्धोऽध्वर्युः स्याद्रक्षाँसि यज्ञँ हन्युर्हिरण्यमुपास्य जुहोत्यग्निवत्येव जुहोति नान्धोऽध्वर्युर्भवति न यज्ञँ रक्षाँसि घ्नन्ति” (सं. का. ६ प्र. १ अ. ८) इति।
परिलिखितमिति। कल्पः — “अथोद्धृत्य हिरण्यशकलेन वा कृष्णविषाणया वा पदं परिलिखति परिलिखितँ रक्षः परिलिखिता अरातय इदमहँ रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपि कृन्तामीति” इति।
परिलिखितं नाशितं, रक्ष इति जात्यभिप्रायेणैकवचनम्। ग्रीवा इति व्यक्त्यभिप्रायेण बहुवचनम्। इदमिति हस्ताभिनयः। कृन्तामि च्छिनद्मि।
रक्षसः प्रसक्तिं पूर्वोक्तां स्मारयन्मन्त्रं व्याचष्टे –
“काण्डेकाण्डे वै क्रियमाणे यज्ञँ रक्षाँसि जिघाँसन्ति परिलिखितँ रक्षः परिलिखिता अरातय इत्याह रक्षसामपहत्या इदमहँ रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तयोरेवानन्तरायं ग्रीवाः कृन्तति” (सं. का. ६ प्र. १ अ. ८) इति।
अनन्तरायं द्वयोर्मध्य एकतरस्याप्यन्तरायो यथा न भवति तथेत्यर्थः।
अस्मे इति। कल्पः — “अस्मे राय इति स्थाल्यां यावत्त्मूतँसमोप्य त्वे राय इति यजमानाय प्रयच्छति तोते राय इति पत्नियै” इति।
त्मूतं घृतेनाऽऽप्लुतम्। तादृशं रजः सोमक्रयण्याः सप्तमपदस्थाने यावदस्ति तावत्सर्वं पात्रे क्षिपेत्। अस्मिन्नध्वर्यौ रायो रजोरूपं धनं तिष्ठतु त्वे त्वयि यजमाने। तोते कलत्रे।
अनुष्ठानविधिपुरःसरं मन्त्रान्व्याचष्टे —
“पशवो वै सोमक्रयण्यै पदं यावत्त्मूतँ सं वपति पशूनेवाव रुन्धेऽस्मे राय इति सं वपत्यात्मानमेवाध्वर्युः पशुभ्यो नान्तरेति त्वे राय इति यजमानाय प्र यच्छति यजमान एव रयिं दधाति तोते राय इति पत्निया अर्थो वा एष आत्मनो यत्पत्नी यथा गृहेषु निधत्ते तादृगेव तत्” (सं. का. ६ प्र. १ अ. ८) इति।
समिति। कल्पः – “अथ पत्नीं सोमक्रयण्या समीक्षयति सं देवि देव्योर्वश्या पश्यस्वेति” इति। हे देवि सोमक्रयणि त्वमूर्वश्या देव्या सहेमां पश्य। अयं मन्त्रः स्पष्टार्थत्वाद्ब्राह्मणेनोपेक्षितः।
त्वष्ठीमतीति। बौधायनः — “अथ पत्नी यजमानमीक्षते त्वष्टीमती ते सपेय सुरेता रेतो दधाना वीरं विदेय तव संदृशीति” इति।
आपस्तम्बः — “त्वष्टीमती ते सपेयेति पत्नी सोमक्रयणीमभिमन्त्रयते” इति।
हे यजमान त्वया सह सपेय संगच्छेय। अथवा हे सोमक्रयणि ते तवानुग्रहेणाहं पत्या संगच्छेय। कीदृशी। त्वष्टीमती, स्त्रीपुरुषमिथुनरूपाणां पशुमनुष्यादीनां शरीरनिर्माता त्वष्टा। तथा चाग्न्युपस्थानप्रकरणे श्रूयते — “यावच्छो वै रेतसः सिक्तस्य त्वष्टारूपाणि विकरोति तावच्छो वै तत्प्रजायते” इति। तादृशमेव पत्यू रेतो दधाना तव पत्युः सोमक्रयण्या वा संदृश्यभीक्ष्णं वीक्षणं वर्तमाना वीरं स्वोचितगुणेषु शूरं पुत्रं विदेय लभेय।
“त्वष्टीमती ते सपेयेत्याह त्वष्टा वै पशूनां मिथुनानाँ रूपकृद्रूपमेव पशुषु दधाति” (सं. का. ६ प्र. १ अ. ८) इति।
माऽहमिति। बौधायनः — “सोमक्रयणीमीक्षते माऽहँ लायस्पोषेण वि योषमिति” इति।
आपस्तम्बः – “माऽहँ रायस्पोषेण वि योषमिति पत्नीपदं प्रदीयमानमनुमन्त्रयते” इति।
वियोषं वियुक्तो मा भूवम्। अयं मन्त्रो ब्राह्मणेनोपेक्षितः।
एतस्य सोमक्रयणीपदरजसस्तृतीयं भागं गार्हपत्ये प्रक्षिपेत्, भागान्तरमाहवनीय इति विधत्ते —
“अस्मै वै लोकाय गार्हपत्य आ धीयतेऽमुष्मा आहवनीयो यद्गार्हपत्य उपवपेदस्मिल्ँ लोके पशुमान्त्स्याद्यदाहवनीयेऽमुष्मिल्ँ लोके पशुमान्त्स्यादुभयोरुप वपत्युभयोरेवैनं लोकयोः पशुमन्तं करोति” (सं. का. ६ प्र. १ अ. ८) इति।
अत्र सूत्रम् — “पदरजस्त्रेधा विभज्य तृतीयमुत्तरतो गार्हपत्यस्य शीते भस्मन्युपवपति तृतीयमाहवनीयस्य तृतीयं पत्न्यै प्रयच्छति तत्सा गृहेषु दधाति” इति।
अत्र विनियोगसंग्रहः —
“षट्पदानुक्रमा वस्वी बृहस्तत्पदसंग्रहः।
पृथिव्यास्तत्पदे हुत्वा परि संवेष्ट्य रेखया॥१॥
अस्मे स्थाल्यां पदं क्षिप्त्वा त्वे दद्यात्स्वामिने पदम्।
तोते पत्न्यै पदं दद्यात्सं क्रयण्या ह्यवेक्षयेत्॥२॥
त्वष्टी तां मन्त्रयेत्पत्नी माऽहं तद्दीयते यदा।
पदं तदा मन्त्रयेत मन्त्राः पञ्चदशेरिताः॥३॥” इति।
अथ मीमांसा।
चतुर्थाध्यायस्य प्रथमपादे चिन्तितम् —
“सोमक्रयण्यानयने पदकर्म प्रयोजकम्।
न वाऽऽद्योऽक्षाञ्जनस्यापि क्रयवत्संनिकर्षतः॥
तृतीयया क्रयार्था गौस्तद्द्वाराऽऽनयनस्य च।
तादर्थ्यात्तत्प्रयुक्तत्वं न प्रयोजकता पदे” इति।
ज्योतिष्टोमे सोमक्रय आम्नायते — “एकहायन्या क्रीणाति” इति। सेयमेकहायनी गौर्यदा सोमं क्रेतुं नीयते तदाऽध्वर्युस्तस्याः पृष्ठतो गच्छति। तदप्याम्नातम् — षद्पदान्यनुनिष्क्रामति” इति। ततः सप्तमे पदे हिरण्यं निधाय हुत्वा तत्पदगतं रजो गृह्णीयात्। एतदपि श्रूयते — “सप्तमपदमध्वर्युरञ्जलिना गृह्णाति” इति। यदेतद्रजः संगृह्यते हविर्धानयोः शकटयोरक्षे तेन रजसा युक्तमञ्जनं क्षिपेत्। एतदपि श्रुतम् — “यज्ञं वा एतत्संभरन्ति एतत्सोमक्रयण्यै पदं यज्ञमुखँ हविर्धाने यर्हि हविर्धाने प्राची प्रवर्तयेयुस्तर्हि तेनाक्षमुपाञ्ज्यात्” इति। तत्र यथा क्रयः संनिकृष्टस्तथैव पदकर्माप्यक्षाञ्जनं संनिकृष्टम्। अथोच्येत दध्यानयनमामिक्षया यथा संयुक्तं न तथाऽक्षाञ्जनं सोमक्रयण्यानयने संयुक्तमिति। तन्न। क्रयेपि पदसंयोगस्य तुल्यत्वात्। अथासंयुक्तोऽपि क्रयो गवानयनेन निष्पाद्येत तर्ह्याक्षाञ्जनमपि तेन निष्पाद्यत इति समानत्वात्क्रयवत्पदकर्मापि सोमक्रयण्यानयनस्य प्रयोजकमिति प्राप्ते ब्रूमः — एकहायन्या क्रीणातीति तृतीयाश्रुत्या गोः क्रयार्थत्वं गम्यते। गोद्वारा तदानयनमपि क्रयार्थमेवेति क्रय एवाऽऽनयने प्रयोजकः। न च पदकर्मार्थत्वं गोर्वा तदानयनस्य वा क्वचिच्छ्रुतं तस्मात्तदप्रयोजकम्। अस्मिन्ननुवाके सर्वाणि यजूंष्येवेति नात्र च्छन्द इति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके पञ्चमोऽनुवाकः ॥५॥
(अथ प्रथमकाण्डे द्वितीयप्रपाठके षष्ठोऽनुवाकः )।
पञ्चमेऽनुवाके सोमक्रयण्याः पदसंग्रहो मार्गमध्येऽभिहितः। अथाऽऽगतया सोमक्रयण्या सोमः क्रेतव्यः। स च सोमक्रय उन्मानपूर्वक इति षष्ठे सोमोन्मानमभिधीयते।
अँशुनेति। बौधायनः — “हिरण्यवता पाणिना राजानमभिमृशति ते अँशुः पृच्यतां परुषा परुर्गन्धस्ते काममवतु मदाय रसो अच्युतोऽमात्योऽसि शुक्रस्ते ग्रह इति” इति।
आपस्तम्बः — “अँशुना ते अँशुः पृच्यतामिति यजमानो राजनमभिमन्त्रयते” इति।
अँशु सूक्ष्मोऽवयवः। परुः पर्व। हे सोम तवैकेनांशुनाऽन्योंशुः संयुज्यतां, कोऽप्यंशुर्वाय्वाद्युपघातेन मा वियुज्यताम्। तथा परुषा परुः संयुज्यतां कस्यापि परुषो भागो मा भूत्। त्वदीयो गन्धो यजमानस्य कामं पालयतु। त्वदीयो रसो मदाय देवानां हर्षाय विनाशरहितो भवतु। त्वममात्योऽसि। यजमानेन देवताभिश्च सह सर्वदा तिष्ठसि। तव स्वीकारः शुक्रो हिरण्यसाध्यः।
एतं मन्त्रं व्याचिख्यासुरादौ सोमविक्रियणं प्रत्यध्वर्योः प्रैषमन्त्रमुत्पादयति — “ब्रह्मवादिनो वदन्ति। विचित्यः सोमा३ न विचित्या३ इति। सोमो वा ओषधीनाँ राजा तस्मिन्यदापन्नं ग्रसितमेवास्य तद्यद्विचिनुयाद्यथाऽऽस्याद्ग्रसितं निष्खिदति तादृगेव तद्यन्न विचिनुयाद्यथाऽक्षन्नापन्नं विधावति तादृगेव तत्क्षोधुकोऽध्वर्युः स्यात्क्षोधुको यजमानः सोमविक्रयिन्त्सोमँ शोधयेत्येव ब्रूयाद्यदीतरं यदीतरमुभयेनैव सौमविक्रयिणमर्पयति तस्मात्सोमविक्रयी क्षोधुकः” [सं. का. ६ प्र. १ अ. ९] इति।
विचयो नाम सोमस्य तृणादेरपनयनम्। तस्मिन्नोषधीनां राज्ञि सोमे यत्तृणादिकमापन्नं पतितं तत्तृणादिकमस्य सोमस्य ग्रसितमेव ग्रास एव भवति। तथा सति यदि विचिनुयात्तृणादिकमपनयेत्तदानीं यथा लोके ग्रसितमन्नं निष्खिदति मक्षिकाद्युपद्रवेण वमति तत्तृणाद्यपनयनं तादृक्स्यात्। यदि न विचिनुयात्तदानीं यथा चक्षुषि पतितमितस्ततो विधावनेन व्यथां जनयति तदविवेचनं तादृक्स्यात्। ततो दोषद्वयपरिहाराय सोमविक्रयिन्नित्यादिप्रैषमन्त्रं ब्रूयात्। तस्मिन्नुक्ते सति यदीतरमितरो विचयदोषः, यदीतरं त्वविचयदोषस्तेनोभयेन दोषेण सोमविक्रयिणमेव योजयति। तस्मादसौ क्षोधुको न रक्षितो भवेत्।
अत्र सूत्रम् — “उत्तरवेदिदेश उपरवदेशे वा रोहितं चर्माऽऽनडुहं प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य दक्षिणे चर्मपक्षे राजानं निवपत्युत्तरस्मिन्नुपविशति सोमविक्रय्युदकुम्भँ राजानं सोमविक्रयिणमिति सर्वतः परिश्चित्योत्तरेण द्वारं कृत्वा
विचित्यः सोमा३ इत्युक्तं सोमविक्रयिन्सोमँ शोधयेत्युक्त्वा पराङावर्तते” इति।
यथोक्तं कर्म विधत्ते —
“अरुणो ह स्माऽऽहौपवेशिः सोमक्रयण एवाहं तृतीयसवनमव रुन्ध इति पशूनां चर्मन्मिमीते पशुनेवाव रुन्धे पशवो हि तृतीयँ सवनम्” (सं. का. ६ प्र. १ अ. ९) इति।
अरुणनामकः कश्चिदुपवेशस्य पुत्रः पशुचर्मणि सोम मिमीते। अत्रैव हि तृतीयसवनं संपदयिष्यामिति तस्याभिप्रायः। सवनीयानुबन्ध्याख्ययोः पश्वोस्तृतीयसवने सद्भावात्पशवस्तृतीयसवम्। अतः पशुचर्मणा तत्प्राप्तिः सोमोन्मानं तत्र कुर्यादित्यर्थः।
चर्मण उत्तरलोमास्तरणं विधत्ते —
“यं कामयेतापशुः स्यादित्यृक्षतस्तस्य मिमीतर्क्षं वा अपशव्यमपशुरेव भवति यं कामयेत पशुमान्त्स्यादिति लोमतस्तस्य मिमीतैतद्वै पशूनाँ रूपँ रूपेणैवास्मै पशूनव रुन्धे पशुमानेव भवति” (सं. का. ६ प्र. १ अ. ९) इति।
ऋक्षतो रूक्षे परुषे निर्लोमभागे। लोमतः सलोमभागे।
उदकुम्भसंनिधिं विधत्ते —
“अपामन्ते क्रीणाति सरसमेवैनं क्रीणाति” (सं. का. ६ प्र. १ अ. ९) इति।
मन्त्रे दुर्बोधभागं व्याचष्टे —
“अमात्योऽसीत्याहामैवैनं कुरुते शुक्रस्ते ग्रह इत्याह शुक्रो ह्यस्य ग्रहः” (सं. का. ६ प्र. १ अ. ९) इति।
अमैव सहैव स्थित इत्यर्थः सोमस्वीकारः शुक्रो हि सुवर्णसाध्यो हीत्यर्थः। शकटेन सह सोमं प्राप्तुं गच्छेदिति विधत्ते —
“अनसाऽच्छ याति महिमानमेवास्याच्छ याति” (सं. का. ६ प्र. १ अ. ९) इति।
शकटरूपेण बहुमानेन सोमस्य महिमा प्रकाशितो भवति।
तमेव विधिमनूद्य प्रशंसति —
“अनसाऽच्छ याति तस्मादनोवाह्यँ समे जीवनम्” (सं. का. ६ प्र. १ अ. ९) इति।
समे प्रदेशे जीवनसाधनं धान्यं शकटवाह्यं तद्वत्सोमः।
विषमे तु प्रदेशे शिरसा सोमवाहनं विधत्ते —
“यत्र खलु वा एतँ शीर्ष्णा हरन्ति तस्माच्छीर्षहार्यं गिरौ जीवनम्” (सं. का. ६ प्र. १ अ. ९) इति।
यत्र यदा पर्वते सोमलतोत्पत्तिप्रदेशे सोमं क्रीणन्ति तदेति शेषः। लोकेऽपि दुर्गमे गिरौ धान्यं शिरसा वहन्ति।
अत्र सूत्रम् — “उद्धृतपूर्वफलकेनानसा परिश्रितेन च्छदिष्मता प्राञ्चः सोममच्छ यान्ति शीर्ष्णा गिरौ क्रीतं हरन्ति अपरेणोत्तरेण वा राजानं प्रागीषमुदगीषं वा नद्धयुगँ शकटं चु(चि)बुकप्रतिष्ठितम्” इति।
तस्मिञ्शकटे पूर्वस्थापितं मध्यमफलकमुद्धृत्य नूतनं फलकं स्थापनीयम्। अथवोद्धृतमुन्नतं पूर्वफलकरूपं मुखं यस्य शकटस्य तदुद्धृतपूर्वफलकम्। परिश्रयः शकटस्योपरि गृहकुड्यवत्परितो वेष्टनम्। छदिरुपरितनमाच्छादनम्।
अभि त्यमिति। बौधायनः — “अथैनमतिच्छन्दसर्चा मिमीत एकयैकयोत्सर्गं मिमीतेऽयातयाम्नियायातयाम्नियैवैनं मिमीते तस्मान्नानावीर्या अङ्गुलयः सर्वास्वङ्गुष्ठमुपनिगृह्णाति अभि त्यं देवँ सवितारमूण्योः कविक्रतुमर्चामि सत्यसवँ रत्नधामभि प्रियं मतिमूर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा सुवरिति पञ्चकृत्वो यजुषा मिमीते पञ्चकृत्वस्तूष्णीम्” इति।
आपस्तम्बः — “क्षौमं वासो द्विगुणं क्रिगुणं वा प्राग्दशमुत्तरदशं चर्मण्यास्तृणात्युदग्दशं वा तस्मिन्हिरण्यपाणिरङ्गुष्ठेन कनिष्ठिकया चाङ्गुल्यांऽशून्संगृह्यन्यचन्नभि त्यं देवँ सवितारमित्यतिच्छन्दसर्चा मिमीते” इति।
तं देवमभ्यर्चामि। कीदृशम्। ऊण्योर्द्यावापृथिवीरूपयोर्हस्तयोः सवितारं प्रेरकं, कवीनां वेदार्थविदां क्रतुर्यागो यस्य प्रेरकस्य सोऽयं कविक्रतुः। अत एव सत्यः फलपर्यवसायी सवः प्रेरणं यस्यासौ सत्यसवाः। रत्नानि दधातीति रत्नधाः। आभिमुख्येन सर्वेषां प्रियः। मतिः सर्वैर्मन्तव्यः। तादृशं देवमर्चामि यस्य सवितुरूर्ध्वलोकवर्तिनी दीप्तिरमतिर्मन्तुमशक्या द्योतते प्रकाशते। स्वर्गवर्ती स देवः कृपया मां समागत्य हिरण्यपाणिः सोमं मिमीताम्।
एतस्यामृचि वर्तमानं छन्दः प्रशंसति —
“अभित्यं देवँ सवितारमित्यतिच्छन्दसर्चा मिमीतेऽतिच्छन्दा वै सर्वाणि छन्दाँसि सर्वेभिरेवैनं छन्दोभिर्मिमीते वर्ष्म वा एषा छन्दसां यदतिच्छन्दा यदतिच्छन्दसर्चा मिमीते वर्ष्मैवैनँ समानानां करोति” (सं. का. ६ प्र. १ अ. ९) इति।
अक्षराधिक्येन गायत्र्यादीनि च्छन्दांस्यतिक्रम्य वर्तत इत्यतिच्छन्दाः वर्ष्म शरीरम्।
अङ्गुलीषु प्रकारविशेर्ष विधत्ते —
“एकयैकयोत्सर्गं मिमीतेऽयातयाम्नियायातयाम्नियैवैनं मिमीते तस्मान्नानावीर्या अङ्गुलयः” [सं. का. ६ प्र. १ अ. ९] इति।
उत्सर्गमुत्सृज्योत्सृज्य कनिष्ठिकैव प्रथमपर्यायेऽनामिकैव द्वितीये मध्यमैव तृतीये तर्जन्येव चतुर्थे। एवं सति सकृत्प्रवृत्ताया अङ्गुल्याः पुनः प्रवृत्त्यभावाद्यातयामत्वं गतरसत्वं न भविष्यति। यस्मात्पर्यायेण प्रवृत्तास्तस्मात्प्रत्येकमङ्गुष्ठेन संयोक्तुं पृथक्सामर्थ्येऽर्पिताः।
अङ्गुष्ठस्य पर्यायो नास्तीत्यमुमर्थं विधत्ते —
“सर्वास्वङ्गुष्ठमुप निगृह्णाति तस्मात्समावद्वीर्योऽन्याभिरङ्गुलिभिस्तस्मात्सर्वा अनु सं चरति” (सं. का. ६ प्र. १ अ. ९) इति।
कनिष्ठिकादिषु सर्वास्वङ्गुलीषु प्रत्येकमङ्गुष्ठं संयोजयेत्। समावद्वीर्यस्तुल्यसामार्थ्यः। तस्माल्लोकव्यवहारेऽपि प्रत्येकं सर्वा अङ्गुलीरनुसंचरति।
विपक्षबाधकपूर्वकं पूर्वोक्तं स्वपक्षमुपसंहरति —
“यत्सह सर्वाभिर्मिमीत सँश्लिष्टा अङ्गुलयो जायेरन्नेकयैकयोत्सर्गं मिमीते तस्माद्विभक्ता जायन्ते” (सं. का. ६ प्र. १ अ. ९) इति।
समन्त्रकामन्त्रकयोः सोमोन्मानयोरावृत्तिसंख्यां विधत्ते —
“पञ्च कृत्वो यजुषा मिमीते पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे पञ्च कृत्वस्तूष्णीं दश सं पद्यन्ते दशाक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव रुन्धे यद्यजुषा मिमीते भूतमेवाव रुन्धे यत्तूष्णीं भविष्यत्” (सं. का. ६ प्र. १ अ. ९) इति।
यद्यपि अतिच्छन्दसर्चेत्याम्नानात्पदार्थरूपस्य लक्षणस्य सद्भावाच्चाभित्यमित्येषर्गेव तथाऽपि युज्यते प्रयुज्यत इति व्युत्पत्तिमभिप्रेत्य यजुषेत्युक्तम्। अङ्गुष्ठस्य क्रमेण कनिष्ठिकादिभिः सह चत्वारः पर्यायाः। समन्त्रके प्रयोगे
कनिष्ठिकाव्यतिरिक्तया कयाचित्सह पञ्चमः पर्यायः अमन्त्रके तु कनिष्ठिकयैव सह।
तथा च सूत्रम्। “यया प्रथमं न तया पञ्चमं तयैवोत्तमम्” इति।
विराट्च्छन्दसोऽन्नप्रदत्वादन्नत्वम्। समन्त्रकामन्त्रकयोः प्रयोगयोः पूर्वोत्तरभावसाम्येन भूतभविष्यद्वस्तुप्राप्तिः।
प्रजाभ्य इति। कल्पः — “अथातिशिष्टं राजानं प्रजाभ्यस्त्वेत्युपसमूहति समुच्चित्य वसनस्यान्तान्प्रदक्षिणमुष्णीषेणोपनह्यति प्राणाय त्वेति व्यानाय त्वेत्यनुशृन्थति अथोपरिष्टादङ्गुल्यावकाशं शिष्ट्वा यजमानमीक्षयति प्रजाभ्यस्त्वा प्राणाय त्वा व्यानाय त्वा प्रजास्त्वमनु प्राणिहि प्रजास्त्वामनु प्राणन्त्विति” इति।
हे सोमाशेषप्रजार्थं त्वां समूहामि प्राणार्थं त्वामुपनह्यामि व्यानार्थं त्वां विस्रंसयामि। प्राणतीः प्रजा अनु त्वं प्राणिहि। प्राणन्तं त्वामनु प्रजाः प्राणन्तु।
अवशेषणे बाधं ब्रुवन्यथोक्तं समूहनादिकं विधत्ते —
“यद्वै तावानेव सोमः स्याद्यावन्तं मिमीते यजमानस्यैव स्यान्नापि सदस्यानां प्रजाभ्यस्त्वेत्युप समूहति सदस्यानेवान्वाभजति वाससोप नह्यति सर्वदेवत्यं वै वासः सर्वाभिरेवैनं देवताभिः समर्थयति पशवो वै सोमः प्राणाय त्वेत्युपनह्यति प्राणमेव पशुषु दधाति व्यानाय त्वेत्यनु शृन्थति व्यानमेव पशुषु दधाति तस्मात्स्वपन्तं प्राणा न जहति” (सं. का. ६ प्र. १ अ. ९) इति।
दशकृत्वोङ्गुलिभिर्मितात्सोमस्यानाधिक्ये सत्येतस्मिन्सदस्यवस्थितानामपि सोमो न स्यान्मन्त्रेण समूहने तु यजमानमनु सदस्यान्सोमं प्रापयति। प्राणव्यानयोः पशुषु स्थापितत्वात्स्वापेऽपि नास्ति प्राणपरित्यागः।
अत्र विनियोगसंग्रहः —
“अंशु सोमं मन्त्रयेताभि त्यं क्रेतुं मिमीत तम्।
प्रजा समुह्य तच्छेषं प्राणायेत्येष बध्यते।
व्या विस्रस्य प्रजेक्षेत षण्मन्त्रा इह वर्णिताः॥१॥” इति।
अस्मिन्ननुवाके संदिग्धार्थोदाहरणाभावन्नात्र विशेषेण किंचिदपि मीमांस्यते। सामान्यविचारास्तु पूर्वोक्ता यथायोगमनुसंधेयाः। छन्दस्तु श्रुतावेवातिच्छन्दसर्चेति स्पष्टमुदाहृतम्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके षष्ठोऽनुवाकः ॥६॥
(अथ प्रथमकाण्डे द्वितीयप्रपाठके सप्तमोऽनुवाकः )।
षष्ठेऽनुवाके क्रयाय सोमस्योन्मानमुक्तम्। सप्तमे लब्धावसरः क्रयोऽभिधीयते। सोममिति। बौधायनः — ‘अथैनं स हिरण्येन पणते सोमं ते क्रीणाम्यूर्जस्वन्तं पयस्वन्तं वीर्यावन्तमभिमातिषाहँ शुक्रं ते शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतममृतेन सम्यत्ते गोरिति’ इति।
आपस्तम्बो मन्त्रभेदमाह — ‘सोमविक्रयिणे राजानं प्रदाय पणते सोमविक्रयिन्क्रय्यस्ते सोमा३ इति क्रय्य इतीतरः प्रत्याह सोमं ते क्रीणाम्यूर्जस्वन्तमित्युक्त्वा कलया ते क्रीणानीत्येवमाह भूयो वा अतः सोमो राजाऽर्हतीति सर्वेषु पणनेषु सोमविक्रयी प्रत्याहा संपदो गवा ते क्रीणानीत्यन्ततः शुक्रं ते शुक्रेण क्रीणामीति जपित्वा हिरण्येन क्रीणाति’ इति।
हे सोमविक्रयिन्नहं त्वदीयं सोमं क्रीणामि। कीदृशम्। ऊर्जस्वन्तं शारीरबलप्रदं, पयस्वन्तं प्रभूतरसोपेतं, वीर्यावन्तमिन्द्रियपाटवहेतुम्। अमिमातिषाहं पापरूपस्य वैरिणो हन्तारम्। शुक्रचन्द्रामृतशब्दैरभिधेयास्तेजःसुखाविनाशास्त्वदीयसोमेऽस्म-दीयहिरण्ये च समाः। अतो हिरण्येन सोमं क्रीणामि। न केवलं हिरण्यं तुभ्यं दीयते किंतु समीचीनं गोरेकहायनीस्वरूपमपि पूर्वं दत्तं तस्मात्तव हिरण्यलाभोऽधिकः।
अस्मे इति। कल्पः — “अस्मे चन्द्राणीति सोमविक्रयिणो हिरण्यमपादत्ते” इति।
अस्मास्वेव हिरण्यानि चन्द्राणि तिष्ठन्तु। बहुवचनं व्यत्ययेन द्रष्टव्यम्।
तपस इति। बौधायनः — ‘अथैनं प्राचीनग्रीवयाऽजया पणते तपसस्तनूरसि प्रजापतेर्वर्णस्तस्यास्ते सहस्रपोषं पुष्यन्त्याश्चरमेण पशुना क्रीणामीति अस्मे ते बन्धुरिति यजमानमीक्षते मयि ते रायः श्रयन्तामित्यात्मानम्’ इति।
अपस्तम्बस्त्वेकमन्त्रतामाह – ‘तपसस्तनूरसीति जपित्वाऽजया क्रीणामि’ इति। हेऽजे त्वं तपसः पुण्यस्य शरीरमसि। यज्ञनिष्पादकस्य सोमस्य द्युलोके त्वयैवावरुद्धत्वात्। वर्ण्यत इति वर्णो देहः प्रजापतेर्वर्णोऽसि। प्रजापतिवत्सर्वदेवात्मकत्वात्। तच्चौपानुवाक्यकाण्ड आम्नातम् — ‘सा वा एषा सर्वदेवत्या यदजा’ इति। किंच त्वमपत्यपरम्परया सहस्रसंख्यातं पुष्यसि। तादृश्यास्तव संबन्धिना चरमेण सहस्रतमेन पशुना सोमं क्रीणामि न तु त्वया। अहं तव बन्धुस्त्वत्संपादितस्य सोमस्य कर्मणि प्रवृत्तत्वान्मयि त्वदीयान्यपत्यरूपाणि धनान्यवतिष्ठन्ताम्।
मन्त्रान्व्याचिख्यासुरादावनभिमतं निराकृत्य स्वाभिमतं पणनमन्त्रमुत्पाद्य विनियुङ्क्ते —
‘यत्कलया ते शफेन ते क्रीणानीति पणेतागोअर्घँ सोमं कुर्यादगोअर्घं यजमानमगो अर्घमध्वर्युं गोस्तु महिमानं नाव तिरेद्गवा ते क्रीणानीत्येव ब्रूया-
द्गोअर्घमेव सोमं करोति गोअर्घं यजमानं गोअर्घमध्वर्युं न गोर्महिमानमव तिरति” [सं. का. ६ प्र. १ अ.१०] इति।
कलाऽल्पादप्यल्पो यः गोऽप्यवयवलेशः। कलया शफेन वा पणने दोषत्रयं स्यात्। सोमो गोरूपं मूल्यं नार्हति। यजमानस्तद्दातुं न शक्नोति। अध्वर्युश्च न दापयतीत्येवं सोमयजमानाध्वर्यवो गोअर्घरहिता इति दोषत्रयम्। किंच सोमो गोमूल्य इत्युक्ते गोर्महिमाऽधिको भवेत्। तं नावजानीयात्। परमते त्वसाववज्ञातो भवेत्। गवा ते क्रीणानीत्यनेन मन्त्रेण सर्वं समाहितं भवति।
यथेयं सोमक्रयणी गौस्तथैवाजादीनि नव द्रव्याणि क्रयसाधनाति क्रमेण विधत्ते —
“अजया क्रीणाति सतपसमेवैनं क्रीणाति हिरण्येन क्रीणाति सशुक्रमेवैनं क्रीणाति धेन्वा क्रीणाति वह्निर्वा अनड्वान्वह्निनैव वह्निं यज्ञस्य क्रीणाति मिथुनाभ्यां क्रीणाति मिथुनस्यावरुद्ध्यै वाससा क्रीणाति सर्वदेवत्यं वै वासः सर्वाभ्य एवैनं देवताभ्यः क्रीणाति दश संपद्यन्ते दक्षाक्षरा विराडन्नं विराड्विराजैवान्नद्यमव रुन्धे” (सं. का. ६ प्र. १ अ.१०) इति।
तपसस्तनूरसीत्युक्तत्वादजया क्रीतस्य सोमस्य सतपस्त्वम्। एवमुत्तरत्रापि योज्यम्। साशिरं दध्यादिगोरसोपेतं, सेन्द्रमिन्द्रियवर्धकं, वह्निर्वाहकः, यज्ञस्य वह्निं यज्ञनिर्वाहकं सोमम्। मिथुनाभ्यां वत्सतरो वत्सतरी चेत्येताभ्यां मिथुनावयवाभ्यां धेनोः सवत्साया विवक्षितत्वाद्दशद्रव्यसंपत्तिः।
मन्त्रत्रयं स्पष्टार्थत्वबुद्ध्योपेक्ष्य चतुर्थमन्त्रस्याभिप्रायमाह —
“तपसस्तनूरसि प्रजापतेर्वर्ण इत्याह पशुभ्य एव तदध्वर्युर्निह्नुत आत्मनोऽनाव्रस्काय” (सं. का. ६ प्र. १ अ.१०) इति।
तत्तेन मन्त्रपाठेन पशुभ्योऽजाप्रभृतीन्निह्नुतेऽपलपति। न ह्यजा परमार्थतस्तपसस्तनूर्भवति, नापि प्रजापतेर्वर्णर्णो रूपम्। तेनापलापेनाजोपचरिता भवति। स चोपचारः स्वस्यापराधराहित्याय क्रियते।
पशूपचारवेदनं प्रशंसति –
‘गच्छति श्रियं प्र पशूनाप्नोति य एवं वेद” (सं. का. ६ प्र. १ अ.१०) इति।
दत्तस्य हिरण्यस्य पुनरादानं विधित्सुर्हिरण्यप्रकाशकं द्वितीयमन्त्रं स्पष्टार्थमपि पुनरनुसंधत्ते —
“शुक्रं ते शुक्रेण क्रीणामीत्याह यथायदुरेवैतत्” (सं. का. ६ प्र. १ अ. ५) इति।
पुनरादानं विधत्ते —
“देवा वै येन हिरण्येन सोममक्रीणन्तदभीषहा पुनराऽददत को हि तेजसा विक्रेष्यत इति येन हिरण्येन सोमं क्रीणीयत्तदभीषहा पुनरा ददीत तेज एवाऽऽत्मन्धत्ते” (सं. का. ६ प्र. १ अ. ११) इति।
अभीषहा बलात्कारेण। को हीत्यादिर्तेवाभिप्रायः।
अस्मे इति। कल्पः – “अस्मे ज्योतिरिति शुक्लामूर्णास्तुकां यजमानाय प्रयच्छति तां काले दशापवित्रस्य नाभिं कुरुते” इति।
अविलोमभिर्निर्मिततन्तुरूर्णास्तुका। स च शुक्ला ज्योतिःस्वरूपा। तज्ज्योतिरस्मास्ववतिष्ठताम्।
सोमविक्रेति। कल्पः — “कृष्णामूर्णास्तुकामद्भिः क्लेदयित्वेदमहँ सर्पाणां दन्दशूकानां ग्रीवा उपग्रथ्नामीत्युपग्रथ्य सोमविक्रयिणं विध्यति सोमविक्रयिणि तम इति” इति।
मन्त्रद्वयं व्याचष्टे –
अस्मे ज्योतिः सोमविक्रयिणि तम इत्याह ज्योतिरेव यजमाने दधाति तमसा सोमविक्रयिणमर्पयति” (सं. का. ६ प्र. १ अ. १०) इति।
विपक्षे बाधपुरःसरं ग्रथनमन्त्रमुत्पादयति —
“यदनुपग्रथ्य हन्याद्दन्दशूकास्ताँ सर्पाँ स्युरिदपहँ सर्पाणां दन्दशूकानां ग्रीवा उप ग्रथ्नामीत्याहादन्दशूकास्ताँ समाँ सर्पा भवन्ति तमसा सोमविक्रयिणं विध्यति” (सं. का. ६ प्र. १ अ. ५) इति।
कृष्णया विध्येत्। तां समां तं संवत्सरं कृत्स्नम्। इदमहमित्यादिमन्त्रेण सर्पदंशस्य परिहारः। मित्र इति। कल्पः — “कौत्साद्राजानमादत्ते मित्रो न एहि सुमित्रधा इति तं यजमानस्योरौ दक्षिणत आसादयति। इन्द्रस्योरुमाविश दक्षिणमुशन्नुशन्तँ स्योनः स्योनमिति” इति।
शोभनं मित्रं सोमरूपं यस्य यजमानस्य स यजमानः सुमित्रस्तं दधाति पोषयतीति सुमित्रधाः। हे सोम सुमित्रधास्त्वमस्माकं मित्रः प्रियो भूत्वा समागच्छ। हे सोम, इन्द्रस्य यजमानस्य दक्षिणमूरुमाविश। कीदृशम्, उशन्तं कामयमानं स्योनं सुखकरम्। त्वमपि तादृशः।
स्वानेति। कल्पः — “अथ सोमक्रयणाननुदिशति स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान्रक्षध्वं मा वो दभन्निति” इति।
स्वानादयः सोमरक्षकाः। सोमः क्रीयते यैर्गवादिभिस्ते सोमक्रयणाः हे स्वानादयस्तान्सोमक्रयणान्पालयत। केऽपि वैरिणो युष्मान्मा हिंसिषत। अत्र मूल्यभूतान्सोमक्रयणाननुदिश्य पश्चात्सोमस्वीकारो युक्तः। अतोऽर्थक्रमेण मित्रो नः, इन्द्रस्योरुमिति मन्त्रद्वयमुषरिष्टाद्व्याख्यास्यते।
इमं मन्त्रं व्याचष्टे —
“स्वान भ्राजेत्याहैते वा अमुष्मिल्ँ लोके सोममरक्षन्तेभ्योऽधि सोममाऽहरन्” (सं. का. ६ प्र. १ अ. १०) इति।
अधि अधिकं प्रभूतम्।
विपक्षस्वपक्षयोर्दोषतत्समव[मा]धाने दर्शयति —
“यदेतेभ्यः सोमक्रयणान्नानुदिशेदक्रीतोऽस्य सोमः स्यान्नास्यैतेऽमुष्मिल्ँ लोके सोमँ रक्षेयुर्यदेतेभ्यः सोमक्रयणाननुदिशति क्रीतोऽस्य सोमो भवत्येतेऽस्यामुष्मिल्ँ लोके सोमँ रक्षन्ति” (सं. का. ६ प्र. १ अ. १०) इति।
सोमं सोमयागफलम्।
अथ सोमस्वीकारस्य प्राप्तावसरत्वान्मन्त्रं व्याचष्टे —
“वारुणो वै क्रीतः सोम उपनद्धो मित्रो न एहि सुमित्रधा इत्याह शान्त्यै” (सं. का. ६ प्र. १ अ. ११) इति।
बन्धनस्य वरुणपाशरूपत्वात्तद्युक्तः सोमो वारुणः अतो वरुणावक्त्रूरत्वप्राप्तौ तच्छान्तये मित्रत्वं प्रतिपादयति।
ऊरुस्थानं पूर्वाचारप्राप्तमित्याह —
“इन्द्रस्योरुमा विश दक्षिणमित्याह देवा वै यँ सोममक्रीणन्तमिन्द्रस्योरौ दक्षिण आऽसादयन्नेष खलु वा एतर्हीन्द्रो यो यजते तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ११) इति।
अत्र विनियोगसंग्रहः —
“सोमं जपेत्क्रयात्पूर्वं शक्रं स्वर्णेन तत्क्रये।
अस्मे स्वर्णमपादत्ते तप जप्यं क्रयेऽजया॥१॥
अस्मे ज्यो स्वामिने दद्याच्छुक्लामूर्णास्तुकामथ।
सोम विध्येत्कृष्णयोर्णास्तुकया क्रयकारिणम्॥२॥
मित्रः सोममुपादायेन्द्रस्योरावुपवेशयेत्।
स्वान मूल्याननुदिशेदिमे मन्त्रा नवोदिताः॥३॥” इति।
अथ मीमांसा।
द्वादशाध्यायस्य चतुर्थपादे चिन्ततम् –
“क्रयणेषु विकल्पः स्यात्साहित्यं वाऽग्रिमो यतः।
कार्यैक्यमानतेर्लाभाद्दशोक्तेश्च समुच्चयः” इति।
अजया क्रीणाति हिरण्येन क्रीणाति वाससा क्रीणातीत्यादीनि बहूनि सोमक्रयसाधानद्रव्याण्याम्नातानि। तेषां कार्यैक्याद्विकल्प इति चेन्मैवम्। बहुभिर्द्रव्यैर्विक्रेतुरानतेः सौलभ्यात्, दशभिः क्रीणातीति संख्योक्तेश्च समु़च्चयः।
अत्र सर्वाणि यजूंषि॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके सप्तमोऽनुवाकः ॥७॥
(अथ प्रथमाष्टके द्वितीयप्रपाठकेऽष्टमोऽनुवाकः)
सप्तमेऽनुवाके सोमक्रयणमभिहितम्। अथ क्रीतं सोमं प्राचीनवंशे नेतुमष्टमे शकटारोपणं सोमस्योच्यते।
उदायुषेति कल्पः – ‘अथैनमादायोपोत्तिष्ठति उदायुषा स्वायुषोदोषधीनाँ रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताँ अन्विति’ इति।
अमृतान्देवाननुलक्ष्याऽऽयुरादिविशेषणविशिष्टेन सोमेन सहोदस्थामुत्तिष्ठामीति। जीवनमायुः। तत्रापि रोगाद्युपद्रवरहितं स्वायुः। तदुभयप्रदत्वात्सोमस्य तदुभयरूपत्वम्। ओषधीनां पर्जन्यस्य च सोमः सार इतरौषधिवद्भूमिविशेषे जायमानत्वाद्वृष्ट्या वर्धमानत्वाच्च। चतुर्भिर्विशेषणैः पृथक्क्रियापदमन्वेतुं चत्वार उच्छब्दाः।
अमृतशब्दानुशब्दयोरर्थमाह —
‘उदायुषा स्वायुषेत्याह देवता एवान्वारभ्योत्तिष्ठति’ (सं. का. ६ प्र. १ अ. ११) इति।
उर्विति। कल्पः — ‘उर्वन्तरिक्षमन्विहीति शकटायाभिप्रव्रजति’ इति।
उत्थापनमारभ्य पुनर्भूमौ स्थापनपर्यन्तं सोमोऽन्तरिक्षाधार इत्यभिप्रायं दर्शयति —
‘उर्वन्तरिक्षमन्विहीत्याहान्तरिक्षदेवत्यो ह्येतर्हि सोमः’ (सं. का. ६ प्र. १ अ. ११) इति।
अदित्या इति। बौधायनः – ‘तस्य च्छिद्रे कृष्णाजिनमास्तृणात्यदित्याः सदोऽसीति, अदित्याः सद आसीदेति कृष्णाजिने राजानमथैनमुपतिष्ठतेऽस्तभ्नाद्द्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या आऽसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानीति’ इति।
आपस्तम्बो द्वितीयतृतीयमन्त्रावेकी चकार। हे कृष्णाजिन त्वमिदित्या भूमेः सदः स्थानमसि। हे सोम तस्या सदः प्राप्नुहि। ऋषभः श्रेष्ठोऽयं सोमो यथा द्युलोको न पतति तथा स्तम्भनं संचस्कार। अन्तरिक्षमेतावदित्यमिमति पृथिव्या वरिमाणं गुरुत्वं चामिमीत। स सोमदेवः स्वमहिम्ना सम्यग्राजमानो विश्वानि भुवनानि आसीदद्व्याप्तवान्। विश्वेत्ताति सर्वाण्येवोक्तानि कर्माणि सर्वावरकत्वेन वरुणनाम्नः सोमस्य व्रतानि व्रतवन्नियतानि।
प्रथमद्वितीयमन्त्रयोः स्पष्टार्थतां दर्शयति —
“अदित्याः सदोऽस्यदित्याः सद आ सीदेत्याह यथायजुरेवैतत्” (सं. का. ६ प्र. १ अ. ११) इति।
द्वितीयमन्त्रसाध्यं यदासादनं तदेव तृतीयमन्त्रेणापि कर्तव्यमित्यमुमर्थं हेतूपन्यासपुरःसरं विधत्ते —
“वि वा एनमेतदर्धयति यद्वारुणँ सन्तं मैत्रं करोति वारुण्यर्चाऽऽसादयति स्वयैवैनं देवतया समर्धयति” (सं. का. ६ प्र. १ अ. ११) इति।
उपनद्धः सोमो वरुणो यद्विषये मित्रो न एहीति मन्त्रं पठन्मैत्रं करोतीति यदस्ति एतैनैनं सोमं व्यर्धयति समृद्धिहीनं करोति, वारुण्यर्चा तु समर्धयति।
वनेष्विति। कल्पः — “अथैनं वाससा परितनोति वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पयो अघ्नियासु हृत्सु क्रतुं वरुणो विक्ष्वग्निं दिवि सूर्यमदधात्सोममद्राविति” इति।
विततानेति प्रतिवाक्यमन्वेति। वरुणनामकः सोमदेवो जगदीश्वरेणाभिन्नः सर्वं निर्ममे। तत्किं वनेषु वृक्षमध्येषु अन्तरिक्षमवकाशं विततान। अर्वत्सु वाजिषु वाजं वेगं गतिविशेषं, पयो गोषु, हृदयेषु वित्तेषु क्रतुं संकल्पं, विक्षु प्रजासु जठराग्निं, द्युलोके सूर्यं, पर्वते सोमवल्लीमदधादस्थापयत्।
अनेन मन्त्रेण कर्तव्यं विधत्ते —
“वाससा पर्यानह्यति सर्वदेवत्यं वै वासः सर्वाभिरेवैनं देवताभिः समर्धयत्यथो रक्षसामपहत्यै” (सं. का. ६ प्र. १ अ. ११) इति।
मन्त्रार्थो लोकप्रसिद्ध इत्याह —
“वनेषु व्यान्तरिक्षं ततानेत्याह वनेषु हि व्यन्तरिक्षं ततान वाजमर्वत्स्वित्याह वाजँ ह्यर्वत्सु पयो अघ्नियास्वित्याह पयो ह्यघ्नियासु हृत्सु क्रतुमित्याह हृत्सु हि क्रतुं वरुणो विक्ष्वग्निमित्याह वरुणो हि विक्ष्वग्निं दिवि सूर्यमित्याह दिवि हि सूर्यँ सोममद्रावित्याह ग्रावाणो वा अद्रयस्तेषु वा एष सोमं दधाति यो यजते तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ११) इति।
अद्रिशब्देनात्र पाषाणबहुलो गिरिर्विवक्षितः। पाषाणसंधिषु सोमस्योत्पत्तेः। यजमानस्तेषु सोमं प्राप्नोति।
कल्पः — “उदु त्यं जातवेदसमिति सौर्यर्चा कृष्णाजिनं प्रत्यानह्यत्युर्ध्वग्रीवं बहिष्ठाद्विशसनम्” इति।
स च मन्त्र एवं पठ्यते —
उदु त्यमिति। केतवो रश्मयस्त्यं तं परोक्ष जातवेदसमुत्पन्नस्य सर्वस्य जगतो वेत्तारं सूर्यं देवमुद्वहन्ति ऊर्ध्वप्रदेशं प्रापयन्ति। किमर्थं, विश्वाय दृशे सर्वस्य जगतो दर्शनार्थम्।
सौर्यमन्त्रेण रक्षांसि निवार्यन्त इत्याह —
“उदु त्यं जातवेदसमिति सौर्यर्चा कृष्णाजिनं प्रत्यानह्यति रक्षसामपहत्यै” (सं. का. ६ प्र. १ अ. ११) इति।
उस्राविति। कल्पः — “अथ सोमवाहनावानीयमानौ प्रति मन्त्रयते उस्रावेतं धूर्षाहावन्श्रु अवीरहणौ ब्रह्मचोदनाविति” इति।
हे उस्रौ बलीवर्दावेतमागच्छतम्। कीदृशौ, धूर्षाहौ भारं सहमानौ। अनश्रू अनसि शकटे श्रुतौ ख्यातौ। अवीरहणौ वीरं शकटस्थितं सोममबाधमानौ ब्रह्मचोदनौ ब्रह्मान्नं कृषिद्वारेणान्नप्रवर्तकौ।
मन्त्रस्य स्पष्टार्थतामाह —
“उस्रावेतं धूर्षाहावित्याह यथायजुरेवैतत्” (सं. का. ६ प्र. १ अ. ११) इति।
वरुणस्येति। बौधायनः – “तयोर्दक्षिणं पूर्वं युनक्ति वरुणस्य स्कम्भनमसीति, वरुणस्य स्कम्भसर्जनमसीति शम्यामवगूहति, प्रत्यस्तो वरुणस्य पाश इति योक्त्रम्” इति।
आपस्तम्बः — “वरुणस्य स्कम्भनमसीति शम्यां प्रतिमोच्योस्रावेतं धूर्षाहावित्यनड्वाहावुपाज्य वारुणमसीति योक्त्रपाशं परिहृत्य प्रत्यस्तो वरुणस्य पाश इत्यभिधानीं प्रत्यस्यति” इति। शाखान्तरानुसारेण वारुणमसीत्युक्तम्। एतच्छाखानुसारेण वरुणस्य स्कम्भसर्जनमसीति द्रष्टव्यम्। युगच्छिद्रे प्रक्षेप्यः शङ्कुः शम्या। हे शम्ये त्वं वरुणस्योक्ष्णो निवारणीयस्य बलीवर्दस्य स्कम्भनं। निवारणं कुर्वत्यसि। गलबन्धनसाधनं योक्त्रम्। हे योक्त्र त्वमपि पलायनान्निवारणीयस्य शम्येव निवारणं सृजसि। दीर्घरज्जुः पाशः। स च प्रत्यस्तः शकटस्योपरि प्रसारितः। एते त्रयो मन्त्राः स्पष्टार्था इति ब्राह्मणेनोपेक्षिताः।
अत्र विनियोगसंग्रहः —
“उदायु सोममादायोरु गच्छेच्छकटं प्रति।
अदि स्तृत्वाऽजिनं सोममदित्याः सेति सादयेत्॥१॥
वने वस्त्रेण बद्ध्वोदु प्रत्यानह्यति चर्मणा।
उस्रावनडुहोर्योगो वरु शम्यां विनिक्षिपेत्॥२॥
वरु बद्ध्वा योक्त्रपाशं प्रति धानीमुपास्यति।
अनुवाके ह्यष्टमेऽस्मिन्मन्त्रा एते दशोदिताः॥३॥” इति।
अत्र मीमांसा नास्ति।
अथ च्छन्दः —
उदायुषेत्यनुष्टुष्। उर्वित्येकपदा गायत्री। अस्तभ्नादिति वनेष्विति च त्रिष्टुभौ। उदु त्यमिति गायत्री॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठकेऽष्टमोऽनुवाकः ॥८॥
[अथ प्रथमकाण्डे द्वितीयप्रपाठके नवमोऽनुवाकः]
अष्टमे सोमस्य शकटारोपणमुक्तमारोपितस्य नवमे गमनमुच्युते।
प्र च्यवस्वेति। बौधायनः — “सुब्रह्मण्योमिति त्रिरुक्तायां प्रच्यावयन्ति प्रच्यवस्व भुवस्पते विश्वान्यभि धामानि मा त्वा परिपरी विदन्मा त्वा परिपन्थिनो विदन्मा त्वा वृका अघायवो मा गन्धर्वो विश्वावसुरा दधच्छ्येनो भूत्वा परा पत यजमानस्य नो गृहे देवैः सँस्कृतमिति प्रदक्षिणं राजानं परिवहन्त्यथैतावञ्जसोपसंक्रामतोऽध्वर्युर्यजमानश्च यजमानस्य स्वस्त्ययन्यस्यपि पन्थामगस्महि स्वस्तिगामनेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते वस्विति” इति।
आपस्तम्ब उक्तमन्त्रद्वयं त्रेधा विभजति —
‘प्र च्यवस्व भुवस्पत इति प्राञ्चोऽभिप्रयाय प्रदक्षिणमावर्तते श्येनो भूत्वा परा पतेत्यध्वर्यू राजानमभिमन्त्रयतेऽपि पन्थामगस्महीत्यध्वर्युर्यजमानश्च दक्षिणेनोत्तरेण वा राजानमतिक्रामतः’ इति।
भूशब्देन भूमौ स्थितानि भूतानि यजमानाध्वर्युप्रभृतीन्युपलक्ष्यन्ते। तेषां च भूतानां पालकत्वात्पतिः सोमः। हे भूतपते सोम विश्वानि धामानि प्राचीनवंशहविर्धानादिस्थानान्यभिलक्ष्य प्रकर्षेण व्यवस्व गच्छ। परिपरी मार्गे बाधकस्तस्करप्रभुः स त्वां मा जानातु। परिपन्थिनस्तद्भृत्यास्तेऽपि त्वां मा जानन्तु। वृका अरण्यश्वानः। अघं पापं वधरूपमिच्छन्तीत्यघायवः। तेऽपि त्वां मा जानन्तु। विश्वावसुर्गन्धर्वः स्वर्गमार्गे सोमस्यापहर्ता। सोऽपि त्वां मा दधत्, मा प्रतीक्षताम्। हे सोम त्वं श्येनवदुत्पतनसमर्थो भूत्वाऽस्मद्यजमानस्य गृहे प्राचीनवंशे परापत शीघ्रं गच्छ। देवसदृशैरध्वर्यु्प्रभृतिभिस्तवोपवेशनायऽऽसन्दीरूपं स्थानं संस्कृतम्। स्वस्ति श्रेयोरूपो यज्ञस्तस्यायनं प्राप्तिस्तदस्यास्तीति स्वस्त्ययनी यजमानस्य यज्ञप्रापकोऽसि। अपि च वयं पन्थानमनुष्ठानरूपमगस्महि प्राप्ताः। कीदृशं स्वस्तिगां श्रेयःप्रापकम्। अनेहसं नकारस्य व्यत्ययेन हकारः। अनेनसं पापरहितम्। येन पथा विश्वा द्विपः सर्वान्वैरिणः परिवृणक्ति सर्वतो वर्जयति। किंच येन पथा द्रव्यं लभते, तादृशं पन्थानं प्राप्ताः।
प्रथममन्त्रे यथोक्तमर्थं प्रसिद्धतया स्पष्टयति —
“प्र च्यवस्व भुवस्पत इत्याह भूतानाँ ह्येष पतिर्विश्वान्यभि धामानीत्याह विश्वानि ह्येषोऽभि धामानि प्रच्यवते मा त्वा परिपरी विददित्याह यदेवादः सोममाह्रियमाणं गन्धर्वो विश्ववसुः पर्यमुष्णात्तस्मादेवमाहापरिमोषाय” (सं. का. ६ प्र. १ अ. ११) इति।
पूर्वं गन्धर्वेण सोमस्यापहृतत्वादस्ति तस्करप्रसक्तिस्तस्मान्मा त्वेत्यादिकं वक्तव्यम्।
द्वितीयमन्त्रे स्वस्त्ययनी(नि)शब्देन यज्ञप्राप्तिर्विवक्षितेत्याह —
“यजमानस्य स्वस्त्ययन्यसीत्याह यजमानस्यैवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै” (सं. का. ६ प्र. १ अ. ५) इति।
तृतीयमन्त्रो ब्राह्मणेनोपेक्षितः।
नम इति। कल्पः — “अथाग्रेण शालां तिष्ठन्नोह्यमानं राजानं प्रति मन्त्रयते। नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतँ सपर्यत दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शँसतेति” इति। अस्मिन्मन्त्रे सूर्यरूपेण सोमः स्तूयते — मित्रस्य मित्राय नमः। कीदृशाय। वरुणस्य स्वरश्मिभिर्जगदावृणते। पुनः कीदृशाय। चक्षसे सर्वज्ञाय। हे ऋत्विजो महो महते तस्मै देवाय देवप्रीत्यर्थं सपर्यत सपर्यां सेवां कुरुत। किं कृत्वा। तज्ज्योतिष्टोमरूपमृतं सत्यमवश्यफलप्रदं कर्म कृत्वा। किंच सूर्याय शंसत सूर्यप्रीत्यर्थं स्तुतिं कुरुत। कीदृशाय सूर्याय। दूरे दृश्यमानाय देवत्वेन जाताय केतेवेऽह्नो लक्षणभूताय द्युलोकस्य पुत्रवत्प्रियाय।
अस्मिन्मन्त्रे वरुणशब्दाभिप्रायमाह —
“वरुणे वा एष यजमानमभ्यैति यत्क्रीतः सोम उपनद्धो नमो मित्रस्य वरुणस्य चक्षस इत्याह शान्त्यै” (सं. का. ६ प्र. १ अ. ११) इति। यः सोम उपनद्ध एव वरुणरूपः सन्यजमानमभिलक्ष्य समागच्छत्यतो वरुणनमस्कारेण तत्त्वत उपद्रवः शाम्यति।
यद्यप्यग्नीषोमीयस्य पशोर्नायमनुष्ठानकालस्तथाऽपि प्रसङ्गात्तं पशुं विधित्सुः प्रसङ्गं तावद्दर्शयति —
“आ सोमं वहन्त्यग्निना प्रति तिष्ठते तौ संभवन्तौ यजमानमभि सं भवतः पुरा खलु वावैष मेधायाऽऽत्मानमारभ्य चरति यो दीक्षितः” (सं. का. ६ प्र. १ अ. ११) इति।
ऋत्विजः प्राचीनवंशगतस्याऽऽहवनीयस्याग्नेः समीपं प्रति सोममानयन्ति। स च सोमोऽग्निना समेत्य प्रतिष्ठितो भवति। तौ चाग्नीषोमौ परस्परं यदा संगच्छेते तदा यजमानमभिलक्ष्य संगतौ भवतः। तदेतदवगम्य किल पुरा यो दीक्षितः स एष यज्ञार्थं स्वात्मानमेवाऽऽलभ्य पशुत्वेनोपाकृत्य प्रचरति। सोऽयं प्रसङ्गः।
इदानीं विधत्ते —
“यदग्नीषोमीयं पशुमालभत आत्मनिष्क्रयण एवास्य सः” (सं. का. ६ प्र. १ अ. ११) इति।
अस्य यजमानस्य पश्वालम्भ आत्मनिष्क्रमणः। पशुं मूल्यत्वेनाग्नीषोमाभ्यां दत्त्वा तेन तयोः स्वभूतमात्मानं निष्क्रीणाति।
अत्र हविःशेषभक्षणं पूर्वपक्षतया निषेधति —
“तस्मात्तस्य नाऽऽश्यं पुरुषनिष्क्रयण इव हि” (सं. का. ६ प्र. १ अ. ११) इति।
यस्मादयं पशुः पुरुषस्य मूल्यमिव तस्मात्तस्य पशोः संबन्धि हविर्न भक्षणीयं तद्भक्षणे मूल्यनाशप्रसङ्गात्।
सिद्धान्तमाह –
“अथो खल्वाहुरग्नीषोमाभ्यां वा इन्द्रो वृत्रमहन्निति यदग्नीषोमीयं पशुमालभते वार्त्रघ्न एवास्य स तस्माद्वाश्यम्” (सं. का. ६ प्र. १ अ. ११) इति।
अथोशब्दः पूर्वपक्षव्यावृत्त्यर्थः। अभिज्ञास्त्वग्नीषोमार्थमिन्द्रो वृत्रं हतवानित्याहुः। अयं वृत्तान्तो द्वितीयकाण्डस्य पञ्चमप्रपाठके त्वष्टा हतपुत्र इत्यस्मिन्ननुवाके प्रपञ्चितः। यस्मादग्नीषोमार्थमिन्द्रो वृत्रं हतवांस्तस्मादग्नीषोमीयपश्वालम्भो यः सोऽस्य यजमानस्य वैरिघाती। तस्मात्तदीयं हविर्भक्षणीयमेव।
प्रासङ्गिकं परिसमाप्य प्रकृतमेव नमो मित्रस्येति मन्त्रं विनियुङ्क्ते —
“वारुण्यर्चा परि चरति स्वयैवैनं देवतया परि चरति” (सं. का. ६ प्र. १ अ. ११) इति।
उपनद्धस्य सोमस्य वरुणो देवता। परिचरणं नमस्काराद्युपचारः। ततो वरुणमन्त्रेण तदनुष्ठानं युक्तम्। अथ प्राग्वंशे सोमपासन्द्यां प्रतिष्टाप्य तस्मिन्काल एवा वन्दस्व वरुणं बृहन्तमित्येतया तत्त्वा यामीत्यनयो वा वारुण्यर्चोपस्थानरूपं परिचरणं कर्तव्यम्।
वरुणस्येति। बौधायनः — “अथैतत्सोमवाहनमग्रेण शालामुदगीषमुपस्थापयन्ति तदुपस्तभ्नाति वरुणस्य स्कम्भनमसीति वरुणस्य स्कम्भसर्जनमसीति शम्यामुदूहत्युन्मुक्तो वरुणस्य पाश इति योक्त्रम्” इति।
आपस्तम्बस्तु शम्यायोक्त्राभिधानीनां क्रमेणोन्मोचनं मन्यते।
अत्र विनियोगसंग्रहः —
“प्र च्य प्राग्वंशगमनं श्येनोऽध्वर्युस्तु मन्त्रयेत्।
अप्यतिक्रम्य राजानं नम एनं प्रतीक्षते॥
वरुत्रयेण शम्यादीन्मुञ्चेत्सप्तात्र मन्त्रकाः॥१॥ इति।
अत्रापि नास्ति मीमांसा।
अथ च्छन्दः —
प्र च्यवस्वेति षट्पदाऽतिजगती। श्येनो भूत्वाऽपि पन्थामित्येते अनुष्टुभौ। नमो मित्रस्येति जगती॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके नवमोऽनुवाकः ॥९॥
अथ प्रथमकाणडे द्वितीयप्रपाठके दशमोऽनुवाकः ॥१०॥
नवमेऽनुवाके सोमस्य प्राचीनवंशं प्रति गमनमुक्तं, दशमे तु समीपमागतस्यातिथिरूपस्य सोमस्य सत्कारायाऽऽतिथ्येष्टिरुच्यते।
अग्नेरिति। कल्पः — “आतिथ्यं निर्वपत्यन्वारब्धायां पत्न्यामथ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं कृत्वाऽग्नेरातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वा सोमस्याऽऽतिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वाऽतिथेरातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वाऽग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वा श्येनाय त्वा सोमभृते विष्णवे त्वा जुष्टं निर्वपामीति पञ्चकृत्वो यजुषा” इति।
प्रकृतिगतेऽग्नये जुष्टं निर्वपामीत्येतस्मिन्मन्त्रेऽतिदेशात्प्राप्ते सति तत्रत्यदेवतापदस्यैवात्र पञ्चभिः पर्यायैरपोदितत्वात्पञ्चमेऽ(स्व)पि सावित्रं जुष्टं चानुषजति।
अत्र विष्णुरेक एव हविषो देवता। अग्न्यादयस्तु तदनुचराः। अतति सततं गच्छतीत्यातिथिः। तदर्थं क्रियमाणं सत्काररूपं कर्माऽऽतिथ्यम्। लोके स्वामिने दीयमानेन द्रव्येण तदनुचरा अपि परितुष्यन्ति। तस्मादत्राग्न्यादीनामिदं हविर्भवत्यातिथ्यम्। हे हविस्त्वमतिथिरूपस्याग्नेः सत्काररूपमसि। तादृशं त्वां विष्णुशब्दाभिधेयाय सोमाय निर्वपामि। सोमस्येत्यत्र प्रधानभूतः सोमो न त्वपरः कश्चित्तन्नामाऽनुचरः। अतिथिनामकोऽन्यः। रायस्पोषदावा धनसमृद्धेर्दाता कश्चित्तदग्निनामकोऽन्यः। सोमं बिभर्ति पोषयतीति सोमभृच्छ्येननामकोऽन्यः। एतावुभावपि सोमस्य राज्ञोऽतिप्रत्यासन्नावनुचरावित्यभिप्रेत्याग्नये श्येनायेति चतुर्थ्या त्वाशब्देन च प्रधानसमतया निर्दिश्यते।
मन्त्रान्व्याचिख्यासुरादौ कालविशेषसहितमातिथ्यं कर्म विधत्ते —
“यदुभौ विमुच्याऽऽतिथ्यं गृह्णीयाद्यज्ञं विच्छिन्द्याद्यदुभावविमुच्य यथाऽनागतायाऽऽतिथ्यं क्रियते तादृगेव तद्विमुक्तोऽन्योऽनड्वान्भवत्यविमुक्तोऽन्योऽथाऽऽतिथ्यं गृह्णाति यज्ञस्य संतत्यै” (सं. का. ६ प्र. २ अ. १) इति।
द्वयोर्बलीवर्दयोर्विमुक्तयोः सतोः सोमगमनरूपं कर्म सर्वथा परित्यक्तं भवति। आतिथ्यकर्म तूपक्रान्तं, ततो यज्ञमध्ये यज्ञो विच्छिद्येत। अविमुक्तयोस्तु द्वयोर्गमनस्यासंपूर्णत्वादनागताय सोमायाऽऽतिथ्यं कृतं भवेत्। एकस्मिन्विमुक्ते च विमुक्तत्वादेव गमनं संपूर्णं भवति। इतरस्य विमोकाभावत्पूर्वकर्मापि न त्यक्तम्। अतस्तस्मिन्काले निर्वापाद्यज्ञः संततो भवति।
निर्वापकालेऽध्वर्युमनु पत्न्याः शकटस्पर्शं विधत्ते —
“पत्न्यन्वारभते पत्नी हि पारीणह्यास्यशे पत्नियैवानुमतं निर्वपति यद्वै पत्नी यज्ञस्य करोति मिथुनं तदथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै” (सं. का. ६ प्र. २ अ. १) इति।
परि(री)णद्गृहं त्र भवं व्रीह्यादिद्रव्यं पारीणह्यं तस्येशाना पत्नी। किंच यज्ञः पुमान्पत्नी स्त्रीत्येतन्मिथुनम्। किंच योऽयं पत्न्याः शकटस्य यज्ञाङ्गस्य स्पर्शः स यज्ञस्य विच्छेदराहित्याय भवति।
मन्त्रान्व्याचष्टे —
यावद्भिर्वै राजाऽनुचरैरागच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते छन्दाँसि खलु वै सोमस्य राज्ञोऽनुचराण्यग्नेरातिथ्यमसि विष्णवे त्वेत्याह गायत्रिया एवैतेन करोति सोमस्याऽऽतिथ्यमसि विष्णवे त्वेत्याह त्रिष्टुभ एवैतेन करोत्यतिथेरातिथ्यमसि विष्णवे त्वेत्याह जगत्या एवैतेन करोत्यग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वेत्याहानुष्टुभ एवैतेन करोति श्येनाय त्वा सोमभृते विष्णवे त्वेत्याह गायत्रिया एवैतेन करोति” [सं. का. ६ प्र. २ अ. १] इति।
सौमस्य भृत्यैरग्न्यादिर्भृत्यान्तराणि गायत्र्यादीन्युपलक्ष्यन्ते। उपलक्षकविशेषाणामग्न्यादीनामुपलक्ष्यविशेषैर्गायत्र्यादिभिः प्रातिस्विकसंबन्धविशेषे प्रमाणमिदं ब्राह्मणमेव।
निर्वापावृत्तिसंख्यां विधत्ते —
“पञ्च कृत्वो गृह्णाति पञ्चक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे” [सं. का. ६ प्र. २ अ. १] इति।
आद्यन्तयोर्मन्त्रयोर्गायत्र्या द्विरुपलक्षितत्वं प्रश्नोत्तराभ्यामुपपादयति —
“ब्रह्मवादिनो वदन्ति कस्मात्सत्याद्गायत्रिया उभयत आतिथ्यस्य क्रियत इति यदेवादः सोममाहरत्तस्माद्गायत्रिया उभयत आतिथ्यस्व क्रियते पुरस्ताच्चोपरिष्टाच्च” [सं. का. ६ प्र. २ अ. १] इति।
आतिथ्यं क्रियत इत्यर्थः।
निरुप्तैस्तण्डुलैर्नवकपालः पुरोडाशः कार्य इति विधत्ते —
“शिरो वा एतद्यज्ञस्य यदातिथ्यं नवकपालः पुरोडाशो भवति तस्मान्नवधा शिरो विष्यूतम्” [सं. का. ६ प्र. २ अ. १] इति।
आतिथ्येष्टेः सत्काररूपत्वेन शिरोवदुत्तमाङ्गत्वम्। यस्मादत्र कपालेषु नवसंख्या तस्माद्दृष्टान्तभूतं शिरोऽपि नवभिः कपालैर्विशेषेण स्यूतम्। पौरोडाशिकब्राह्मणे ह्येवमाम्नातम् — “तस्मादष्टाकपालं पुरुषस्य शिरः” इति। ततोऽष्टानां कपालानां परस्परमष्टधा स्यूतिस्ततस्तत्समहरूपस्य शिरसोऽधस्तनेन कबन्धेन सहैकधा स्यूतिः।
उक्तमेव विधिमनूद्य प्रशंसति —
“नवकपालः पुरोडोशो भवति ते त्रयस्त्रिकपालास्त्रिवृता स्तोमेन संमिता-
स्तेजस्त्रिवृत्तेज एव यज्ञस्य शीर्षन्दधाति” [सं. का. ६ प्र. २ अ. १] इति।
त्रिवृन्नामके स्तोमे त्रीणि सूक्तानि। तेष्वेकैकस्मिन्सूक्ते तिस्रस्तिस्र ऋचः। अतः संख्यासाम्यान्नवकपालस्य त्रिवृद्रूपत्वम्। त्रिवृच्च प्रजापतेर्मुखादग्निना सह जातत्वात्तेजोरूपम्। तथा सति यज्ञशिरोरूप आतिथ्ये तेजः स्थापितं भवति।
पुनरप्यनूद्य प्रशंसति —
“नवकपालः पुरोडाशो भवति ते त्रयस्त्रिकपालास्त्रिवृता प्राणेन संमितास्त्रिवृद्धै प्राणस्त्रिवृतमेव प्राणमभिपूर्वं यज्ञस्य शीर्षन्दधाति” [सं. का. ६ प्र. २ अ. १] इति।
त्रिभिः कपालैः संस्कृतः पुरोडाशस्त्रिकपालः। तादृशाश्च पुरोडाशास्त्रयः। नवसंख्यायां विभज्यमानायामेवं संपद्यते। तथा सति यत्कपालगतं त्रिवृत्त्वं यच्च पुरोडाशगतं तेन सदृशी प्राणसंख्या प्राणस्योर्ध्वाधोमध्यवृत्तिभिस्त्रिगुणत्वात्। अथवा नवसु च्छिद्रेषु वर्तमानो नवसंख्याकः प्राणः। तस्य त्रेधा विभागे सति प्रकृतनवकपालसादृश्यं भवति। तादृशं प्राणमभिपूर्वमनुक्रमेण यज्ञस्य शिरस्यातिथ्ये स्थापयति।
अस्यामातिथ्येष्टौ प्रकृतिवत्प्रस्तरस्य विधृत्योश्च कुशमयत्वे प्राप्ते तद्बाधितुं द्रव्यान्तरं विधत्ते —
“प्रजापतेर्वा एतानि पक्ष्माणि यदश्ववाला ऐक्षवी तिरश्ची यदाश्ववालः प्रस्तरो भवत्यैक्षवी तिरश्ची प्रजापतेरेव तच्चक्षुः सं भरति” [सं. का. ६ प्र. २ अ. १] इति।
पक्ष्माण्यक्षिरोमाणि। अश्ववालाः काशाख्या दर्भविशेषाः। ऐक्षवी इक्षुपत्रिके। तिरश्ची चक्षुषश्चर्मपुटिके। यथा सोमपर्णस्य पलाशवृक्षरूपेणोत्पत्तिर्यथा चाप्सु मेध्यांशो दर्भरूपेणोत्पन्नस्तथैव प्रजापतेः पक्ष्मणां चर्मपुटयोश्च काशरूपेणेक्षुपत्ररूपेण चाऽऽविर्भावोऽर्थवादान्तरे द्रष्टव्यः। एवं सति प्रशस्तत्वादत्र प्रस्तराख्यस्तृणमुष्टिराश्ववालः कर्तव्यः। तस्याधस्तात्तिर्यक्त्वेन स्थापनीये विधृती ऐक्षव्यौ कुर्यात्। तावता प्रजापतेस्तच्चक्षुः संपादितं भवति।
परिधिषु श्रीपर्णीवृक्षं विधत्ते —
“देवा वै या आहुतीरजुहवुस्ता असुरा निष्कावमादन्ते देवाः कार्ष्मर्यमपश्यन्कर्मण्यो वै कर्मैनेन कुर्वीतेति ते कार्ष्मर्यमयान्परिधीनकुर्वत तैर्वै ते रक्षाँस्यपाघ्नत यत्कार्ष्मर्यमयाः परिधयो भवन्ति रक्षसामपहत्यै” (सं. का. ६ प्र. २ अ. १) इति।
निष्कावं निःशब्दं चर्वणादिशब्देन देवा ज्ञास्यन्तीति मत्वा चौर्येणाभक्षयन्। कार्ष्मर्यवृक्षो रक्षोनिवारकत्वेन कर्मण्यः। तस्मात्तेनैव कर्म कुर्वीतेति मत्वा तन्मयान्परिधीनकुर्वत। तथैवान्येनापि कर्म कर्तव्यम्।
मध्यमपरिधेर्दक्षिणोत्तरपरिधिभ्यां सह संस्पर्शं विधत्ते —
“सँस्पर्शयति रक्षसामन्ववचाराय” (सं. का. ६ प्र. २ अ. १) इति।
स्पर्शाभावे परिध्योः संधौ रक्षसामन्तरनुप्रवेशः स्यात्।
पूर्वस्यां दिशि रक्षःप्रवेशनिवारणाय प्रसक्तं चतुर्थपरिधिं निषेधति —
“न पुरस्तात्परि दधात्यादित्यो ह्येवोद्यन्पुरस्ताद्रक्षाँस्यपहन्ति” (सं. का. ६ प्र. २ अ. १) इति।
आघारसमिधोर्द्वयोराहवनीयपूर्वभागे स्थापनं विधत्ते —
“ऊर्ध्वे समिधावा दधात्युपरिष्टादेव रक्षाँस्यप हन्ति” (सं. का. ६ प्र. २ अ. १) इति।
यद्युप्यूर्ध्वायां दिशि रक्षसां निवारणायोपरिष्टादेव समिधौ स्थापनीये तथाऽपि व्योम्नि स्थापयितुमशक्यत्वादूर्ध्वदिशि(गग्रे) स्थापनीये।
तत्र कंचिद्विशेषं विधत्ते —
“यजुषाऽन्यां तूष्णीमन्यां मिथुनत्वाय” (सं. का. ६ प्र. २ अ. १) इति।
वीतिहोत्रं त्वा कव इति मन्त्रेण दक्षिणामादध्यात्तूष्णीमुत्तराम्। समन्त्रकामन्त्रकयोः स्त्रीपुरुषलक्षणत्वान्मिथुनत्वम्।
समित्संख्यां विधत्ते —
“द्वे आ दधाति द्विपाद्यजमानः प्रतिष्ठित्यै” (सं. का. ६ प्र. २ अ. १) इति।
द्वित्वं पादद्वयप्रतिष्ठायै भवति। ननु संस्पर्शादिविधयः प्रकृतौ दर्शपूर्णमासेष्टावपि सन्तीत्यतिदेशादेव तदनुष्ठानस्यात्र प्राप्तत्वान्न पृथग्विध्यपेक्षेति चेन्न। उपसदर्थं विधेयत्वात्। तर्हि तत्रैव विधीयतामिति चेन्न। आतिथ्योपसदोः परिध्यादिभेदं वारयितुं साधारणत्वेनात्रैव विधेयत्वात्।
या त इति। बौधायनः “अथ यजमानो नीडाद्राजानमपादत्ते या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञमिति पूर्वया द्वारा शालां प्रपादयति गयस्फानः प्रतरणः सुवीरोऽवीरहा प्र चरा सोम दुर्यानिति” इति।
आपस्तम्बो मन्त्रैक्यं मन्यते – “या ते धामानीति पूर्वया द्वारा प्राग्वंशं प्रविश्य” इति।
हे सोम या ते धामानि त्वदीयेषु स्थानेषु प्रातःसवनादिषु हविषा यजन्ति यज्ञमुद्दिश्य ता ते विश्व त्वदीयानि तानि सर्वाणि परिभूरस्तु परितः प्राप्तवान्भव। हे सोम त्वं दुर्यान्गृहान्प्राचीनवंशरूपान्प्रचर प्राप्नुहि। कीदृशस्त्वं गयस्फानो गृहाभिवर्धकः। प्रतरणः प्रकर्षेण यज्ञपारं प्रति अस्मांस्तारयिता। सुवीरः शोभनास्त्वत्प्रसादलब्धा वीरा अस्मत्पुत्रपौत्रा यस्य तव स त्वं सुवीरः। अवीरहा यथोक्तानां वीरणामहन्ता परिपालक इत्यर्थः।
आदित्या इति। कल्पः — “अथैनामासन्दीमग्रेणाऽऽहवनीयं पर्याहृत्य दक्षिणतो निदधाति तस्यां कृष्णाजिनमास्तृणात्यदित्याः सदोऽसीत्यदित्याः सद आ सीदेति कृष्णाजिने राजानम्” इति।
वरुण इति। बौधायनः — “अथैनमुपतिष्ठते वरुणोऽसि धृतव्रतो वारुणमसीति समुच्चित्य कृष्णाजिनं तस्यान्तान्स्पन्द्यया (नासन्द्या) विग्रथ्य वंशे प्रग्रथ्नाति शंयोर्देवानाँ सख्यादित्यथ परावासन्दीपादावन्तरेण ब्राह्मणोऽभिषिञ्चति शूद्रः प्रक्षालयति मा देवानामपसश्छित्स्महीति” इति।
आपस्तम्बोऽत्र प्रथममन्त्रोत्तरार्धस्य द्वितीयतृतीयमन्त्रयोश्चैकतां मन्यते “वरुणोऽसि धृतव्रत इति राजानमभिमन्त्रयते, वारुणमसीति वाससा पर्यानह्यति” इति।
हे सोम त्वं वरुणपाशस्य निवारकोऽसि। धृतं यज्ञरूपं व्रतं येन त्वया स त्वं धृतव्रतः। हे सोम त्वमुपनद्धस्वरूपत्वाद्वरुणसंबन्ध्यसि। तथा सति त्वदी-
याच्छंयोः सुखमिश्राद्वरुणादिदेवानां सख्याद्वयमपसो मा च्छित्स्महि। सकारान्तोऽपःशब्दः कर्मवाची। अस्माकं कर्मविच्छेदो मा भूदित्यर्थः। या ते धामानीत्यादयो मन्त्रा ब्राह्मणेनोपेक्षिताः।
आतिथ्येष्टिमध्ये वह्निमन्थनपूर्वकमाहवनीये मथिताग्निप्रक्षेपं विधत्ते —
“ब्राह्मवादिनो वदन्त्यग्निश्च वा एतौ सोमश्च कथा सोमायाऽऽतिथ्यं क्रियते नाग्नय इति यदग्नावग्निं मथित्वा प्रहरति तेनैवाग्नय आतिथ्यं क्रियते” (सं. का. ६ प्र. २ अ. १) इति।
अग्निश्च सोमश्चेत्येतावुभावपि यागनिर्वाहकौ देवौ, तयोः साम्ये सति कथमग्नय आतिथ्यं नेति प्रश्नः। अग्निं मथित्वाऽऽहवनीये प्रहरेत्तदिदमाहवनीयाग्नेरातिथ्यम्।
मथनस्य कालं विधत्ते —
“अथो स्वल्वाहुरग्निः सर्वा देवता इति यद्धविरासाद्याग्निं मन्थति हव्यायै वाऽऽसन्नाय सर्वा देवता जनयति” (सं. का. ६ प्र. २ अ. १) इति।
अपि चैते ब्रह्मवादिनः कालविवक्षावन्तस्तदुपोद्घातत्वेन वह्नेः सर्वात्मकत्वमाहुः। तच्च सर्वदेवतात्मकत्वमेकद्वित्रितानामुत्पत्तौ विस्पष्टमाम्नातम्। यदातिथ्पपुरोडाशं वेद्यामासाद्य तस्मिन्कालेऽग्निं मथ्नीयात्तथा मथ्यमानाग्नावन्तर्भूताः सर्वा अपि देवता आसन्नहविर्मोक्तुमुत्पादिता भवन्ति तत्स एव काल इत्यर्थः। मथनमन्त्रास्त्वाध्वर्यवा अग्नीषोमीयपशुप्रस्तावे समाम्नास्यन्ते। हौत्रास्तु बह्वृचब्राह्मण आतिथ्येष्टिसमीपे एवोदाहृताः।
आपतय इति। कल्पः — “अथैतद्ध्रौवमाज्यमाप्याय्य कँसं वा चमसं वा याचति तमन्तर्वेदि निधाय तस्मिन्नेतत्तानूनप्त्रं समवद्य विगृह्णाति आपतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे त्वा गृह्णामि शाक्वराय त्वा गृह्णामि शक्मन्नोजिष्ठाय त्वा गृह्णामीति” इति।
आपतिर्निश्वासरूपेण बहिर्गतः पुनराभिमुख्येनान्तः पततीत्यापतिः प्राणः। हे आज्य प्राणार्थं त्वामस्मिन्पात्रे गृह्णामि। परितो नानाविषयेषु पततीति परिपतिर्मनः। तनूं शरीरं न पातयति न विनाशयतीति तनूनप्ता जाठरोऽग्निः। शकनशीलः शक्वरः शक्तिमान्पुरुषस्तस्य संबन्धि शाक्वरं शक्तिस्वरूपम्। शक्मञशक्तिमत्सु यदोजिष्ठं तस्मै ओजो नामाष्टमो धातुस्तस्य सारमोजिष्ठम्। तदवष्टम्भेनैव शक्तिरवतिष्ठते। एतैर्मन्त्रैस्तानूनप्त्रं ग्राह्यम्।
तनूनप्तृसंज्ञकजाठरवह्निविषयस्य शपथकर्मणो हेतुभूतमाज्यं तानूनप्त्रं तस्य ग्रहणं विधातुं प्रस्तौति —
“देवासुराः संयत्ता आसन्ते देवा मिथो विप्रिया आसन्तेऽन्योऽन्यस्मै ज्यैष्ठ्यायातिष्ठमानाः पञ्चधा व्यक्रामन्नग्निर्वसुभिः सोमो रुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यैर्बृहस्पतिर्विश्वैर्देवैस्तेऽमन्यन्तासुरेभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन्मिथो विप्रियाः स्मो या न इमाः प्रियास्तनुवस्ताः समवद्यामहै ताभ्यः स निच्छाद्यो नः प्रथमोऽन्योऽन्यस्मै द्रुह्यादिति तस्माद्यः सतानूनाप्त्रिणां प्रथमो द्रुह्यति स आर्तिमार्च्छति” (सं. का. ६ प्र. २ अ. १) इति।
संयत्ताः संग्रामं प्राप्ताः। मिथः परस्परं ते च देवाः सर्वेऽपि स्वातिरिक्तस्य ज्यैष्ठ्यमनङ्गीकुर्वाणाः पञ्चव्यूहा अभवन्। तेषु व्यूहेष्वग्न्यादयः पञ्च देवाः सेनान्यो वस्वादयः पञ्च गणाः। ततस्ते कंचित्कालं परस्परविरोधिनो भूत्वा पश्चादेवं विचारितवन्तो यदि वयमन्योन्यविरोधिनस्तदा वैरिणामसुराणामिदं जयरूपं कार्यं वयमेव साधयामः। ततस्तद्विरोधपरिहारहेतुं शपथं कर्तुमस्मदीयाः प्रियाः पुत्रभार्यादिरूपा इमास्तनूरेकत्र संघी कुर्म इति विचार्य संघीकृत्य शपथमेवं परिभाषितवन्तः। अस्माकं मध्ये यः प्रथमं द्रुह्यति स ताभ्यस्तनूभ्यो निर्गच्छेन्निर्भ्रष्टो भवत्विति। यस्माद्देवानामेवं वृत्तं तस्मान्मनुष्याणामपि शपथं कृतवतां मध्ये यः प्रथमं द्रुह्यति स विनाशं प्राप्नोति। समान एकस्मिन्विषये तानूनप्त्रिणः शपथवन्तः सतानूनप्त्रिणः।
इदानीं विधत्ते —
“यत्तानूनप्त्रँ समवद्यति भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति” (सं. का. ६ प्र. २ अ. २) इति।
समवद्यति संभूयावदानं कुर्यात्। स्वयं भूतिमान्भवति वैरी तु पराभवति। इयमेव भ्रतृव्याभिभूतिः।
अवदानसंख्यां विधत्ते —
“पञ्च कृत्वोऽव द्यति पञ्चधा हि ते तत्समवाद्यन्ताथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे” (सं. का. ६ प्र. २ अ. २) इति।
ते देवास्तत्तदानीं पञ्चधा विभक्ताः पश्चात्संभूयैकवत्प्रियतनूनवाद्य[न्त] स्थापितवन्तः।
मन्त्रान्व्याचष्टे —
“आपतये त्वा गृह्णामीत्याह प्राणो वा आपतिः प्राणमेव प्रीणाति परिपतय इत्याह मनो वै परिपतिर्मन एव प्रीणाति तनूनप्त्र इत्याह तनुवो हि ते ताः समवाद्यन्त शाक्वरायेत्याह शक्त्यै हि ते ताः समवाद्यन्त शक्मन्नोजिष्ठायेत्याहौजिष्ठँ हि ते तदात्मनः समवाद्यन्त” (सं. का. ६ प्र. २ अ. २) इति।
[आपतिपरिपतितनूनप्तृशाक्वरशक्मन्नोजिष्ठशब्दैर्देववृत्तान्तः सूच्यते]।
तनूशाक्वरौजिष्ठशब्दैर्देव[वा]वृत्तान्तः सूच्यते। ते देवास्तदानीं स्वात्मसंबन्धं पुत्रादितनुरूपमोजः सारं समवाद्यन्त।
अनाधृष्टमिति। कल्पः – “यावन्त ऋत्विजस्त एतत्समवमृशन्ति अनाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपा अनमिशस्तेन्यमिति” इति।
हे तानूनप्त्राऽऽज्य त्वमितः पूर्वं केनाप्यतिरस्कृतमसि। इतः परमप्यतिरस्कार्यं देवानामोजः सारमसि। अभिशस्तेर्हिंसारूपादन्योन्यविरोधादस्मान्पालयसि। त्वं पुनरिभशस्तेरविषयभूतमसि।
मन्त्रस्य यथोक्तार्थः प्रसिद्ध इत्याह —
“अनाधृष्टमस्यधृष्यमित्याहाधृष्टँ ह्येतदनाधृष्यं देवानामोज इत्याह देवानाँ ह्येतदोजोऽभिशस्तिपा अनभिशस्तेन्यमित्याहाभिशस्तिपा ह्येतदनभिशस्तेन्यम्” (सं. का. ६ प्र. २ अ. २) इति।
अन्विति। कल्पः — “यजमानमतिवाचयति अनु मे दीक्षां दीक्षापतिर्मन्यतामनु तपस्तपस्पतिरञ्जसा सत्यमुप गेषँ सुविते मा धा इति” इति।
दीक्षणीयेष्टौ यो देवः स दीक्षापतिर्ममेमां दीक्षामनुजानातु। तप उपसत्तत्रत्यो देवो मदीयं तपोऽनुजानातु। अहं चाञ्जसा सत्यमुपगेषमार्जवेन तानूनप्त्रस्पर्शनरूपं शपथं प्राप्तोऽस्मि। हे तानूनप्त्र मां सुविते शोभनमार्गे यज्ञकर्मणि स्थापय।
मन्त्रस्य स्पष्टार्थतामाह —
‘अनु मे दीक्षां दीक्षापतिर्मन्यतामित्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. २ अ. २) इति।
अत्र विनियोगसंग्रहः —
“अग्नेः पञ्चकनिर्वापो या ते प्राग्वंशवेशनम्।
अद्यासन्द्यां क्षिपेच्चर्म ह्यदि सोमं तु सादयेत्॥१॥
वरु तं मन्त्रयेद्वारु वाससा परिणह्यति।
आप तानूनप्त्रमाज्यं समवद्यति पञ्चभिः॥२॥
अना सर्व ऋत्विजस्तु तानूनप्त्रं स्पृशन्ति हि।
अनु स्वामी स्पृशेदेतदिति सप्तदशेरिताः॥३॥” इति।
अथ मीमांसा।
सप्तमाध्यायस्य तृतीयपादे चिन्तितम् —
“वैष्णवे त्रिकपाले वैष्णवान्नवकपालतः।
धर्मातिदेशः स्यान्नो वा विद्यतेऽत्राग्निहोत्रवत्॥
श्रुत्या वैष्णवशब्दोऽयं देवताया विधायकः।
न गौणवृत्तिमाश्रित्य धर्मानतिदिशत्यतः” इति।
आतिथ्येष्टौ वैष्णवो नवकपालो विहितः। तत्र श्रुत्या वैष्णवशब्दो राजसूयगते वैष्णवे त्रिकपाले प्रयुज्यमानोऽग्निहोत्रवन्नवकपालधर्मानतिदिशतीति पूर्वः पक्षः। विष्णुर्देवताऽस्येति विग्रहे सति विहितस्तद्धितप्रत्ययो देवतामभिधत्ते न तु धर्मान्। तस्मान्नातिदिशति।
चतुर्थाध्यायस्य द्वितीयपादे चिन्तितम् —
“यदातिथ्याबर्हिरेतदुपसत्स्वतिदेशनम्।
साधारण्यविधिर्वाऽऽद्यस्तदीयस्योपसंहृतेः॥
बर्हिःश्रुत्यैकताभानान्नातिदेशस्य लक्षणा।
आतिथ्ययोपसद्भिश्च बर्हिरेतत्प्रयुज्यते” इति।
ज्योतिष्टोमे श्रूयते – “यदातिथ्यं बर्हिस्तदुपसदां तदग्नीषोमीयस्य च” इति। क्रीतं सोमं शकटेऽवस्थाप्य प्राचीनवंशं प्रत्यानीयमानेऽभिमुखे यामिष्टिं निर्वपति सेयमातिथ्या। तत ऊर्ध्वं त्रिषु दिनेष्वनुष्ठीयमाना उपसदः। औपवसथ्ये दिनेऽनुष्ठेयोऽग्नीषोमीयः। तत्राऽऽतिथ्येष्टौ विहितं यद्बर्हिस्तद्यदि तस्या इष्टेराच्छिद्योपसत्सु विधीयेत तदानीमातिथ्यायां विधानमनर्थकं स्यात्। यदि च तत्रोपयुक्तमितरत्र विधीयेत विनियुक्तविनियोगरूपो विरोधः स्यात्। तस्मादातिथ्यबर्हिषो ये धर्मा आश्ववालत्वादयस्ते धर्मा उपसत्सूपसंह्रियन्त इत्यतिदेशपरं वाक्यमिति प्राप्ते ब्रूमः। बर्हिःशब्दस्य धर्मातिदेशपरत्वे लक्षणा प्रसज्येत। श्रुत्या तु बर्हिषु आतिथ्योपसदग्नीषोमीयेषु एकत्वं प्रतिभाति। अतः साधारण्यमत्र विधेयम्। आतिथ्यर्थं यद्बर्हिरुपादीयते तन्न केवलमातिथ्यार्थं किंतूपसदर्थमग्नीषोमीयार्थं चोपादेयमिति विधिवाक्यार्थः। तस्मादातिथ्योपसदग्नीषोमीयास्त्रयोऽप्यस्य बर्हिषः प्रयोजकाः। एवं परिधिसंस्पर्शादिविधीनां साधारण्यं द्रष्टव्यम्।
अथ च्छन्दः —
या ते धामानीति त्रिष्टुप्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके दशमोऽनुवाकः॥१०॥
(अथ प्रथमकाण्डे द्वितीयप्रपाठके एकादशोऽनुवाकः)।
दशमेऽनुवाक आतिथ्येष्टिरुक्ता। तन्मध्ये सोमः प्राग्वंशे स्थापितः। तेन सोमेन करिष्यमाणस्य यागस्य विघ्नकारिणोऽसुराः प्रथमं जेतव्या इति तद्विजयार्थमुपसद एकादशे वर्ण्यन्ते। तत्राऽऽदौ तावदतिथेः सोमस्य बन्धनोपद्रवपरिहारेणाप्यायनाद्युपचारः क्रियते।
अँशुरिति। बौधायनः — “अथ मदन्तीरूपस्पृश्योपोत्थाय विस्रस्य हिरण्यमवधाय राजानमाप्याययति अँशुरँशुस्ते देव सोमाऽऽप्यायतामिन्द्रायैकधनविद आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वेति यजमानमभिवाचयति आ प्यायय सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामशीयेति” इति।
आपस्तम्बस्य तु एक एव मन्त्रः। मदन्ती(न्त्य)स्तप्ता आपः। अंशुः सूक्ष्मोऽवयवः। हे सोम देव ते योंऽशुः शुष्यति यश्चांशुः क्षीयते स सर्वोऽप्यंशुर्वर्धताम्। किमर्थम्। इन्द्रार्थम्। कीदृशायेन्द्राय, एकं मुख्यं शोभनं सोमरूपं धनं वेत्तीत्येकधनावित्तस्मै। हे सोम तुभ्यं त्वदर्थमिन्द्र आप्यायतां त्वां पातुमुत्सहताम्। त्वमपीन्द्रार्थमाप्यायस्व वर्धस्व। सखीनृत्विजः सन्या धनलाभेन मेधया प्रज्ञया च वर्धस्व। हे सोम देव ते स्वस्ति शुभमस्तु। त्वत्प्रसादेनाहं सुत्यामभिषवतन्त्रमशीय प्राप्नवानि।
एतन्मन्त्रं व्याख्यातुं प्रस्तौति —
“घृतं वै देवा वज्रं कृत्वा सोममघ्नन्नन्तिकमिव खलु वा अस्यैतच्चरन्ति यत्तानूनप्त्रेण प्रचरन्ति” (सं. का. ६ प्र. २ अ. २) इति।
पुरा कदाचित्स्वसामर्थ्याद्वज्रीकृतेन घृतेन सोमस्य देवैस्ताडितत्वात्सोमो घृताद्बिभेति। ऋत्विजश्च वेद्यां तानूनप्त्रेणाऽऽज्येन प्रचरन्तीति यदेतदस्य सोमस्यान्तिकं यथा भवति तथा चरन्ति। आहवनीयदक्षिणभागे सोमस्य स्थितत्वात्। अतो भीतः सोम आप्याययितव्यः।
आप्यायनस्यप्रसङ्गं दर्शयित्वा तन्मन्त्रं व्याचष्टे —
“अँशुरँशुस्ते देव सोमाऽऽप्यायतामित्याह यदेवास्यापुवायते यन्मीयते तदेवास्यैतेनाऽऽप्याययत्या तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वेत्याहोभावेवेन्द्रं च सोमं चाऽऽप्याययत्या प्यायय सखीन्त्सन्या मेधयेत्याहर्त्विजो वा अस्य सखायस्तानेवाऽऽप्याययति स्वस्ति ते देव सोम सुत्यामशीयेत्याहाऽऽशिषमेवैतामा शास्ते” (सं. का. ६ प्र. २ अ. २) इति।
अस्य सोमस्य यदङ्गमपुवायते शुष्यति यच्च मीयते।
एष्टेति। कल्पः – “न प्रस्तरायाऽऽश्रावयति न बर्हिरनुप्रहरति तं दक्षिणार्धे वेद्यै निधाय तस्मिन्दक्षिणोत्तरेण निह्नुवते एष्टा रायः प्रेषे भगायर्तमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति” इति।
आतिथ्येष्टौ यः प्रस्तरो यच्च तत्रत्यं बर्हिस्तदुभयमग्नौ न प्रहरणीयं किंतु तं प्रस्तरं वेद्या दक्षिणार्धे निधाय तस्मिन्प्रस्तरे दक्षिणपाणीनुत्तानान्कृत्वा सव्यान्नीचैः कृत्वा सर्वे निह्नवमपलापसदृशं नमस्कारोपचारं कुर्युः। मन्त्रार्थस्तु एष्टृशब्द इच्छावन्तं द्यावापृथिव्यभिमानिनं देवमाचष्टे। स हि दयालुतया भक्तेषु पुरुषेष्विच्छावान्। हे तादृग्देव त्वमृतवादिभ्यो यज्ञवादिभ्योऽस्मभ्यमृतं यज्ञं प्रकृष्टं देहीत्याध्याहारः। किमर्थम्। रायो राये धनार्थम्। इषेऽन्नार्थम्। भगायैश्वर्यादिषङ्गुणार्थम्।
ते च गुणा एवं स्मर्यन्ते —
“एश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः।ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा” इति।
वयं पुनर्द्युदेवतायै भूदेवतायै च नमस्कुर्मः।
नायमकाण्डे नमस्कारः किंतु तस्य निमित्तमस्तीत्याह —
“प्र वा एतेऽस्माल्लोकाच्च्यवन्ते ये सोममाप्याययन्त्यन्तरिक्षदेवत्यो हि सोम आप्यायित एष्टा रायः प्रेषे भगायेत्याह द्यावापृथिवीभ्यामेव नमस्कृत्यास्मिल्ँ लोके प्रति तिष्ठन्ति” (सं. का. ६ प्र. २ अ. २) इति।
आप्यायितस्य सोमस्य नाभिदघ्न्यामासन्द्यां पर्यवस्थितत्वादन्तरिक्षदेवत्यत्वम्। तादृशस्य सोमस्याऽऽप्याययितारोऽपि तथाविधा इत्यास्माल्लोकात्प्रच्युता अतोऽस्मिल्ँ लोके प्रतिष्ठित्यै नमस्कारः क्रियते।
अग्ने इति। कल्पः – “अथ यजमानमवान्तरदीक्षामुपनयति अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि या मम तनूरेषा सा त्वयि या तव तनूरियँ सा मयि सह नौ व्रतिनोर्व्रतानीति” इति।
अनेन मन्त्रेणाऽऽहवनीयस्योपस्थानम्। अत्रावान्तरदीक्षोपक्रमः। हेऽग्ने व्रतपते त्वं व्रतपतिरसि। नैकस्य व्रतस्य पतिः किंतु सर्वेषामिति विवक्षां द्योतयितुं व्रतानामित्युक्तम्। व्रतमाचरन्ती मदीया तनूस्त्वयि मनसा समर्पिता। त्वदीया तु व्रतं पालयन्ती तनूर्मयि मनसा स्थापिता। तथा सति आवामुभावपि व्रतिनौ संपद्यावहे। तयोर्व्रतानि सह प्रवर्तन्ताम्।
या त इति। कल्पः — “अथैनं संशास्ति संतरां मेखलां समायच्छस्व संतरां मुष्टी कुरष्व तप्तव्रत एधि मदन्तीभिर्मार्जयस्वोत्पूर्वं व्रतं सृज या ते अग्ने रुद्रिया तनूस्तया नः पाहि तस्यास्ते स्वाहेत्येनैवातोऽधिव्रतय” इति।
या मेखला पूर्वं मध्ये संनद्धा सा संकुचिततरा यथा भवति तथा नियन्तव्या। ये च मुष्टी कृते ते अप्यतिसंकोचेन दृढीकर्तव्ये। उष्णक्षीरी भवेदुष्णोदकी भवेत्। पूर्वचमसमुत्सृजेत् तत्र या ते अग्न इत्ययं मन्त्रः। अनेनैव मन्त्रेणात ऊर्ध्वं व्रतं पिबेत्। हेऽग्नै या तव तनूस्त्वयि रुद्रिया क्रूरा तयाऽस्मान्पालय। त्वदीयायास्तस्यास्तन्वा इदं हुतमस्तु।
अग्ने व्रतपत इत्यस्य मन्त्रस्य स्पष्टार्थतामभिप्रेत्यावान्तरदीक्षारम्भं विधत्ते —
“देवासुराः संयत्ता आसन्ते देवा बिभ्यतोऽग्निं प्राविशन्तस्मादाहुरग्निः सर्वा देवता इति तेऽग्निमेव वरूथं कृत्वाऽतुरानभ्यभवन्नग्निमिव खलु वा एष प्र वि-
शति योऽवान्तरदीक्षामुपैति भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्या भवति” (सं. का. ६ प्र. २ अ. २) इति।
परकायप्रवेशहेतुत्वाद्योगशास्त्रप्रसिद्धेन संयमविशेषण देवा अग्निमग्निशरीरं प्राविशन्। तपोरूपत्वेनाग्निसमानाऽवान्तरदीक्षा ततस्तामुपेयात्।
पूर्वोक्तां दीक्षामिदानीमुच्यमानावन्तरदीक्षां च प्रशंसति —
“आत्मानमेव दीक्षया पाति प्रजामवान्तरदीक्षया” (सं. का. ६ प्र. २ अ. २) इति।
अवान्तरदीक्षानियमान्विधत्ते —
“संतरां मेखलाँ समायच्छते प्रजा ह्यात्मनोऽन्तरतरा तप्तव्रतो भवति मदन्तीभिर्मार्जयते निर्ह्यग्निः शीतेन वायति समिद्ध्यै” (सं. का. ६ प्र. २ अ. २) इति।
सर्वो जनः स्वात्मानं क्लेशयित्वाऽप्यपत्यानि सम्यक्परिपालयति। अतः स्वस्मादपि प्रजाऽभ्यन्तरा। मेखलायास्तु प्रजास्थानीयत्वेनान्तरत्वात्संश्लिष्टतरं यथा भवति तथा समाच्छादयेत्। शीतेन क्षीरेण शीताभिरद्भिश्चाग्निर्निर्वायति। तस्मादुदराग्निसमिन्धनाय पेयस्य क्षीरस्य मार्जनहेतोरुदकस्य चौष्ण्यं कर्तव्यम्।
व्रतमन्त्रे रुद्रियाशब्दाभिप्रायमाह —
“या ते अग्ने रुद्रिया तनूरित्याह स्वयैवैनद्देवतया व्रतयति सयोनित्वाय शान्त्यै” (सं. का. ६ प्र. २ अ. २) इति।
स्वोदराग्नेरपरं रूपं रुद्रिया तनूस्तया दुग्धे तप्ते सति स्वया देवतया सहै(स्वयै)व दुग्धं व्रतयति भुङ्क्ते। तच्च भोजनं सयोनित्वाय योनिभूतेनाग्निना साहित्याय। तच्च साहित्यमुग्रस्याग्नेः शान्त्यै भवति।
या ते अग्न इति। कल्पः — “आज्यस्थाल्याः स्रुवेणोपहत्य प्रथमामुपसदं जुहोति या ते अग्नेऽयाशया तनूर्विर्षिष्ठा गह्वरेष्ठो वचो अपावधीं त्वेषं वचो अपावधीँ स्वाहेति” इति।
अत्र या ते अग्नेऽयाशया रजाशया हराशया तनूर्वर्षिष्ठा गह्वरेष्ठेत्येतादृश(शो) [मन्त्र] आम्नातः। तस्मिन्नयाशयादिपदत्रयेण त्रयो मन्त्रा भवन्ति। तेषु प्रथममन्त्रे तनूरित्यादिरनुषज्यते। द्वितीयो तु या ते अग्न इति।
तनूरिति चोभयमनुषज्यते। तृतीये तु या ते अग्न इत्ययमेवानुषज्यते। तैरतैस्त्रिभिर्मन्त्रैस्त्रिषु दिनेषु क्रमेणोपसदाख्या आहुतयो होतव्याः। अयसि शेत इत्ययाशया लोहनिर्मिता। तथा रजते शेत इति रजाशया। हिरण्ये शेत इति हराशयान वर्षिष्ठा वृद्धतमा। गह्वरे स्प्रष्टुमशक्ये तप्ते लोहे तप्तरजते तप्तहिरण्ये वा तिष्टतीति गह्वरेष्ठा। अन्नपानयोरलाभेन क्षुधितोऽहं पिपासितोऽहमित्युक्तिरुग्रं वचस्तदेतदैहिकमामुष्मिकं तु त्वेषं दीपकं मनसः संतापजनकं वचः। तत्तु जना इत्थं वदन्ति – अद्य गोवधाद्युपपातकलक्षणमेनः प्राप्तं विद्वद्ब्राह्मणवधादिरूपा वीरहत्या प्राप्तेति। इदं तु पदव्याख्यानमन्यत्र ब्राह्मणं स्पष्टमाम्नातम् — “अशनयापिपासे ह वा उग्रं वचः। एनश्च वैरहत्यं च त्वेषं वचः” इति। अत्रायं वाक्यार्थः — हेऽग्ने या तवायाशया तनूस्तयाऽहं द्वे अपि वचसी अपावधीं नाशितवानस्मि। एवमुत्तरयोरपि योज्यम्। तस्मा अग्नय इदं हुतमस्तु।
त्रीनेतानुपसद्धोमान्विधातुं प्रस्तौति —
“तेषामसुराणां तिस्त्रः पुर आसन्नयस्मय्यवमाऽथ रजताऽथ हरिणी ता देवा जेतुं नाशक्नुवन्ता उपसदैवाजिगीषन्तस्मादाहुर्यश्चैवं वेद यश्च नोपसदा वै महापुरं जयन्तीति त इषुँ समस्कुर्वताग्निमनीकँ सोमँ शल्यं विष्णुं तेजनं तेऽब्रुवन्क इमामसिष्यतीति रुद्र इत्यब्रुवन्रुद्रोवै क्रूरः सोऽस्यत्विति सोऽब्रवीद्वरं वृणा अहमेव पशूनामधिपतिरसानीति तस्माद्रुद्रः पशूनामधिपतिस्ताँ रुद्रोऽवासृजत्स तिस्रः पुरो भित्त्वैभ्यो लोकेभ्योऽसुरान्प्राणुदत” (सं. का. ६ प्र. २ अ. २) इति।
ये पूर्वमग्निना वरूथेन पराभूता असुरास्तेषामसुराणां पृथिव्यन्तरिक्षद्युलोकेषु स्वरक्षार्थं तिस्रः पुरो दुर्गरूपा आसन्। तासु पृथिवीवर्तिनी लोहप्राकारवेष्टिता। तादृशीः पुरो देवा अग्निना वरूथेनापि जेतुमशक्ता युद्धं परित्याज्योपसदैव जेतुमैच्छन्। दुर्गं परितोऽवरुध्य चिरं तत्समीपेऽवस्थाय तमुप(पा)वसन् चिरकालावस्थाने सति दुर्गमध्येऽन्नपानादिक्षयादन्तर्भेदाद्वा जयो भव[ती]ति। यस्माद्देवैश्चिरवासो जयोपायत्वेन विचारितस्तस्माल्लोकेऽप्याहुः। के किमाहुः। यश्च ब्राह्मणादिर्वेदाध्ययनेन वेदविचारं जानाति यश्च शूद्रादिर्न जानाति ते सर्वेऽपि युद्धेनाजेयं महापुरमुपसदा जेतुं शक्यमित्याहुः। ततो देवाः कालविलम्बो मा भूदिति विचार्य युद्धेनैव जेतुमिषुं संस्कृतवन्तः। अग्निं सोमं विष्णुं च संभूयैकबाणं कृत्वा तेन जेतुमुद्युक्ताः। अनीकशब्दो बाणस्य प्रथमभागकाष्ठमाचष्टे। शल्यशब्दो लोहम्। तेजनशब्दस्तदग्रम्। तामिमां देवतात्रयसमष्टिरूपामिषुं स्त्रीबालसहितकृत्स्नासुरघातिनीं को नाम मोक्ष्यतीति विचार्य शक्तो निर्घृणश्च रुद्र इति निश्चित्य तस्मै वरं दत्तवन्तः। स रुद्रस्तामिषुं मुक्त्वा तया प्राकारत्रयं विभिद्य त्रिभ्यो लोकेभ्योऽसुरान्निःसारयामास।
विधत्ते —
“यदुपसद उपसद्यन्ते भ्रातृव्यपराणुत्त्यै” (सं. का. ६ प्र. २ अ. ३) इति।
वैरिदुर्गोपसदनकार्यकारित्वादेता आहुतय उपसद इत्युच्यन्ते। तत्राग्निः सोमो विष्णुरित्येवंरूपास्तिस्रो देवतास्तासां याज्यापुरोनुवाक्या हौत्र एवाऽऽम्नायन्ते। अयाशयादितनुधारी वह्निश्चतुर्थी देवता। तदीयमन्त्र आध्वर्यवत्वादत्रैवाऽऽम्नातः। उपसदामाज्यहविष्ट्वेनोपांशुयाजवत्प्रयाजाज्यभागाद्याहुतिप्रसक्तौ प्रतिषेधति —
“नान्यामाहुतिं पुरस्ताज्जुहुयाद्यदन्यामाहुतिं पुरस्ताज्जुहुयादन्यन्प्रुखं कुर्यात्” (सं. का. ६ प्र. २ अ. ३) इति।
अग्निमनीकमिति बाणव्याजेनाग्नेः प्रथमभावित्वलक्षणं मुखत्वमुक्तम्। तत्र प्रयाजादिहोमे वह्नेर्मुखत्वं हीयेत।
आहुत्यन्तराणां सर्वेषां निषेधप्राप्तौ कांचिदाहुतिं विधत्ते —
“स्रुवेणाऽऽघारमा घारयति यज्ञस्य प्रज्ञात्यै” (सं. का. ६ प्र. २ अ. ३) इति।
दर्शपूर्णमासादियज्ञानामाघारोपेतत्वादुपसदामपि यज्ञत्वप्रत्यभिज्ञानाय स्रुवाघारः।
तिसृणामुपसदां होमप्रकारं विधत्ते —
“पराङतिक्रम्य जुहोति पराच एवैभ्यो लोकेभ्यो यजमानो भ्रातृव्यान्प्र णुदते” (सं. का. ६ प्र. २ अ. ३) इति।
पराङ्पुनरावृत्तिरहितो वेद्याहवनीययोर्मध्यमतिक्रम्य दक्षिणस्यां दिश्युदङ्गमुखः स्थित्वा क्रमेणाग्नेः सोमस्य विष्णोश्च तिस्र आहुतीर्जुहुयात्। तथा सति वैरिणोऽपि पुनरावृत्तिरहितानेव कृत्वा लोकत्रयान्निःसारयति।
चतुर्थाहुतिप्रकारं विधत्ते —
“पुनरत्याक्रम्योपसदं जुहोति प्रणुद्यैवैभ्यो लोकेभ्यो भ्रातृव्याञ्जित्वा भ्रातृव्यलोकमभ्यारोहति” (सं. का. ६ प्र. २ अ. ३) इति।
दक्षिणदेशादुत्तरस्यां दिशि समागत्य चतुर्थीमुपसद जुहुयात्। तथा सति वैरिणो निःसार्य स्वर्गं गत्वा वैरिस्थानं पुरत्रयमधितिष्ठति।
अत्र सूत्रम् — “ध्रौवादष्टौ जुह्वां गृह्णाति चतुरुपभृति घृतवतिशब्दे जुहूपभृतावादाय दक्षिणा सकृदतिक्रान्त उपाँशुयाजवत्प्रचरत्यर्धेन जौहवस्याग्निं यजति। अर्धेन सोममौपभृतं जुह्वामानीय विष्णुमिष्ट्वा प्रत्याक्रम्य या ते अग्नेऽयाशया तनूरिति स्रुवेणोपसदं जुहोति” इति।
कालद्वये तदनुष्ठानं विधत्ते —
“देवा वै याः प्रातरुपसद उपासीदन्नह्नस्ताभिरसुरान्प्राणुदन्त याः सायँ रात्रियै ताभिर्यत्सायंप्रातरुपसद उपसद्यन्तेऽहोरात्राभ्यामेव तद्यजमानो भ्रातृव्यान्प्रणुदते” (सं. का. ६ प्र. २ अ. ३) इति।
उपासीदन्ननुष्ठितवन्तः। प्रातरनुष्ठिताभिरह्नो वैरिनिःसारणं सायमनुष्ठिताभिस्तु रात्रेः।
कालद्वये याज्यानुवाक्ययोर्व्यत्यासं विधत्ते —
“याः प्रातर्याज्याः स्युस्ताः सायं पुरोनुवाक्याः कुर्यादयातयामत्वाय” (सं. का. ६ प्र. २ अ. ३) इति।
यातयामत्वं गतरसत्वं तद्वर्जनाय व्यत्यासः।
दिनत्रये तदनुष्ठानं विधत्ते —
“तिस्र उपसद उपैति त्रय इमे लोका इमानेव लोकान्प्रीणाति” (सं. का. ६ प्र. २ अ. ३) इति।
त्रिषु दिनेषु कालद्वयेऽनुष्ठानं प्रशंसति —
“षट्सं पद्यन्ते षड्वा ऋतव ऋतूनेव प्रीणाति” (सं. का. ६ प्र. २ अ. ३) इति।
प्रसङ्गादहीने द्विरात्रादावुपसद्दिनसंख्यां विधत्ते —
“द्वादशाहीने सोम उपैति द्वादश मासाः संवत्सरः संवत्सरमेव प्रीणाति” (सं. का. ६ प्र. २ अ. ३) इति।
अहःसंघेन निष्पाद्यः सोमयागोऽहीनः। सत्रमप्यनेनोपलक्ष्यते। अहःसमूहस्य समानत्वात्।
द्वादशदिनेषु कालद्वयानुष्ठानं प्रशंसति —
“चतुर्विंँशतिः संपद्यन्ते चतुर्विँशतिरर्धमासा अर्धमासानेव प्रीणाति” (सं. का. ६ प्र. २ अ. ३) इति।
एतेषूपसद्दिनेष्ववान्तरदीक्षान्व्रतपाने स्तनसंख्यां विधत्ते —
“आराग्रामवान्तरदीक्षामुपेयाद्यः कामयेतास्मिन्मे लोकेऽर्धुकँ स्यादित्येकमग्नेऽथ द्वावथ त्रीनथ चतुर एषा वा आराग्राऽवान्तरदीक्षाऽस्मिन्नेवास्मै लोकेऽर्धुकं भवति” (सं. का. ६ प्र. २ अ. ६) इति।
बलीवर्दप्रतोदनं लोहमारं तद्वदल्पमग्रं मुखं यस्याः साऽऽराग्रा। अर्धुकं समृद्धिशीलं फलम्। सोमक्रयदिने सायमेकं स्तनं दुह्यात्, अपरेद्युः प्रातर्द्वौ स्तनौ, सायं त्रीन्स्तनान्, परेद्युः प्रातश्चतुरः।
यस्तु परलोकसमृद्धिकामस्तस्योक्तवैपरीत्यं विधत्ते —
“परोवरीयसीमवान्तरदीक्षामुपेयाद्यः कामयेतामुष्मिन्मे लोकेऽर्धुकँ स्यादिति चतुरोऽग्रेऽथ त्रीनथ द्वावथैकमेषा वै परोवरीयस्यवान्तरदीक्षाऽमुष्मिन्नेवास्मै लोकेऽर्धुकं भवति” (सं. का. ६ प्र. २ अ. ३) इति।
परःशब्देनात्र श्रेष्ठत्वादुपक्रमो विवक्षितः। उपक्रमे वरीयोऽधिकं यस्याः सा परोवरीयसी। अयं पक्षः सूत्र उपन्यस्तः — “यदहः सोमं क्रीणीयुस्तदहश्चतुरः सायं दुह्युस्त्रीन्प्रातर्द्वौ सायमेकमुत्तमे” इति।
अशक्तस्य क्षीरव्रतादूर्ध्वमाहारमल्पमनुजानाति —
“सुवर्णं वा एते लोकं यन्ति य उपसद उपयन्ति तेषां य उन्नयते हीयत एव स नोदनेषीति सून्नीयमिव” (सं. का. ६ प्र. २ अ. ४) इति।
उपसदां स्वर्गप्राप्तिहेतुत्वात्तदनुष्ठायिभिरवहितैर्भवितव्यम्। तेषां मध्ये यः कोऽपि हीनमनस्को यथोक्तव्रतादूर्ध्वमोदनादिकमन्तर्नयेत्स स्वर्गाद्धीयत एव। तस्मादशक्तोऽपि श्रद्धालुतया नोदनेषि न किंचिदपि व्रतादूर्ध्वमन्तर्नेष्यामीति यदि मन्येत तेन सून्नीयमिव शोभनं वाक्यान्तराभ्यनुज्ञातं वस्तून्नीतमिव कुर्यात्।
अशक्तिपरिहारमात्रोपयुक्तं किंचिदेव स्वीकार्तव्यम्। वाक्यान्तरं तु कूष्माण्डहोमप्रकरणे समाम्नायते — “पयो ब्राह्मणस्य व्रतं यवागू राजन्यस्याऽऽमिक्षा वैश्यस्याथो सौम्यैऽप्यध्वर एतद्व्रतं ब्रूयाद्यदि मन्येतोपदस्यामीत्योदनं धानाः सक्तून्घृतमित्यनुव्रतयेदात्मनोऽनुपदासाय” इति। उपदस्याभ्युपक्षीणो भवामि।
अनुव्रते कृतेऽपि फलभ्रंशो नास्तीत्यस्मिन्नर्थे दृष्टान्तमाह —
“यो वै स्वार्थेतां यताँ श्रान्तो हीयत उत स निष्ट्याय सह वसति” (सं. का. ६ प्र. २ अ. ४) इति।
स्वार्थं यन्ति गच्छन्तीति स्वार्थेतस्तेषां स्वार्थेताम्। यतन्त इति यतस्तेषां यताम्। मकरमासे प्रयागस्नानं केषांचित्स्वार्थस्तं प्राप्तुं प्रयतमानानां स्वग्रामान्निर्गत्य गच्छतां मध्ये यः कश्चिच्छ्रान्तो गन्तुमशक्तः संक्रान्तिकालीनस्नानाद्धीयते सोऽपि निष्ट्याय परेद्युर्निर्गत्य तीर्थे गत्वा तैस्तीर्थवासिभिः सहावशिष्टं मासं वसति तद्वदयमप्येकेनानुव्रतेनाशक्तिं परिहृत्य शिष्टं नियममनुतिष्ठेत्।
तमिममर्थं निगमयति —
“तस्मात्सकृदुन्नीय नापरमुन्नयेत” (सं. का. ६ प्र. २ अ. ४) इति।
सकृदुन्नयने द्रव्यं विधत्ते —
“दध्नोन्नयेतैतद्वै पशूनाँ रूपँ रूपेणैव पशूनव रुन्धे” (सं. का. ६ प्र. २ अ. ४) इति।
अथ सौमिकीं वेदिं विधातुं प्रस्तौति —
“यज्ञो देवेभ्यो निलायत विष्णू रूपं कृत्वा स पृथिवीं प्राविशत्तं देवा हस्तान्त्सँरभ्यैच्छन्तमिन्द्र उपर्युपर्यत्यक्रामत्सोऽब्रवीत्को माऽयमुपर्युपर्यत्यक्रमीदित्यहं दुर्गे हन्तेत्यथ कस्त्वमित्यहं दुर्गादाहर्तेति सोऽब्रवीद्दुर्गे वै हन्ताऽवोचथा वराहोऽयं वाममोषः सप्तानां गिरीणां परस्ताद्वित्तं वेद्यमसुराणां बिभर्ति तं जहि यदि दुर्गे हन्ताऽसीति स दर्भपुञ्जीलमुद्वृत्य सप्तगिरीन्भित्त्वा तमहन्त्सोऽब्रवीद्दुर्गाद्वा आहर्ताऽवोचथा एतमा हरेति तमेभ्यो यज्ञ एव यज्ञमाऽहरद्यत्तद्वित्तं वेद्यमसुराणामविन्दन्त तदेकं वेद्यै वेदित्वम्” (सं. का. ६ प्र. २ अ. ४) इति।
स्वर्गलोके स्थितो यज्ञपुरुषस्तिरोधानाय विष्णुर्भूत्वा वैष्णवं रूपं संपूर्णं कृत्वा देवेभ्यः पलाय्य पृथिवीं प्राविशत्। देवाश्च पृष्ठत एव समागत्य हस्तान्प्रसार्य तं धर्तुमैच्छन्। अयं यज्ञो यत्र यत्र गच्छति तत्र तत्रेन्द्रस्तमतिक्रम्य पुरतो मार्गमवरुध्यातिष्ठत्। कोऽयं मामत्यक्रमीदिति यज्ञेनाऽक्षिप्त इन्द्रः केनाप्यगम्ये दुर्गे गत्वा विरोधिनं ताडयिष्यामीति स्वमहिमानं प्रतिजज्ञे। अथैवं मच्छक्तेः परीक्षकः को नाम त्वमसीतीन्द्रेणाऽऽक्षिप्तो यज्ञस्तादृशश्च दुर्गात्तं विरोधिनमाहरिष्यामीति स्वाशक्तिं प्रतिजज्ञौ(ज्ञे)। प्रतिज्ञाय स्वकीयं पूर्ववृत्तान्तमिन्द्रस्य पुरतः सर्वमवोचत्। पुरा कदाचिदसुरप्राबल्यं दृष्ट्वा मदङ्गभूतदीक्षाद्यभिमानिनः सर्वेऽपि स्वर्गलोकवासिनो मत्तो निर्गत्य पृथिवीं प्राविशन्। ते च के, चतुस्रो दीक्षास्तिस्र उपसद एका सुत्येत्यष्टदिवससाध्यानि कर्माणि।। तत्र दीक्षोपसदः सप्तपृथिव्यां गत्वा गिरयोऽभवन्। सुत्याभिमानी देवो वाममोषो वामं कमनीयं सौमिकवेदिग्रहचमसादिरूपं दैवं वित्तं मुष्णात्यपहरतीति वाममोषः। स च मुषितं तत्सर्वमसुरेभ्यो दत्त्वा स्वयं वराहो भूत्वा सप्तभ्यो गिरिभ्यः परस्तादसुराणां तद्वित्तं स्थितं विरोधिनं हन्ताऽसि तर्हि तं वराहं जहीत्युक्त इन्द्रो दर्भस्तम्बेनैव गिरीन्भित्त्वा वराहं ताडितवान्। तत इन्द्रो यज्ञमुवाच विरोधिनमाहरिष्यामीति यत्प्रतिज्ञातं तत्कर्तुं शक्नोषि चेदेनं विरोधिनं वराहमाहरेत्युक्तो यज्ञाभिमान्यवे तं वराहाकारं वेदिग्रहचमसादिवित्तोपेतं यज्ञमेभ्यो देवेभ्य आहृत्य ददौ। यस्माद्देवैर्लब्धव्यमसुराणां तद्वेदिरूपं वित्तं देवा अविन्दन्तालभन्त तस्माद्विद्यते लभ्यत इति व्युत्पत्त्या वेदेर्वेदिनाम संपन्नम्। वक्ष्यमाणमपेक्ष्यायमेकः प्रकारः। तस्मादेकं वेदित्वमित्युच्यते।
प्रकारान्तरेणापि वेदित्वं दर्शयति —
“असुराणां वा इयमग्र आसीद्यावदासीनः परापश्यति तावद्देवानां ते देवा अब्रुवन्नस्त्वेव नोऽस्यामपीति कियद्वो दास्याम इति यावदियँ सलावृकी त्रिः परिक्रामति तावन्नो दत्तेति स इन्द्रः सलावृकी रूपं कृत्वेमां त्रिः सर्वतः पर्यक्रामत्तदिमामविन्दन्त यदिमामविन्दन्त तद्वेद्यै वेदित्वम्” (सं. का. ६ प्रं. २ अ. ४) इति।
दार्शिके वेदिब्राह्मणेऽप्येतदुपाख्यानं श्रुतम्। तत्र वसवस्त्वेति मन्त्रैर्यावान्प्रदेशः परिगृहीतस्तावत्येव वेदिः। अत्र तु कृत्स्नाऽपि भूमिर्वेदिरिति विशेषः।
कृत्स्नभूमेर्वेदित्वेऽपि यागोपयुक्तप्रदेशः पृथक्कल्पनीय इति विधत्ते —
“सा वा इयँ सर्वैव वेदिरियति शक्ष्यामीति त्वा अवमाय यजन्ते” (सं. का. ६ प्रं. २ अ. ४)इति।
भूमिः सर्वा यद्यपि वेदिरेव तथाऽपि न यत्र क्वापि यष्टव्यं किंत्वेतावति प्रदेशे सदोहविर्धानादिकं निर्मातुं शक्ष्यामीति निश्चित्य तावन्तं प्रदेशमवमाय पदैः परिमित्य तस्मिन्प्रदेशे यजेरन्।
तत्र पदसंख्यां विधत्ते —
“त्रिँशत्पदानि पश्चात्तिरश्ची भवति षट्त्रिँशत्प्राची चतुर्विँशतिः पुरस्तात्तिरश्ची दशदश सं पद्यन्ते दशाक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव रुन्धे” [सं. का. ६ प्रं. २ अ. ४] इति।
अत्रोक्तपदसंख्यायां सर्वस्यां मेलितायां नवसंख्याकानि दशकानि संपद्यन्ते। तदेवं वेदिप्रदेशप्रमाणं मध्यम उपसद्दिने प्रातःकालीनाया उपसद ऊर्ध्वं कर्तव्यम्।
तथा च सूत्रम् — “अन्तरा मध्यमे प्रवर्ग्योपसदौ वेदिं कुर्वन्ति प्राग्वंशस्य मध्यमाल्लालाटिकात् त्रीन्प्राचः प्रक्रमान्प्रक्रम्य शङ्कुं निहन्ति तस्मात्पञ्चदशसु दक्षिणत एवमुत्तरतस्ते श्रोणी प्रथमनिहिताच्छङ्कोः षट्त्रिंशतिः पुरस्तात्तस्माद्द्वादशसु दक्षिणत एवमुत्तरतस्तावंसौ” इति।
यथोक्तपरिमाणवति प्रदेश उपरितनमृत्तिकाया अपनयनं विधत्ते —
“उद्धन्ति यदेवास्या अमेध्यं तदपहन्ति” (सं. का. ६ प्रं. २ अ. ४) इति।
निष्ठीवनादिकृतमशुचित्वमुद्धनेनापैति।
तमेव विधिमनूद्य प्रशंसति —
“उद्धन्ति तस्मादोषधयः परा भवन्ति बर्हिः स्तृणाति तस्मादोषधयः पुनरा भवन्ति” [सं. का. ६ प्रं. २ अ. ३] इति।
पूर्वं तस्मिन्प्रदेशे समुत्पन्नास्तृणविशेषा उद्धननेन पराभूता भवन्ति तस्मात्कृत्स्नवेद्यां बर्हिरास्तरणादोषधयः पुनरागता भवन्ति।
तस्य बर्हिष उपरि पुनरप्यग्नीषोमीयपश्वर्थं बर्हिरुत्तरवेदिप्रदेशे स्तृणीयादिति विधत्ते —
“उत्तरं बर्हिष उत्तरबर्हिः स्तृणाति प्रजा वै बर्हिर्यजमान उत्तरबर्हिर्यजमानमेवायजमानादुत्तरं करोति तस्माद्यजमानोऽयजमानादुत्तरः” (सं. का. ६ प्रं. २ अ. ४) इति।
उत्कृष्ट इत्यर्थः।
यत्पूर्वं विहितं तिस्र उपसद उपैति द्वादशाहीने सोम उपैतीति तत्र विपक्षस्वपक्षयोर्बाधाबाधावुपन्यस्यति —
“यद्वा अनीशानो भारमादत्ते वि वै स लिशते यद्द्वादश साह्नस्योपसदः स्युस्तिस्रोऽहीनस्य यज्ञस्य विलोम क्रियेत तिस्त्र एव साह्नस्योपसदो द्वादशाही
नस्य यज्ञस्य सवीयंत्वायाथो सलोम क्रियते” (सं. का. ६ प्रं. २ अ. ५ ) इति।
लोके यद्यशक्तः कश्चित्प्रौढं भारं वोढुमाददीत तदा स विलिशते विशेषेणाल्पी भवति उत्थातुमप्यशक्तो भूमौ पतेत्। तद्वदत्रापि योज्यते। अह्ना सह वर्तत इति साह्न एकाहो ज्योतिष्टोमः। अहःसंघसाध्योऽहीनो द्विरात्रादिः। तत्र यद्यल्पस्य साह्नस्य द्वादश स्युर्यदि वाऽधिकस्याहीनस्य तिस्रः स्युस्तदा विलोम विपरीतं क्रियेत। तथा सति साह्नस्य वीर्यं हीयेत। स्वपक्षे तु नास्ति तदुभयम्।
यच्चान्यत्पूर्वं विहितमाराग्रामवान्तरदीक्षामुपेयादिति तत्प्रशंसति —
“वत्सस्यैकः स्तनो भागी हि सोऽथैकँ स्तनं व्रतमुपैत्यथ द्वावथ त्रीनथ चतुर एतद्वै क्षुरपवि नाम व्रतं येन प्र जातान्भ्रातृव्यान्नुदते प्रति जनिष्यमाणानथो कनीयसैव भूय उपैति” (सं. का. ६ प्रं. २ अ. ५) इति।
वत्सस्य भागो यः स्तनस्तस्मिन्नप्यल्पं पयो यजमानश्चतुर्थे पर्याये स्वी करोति। ततोऽस्य चतुस्तननियमः सिध्यति। तदेतदेकस्तनादिकं व्रतं क्षुरपवीत्युच्यते। पविर्वज्रं तेन तीक्ष्णत्वमुपलक्ष्यते। क्षुरवत्पविस्तैक्ष्णयं यस्याऽऽराग्राव्रतस्य तेन व्रतेन पूर्वमुत्पन्नान्वैरिणो विनाशयति जनिष्यमाणांश्च प्रतिबध्नाति। किंचात्यल्पेन कर्मणा भूयः फलं प्राप्नोति। यथोप्तेनाल्पेन बीजेन प्रौढं वृक्षं फलं प्राप्नोति तद्वत्।
यदन्यत्पूर्वं विहितं परोवरीयसीमवान्तरदीक्षामुपेयादिति तत्प्रशंसति —
“चतुरोऽग्रे स्तनान्व्रतमुपैत्यथ त्रीनथ द्वावथैकमेतद्वै सुजघनं नाम व्रतं तपस्यँ सुवर्ग्यमथो प्रैव जायते प्रजया पशुभिः” (सं. का. ६ प्रं. २ अ. ५) इति।
यथा रूपवत्या युवत्या योषितो जघनप्रदेशः स्थूलस्तस्योपरि देहमध्यप्रदेशः कृशस्तद्वदस्य व्रतस्याधोभागश्चतुस्तन उपरिभाग एकस्तन इति सुजघनमिति नाम। तपस्यमुत्तरोत्तरमाहारक्षयात्तपसो योग्यम्। अत एव स्वर्गसाधानम्। किंच सुजघनत्वादेव प्रजाः पशूंश्च प्रजनयति।
त्रैवर्णिकानां मध्ये क्षत्त्रियस्य द्रव्यं विधत्ते —
“यवागू राजन्यस्य व्रतं क्रूरेव वै यवागूः क्रूर इव राजन्यो वज्रस्य रूपँ समृद्ध्यै” (सं. का. ६ प्रं. २ अ. ५) इति।
यवाग्वा ओदनवत्तृप्तिहेतुत्वाभावात्क्रूरत्वम्। राज्यन्यो दुष्टशिक्षकत्वात्क्रूरः। उभयं मिलित्वा यद्वज्रसदृशं तच्चानिष्टनिवर्तकत्वेन समृद्ध्यै भवति।
विधत्ते — ‘आमिक्षा वैश्यस्य पाकयज्ञस्य रूपं पुष्ट्यै’ (सं. का. ६ प्रं. २ अ. ५) इति।
तप्ते पयसि दधिप्रक्षेपेण घनीभूतो भागोऽसावामिक्षा। पक्वेन पुरोडाशादिना कृतो यज्ञः पाकयज्ञः। आमिक्षायाः पक्वपयोनिष्पन्नत्वात्पाकयज्ञस्य रूपमतः पुष्ट्यै भवति।
विधत्ते —
‘पयो ब्राह्मणस्य तेजो वै ब्राह्मणस्तेजः पयस्तेजसैव तेजः पय आत्मन्धत्तेऽथो पयसा वै गर्भा वर्धन्ते गर्भ इव खलु वा एष यद्दीक्षितो यदस्य पयो व्रतं भवत्यात्मानमेव तद्वर्धयति’ [सं. का. ६ प्रं. २ अ. ५] इति।
ब्राह्मणोऽध्यापनादिरूपेण तेजसा युक्तः। पयसस्तेजोवत्स्वच्छरूपत्वात्स्वयमेव तेजस्वि। पयसि पीते सति स्वकीयेन तेजसा सह पयोरूपं तेज आत्मनि धृतं भवति। किंच दीक्षितस्य गर्भरूपत्वात्पयसा वृद्धिर्युज्यते।
मध्याह्नमध्यरात्रयोर्व्रतकालत्वं विधातुं प्रस्तौति —
“त्रिव्रतो वै मनुरासीद्द्विव्रता असुरा एकव्रता देवाः प्रातर्मध्यंदिने सायं तन्मनोर्व्रतमासीत्पाकयज्ञस्य रूपं पुष्ट्यै प्रातश्च सायं चासुराणां निर्मध्यं क्षुधोरूपं ततस्ते पराऽभवन्मध्यंदिने मध्यरात्रे देवानां ततस्तेऽभवन्त्सुवर्गं लोकमायन्” (सं. का. ६ प्रं. २ अ. ५) इति।
अहनि त्रिषु कालेषु व्रतं भोजनं कुर्वतो मनोरेकस्मिन्नेव काले व्रतं कुर्वतां देवानां च मध्याह्नकाले व्रतमस्ति। स च कालः क्षुधः स्वरूपम्। तस्मिन्व्रतरहिता असुराः पराभूताः। व्रतयुक्तास्तु मनुर्देवाश्च पुष्टिं स्वर्गं च प्राप्ताः। ततो मध्याह्नकालः प्रशस्तः।
विधत्ते —
“यदस्य मध्यंदिने मध्यरात्रे व्रतं भवति मध्यतो वा अन्नेन भुञ्जते मध्यत एव तदूर्जं धत्ते भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति” (सं. का. ६ प्रं. २ अ. ५) इति।
मुखमध्येऽन्नस्य भोजनमुदरमध्येऽन्नस्य च धारणं यथा लोके तथैवात्रापि मध्याह्ने मध्यरात्रे च व्रतं कर्तव्यम्।
दीक्षितस्य स्वनिवासस्थानात्प्रवासं निषेधति —
“गर्भो वा एष यद्दीक्षितो योनिर्दीक्षितविमितं यद्दीक्षितो दीक्षितविमितात्प्रवसेद्यथा योनेर्गर्भः स्यन्दति तादृगेव तन्न प्रवस्तव्यमात्मनो गोपीथाय” (सं. का. ६ प्रं. २ अ. ५) इति।
दीक्षितो विशेषेण मीयते प्रक्षिप्यते यस्मिञ्शालास्थाने तद्दीक्षितविमितं तस्य योनिरूपत्वात्। ततोऽस्य निर्गमनं गर्भस्रावसमम्। तत आत्मरक्षणार्थं न निर्गन्तव्यम्।
एतमेव निषेधं प्रकारान्तरेण प्रशंसति –
‘एष वै व्याघ्रः कुलगोपो यदग्निस्तस्माद्यद्दीक्षितः प्रवसेत्स एनमीश्वरोऽनूत्याय हन्तोर्न प्रवस्तव्यमात्मनो गुप्त्यै’ (सं. का. ६ प्रं. २ अ. ५) इति।
एष एवाऽऽहवंनीयोऽग्निः प्रवसतो व्याघ्रवद्धिंसको निवसतः कुलरक्षकः तस्मात्सोऽग्निः प्रवसन्तमेनमनु स्वयमुत्थाय हन्तुं समर्थः। प्रवासाभावस्त्वात्मनो रक्षणाय भवति।
आहवनीयस्य दक्षिणदेशं शयनार्थं विधत्ते —
‘दक्षिणतः शय एतद्वै यजमानस्याऽऽयतनँ स्व एवाऽऽयतने शये’ (सं. का. ६ प्रं. २ अ. ५) इति।
शेत इत्यर्थः।
शयनस्याऽऽहवनीयाभिमुख्यं विधत्ते —
‘अग्निमभ्यावृत्य शये देवता एव यज्ञमभ्यावृत्य शये’ (सं. का. ६ प्रं. २ अ. ५) इति।
अथ काम्यानि देवयजनानि विधीयन्ते। तत्र पुरोहविरादयः संज्ञाविशेषा उक्थ्यषोडश्यतिरात्राद्युत्तरयज्ञाः। स्वर्गकामिनं(णं) प्रति विधत्ते —
“पुरोहविषि देवयजने याजयेद्यं कामयेतोपैनमुत्तरो यज्ञो नमेदभि सुवर्गं लोकं जयेदिति” (सं. का. ६ प्रं. २ अ. ६) इति।
अनेन प्रकरेण यं यजमानमुद्दिश्य कामयेत तं पुरोहविर्नामके याजयेत्।
तस्य लक्षणमाह —
‘एतद्वै पुरोहविर्देवयजनं यस्य होता प्रातरनुवाकमनुब्रुवन्नग्निमप आदित्यमभि विपश्यति’ (सं. का. ६ प्रं. २ अ. ६) इति।
यस्य देवयजनस्य हविर्धानमण्डप आसीनः प्राङ्मुखो होता प्रातरनुवाकनामकं शस्त्रं पठेत्(ठन्) पुरोवर्तिनमाहवनीयाग्निं ततः प्राग्वर्तिनं नदीतडागादिजलं ततोऽपि, प्राग्दिश्युद्यन्तमादित्यं चाऽऽभिमुख्येन युगपत्पश्यत्येतादृग्देवयजनं पुरोहविरित्युच्यते।
कामितफलसिद्धिं दर्शयति —
“उपैनमुत्तरो यज्ञो नमत्यभि सुवर्गं लोकं जयति” [सं. का. ६ प्रं. २ अ. १] इति।
अन्यद्विधत्ते –
“आप्ते देवयजने याजयेद्भ्रातृव्यवन्तम्” [सं. का. ६ प्रं. २ अ. ६] इति।
आप्तनामकस्य लक्षणमाह —
“पन्थां वाऽधिस्पर्शयेत्कर्तं वा यावन्नानसे यातवै न रथायैतद्वा आप्तं देवयजनम्” (सं. का. ६ प्रं. २ अ. ६) इति।
प्रौढं राजमार्गं प्रौढं गर्तं वा विलोक्यऽऽधिक्येन तत्संस्पर्शो यथा भवति तथा देवयजनं निर्मातव्यम्। देवयजनगर्तयोर्मध्ये शकटस्य वा रथस्य वा यातवै गन्तुं यावदन्तरं न पर्याप्तं तावदेवान्तरं कर्तव्यम्। सोऽयमधिस्पर्शः। एतदेवाऽऽप्तनामकम्।
कामितार्थसिद्धिं दर्शयति —
“आप्नोत्येव भ्रातृव्यं नैनं भ्रातृव्य आप्नोति” (सं. का. ६ प्रं. २ अ. ६) इति। जयतीत्यर्थः।
विधत्ते —
“एकोन्नते देवयजने याजयेत्पशुकामम्” [सं. का. ६ प्रं. २ अ. ६] इति।
प्रशंसति —
“एकोन्नते देवयजनादङ्गिरसः पशूनसृजन्त” [सं. का. ६ प्रं. २ अ. ६] इति।
लक्षणमाह —
“अन्तरा सदोहविर्धाने उन्नतँ स्यादेतद्वा एकोन्नतं देवयजनम्” (सं. का. ६ प्रं. २ अ. ६) इति।
प्राचीनवंशात्पुरतः प्रत्यासन्नं सदः, उत्तरवेदेः पश्चात्प्रत्यासन्नं हविर्धानं, तयोर्मध्यमुन्नतं कुर्यात्।
फलमाह —
“पशुमानेव भवति” [सं. का. ६ प्रं. २ अ. ६] इति।
विधत्ते –
“त्र्युन्नते देवयजने याजयेत्सुवर्गकामम्” [सं. का. ६ प्रं. २ अ. ६] इति।
प्रशंसति —
“त्र्युन्नताद्वै देवयजनादाङ्गिरसः सुवर्गं लोकमायन्” [सं. का. ६ प्रं. २ अ. ६] इति।
लक्षणमाह —
“अन्तराऽऽहवनीयं च हविर्दानं चोन्नतँ स्यादन्तरा हविर्धानं च सदश्चान्तरा सदश्च गार्हपत्यं चैतद्वै त्र्यून्नतं देवयजनम्” [सं. का. ६ प्रं. २ अ. ६] इति।
उत्तरवेदिहविर्धानसदःप्राचीनवंशानां चतुर्णामन्तरालप्रदेशेषु त्रिषून्नतं कुर्यात्।
फलमाह —
“सुवर्गमेव लोकमेति” (सं. का. ६ प्रं. २ अ. ६) इति।
विधत्ते —
“प्रतिष्ठिते देवयजने याजयेत्प्रतिष्ठाकामम्” (सं. का. ६ प्रं. २ अ. ६) इति।
लक्षणमाह —
“एतद्वै प्रतिष्ठितं देवयजनं यत्सर्वतः समम्” (सं. का. ६ प्रं. २ अ. ६) इति।
फलमाह —
“प्रत्येव तिष्ठति” (सं. का. ६ प्रं. २ अ. ६) इति।
अथ नामविशेषमनुक्त्वा लक्षणपुरःसरं विधत्ते —
“यत्रान्या अन्या ओषधयो व्यतिषक्ताः स्युस्तद्याजयेत्पशुकामम्” (सं. का. ६ प्रं. २ अ. ६) इति।
यवगोधूमप्रियंगुकोद्रवादिबीजानि परस्परविलक्षणानि यस्मिन्प्रदेशे सहोत्पद्यन्ते तत्र पशुकामं याजयेत्।
प्रशंसति –
“एतद्वै पशूनाँ रूपँ रूपेणैवास्मै पशूनव रुन्धे” (सं. का. ६ प्रं. २ अ. ६) इति।
फलमाह —
“पशुमानेव भवति” (सं. का. ६ प्रं. २ अ. ६) इति।
विधत्ते —
“नितिगृहीते देवयजने याजयेद्यं कामयेत नित्याऽस्य यज्ञं ग्राहयेयमिति” [सं. का. ६ प्रं. २ अ. ६] इति।
नितिर्यज्ञविघाती राक्षसः।
लक्षणमाह —
“एतद्वै नितिगृहीतं देवयजनं यत्सदृश्यै सत्या ऋक्षम्” (सं. का. ६ प्रं. २ अ. ६) इति।
निम्नोन्नतत्वराहित्येन सदृश्याः सत्या भूमेः संबन्धि यदृक्षं तृणादिशून्यं स्थानं तन्नितिगृहीतम्।
कामितार्थसिद्धिमाह —
“नित्यैवास्य यज्ञं ग्राहयति” (सं. का. ६ प्रं. २ अ. ६) इति।
विधत्ते —
“व्यावृत्ते देवयजने याजयेद्व्यावृत्कामं यं पात्रे वा तल्पे वा मीमाँसेरन्” [सं. का. ६ प्रं. २ अ. ६] इति।
पात्रोपलक्षिते सहपङ्क्तिभोजने तल्पोपलक्षिते विवाहे वा बन्धुमित्रादयो यं पुरुषमुद्दिश्य मीमांसेरन् संदिहीरन्स पुरुषः संदेहहेतोरपवादादेः पाप्मनो व्यावृत्तिं कामयते तं व्यावृत्ते याजयेत्।
व्यावृत्तस्य लक्षणमाह —
“प्राचीनमाहवनीयात्प्रवणँ स्यात्प्रतीचीनं गार्हपत्यादेतद्वै व्यावृत्तं देवयजनम्” (सं. का. ६ प्रं. २अ. ६) इति।
उभयतः प्रवणं निम्नम्।
फलसिद्धिमाह —
“वि पाप्मना भ्रातृव्येणाऽऽवर्तते नैनं पात्रे न तल्पे मीमाँसन्ते” (सं. का. ६ प्रं. २ अ. ६) इति।
पापरूपेण वैरिणा व्यावर्तते वियुज्यते ततो न संदिहते।
विधत्ते —
“कार्ये देवयजने याजयेद्भूतिकायम्” (सं. का. ६ प्रं. २ अ. ६) इति।
कार्ये मृच्छिलादिभिरुन्नतीकरणीये।
प्रशंसति —
“कार्यो वै पुरुषः” (सं. का. ६ प्रं. २ अ. ६) इति।
उपनयनादिसंस्कारैरुन्नतीकरणीयः पुरुषस्ततस्तस्येदं योग्यम्।
फलसिद्धिं दर्शयति —
“भवत्येव” (सं. का. ६ प्रं. २ अ. ६) इति।
ऐश्वर्यं प्राप्नोत्येव। तदेतत्सर्वं या ते अग्नेऽयाशया रजाशयेत्यनेन मन्त्रेण साध्ययोः प्रातःकालीनसायंकालीनोपसदोर्मध्ये कर्तव्यम्।
अत्र विनियोगसंग्रहः —
अंशुराप्याययेत्सोममेष्टा प्रस्तरनिह्नवः।
अग्ने पूर्वाग्निमामन्त्र्य या ते मार्जयते तथा॥१॥
व्रतं च तेन कुरुते या ते त्र्युपसदाममी।
आज्यहोमा अयाशेति रजेति च हरेति च॥२॥
त्रिविधो मन्त्रभेदः स्यान्मन्त्राः सप्तेह ईरिताः॥३॥
अथ मीमांसा।
पञ्चमाध्यायस्य तृतीयपादे चिन्तितम् —
“आवृत्तिरुपसत्स्वेषा संघस्यैकैकगाऽथवा।
क्रिरध्यायं पठेत्यादाविव स्यात्समुदायगा॥
प्रथमा मध्यमाऽन्त्येति प्राकृतक्रमसिद्धये।
एकैकस्या द्विरभ्यासे षट्संख्यापि प्रसिध्यति”॥ इति।
अग्नौ श्रूयते — “षडुपसदः” इति। तत्र चोदकप्राप्तानां तिसृणामुपसदां पूर्वन्यायेनाऽऽवृत्त्या षट्संख्या संपादनीया। यथा पूर्वाधिकरणे प्रयाजेषु संघावृत्त्यैकादशसंख्या संपादिता तद्वदत्रापि साऽऽवृत्तिर्दण्डकलितवत्समुदायस्य युक्ता। यथा दण्डेन भूप्रदेशं संमिमानः पुरुष आमूलाग्रं कृत्स्नदण्डं पुनः पुनः पातयति, न तु दण्डस्य प्रत्यवयवं पृथगावृत्तिं करोति, यथा वा त्रिवारं रुद्राध्यायं जपतीत्यत्र कृत्स्न एवाध्याय आवर्त्यत न त्वध्यायैकदेश एकैकोऽनुवाकः पृथगेव त्रिः पठ्यते तथा तिसृणामुमसदां समुदाय आवर्तनीय इति चेन्मैवम्।। प्राकृतक्रमबाधप्रसङ्गात्। प्रकृतौ हि दीक्षानन्तरभाविनि दिने होतव्या प्रथमोपसत्। तत ऊर्ध्वदिने द्वितीया। ततोऽप्यूर्ध्वदिने तृतीया। ता एताः सकृदनुष्ठाय पुनरुपरितनदिनेष्वनुष्ठीयन्ते चेत्पुनरनुष्ठीयमानायाः प्रथमायाः प्रथमात्वमपैति चतुर्थीत्वमायाति। तस्मात्प्राकृतक्रमसिद्धये प्रथमां द्विरभ्यस्य ततो द्वितीयां द्विरभ्यस्येत्वेवं स्वस्थानवृद्ध्या तासामावृत्तिः कार्या। न चाध्यायदृष्टान्तो युक्तः। अनुवाकसमुदायस्यैवाध्यायत्वात्तस्यैव चाऽऽवृत्तिविधानात्। न त्विह समुदायस्योपसत्त्वमस्ति। तस्मात्प्रत्येकमुपसदावर्तनीया। अनेन न्यायेन द्वादशाहीनस्येत्यत्रैकैकोपसच्चतुर्वारमावर्तनीया।
तृतीयाध्यायस्य तृतीयपादे चिन्तितम् —
“तिस्र एव हि साह्ने स्युरहीने द्वादशेत्यदः।
ज्योतिष्टोमे द्वादशत्वमथवाऽहर्गणो(णे) भवेत्॥
अस्तु प्रकरणादाद्यो नाहीनत्वं विरुध्यते।
प्रकृतित्वान्न केनापि हीनोऽतोऽत्र विकल्प्यताम्॥
साह्नाद्भिन्नाऽहीनसंज्ञा रूढैषाऽहर्गणो(णे) भवेत्।
षष्ठीश्रुत्या द्वादशत्वं प्रक्रियातोऽपकृष्यताम्” इति।
ज्योतिष्टोमप्रकरणे श्रूयते — “तिस्र एव साह्नस्योपसदो द्वादशाहीनस्य” इति। एकेनाह्ना निष्पाद्यत्वात्साह्नो ज्योतिष्टोमः। दीक्षादिवसादूर्ध्वं सोमाभिषवदिवसात्पूर्वं कर्तव्या होमा उपसदः। तासां द्वादशत्वं प्रकरणबलाज्ज्योतिष्टोमे निविशते। अहीनशब्दश्च तस्मिन्नवकल्प्यते। ज्योतिष्टोमस्य निखिलसोमयागप्रकृतित्वेन सर्वेषामङ्गानां तत्रोपदेशे सति तदुपदेशविकलविकृतीनामिव हीनत्वाभावात्। अतो द्वादशत्वत्रित्वयोर्विकल्प इति प्राप्ते ब्रूमः — आवृत्तः सोमयागरूपो द्विरात्रत्रिरात्रादिरहर्गणः। तस्मिन्नहीनशब्दो रूढः। योगिकत्वे तु न हीन इति विगृह्य समासे कृते सत्ययज्ञादिशब्दवदाद्युदात्तः स्यात्। मध्योदात्तस्त्वाम्नायते। रूढिश्च विग्रहनिरपेक्षत्वाच्छीघ्रबुद्धिहेतुः। अतो ज्योतिष्टोमवाचिनः साह्नशब्दाद्भिन्नेयमहीनसंज्ञा ज्योतिष्टोमाद्भिन्नमहर्गनणमभिधत्ते। तस्मिन्नहर्गणे षष्ठीश्रुत्या तदुक्तं द्वादशत्वं निवेश्यते। तत्सिद्धये प्रकरणादिदमपनेतव्यम्।
तृतीयाध्यायस्य सप्तमपादे चिन्तितम् –
“मुख्यार्था सौमिकी वेदिरुभयार्थोत मुख्यगा।
चिकीर्षितत्वान्मुख्यस्य वेद्यां तत्कृतिसंभवात्॥
मुख्यपौष्कल्यहेतुत्वात्तदङ्ग च चिकीर्षितम्।
मुख्यवत्तेन तद्वेदिरङ्गेष्वप्युपकारिणी” इति॥
दार्शिकीं वेदिं मध्येऽन्तर्भाव्य प्राचीनवंशो मण्डपोऽवस्थितः। ततः पूर्वस्यां दिशि सदोहविर्धानादीनां पर्याप्तो भूभागविशेषः। तैः सदःप्रभृतिभिः सह सौमिकी वेदिरित्युच्यते। सेयं मुख्यस्य सोमयागस्यैवोपकारं करोति, न त्वमुख्यानामग्नीषोमीयाद्यङ्गानाम्। कुतः। मुख्यस्य चिकीर्षितत्वात्। न चाङ्गान्यपि चिकीर्षितानीति वाच्यम्। चिकीर्षास्वरूपस्य वेदेनैवाभिहितत्वात्।
एवं श्रूयते — “षट्त्रिंशत्प्रक्रमाः प्राची चतुर्विंशतिरग्रेण त्रिंशज्जघनेने[य]ति शक्ष्यामहे” इति।
अस्यायमर्थः — श्रूयमाणनानेन दैर्घ्यप्रमाणेन तिर्यक्प्रमाणेन च प्रमिते भूभागे फलहेतुं सोमयागं कर्तुं शक्ष्यामह इति निश्चित्य तत्तथैव कुर्यादिति। सेयं चिकीर्षा मुख्यविषया। इ(य)ति शक्ष्यामह इति परिमाणस्य शक्तेश्चोपन्यासात्। अङ्गानां (तु) पशूनामिष्टीनां च सदोहविर्धानादिमण्डपनिरपेक्षाणां यथोक्तपरिमाणमन्तरेणाप्यनुष्ठातुं शक्यत्वात्स उपन्यासस्तत्र निरर्थकः। सोमस्य त्वनुष्ठानं यथोक्तवेद्यामेव संभवति न त्वन्यत्र। तस्मात्सा वेदिर्मुख्यस्यैवोपकरोतीति प्राप्ते ब्रूमः – इयति शक्ष्यामह इत्यत्र साङ्गप्रधानानुष्ठाने शक्तिरुक्ता। तादृशस्यैव फलं प्रति पुष्कलहेतुत्वात्। अतो मुख्याङ्गयोश्चिकीर्षायास्तुल्यत्वाद्वेदिरुभयार्था। न चात्र वपनादिसाम्यं शङ्कनीयम्। दृष्टोपयोगाभावस्य तत्रोक्तत्वात्। इह तु हविरासादनादिर्दृष्ट उपयोगः। स च मुख्याङ्गयोः सम इत्युभयार्थत्वम्।
षष्ठाध्यायस्याष्टमपादे चिन्तितम् —
“अन्याभावेऽन्यभावेऽपि पयोभक्षादयोऽग्रिमः।
निमित्ते सत्यनुष्ठानान्नियमादृष्टतोऽन्तिमः” इति।
ज्योतिष्टोमे श्रूयते — “पयो ब्राह्मणस्य व्रतम्” इति। तदेतदसत्यन्यस्मिन्भक्ष्ये कर्तव्यम्। कुतः। अन्याभावस्य निमित्तत्वात्। निमित्ते सति नैमित्तिकस्यावश्यानुष्ठेयत्वादिति चेन्मैवम्। न ह्यत्रान्याभावो निमित्तत्वेन श्रुतः। तस्मात्सत्यप्यन्यस्मिन्भक्ष्ये नियमादृष्टाय पय एव भक्षयेत्।
तत्रैवान्यच्चिन्तितम् —
‘अजीर्णिसंभवे कार्यं व्रतं नो वाऽग्रिमो विधेः।
रोगोत्पत्त्या प्रधानस्य विरोधान्न पयोव्रतम्’ इति।
ज्योतिष्टोमे श्रूयते — ‘मध्यंदिने मध्यरात्रे व्रतं व्रतयति’ इति।
तत्र यस्माजीर्णिः संभाविता तेनापि विहितत्वात्पयो व्रतयितव्यमेवेति चेन्मैवम्। प्रधानानुष्ठानविघ्नप्रसङ्गात्। तस्मात्तथाविधवेलायां पयो वर्जयेत्।
अत्र सर्वाणि यजूंष्येवेति नास्ति च्छन्दः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठक एकादशोऽनुवाकः ॥११॥
(अथ प्रथमाष्टके द्वितीयप्रपाठके द्वादशोऽनुवाकः)।
एकादशेऽनुवाक उपसदोऽभिहिताः। तत्र मध्यमोपसद्दिने षट्त्रिंशत्पदपरिमितो योऽयं वेदिप्रदेशः स्वीकृतस्तस्य पूर्वभाग उत्तरवेदिर्द्वादशेऽनुवाकेऽभिधीयते।
वित्तायनीति। बौधायनः — ‘उत्तरेण वेदिं द्वयोर्वा त्रिषु वा प्रक्रमेषु स्फ्येनोद्धत्यावोक्ष्य शम्यया चात्वालं परिमिमीते वित्तायनी मेऽसीति पुरस्तादुदीचीनकुम्बयाऽन्तरितस्फ्येनोल्लिखति, तिक्तायनी मेऽसीति दक्षिणतः प्राक्कुम्बयाऽन्तरितस्फ्येनोल्लिखति, अवतान्मा नाथितमिति पश्चादुदीचीनकुम्बयाऽन्तरितस्फ्येनोल्लिखति, अवतान्मा व्यथितमित्युत्तरतः प्राचीनकुम्बयाऽन्तरितस्फ्येनोल्लिखति’ इति।
आपस्तम्बः — ‘अपरेण यूपावटदेशं संचरमवशिष्य वेद्यामुत्तरवदिं दशपदां सोमे करोत्यंहीयसीं पुरस्तादित्येके तां युगेन यजमानस्य वा पदैर्विभाय शम्यया परिमिमीते शम्यामात्री निरूढपशुबन्धस्योत्तरवेदिः शम्यां पुरस्तादुदगग्रां निधाय स्फ्येनोदीचीमभ्यन्तरमुपलिखति वित्तायनी मेऽसीत्येवं दक्षिणतः प्राचीं तिक्तायनी मेऽसीति पश्चादुदीचीमवतान्मा नाथितमित्युतरतः प्राचीमवतान्मा व्यथितमित्युतरस्माद्वेद्यंसादुदक्प्रक्रमे चात्वालस्तमुत्तरवेदिवत्तूष्णीं शम्यया परिमित्य’ इति।
अत्रोत्तरवेदेर्द्वावाकारौ महावेद्याः प्राग्भागे मृत्तिकाप्रक्षेपेण निष्पाद्यमान एक आकारः। आपस्तम्बमते तद्विषया मन्त्रा उक्ताः। मृत्तिका चात्वालगतेति तद्रूपोऽपर आकारः। तद्विषया बौधायनमते मन्त्राः। हे उत्तरवेदे त्वं मम वित्तायनी वह्निरूपस्य वित्तस्य प्रापिकाऽसि। तिक्तस्य वह्नितेजसो ज्वालारूपस्य प्रापिकाऽसि। नाथितं वह्नियाचकं मामवतात्, रक्ष। व्यथितं वह्न्यलाभाद्भीतं मां रक्ष।
मन्त्रान्व्याचिख्यासुः शम्यया वेदिपरिमाणं विधातुमाख्यायिकया वेदिं प्रस्तुवन्प्रसङ्गाद्व्याघारणमभिधत्ते —
“तेभ्य उत्तरवेदिः सिँही रूपं कृत्वोभयानन्तरराऽपक्रम्यातिष्ठत्ते देवा अमन्यन्त यतरान्वा इयमुपावर्त्स्यति त इदं भविष्यन्तीति। तामुपामन्त्रयन्त साऽब्रवीद्वरं वृणै सर्वान्मया कामान्व्यश्नवथ पूर्वां तु माऽग्नेराहुतिरश्नवता इति तस्मादुत्तरवेदिं पूर्वामग्नेर्व्याघारयन्ति वारेवृतँ ह्यस्यौ” (सं. का. ६ प्र. २ अ. ७) इति।
अत्रोभयोरन्तरेणेत्यभिधानात्तेभ्यो देवासुरेभ्य इति लभ्यते। ते देवास्तामुपामन्त्रयन्त प्रार्थितवन्तः। मया मदनुग्रहेण भ्रातृव्याभिभवात्सर्वान्कामान्यूयं व्यश्नवथ विशेषेण प्राप्स्यथ। तदर्थं त्वाद्याऽऽहुतिर्व्याघारणरूपा युष्माभिर्हुता प्रणेष्यमाणादग्नेः पूर्वभाविनीं मां व्यश्नवदै विशेषेण व्याप्नोतु मामेवोद्दिश्य हूयताम्। सोऽयं वरः। यस्माद्वरो वृतस्तस्मात्तथा व्याघारयेयुः। तत्प्रकरस्तु सिँहीरसि महिषीरसीत्यादिमन्त्रव्याख्यानावसरे वक्ष्यते।
विधत्ते —
“शम्यया परि मिमीते मात्रैवास्यै साऽथो युक्तेनैव युक्तमव रुन्धे” (सं. का. ६ प्र. २ अ. ७) इति।
गदया सदृशी बाहुपरिमिता शम्या तया चतुर्दिक्षूत्तरवेदिं परिमिमीते। अस्या उत्तरवेदेः सेयं भूमिः शम्यया निर्णीता मात्रैव न न्यूना ग्रहचमसादिप्रचारस्य पर्याप्तत्वात्। नाप्यधिका यथोक्तप्रचारानुपयुक्तभागस्याभावात्। किंच युक्तेनैव योग्येनैवोत्तरवेदिप्रमाणेन योग्यफलं प्राप्नोति।
मन्त्रान्व्याचष्टे —
“वित्तायनी मेऽसीत्याह वित्ता ह्येनानावत्तिक्तायनी मेऽसीत्याह तिक्तान्ह्येनानावदतान्मा नाथितमित्याह नाथितान्ह्येनानावदवतान्मा व्यथितमित्याह व्यथितान्ह्येनानावत्” (सं. का. ६ प्र. २ अ. ७) इति।
वित्तं वह्निरूपम्। वित्तार्थिन एतान्यज्ञक्रतून्वह्निप्रापणेनेयमुत्तरवेदिररक्षत्। तिक्तं वह्निज्वालारूपं तेजनं तदर्थिन एतान्यागकर्तॄन्।
विदेरग्निरिति। बौधायनः — “अथ चात्वाले बर्हिर्निधाय तस्मिन्स्फ्येन प्रहरति विदेरग्निर्नभो नामाग्ने अङ्गिरो योऽस्यां पृथिव्यामस्यायुषा नाम्नेहीति तद्धृत्वोत्तरवेद्यां निवपति यतेनाऽधृष्टं नाम यज्ञियं तेन त्वाऽदध इति” इति।
आपस्तम्बस्त्वेकमन्त्रतामाह —
“तूष्णीं जानुदघ्नं त्रिवितस्तिं वा खात्वोत्तरवेद्यर्थान्पांसून्हरति विदेरग्निरिति” इति।
विदेरुत्तरवेदेः संबन्धी योऽग्निस्तस्य नभ इत्येतन्नाम। अङ्गानां रस इत्यङ्गिरःशब्दस्य निर्वचनम्।
तथा च च्छन्दोगाः प्राणोपास्तावामनन्ति – “एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसस्तेन” इति।
वाजसनेयिनोऽप्यधीयते — “यं (?) अङ्गिरसोऽङ्गानां रसः” इति।
अयं चाग्निः सोमाहुत्याधारत्वाद्गार्हपत्यदक्षिणाग्न्यादीनां मध्ये सारः। हेऽङ्गिरो यस्त्वमस्यां चात्वालगतमृद्रूपायां पृथिव्यामसि वर्तसे स त्वमायुष्प्रदेन नभोनाम्ना सहित एहि उत्तरवेद्यामागच्छ। यत्तवानाधृष्टं केनाप्यतिरस्कृतं नाम यज्ञसंबद्धं तेन नाम्ना व्यवहृत्य त्वामुत्तरवेद्यामादधे।
अग्ने अङ्गिर इति। बौधायनः – “द्वितीयं प्रहरति विदेरग्निर्नभो नामाग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्यामसीत्यादत्ते आयुषा नाम्नेहीति हृत्वोत्तरवेद्यां निवपति यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदध इति, तृतीयं प्रहरति विदेरग्निर्नभो नामाग्ने अङ्गिरो यस्तृतीयस्यां पृथिव्यामसीत्यादत्ते — आयुषा नाम्नेहीति हृत्वोत्तरवेद्यां निवपति यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदध इति, तूष्णीं चतुर्थं हरति सह बर्हिषा” इति।
आपस्तम्बः — “एतेनैव यो द्वितीयस्यामिति द्वितीयं यस्तृतीयस्यामिति तृतीयं तूष्णीं चतुर्थं हरति” इति।
अत्राग्ने अङ्गिरो यो द्वितीयस्यामित्याम्नातो द्वितीयमन्त्रस्तस्याऽऽदौ विदेरित्यादिरनुषज्यते। अवसाने च पृथिव्यामित्यादिरनुषज्यते। तृतीयस्यामित्यादिश्चरम
मन्त्रस्तस्य विदेरित्यादिरेवानुषज्यते। चात्वालस्थितायाः पृथिव्या अंशभेदेन द्वितीयत्वं तृतीयत्वं च द्रष्टव्यम्।
विधत्ते —
‘विदेरग्निर्नभो नामाग्ने अङ्गिर इति त्रिर्हरति य एवैषु लोकेष्वग्नयस्तानेवाव रुन्धे तूष्णीं चतुर्थं हरत्यनिरुक्तमेवाव रुन्धे” (सं. का. ६ प्र. २ अ. ७) इति।
लोकत्रयवर्तिनां त्रयाणामग्नीनामवरोधाय त्रिर्हरणमेतल्लोकवर्तीति निश्चित्य वक्तुमशक्यत्वेनानिरुक्तस्याग्निसामान्यस्यावरोधाय तूष्णीं हरणम्।
सिँहीरिति। बौधायनः – ‘अथाध्वर्युरुत्तरवेद्यै पुरीषं संप्रयौति सिँहीरसि महिषीरसीति’ इति।
संप्रयौति मिश्रयति।
आपस्तम्बः — ‘सिँहीरसीत्युत्तरवेद्यां निवपति’ इति।
वेदेः सिंहमृगत्वं दर्शयति —
‘सिँहीरसि महिषीरसीत्याह सिँहीर्ह्येषा रूपं कृत्वोभयानन्तराऽपक्रम्यातिष्ठत्’ (सं. का. ६ प्र. २ अ. ७) इति।
महिषीर्महनीया। ब्राह्मणान्तरे वा महिषीजातित्वं द्रष्टव्यम्।
उर्विति। कल्पः — ‘उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति प्रथयित्वा ध्रुवाऽसीति शम्यया संहत्य देवेभ्यः शुन्धस्वेत्यद्भिः प्रोक्ष्य देवेभ्यः शुम्भस्वेति सिकताभिरवकीर्य’ इति।
प्रथस्व प्रसर। ध्रुवा दृढा। शुन्धस्व शुद्धा भव। शुम्भस्व शोभिता भव।
व्याचक्षाणं क्रमेण विधत्ते —
“उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामित्याह यजमानमेव प्रजया पशुभिः प्रथयति ध्रुवाऽसीति सँहन्ति धृत्यै देवेभ्यः शुन्धस्व देवभ्यः शुम्भस्वेत्यव चोक्षति प्र च किरति शुद्ध्यै’ (सं. का. ६ प्र. २ अ. ७) इति।
इन्द्रघोष इति। कल्पः — प्रोक्षणीभिरुत्तरवेदिं प्रोक्षति। इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्विति पुरस्तान्मनोजवास्त्वा पितृभिर्दक्षिणतः पात्विति दक्षिणतः प्रचे-
तास्त्वा रुद्रैः पश्चात्पात्विति पश्चाद्विश्वकर्मा त्वाऽऽदित्यैरुत्तरतः पात्वित्युत्तरतः’ इति।
इन्द्रघोषादिनामका देवाः परिवृढास्तदनुचरा वस्वादिगणास्तैर्गणैः सहितास्ते देवाः पान्तु।
पुरस्तादित्यादिदिग्वाचकशब्दप्रयोगेण दिग्देवतातुष्टिकरं प्रोक्षणमित्याह —
‘इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्वित्याह दिग्भ्य एवैनां प्रोक्षति’ (सं. का. ६ प्र. २ अ. ७) इति।
प्रोक्षणं विधातुं प्रस्तौति —
देवाँ श्चेदुत्तरवेदिरुपावर्तीहैव वि जयामहा इत्यसुरा वज्रमुद्यत्य देवानभ्यायन्त तानिन्द्रघोषो वसुभिः पुरस्तादपानुदत मनोजवाः पितृभिर्दक्षिणतः प्रचेता रुद्रैः पश्चाद्विश्वकर्माऽऽदित्यैरुत्तरतः’ (सं. का. ६ प्र. २ अ. ७) इति।
अपक्रम्य देवासुरसेनयोर्मध्ये तिष्ठन्तीमुत्तरवेदिं यदा देवा उपामन्त्रयन्त तदानीमसुरा एवमचिन्तयन्। यद्येषा देवानुपावर्तेत तदा त एव विजयेरन्। तस्मादिहैवेदानीमेव तदुपावर्तनात्प्रागेव देवान्विजयामह इति विचिन्त्य वज्रमुद्यत्य देवानभिलक्ष्य प्रहर्तुमागताः। तानसुरानिन्द्रघोषादयो दिग्भ्योऽपाकुर्वन्।
विधत्ते —
‘यदेवमुत्तरवेदिं प्रोक्षति दिग्म्य एव तद्यजमानो भ्रातृव्यान्प्र णुदते’ (सं. का. ६ प्र. २ अ. ७) इति।
प्रोक्षणशेषस्य निनयनं विधत्ते —
इन्द्रो यतीन्त्सालावृकेभ्यः प्रायच्छत्तान्दक्षिणत उत्तरवेद्या आदन्यत्प्रोक्षणीनामुच्छिष्येत तद्दक्षिणत उत्तरवेद्यै नि नयेद्यदेव तत्र क्रूरं तत्तेन शमयति’ (सं. का. ६ प्र. २ अ. ७) इति।
(इन्द्रो) यतयो देवान्हन्तुं सर्वदा प्रयतमाना उत्तमाश्रयेण प्रच्छन्नवेषा असुरास्तान्हत्वा सालावृकेभ्यः श्वभ्यो दत्तवान्।
निनयनकाले ध्यानं विधत्ते —
‘यं द्विष्यात्तं ध्यायेच्छुचैवैनमर्पयति’ (सं. का. ६ प्र. २ अ. ७) इति।
शुचा शोकेनार्पयति योजयति।
सिँहीरसीति। कल्पः — ‘अथैनां हिरण्यमन्तर्धायाक्ष्णया पञ्चगृहीतेन व्याघारयति सिँहीरसि सपत्नसाही स्वाहेति दक्षिणेऽँसे, सिँहीरसि सुप्रजावनिः स्वाहेत्युत्तरस्यां श्रोण्यां, सिँहीरसि रायस्पोषवनिः स्वाहेति दक्षिणस्यां श्रोण्यां, सिँहीरस्यादित्यवनिः स्वाहेति उत्तरेंऽसे सिँहीरस्या वह देवान्देवयते यजमानाय स्वाहेति मध्ये’ इति।
हे उत्तरवेदे त्वं सिंहरूपधारिण्यसि। सपत्नसाही वैरिघातिनी। सुप्रजावनिः शोभनापत्यभृत्यप्रदा। रायस्पोषवनिः पश्वादिधनसमृद्धिदा। आदित्यवनिर्भूतिसंबन्धिप्रतिष्ठाप्रदा। देवयते देवानिच्छते यजमानाय तवेदं हुतमस्तु।
उत्तरवेदेर्वरवाक्यमनुसृत्यैकैकं काममेकैकाहुत्या प्राप्नुवन्नित्येतं मन्त्रसूचितमर्थं दर्शयति —
‘सोत्तरवेदिरब्रवीत्सर्वान्मया कामान्व्यश्नवथेति ते देवा अकामयन्तासुरान्भ्रातृव्यानभि भवेमेति तेऽजुहवुः सिँहीरसि सपत्नसाही स्वाहेति तेऽसुरान्भ्रातृव्यानभ्यभवन्तेऽसुरान्भ्रातृव्यानभिभूयाकामयन्त प्रजां विन्देमहीति देऽजुहवुः सिँहीरसि सुप्रजावनिः स्वाहेति ते प्रजामविन्दन्त ते प्रजां वित्त्वाऽकामयन्त पशून्विन्देमहीति तेजऽजुहवुः सिँहीरसि रायस्पोषवनिः स्वाहेति ते पशूनविन्दन्त ते पशून्वित्त्वाऽकामयन्त प्रतिष्ठां विन्देमहीति तेऽजुहवुः सिँहीरस्यादित्यवनिः स्वाहेति त इमां प्रतिष्ठामविन्दन्त त इमां प्रतिष्ठां वित्त्वाऽकामयन्त देवता आशिष उपेयामेति तेऽजुहवुः सिँहीरस्या वह देवान्देवयते यजमानाय स्वाहेति ते देवता आशिष उपाऽयन्’ (सं. का. ६ प्र. २ अ. ८) इति।
आशिष इष्यमाणा हविःस्वीकारिणीर्देवता उपेयाम प्राप्नुयामेति कामयमाना यष्टारस्ते देवाश्चरमाहुत्या तथैव प्राप्नुवन्। कर्मफलानि वाऽत्राऽशीः शब्देनोच्यन्ते।
आहुतिसंख्यां विधत्ते —
‘पञ्च कृत्वो व्याघारयति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे’ (सं. का. ६ प्र. २ अ. ८) इति।
गुणं विधत्ते —
‘अक्ष्णया व्याघारयति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै’ (सं. का. ६ प्र. २ अ. ८) इति।
अक्ष्णया वक्रगत्या। दक्षिणेंऽस उत्तरश्रोणिरित्यादिका वक्रगतिः। पशवः शयनकाले पादाद्यङ्गानि वक्रत्वेन प्रहरन्ति संकोचयन्ति। अत आहुतिवक्रत्वं प्रतिष्ठित्यै भवति।
भूतेभ्य इति। कल्पः — ‘भूतेभ्यस्त्वेति स्रुचमुद्गृह्य’ इति।
हे जुहूस्त्वां भूतेभ्यश्चिरंतनेभ्यो देवेभ्य उद्गृह्णामि।
विधत्ते —
“भूतेभ्यस्त्वेति स्रुचमुद्गृह्णाति य एव देवा भूतास्तेषां तद्भागधेयं तानेव तेन प्रीणाति” (सं. का. ६ प्र. २ अ. ८) इति।
भूतोद्देशेन स्रुगुद्ग्रहणे सत्कृताः सन्तः प्रीयन्ते।
विश्वायुरिति। कल्पः — ‘अथ पौतुद्रवान्परिदधाति। विश्वायुरसि पृथिवीं दृँहेति मध्यमं, ध्रुवक्षिदस्यन्तरिक्षं दृँहेति दक्षिणम्, अच्चुतक्षिदसि दिवं दृँहेत्युत्तरम्’ इति।
हे मध्यमपरिधे त्वं कृत्स्नायुःप्रदोऽसि। पृथिवीं दृढां कुरु। हे दक्षिणपरिधे त्वं स्थिरनिवासोऽसि। हे उत्तरपरिधे त्वमविनष्टनिवासोऽसि।
विधत्ते —
‘पौतुद्रवान्परिधीन्परि दधात्येषां लोकानां विधृत्यै’ (सं. का. ६ प्र. २ अ. ८) इति।
परिधित्रयेण त्रयो लोका विधृता भवन्ति। पूतुद्रुर्देवदारुः।
अग्नेरिति। कल्पः — ‘अथातिशिष्टान्संभारान्निवपति गुल्गुलु सुगन्धितेजनं शुक्लामूर्णास्तुकामग्नेर्भस्मास्यग्नेः पुरीषमसीति’ इति।
हे संभारस्वरूप त्वमग्नेर्भासकं पूरकं चासि।
संभारान्विधातुं प्रस्तौति —
‘अग्नेस्त्रयो ज्यायाँसो भ्रातर आसन्ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त सोऽग्निरबिभेदित्थं वाव स्य आर्तिमाऽरिष्यतीति स निलायत स यां वनस्पतिष्ववसत्तां पूतुद्रौ यामोषधीषु ताँ सुगन्धितेजने यां पशुषु तां पेत्वस्यान्तरा शृङ्गे तं देवताः प्रैषमैच्छन्तमन्वविन्दन्तमब्रुवन्नुप न आ वर्तस्व हव्यं नो वहेति सोऽब्रवीद्वरं वृणै यदेव गृहीतस्याहुतस्य बहिःपरिधि स्कन्दात्तन्मे भ्रातृणां भागधेयमसदिति तस्माद्यद्गृहीतस्याहुतस्य वहिःपरिधि स्कन्दति तेषां तद्भागधेयं तानेव तेन प्रीणाति सोऽमन्यतास्थन्वन्तो मे पूर्वे भ्रातरः प्रामेषतास्थानि शातया इति
स यान्यस्थान्यशातयत तत्पूतुद्र्वभवद्यन्माँ समुपभृतं तद्गुल्गुलु” (सं. का. ६ प्र. २ अ. ८) इति।
भ्रातरो हविर्वहनप्रयासेन यथा मृता इत्थमेव सोऽन्योऽपि मृतिं प्राप्स्यतीति भीतोऽग्निर्निरूढो वनस्पत्योषधिपशुष्वेकैकां रात्रिमवसत्। देवदारुवृक्षे सुगन्धयुक्ततृणे पेत्वस्य मेषस्य शृङ्गयोर्मध्ये च क्रमेण तं वसन्तं देवा हविर्वहने प्रेरयितुमैच्छन् तमन्विष्यालभन्त। स्रुगुद्गृहीतस्य हविषो यल्लेशरूपं होमात्पूर्वं परिधिभ्यो बहिर्हविः स्कन्देत्स भ्रातृभागोऽस्त्वित्यग्नेर्वरः। अस्थन्वन्तस्त्वगस्थिमांसोपेताः प्रामेषत मृतास्तदीयान्यस्थीनि मांसानि च शातयै परित्यजानि। परित्यक्तानि तानि पूतुद्रु गुल्गुल्वभवताम्।
विधत्ते —
“यदेतान्त्संभारान्त्संभरत्यग्निमेव तत्सं भरति” (सं. का. ६ प्र. २ अ. ८) इति।
मन्त्रगतेन पुरीषशब्देन संभाररूपं वह्निपूरणं विवक्षितमित्याह —
‘अग्नेः पुरीषमसीत्याहाग्नेर्ह्येतत्पुरीषं यत्संभाराः’ (सं. का. ६ प्र. २ अ. ८) इति।
गुल्गुलुसुगन्धितेजनशुक्लोर्णास्तुकाः संभाराः।
किंच देवदारुपरिधिरूपेण वह्निना भ्रातरोऽस्य संनिधीयन्त इत्याह —
‘अथो स्वल्वाहुरेते वावैनं ते भ्रातरः परि शेरे यत्पौतुद्रवाः परिधय इति’ (सं. का. ६ प्र. २ अ. ८) इति।
एवमग्निं परितः शेरते।
अथ विनियोमसंग्रहः –
“वित्तोत्तराख्यवेद्यर्थं चतुर्भिः परितो लिखेत्।
विदेस्त्रिभिर्हरेत्पांसून्सिंहीर्वेद्यां विनिक्षिपेत्॥१॥
उरु प्रथयते वेदिं ध्रुवा संहत्य शम्यया।
देवे प्रोक्ष्य तथा देवे सिकताऽत्रावकीर्यते॥२॥
इन्द्र प्रोक्ष्य चतुर्दिक्षु सिंहीरंसद्वये तथा।
श्रोणिद्वये च मध्ये च व्याघारयति पञ्चभिः॥३॥
भूतेभ्यः स्रुचमुद्गृह्य विश्वा परिधयस्त्रयः।
अग्नेः संस्थाप्य संभारान्मन्त्राः षड्विंशतिर्मताः॥४॥” इति।
नात्र विशेषमीमांसा। नापि च्छन्दः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके द्वादशोऽनुवाकः॥१२॥
(अथ प्रथमकाण्डे द्वितीयप्रपाठके त्रयोदशोऽनुवाकः)।
द्वादशेऽनुवाक उत्तरवेदिरभिहिता। तत्समीपवर्ति हविर्धानं त्रयोदशेऽनुवाकेऽभिधीयते।
युञ्जत इति। कल्पः — “गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा शालामुखीये सावित्रं जुहोत्यन्वारब्धे यजमाने युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः। वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः स्वाहेति” इति।
होमार्थं स्वाहाशब्दोऽध्याहृतः। विप्रस्य ब्राह्मणस्य यजमानस्य संबन्धिनो विप्रा ब्राह्मणा ऋत्विजो मनो युञ्जते लौकिकचिन्ताभ्यो मनो निवार्य यज्ञचिन्तायां तत्प्रथमं नियमयन्ति। ततो धिय इन्द्रियाण्यपि’ यज्ञार्थेषु स्वस्वव्यापारेषु नियमयन्ति। कीदृशस्य विप्रस्य। बृहतो विपश्चितः। अधीतवेदत्वाद्बृहत्त्वमर्थाभिज्ञत्वाद्विपश्चित्त्वम्। कीदृशा विप्राः। होत्रा होमकर्तारः। तदिदं विप्राणां मनोनियमनादिसामर्थ्यमेक इद्विदध एक एव ससर्ज। कीदृश एकः। वयुनावित्, मार्गान्वेत्ति सर्वज्ञ इत्यर्थः। ने चैकस्य सर्वसृष्टौ विस्मेतव्यम्। यतः सवितुः प्रेरकस्यान्तर्यामिणो देवस्य परिष्टुतिर्मही महती।
तथा चाऽऽथर्वणिका अधीयते — ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः’ इति।
वाजसनेयिनश्च — ‘स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंच” इति।
श्वेताश्वतराश्च — ‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” इति।
एवं सर्वत्रोदाहार्यम्।
एतं मन्त्रं विनियोक्तुमुपोद्घातत्वेनानुष्ठेयं विधत्ते —
“बद्धमव स्यति वरुणापाशादेवैने मुञ्चति प्र णेनेक्ति मेध्ये एवैने करोति” (सं. का. ६ प्र. २ अ. ९) इति।
हविर्धाननामकयोः शकटयोर्यत्पूर्वं बद्धमासत्तदवस्यति मुञ्चेत्। प्रणेनेक्ति प्राक्षालयेत्।
अत्र सूत्रम् — ‘प्रयुक्तपूर्वशकटे नद्धयुगे प्रतिहितशम्ये प्रक्षाल्य तयोः प्रथमग्रथितान्ग्रन्थीन्विस्रस्य नवान्प्रज्ञातान्कृत्वाऽग्रेण प्राग्वंशमभितः पृष्ठ्यामव्यवनयन्परिश्रिते सच्छदिषी अवस्थापयति” इति।
पृष्ठ्यां वेदिमध्ये प्राक्प्रतीच्योः शङ्कोर्बद्धां रज्जुं मध्येऽव्यवनयन्व्यवधानमकुर्वन्।
मन्त्रविनियोगपूर्वकं शकटप्रेरणं विधत्ते —
“सावित्रियर्चा हुत्वा हविर्धाने प्र वर्तयति सवितृप्रसूत एवैने प्र वर्तयति” (सं. का. ६ प्र. २ अ. ९) इति।
कल्पः — “स्याच्चेदक्षशब्दः सुवागित्यनुमन्त्रयते” इति।
स च मन्त्र एवमाम्नातः —
सुवागिति। हेऽक्षदेव दुर्यान्गृहान्प्रति सुवाग्भूत्वाऽऽसमन्ताच्छ्रेयस्करीं वाजं वद। हे देवश्रुतौ प्रख्यातावक्षौ यजमानोऽयं युष्मान्यजतीति देवेष्वा घोषेथाम्।
सुवाक्शब्दापेयोगं दर्शयति —
‘वरुणो वा एष दुर्वागुभयतो बद्धो यदक्षः स यदुत्सर्जेद्यजमानस्य गृहानभ्युत्सर्जेत्सुवाग्देव दुर्याँ आ वदेत्याह गृहा वै दुर्याः शान्त्यै’ (सं. का. ६ प्र. २ अ. ९) इति।
अक्षस्य बन्धनहेतुपाशोपेतत्वाद्वरुणत्वम्। वरुणश्च क्रूरत्वाद्दुर्वाक्। उत्सर्जेत्, शब्दं कुर्यात्।
कल्पः — ‘अथैने पत्नी पदतृतीयेणा(ना)ऽऽज्यमिश्रेणोपानक्त्या नो वीरो जायतामिति’ इति।
स चैवमाम्नातः —
आ न इति। कर्मणि साधुः कुशलो वीर आलस्यरहितः पुत्रोऽस्माकमाजायताम्। यं जीवाम यश्च बहूनां वशी नियमनशक्तिमानसद्भवेत्। तादृशो जायताम्। अत्र कल्पे पदतृतीयशब्देन सोमक्रयणीपदरजसस्तृतीयांशः पूर्वं संगृहीतो विवक्षितः।
अक्षोपाञ्जनं विधत्ते —
“पत्न्युपानक्ति पत्नी हि सर्वस्य मित्रं मित्रत्वाय यद्वै पत्नी यज्ञस्य करोति मिथुनं तदथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै” (सं. का. ६ प्र. २ अ. ९) इति।
इदमिति। कल्पः — ‘दक्षिणस्य हविर्धानस्य पश्चादक्षमुपसृप्य दक्षिणस्यां वर्तन्यां स्फ्येनोद्धत्यावोक्ष्य हिरण्यं निधाय संपरिस्तीर्याभिजुहोति — इदं विष्णुर्विचक्रमे त्रेधा नि दधे पदम्। समूढमस्य पाँसुरे स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वोत्तरस्य हविर्धानस्य पश्चादुपसृप्योत्तरस्यां वर्तन्यां स्फ्येनोद्धत्यावोक्ष्य हिरण्यं निधाय संपरिस्तीर्य जुहोति - इरावती धेनुमती हि भूतँ सूयवसिनी मनवे यशस्ये। व्यस्कभ्नाद्रोदसी विष्णुरेते दाधार पृथिवीमभितो मयूखैः स्वाहेति’ इति।
विष्णुस्त्रिविक्रमावतारं धृत्वेदं विश्वं विभज्य क्रमते स्म भूमावेकं पदमन्तरिक्षे द्वितीयं दिवि तृतीयमित्येवं त्रेधा पदं निदधे। पांसवो भूम्यादिलोकरूपा यस्य पदस्य सन्ति तत्पांसुरम्। अस्य विष्णोस्तस्मिन्पदे विश्वं समूढं सम्यगन्तर्भूतम्। किंच इरावती अन्नवती धेनुमती धेनुर्बहुक्षीरा गौस्तद्वत्यौ सूयवसिनी शोभनैर्यवसैरभ्यवहार्यौर्युक्ते मनवे मानवप्रजार्थं यशस्ये यशोनिमित्ते भवतम्। एते रोदसी द्यावापृथिव्यौ विष्णुर्व्यस्कभ्नाद्विभज्य स्थापितवान्। तां च पृथिवीं मयूखैः स्वतेजोरूपैर्नानाजीवैरभितो दाधार पुपोष। स विष्णुरनयोत्तरहविर्धानमार्गाहुत्या प्रीयताम्।
विधत्ते —
‘वर्त्मना वा अन्वित्य यज्ञँ रक्षाँसि जिघाँसन्ति वैष्णवीभ्यामृग्म्यां वर्त्म-
नोर्जुहोति यज्ञो वै विष्णुर्यज्ञादेव रक्षाँस्यपहन्ति’ (सं. का. ६ प्र. २ अ. ९) इति।
वर्त्मना शकटमार्गेण। अन्वित्यानुप्रविश्य। यज्ञो देवेभ्यो निलायत विष्णूरूपं कृत्वेत्युक्तत्वाद्यज्ञस्य विष्णुत्वम्। अत एव वैष्णवमन्त्रोऽत्र न व्यधिकरणः। यज्ञादेव विष्णुरूपयज्ञद्वारेणैव।
होमाधारत्वेन हिरण्यप्रक्षेपं विधत्ते —
‘यदध्वर्युरनग्नावाहुतिं जुहुयादन्धोऽध्वर्युः स्याद्रक्षाँसि यज्ञँ हन्युर्हिरण्यमुपास्य जुहोत्यग्निवत्येव जुहोति नान्धोऽध्वर्युर्भवति न यज्ञँ रक्षाँसि घ्नन्ति’ (सं. का. ६ प्र. २ अ. ९) इति।
प्राचीति। कल्पः – ‘अथैने संपरिगृह्य संप्रैषमाह हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीति त्रिरुक्तायां प्रवर्तयन्ति प्राची प्रेतमध्वरं कल्पयन्ती ऊर्ध्वं यज्ञं नयतं मा जीह्वरतमिति’ इति।
हे शकटे प्राङ्मुखे गच्छतम्। कीदृशे। अध्वरं कल्पयन्ती देवकर्म बाधरहितं कुर्वाणे। किंचोर्ध्वमुपरिवर्तिदेवान्प्रति यज्ञं नयतं मा कुटिले भवतमसुरान्मा प्रापयतम्।
प्राक्शब्दतात्पर्यमाह —
‘प्राची प्रेतमध्वरं कल्पयन्ती इत्याह सुवर्गमेवैने लोकं गमयति’ (सं. का. ६ प्र. २ अ. ९) इति।
कल्पः — ‘आहवनीयात्प्रतीचस्त्रीन्प्रक्रमानुच्छि(च्छे)ष्यात्र रमेथामिति नभ्यस्थे स्थापयित्वा’ इति।
नभ्यशब्देन फलकत्रयोपेते चक्रे नाभियुक्तं मध्यमफलकमुच्यते। तस्मिन्यथा शकटं तिष्ठति तथा स्थापयेत्। प्राचीनवंशस्थो यः पुरातन आहवनीयस्तस्येत ऊर्ध्वं गार्हपत्यत्वम्। आहवनीयस्तूत्तरवेदिस्थ एव तत्रत्यपुरातनगार्हपत्यस्य शालामुखीयत्वमिति।
तथा च सूत्रम् — ‘प्रवर्ग्यमुद्वास्य पशुबन्धवदग्निं प्रणयत्येष सोमस्याऽऽहवनीयो यतः प्रणयति स गार्हपत्यः’ इति।
मन्त्रपाठस्तु –
अत्रेति। हे शकटे देवयजनाख्ये पृथिव्याः शरीर उत्तरवेद्याः पश्चिमभागे प्रक्रमत्रयमवशेष्य यत्स्थानमस्ति अत्र स्थाने क्रीडतम्।
देवयजनरूपाया वेदेः पृथिवीशरीरत्वं यदिमामविन्दन्त तद्वेद्यै वेदित्वमित्येतस्मिन्ब्राह्मणे प्रसिद्धमाह —
‘अत्र रमेथां वर्ष्मन्पृथिव्या इत्याह वर्ष्म ह्येतत्पृथिव्या यद्देवयजनम्’ (सं. का. ६ प्र. २ अ. ९) इति।
कल्पः — ‘दिवो वा विष्णवित्यध्वर्युदक्षिणस्य हविर्धानस्य दक्षिणं कर्णातर्दमनुमेथीं निहन्ति तस्यामीषां निनह्यत्येवमुत्तरस्य प्रतिप्रस्थाता विष्णोर्नुकमित्युत्तरस्योत्तरं कर्णातर्दमनु’ इति।
युगस्य दक्षिणोत्तरभागौ शकटस्य कर्णस्थानीयौ। तयोरातर्द ईषाभ्यां सह दृढबन्धनम्। दक्षिणबन्धनसंधौ मेथी निखातव्या।
मन्त्रौ त्वेवं पठितौ —
दिव इति। हे विष्णो द्युलोकाद्वा भूलोकाद्वा महर्लोकाद्वाऽन्तरिक्षलोकाद्वा समानीतैर्बहुभिर्धनसमूहैः स्वहस्तौ पूरय। हे विष्णो पूर्णधनाद्दक्षिणात्सव्याच्च हस्तादाप्रयच्छ बहुकृत्व आवृत्य प्रकृष्टं मणिमुक्तादिकं देहि। नुकमित्यव्ययं कर्मवाचकम्। विष्णोर्वीर्याणि कर्माणि प्रवोचं ब्रवीमि। कानि कर्माणि। यो विष्णुः पार्थिवानि रजांसि परमाणून्विममे निर्मितवान्परिगणितवांश्च। पुनरपि यो विष्णुरुत्तरमुपरिवर्ति सधस्थं देवानां सह वासस्थानं द्युलोकमस्कभयात्, यथाऽधो न पतति तथा स्तम्भितवान्। पुनरपि यस्त्रेधा विचक्रमाणस्त्रिषु लोकेषु पदत्रयं निदधौ, उरुभिर्महात्मभिर्गीयते च।
मेथ्या निखननं विधत्ते —
‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं दिवो वा विष्णवुतं पृथिव्या इत्याशीर्पदयर्चा दक्षिणस्य हविर्धानस्य मेथीं नि हन्ति शीर्षत एव यज्ञस्य यजमान आशिषोऽव रुन्धे’ [सं. का. ६ प्र. २ अ. ९] इति।
यथा शिरसि चक्षुरादीनि गोलकानि निधीयन्ते तथा हविर्द्रव्याणि शकटे निधीयन्त इति हविर्धानस्य यज्ञशिरस्त्वम्। हस्तौ पृणस्वाऽऽप्रयच्छेत्याशीर्यस्या ऋचः पदेषु प्रतीयते सेयमृगाशीर्पदा। यद्यप्येषा मेथीं न प्रकाशयति तथाऽपि
वाचनिकोऽत्र विनियोगः। अनेन मन्त्रेण यज्ञशिरसो हविर्धानाद्यजमान आशिषः प्राप्नोति।
आच्छादकं विधत्ते —
‘दण्डो वा औपरस्तृतीयस्य हविर्धानस्य वषट्कारेणाक्षमच्छिनद्यत्तृतीयं छदिर्हविर्धानयोरुदाह्रियते तृतीयस्य हविर्धानस्यावरुद्ध्यै’ (सं. का. ६ प्र. २ अ. ९) इति।
दण्डो नाम कश्चिदसुर उपरनामकस्यासुरस्य पुत्रो वषट्कारदेवेन सह मैत्रीं कृत्वा तद्द्वारा प्रविश्य तृतीयस्य शकटस्याक्षमच्छिनत्। अतस्तृतीयस्य शकटस्य प्रतिनिधित्वेनैकैकस्य शकटस्योर्ध्वं तृणादिनिर्मितं छदिः स्थापयेत्। तत्र दक्षिणोत्तरपार्श्वयोः परिश्रयणार्थे द्वे छदिषी अपेक्ष्य तृतीयम्। अथ शकटे अन्तर्भाव्य हविर्धानाख्यं मण्डपं निर्मातव्यम्। तत्र दक्षिणशकटात्पुरतो ग्रहासादनायावकाशं शिष्ट्वा दक्षिणोत्तररूपेण षट्संख्याकाः स्थूणा निखातव्याः। एवं पश्चाद्भागे षट् स्थूणा निखातव्याः। तयोः स्थूणापङ्क्त्योरुदञ्चौ वंशावादधाति।
विष्णो इति। अत्र कल्पः — ‘तासूदञ्चौ वंशौ प्रोहत्यध्यस्यति पुरस्ताद्रराटीं विष्णो रराटमसीति’ इति।
हविर्धानमण्डपस्य विष्णुदेवताकत्वाद्विष्णुत्वम्। पूर्वद्वारवर्तिस्तम्भयोर्मध्ये काचिद्दर्भमाला ग्रथ्यते, तां दर्भमालां तद्बन्धनाधारं तिर्यग्वंशं वा संबोध्य पुरुषललाटत्वेनोपचरितुं विष्णो रराटमसीत्युच्यते।
विष्णोरिति। कल्पः — ‘प्राचो वंशानत्याधाय विष्णोः पृष्ठमसीति तेषु मध्यमं छदिरध्यूहति अरत्निविस्तारं नवायामम्’ इति।
यज्ञपुरुषस्य हविर्धानाख्यं मण्डपं शिरस्तत्साम्यं मन्त्रैरुच्यत इत्याह —
‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं विष्णो रराटमसि विष्णोः पृष्ठमसीत्याह तस्मादेतावद्धा शिरो विष्यूतम्’ (सं. का. ६ प्र. २ अ. ९) इति।
एका रराटी, एकं छदिः, द्वौ रराट्यन्ताविति यावन्तो मण्डपस्य प्रकारा एतावद्धैतावत्प्रकारं शिरो विश्वकर्मणा विशेषेण स्यूतं, शिरस्याच्छादिका त्वमेव च्छदिः स्थापनीया।
विष्णोरिति। कल्पः — ‘पार्श्वयोश्छदिषी निदधाति विष्णोः श्न्यप्त्रे स्थ इति’ इति।
विष्णोरिति। कल्पः — ‘विष्णोः स्यूरसीत्यध्वर्युर्दक्षिणं बाहुं स्यूत्वा विष्णोर्ध्रुवमसीति प्रज्ञातं ग्रन्थिं करोति वैष्णवमसि विष्णवे त्वेति संमितमभिमृशति’ इति।
सीव्यतेऽनया रज्ज्वेति स्यूः। हे बन्धनहेतो त्वं विष्णुदेवताकस्य रज्जुरसि। हे ग्रन्थिरूप त्वं विष्णुसंबन्धि दृढमसि। हे मण्डप त्वं विष्णुदेवताकमस्यतो विष्णुप्रीतये त्वां स्पृशामि।
अत्र विष्णोरिति पष्ठ्या देवतात्वलक्षणः संबन्धो विवक्षित इत्याह —
‘विष्णोः सयूरसि विष्णोर्ध्रुवमसीत्याह वैष्णवँ देवतया हविर्धानम्’ (सं. का. ६ प्र. २ अ. ९) इति।
प्रज्ञातग्रन्थेर्विस्रंसनं विधत्ते —
‘यं प्रथमं ग्रन्थिं ग्रथ्नीयाद्यत्तं न विस्रँसयेदमेहेनाध्वर्युः प्र मीयेत तस्मात्स विस्रस्यः’ (सं. का. ६ प्र. २ अ. ९) इति।
अमेहेन मूत्रनिरोधेन।
अथ विनियोगसंग्रहः।
“युञ्ज हुत्वा सुवागक्षे शब्दश्चेन्मन्त्रयेत तम्।
आ नोऽक्षमञ्ज्याज्जुहुयात्पथोरिदमिराद्वयात्॥१॥
प्राची प्रवर्त्ये शकटे अत्रेति स्थापयेदिमे।
दिवो विष्णोर्द्वयान्मेध्यावनसो विनिहन्त्युभे॥२॥
विष्णोर्मण्डपनिर्माणं पञ्चभिर्द्वारि वंशकः।
मध्यच्छदिर्ललाट्यन्तौ रज्जुस्यूतिश्च बन्धने॥
वैष्ण स्पृशेन्निर्मितं तन्मन्त्राः पञ्चदशोदिताः॥३॥ इति।
अथ मीमांसा।
दशमाध्यायस्याष्टमपादे चिन्तितम् —
“विकल्प्यते बाध्यते वाऽऽहवनीयः पदादिभिः।
सामान्यस्य विशेषेण प्रत्यक्षोक्तित्वसाम्यतः॥
लिङ्गचोदकवद्बोधो नास्ति तेन विकल्प्यते।
विशेषार्थे लक्षणा स्यादतो मुख्येन बाध्यते” इति।
अनारभ्य श्रूयते — ‘यदाहवनीये जुह्वति। तेन सोऽस्याभीष्टः प्रीतः’ इति। ज्योतिष्टोमे श्रूयते – ‘पदे जुहोति वर्त्मनि जुहोति’ इति। राजसूये श्रूयते — ‘वल्मीकवपामुत्सृज्य जुहोति’ इति। तथाऽन्यत्र श्रूयते — ‘गार्हपत्ये पत्नीसंयाजाञ्जुहोति’ इति।
तत्रानारभ्यवादेन होमसामान्यमनूद्याऽऽहवनीयो विहितः। प्रकरणनियमितैः पदादिवाक्यैस्तदनुबन्धविशिष्टा होमा विहिताः। गार्हपत्यवाक्येन होमविशेषमनूद्य गार्हपत्यो विहितः। तत्र पदादिहोमेषु सामान्यशास्त्रेण प्राप्त आहवनीयो विशेषशास्त्रप्राप्तैः पदादिभिः सह विकल्प्यते। कुतः। प्रत्यक्षवचनोक्तत्वेन समानबलत्वात्। नन्वैन्द्र्या गार्हपत्यमुपतिष्ठत इत्यत्र यथा श्रुत्या लिङ्गं बाध्यते, यथा वा चोदकातिदिष्टानां कुशानामुपदिष्टैः शरैर्बाधस्तथा सामान्यस्य विशेषेण बाधोऽस्त्विति चेन्न। वैषम्यात्। लिङ्गं विलम्बितत्वाद्दुर्बलम्। चोदकश्चानुमेयतया दुर्बलः। न त्वेवं सामान्यशास्त्रं विलम्ब्यते, नाप्यनुमीयते। ततो दौर्बल्याभावाद्विकल्प इति प्राप्ते ब्रूमः — होमसामान्यानुवादकं यच्छास्त्रं तत्सामान्ये मुख्यत्वाद्धोमविशेषानुवादे लाक्षणिकतया दुर्बलं, विशेषशास्त्रं तु मुख्यवृत्त्या विधायकत्वात्प्रबलम्। न च पदादिशास्त्रमपि होमसामान्यमेवानूद्य पदादिविधायकं सत्समानबलं स्यादिति शङ्कनीयम्। प्रकरणनियमितत्वेन विशिष्टविधायकस्य सामान्यानुवादायोगात्। तस्मात्प्रबलेन विशेषेण सामान्यं बाध्यते।
तृतीयाध्यायस्य सप्तमपादे चिन्तितम् —
“हविर्धाने स्तिथो ब्रूयात्सामिधेनीरिहाङ्गता।
हविर्धानस्य तास्वाहो तद्देशोऽनेन लक्ष्यते॥
वाक्योक्यादङ्गता मैवं प्रकृत्या पश्चिमोऽग्नितः।
देशः प्राप्तो लाघवेन लक्ष्यः शकटसंनिधिः” इति।
ज्योतिष्टोमे श्रूयते — ‘उत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुः’ इति।
हविर्धानमण्डपगतयोर्दक्षिणोत्तरभागावस्थितयोर्हविर्धाननामकयोः शकटयोर्मध्ये दक्षिणं शकटमत्र यत्तच्छब्दाभ्यामभिधीयते। तस्य समीपे सोमस्याभिषवः। उतेत्ययं शब्दोऽथशब्दार्थे वर्तते। अथ यस्मिन्हविर्धाने सोममभिषुण्वन्ति तस्मिन्सामिधेनीरनुब्रूयुरित्यर्थः। इह दक्षिणस्य हविर्धानस्य सामिधेनीष्वङ्गत्वं प्रतीयते। न चात्रार्धमन्तर्वेदि मिनोत्यर्धं बहिर्वेदित्युदाहरण इव वाक्यभेदे दोषःशङ्कितुं शक्यः। एकवाक्यतायाः स्पष्टं प्रतिभासादिति प्राप्ते ब्रूमः — सामिधेनीनामिष्ट्यङ्गतया दर्शपूर्णमासावत्र प्रकृतिः। प्रकृतौ चाऽऽहवनीयाग्नेः पश्चिमो देशः सामिधेनीनां स्थानम्। इहोत्तरवेदेराहवनीयत्वात्तदुपेक्षया हविर्धानस्य पश्चिमदेशावस्थानात्स देशश्चोदकेन प्राप्त इति न देशस्य सामिधेन्यङ्गत्वं विधातव्यं किंतु दक्षिणोत्तरहविर्धानसमीपदेशयोरनियमप्राप्तौ दक्षिणस्य हविर्धानस्य समीपदेशं नियन्तुं हविर्धानेन संनिधिर्लक्ष्यते। तथा सति नियममात्रविधानाल्लाघवं भवति। त्वत्पक्षे त्वभिषवोपलक्षितस्य दक्षिणस्य हविर्धानस्यात्यन्तमप्राप्तं सामिधेन्यङ्गत्वं विधीयत इति गौरवम्। तस्माद्देशलक्षणा।
द्वादशाध्यायस्य प्रथमपादे चिन्तितम् —
“हविर्धानोर्ध्वकाले किमौषधार्थमनोन्तरम्।
नास्त्यस्ति वा न शक्तत्वाद्देशभेदादितोऽन्तिमः” इति।
ज्योतिष्टोमे हविर्धाननामकयोः शकटयोः प्रवर्तनादूर्ध्वमौषधद्रव्यकाणां पुरोडाशादीनां निर्वापाय तयोरेव शक्ततत्वान्न शकटान्तमन्वेष्यमिति चेन्न। देशभेदात्। महावेद्यां मन्त्रपूर्वकं प्रवर्त्य हविर्धानमण्डपे हविर्धानाख्ये शकटे स्थापिते। निर्वापस्तु मुख्यगार्हत्यात्पश्चिमदेशे। किंचास्त्यत्र तृतीयं शकटम्। अनांसि प्रवर्तयन्तीति बहुवचनोक्तेः तस्माच्छकटान्तरे निर्वापः।
अथ च्छन्दः —
युञ्जते मन इति जगती। आ नो इति विराड्गायत्री। इदं विष्णुरिति गायत्री। इरावतीति त्रिष्टुप्। प्राची प्रेतमिति द्विपदा त्रिष्टुप्। अत्र रमेथामित्येकपदा विराट्। दिवो वा विष्णो विष्णोर्नुकमिति त्रिष्टुभौ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके त्रयोदशोऽनुवाकः॥१३॥
(अथ प्रथमकाण्डे द्वितीयप्रपाठके चतुर्दशोऽनुवाकः)
त्रयोदशेऽनुवाके हविर्धानमण्डपनिर्माणमुक्तम्। यद्यपि नैतावता किंचित्प्रमेयं परिसमाप्तं तथाऽप्यध्यापकसंप्रदायपरम्परया प्रपाठक उत्तरानुवाके समाप्यत इत्यन्तिमानुवाकत्वाञ्चतुर्दशे काम्याः सामिधेन्यः पुरोनुवाक्या याज्यश्वोच्यन्ते। तत्रेष्टिकाण्डे व्रातपत्येष्टेरूर्ध्वं राक्षोघ्नेष्टिरेवमाम्नायते —
‘अग्नये रक्षोघ्ने पुरोडाशमष्टाकपालं निर्वपेद्यँ रक्षाँसि सचेरन्नग्निमेव रक्षोहणँ स्वेन भागाधेयेनोप धावति स एवास्माद्रक्षाँस्यप हन्ति” [सं. का. २ प्र. २ अ. २] इति।
सचेरन्समवेयुर्बाधेरन्नित्यर्थः।
मध्यरात्रिकालं विधत्ते —
‘निशितायां निर्वपेन्निशितायाँ हि रक्षाँसि प्रेरते संप्रेर्णान्येवैनानि हन्ति’ (सं. का. २ प्र. २ अ. २) इति।
प्रेरते प्रकर्षेण चरन्ति। अतस्तस्यां वेलायां निर्वापेण प्रचारवन्त्येवैनानि रक्षांसि हन्ति।
यागभूमेः परितो वेष्टनं विधत्ते —
‘परिश्रिते याजयेद्रक्षसामानन्ववचाराय’ (सं. का. ६ प्र. २ अ. २) इति।
अनुप्रवेशाभावायेत्यर्थः।
रक्षोहणं वाजिनं वि ज्योतिषेत्येतौ मन्त्रौ विधत्ते —
‘रक्षोघ्नी याज्यानुवाक्ये भवतो रक्षसाँ स्तृत्यै’ (सं. का. ६ प्र. २ अ. २) इति।
हिंसार्थमित्यर्थः।
अस्यामिष्टौ कृणुष्व पाज इत्यनुवाकः कृत्स्नो विनियुक्तः। तस्मिन्नृचोष्टादश। तासु पञ्चदश सामिधेन्यः। एका पुरोनुवाक्या, द्वे याज्ये विकल्पिते।
तत्रेयं प्रथमा —
कृणुष्वेति। कृणुष्व कुरुष्व। पाजो बलम्। प्रसितिं न मृगबन्धनेहतुभूतपाश्यामिव पृथ्वीं प्रसारिताम्। अमवानमात्ययुक्तः। इभेन हस्तिना तृष्वीं शीघ्रगामिनीं प्रसितिं प्रकृष्टसेनां द्रूणानो हिंसन्। अस्ता क्षेप्ता धावयिता। रक्षसो रक्षसान्। तपिष्ठैरतिसंतापकैर्बाणैः। हेऽग्ने मृगबन्धनाय प्रसारितां पाश्यामिव रक्षोनिरोधाय प्रौढं बलं कुरु। अमात्ययुक्तो गजेन सहितो राजेव रक्षसामुपरि याहि। क्षिप्रगामिनीं परकीयसेनामनु पृष्ठतो गत्वा मारयन्नवशिष्टाया धावयिता भव। पलायमानानपि राक्षसान्बाणैस्तीक्ष्णैर्विध्य॥१॥
अथ द्वितीया —
तव भ्रमास इति। भ्रमासो भ्रमणशालिनो विस्फुलिङ्गाः। असंदितोऽखण्डितः। [आशुया शीघ्रगामिनः(णः)। धृषता धार्ष्ट्येन। शोशुचानो भृशं दीप्यमानः। तपूंषि संतापान्। पतङ्गान्पतनशीलान्)। विसृज विशेषेणोत्पादय।
विष्वक्सर्वतः। उल्का महाज्वालाः। हेऽग्ने तव सबन्धिनो विस्फुलिङ्गाः शीघ्रगामिनः(णः) सर्वतः पतन्ति। त्वमपि भृशं दीप्यमानस्तैर्विस्फुलिङ्गैस्तानसुरान्धार्ष्ट्येनात्यन्तगाढमनु स्पृश। पुनरपि जुह्वा हुतेन हविषा त्वमविच्छिन्नः सन्संतापान्विस्फुलिङ्गान्महाज्वालाश्चासुरबाधनाय सर्वतो बाहुल्येनोत्पादय॥२॥
अथ तृतीया —
प्रति स्पश इति। स्पशः पाशान्। तूर्णितमोऽतित्वरितः। पायुः पालयिता। विशः प्रजायाः। अदब्धः केनाप्यहिंसितः। अघशंसो विचित्रवधकारी। अन्ति समीपे। माकिर्मा। व्यथिर्व्यथाकरी। आदधर्षीत्सर्वतो धृष्टो भवतु। हेऽग्ने चित्रवधकारी राक्षसो योऽस्माकं वैरी दूरे वर्तते, यश्चान्तिके वर्तते तं प्रति त्वमतित्वरितो बन्धनहेतून्पाशान्विविधान्सृज। केनाप्यहिंसितस्त्वमस्मदादिकाया अस्याः प्रजायाः पालको भव। कोऽपि व्यथयिता राक्षसस्ते समीपे सर्वत्र धृष्टो मा भवतु॥३॥
अथ चतुर्थी —
उदग्न इति। हेऽग्ने त्वमुत्तिष्ठ शत्रून्प्रति सर्वतः प्रवर्तस्व। हे तीक्ष्णायुध त्वमित्रान्नितरां दह। हे सामिध्यामान वह्ने योऽस्माकं शत्रुत्वं चक्रे तं नीचं कृत्वा शुष्कमतसमिव काष्ठमिव भस्मी कुरु॥४॥
अथ पञ्चमी —
ऊर्ध्व इति। हेऽग्ने त्वमूर्ध्वो भवोद्युक्तो भव। अस्मदधि अस्माकमुपरि ये शत्रवः संवृत्तास्तान्प्रति विध्य। हेऽग्ने दैव्यानि वीर्याण्याविष्कुरु। यातुजूनां यातुधानानां स्थिराणि वीर्याणि अवमतानि यथा भवन्ति तथा तनुहि कुरु। जामिः पुनः पुनस्ताडितः, अजामिरताडितस्तादृशान्सर्वान्प्रमृणीहि मारय॥ ५॥
अथ षष्ठी —
स त इति। हे यविष्ठ युवतम यो यजमान ईवते स्वगृहं प्रति गमनवते ब्रह्मणे परिवृढाय तुभ्यं गातुं हविर्लक्षणमन्नमैरत्प्रददाति स एव यजमानस्त्वदनुग्रहयुक्तां सुमतिं जानाति। त्वमपि अर्यः स्वामी भूत्वा रायो धनानि द्युम्नानि यशांसि धुरो गृहांश्चाभिलक्ष्यास्मै यजमानाय विश्वानि सुदिनानि यथा भवन्ति तथा द्यौत्प्रकाशयानुगृहाण॥६॥
अथ सप्तमी —
सेदग्न इति। हेऽग्ने यो यजमानः स्व आयुषि यावज्जीवं दुरोणे स्वगृहे नित्येन प्रतिदिनमनुष्ठेयेन हविषा त्वां पिप्रीषति प्रीणयितुमिच्छति यश्चोक्थैः शस्त्रैः पिप्रीषति स एव सुभगः सौभाग्यवान्सुदानुः शोभनदानवानप्यस्तु। अस्मै अस्य यजमानस्य सा सर्वाऽपीष्टिः सुदिनैवासद्भवति॥ ७॥
अथाष्टमी –
अर्चामीति। हेऽग्ने तव सुमितिमनुग्रहरूपामर्चामि मनसा पूजयामि। अर्वागर्वाचीनाऽपि घोषि घोषवतीयं स्तुतिरूपा मदीया गीर्वावाता पौनःपुन्येन प्रसृता ते त्वयि सम्यग्जरतां जीर्यतां त्वां विहायान्यत्र मा गच्छतु। वयं तु त्वत्प्रसादाच्छोभनैरश्वै रथैश्च युक्ताः सन्तस्त्वा मर्जयेम सेवेमहि। त्वमप्यनुद्यूननुदिनमस्मे अस्मासु क्षत्र्राणि सामर्थ्यानि धारयेर्धारय॥ ८॥
अथ नवमी —
इह त्वेति। हेऽग्न इहास्मिल्ँ लोके श्रेयोर्थी पुरुषस्त्वामेव भूरि बाहुल्येन सर्वत उपचरेत्त्मन्नात्मनि स्वनिमित्तम्। कीदृशं त्वां, दोषावस्तर्दीदिवांसं रात्रिंदिवं दीप्यमानम्। कियन्तं कालमुपचारः, अनुद्यूननुदिनम्। तस्माद्वयं क्रीडन्तो हृष्टमनसस्त्वां सपेम संगच्छेम भजेम। किं कुर्वन्तः, जनानां मध्ये द्युम्नानि धनानि अभितस्थिवांसस्त्वत्प्रसादादधिष्ठितवन्तः॥९॥
अथ दशमी —
यस्त्वेति। हेऽग्ने त्वत्प्रसादाच्छोभनैरश्वैः समीचीनेन हिरण्येन च युक्तो यो यजमानो हविःस्वरूपधनवता रथेन सह त्वामुपयाति तस्य त्वं त्राता भवसि। किंच यस्तवातिथिसत्कारमानुषक्प्रतिदिनं जुजोषत्प्रीतिपुरःसरं करोति तस्य त्वं सखिवत्स्वाधीनो भवति॥१०॥
अथैकादशी —
मह इति। हेऽग्ने बन्धुता त्वदीयेन बन्धुत्वेन महोऽसुराणां तेजोऽधिक्षेपरूपैर्वचोभिरेव रुजामि भञ्जयामि। तत्त्वदीयं बन्धुत्वं गोतमाद्गोतमसदृशादध्यापकात्पितुर्मामनुप्राप। हे होतर्देवानामाहा(हो)तर्यविष्ट युवतम सुक्रतो शोभनक्रतो याग-
निष्पादक दमूना दान्तमनास्त्वं नोऽस्मदीयस्य वचसोऽधीतवेदस्य रहस्यं चिकिद्धि जानासि॥११॥
अथ द्वादशी —
अस्वप्नज इति। हेऽग्ने तव ते नः पान्तु त्वतीयास्तथाविधा रश्मयोऽस्मान्पालयन्तु। अमूरेत्यग्निविशेषणम्। मूर्मूर्छा तद्वान्मूरस्ततोऽन्यत्वादमूरस्तस्य संबोधनम्। कीदृशास्ते रश्मयः, स्वप्नजन्मानो मिथ्याभूता न भवन्तीति अस्वप्नजः। व्यत्ययेनैकवचनम्। तरणयो दुरितरूपं तमस्तारयन्ति। सुशेवाः सुखेन सेवितुं योग्याः। अतन्द्रासोऽप्रमत्ताः। अवृका अहिंसकाः। अश्रमिष्ठाः श्रमरहिताः। पायवः पालकाः। सध्रियञ्चः सह प्रवर्तमानाः। निषद्य यागप्रदेशे स्थित्वा॥१२॥
अथ त्रयोदशी —
ये पायव इति। हेऽग्ने तव संबन्धिनः पालका ये रश्मयो ममताख्यायाः कस्याश्चिद्योषितोऽपत्यं क्वचिदन्धं पश्यन्तो दुरितादान्ध्यलक्षणादरक्षन्। इयं त्वाख्यायिका क्वापि ब्राह्मणान्तरे द्रष्टव्या। विश्वं वेत्तीति विश्ववेदाः। तादृशो भवान्सुकृतः सोभनकर्मकारिणस्तान्रश्मीन्रक्ष। ते रिपवो राक्षसास्तान्दिप्सन्त इदिव परिभवितुमिच्छन्तोऽपि ना(न) ह देभुर्नैव परिबभूवुः॥१३॥
अथ चतुर्दशी —
त्वयेति। हेऽग्ने वयं तव प्रणीती प्रेरणया वाजानन्नान्पश्याम। कीदृशा वयं, त्वया सधन्याः। सह यज्ञकर्म नयन्तीति सधन्याः। त्वोतास्त्वया रक्षिताः। हे सत्यताते सत्यविस्तार, उभा शंसा त्वदग्नेऽस्माभिः शंसनीयावैहिकामुष्मिकौ पुरुषार्थावुभौ सूदय [क्षर देहि] हेऽह्रयाण भक्तानामलज्जाकरानुष्ठुया कृणुहि साधनानुष्ठापनेन तावुभौ कुरु॥१४॥
अथ पञ्चदशी —
अयात इति। हेऽग्नेऽया समिधाऽनया सामिधेन्या ते त्वां विधेम परिचरेम। अस्माभिः शस्यमानं स्तोमं स्तोत्रं प्रतिगृभाय प्रतिगृहाण। अशसोऽप्रशस्तान्रक्षसो राक्षसान्दह। मित्रमुपकारकं महस्तेजो यस्यासौ मित्रमहा हे मित्रमहो द्रुहो वैरिकृतद्रोहान्निदो निन्दाया अवद्यादनुष्ठानदोषाच्चास्मान्पाहि॥१५॥
अथ षोडशी। सा तु पुरोनुवाक्या —
रक्षोहणमिति। रक्षसां हन्तारमन्नवन्तमग्निमाभिमुख्येन दीपयामि। जगतां मित्रं प्रथिष्ठं विस्तीर्णतमं शर्म शरणमुपयामि भजामि। एतदादिभिः ऋतुभिः समिद्धः संज्वलितः शिशानस्तीक्ष्णः सोऽग्निर्दिवा रिषो हिंसकादस्मान्पातु। स एव नक्तमपि पातु॥१६॥
अथ सप्तदशी। सा तु याज्या —
वि ज्योतिषेति। अयमग्निर्बृहता ज्योतिषा विभाति। विश्वानि महित्वा माहात्म्येनाऽऽविष्कुरुते। अदेवीरासुरीर्दुरेवा दुरत्यया मायाः प्रसहते विनाशयति। रक्षसे राक्षसान्विनिक्षे विनाशयितुं शृङ्गे द्वे ज्वाले शिशीते तीक्ष्णी करोति॥१७॥
अथाष्टादशी। सा तु विकल्पिता याज्या —
उतेति। तिग्मं तीक्ष्णत्वमेवाऽऽयुधं येषां रश्मीनां ते तिग्मायुधास्ते तव स्वानासोऽनेन पुरोडाशेन ध्वनिं कुर्वन्तः। तादृशा अग्ने रश्मय उत दिवि षन्तु द्युलोकेऽपि प्रसरन्तु। किमर्थं, रक्षसे हन्तवा उ राक्षसान्हन्तुमेव। अस्याग्नेर्भामा भासो रश्मयो मदे चिदस्मद्धर्षायैव प्ररुजन्ति प्रतिपक्षिणो भञ्जन्ति। अदेवीरासुर्यः परिबाधः सर्वतः कृता बाधा न वरन्ते नैवास्मानावृण्वन्ति। अत्र षोडशी विकल्पिता सामिधेनी। उत्तरे याज्यानुवाक्ये इति केचित्। तथा वाऽस्तु॥१७॥
अत्र विनियोगसंग्रहः —
“कृणु राक्षोघ्नके यागे सामिधेन्यस्तु षोडश।
याज्यानुवाक्ये द्वे अष्टादश मन्त्रा इहेरिताः॥१॥” इति।
मीमांसा तु उभा वामिन्द्राग्नी इत्यत्रेव सर्वत्र याज्याकाण्डे योजनीया। छन्दोऽपि सर्वासामृचामत्र त्रिष्टुबेव॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके चतुर्दशोऽनुवाकः॥१४॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥१॥
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयः प्रपाठकः॥२॥