( अथ सप्तमाष्टके द्वितीयप्रपाठक द्वितीयोऽनुवाकः)।
ऋ॒तवो॒ वै प्रजाका॑माः प्र॒जां नाविन्दन्त॒ ते॑ऽका
मयन्त प्रजाँ सृ॑जेमहि प्रजामव॑ रून्धीमहि प्र॒जां
वि॑न्देमहि प्र॒जाव॑न्तः स्या॒मेति॒ त ए॒तमेंकादशरा॒त्रम॑-
पश्य॒न्तमाऽह॑रन्तेना॑यजन्त॒ ततो॒ वै ते प्र॒जामवा॑रू-
न्धत प्र॒जाम॑विन्दन्त प्र॒जाव॑न्तोभव॒न्त ऋ॒तवो॑ऽम-
वन्तदा॑र्त॒वाना॑मार्तव॒त्वमृ॑तूनां वा ए॒ते पु॒त्रास्तस्मा॑त्
( 1 ) आ॒र्त॒वा उ॑च्यन्ते॒ य ए॒वं वि॒द्वँस॑ एकाद-
शरा॒त्रमास॑ते प्र॒जामे॒व सृ॑जन्ते प्र॒जामकन्धते
प्र॒जां वि॑न्दन्ते प्र॒जाव॑न्ता भवन्ति॒ ज्योति॑रतिरा॒त्रो
भ॑वति॒ ज्योति॑रेव पु॒रस्ता॑द्दधते सुव॒र्गस्य॑ लो॒कस्या-
नु॑क्यात्यै॒ पृष्ठयः। षड॒हो भ॑वति॒ षडवा ऋ॒तवः॒ षट्-
पृष्ठानि॑ पृष्ठैरे॒वर्तून॒न्वारो॑न्त्यु॒तुभिः॑ संवत्स॒रं ते
संवत्स॒रं ए॒व प्रति॑ तिष्ठन्ति चतुर्विँ॒शो भ॑वति॒
चतुर्विँ॒शत्यक्षरा गाय॒त्री ( 2 ) गा॒य॒त्रं ब्र॑ह्मव-

[[2561]]

प्रपा02अनु06)कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( एकादशरात्रकथनम् )
र्च॒सं गा॑यत्रि॒यामे॒व ब्र॑ह्मवर्च॒से प्रति॑ तिष्ठन्ति
चतुश्वत्वारिँ॒शो भ॑वति॒ चतुश्वत्वारिँ॒शदक्षरा
त्रि॒ष्टुगि॑न्द्रि॒यं त्रिष्टुप्त्रि॒ष्टुभ्ये॒वेन्द्रिये प्रति॑ तिष्ठन्त्य-
ष्टाचत्वारिँ॒शो भ॑वत्य॒ष्टाचत्वारिँशदक्षरा॒ जगती॒
जाग॑ताः प॒शवो॒ जग॑त्यामे॒व प॒शुषु प्रति॑ तिष्ठन्त्ये-
कादशरा॒त्रे भ॑वति॒ पञ्च॒ वा ऋ॒तव आर्त॒वाः
पञ्च॒र्तुष्वे॒वाऽऽर्त॒वेषु॑ संवत्स॒रे प्र॑ति॒ष्ठाय॑ प्र॒जामव॑
रून्धतेऽतिरा॒त्राव॒भितो॑ भवतः प्र॒जायै॒ परि॑गृ-
हीत्यै ( 3 )।
( ए॒ते पु॒त्रास्तस्मा॑न्दायत्र्येकान्न प॑ञ्चाशच्च॑ । )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायांभाष्ये सप्तमकाण्डे
द्वितीयप्रपाठके
षष्ठोऽनुवाकः ।। 6।।

( अथ सप्तमाष्टके द्वितीयप्रपाठक षष्ठो ऽनुवाकः)।
पञ्चमे दशरात्रोऽभहितः । अथ षष्ठ कादशरात्रोऽभिधीयते।
तमेतं विधत्ते-
ऋतवो वा इति । वसन्ताद्यृत्वभिमानिनो देवाः पुरा प्रजामिच्छन्तोऽपिनालभन्त। ते चतुर्विधां कामनामकुर्वत। प्रजां स्त्रष्टुं समर्थाः स्यामेत्येका कामना।ततोऽवरोद्धुं नियन्तुं समर्थाः स्यामेति द्वितीया कामना। तत उत्पादनेन प्रजां लभेमहीति तृतीया कामना। ततो बह्नीभिः प्रशस्तामिश्व प्रजाभियुंक्ता। अवतिष्ठमेति चतुर्थी कामना। तेषामृतूनामेकादशरात्रेण तत्सर्व सिद्धम्। ततस्ते वसन्ताद्या ऋतुवोऽभवन्। प्रजारूपां भूतिमैश्वर्य प्राप्ताः । यस्मादेते सर्वे प्राणिन ऋतूनां पुत्रास्तस्मादार्तवा इत्युच्यन्ते। ऋतुवदन्येषामपि यजमानानामेतत्सर्व सिध्यति। अस्य चैकादशरात्रस्य सत्रलक्षणभूतयाऽपि चोदनया विधानात्सत्रत्वं द्रष्टव्यम्। नह्यव साध्यानां षड्राव इव धर्मातिदेशार्थेयमासिचोदना। तव्ददनादेशायानां धर्मविशेषणामश्रवणांत् । तस्मादयमृतूनामेकादशरात्रः सत्रम्। इतोऽन्ये शाखान्तरविहिता एकादशरात्रा अहीनाः।

[[2562]]

श्रीमत्सायणार्यविरचितभाष्यसमेता- 7षष्ठकाणडे
( एकदशारात्रकथनम् )
एतस्मिन्नृतूनामेकादशरात्रे प्रथमहर्विधत्ते-
ज्योतिरतिरात्र इति पूर्व ज्योतिर्गौरायुरितिज्योतिःशब्दाभिदेयो य एकाह उक्तस्तमेकाहमत्रातिरात्रसंस्थारूपं कुर्यात्। तथा सति प्रथममेव ज्योतिर्विधानात्सवर्ग जिगमिषोर्यजमानस्य पुरस्तादेव प्रकाशः कृतो भवति। तच्च स्वर्गलोकप्रकाशनाय भवति।।
अथ द्विती यादिसप्तमान्यतान्यहानि विधत्ते-
पृष्ठयः षडह इति। द्वादशाहे द्वितीयादिनपारभअय सप्तमान्तेषु दिनेषु रथंतरादिभिः षड्भिः पृष्ठैर्युक्तानि षडहानि विहितानि। तानि चास्माभिः साध्यानां षड्रात्रप्रसङ्गेनोदाह्यतानि। तेषा संघः पृष्ठयःषडहः सोऽत्र कर्तव्यः। तथा सति षट्संख्याद्वारेणर्तुप्राप्तिः तद्द्वारा संवत्सरप्राप्तिः।।
अथाष्टममहर्विधत्ते-
चतुर्विँश इति । चतुर्विशस्तोमयुक्तो रथंतरसामा य उक्थ्यः सोऽयमत्राष्टममहः। तथा सति चतुर्विशतिसंख्याद्वारा गायत्रीप्राप्तिः। तद्द्वारा ब्रह्मवर्चसप्रप्तिः।।
चतुश्वत्वारिँ श इति चतुश्वत्वारिशस्तोमयुक्तो बृहद्रथंतरसामा य उक्थ्यः सोऽयमत्र नवममहः। तदनुषठानेन संख्याद्वार चेन्द्रियप्राप्तः।।
अथ नवमहर्विधत्ते-
अष्टाचत्वरिँश इति । अष्टाचत्वरिँशस्तोमयुक्तो बृहत्सामा य उक्थयः सोऽयमत्र दशममहः। तेन संख्याद्वारा जगती प्राप्य तद्द्वारा पशुषु प्रतितषअठन्ति। तान्येतानि त्रीण्यहान सूत्रकारेण स्पष्टमुदाह्यतानि- ततस्त्रीश्छन्दोमानुक्थयानन्वहमुपयन्ति चतुर्विश चतुश्वत्वारिशमष्ठाचत्वारिशमिति, रथंतरसामा प्रथमो बृहद्रथंतरसामा द्वितीयो बृहत्सामा तृतीयः, इति। छन्दोभिर्गायत्रीत्रिष्टुब्जगतीमिरक्षरसंख्याद्वारा मीयन्ते परिच्छिद्यन्त इति चतुर्विशादिस्तोमाश्छन्दोमाः। तत्र चतुर्विशादिस्तोमस्य विष्टुतिः सामब्राह्मण एवामाम्नायते- करोति स अषेटाभ्योहि तसृभिः स चतसृभिः स एकया, अष्टभ्यो हि करोति स एकया, स तसृभिः स चतसृभिः अष्टभ्यो हि करोति स चतसृभिः स एकया, स तसृभिः पशवो वै यदष्टाभ्यो हि करोत्यष्टाशफाः पशवः ति इति ।

[[2563]]

प्रपा02अनु06)कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( एकादशरात्रकथनम् )
स एकस्मिंस्तृचे प्रथमामृचं पठ्त। द्वितीयां चतुः पठेत्।
तृतीयां सकृत्पठेत् । द्वितीयपर्याये सकृस्त्रिश्वतुश्वेत क्रमः।
तृतीयपर्याये चतुः सकृस्त्रिश्वतुश्वेत क्रमः। चतुर्विशादिस्तोमस्य विष्टुतिरेवमाभ्रायते- पञ्चदश्यो हि करोति स तिसृभिः स एकादशभिः स एकया, चतुर्दभ्यो हि करोति सएकया स तसृभिः स दशभिः, पञ्चदसभ्यो हि करोति स एकादशभिः स एकया स तसृभिःइति। अत्र प्रथमपर्याये त्रिरेकादशकृत्वः सकृदतिक्रमः। द्वितीयपर्याये सकृस्त्रिदर्शकृत्वः। तृतीयपर्याये एकदशकृत्वः सकृतिः। अष्टाचत्वारिशंस्तोमस्य विष्टातिरेवमान्नायते- षोडशभ्यो हि करोति स तिसृभः स द्वादशभिः स एकया, षोडशभ्यो हि करोति स द्वादशभिः स एकया, स तिसृभः अन्तो वा
अष्टाचत्वारिशः पशवच्छन्दोमाः इति । अत्र प्रथमप्रर्याय त्रिर्दादशकृत्वः सकृत। द्वितीयपर्याये सकृस्त्रिश्वतुश्वेत तृतीयपर्याये द्वादशकृत सकृत्रिः। एवं विघैश्छन्दोमैरष्टमनवमान्यहानि निष्पाद्यानि।
वक्ष्यमाणमेकादशमप्यहर्हदि निधाय तेनसहिमेकादशरात्रं प्रशंसति-
एकादशरात्र इति। अस्य क्रतोर्द्रष्टारो वसन्ताद्यृतृदेवताः(वा) पञ्चसंख्याकास्तैदेवः संपादिताः पुष्योदमादय ऋतुसंबन्धिनः स्वभावः पञ्चसंख्याकाः। एवं मिलित्वा दश संपन्नाः। संवत्स एकादशः। एतेन सर्वष्वेकादशरात्रानुष्ठानेन प्रतिषअठां प्रप्य पश्वात्प्रजा प्रप्नुवन्ति।
अथैकादशमहर्विधत्ते-
अतिरात्राविति। एकोनविशस्तोमयुक्तो योऽयमतिराव एकाहविशेषः सोऽयमत्रैकादशमहः। ज्योतिरतिरात्रो भवतीत्युक्तेन प्रथमेनाहा सह निर्देशादतिरत्राविति द्विवचननिर्देशः। सत्रलिङ्गस्योमयतोऽतिरात्रत्वस्य खययापनाय प्रजासाधनस्य क्रतोरूभयतोऽतिरात्रत्वे सति फलभूतायाः प्रजाया उभयतो रक्षा परगृहीता भवति ।।

इति श्रीमत्सायणाचार्यविरचयते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायांभाष्ये सप्तमकाण्डे
द्वितीयप्रपाठके
षष्ठोऽनुवाकः ।। 6।।

[[2564]]

श्रीमत्सायणार्यविरचितभाष्यसमेता- 7षष्ठकाणडे
( एकदशारात्रकथनम् )