(( अथ सप्तमाष्टके द्वितीयप्रपाठक पञ्चमोऽनुवाकः)।
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स एचतं दश॑-
होतारमपश्य॒त्तम॑जुहो॒त्तेन॑ दशरा॒त्रम॑सृजत॒ तेन॑ दश॑-
रा॒त्रेण॒ प्राजा॑यत दशरा॒त्राय॑ दीक्षि॒ष्यमाणा॒ दश॑
होतारं जुहुया॒द्दशहोत्र॒व द॑शरा॒त्रँ सृजते॒ तेनं॑
दशरा॒त्रेण प्र जायते वैरा॒जो वा ए॒ष य॒ज्ञो
यद्द॑शरा॒त्रो य ए॒वं विद्वान्द॑शरा॒त्रेण॒ यजते वि॒रा-
ज॑मेव ग॑च्छति प्राजापत्या वा ए॒ष यज्ञो यद्दशरात्रः
( 1 ) य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यत॒
इन्द्रो॒ वै स॒दृङ्दे॒वता॑भिरासी॒त्स न व्या॒वृत॑मगच्छ॒त्स
प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ एतं द॑शरा॒त्रं प्राय॑च्छ॒त्त-
त्तमाऽह॑रत्तेना॑यजत॒ ततो॒ वै सो॑ऽन्याभि॑र्दे॒वता॑भि-
व्या॒र्वत॑मगच्छ॒द्य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते व्या॒वृ-
त॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छति त्रिककुद्वै ( 2 )
ए॒ष यज्ञो॒ यद्द॑शरा॒त्रः क॒कत्प॑ञ्चद॒शःक॒कृदे॑कवि॒-
ँशः क॒कुत्र॑यस्त्रिँ॒शो य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒
यज॑ते त्रिक॒कुदे॒व स॑मा॒नानां॑ भवति॒ यज॑मानःपञ्चद॒शो यज॑मान एकविँ॒शो यज॑मानस्त्रयस्त्रिँ॒शः
पुर॒ इत॑रा अभिच॒र्यमा॑णो दशरा॒त्रेण॑ यजेत देव-
पु॒रा ए॒व पर्यूहते॒ तस्य॒ न कुत॑श्व॒नोपा॑व्या॒धो भ॑वति॒
[[2556]]
श्रीमत्सायणार्यविरचितभाष्यसमेता- 7षष्ठकाणडे
( दशरात्रकथनम् )
नैन॑मभि॒चर॑न्त्स्तृणुते देवासु॒रा संय॑त्ता आस॒न्ते
दे॒वा ए॒ताः ( 3 ) दे॒व॒पु॒रा अ॑पश्य॒न्यद्द॑शरा॒त्रस्ताः
प॑यार्हौन्त॒ तेषां न कुत॑श्व॒नोपा॑व्या॒धो॑ऽभव॒त्ततो॑ दे॒वा
अभ॑व॒न्पराऽसु॑रा॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स द॑शरा॒त्रेण॑
यजेत देवपु॒रा ए॒व पर्यूहते॒ तस्य॒ न कुत॑श्व॒नोपा॑
व्या॒धो भ॑वति॒ भव॑त्यात्मना॒ परा॑ऽस्य॒ भ्रातृ॑व्यो
भ॑वति॒ स्तोमः॒ स्तोम॒स्योप॑स्तिर्भवति॒ भ्रातृ॑व्यमे॒वो
वोप॑स्तिं कुरूते जाभि॒ वै ( 4 ) ए॒तत्कृ॑र्वन्ति॒
यज्जयायाँस॒ु स्तोम॒स्योपेत्य॒ कनीयाँ समुप॒यन्ति यद॑ग्निष्टोमसा॒मान्य॒वस्ता॑च्च प॒रस्ता॑च्च भव॒न्त्यजा-
मित्वाय त्रि॒वृद॑ग्निष्टो॒मो॑ऽग्निष्टदा॑ग्नयीषु॑ भवति॒ तेज॑
ए॒वाव॑ रून्धे पञ्चद॒श उ॒क्थ्य॑ ए॒न्दीष्वि॑न्द्र॒यमे॒वाव॑
रून्धे त्रि॒वृद॑ग्निष्टो॒मो॑ वैश्वदे॒वीषु॒ पुष्टि॑मे॒वाव॑ रून्धे
सप्तद॒शोऽग्निष्टोमः प्रा॑जाप॒त्यासु॑ तीव्रसो॒मोऽन्नाद्य॒-
स्याव॑रूद्ध्या॒ अथो॒ प्रैव तेन॑ जायते ( 5 ) ए॒क॒-
विँ॒श उ॒क्थ्यः॑ सौ॒रीषु॒ प्रति॑ष्ठित्या॒ अथो रूच॑मे॒
वाऽऽत्मन्ध॑त्ते सप्तद॒शो॑ऽग्निष्टोमः प्रा॑जाप॒त्यासु॑प-
ह॒व्य॑ उपह॒वमे॒व गच्छति त्रिण॒वाव॑ग्निष्टो॒माव॒भित॑
ऐन्दीपु॒ विजि॑त्यै त्रयस्त्रिँ॒श उ॒क्थ्यो॑ वैश्वदे॒वीषु॒
प्रति॑ष्ठित्यै विश्व॒जित्सर्वपृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑
स्य॒भिजि॑त्यै ( 6 ) ।।
( प्रा॒जा॒प॒त्यो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रस्त्रि॒ककुद्वा ए॒ता
वै जा॑यत॒ एक॑त्रिँशच्च )
[[2557]]
प्रपा02अनु05)कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां 2557
( दशरात्रकथनम् )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायांभाष्ये सप्तमकाण्डे
द्वितीयप्रपाठके
एच्चमोऽनुवाकः ।। 5 ।।
( अथ सप्तमाष्टके द्वितीयप्रपाठक पञ्चमोऽनुवाकः)।
चतुर्थेऽनुवाके नवरात्रोऽभिहितः। अथ पञ्चमे दशरात्रोऽभिधीयते।।
तमेतं विधीत्सुरादौ तदङ्गभूतं होम विधते-
प्रजापतिरिती । प्रजा सिसृक्षः प्रजापतिरादौ तत्साधनभूतं दशरात्रकतुमुत्पायितुं तस्यापाति साधनभृत दशहोत्राख्यं ‘ ‘
‘ चत्तिःस्त्रुक्’। चित्तमाज्यम् ’। इत्यादिकं मन्त्रमारण्यकाण्डोक्तं निश्वत्य तेन मन्त्रेण हुत्वा क्रतुं च सृष्ट्वा प्रजा असृजत । तस्मिन्मन्त्रे चित्तिः स्त्रुगित्यारभ्य सामाध्वर्युरित्यन्तैवांक्यैर्होम निषपादकांनां स्त्रुगादीनां दशानामभिनादय मन्त्रे ( दशहोता ) यद्वा तन्मन्त्रा भिमानी पुरूषो दशवारमाहूतः प्रत्यशृणोत् । तस्मादयं दशहोता। तथा च होतृब्राह्मणे सामाम्नायते – आत्मन्नत्मन्नित्यामन्त्रयत। तस्यै दशमँहूतः प्रत्यशृणोत् । स दशहूतोऽभवत्। दशहूतो ह वै नामेषः। तं वा एंत दशहूतँसन्तम्। दशहूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। इति ।
तमेतं मन्त्र दशरात्रदीक्षार्थे जुहुयात् तेन होमेण दशरात्रक्रतुं सृष्ट्वा तेन दशरात्रेण प्रजामुपजीव्य क्रमं प्रशंसति-
वैराजो वा इति । दशसंख्याया विराट्संबन्धित्वाद्विराट्छन्दः साध्यमन्नं पाप्रोतीत्यर्थः।।
प्रजापतिसृष्टत्वेन क्रतोस्तत्संबन्धमुपजीव्य प्रशंसति-
प्रजापत्या इति । प्रजोत्पादनलक्षणं फलमभिधाय पापयलक्षणं फलमभिर्धातु विधत्ते-
इन्द्रो वा इति । पुरा कदाचिदिन्द्रोऽन्याभिर्देवताभिः समान एवाऽऽसीत् , न तु व्यावृत्तिं प्राप्तवान् । बो इन्द्र गच्छ गच्छेत्येव सर्वे देवा व्यवहारिन्त, न तु कश्वदाजन्स्वामिन्निति व्यवहरति । ततः प्रजापतिमुपसेत्र्य तन्मुखाद्दशरात्रं ऋतुवगत्य तदनुष्ठानेन व्यवृत्तिं प्राप्तवान्। एवमन्योऽप्येतदनुष्ठाय पाप्पना भ्रातृव्येण च वियोगं गच्छति ।।
विधानस्यमानेषु दशस्वहःसु त्रयायमामहूनां वृषभसंबन्धिककुत्साम्येनौन्नत्यं संपाद्य प्रशंसति –
[[2558]]
श्रीमत्सायणार्यविरचितभाष्यसमेता- 7षष्ठकाणडे
( दशरात्रकथनम् )
त्रिककुव्दा इति। त्रीणी ककुत्सदृशान्युन्नतस्तोमयुक्तान्यहानि यस्य दशरात्रस्य सोऽयं त्रिककुत्। किं तदुन्नतमहस्त्रयमिति, तदुच्यते- पञ्चदश उक्थयो द्वितीयमहस्तदेक ककुत्स्थानीयम। मथमतृतीययोस्त्रिवृदग्निष्टोमयोरहूनोर्नीचस्तोमयुक्तत्वात् । यथा वृषसंबन्धिककुदः पुरोवर्ती गलभागः पश्वाद्वर्ती पृष्ठभागश्वेत्युभौ निम्नौ तद्वत्। तथैकविंश उक्थ्पः पञ्चममहः तदेकं ककुत्स्थानीयं, चतुर्थषष्ठयोः सप्तदशोक्थ्यरूपयोरहूनोर्निम्नस्थानीयत्वात्। तथा त्रयस्त्रिंश उक्थ्योऽष्टममहः। तदप्येकं ककुत्थानीयं त्रिणवाग्निष्टोमरूपयोः सप्तमनवमयोरहूनोनिम्स्थानीत्वात्। एतं महिमानभज्ञायानुष्ठाने यजमानःसमानानां मध्ये त्रिगुणेनौत्येन प्रजापशुधनादिकृतेन युक्तो भवति । य एतेपञ्चदशैकविंशत्रयस्त्रिंशास्ततिस्थानीयो यजमान इतरा अहस्थानीयाः प्रजायजमानस्यपुरस्थानीया भवन्ति ।प्रथापुरा सर्वासां राजा स्वामी, एवमान्यासां प्रजानां यजमानः स्वामी भवतीत्यर्थः।।
पूर्व दशरात्रस्यान्नप्राप्तिः पापव्यावृत्तिश्वेति फलद्वयं दर्शितम्। अथामि चारबाधनिवृत्तिरूपं फलं दर्शयितुं विधत्ते-
अभिचर्यमाण इति। यमुद्दिश्य शत्रुरभिचारं करोति सोऽयमभिचर्यमाणः। स चाभिचवाधपरिहाराय दशरात्रएण यजेत। तस्मिन्ननुष्ठिते सति देवानां यानि पुराणि बहुविधशूरभटभृत्यपरिपूर्णानि तानि सर्वाणि स्वरक्षार्थे परितः स्थापयति। यः शत्रुरभिचरत सोऽप्येनं न हिनस्ति, तस्य हिंसितुमक्ष मत्वात् । न कुतोऽप्यभिचारदेबोध एतस्य यजमानस्य संभवति ।।
अभिचारबाधनिवृत्तिफलमुक्त्वा शत्रुजयरूपं फलमभिधातुं विधते –
देवासुराः संयुक्ता इति।देवाश्वासुराश्व यदा युद्धोद्य स्तदानीं देवा विजयोपायं विचार्य यो दशरात्रस्तद्रूपाणि देवपुराण्युपायत्वेन निश्वत्य परितस्तानि स्थापितवन्तः तेपां वैरिणां कुतोऽपि भ्रातृव्याभिबाधो न भवति । ततो देवा विजयं प्राप्ता असुराश्व पराजिताः। ततो भ्रातृव्यवान्यजमानो ऽपि दशरात्रेण विजयी भवति। तदीयो भ्रातृव्यश्व पराभवति। किं चात्र ककुदूपस्य पञ्चदशस्तोमस्य समीपवता त्रिवृदादिस्तोम उपस्तिः क्षीणो भवति। तेन भ्रातृव्यमेव क्षीणं करोति।।
अथास्मिन्दशरात्रे कंचिद्विशेष विधत्ते—
[[2559]]
प्रपा02अनु05)कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( दशरात्रकथनम् )
जामि वा इति । यथा लोके कश्वद्राजामात्यादिर्महतीं संपदमनुभूय पश्वद्दारिद्यमनुभवन्नत्यन्तमलसः क्लिष्टो भवति तथाऽत्रापि द्वितीयेऽहनि ज्यायांस पञ्चदशस्तोमं ककुद्रूपमनुष्ठाय ततस्तृतीयेऽहूनि कनीयांस निम्नभागस्थानीयं त्रिवृत्स्तोममनुतिष्ठन्तीति यत्तदेतज्जामि कुर्वन्ति आलस्ययुक्तं कुर्वन्तीत्यर्थः। अत आलस्यपरिहाराय पञ्चदशोक्थयरूपाद्द्वितीयस्मादहनोऽवस्तात्प्रथमेऽहन्युपरष्टाच्च तृतीयेऽहन्यग्निष्टोमसामानि यज्ञायज्ञीयाख्यानि कुर्यात् । तेनाऽऽलस्यं परिहतं भवति। एवमेकाविंशोक्थपरूपात्पञ्चपादहूनः पूर्वोत्तरदिनयोः। त्रयस्त्रिंशोक्थ्यरूपादष्टमादहूनः पूर्वोत्तरदिनयोरप्यग्निष्टोमसंस्याप्रयोजि(ज) कानि यज्ञायज्ञीयसामानि कुर्यात्। तेन सर्वत्राऽऽलस्यं परिहतं भवति।
अथास्य दशरात्रस्य प्रथममहर्विधत्ते- त्रिवृदग्निष्टोम इति।
अग्निविषयो यज्ञायज्ञीयसामसाध्योऽन्तिमस्तोत्रगतः स्तोमो यस्य सोऽयमग्निष्टोमः। तस्येवावान्तरविशेषः कश्विदग्निष्टदित्युच्यते । यत्र सर्वेष्वपि स्तोत्रष्वग्निरेव स्तूयते स च सर्वेऽपि त्रिवृत्स्तोमेनवै युक्तः । सर्वत्राग्नेरेव स्तुत्यत्वादाग्नेयीष्वृक्ष सोऽग्निष्टुद्भवति । तदिदं प्रथममहः। तेन तेजः प्राप्नोति ।।
अथ द्वितीयमहर्विधत्ते –
पञ्चदश इति । सर्वासामृचामिन्द्रविषयत्वादिन्द्रियपाप्तिः।
अथ चतुर्थमहर्विधत्ते-
सप्तदश इति। तीव्र नाम कश्विदुक्थयावान्तरविशेषः। यस्मिन्नाशीर्थ गवा शतं दुहन्ति तमुक्थ्यमग्निष्टोमरूपतामापाद्यानुतिष्ठेत् । पञ्चदशसु स्तोत्राणि च सर्वाणि प्राजापत्यत्वात्प्रजोत्पत्तिश्व भवति। अथ पञ्चममहर्विधत्ते-
एकविँश इति । स्तोमस्यैकविशत्वेन प्रतिष्ठाप्राप्तिः। ऋचां सौरीत्वाद्दीप्तिधारणम् । अथ षष्ठमह
सप्तदशोऽग्निष्टोम इति । उपहव्यो नाम कश्विदिकाहविशेषः। तदनुष्ठानेनेत्रोपहवं सर्वेषामनुज्ञा पूजाविषयां प्रामोति।
[[2560]]
श्रीमत्सायणार्यविरचितभाष्यसमेता- 7षष्ठकाणडे
( एकदशारात्रकथनम् )
अथ सप्तमनवमे अहनी विधत्ते-
त्रिणवाविति। वृक्ष्यमाणस्य त्रयस्त्रिशाख्यस्याहूनः पूर्वोत्तरदिनयोस्त्रिणवस्तोयुक्तावग्निष्टोमौ कार्यौ । तत्र सर्वा अप्यृच ऐन्द्यस्तेन विजयो भवति।
तयोरहनोमर्ध्यममष्टममहर्वधत्ते-
त्रयस्त्रिँश इति । ऋचां सर्वासां वैश्वदेवत्वेन प्रतिष्ठासिद्धः।
अथ दशममहर्विधत्ते-
विश्वजिदिति ।गतम् ।।
इति श्रीमत्सायणाचार्यविरचयते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायांभाष्ये सप्तमकाण्डे
द्वितीयप्रपाठके
पञ्चमोऽनुवाकः ।। 5।।