(( अथ सप्तमाष्टके द्वितीयप्रपाठक चतुर्थोऽनुवाकः)।
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः सृष्टाः क्षुधं॒
न्या॑य॒न्त्स ए॒तं न॑वरा॒त्रम॑पश्य॒त्तमाऽह॑र॒त्तेना॑यजत॒
ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत॒ यार्हि॑ प्रजाः क्षुधं नि॒ग-
च्छे॑यु॒स्तर्हि॑ नवरा॒त्रेण॑ यजेते॒मे हि वा ए॒तासां
लो॒का अक्ऌप्ता॒ अथै॒ताः क्षुधं॒ नि ग॑च्छन्ती॒मा-
ने॒वाऽऽभ्यो॑ लो॒कान्क॑ल्पयति॒ तान्क प॑मानान्प्र॒जा-
भ्योऽनु॑ कल्पते॒ कल्पते॒ ( 1 ) अ॒स्मा॒ इ॒मे लो॒का
ऊर्ज॑ प्र॒जासु॑ दधाति त्रिरा॒त्रेणै॒वेमं लो॒कं कल्पयति
त्रिरा॒त्रेणा॒न्तरि॑क्षं त्रिरा॒त्रेणा॒मं लोकं यथा॑ गु॒णे
गु॒णम॒न्वस्य॑त्ये॒वमे॒व तल्लो॒के लो॒कमन्व॑स्पति॒ धृत्या॒
अशि॑थिलंभावाय॒ ज्योति॒गौरायु॒रिति ज्ञा॒ताः
स्तोमा॑ भवन्ती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गोर॒सा-
वाय॑रे॒ष्वे॑व लो॒केष॒ प्रति॑ तिष्ठन्ति॒ ज्ञात्रं प्र॒जाना॑म
( 2 ) ग॒च्छ॒ति॒ न॒व॒रा॒त्रो॒ भ॑वत्यभिपू॒र्वमेवास्मि॒न्ते-
[[2553]]
प्रपा02अनु04)कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( नवरात्रकथनम् )
जो॑ दधाति॒ यो ज्योगा॑मयावी॒ स्यात्स न॑वरा॒-
त्रेण॑ यजेत प्रा॒णा हि वा ए॒तस्याधृ॑ता॒ अथै॒तस्य॒
ज्योगा॑मयति प्रा॒णाने॒वास्मि॑न्दाधारो॒त यदी॒तास॒-
भव॑ति॒ जीव॑त्ये॒व ( 3 ) ।।
( कल्प॑न्ते प्र॒जाना॒ त्रय॑स्त्रिँशच्च )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायांभाष्ये सप्तमकाण्डे
द्वितीयप्रपाठके चतुर्थोऽनुवाकः ।। 4 ।।
( अथ सप्तमाष्टके द्वितीयप्रपाठक चतुर्थोऽनुवाकः)।
तृतीयेऽनवकेऽष्टरात्रोऽभिहितः। चतुर्थो
अथ नवरात्रोऽभधीयते।। तमेतं विधत्ते –
प्रजापतिः प्रजा इति नयायन्नितरां प्राप्तु न् प्रजाभ्योऽकल्पत प्रजानाक्षुन्निवारणाय समर्थोऽभूत् । अतो यत्मिन्काले प्रजा अन्नाभावेत क्षुधं नितरा प्रप्नुवन्ति तदा नवरात्रेण यजेत। इमे भूम्यादयो लोकः सस्यानिष्पत्यभावेनैतासां प्रजाना क्षुन्निवारणार्थसमर्था यदा भवन्ति तदानीमेताः क्षुधं नितरां प्रप्नुवन्ति। नवरात्रयागेने(ण) पाल्लोँकानेतासां प्रजानां क्षुन्निवारण-
समर्थान्करोति लोकेषु सस्यं बहु निष्पद्यत इत्यर्थः। तानसमर्थाल्लोकाननु यजमानोऽपि प्रजानां रक्षणे समर्थो भवति । ते च लोका यजमानार्थे समर्था भवति । ते च लोका यजमानार्थ समर्थाभवन्ति यजमानस्येच्छानुसारेण सस्यं निष्यादयन्तीत्यर्थः। ततो यजमानः प्रजास्वन्नरसं स्थापयति ।।
अथ नवरात्रं विभज्य चदवयवैस्त्रिभिर्लोकत्रयसामर्थे दर्शयन्दृष्टान्तपुरःसरं प्रशंसति –
त्रिरात्रेणेविममिति।नवरात्रमध्येयोऽयमाद्यस्त्रिभिर्लोत्रयस्तेन भूलोकं क्षुन्निवारणसमर्थ करोति। यदा तृतीयवारमावत्यर्तते तेन तदा स्वर्ग समर्थ करोति। तत्र दृष्टान्तः- यथा लोके त्रिवृदज्जं सिसृक्षः पुरूष एकस्मिन्सूत्रे द्वितीयं सूत्रं योजयति ततस्तृतीयमपि योजयति एवंमतेन त्रिरात्रेन पुनः पुनरभ्यस्तेनैतस्मि
[[2554]]
श्रीमत्सायणार्यविरचितभाष्यसमेता- 7षष्ठकाणडे
( नवरात्रकथनम् )
ल्लोके प्रथमं समर्थे सति ततो द्वितीयं तृतीयं च लोकं समर्थ करोति। एतच्च सर्वासां प्रजानां धारणाय लोकानामशैथिल्यास च संपद्यते ।।
इदानीमावर्त्यमानस्य त्रिरात्रस्यावयवभूतान्यहानि विधत्ते –
ज्योतिगौरादिशब्दत्रयपूर्वकाः स्तोमशब्दनामिधीषमानाः सामगैः सर्वैर्ज्ञातास्त्रयोऽहर्विशेषा विद्यते। त एवात्राहर्विशेषाः कर्तव्याः। ज्योतिष्टोमः प्रथममहः गोष्टोमो द्वितीयमहः, आयुष्टोमस्तुतीयमहः । एते चाह विशेषा अत्रापि गवायमनप्रसङ्ग स्पष्टी भविष्यन्ति । ज्योतिष्टोमं प्रथममुपयन्ति गोष्टोमं द्वितीयमुपयन्तत्यायुष्टीयं तृतीयमुपयन्तीति ह्यमिधास्ते । एतेषां च स्तोत्रियावैषम्येण भेदः । अत एतस्मिन्प्रसङ्ग आम्नास्यते- ‘ एकया गौरतिरिक्तः।
एकयाऽऽयुरूनः ’ । इति । ज्योतिष्टोमे यावत्यः स्तोत्रिया गोष्टे मे तावतीभ्योऽप्येकाऽधिका । आयुष्टोमेऽप्येका न्यूना ।
एवमस्यामपि शाखायां ज्ञाताः प्रसिध्दः। सामशाखायां तु त्रिकद्रुका इति ज्ञाताः प्रसिद्धाः। त एतेऽत्रानुष्ठेयाः। ज्योतिरादीनां लोकत्रयरूपत्वातेष्वयं प्रतितिष्ठति। किंच प्रजानां मध्ये ज्ञात्रं गच्छति क्षुन्निवर्तकोऽयमित्येवं सर्वैर्ज्ञातत्वं ज्ञाताः ख्यातिं प्राप्नोतीत्यर्थः- ज्योतिगौरायुरित्ययमेव त्रिरात्र आवर्त्यमानो नवरात्रः संपद्यते। अत एव सूत्रकारेणोक्तम् – शललीपिशङ्गिनान्न द्यकामो ज्योतिगौरायुर्गौज्योतिविरात्रः
इति। चतुर्विधेषुनवरात्रयोगेष्विवदानीमुच्यामानस्य शललीपिशङ्गि इत्येतन्नाम।। नवरात्रक्रतुं प्रशंसति –
नवरात्र इति। योऽयं ज्योतिरादिकस्त्रिरात्रः स एवाऽऽवर्त्यमानो नवरात्रोभवति। तदनुष्ठानेनाभिपूर्वमेवानुक्रमेणैव यजमाने तेजः संपा दयति।
सकृदनुष्ठितस्त्ररात्रो द्विरनुष्ठितः षड्रात्रस्त्रिरनुष्ठतो नवरात्रः। एवं ते जोऽप्युत्तरोत्तरं वर्धत इत्यर्थः ।।
तदेवमन्नसंपादनद्वारा क्षुन्निवारणार्थ नवरात्रो विहितः । अथ दीर्घरोग निवृत्यर्थमपि तमेव विधत्ते –
यो ज्योगामयाविति । ज्योगामयावी विरकाले निरोगयुक्तः। तस्य पुरूषस्य प्राणा यदा धातुयैषम्यादधृता धारयितुमशक्या भवन्ति तदानीमेतस्य पुरूषस्य ज्योगामयति दीर्घरोग उत्पद्यते। नवरात्रानुष्ठानेन प्राणानास्मिधारयत्येव। अपि च रोग धिक्यान्मूर्छया पूर्व मुहूर्तमात्रं याममात्रं वा गतप्राणो भवति, तदाऽप्येतत्क्रतुसामर्थ्यादयं पुनर्जीवत्येव ।।
[[2555]]
प्रपा02अनु05)कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
( दशरात्रकथनम् )
इति श्रीमत्सायणाचार्यविरचयते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायांभाष्ये सप्तमकाण्डे
द्वितीयप्रपाठके
चतुर्थोऽनुवाकः ।। 4 ।।