(( अथ सप्तमाष्टके द्वितीयप्रपाठक तृतीयोऽनुवाकः)।
बृह॒स्पति॑रकामयत ब्रह्मवर्च॒सी स्मा॒मिति॒ स
एतम॑ष्ठरा॒त्रम॑पश्य॒त्तमाऽह॑र॒त्तेना॑यजत॒ ततो॒ वै स
ब्रह्मवर्च॒स्ये॑वभवद्य एं॒व विद्वान॑ष्टरा॒त्रेण॒ यज॑ते
ब्रह्मवर्च॒स्ये॑व भ॑वत्यष्टरा॒त्रो भ॑वत्यष्टक्ष॑रा गाय॒त्री
गाय॒त्री ब्रह्मवर्च॒सं गाय॒त्रीयैव ब्रह्मवर्च॒संमव॑ रून्धेऽ–
ष्टरा॒त्रो भ॑वति॒ चत॑श्त्रो॒ वै दिश॒श्वत॑स्त्रोऽवान्तर-
दि॒शा दि॒ग्भ्य ए॒व ब्रह्मवर्च॒संमव॑ रून्धे ( 1 )
त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रून्धे पञ्चद॒शो
भ॑वतीन्द्रियमे॒वाव॑ रून्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑-
रूद्ध्या अथो॒ प्रैव तेन॑ जायत एकविँ॒शो भ॑वति॒
प्रति॑ष्ठित्या॒ अथो रूच॑मे॒वाऽऽत्मन्ध॑त्ते त्रिण॒वो भ॑वति॒
विजि॑त्यै त्रयस्त्रिँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै पञ्चविँ॒
शो॑ऽग्निष्टोमो भ॑वति प्रजाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्न-
द्य॒स्याव॑रूद्ध्यै विश्व॒जित्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒
सर्व॑स्य॒भिजि॑त्यै ( 2 ) ।।
( दि॒ग्म्य ए॒व ब्रह्मवर्च॒सं रून्धेऽमिजित्यै )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायांभाष्ये सप्तमकाण्डे
द्वितीयप्रपाठके
तृतीयोऽनुवाकः ।। 3।।
( अथ सप्तमकाण्डेद्वितीयप्रपाठके तृतीयोऽनुवाकः )
द्वितीये सप्तरात्रोऽभिहितः । अथ तृतीयेऽष्टरात्रोऽविधीयते-
बृहस्पतिरिति । पूर्वत्र कुसुरूविन्देन बाल्य एवाध्ययनकाले सप्तरात्रस्य॑ गुरूमुखेन(ण) निश्वितत्वात्कामनाया उर्ध्व दर्शनं नापेक्षितमिति नोक्तम् ।

[[2552]]

श्रीमत्सायणार्यविरचितभाष्यसमेता- 7षष्ठकाणडे
( नवरात्रकथनम् )
इह तु तदभावादपश्यदित्युक्तम्। गायत्र्या
अष्टाक्षरत्वाद्दिशामवान्तरदिशां च मिलित्वाऽष्टसंख्योपेतत्वासंख्याद्वारा तदुभयमुखेन ब्रह्मवर्चसप्राप्तिः।।
अथाहर्विशेषान्विधत्ते-
त्रिवृदग्निष्टोम इति । पूर्वत्र पञ्चव पृष्ठयषहगतान्यहानि। षष्ठः पञ्चविंशोऽग्निष्टोमः। इह तु तस्य सप्तमत्वाषाडहगतान्यहानि। सर्वाण्यप्यहानि क्रमेणैवानुष्ठेयानि। अतिरात्रोऽष्टमः ।।

इति श्रीमत्सायणाचार्यविरचयते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायांभाष्ये सप्तमकाण्डे
द्वितीयप्रपाठके
तृतीयोऽनुवाकः ।। 3 ।।